गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ५१-५५

विकिस्रोतः तः
← अध्यायाः ४६-५० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ५१-५५
[[लेखकः :|]]
अध्यायाः ५६-६० →

अध्याय ५१ प्रारंभ :-
पार्वत्युवाच ।
तव वाक्यामृतेनाहं पितः प्रीताऽस्मि सांप्रतम्।
परन्तु संशयो मेऽस्ति तं नुदस्व हिमालय । ॥१॥
केन केन कृतं पूर्वं व्रतमेतन्महीधर ।
आख्यानं केन वा कस्मै कां कां सिद्धिमितोऽगमत् ।
एतत्सविस्तरं ब्रूहि संशयच्छेदनाय मे ।
यश्च पृच्छति यो वक्ति गजानन कथा शुभाः ॥३॥
शृणोत्यन्योऽपि यो मर्त्यस्त्रयस्ते पुण्यभागिनः ।
जीवितं सफलं तेषां जन्म ज्ञानं च कर्म च ॥४॥
ब्रह्मोवाच ।
एवं तया कृतप्रश्नो हिमवानभ्यभाषत ।
वरदस्य गणेशस्य नानाजनकृतं व्रतम् ॥५॥
हिमवानुवाच ।
शृणु पार्वति वक्ष्यामि संवादं ते पुरातनम् ।
सेतिहासं व्रतस्यास्य सर्वसिद्धिकरस्य ह ॥६॥
कैलासे गिरिवर्ये तु सुखासीनं जगद्गुरुम ।
क्रीडमानं मुदा देवैर्गन्धर्वैः परमर्षिभिः ॥७॥
नत्वा स्तुत्वा महातेजाः परिपप्रच्छ षण्मुखः ॥८॥
स्कन्द उवाच ।
देवदेव जगन्नाथ भक्तानामभयंकर ।
नानाख्यानानि दिव्यानि श्रुतानि त्वत्प्रसादतः ॥९॥
तृप्तिं नात न गच्छामि पायं पायं सुधामिव ।
अधुना ब्रूहि मे देव व्रतं सर्वार्थसिद्धिदम् ॥१.५१.१०॥
अनुष्ठानेन यस्याथ करस्था सिद्धयो नृणाम् ।
जायन्ते साधकानां तु वरदस्य प्रसादतः ॥११॥
शिव उवाच ।
साधु पृष्टं त्वया स्कन्द सर्वेषां हितकारकम् ।
कथयामि तव प्रीत्या महासिद्धिप्रदं भुवि ॥१२॥
विनायकप्रियं तात व्रतानामुत्तमं व्रतम् ।
सर्वेषां पुरुषार्थानां साधकं कृत्तिकात्मज ॥१३॥
विना यज्ञैस्तथा दानैर्जपहोमादिभिर्विना ।
सर्वसिद्धिकरं स्कन्द पुत्रपौत्रप्रवर्धनम् ॥१४॥
राजानं राजपुत्रं वा तन्मन्त्रिणमथापि वा।
वशमानयति क्षिप्रं व्रतमेतन्मऽहत्तमम् ॥१५॥
महापापोपपापैश्च बहुजन्मसुसंचितैः ।
व्रतस्यास्य प्रभावेण तैः पुमान्मुच्यते क्षणात् ॥१६॥
भाजनं सर्वसिद्धीनां जायते मानवो भुवि ।
प्रीतिदं तु गणेशस्य नानेन सदृशं क्षितौ ॥१७॥
स्कन्द उवाच ।
तात कस्मिन्भवेन्मासि व्रतमेतन्महोत्तमम्।
निधानं कीदृशं चास्य केन वाऽऽचरितं पुरा ॥१८॥
सर्वमेतन्ममाचक्ष्व यद्यस्ति करुणा मयि ।
शिव उवाच ।
नभः शुक्लचतुर्थ्यां तु स्नात्वा गुरुगृहं व्रजेत् ।
प्रणम्य तं गुरुं पश्चात्पूजयित्वा यथाविधि ॥१९॥
पाद्याचमनवस्त्राद्यैर्भूषणैश्च महत्तरैः ।
तोषयित्वा तु तं सम्यगाज्ञया प्रारभेद् व्रतम् ॥१.५१.२०॥
सर्वसिद्धिकरं तात व्रतं गाणेश्वरं गुरो ।
त्वमेव श्रीगणेशोऽसि दिश कामप्रदं प्रभो ॥२१॥
उपदिष्टे व्रते तेन सार्धं गंगातटं व्रजेत् ।
तडागं वा देवखातं तत्र स्नायाद्यथाविधि ॥२२॥
श्वेतसर्षपयुक्तेन तिलकल्केन षण्मुख ।
स्नात्वा धात्रीयुतेनेह कृत्वा नित्यं गृहं व्रजेत् ॥२३॥
उपविश्यासने शुद्धे पूजयित्वा गणाधिपम् ।
गुरूपदिष्टमार्गेण व्रतं पश्चात्समारभेत् ॥२४॥
मृदामूर्तिं गणेशस्य चतुर्थ्यां श्रावणस्य तु ।
प्रत्यहं पूजयेत्कृत्वा यावद् भाद्रचतुर्थिका ॥२५॥
ब्रह्मचर्यव्रते स्थित्वा कर्तव्यं व्रतमुत्तमम् ।
उपवासैकभक्ताभ्यां नक्तेनायाचितेन वा ॥२६॥
चतुर्थकाले भुंजीत हविष्यान्नं समाहितः ।
अक्षरं मधुरं भुंजन् भक्तिमानाचरेद् व्रतम् ॥२७॥
जपन् गाणेश्वरीं विद्यां षडानन षडक्षरीम् ।
द्विचतुरक्षरां वापि तथैवैकाक्षरामपि ॥२८॥
दशाक्षरामथ स्कन्द द्वादशार्णामथापि वा।
नियुतं वाऽयुतं वापि प्रत्यहं जप इष्यते ॥२९॥
तदर्धं वा तदर्धं वा दशांशं होममाचरेत् ।
ध्यायन् गजाननं देवमहोरात्रमतन्द्रितः ॥१.५१.३०॥
प्राप्ते प्रोष्ठपदे मासि चतुर्थ्यां तु गजाननम्।
सौवर्ण पलमानेन तदर्धांर्धेन वा पुनः ॥३१॥
मयूरवाहनं कुर्यादथवा ऽऽखुगतं शुभम् ।
कृत्वा मंडपिकां तत्र धान्यराशिं प्रकल्पयेत् ॥३२॥
सौवर्णं राजतं ताम्रं कलशं स्थापयेत्ततः ।
