गरुडपुराणम्/आचारकाण्डः/अध्यायः १४३

विकिस्रोतः तः
Jump to navigation Jump to search
← आचारकाण्डः, अध्यायः १४२ गरुडपुराणम्
अध्यायः १४३
वेदव्यासः
आचारकाण्डः, अध्यायः १४४ →

श्रीगरुडमहापुराणम् १४३
ब्रह्मोवाच ।
रामायणमतो वक्ष्ये श्रुतं पापविनाशनम् ।
विष्णुनाभ्यब्जतो ब्रह्मा मरीचिस्तत्सुतोऽभवत् ॥ १,१४३.१ ॥

मरीचेः कश्यपस्तस्माद्रविस्तस्मान्मनुः स्मृतः ।
मनोरिक्ष्वाकुरस्याभूद्वंशे राजा रघुः स्मृतः ॥ १,१४३.२ ॥

रघोरजस्ततो जातो राजा दशरथो बली ।
तस्य पुत्रास्तु चत्वारो महाबलपराक्रमाः ॥ १,१४३.३ ॥

कौसल्यायाम भूद्रामो भरतः कैकयीसुतः ।
सुतौ लक्ष्मणशक्षुघ्नौ सुमित्रायां बभूवतुः ॥ १,१४३.४ ॥

रामो भक्तः पितुर्मातुर्विश्वामित्रादवाप्तवान् ।
अस्त्रग्रामं ततो यक्षीं ताटकां प्रजघान ह ॥ १,१४३.५ ॥

विशावमित्रस्य यज्ञे वै सुबाहुं न्यवधीद्बली ।
जनकस्य क्रतुं गत्वा उपयेमेऽथ जानकीम् ॥ १,१४३.६ ॥

ऊर्मिलां लक्ष्मणो वीरो भरतो माण्डवीं सुताम् ।
शत्रुघ्नो वै कीर्तिमतीं कुशध्वजसुते उभे ॥ १,१४३.७ ॥

पित्रादिभिरयोध्यायां गत्वा रामादयः स्थिताः ।
युधाजितं मातुलञ्च शत्रुघ्नभरतौ गतौ ॥ १,१४३.८ ॥

गतयोर्नृपवर्योऽसौ राज्यं दातुं समुद्यतः ।
स रामाय तत्पुत्राय कैकेय्या प्रार्थितस्तदा ॥ १,१४३.९ ॥

चतुर्दशसमावासो वनेरामस्य वाञ्छितः ।
रामः पितृहितार्थञ्च लक्ष्मणेन च सीतया ॥ १,१४३.१० ॥

राज्यञ्च तृणवत्त्यक्त्वा शृङ्गवेरपुरं गतः ।
रथं त्यक्त्वा प्रयागञ्च चित्रकूटगिरिं गतः ॥ १,१४३.११ ॥

रामस्य तु वियोगेन राजा स्वर्गं समाश्रितः ।
संस्कृत्य भरतश्चागाद्राममाह बलान्वितः ॥ १,१४३.१२ ॥

अयोध्यान्तु समागत्य राज्यं कुरु महामते ।
स नैच्छत्पादुके दत्त्वा राज्याय भरताय तु ॥ १,१४३.१३ ॥

विसर्जितोऽथ भरतो रामराज्यमपालयत् ।
नन्दिग्रामे स्थितो भक्तो ह्ययोध्यां नाविशद्व्रती ॥ १,१४३.१४ ॥

रामोऽपि चित्रकूटाच्च ह्यत्रेराश्रममाययौ ।
नत्वा सुतीक्ष्णं चागस्त्यं दण्डकारण्यमागतः ॥ १,१४३.१५ ॥

तत्र शूर्पणखा नाम राक्षसी चात्तुमागता ।
निकृत्य कर्णो नासे च रामेणाथापवारिता ॥ १,१४३.१६ ॥

