गरुडपुराणम्/आचारकाण्डः/अध्यायः १५२

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः १५१ गरुडपुराणम्
अध्यायः १५२
वेदव्यासः
आचारकाण्डः, अध्यायः १५३ →

श्रीगरुडमहापुराणम् १५२
धन्वन्तरिरुवाच ।
अथातो यक्ष्मरोगस्य निदानं प्रवदाम्यहम् ।
अनेकरोगानुगतो बहुरोगपुरोगमः ॥ १,१५२.१ ॥

राजयक्ष्मा क्षयः शोषो रोगराडिति कथ्यते ।
नक्षत्राणां द्विजानाञ्च राज्ञोऽभूद्यदयं पुरा ॥ १,१५२.२ ॥

यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ।
देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः ॥ १,१५२.३ ॥

रसादिशोषणाच्छोषो रोगराडिति राजवत् ।
साहसं वेगसंरोधः शुक्रौजः स्नेहसंक्षयः ॥ १,१५२.४ ॥

अन्नपानविधित्यागश्चत्वारस्तस्यहेतवः ।
तैरुदीर्णोऽनिलः पित्तं व्यर्थं चोदीर्य सर्वतः ॥ १,१५२.५ ॥

शरिरसन्धिमाविश्य ताः शिराः प्रतिपीडयन् ।
मुखानि स्रोतसां रुद्ध्वा तथैवातिविसृज्य वा ॥ १,१५२.६ ॥

मध्यमूर्ध्वमधस्तिर्यगव्यथां सञ्जनयेद्धृदः ।
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं ज्वरः ॥ १,१५२.७ ॥

प्रसेको मुखमाधुर्यं मार्दवं वह्निदे हयोः ।
लौल्यभावोऽन्नपानादौ शुचावशुचिवीक्षणम् ॥ १,१५२.८ ॥

मक्षिकातृणकेशादिपातः प्रायोऽन्नपानयोः ।
हृल्लासश्छर्दिररुचिरस्नातेऽपि बलक्षयः ॥ १,१५२.९ ॥

पाण्योरुवक्षः पादास्यकुक्ष्यक्ष्णोरतिशुक्लता ।
बाह्वोः प्रतोदो जिह्वायाः काये बैभत्स्यदर्शनम् ॥ १,१५२.१० ॥

स्त्रीमद्यमांसप्रियता घृणिता मूर्धगुण्ठनम् ।
नखकेशास्थिवृद्धिश्च स्वप्ने चाभिभवो भवेत् ॥ १,१५२.११ ॥

पतनं कृकलासाहिकपिश्वापदपक्षिभिः ।
केशास्थितुषभस्मादितरौ समधिरोहणम् ॥ १,१५२.१२ ॥

शून्यानां ग्रामदेशानां दर्शनं शुष्यतोऽम्भसः ।
ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम् ॥ १,१५२.१३ ॥

पीनसश्वासकासं च स्वरमूर्धरुजोऽरुचिः ।
ऊर्ध्वनिः श्वाससंशोषावधश्छर्दिश्च कोष्ठगे ॥ १,१५२.१४ ॥

स्थिते पार्श्वे च रुग्बोधे सन्धिस्थे भवति ज्वरः ।
रूपाण्यैकादशैतानि जायन्ते राजयक्ष्मणः ॥ १,१५२.१५ ॥

तेषामुपद्रवान्विद्यात्कण्ठध्वंसकरी रुजाः ।
जृम्भाङ्गमर्दनिष्ठीववह्निमान्द्यास्यपूतिता ॥ १,१५२.१६ ॥

तत्र वाताच्छिरः पार्श्वशूलनं सांगमर्दनम् ।
कण्ठरोधः स्वरभ्रंशः पित्तात्पादांसपाणिषु ॥ १,१५२.१७ ॥

दाहोऽतिसारोऽसृक्छर्दिर्मुखगन्धो ज्वरो मदः ।
कफादरोचकच्छर्दिकासा अर्ध्वां गगौरवम् ॥ १,१५२.१८ ॥

प्रसेकः पीनसः श्वासः स्वरभेदोऽल्पवह्निता ।
दोषैर्मन्दानलत्वेन शोथलेपकफोल्बणैः ॥ १,१५२.१९ ॥

स्रोतोमुखेषु रुद्धेषु धातुषु स्वल्पकेषु च ।
विदाहो मनसः स्थाने भवन्त्यन्ये ह्युपद्रवाः ॥ १,१५२.२० ॥

पच्यते कोष्ठ एवान्नमम्लयुक्तै रसैर्युतम् ।
प्रायोऽस्य क्षयभागानां नैवान्नं चाङ्गपुष्टये ॥ १,१५२.२१ ॥

रसो ह्यस्य न रक्ताय मांसाय कुरुते तु तत् ।
उपष्टब्धः समन्ताच्च केवलं वर्तते क्षयी ॥ १,१५२.२२ ॥

लिङ्गेष्वल्पेष्वतिक्षीणं व्याधौ षट्करणक्षयम् ।
वर्जयेत्साधयेदेव सर्वेष्वपि ततोऽन्यथा ॥ १,१५२.२३ ॥

दोषैर्व्यस्तैः समस्तैश्च क्षयात्सर्वस्य मेदसः ।
स्वरभेदो भवेत्तस्य क्षामो रूक्षश्चलः स्वरः ॥ १,१५२.२४ ॥

शुकवर्णाभकण्ठत्वं स्निग्धोष्णोपशमोऽनिलात् ।
पित्तात्तालुगले दाहः शोषो भवति सन्ततम् ॥ १,१५२.२५ ॥

लिम्पन्निव कफैः कण्ठं मुखं घुरघुरायते ।
स्वयं विरुद्धैः सर्वैस्तु सर्वालिङ्गैः क्षयो भवेत् ॥ १,१५२.२६ ॥

धूमायतीव चात्यर्थमुदेति श्लेष्मलक्षणम् ।
कृच्छ्रसाध्याः क्षयाश्चात्र सर्वैरल्पञ्च वर्जयेत् ॥ १,१५२.२७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे यक्ष्मनिदाना नाम द्विपञ्चाशदुत्तरशततमोऽध्यायः