तस्योपरि न्यसेत्पात्रं रुक्मराजतताम्रकम् ॥३३॥
वस्त्रयुग्मेन संवेष्य्म सपात्रं कलशं ततः ।
पंचपल्लवसंयुक्तं पंचरत्नसमन्वितम् ॥३४॥
पीठपूजां पुरा कृत्वा स्थापयेत्तम तं विभुम्।
मूलमंत्रैश्च वेदोक्तैः पूर्वोक्तैरपि षण्मुख ॥३५॥
ध्यात्वा गजाननं देवमावाह्य परया मुदा ।
आसनं च तथा पाद्यं दद्यादाचमनीयकम् ॥३६॥
अर्घ्यं रत्नयुतं स्कन्द स्नानं पंचामृतैः शुभम् ।
सुवासिताभिरद्भिश्च स्नापयेत् परमेश्वरम् ।
रक्तवस्त्रयुगं दद्यादुपवीतं तथोत्तमम् ॥३७॥
नानाविधैराभरणैर्भूषयेत् परमेश्वरम् ।
गंधाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि ॥३८॥
वटकापूपलड्डूकशाल्यन्नपायसादिभिः।
पंचामृतैर्व्यंजनैश्च भोजयेत् परमेश्वरम् ॥३९॥
उद्वर्तन करे दद्यात्फलं ताम्बूलमेव च ।
कांचनी दक्षिणां दद्याच्छत्रं व्यंजनचामरे ॥१.५१.४०॥
नीराजनं मंत्रपुष्पं दत्वा स्तोत्राण्युदीरयेत् ।
सहस्रनामभिः स्तुत्वा ब्राह्मणान्पूजयेत्ततः ॥४१॥
रात्रौ जागरणं कृत्वा गीतनृत्यादि मंगलैः ।
प्रभाते विमले स्नात्वा नित्यं कृत्वा यथाविधि ॥४२॥
पूजयेत्पूर्ववद्देवं ततो होमं समाचरेत् ।
द्रव्यैर्नानाविधैर्हुत्वा कुर्यादाचार्यपूजनम् ॥४३॥
गोभूतिलहिरण्याद्यं गुरवे तन्निवेदयेत् ।
अन्येभ्यो ब्राह्मणेभ्यश्च प्रदद्याद्भूरिदक्षिणाम् ॥४४॥
ब्राह्मणान् भोजयेत् पश्चाच्छतमष्टोत्तरं तथा ।
अधिकान्यदि शक्तिश्चेदथवाऽप्येकविंशतिम् ॥४५॥
दीनांधकृपणेभ्यश्च दद्यादन्नं सपायसम् ।
पुनश्च दक्षिणां दद्यात् प्रगृहयाशिषमुत्तमाम् ॥४६॥
सुहृद्बन्धुयुतो मौनी स्वयं भुंजीत सादरम् ॥४७॥
शिव उवाच ।
एवं ते कथितं स्कन्द वरदस्य व्रतं शुभम् ।
भुक्तिमुक्तिप्रदं नृणां सर्वकामफलप्रदम् ॥४८॥
पुरातनमितिहासमस्मिन्नर्थे वदामि ते।
महाधर्मपरो राजा पुराऽभूत्कर्दमाभिधः ॥४९॥
पालयामास वसुधां सागरान्तां स्वतेजसा।
गुणैर्यस्य हृता देवा नित्यं यत्सदसि स्थिताः ॥१.५१.५०॥
कदाचिद्दैवयोगेन भृगुस्तस्य गृहं ययौ ।
तत उत्थाय राजा स बहुमानपुरःसरम् ॥५१॥
उपविश्यासने श्रेष्ठे पूजितो गुरुवत्ततः ।
भुक्त्वा स्थितं मुनिवरं राजा वचनमब्रवीत् ॥५२॥
राजोवाच ।
भगवन् सर्वतत्वज्ञ किंचित् पृच्छामि तद्वद ।
पूर्वजन्मनि कश्चाहं किं मया सुकृतं कृतम् ॥५३॥
येनेदृशं मया राज्यं प्राप्तं निहतकण्टकम् ।
प्राप्तं नैव नृपैरन्यैर्न च प्राप्स्यन्ति चापरे ॥५४॥
देवानामपि पूज्योऽहं गंधर्वोरगरक्षसाम् ।
कुबेरसंपदातुल्या सम्पदं पश्य मे मुने ॥५५॥
त्रिलोक्यां रत्नभूतं यत्तदानीतं स्वतेजसा ।
यं यं पदार्थमिच्छामि तं तं पश्यामि वेश्मनि ॥५६॥
केनेत्थं कर्मणा प्राप्तं तद्वदस्व मम प्रभो ।
कामये तत्पुनः कर्तुं पुण्यं पुण्यवतां वर ॥५७॥
भृगुरुवाच ।
कथयामि नृपश्रेष्ठ प्रणिधान बलादहम् ।
त्वमासीः पूर्वजनुषि क्षत्रियो दुर्बलः शुचिः ॥५८॥
कुटुंबभरणार्थं त्वं नाना कर्माण्यथा करोः ।
क्रियमाणं च तत्कर्म न चासीत् फलदं तव ॥५९॥
अत्यंत निष्ठुरैर्वाक्यैर्दारापत्यैश्च पीडितः ।
अप्रष्ट्वा पुत्रदारांस्त्वं गतवान् गहनं वनम् ॥१.५१.६०॥
बिभ्रमन्दिक्षु सर्वासु दृष्टवानसि सौभरिम् ।
सिद्धासने समासीनं सेवितं मुनिपुंगवैः ॥६१॥
कथयन्तं महाविद्यां शिष्येभ्यो दुःखनाशिनीम् ।
दृष्ट्वा तं सौभरिं दिव्यमन्यांश्चर्षिगणान्नृप ॥६२॥
दण्डवत् पतितोऽसि त्वं भुवि तैश्चाभिनन्दितः ।
उपविष्टः स्वासने च मुनिना तेन दर्शिते ॥६३॥
पृष्टवानसि तं दिव्यं लब्ध्वाऽवसरमादृतः ।
क्षत्रिय उवाच ।
स्वामिन् संसारदुःखेन बहुधा क्लेशितो मुने ॥६४॥
दारापत्य सुहृद्भिश्च वाग्बाणैर्भृशताडितः ।
न वैराग्यं मनो याति निष्ठुरेषु सुहृत्सु च ॥६५॥
शीतोष्णक्षुत्पिपासाभिः पीडितोऽपि भृशं मुने ।
उपायं वद मे किंचिद् दुःखसागरतारकम् ॥६६॥
शिव उवाच ।
इति श्रुत्वा वचस्तस्य सौभरिः कृपया युतः।
उपायं चिन्तयामास नृपदुःखविनाशनम् ॥६७॥