तत्प्रेरितः खरश्चागाद्दूषणस्त्रिशिरास्तथा ।
चतुर्दशसहस्रेण रक्षसान्तु बलेन च ॥ १,१४३.१७ ॥

रामोऽपि प्रेषयामास बाणैर्यमपुरञ्च तान् ।
राक्षस्या प्रेरितोऽभ्यागाद्रावणो हरणाय हि ॥ १,१४३.१८ ॥

मृगरूपं स मारीचं कृत्वाग्रेऽथ त्रिदण्डधृक् ।
सीतया प्रेरितो रामो मारीचं निजघान ह ॥ १,१४३.१९ ॥

म्रियमाणः स च प्राह हा सीते ! लक्ष्मणोति च ।
सीतोक्तो लक्ष्मणोऽथागाद्रामश्चानुददर्श तम् ॥ १,१४३.२० ॥

उवाच राक्षसी माया नूनं सीता हृतेति सः ।
रावणोऽन्तरमासाद्य ह्यङ्केनादाय जानकीम् ॥ १,१४३.२१ ॥

जटायुषं विनिर्भिद्य ययौ लङ्कां ततो बली ।
अशोकवृक्षच्छायायां रक्षितां तामधारयत् ॥ १,१४३.२२ ॥

आगत्य रामः सून्याञ्च पर्णशालां ददर्श ह ।
शोकं कृत्वाथ जानक्या मार्गणं कृतवान्प्रभुः ॥ १,१४३.२३ ॥

जटायुषञ्च संस्कृत्य तदुक्तो दक्षिणां दिशम् ।
गत्वा सख्यं ततश्चक्रे सुग्रीवेण च राघवः ॥ १,१४३.२४ ॥

सप्त तालान्विनिर्भिद्य शरेणानतपर्वणा ।
वालिनञ्च विनिर्भिद्य किष्किन्धायां हरीश्वरम् ॥ १,१४३.२५ ॥

सुग्रीवं कृतवान्राम ऋश्यमूके स्वयं स्थितः ।
सुग्रीवः प्रेषयामास वानरान्पर्वतोपमान् ॥ १,१४३.२६ ॥

सीताया मार्गणं कर्तुं पूर्वाद्याशासु सोत्सवान् ।
प्रतीचीमुत्तरां प्राचीं दिशं गत्वा समागताः ॥ १,१४३.२७ ॥

दक्षिणान्तु दिशं ये च मार्गयन्तोऽथ जानकीम् ।
वनानि पर्वतान्द्वीपान्नदीनां पुलिनानि च ॥ १,१४३.२८ ॥

जानकीन्ते ह्यपश्यन्तो मरणे कृतनिश्चयाः ।
सम्पातिवचनाज्ज्ञात्वा हनूमान्कपिकुञ्जरः ॥ १,१४३.२९ ॥

शतयोजनविस्तीर्णं पुप्लुवे मकरालयम् ।
अपश्यज्जानकीं तत्र ह्यशोकवनिकास्थिताम् ॥ १,१४३.३० ॥

भर्त्सितां राक्षसीभिश्च रावणेन च रक्षसा ।
भव भार्येति वदता चिन्तयन्तीञ्च राघवम् ॥ १,१४३.३१ ॥

अङ्गुलीयं कपिर्दत्त्वा सीतां कौशल्यमब्रवीत् ।
रामस्य तस्य दूतोऽहं शोकं मा कुरु मैथिलि ॥ १,१४३.३२ ॥

स्वाभिज्ञानञ्च मे देहि येन रामः स्मरिष्यति ।
तच्छ्रुत्वा प्रददौ सीता वेणीरत्नं हनूमते ॥ १,१४३.३३ ॥

यथा रामो नयेच्छीघ्रं तथा वाच्यं त्वया कपे ।
तथेत्युक्त्वा तु हनुमान्वनं दिव्यं बभञ्ज ह ॥ १,१४३.३४ ॥