ततस्तं क्षत्रियं प्राह सर्वपापविमोचनम् ।
ऋषिरुवाच ।
व्रतं यत्कथयिष्यामि कुरु निश्चितमानसः ॥६८॥
यस्यानुष्ठानमात्रेण सर्व दुःख लयो भवेत् ।
ब्राह्मणैः क्षत्रियर्वैश्यैस्तथा ब्रह्मर्षिभिः कृतम् ॥६९॥
मुक्तास्ते सर्वदुःखेभ्यः प्राप्ताः सिद्धिमनुत्तमाम् ।
वरदस्य गणेशस्य धर्मार्थकाममोक्षकृत् ॥१.५१.७०॥
क्षत्रिय उवाच ।
कोऽसौ गणेशः किंशीलः किं रुपः किं स्वभाववान् ।
किं कर्मा कथमुत्पन्नस्तत्सर्वं कथयस्व मे।
यदि मे श्रवणायालं यद्यनुग्राह्यता मयि ॥७१॥
ऋषिरुवाच ।
यद् ब्रह्म नित्यं विरजं विशोकं ज्ञानस्वरुपं परमार्थभूतम्।
अनादि मध्यान्तमनन्तपारं, गणाधिपं तं प्रवदन्ति सन्तः ॥७२॥
यस्मादोंकारसंभूतिर्यतो वेदा यतो जगत् ।
येन सर्वमिदं व्याप्तं तं विद्धि गणनायकम् ॥७३॥
जगत्सर्जनकामेन ब्रह्मणा यस्य तुष्टये ।
अब्दानां तु शतं पूर्णं तपस्तप्तं सुदुष्करम् ॥७४॥
ततो हृष्टमना वेधाः प्रसन्नं तमपूजयत् ।
नानाविधोपचारैश्च दिव्यरत्नैः फलैस्तथा ॥७५॥
सिद्धिबुद्धी उभे कन्ये मनसा कल्पिते ददौ।
तुष्टो देवो ददौ तस्मै विद्यामेकाक्षरीं विभुः ॥७६॥
ततो लब्धवरो ब्रह्मा चकार सकलं जगत् ।
षडक्षरेण मन्त्रेण विष्णुना तोषितः पुरा ॥७७॥
कृत्वा मूर्तिं गणेशस्य पूर्वोक्तविधिना व्रतम् ।
अव्यंगं वर्षमेकं तु नियमान् कृतवान् हरिः ॥७८॥
वरं लब्ध्वा गणेशात्तु पालयामास वै जगत् ।
एवंविधां विजानीहि गणेशं भुवि संस्तुतम् ॥७९॥
विश्वरूपमनादिं च सर्वकारणकारणम् ।
तमाराधय यत्नेन सर्वदुःखाद्वियुंक्ष्यसे ॥१.५१.८०॥
क्षत्रिय उवाच ।
कस्मिन्काले प्रकर्तव्यमेतद् व्रतमनुत्तमम् ।
विधिना केन मे ब्रूहि सांप्रतं मुनिसत्तम ।
करिष्ये वचनात्तेऽहं सर्वदुःखप्रशान्तये ॥८१॥
मुनिरुवाच ।
श्रावणे बहुले पक्षे चतुर्थ्यामारभेद् व्रतम् ।
कुर्वीत परया भक्त्या यावद्भाद्रचतुर्थिका ।
उपचारैः षोडशभिः पार्थिवं गणनायकम् ।
प्रत्यहं पूजयेद्भक्त्या ब्राह्मणान्भोजयेत्ततः ॥८२॥
त्वमेतत्कुरु भूपाल सर्वान्कामानवाप्स्यसि ।
इति श्रुत्वा व्रतं तस्मात्कृतवानसि सुव्रत ॥८३॥
समाप्ते व्रते तत्र सौभर्याश्रममंडले ।
तावत्तस्य गृहं दिव्यं गणेशस्य प्रसादतः ॥८४॥
दिव्यनारीनरयुतं दासीदाससमन्वितम् ।
वेदघोषसमायुक्तं जातं गोधनसंकुलम् ॥८५॥
दिव्यवस्त्रसमायुक्ता नानालंकारसंयुता ।
अपत्यैस्तादृशैर्युक्ता विस्मिताऽऽसीत् प्रतीक्षती ॥८६॥
आयास्यति कदा भर्तेत्येवं चिन्तापराऽभवत् ।
तावत्त्वं मुनिमामन्त्र्य गतोऽसि निजमालयम् ॥८७॥
दिव्यं तच्छरणं हित्वा स्वगृहं परिमार्गयन् ।
तावद्धार्या प्रेषितास्त्वां निन्युस्तद्भवनं नराः ॥८८॥
ततस्त्वयाऽपि विज्ञातः प्रभावो वरदस्य सः।
तद्व्रतस्य प्रभावेण राज्यभागिह जन्मनि ॥८९॥
शिव उवाच ।
इति श्रुत्वा भृगोर्वाक्यं कर्दमो हर्षनिर्भरः ।
चकार सकलं राजा भृगुणा यत्समीरितम् ॥१.५१.९०॥
व्रतस्यास्य प्रभावेण ज्ञानवैराग्यवान्नृप।
भुक्त्वा भोगान्यथाकामं स्थाप्य पुत्रान्निजे पदे ॥९१॥
गतो गाणेश्वरं धाम यतो नावर्तते पुनः ।
सर्वार्थसाधकं स्कन्द व्रतानां व्रतमुत्तमम् ॥९२॥
नैतादृशं व्रतं दानं श्रुतमन्यत्कदाचन ।
सर्वार्थसाधकं स्कन्द व्रतं कुरु यदीच्छसि ॥९३॥
देवदानव गन्धर्वैर्ऋषिभिर्मनुजैः कृतम् ।
नलेन इन्दुमत्या च राज्ञा चन्द्रांगदेन च ॥९४॥
संप्राप्ताः सर्वकामांस्ते गता गाणेश्वरं पदम् ।
गिरिरुवाच ।
इति ते कथितं सर्वं सेतिहासं व्रतं महत् ।
कुरु त्वं मनसा ध्यात्वा वरदं गणनायकम् ॥९५॥
व्रतमेतन्महाभागे शंकरं प्राप्स्यसे ततः ।
स्नेहेन कथितं तेऽद्य प्रकाशं कुरु मा व्रतम् ॥९६॥ ( २२५८ )
इति श्रीगणेशपुराण उपासनाखंडे हिमवत्पार्वतीसंवादो नामैकपंचाशत्तमोऽध्यायः ॥५१॥

अध्याय ५२ प्रारंभ :-
पार्वत्युवाच ।
नलेनेदं कृतं कस्मात् को नलो त्वद मे पितः ।
मनो विश्रान्तिमायाति शृण्वन्त्या मे कथानकम् ॥१॥
हिमवानुवाच ।
निषधेषु महाराजो नलो नामाभवत्पुरा ।
ब्रह्मण्यो वेदविच्छूरो दानी मानी धनी मुनिः ॥२॥
रथी खड्गी शरी चापि निषंगी कवची बली ।
कृतास्त्रो देवपूज्यश्च त्रिलोकी गमनः शुचिः ॥३॥
शेषोऽपि मूकतां याति वर्णितुं यद्गुणानपि ।
न संख्या विद्यतेऽश्वानां गजानां रथिनां तथा ॥४॥
धानुष्काणां शस्त्रभृतां अग्निशस्त्रभृतामपि ।
चकम्पुर्यद् भयाद्देवा इन्द्राद्याः सदिगीश्वराः ॥५॥
दमयन्तीति भार्याऽऽसीद्यस्य सौंदर्यमन्दिरम् ।
दमयित्वाऽखिलान्ब्रह्मा सारं प्रगृह्य च ॥६॥
दमयन्तीति विख्याता यतस्तेनेति निर्मिता ।
दमयन्त्यै त्रिलोकस्था नारीणां चारुतामदात् ॥७॥
नानालंकारसंयुक्ता नानामणिविभूषिता ।
मुक्ताहारलसत्कंठा सद्गुणाढ्या सुशोभना ॥८॥
यस्यामात्यो महानासीत् पद्महस्तः पराक्रमी ।
बुद्ध्या बृहस्पतिसमो नये चांगिरसा समः ॥९॥
तुंगत्वे मेरुसदृशो गांभीर्ये चोदधेः समः ।
कदाचिदुपविष्टोऽसौ नलो राजा महामनाः ॥१.५२.१०॥
निषसाद सभागेहे नृपमंडलमध्यगः ।
नृत्यन्त्यप्सरसस्तस्य पुरतश्चारुदर्शनाः ॥११॥
स्तुवन्ति बन्दिनस्तं च ब्रह्मर्षिगणसंयुतम् ।
एतस्मिन्नेव काले तु गौतमौ नृपतिं ययौ ॥१२॥
उत्थाय सादरं राज्ञा स्वासने विनिवेशितः ।
पूजितः परया भक्त्या तत: पप्रच्छ तं नलः ॥१३॥
नल उवाच ।
स्वामिन्ननुगृहीतस्ते दर्शनेन महामुने ।
जन्म राज्यं पिता माता कुलं जीवितमद्य मे ॥१४॥
सफलं स्वागमे हेतुं वद तूर्णं महामुने ।
गौतम उवाच ।
ममासीन्महती वांछा दृष्टुं ते वैभवं नृप ॥१५॥
स्तुवंति देवाः स्वर्गस्था ब्रह्मेन्द्र हरि शूलिनः ।
धन्योऽसि मर्त्यलोकस्थो मर्त्यैर्देवैश्च शस्यसे ॥१६॥
नित्यतृप्तोऽप्यहं तृप्तः पूजां दृष्ट्वा च वैभवम् ।
इदानीमनुजानीहि गमिष्ये स्वाश्रमं प्रति ॥१७॥
नल उवाच ।
वेदवेदांगविद् ब्रह्मन् सर्वशास्त्रप्रवर्तक ।
दयानिधे क्षणं स्थित्वा छिन्धि मे संशयं मुने ॥१८॥
मुनिरुवाच ।
साधु पृष्टं महाराज स्थितोऽहं स्नेहभावतः ।
नागा नृपाश्च देवाश्च यत्ते नाज्ञा विलंघिन: ॥१९॥
नृप उवाच ।
ममैव विस्मयो ब्रह्मन् निरीक्ष्य वैभवं स्वकम् ।
इत्थं ममाभवत्केन पुण्येन तपसाऽपि वा ॥१.५२.२०॥
वद तत्त्वेन कश्चाहमभवं पूर्वजन्मनि ।
मुनिरुवाच ।
गौंडदेशात्परे देशे पुरे पिप्पलसंज्ञिके ॥२१॥
त्वमासीः क्षत्रियः पूर्वं दरिद्रो ज्ञानवान् शुचिः।
जायापत्यैः सुहृद्भिश्च वाक्शरैस्ताडितो भृशम् ॥२२॥
रात्रावपृष्ट्वा सर्वांस्त्वं निर्वेदाद् गहनं वनम् ।
गतवान्वृक्षवल्लीभिः सिंहव्याघ्रगजैर्मृगैः ॥२३॥
सेवितं शीतलजलै सरोभिर्जलजादिभिः ।
आश्रमोऽथ त्वयाऽदर्शि भ्रमता भ्रमता वने ॥२५॥
तपोनिधेः कौशिकस्य वेदघोषनिनादितः ।
तत्र गत्वा मुनिं तं त्वं प्रणतो भक्तिभावतः ॥२५॥
उत्थापितः कौशिकेन दीनानाथ दयावता ।
दुःखितं त्वां विदित्वा स आशीर्वादमवीवदत् ॥२६॥
गजाननो मे देवेशो भविता ते शुभंकरः ।
श्रुत्वा तदाशिषं सौम्यां प्राप्तोऽसि परमां मुदम् ॥२७॥
पृष्टवानसि तं विप्रमुपायं सर्वकामदं ।
दारिद्र्यनाशकं राजन् भुक्तिमुक्तिप्रदं शिवम् ॥२८॥
गणेशाराधनं तुभ्यं कथयामास कौशिकः ।
कौशिक उवाच ।
व्रतं कुरु गणेशस्य मासमात्रं नराधिप ॥२९॥
कुरु मूर्तिं गणेशस्य मृन्मयीं चारुदर्शनाम् ।
पूर्वोक्तविधिना पूजां कुरु शृणु कथानकम् ॥१.५२.३०॥
दिने दिने मासमात्रं ततः सिद्धिमवाप्स्यसि ।
मुनिरुवाच ।
इति श्रुत्वा कौशिकं तं पप्रच्छ भूमिपः पु:न ॥३१॥
गजाननं न जानामि तत्स्वरुपं वदस्व मे।
ज्ञात्वा तं देवदेवेशं करिष्ये व्रतमुत्तमम् ॥३२॥
इति तेन कृते प्रश्ने जगाद मुनिसत्तमः।
अनिर्वाच्यस्वरूपस्य परब्रह्मस्वरुपिणः ॥३३॥
वैकारिकस्वरूपाणि गजाननकृतानि तम् ॥३४॥
कौशिक उवाच ।
यः कर्ता सर्वलोकानां पिता माता जगद्गुरुः ।
ब्रह्मेन्द्र शिव विष्णूनां ध्येयो यः स गजाननः ॥३५॥
मुनिरुवाच ।
इति श्रुत्वा तु तद्वाक्यं प्रणिपत्य मुनीश्वरम् ।
अनुज्ञातस्ततस्तेन गतोऽसि निजमंदिरम् ॥३६॥
आरभ्य श्रावणे शुद्धे चतुर्थ्यां व्रतमुत्तमम् ।
अकरोन्मृन्मयीं मूर्तिं गणेशस्य यथोदिताम् ॥३७॥
स्थाने च वचने मौंने गमने शयने भुजि ।
ध्यायन्गजाननं देवं प्रायाः सिद्धिमनुत्तमाम् ॥३८॥
नाना गजरथाश्वाद्यैर्गोधनैर्धनसंचितैः ।
दासीदासयुतः श्रीमान्जातो व्रतप्रभावतः ॥३९॥
दत्तमानसि दानानि सर्वाणि देवतुष्टये ।
गणेशस्य महामौल्यं प्रासादं कृतवान्मुदा ॥१.५२.४०॥
भुक्त्वा भोगान्यथाकामं कालेन निधनं गतः ।
जातोऽसि निषधे देशे नृपस्त्वं नलनामकः ॥४१॥
अतस्त्वय्यचला लक्ष्मी त्रिलोकी जनवन्दिते ।
इदानीमनुजानीहि यत्पृष्टं तन्निरूपितम् ।।४२॥
हिमवानुवाच ।
एवं गते गौतमे तु व्रतं चक्रे नलो नृपः ।
तद्वाक्याज्जातविश्वासो मूर्तिं कृत्वा सुशोभनाम् ॥४३॥
श्रुत्वा कथां गणेशस्य प्रत्यहं पूज्य भक्तित: ।
अलभत्सर्वकामान्स व्रतस्यास्य प्रभावतः ॥४४॥
इति ते कथितं कन्ये नलेनेत्थं कृतं व्रतम् ।
उपदिष्टं गौतमेन पूर्वजन्मकृतं व्रतम् ॥४५॥
यस्य प्रभावः संपूर्णो वक्तुं केनापि नेष्यते ॥४६॥ (२३०४ )
इति श्री गणेशपुराण उपासनाखंडे नलव्रत निरुपणं नाम द्विपंचाशत्तमोऽध्यायः ॥५२॥

अध्याय ५३ प्रारंभ :-
हिमवानुवाच ।
इदानीं कथयिष्यामि राज्ञा चन्द्रांगदेन च।
सपत्न्या च कृतं ह्येतदिन्दुमत्या शुभानने ॥१॥
मालवे विषये ख्यातं नगरं कर्णनामकम् ।
तत्र चन्द्रांगदो राजा बभूवातिपराक्रमी ॥२॥
अणिमादि गुणोपेतः सर्वशास्त्रार्थतत्ववित् ।
यज्वा दानी महाज्ञानी वेदवेदांगपारगः ॥३॥
अतिक्रान्ता सभा यस्य सुधर्मामतिमानुषीम् ।
मुष्णाति चक्षुषस्तेजो रविकान्त मरीचिभिः ॥४॥
अतिस्वच्छानि वासांसि रत्नस्तंभाश्रयात्सुते ।
नीललोहितपीतत्वाच्चित्रतां यान्ति कानिचित् ॥५॥
अतिसाध्वी महाभागा पतिशुश्रूषणे रता।
धर्मशीला व्रतपरा श्वश्रूश्वशुरसेविनी ॥६॥
गृहकृत्येषु चाव्यग्रा देवतातिथिपूजिका ।
नाम्ना चेन्दुमति ख्याता सर्वावयवसुन्दरा ।
धर्मशीलोऽपि नृपतिरमात्यैः प्रार्थितो भृशम् ।
जीवहिंसां महाघोरां पापार्द्धिं परिवर्जय ॥७॥
कदाचिद्दैवयोगेन मृगयां क्रीडितुं ययौ ।
तरक्षुरुरुवाराह मृगपक्षियुतं वनम् ॥८॥
नीलकंचुक संवीतो नीलोष्णीषोत्तरच्छदः ।
बद्धगोधांगुलित्राणः शस्त्रिकाखड्गखेटवान् ॥९॥
जवेनाश्वसमारुढो शरचापकरो बली।
तादृशैर्वीरनिकरैरमात्यैः सेवकैर्वृतः ॥१.५३.१०॥
निघ्नन् मृगान् वराहांश्च प्रेषयन्नगरं प्रति ।
भ्रममाणो वने राजा दृष्टो राक्षसपुंगवैः ॥११॥
चकम्पे राक्षसान् दृष्टवा शीतज्वरयुतो यथा ।
दरीमुखान् गर्तनेत्रान् व्यादिता स्यान्नभस्पृशः ॥१२॥
दृष्ट्वा तान् विद्रुताः सर्वे वीराः सेविजना आपि ।
केचिद्यमक्षयं याता मूर्छिताः केऽपि भूगताः ॥१३॥
तत्रैका राक्षसी क्रूरा दृष्ट्वा कामातिसुंदरम् ।
तं नृपं परिरभ्यैव चुचुंबे काममोहिता ॥१४॥
तस्यामात्यान्भगे कृत्वा भक्षयामास सेवकान् ।
एतस्मिन्नंतरे राजा पलायनपरो ययौ ॥१५॥
कासारमध्ये मग्नोऽभून्नाद्राक्षीद्राक्षसी च तम् ।
स धृतो नागकन्याभिर्नीतः पातालमन्दिरम् ॥१६॥
भूषितो नागकन्याभिर्वस्त्रालंकारभूषणैः ।
पप्रच्छुर्नागकन्यास्तं कुत आगमनं तव ॥१७॥
कोसि कस्यासि किं तात वद सत्यं नरोत्तम ।
इति तद्वचनं श्रुत्वा ता जगाद नराधिपः॥१८॥
अहं चन्द्रांगदो नाम हेमांगदसुतो बली।
मालवे विषये कर्णनगरे वसतिर्मम ॥१९॥
राक्षसीभयवित्रस्तः प्रविष्टः सलिलं महत् ।
भवतीभिरिहानीतो यत्पृष्टं तन्निवेदितम् ॥१.५३.२०॥
भक्षिताः सर्वलोका मे मृगयाभिरतस्य ह।
सरोजलप्रसादेन जीवंस्तिष्ठामि सांप्रतम् ॥२१॥
इति ता वचनं श्रुत्वा पुनरुचुर्नृपं तदा ॥२२॥
ता ऊचुः ।
भवास्माकं पतिरिह सर्वं सेत्स्यति ते प्रियम्।
अस्माकं नागकन्यानां भोगश्चातीव दुर्लभः ॥२३॥
तासामिति वचः श्रुत्वा प्रोवाच नृपसत्तमः ।
एकपत्नीव्रतं मेऽस्ति मातरस्तत्कथं त्यजे ॥२४॥
सोमवंशप्रसूतानां राज्ञां धर्मान्ब्रवीमि वः ।
परद्रव्यं परद्रोहं परदारांस्तथैव च ॥२५॥
परनिन्दां च नेच्छन्ति नृपाः सौम्याश्च साधवः ।
अधीतिर्यजनं दानं शरणागतपालनम् ॥२६॥
निषिद्धाचरणं नैव विध्यर्थं प्रतिपालनम् ।
एते धर्मा त्रिवर्णानां याजनादित्रयं द्विजे ॥२७॥
अधिकं सर्ववर्णानामातिथ्यं परमं मतम् ।
इति श्रुत्वा नृपवचोऽखिला नागकुमारिकाः ॥२८॥
प्रशेपुस्तं वियुक्तस्त्वं बहुधा स्वस्त्रिया भव ।
बबन्धुर्निगडैस्तं ता दुःखिताः कामविह्वलाः ॥२९॥
राक्षसी तु जलं प्राश्य तदर्थे तत्सरोगतम् ।
भक्षयित्वा जलचरान्ना तृप्यत्परमं तदा ॥१.५३.३०॥
इमं वृत्तान्तमशृणोद्राज्ञी राजीवलोचना ।
पर्यंकस्था स्वदूतात्सा राक्षसीतोऽवशेषितात् ॥३१॥
भग्नं निशम्य नृपतिं दुःखिता पतिता भुवि ।
मूर्छामवाप महतीं सखीभिः परिव्रीजिता ॥३२॥
सिक्ता शीतलतोयेन रुदन्तीभिर्मुहर्मुहुः।
उपविष्टा प्ररुदति घ्नंति वक्षः शिरो मुखम् ॥३३॥
शुशोच परमालापैर्भर्तः कान्तेति जल्पती ।
क्वगतः प्राणनाथो मे हित्वा मां प्रियवादिनीम् ॥३४॥
सर्वावयवसंपूर्णा प्रणतां प्रियकारिणीम् ।
भर्तृकार्यरतां नित्यं नित्यं चातिथिपूजिकाम् ॥३५॥
कुत्र भोक्ष्यति मे नाथो निद्रां वा कुत्र यास्यति ।
कांचनं शयनं हित्वा परार्घ्यास्तरणैर्वृतम् ॥३६॥
कथं स्नास्यति कान्तो मे हित्वा तैलं सुगंधिकम ।
लोकानां पालनं कोऽद्य विना तेन करिष्यति ॥३७॥
प्रजानां सर्वलोकानां बालानां रंजनं च कः ।
अस्तं यातो गुणनिधिः प्रताप निधिरद्य किम् ॥३८॥
दिशः शून्याः प्रपश्यामि विना तेन महात्मना ।
क्वाहं सुखं प्रपश्यामि क्व सुखं सोऽपि यास्यति ॥३९॥
इहलोके परे वापि न सुखं कुलयोषिताम् ।
हीनानां स्वामिनां देव यदेतत्स्वामिना सह ॥१.५३.४०॥
शरणागत गुप्तिं च दीनानां कः करिष्यति ।
एवं बहुविधं दीना रुदती भृशविह्वला ॥४१॥
तत्याज त्रोटयित्वा सा भूषणानि च दूरतः ।
कंकणानि च सर्वाणि बभंज च मुमूर्छ च ॥४२॥ ( २३४६ )
इति श्रीगणेशपुराण उपासनाखंडे चन्द्रांगदोपाख्याने त्रिपंचाशत्तमोऽध्यायः ॥५३॥

अध्याय ५४ प्रारंभ :-
पार्वत्युवाच ।
तस्यां तु मूर्छितायां तु किमकुर्वन् जनास्तदा ।
तन्मे विस्तरतो ब्रूहि हृदयामन्दनं पितः ॥१॥
हिमवानुवाच ।
तदा सर्वे नागरिका नानावाक्यविशारदाः।
प्रमृज्य स्वानि चाश्रूणि समादथ्युर्नृपस्त्रियम् ॥२॥
जना ऊचु:- ।
मातरुत्तिष्ठ मा शोकं कुरु पुत्रे ननः कृथाः ।
प्रेतं दहति शोकाश्रु तस्माद्भर्तृहितं कुरु ॥३॥
मर्त्येषु न हि दृष्टोऽस्ति चिरजीवी शुभानने ।
यथा जीर्णं परित्यज्य वासोऽन्यद् गृह्यते जनैः ॥४॥
वर्ष्मापि देहिना तद्वत् त्यक्त्वाऽन्यद्गृह्यते शुभम् ।
अत्याश्चर्यमिदं भद्रे स्वयं मृत्युमुखे स्थितः ॥५॥
शोचते मृतमपरं स्वयं मरणधर्मवान् ।
स्वदेहेन वियोगं च न वेत्ति भाविनं जनः ॥६॥
मदीयं मन्यते सर्वदैवकालवशे स्थितम् ।
ब्रह्मादिस्थावरान्तं यद्विश्वं साब्धि चराचरम् ॥७॥
ज्ञात्वा तं नश्वरं शोकं त्यक्त्वोत्तिष्ठ सुपुत्रिणि ।
धर्मवान् पुण्यशीलस्ते भर्ता मुक्तिंगतो भवेत् ॥८॥
जीवन्यदि भवेत्स्वर्गे तदा यास्यति कर्हिचित् ।
अतिपुण्यान् मानवोऽपि याति स्वर्गगतः पुनः ।
अथवा परिपृच्छामो मुनिं कंचिदिहागतम् ॥९॥
अतीतानागतविदं कथयिष्यति सोऽखिलम् ।
अनन्तरं हि यत्कार्यं तत्सर्वं विदधामहे ॥१.५४.१०॥
हिमवानुवाच ।
एवं प्रबोधिता लोकैः क्षणमिन्दुमतीत्मदा ।
आश्वस्ता सर्ववाक्येन प्रमृज्याश्रूणि वाससा ॥११॥
विसर्जयामास तदा लोकान्सर्वान् समागतान् ।
त्यक्त्वा सौभाग्यचिह्नानि प्रपेदे कृशतां भृशम् ॥१२॥
रुदती शोचती तस्थौ श्वसती मूर्छिता मुहुः ।
ततो द्वादशवर्षान्ते नारदो दिव्यदर्शनः ॥१३॥
आजगाम गृहं तस्या यदृच्छा विचरन्मुनिः ।
दृष्ट्वा तं विललापाशु वदन्ती भर्तुचेष्टितम् ॥१४॥
दुःखं चाकथयत्तस्मै जातं द्वादशवार्षिकम् ।
निशम्य रुदितं तस्या हर्षयन्मुनिरब्रवीत् ॥१५॥
नारद उवाच ।
क्वापि तिष्ठति ते भर्ता न तं शोचितुमर्हसि ।
शिरच्छादय नीलेन वाससा कर्णभूषणे ॥१६॥
कर्णयोः कुरु भाले त्वं बिभ्रती कुंकुमं शुभम् ।
वलयानि च करयोः कंठे मंगलसूत्रकम् ॥१७॥
हिमवानुवाच ।
सर्वज्ञस्य मुनेर्वाक्याद्विश्वस्ता सत्यवादिनः ।
तत्कालं सर्वमानाय्य हर्षिता सा तथाऽकरोत् ॥१८॥
आकार्यं ब्राह्मणान् सर्वान् संपूज्य नारदं पुरा।
संपूज्य सकलांस्तांस्तु ददौ दानान्यनेकशः ॥१९॥
वादयामास वाद्यानि शर्करां च गृहेगृहे ।
प्रेषयामास च तदा हर्षादिन्दुमती शुभा। ॥१.५४.२०॥
वस्त्रताम्बूल दानेन ददावाज्ञां जनस्य सा ।
प्रणिपत्य पुनर्देवं मुनिं नारदमादरात् ॥२१॥
स्वभर्तृप्राप्तयेऽपृच्छदुपायं राजकन्यका ।
इन्दुमत्युवाच ।
कुत्र तिष्ठति मे भर्ता कथं तिष्ठति वा मुने ॥२२॥
केनोपायेन वेदज्ञ दर्शनं तस्य मे भवेत् ।
अनुग्रहं कुरु मुने तमुपायं वदस्व मे ।
व्रतं दानं तपो वापि दुःसाध्यमपि यद्भवेत् ॥ २३॥
नारद उवाच ।
व्रतं तु परमं तेऽहं कथयामि समासतः ।
नभःशुक्लचतुर्थ्यां तदारभेत्परया मुदा ॥२४॥
नद्यां तडागे वाप्यां वा दन्तधावनपूर्वकम्।
स्नानं प्रभातसमये कुरु संकल्पपूर्वकम् ॥२५॥
शुक्लवासा गृहं गत्वा मृन्मयीं मूर्तिमुत्तमाम् ।
कुर्याच्चतुर्भुजां सम्यग् गणेशस्य मनोरमाम् ॥२६॥
उपचारैः षोडशभिः पूजयेत् स्थिरचेतसा ।
एकान्नमेकभुक्तं वा स्वयं कुर्यात्प्रयत्नतः ।
उपोषणं वा कुर्वीत यावद्भाद्रचतुर्थिका ॥२७॥
गीतवादित्रनृत्याद्यैर्ब्राह्मणानां च भोजनैः ।
महोत्सवं प्रकुर्वीत विभवे सति शोभने ॥२८॥
एवं व्रतं कुरु शुभे भर्त्रासह समेष्यसि ।
पाताले नागकन्या भो रुद्धेन जीविता शुभे ॥२९॥
सत्यं ब्रवीमि ते सत्ये नान्यथा मम भाषितम् ।
हिमवानुवाच ।
इत्युक्ता तेन मुनिना व्रतं प्रारभदादरात् ॥१.५४.३०॥
गते मुनौ नभोमासि दिनैः कतिभिरागते ।
द्विरदाननमूर्तिं सा चकार पार्थिवीं शुभाम् ॥३१॥
पूर्वोक्तविधिना पूजां चकार सुमनोहराम् ।
दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैश्च कुसुमैरपि ॥३२॥
दिव्यैर्नानाविधैश्चैव नैवेद्यैः फलकांचनैः ।
दीपैः पुष्पांजलीभिश्च प्रक्रमैर्नतिभिः स्तवैः ॥३३॥
तन्नामस्मरणैर्ध्यानैस्तोषयामास तं विभुम् ।
गीतवादित्रनृत्याद्यैर्रा तह्मणानां च भोजनै: ॥३४॥
पलमात्रं पयो भुक्त्वा चकार व्रतमुत्तमम् ।
नभःशुक्लचतुर्थ्यादि चिरनष्टं प्रियाप्तये ॥३६॥
नारदस्य मुनेर्वाक्याद्यावद्भाद्रचतुर्थिका ॥३६॥ ( २३८२ )
इति श्रीगणेशपुराण उपासनाखंडे इन्दुमतीनारदसंवादे चतुःपंचाशत्तमोऽध्यायः ॥५४॥

अध्याय ५५ प्रारंभ :-
हिमवानुवाच ।
समाप्ते तु व्रते तस्या गणेशस्य प्रसादतः ।
पाताले नागकन्यानामन्यथाऽभून्मतिस्तदा ॥१॥
मोचयामास राजानं पुपूजुश्च यथाविधि ।
वस्त्रैराभरणैश्चैव नानारत्नमहाधनैः ॥२॥
अश्वं मनोजवं दत्त्वा विससर्जुर्नृपं तदा ।
कासाराद् बहिरागत्य बद्ध्वा चाश्वं महाद्रुमे ॥३॥
स्नाति यावन्नागरिकैर्दृष्ट: कतिपयैर्नृपः ।
अपरै प्रतिपत्यैनं पप्रच्छुः को भवानिति ॥४॥
कुत्रत्यः कुत आयातः किं नामा वद नः प्रभो।
इति तेषां वचः श्रुत्वा पप्रच्छ नृपसत्तमः ॥५॥
इन्दुमत्याः कुमारस्य कुशलं खेदसंयुतः ।
ततो बुबुधिरे ते तमालिलिंगुर्मुदा जनाः ॥६॥
ऊचुश्च नृप ते भार्या स्नात्वेदानीं गता गृहम् ।
उपवासव्रतवती कृशा धमनिसंयुता ॥७॥
कुमारे जीवमास्थाय जीवमात्रावशेषिता ।
केचिच्च नगरं गत्वा शुभां वार्तामघोषयन् ॥८॥
अत्याप्तजनवाक्येन श्रुत्वा सा नृपमागतम् ।
आनन्दाब्धौ निमग्नाऽभूद् ब्रह्मज्ञानीव योगवित् ॥९॥
ततोऽमात्यान्पुरस्कृत्य सैन्यान्य प्रेषयच्च तम् ।
चित्रध्वजपताकाभिरशोभयत सा पुरम् ॥१.५५.१०॥
वीथीरासिंचयामास सभाः संपाद्य यत्नतः ।
स्वात्मानं भूषयामास वासोऽलंकारभूषणैः ॥११॥
गोभूहिरण्यदानाद्यैस्तोषयित्वा द्विजान बहून् ।
आरार्तिक्यं करे दत्त्वा पतिवत् स्त्रीजनस्य सा ॥१२॥
गीतवादित्रघोषेण पुरात्सर उपागमत् ।
अमात्यास्तु पुरो गत्वा प्रणम्य नृपपुंगवम् ॥१३॥
आलिलिंगुर्मुदा सर्वे प्रणेमुश्च यथाक्रमम् ।
उपविष्टे तु नृपतावुपविष्टास्तदाज्ञया ॥१४॥
सर्वान्कुशलप्रश्नाद्यैस्तोषयित्वा यथाक्रमम् ।
मानयित्वा तथा लोकान्दत्वा ताम्बूलवाससी ॥१५॥
स्वयं जगाम शिबिरमिन्दुमत्या नृपोत्तमः ।
कारयामास स विधिं द्वादशाब्ददृशैर्द्विजैः ॥१६॥
पुण्याहवाचनं कृत्वा गणेशार्चनपूर्वकम् ।
संपूज्य शंकरं सम्यग् द्विजांश्च दक्षिणादिभिः ॥१७॥
बभंज श्रीफलं त्यक्त्वा ततस्तत्पुरतो ययौ।
ददर्श तत्रेन्दुमतीमिन्दोः शेषां कलामिव ॥१८॥
नीराजयित्वा राजानं युवतीभिः सभर्तृभिः ।
लाजपुष्पमयीं वृष्टिं ताभिःसाऽकार यत्तदा ॥१९॥
प्रमृज्य नयने सम्यगानन्दाश्रु परिप्लुते ।
हर्षशोकान्वितौ तौ तु परस्परमथोचतुः ॥१.५५.२०॥
परस्परवियोगाधिं कथयामासतुः शुचा ।
अनिवार्यप्रकृतिभिः सान्त्वितौ बहुलोक्तिभिः ॥२१॥
आनयित्वा तु राजानं समारोह्य महागजे ।
नानालंकारसंयुक्ते पताका छत्र संयुते ॥२२॥
पादचारैः परिवृते चतुर्घंटाविराजिते ।
शतं यष्टिधरास्तस्य वारयन्तो ययुः पुरः ॥२३॥
अग्नि शस्त्र धराश्चाश्व रथारोहा अनेकशः ।
सव्य दक्षिणतो राज्ञो गजलक्षं ययुर्लघु ॥२४॥
नटा नृत्यांगना वाद्यवादका बन्दिनः पुरः ।
ततः पश्चाद् गजानीकाः पुरं विविशुरादरात् ॥२५॥
सैन्येन रजसा व्याप्ते दिननाथे हतप्रभे ।
अलंकृते पुरे तस्मिन्न प्राज्ञायत किंचन ॥२६॥
ततः परस्परं नत्वा जग्मुः स्वं स्वं निवेशनम् ।
मुख्या राजगृहं नीताः पुना राज्ञा प्रपूजिताः ॥२७॥
वस्त्र ताम्बूल दानेन तेनाज्ञाता गृहं ययुः ।
राजाऽथ ब्राह्मणान्भोज्य बुभुजे ज्ञातिभिः सह ॥२८॥
ततो रात्रौ सुषुपतुः पर्यंके चारुनिर्मिते ।
परार्ध्यास्तरणोपेते परिच्छदुपधान्विते ॥२९॥
ऊचतुः स्व स्व दुःखं तौ शोचन्तौ च पुनः पुनः ।
पुरोधसा सान्वितौ तौ शयाते स्म सुखं ततः ॥१.५५.३०॥
श्रुत्वा विनायकव्रत महिमानं नृपोत्तमः ।
पत्न्त्याऽभूतं सकलं स्वयं कर्तुं मनो दधे ॥३१॥
आगते श्रावणे मासि राजा चन्द्रांगदस्तदा ।
महोत्सवेन कृतवान् व्रतमेतच्छुभानने ॥३२॥
ऋषिरुवाच ।
एवं पितृवचः श्रुत्वा पार्वती भृशहर्षितः ।
नभोमासं समासाद्य चकार व्रतमादरात् ॥३३॥
यथोक्तविधिना मूर्तिं कृत्वा पूजां च यत्नतः ।
भक्षयन्ती पयोमात्रं ध्यायन्ती द्विरदाननम् ॥३४॥
ततश्चंचलता यातं शंकरस्यापि मानसम् ।
आससादाश्रमं तस्याः पार्वत्याः शूलभृत् स्वयम् ॥३५।।
गणेशस्य चतुर्थ्यां तु संपूर्णे तद्व्रते शुभे।
पश्यति स्म हरं देवी वृषारूढं निजाश्रमे ॥३६॥
उत्थाय प्रणनामास्य पादाम्बुजयुगं मुदा ।
पूजयामास विधिवच्छंकरं लोकशंकरम् ॥३७॥
उवाच च महादेवं पार्वती प्रेमविह्वला । देव्युवाच ।
कथं मां त्यज्य गतवान्किं मां विस्मृतवानसि ॥३८॥
त्वद्वियोगान्निमेषोऽपि कल्पकल्पोऽभवद्विभो ।
गणेशस्य व्रतमिदं पित्रादिष्टं कृतं मया ॥३९॥
वरदस्य प्रसादेन संप्राप्तं दर्शनं तव ॥१.५५.४०॥
ब्रह्मोवाच ।
एतस्मिन्नेव काले तु हिमवानुपजग्मिवान् ।
सत्याः करं करे तस्य न्यवेदयत सादरम् ॥४१॥
ततो देवाः सगंधर्वा द्विरदाननमादरात् ।
पूजयामासुरथ तौ शिवौ शिव करौ सताम् ॥४२॥
देवदुंदुभयो नेदुः पुष्पवृष्टिः पपात ह।
सर्वे गजाननं नत्वा स्तुत्वा च विविधैः स्तवैः ॥४३॥
जयशब्दैः शंकरोऽपि तुष्टाव द्विरदाननम् ।
अर्धांगे पार्वतीं कृत्वा वृषमारुहय सत्वरः ॥४४॥
ययौ कैलासशिखरं सर्वे स्वं स्वं पदं ययुः ॥४५॥
ब्रह्मोवाच ।
इति ते कथितं सर्वं व्यास पृष्टं त्वया तु यत् ।
माहात्म्यं गणनाथस्य व्रतस्य च महामुने ॥४६॥
इदानीं पुनरन्यच्च कथयामि कथानकम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तः कामाँल्लभेन्नर ॥४७॥ (२४२९ )
इति श्री गणेशपुराण उपासनाखंडे शिवपार्वतीसंयोगोनाम पंचपंचाशत्तमोऽध्यायः ॥५५॥