हत्वाक्षं राक्षसांश्चान्यान्बन्धनं स्वयमागतः ।
सर्वैरिन्द्रजितो बाणैर्दृष्ट्वा रावणमब्रवीत् ॥ १,१४३.३५ ॥

रामदूतोऽस्मि हनुमान्देहि रामाय मैथिलीम् ।
एतच्छ्रुत्वा प्रकुपितो दीपयामास पुच्छकम् ॥ १,१४३.३६ ॥

कपिर्ज्वलितलाङ्गूलो लङ्कां देहेऽ महाबलः ।
दग्ध्वा लङ्कां समायातो रामपार्श्वं स वानरः ॥ १,१४३.३७ ॥

जग्ध्वा फलं मधुवने दृष्टा सीतत्यवेदयत् ।
वेणीरत्नञ्च रामाय रामो लङ्कापुर्री ययौ ॥ १,१४३.३८ ॥

ससुग्रीवः स हनुमान्सांगदश्च सलक्ष्मणः ।
विभीषणोऽपि सम्प्राप्तः शरणं राघवं प्रति ॥ १,१४३.३९ ॥

लङ्कैश्वर्येष्वभ्यषिञ्चद्रामस्तं रावणानुजम् ।
रामो नलेन सेतुञ्च कृत्वाब्धौ चोत्ततार तम् ॥ १,१४३.४० ॥

सुवेलावस्थितश्चैव पुरीं लङ्कां ददर्शह ।
अथ ते वानरा वीरा नीलाङ्गदनलादयः ॥ १,१४३.४१ ॥

धूम्रधूम्राक्षवीरेन्द्रा जाम्बवत्प्रमुखास्तदा ।
मैन्दद्विविदमुख्यास्ते पुरीं लङ्कां बभञ्जिरे ॥ १,१४३.४२ ॥

राक्षसांश्च महाकायान्कालाञ्जनचयोपमान् ।
रामः सलक्ष्मणो हत्वा सकपिः सर्वराक्षसान् ॥ १,१४३.४३ ॥

विद्युज्जिह्वञ्च धूम्राक्षं देवान्तकनरान्त कौ ।
महोदरमहापार्श्वावतिकायं महाबलम् ॥ १,१४३.४४ ॥

कुम्भं निकुम्भं मत्तञ्च मकराक्षं ह्यकम्पनम् ।
प्रहस्तं वीरमुन्मत्तं कुम्भकर्णं महाबलम् ॥ १,१४३.४५ ॥

रावणिं लक्ष्मणोऽच्छिन्त ह्यस्त्राद्यै राघवो बली ।
निकृत्य बाहुचक्राणि रावणन्तु न्यपातयन् ॥ १,१४३.४६ ॥

सीतां शुद्धां गृहीत्वाथ विमाने पुष्पके स्थितः ।
सवानरः समायातो ह्ययोध्यां प्रवरां पुरीम् ॥ १,१४३.४७ ॥

तत्र राज्यं चकाराथ पुत्त्रवत्पालयन्प्रजाः ।
दशाश्वमेधानाहृत्य गयाशिरसि पातनम् ॥ १,१४३.४८ ॥

पिण्डानां विधिवत्कृत्वा दत्त्वा दानानि राघवः ।
पुत्रौ कुशलवौ दृष्ट्वा तौ च राज्येऽभ्यषेचयत् ॥ १,१४३.४९ ॥

एकादशसहस्राणि रामो राज्यमकारयत् ।
शत्रुघ्नो लवणं जघ्ने शैलूषं भतस्ततः ॥ १,१४३.५० ॥

अगस्त्यादीन्मुनीन्नत्वा श्रुत्वोत्पत्तिञ्च रक्षसाम् ।
स्वर्गं गतो जनैः सार्धमयोध्यास्थैः कृतार्थकः ॥ १,१४३.५१ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रामायणवर्णनं नाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः