गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ४६-५०
← अध्यायाः ४१-४५ | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायाः ४६-५० [[लेखकः :|]] |
अध्यायाः ५१-५५ → |
व्यास उवाच ।
कथं नाम्नां सहस्रं तद् गणेश उपदिष्टवान्।
शिवदं तन्ममाचक्ष्व लोकानुग्रहतत्पर ।। १ ।।
ब्रह्मोवाच ।
देवः पूर्वं पुरारातिः पुरत्रयजयोद्यमे ।
अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ।।२।।
मनसा स विनिर्धार्य ततस्तद्विघ्नकारणं ।
महागणपतिं भक्त्या समभ्यर्च्य यथाविधी ।।३।।
विघ्नप्रशमनोपायमपृच्छत्तं पराजितः ।
संतुष्टः पूजया शंभोर्मंहागणपतिः स्वयम् ।।४।।
सर्वविघ्नप्रशमनं सर्वकामफलप्रदं ।
ततस्तमै स्वस्य नाम्नां सहस्स्रमिदमब्रवीत् ।।५।।
अस्य श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्रमालामहामंत्रस्य श्रीमहागणपतिर्ऋषिः ।
श्रीस्वानंदेशो ब्रह्मणस्पतिर्देवता ।
नानाविधानि च्छंदांसि ।
हुमिति बीजं ।
तुंगमितीं शक्तिः ।
स्वाहाशक्तिरिति कीलकं ।
सकलविघ्नविनाशनद्वारा श्रीब्रह्मणस्पति- प्रीत्यर्थं जपे विनियोग १ ।
अथ न्यासाः ।
गणेश्वरो गणक्रीड इत्यंगुष्ठाभ्यां नमः ।
कुमारगुरुरीशानेति तर्जनीभ्यां नमः ।
ब्रह्मां डकुंभश्चिद्व्योमेति मध्यमाभ्यां नमः ।
रक्तोरक्तांबरधर इत्यनामिकाभ्यां नमः सर्वसद्गुरुसंसेव्य इति कनिष्ठिकाभ्यां नमः ।
लुप्तविघ्नः सुभवनामिति करतलकरपृष्ठाभ्यां नमः ।
अथ हृदयादिन्यासाः ।
छंदश्च्छंदोद्भव इति हृदयाय नमः ।
निष्कलो निर्मल इति शिरसे स्वाहा ।
सृष्टिस्थितिलयक्रीड इति शिखायै वषट् ।
ज्ञानं विज्ञानमानंदं इति कवचाय हुम् ।
अष्टांगयोगफल भृदिति नेत्रत्रयाय वौषट् ।
अनंतशक्तिसहितं इत्यस्त्राय फट् ।
इति दिग्बंधः ।
अथ ध्यानम् ।
रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरुढं त्रिनेत्रं ।
पाशं चैवांकुशाढ्यं परशुमभयदं बाहुभिर्धारयंतं ।
शक्त्या युक्तं गजास्यं पुथुतरजठरं सिद्धिबुद्धीसमेतं ।
रक्तं चंद्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ।। १ ।।
श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रोस्वानंदेशाय ब्रह्मणस्पतये सांगाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नमः ।
इति नाममंत्रेण मानसैः पञ्चोपचारैः संपूज्य पठेत् ।
। श्रीमहागणपतिरुवाच ।
गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।
एकदंष्ट्रो वक्रतुंडो गजवक्त्रो महोदरः ।। १ ।।
लंबोदरो धूम्रवर्णो विकटो विघ्ननायकः ।
सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ।।२।।
भीमः प्रमोद आमोदः सुरानंदो महोत्कटः ।
हेरंबः शंबरः शंभुर्लंबकर्णो महाबलः ।।३।।
नंदनो लंपटो भीममेघनादो गणंजयः ।
विनायको विरूपाक्षो वीरशूरवरप्रदः ।।४।।
महागतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।
रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ।।५।।
कुमारगुरुरीशानपुत्रो मूषकवाहनः ।
सिद्धिप्रियः सिद्धिपतिः सिद्धिः सिद्धिविनायकः ।।६।।
अविघ्नस्तुंबरुः सिंहवाहनो मोहिनीप्रियः ।
कटंकटो राजपुत्रः शाकलः संमितोऽमितः । ।७।।
कूष्मांडसामसंभूतिर्दुर्जयो धुर्जयो जय ।
भूपतिर्भुवनपतिर्भूतानां पतिरव्ययः ।।८।।
विश्वकर्ता विश्वमुखो विश्ववंद्यो विनिर्गुणः ।
कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ।।९ ।।
ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः ।
हिरण्मयपुरांतःस्थः सूर्यमंडलमध्यगः ।। १.४६.१० ।।
कराहतिध्वस्तसिंधुसलिलः पूषदंतभित् ।
उमांककेलिकुतुकी मुक्तिदः कुलपालनः ।। ११ ।।
किरीटिकुंडलिहारिवनमालिमनोमयः ।
वैमुख्यहतदैत्यश्रीः पादाहत्येजितक्षितिः ।। १२। ।
सद्योजातः स्वर्णमुंजमेखली दुर्निमित्तहृत् ।
दुःस्वप्नदुष्टशमनो गुणी नादप्रतिप्ठितः ।। १३ । ।
सुरूपः सर्वनेत्राधिवासो विभ्राजिनूपुरः।
पीतांबरः खंडरदः खंडवैशाखसंस्थितः ।। १४।।
चित्रांगः श्यामदशनो भालचंद्रो हविर्भुजः ।
योगाधिपस्तारकस्थपुरुषो गजकर्णकः ।। १५।।
गणाधिराजो विजयः स्थिरो गजपतिर्ध्वजी ।
देवदेवः स्मरप्राणदीपको वायुकीलकः ।। १ ६। ।
विपश्चिद्वरदोन्नादो नादभिन्नमहाचलः ।
वराहवदनो मृत्युंजयो व्याघ्राजिनांबरः ।। १ ७।।
इच्छाशक्तिभवो देवत्राता दैत्यविमर्दनः ।
शंभुवक्त्रोद्भवः शंभुकोपजः शंभुहास्यभूः ।। १ ८।।
शंभुतेजाः शिवाशोकहारी गौरीसुखावहः ।
उमांगमलजो गौरीतेजोभूः स्वर्धुनीभवः ।। १ ९।।
मत्तकायो महानादो गिरिवर्ष्मा शुभाननः ।
सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्द्धा ककुप्श्रुतिः ।।१.४६.२ ० ।।
ब्रह्मांडकुंभश्चिद्व्योमभालः सन्यशिरोरुहः ।
जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ।। २१ ।।
गिरींद्रकरदो धर्माधर्मोष्ठः सामबृंहित।
ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ।।२२ ।।
भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः ।
कुलाचलांसः सोमार्कघंटो रुद्रशिरोधरः ।।२३ ।।
नदीनदभुजः सर्पांगुलीकस्तारकानखः ।
व्योमनाभिः श्रीर्हृदयो मेरुपृष्ठोऽर्णवोदरः । ।२४।।
कुक्षिस्थयक्षगंधर्वंरक्षःकिन्नरमानुषः ।
पृथ्वीकटिः सृष्टिलिंगः शैलोरुर्द्रस्रजानुकः ।।२५ ।।
पातालजंघो सुनिपात्कालांगुष्ठस्रयीतनुः ।
ज्योतिर्मंडललांगूलो हदयालाननिश्चलः ।।२६ ।।
हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः ।
सद्भक्तध्याननिगडः पूजावारीनिवारितः ।।२७।।
प्रतापी काश्यपो यंता गणको विष्टपी बली ।
यशस्वी धार्मिको जेता प्रथमः प्रथमेश्वरः ।।२८।।
चिंतामणिद्वीपपतिः कल्पद्रुमवनालयः ।
रत्नमंडपमध्यस्थो रत्नसिंहासनाश्रयः ।।२ ९ ।।
तीव्राशिरोद्धृतपदो ज्वालिनीमौलिलालितः ।
नंदानंदितपीठश्रीर्भोगदाभूषितासनः ।। १.४६.३० । ।
सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः ।
तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ।। ३१ ।।
सविघ्नाशिनीपीठः सर्वशक्त्यंबुजालयः ।
लिपिपद्मासनाधारो वह्निधामत्रयालयः ।। ३२ ।।
उन्नतप्रपदो गूढगुल्फः संवृतपार्ष्णिकः ।
पीनजंघः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ।। ३३ । ।
निम्ननाभिः स्थूलकुक्षि पीनवक्षा बृहद्भुजः ।
पीनस्कंधः कंबुकठो लबोष्ठो लंबनासिकः ।। ३४। ।
भग्नवामरदस्तुंगासव्यदंतो महाहनुः ।
ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ।।३५।।
स्तबकाकारकुंभाग्रो रत्नमौलिर्निरंकुशः ।
सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ।। ३६ ।।
सर्पकोटीरकटकः सर्पग्रैवेयकांगदः ।
सर्पकक्षोदराबंधः सर्पराजोत्तरच्छदः ।। ३७। ।
रक्तो रक्तांबरधरो रक्तमाल्यविभूषणः ।
रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ।।३ ८।।
श्वेतः श्वेतांबरधरः श्वेतमाल्यविभूषणः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ।। ३९ ।।
सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः ।
सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ।।१.४६.४० ।।
सर्वमंगलमांगल्यः सर्वकारणकारणं ।
सर्वदैककरः शार्ङ्गी बीजपूरी गदाधरः ।।४ १ ।।
शुभ्रांगो लोकसारंगः सुतंतुस्तंतुवर्द्धनः ।
किरीटी कुंडली हारी वनमाली शुभांगदः ।।४२।।
इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् ।
पाशी धृतोत्पलः शालीमंजरीभृत्स्वदंतभृत् ।।४३ ।।
कल्पवल्लीधरो विश्वाभयदैककरो वशी ।
अक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः ।।४४।।
पूर्णपात्रो कंबुधरो विधृताक्षः सुमोदकः ।।
करस्थाम्रफलश्चूतकलिकाभृत्कुठारवान् ।।४५ ।।
पुष्करथस्वर्णघटपूर्णरत्नांबुवर्षकः ।
भारतीसुंदरीनाथो बिनायकरतिप्रियः ।।४६।।
महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरम ।
रमारमेशपूर्वांगो दक्षिणोमामहेश्वर ।।४७।।
महिवराहवामांगो रतिकंदर्पपश्चिमः ।
आमोदमोदजननः सप्रमोदप्र मोदनः । ।।४८।।
समेधितसमृद्धश्रीर्ऋद्धिसिद्धिप्रवर्धनः ।
दंतसौमुख्यसुमुखकांतिकंदलिताश्रयः ।।४९ ।।
मदनावत्याश्रितांघ्रि कृतसौमुख्यदुर्मुखः ।
विघ्नसंपल्लवोद्विग्नसेवोन्निद्रमदद्रवः ।।१.४६.५ ० । ।
विघ्नकृन्निम्नचरणद्राविणीशक्तिसंवृतः ।
तीव्राप्रसन्नवदनो ज्वालिनीपालितैकदृक् ।।५ १ ।।
मोहिनीं मोहनो भोगदायिनीकीर्तिमंडितः ।
कामिनीकांतयुक्तश्रीस्तेजिन्यधिष्ठितैकदृक् ।।५२।।
वसुधारामदोन्नादो महाशंखनिधिप्रियः ।
नमद्वसुमतीमौलिप्रह्वः पद्मनिधिप्रभुः ।।५ ३ ।।
सर्वसद्गुरूसंसेव्यः शोचिष्केशहृदाश्रयः ।
ईशानमूर्द्धा देवेंद्रशिखः पवननंदनः ।।५४।।
प्रत्युग्ननयनादित्यो दिव्यास्त्राणां प्रयोगवित् ।
ऐरावतादिसर्वाशावारणोवारणाप्रियः ।।५५।।
वज्राद्यस्त्रपरीवारगणचंडसमाश्रयः ।
जयाजयपरिकरो विजयाविजयावहः ।।५ ६ ।।
अजयार्चितपादाब्जो नित्यानित्यावलंबितः ।
विलासिनीकृतोल्लासशौंडीसौंदर्यंमंडितः ।।५७।।
अनंतानंतसुखदः सुमंगलसुमंगलः ।
ज्ञानाश्रयः क्रियाधारः इच्छाशक्तिनिषेवितः ।।५८।।
सुभगासंश्रीतपदो ललिताललिताश्रयः ।
कामिनीपालनः कामकामिनीकेलिलालितः ।।५९।।
सरस्वत्याश्रयो गौरीनंदनः श्रीनिकेतनः ।
गुरुगुप्तप्रदो वाचासिद्धो वागीश्वरीपतिः । ।१.४६.६ ० ।।
नलिनीकामुको रामावामाज्येष्ठामनोरमः ।
रौद्रीमुद्रितपादाब्जो हुंबीजस्तुंगशक्तिकः । । ६१ ।।
विश्वादिजननत्राणस्वाहाशक्तिसुकीलकः ।
अमृताब्धिकृतावासो मदाघूर्णितलोचनः ।।६ २ ।।
उच्छिष्टोच्छिप्टगणपगणेशो गणनायकः ।
सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगंबरः ।।६३ ।।
अनापायोऽनंतशक्तिरप्रमेयोऽजरोऽमरः ।
अनाविलोऽप्रतिहतिरच्युतोऽमृतमक्षरं ।।६४।।
अप्रतर्क्योऽक्षयोऽ जय्योऽनाधारोऽनामयोऽमलः ।
अमेयसिद्धिरद्वैतमघोरोऽप्रमिताननः ।।६५ ।।
अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः ।
आधारपीठ आधार आधाराधेयवर्जितः ।।६६।।
आखुकेतन आशापूरक आखुमहारथः ।
इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ।।६७।।
इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः ।
इंद्रगोपसमानश्रीरिंद्रनीलसमद्युतिः ।।६८।।
इंदीवरदलश्याम इंदुमंडलमंडितः ।
इध्मप्रिय इडाभाग इडाधर्मेंदिराप्रदः ।।६९।।
इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः ।
ईशानमौलिरीशान ईशानप्रिय ईतिहा ।।१.४६.७०।।
ईषणात्रयकल्पांत इहामुत्रविवर्जितः ।
उपेंद्र उडुभृन्मींलिरुमदूरकपतिप्रियः ।।७१ ।।
उन्नतानन उत्तुंग उदार उदारत्रिदशाग्रणीः ।
ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ।।७२।।
ऋग्यजुःसामनयन ऋद्धिसिद्धिसमर्पकः ।
ऋजुचित्तैकसुलभ ऋणत्रयविमोचनः ।।७३ ।।
लुप्तविघ्नः सुभक्तानां लुप्तशक्तिः सुरद्विषाम् ।
लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ।।७४।।
एकारपीठमध्यस्थ एकपादकृतासनः ।
एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ।।७५।।
ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः ।
ऐरावतसमोन्मेष ऐरावतनिभाननः ।।७६।।
ओंकारवाच्य ओंकार ओजस्वानोषधीपतिः ।
औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिःस्वनः ।।७७।।
अंकुशः सुरनागानामंकुशाकारसंस्थितः ।
अः समस्तविसर्गाणां पदेषु परिकीर्तितः ।।७८।।
कमंडलुधरः कल्पः कपर्दी कलभाननः ।
कर्मसाक्षी कर्मकर्त्ता कर्माकर्मफलप्रदः ।।७९।।
कदंबगोलकाकारकूष्मांडगणनायकः ।
कारूण्यदेहः कपिलः कथकः कटिसूत्रभृत् ।।१.४६.८०।।
खर्वः खर्वप्रियः खड्गी खांतरस्थः खनिर्मलः ।
खल्वाटशृंगनिलयः खट्वांगी खदुरासदः ।।८१ ।।
गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः ।
गद्यगानप्रियो गर्जगीतो गीर्वाणपूर्वजः ।।८२।।
गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः ।
गुह्याशयो गुडाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ।।८३।।
घंटाघर्घरिकामाली घटकुंभो घटोदरः ।
ङकारवाच्यो ङाकारो ङकाराकारशुंडभृत् ।।८४।।
चंडश्चंडेश्वरश्चंडचंडेशश्चंडविक्रमः ।
चराचरपिता चिंतामणिश्चर्वणलालसः ।।८५।।
छंदश्च्छंदोद्भवश्च्छंदो दुर्लक्ष्यश्च्छंदविग्रहः ।
जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।।८६।।
जपो जपपरो जाप्यो जिह्वासिंहासनप्रभुः ।
झलझ्झल्लोल्लसद्दानो झंकारिभ्रमराकुलः ।।।८७।।
टंकारस्फारसंरावष्टंकारमणिनूपुरः ।
ठद्वयपल्लवांतःस्थ सर्वमंत्रेषु सिद्धिदः ।।८८।।
डिंडिमुंडो डाकिनीशो डामरो डिंडिमाप्रियः ।
ढक्कानिनादमुदितो ढौको ढौंढविनायकः ।।८९।।
तत्वानां प्रकृतिस्तत्वं तत्वंपदनिरूपितः ।
तारकांतरसंस्थानस्तारकस्तारकांतकः ।।१.४६.९०।।
स्थाणुः स्थाणुप्रियः स्थाता स्थावरंजंगमंजगत्। ।
दक्षयज्ञप्रमथनो दाता दानं दमो दया । ।९ १ ।।
दयावान्दिव्यविभवो दंडभृद्दंडनायकः ।
दंतप्रभिन्नभ्रमरो दैत्यवारणदारणः ।।९२ ।।
दंष्ट्रालग्नद्विपघटो देवार्थात्तगजाकृतिः ।
धनं धनपतेर्बंधुर्धनदो धरणीधरः । ।९ ३ ।।
ध्यानैकप्रकटो ध्येयो ध्यानं ध्यानपरायणः ।
ध्वनिप्रकृतिचीत्कारब्रह्मांडावलिमेखलः ।।९४।।
नंद्यो नदःप्रियो नादो नादमध्ये प्रतिष्ठितः ।
निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ।।९५ ।।
परंव्योम परंधाम परमात्मा परंपदं ।
परात्परः पशुपतिः पशुपाशविमोचनः ।।९६ ।।
पूर्णानंदः परानंदः पुराणपुरुषोत्तमः ।
पद्मप्रसन्ननयनः प्रणताज्ञाननाशनः ।। ९७।।
प्रमाणप्रत्ययातीत प्रणतार्तिविनाशनः ।
फणिहस्तः फणिपतिफूत्कारफाणितप्रियः ।।९८।।
बाणार्चितांघ्रियुगलो बालकेलीकुतूहली ।
ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ।। ९९।।
बृहत्तरो ब्रह्मपरो ब्रह्मण्यब्रह्मवित्प्रियः ।
भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः ।। १.४६.१०० ।।
भगवान्भ-- क्तिसुलभो भूतिदो भूतिभूषणः ।
भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः ।। १०१ ।।
मंत्रो मंत्रपतिर्मंत्री मदमत्तो मनोमयः ।
मेखलाहीश्वरो मंदगतिर्मंदनिभेक्षणः ।। १०२ ।।
महाबलो महावीर्यो महाप्राणो महामनाः ।
यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः ।। १०३ । ।
यशस्करो योगगम्यो याज्ञिको याचकप्रिय ।
रसो रसप्रियो रस्यो रंजको रावणार्चितः ।। १ ०४।।
राज्यरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ।
लक्ष्यो लक्ष्यपतिर्लक्ष्यलयस्थो लड्डुकप्रियः ।। १०५ ।।
लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ।
वरेण्यो वह्निवदनो वंद्यो वेदांतगोचरः ।। १० ६।।
विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ।
वामदेवो वज्रिनेता वज्रिवज्रनिवारणः ।। १० ७।।
विवस्वद्बंधनो विश्वाधारो विश्वेश्वरो विभुः ।
शब्दब्रह्ममयप्राप्यः शंभुशक्तिगणेश्वरः ।। १०८ ।।
शास्ता शिखाग्रनिलयः शरण्यः शंबरेश्वरः ।
षड्ऋतुकुसुमस्रग्वी षडाधारः षडक्षरः ।। १ ०९।।
संसारवैद्य सर्वज्ञ सर्वभेषजभेषजं ।
सृष्टिस्थितिलयक्रीडः सुरकुंजरभेदकः ।। १.४६.११० ।।
सिंदूरितमहाकुंभः सदसद्व्यक्तिदायकः ।
साक्षी समुद्रमथनः स्वयंवेद्यः स्वदक्षिणः ।। १११ ।।
स्वतंत्रः सत्यसंकल्पः सामगानरतः सुखी ।
हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् ।। ११२।।
हव्यं हतप्रियो हृष्टो हृल्लेखामंत्रमध्यगः ।
क्षेत्राधिपः क्षमाभर्त्ता क्षमापरपररायणः । । ११३।।
क्षिप्रक्षेमकरः क्षेमनंदः क्षोणीसुरद्रुमः ।
धर्मप्रद्रोऽर्थदः कामदाता सौभाग्यवर्धनः ।। ११४।।
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ।
अभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ।। ११५ ।।
सर्वंवश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ।। ११६।।
प्रतिवादिमुखस्तंभो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो दुःखहा बंधमोक्षदः ।। ११७।।
लवस्त्रुटिः कला काष्ठा निमेषस्तत्परक्षणः ।
घटी मुहूर्तं प्रहरो दिवानक्तमहर्निशं ।। ११८।।
पक्षो मासोऽयनं वर्षं युगः कल्पो महालयः ।
राशिस्तारा तिथिर्योगो वारः करणमंशकं ।। ११९।।
लग्नं होरा कालचक्रं मेरु सप्तर्षयो ध्रुवः ।
राहुर्मदः कविर्जीवो बुधो भौमः शशी रविः ।। १.४६.१२० ।।
कालः सृष्टिः स्थितिर्विश्वं स्थावरं जंगमं जगत् ।
भूरापोऽग्निर्मरुद्व्योमाहंकृतिः प्रकृतिः पुमान् ।। १२१ ।।
ब्रह्मा विष्णुः शिवो रुद्र इंद्रः शक्तिः सदाशिवः ।
त्रिदशा पितरः सिद्धा यक्षा रक्षांसि किन्नरा ।। १२२।।
साध्या विद्याधर भूता मनुष्याः पशवः खगाः ।
समुद्राः सरितः शैला भूतं भव्यं भवोद्भवं ।। १२३ ।।
सांख्यं पातंजलं योगः पुराणानि श्रुतिः स्मृतिः ।
वेदांगानि सदाचारो मीमांसान्यायविस्तरः ।। १२४।।
आयुर्वेदो धनुर्वेदो गांधर्व काव्यनाटकं ।
वैखानसं भागवतं मानुषं पांचरात्रिकं ।। १२५।।
शैवं पाशुपतं कालमुखं भैरवशासनम् ।
शाक्तं वैनायकं सौरं जैनमार्हतसंहिता ।। १२६ ।।
सदसद्व्यक्तमव्यक्तं सचेतनमचेतन ।
बंधो मोक्षः सुखं भोगयोगः सत्यमणुर्महान् ।। १२७।।
स्वस्तिहुंफट्स्वधास्वाहाश्रौषड्वौषड्वषण्नमः ।
ज्ञानं विज्ञानमानंदो बोधः संवित्समोऽसम ।। १२८ ।।
एक एकाक्षराधार एकाक्षरपरायणः ।
एकाग्रधीरेकवीर एकानेकस्वरूपधृक् ।। १२९।।
द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ।
द्वैमातुरो द्विवदनो द्वंद्वहीनो द्वयातिगः ।। १.४६.१३०।।
त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ।
त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः ।। १३१ ।।
चतुर्बाहुश्चतुर्दंतश्चतुरात्मा चतुर्मुखः ।
चतुर्मखमयोपायश्चतुर्वर्णाश्रमाश्रयः ।। १३२।।
चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ।
चतुर्थीपूजनप्रीतिश्चतुर्थीतिथिसंभवः ।। १३३ ।।
पंचाक्षरात्मा पंचात्मा पंचास्यपंचपंचकृत् ।
पंचाधारः पंचवर्णः पंचाक्षरपरायणः ।। १३४।।
पंचतालपंचकरः पंचप्रणवमातृकः।
पंचब्रह्ममयस्फूर्तिः पंचावरणवारितः ।। १३५ ।।
पंचभक्षप्रियः पंचबाणः पंचशिवात्मकः ।
षट्कोणपीठः षट्चक्रधामा षड्ग्रंथिभेदकः ।। १३६।।
षडंगध्वांगविध्वंसी षडंगुलमहाहृदः ।
षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः ।। १३७।।
षड्वैरिवर्गविध्वंसी षडूर्मिभयभंजनः।
षट्तर्कदूरः षट्कर्माः षड्गुणः षड्रसाश्रयः ।। १३८।।
सप्तपातालचरणः सप्तद्वीपोरुमडलः ।
सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः ।। १३ ९।।
सप्तांगराज्यसुखदः सप्तर्षिगणवंदितः ।
सप्तच्छदोनिधीः सप्तहोता सप्तस्वराश्रयः ।। १.४६.१४० ।।
सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ।
सप्तच्छंदोमोदमदः सप्तच्छंदोमखप्रभुः ।। १४१ ।।
अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणं ।
अष्टांगयोगफलभृदष्टपत्रांबुजासनः ।। १४२।।
अष्टशक्तिसमानश्रीरष्टैश्वर्य प्रदायकः ।
अष्टपीठोपपीठश्रीरष्टमातृसमावृतः ।। १४३ ।।
अष्टभैरववसेव्योऽष्टवसुवंद्योऽष्टमूर्तिभृत् ।
अष्टचक्रस्फुरन्मूर्तिरष्ट द्रव्यहविःप्रियः । । १४४।।
नवनागासनाध्यासी नवनिध्यनुशासिता ।
नवद्वारपुरावृत्तो नवद्वारनिकेतनः ।। १४५।।
नवनारायणस्तुत्यो नवदुर्गानिषेवितः ।
नवनाथमहानाथो नवनागविभूषणः ।। १४६ ।।
नवरत्नविचि गो नवशक्तिशिरोधृतः ।
दशात्मको दशभुजो दशदिक्पतिवंदितः ।। १४७।।
दशाध्यायो दशप्राणो दशेंद्रियनियामकः ।
दशाक्षरमहामंत्रो दशाशाव्यापिविग्रहः ।। १४८।।
एकादशादिभीरुद्रैः स्तुतश्चैकादशाक्षरः ।
द्वादशोद्दंडदोर्दंडद्वादशास्रनिकेतनः ।। १४९।।
त्रयोदशभिदाभिन्न विश्वेदेवाधिदैवतं ।
चतुर्दशेंद्रवरदश्चतुर्दशमनुप्रभुः ।। १.४६.१५०।।
चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्पतिः ।
सामपंचदशः पंचदशी शीतांशुनिर्मलः ।। १५१ ।।
षोडशाधारनिलयः षोडशस्वरमातृकः ।
षोडशांतपदावासः षोडशेंदुकलात्मकः ।। १५२।।
कलासप्तदशीसप्तदशः सप्तदशाक्षरः ।
अष्टादशद्वीपपतिरष्टादशपुराणकृत् ।। १५३ । ।
अष्टादशौषधिसृष्टिरष्टादशविधिस्मृतः ।
अष्टादशलिपिकृतिरष्टादशविजातिकृत् ।। १५४।।
एकविंशत्युमानेकविंशत्यंगुलिपल्लवः ।
चतुर्विंशतितत्वात्मा पंचविंशाख्य पूरुषः ।। १५५।।
सप्तविंशतितारेशः सप्तविंशतियोगकृत् ।
द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाहृदः ।। १५६।।
षट्त्रिंशत्तत्वसंभूतिरष्टत्रिंशत्कलातनुः ।
नमदेकोनपंचाशन्मरुद्वर्गनिरर्गलः ।। १ ५७।।
पंचाशदक्षरश्रेणी पंचाशद्रुद्रविग्रहः ।
पंचाशद्विष्णुशक्तीशः पंचाशन्मातृकालयः ।। १५८।।
द्विपंचाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः ।
चतुःषष्ट्यर्णंनिर्णेता चतुःषष्टिकलानिधिः ।। १५९।।
चतुःषष्टिमहासिद्धयोगिनीवृंदवंदितः ।
अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः ।। १.४६.१६० ।।
चतुर्नवतिमंत्रात्मा षण्णवत्यधिकप्रभुः ।
शतानंदः शतधृतिः शतपत्रायतेक्षणः ।। १६१ ।।
शतानीकः शतमखः शतधारवरायुधः ।
सहस्रपत्रनिलयः सहस्रफणिभूषणः ।। १६२ ।।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः ।। १६३ ।।
दशसहस्रफणिभृत्फणिराजकृतासनः ।
अष्टाशीतिसहस्रौघमहर्षिस्तोत्रपाठितः ।। १६४।।
लक्षाधारप्रियाधारो लक्षाधारमनोमयः ।
चतुर्लक्षजपप्रीतिश्चतुर्लक्षप्रकाशकः ।। १६५ ।।
चतुरशीतिलक्षाणां जीवानां देहसंस्थितिः ।
कोटिसूर्यप्रतीकाशः कोटिचंद्रांशुनिर्मलः । । १ ६६।।
सप्तकोटिमहामंत्रमंत्रितावयवद्युतिः ।
शिवोद्भवाद्यष्टकोटिविनायकधुरंधरः । । १६७।।
त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ।
अनंतदेवतासेव्यो ह्यनंतशुभदायकः ।। १६८।।
अनंतानामानंतश्रीरनंतानंतसौख्यवः ।
अनंतशक्तिसहितो ह्यनंतमुनिसंस्तुतः ।
अनंतमुनिसंस्तुत ओं नम इति ।। १६ ९।।
इति वैनायकं नाम्नां सहस्रमिदमीरितं ।
इदं ब्राह्मे मुहूर्ते वै यः पठेत्प्रत्यहं नरः ।। १.४६.१७ ०।।
करस्थं तस्य सकलमैहिकामुष्मिकं सुखं ।
आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः ।। १७५ ।।
मेधा प्रज्ञा धृतिः कांतिः सौभाग्यमतिरूपता ।
सत्यं दया क्षमा शांतिर्दाक्षिण्यं धर्मशीलता ।. १७२।।
जगत्संवननं विश्वसंवादो वेदपाटवं ।
सभापांडित्यमौदार्यं गांभीर्यं ब्रह्मवर्चसं ।। १७३ ।।
ओजस्तेजःकुलं शीलं प्रतापो वीर्यमार्यता ।
ज्ञानं विज्ञानमास्तिक्यं धैर्यं विश्वासता तथा ।। १७४।।
धनधान्यादिवृद्धिश्च सकृदस्य जपाद्भवेत् ।
वश्यं चतुर्विधं विश्वं जपादस्य प्रजायते ।। १७५।।
राज्ञो राजकलत्रस्य राजपुत्रस्य मंत्रिणः ।
जपते यस्य वश्यार्थं स दासस्तस्य जायते ।। १ ७६।।
धर्मार्थकाममोक्षाणामनायासेन साधनं ।
शाकिनीडाकिनीरक्षोयक्षग्रहभयापहं ।। १७७।।
साम्राज्यसुखदं सर्वसपत्नमदमर्दनं ।
समस्तकलहृध्वंसी दग्धं बीजप्ररोहणम् ।। १७८।।
दुःस्वप्ननाशनं क्रुद्धस्वामिचित्त प्रसाधनम् ।
षट्कर्माष्टमहासिद्धित्रिकालज्ञानकारणं ।। १७९।।
परकृत्यप्रशमनं परचक्रविमर्दनं ।
संग्रामो सर्वेषामेदमेकं जयावहं ।। १.४६.१८० ।।
सर्ववंध्यत्वदोषध्नं गर्भरक्षैककारणं ।
पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदं ।। १८१ ।।
देशे तत्र न दुर्भिक्षर्मातयो दुरितानि च ।
न तद्गेहं जहाति श्रीर्यत्रायं जप्यते स्तवः । । १८२। ।
क्षयः कुष्ठः प्रमेहांशौ भगंदरविषूचिके ।
गुल्म प्लीहा न वल्मीकमतिसारं महौदरं ।। १८३ ।।
कासं श्वास गुदावर्तं शूल शोफं जलोदरं ।
शिरोरोगं वमिं हिक्कां गंडमालामरोचकं ।। १८४।।
वातपित्तकफद्वंद्वत्रिदोषजनितज्वरं ।
आगंतुं विषमं शीतमुष्णं चैकाहिकादिकं ।। १८५ ।।
इत्याद्युक्तमनुक्तं वा रोग दोषादिसंभवं ।
सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपः ।। १८६।।
प्राप्यतेऽस्य जपात्सिद्धिः स्त्रीशूद्रपतितैरपि ।
सहस्रनाममंत्रोऽयं जप्तव्यस्तु शुभाप्तये । । १ ८७।।
महागणपते स्तोत्रं सकामः प्रजपन्निदं ।
इच्छया सकलान् भोगानुपभुज्येह पार्थिवान् ।। १८८।।
मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ।
चंद्रेंद्रभास्करोपेंद्रब्रह्मशर्वादिसद्मसु ।। १ ८९। ।
कामरूपः कामगतिः कामदः कामदेश्वरः ।
भुक्त्वा यथेप्सितान्भोगानभीष्टैः सह बंधुभिः ।। १.४६.१९० ।।
गणेशानुचरो भूत्वा महागणपते प्रियः ।
नंदीश्वरादिसानंदैर्नंदितः सकलैर्गणैः ।। ।। १९१ ।।
शिवाभ्यां कृपया पुत्रनिर्विशेषेण लालितः ।
शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः ।। १९२ ।।
जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ।
निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः । । १९३ ।।
योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थिति ।
निरंतरोदितानंदे परमानंदसंज्ञिते ।। १ ९४।।
विश्वोत्तीर्णे परे पूर्णे पुनरावृत्तिवर्जिते ।।
लीनो वैनायके धाम्नि रमते नित्यनिर्वते ।। १९५ ।।
इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतं ।
व्याहृतं चर्चितं ध्यातं विमृष्टमभिनंदितं ।। १९६ ।।
इहामुत्र अविश्लेषं सर्वैश्वर्यप्रदायकं ।
स्वच्छदचारिणाऽप्येष येन संधार्यते स्तवः ।
स रक्ष्यते शिवोद्भूतैर्गणैरप्यष्टकोटिभिः।। १९७।।
लिखितं पुस्तके स्तोत्रं मंत्रभूतं प्रपूजयेत् ।
तत्र सर्वोत्तमा लक्ष्मी सन्निधत्ते निरंतरं ।। १९८।।
दानैरशेषैरखिलैर्वतैश्च ।
तीर्थैरशेषैरखिलैर्मखश्च ।
न तत्फलं विंदति यद्गणेशसहस्रनाम्ना स्मरणेन सद्यः १९९
एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने ।
सायं मध्यंदिने वा त्रिषवणमथवा संततं वा जनो यः ।
स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीतिमुच्चैस्तनोति।
दारिद्र्यं हंति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ।।१.४६.२ ० ०।।
अकिंचनोऽप्येकचित्तो नियतो नियताशनः ।
प्रजपंश्चतुरो मासान् गणेशार्चनतत्परः ।।२०१ ।।
दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि ।
लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी । ।२० २।।
आयुष्यं वीतरोगं कुलमतिविमलं संपदः श्रेणिदानाः ।
कीर्तिः पुण्यावदाता भणतिरभिनवा कांतिरव्याधिभव्या ।।
पुत्राः संतः कलत्रं गुणवदभिमतं यद्यदन्यच्च तत्तनित्यं यः स्तोत्रमेतत् पठति गणपतेस्तस्य हस्ते समस्तं ।।२०३ । ।
गणंजयो गणपतिहरैंबो धरणीधरः ।
महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः ।।२०४।।
अमोघसिद्धिरमितमंत्रश्चिंतामणिर्निधिः ।
सुमंगलो बीजमाशापूरको वरदः कविः ।।२०५ ।।
काश्यपो नंदनो वाचासिद्धो ढुंढिर्विनायकः ।
मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ।।२०६।।
यः स्तौति मद्गतमना मदाराधनतत्परः ।
स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ।।२०७।।
नमो नमः सुखरपूजितांघ्रये ।
नमो नमो निरुपममंगलात्मने ।।
नमो नमो विपुलसाधकसिद्धये ।
नमो नमः करिकलभाननाय ते ।।२०८।।
किंकिणीगणरचितचरणः ।
प्रकटितगुरुमितचारुकरणः ।।
मदजललहरीकलितकपोलः ।
शमयतु दुरितं गणपतिर्नृप नाम्ना ।।२०९ ।।
इति श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उपासनाखंडे ईश्वरमहागणपतिसंवादे श्रीमद्गणेशदिव्यसहस्रनामामृतस्तोत्र कथनंनाम संपूर्णम् ।।
श्रीमद्गणेशार्पणमस्तु ।।
इति श्रीमद्गणेशसहस्रनाममालामंत्रात्मकस्तोत्रं समाप्तम् ।।
श्रीस्वानंदेशार्पणमस्तु ।।
षट्चत्वारिंशोऽध्यायः । ४६
अध्याय ४७ प्रारंभ :-
व्यास उवाच ।
नाम्नां सहस्रे संप्राप्ते प्रसन्ने च गजानने।
ततः किमकरोद् ब्रह्मन हरस्तत् कथयस्व मे ॥१॥
ब्रह्मोवाच ।
गणेशवरदानेन नाम्नां चैवोपदेशतः ।
प्रहष्टः शंकरो नृत्यं जगर्ज च महास्वनः ॥२॥
आहूय स्वगणान्देवान् युद्धावसरमादिशत् ।
ते च हर्षेण महता ययुर्देवाः शिवान्तिकम ॥३॥
ब्रह्मा कुबेरोऽथ पुरन्दरोऽग्नि, र्वायुश्च सोमो वरुणोऽर्यमा च ।
गंधर्व यक्षा ग्रहकिन्नराश्च, सर्वे नमस्कृत्य शिवं स्तुवन्तः ॥४॥
देवा ऊचुः।
महादेव जगन्नाथ जगदानन्ददायक ।
त्वया हतं महादैत्यं कदा द्रक्ष्यामहे वयम् ॥५॥
स्थानभ्रष्टा वयं तेन कृता विश्वविघातिना ।
ब्रह्मोवाच ।
एवं देववचः श्रुत्वा पिनाकी निर्ययौ मुदा ॥६॥
गणेशं मनसा ध्यायन्युद्धाय कृतनिश्चयः ।
वेगेन भवनं प्राप्य देवगंधर्वसंयुतः ॥७॥
तावच्च दैत्यं चारैस्तु वृत्तान्तः सन्निरूपितः ।
आगतः सुरसैन्येन युद्धाय गिरिजापतिः ॥८॥
तस्य सैन्यान्यन हृयन्त शस्त्रैरस्त्रैश्च कंचुकैः ।
स च दैत्यो महानादो युद्धभूषण भूषितः ॥९॥
वीरानानन्दयामास वासः स्रग्भूषणैर्धनैः ।
अनेकयानसंस्थेषु योद्धृषु त्रिपुरं स्वयम् ॥१.४७.१०॥
आरुरोह महादैत्यो नादयान्विदिशो दिशः ।
ततो युद्धं समभवत्सेनयोरुभयोर्महत् ॥११॥
शस्त्रैर्नानाविधैर्बाणैर्मर्मभेदिभिरायसैः ।
असृङ् नदी प्रवाहोऽभून् मार्गरोधनकारकः ॥१२॥
शस्त्राहता बभुर्योधाः पुष्पिताः किंशुका इव ।
केचिच्च दृढवैरेण जीवग्राहं ममारयन् ॥१३॥
केचित्कचेषु धृत्वैव शिरांसि चिच्छिदुर्बलात् ।
धावतां रथिवीराणामश्वानां करिणामपि ॥१४॥
अङ्घ्रिपातभवो रेणु व्यनिशे रोदसी क्षणात् ।
अंधकारे घोरतरे न प्राज्ञायत किंचन ॥१५॥
चक्रुरेवं तदा युद्धं वीरा नानाविधा भृशम् ।
जीविताशां परित्यज्य मर्तव्ये कृतनिश्चयाः ॥१६॥
अदृश्यन्त मृता देवा गते रजसि वायुना ।
विद्रुते सुरसैन्ये च हर्षिते ... ॥१७॥
आययौ समरश्लाघी वज्रहस्तः पुरन्दरः ।
शतकोटिं निरीक्ष्यैव दुद्रुवुर्दैत्यदानवाः ॥१८॥
स वज्रपातैरसुरांश्चूर्णयामास वज्रभृत् ।
तत्यजुर्जीवितं ते तु चण्डवज्रप्रहारतः ॥१९॥
केचिच्च भग्नचरणाः केचिद्भग्न शिरोधराः ।
केचिद्विदीर्णजठराश्छिन्नस्कन्ध भुजाः परे॥१.४७.२०॥
छिन्नाश्वानां च वीराणां वाजिनां रथिनां तथा ।
केषांचिदुखो भिन्ना जंघासु च हताः परे ॥२१॥
छिन्नगुल्फाः परे पेतुर्मिषात्पेतुरथापरे ।
निहतानामसृक्पातैर्जज्ञिरे निम्नगा बहु ॥२२॥
उत्साहवर्धनास्तेषां वीराणां जयकांक्षिणाम् ।
ततः शनैर्गर्जमानो ददर्श त्रिपुरासुरः ॥२३॥
निहतं बहुधा सैन्यं शक्रं योद्धुमथाययौ ।
बभ्राण शक्रं दृष्ट्वैव किमर्थं मर्तुमिच्छसि ॥२४॥
अपैहि युद्धाज्जीवंस्त्वं न पुष्टं हन्मि वासव ।
का ते शक्तिर्मया युद्धं कर्तुं तव शचीपते ॥२५॥
अजः सिंहेन किं युद्धं करिष्यति वदस्व मे ।
एहि युद्धस्व शक्तिश्चेन्नोचेद् गच्छ यथासुखम् ॥२६॥
एवमुक्ते स्थिते शक्रे ववृषे सायकान्बहून् ।
सज्यं कृत्वा धनुर्दैत्यो देवसेनामताडयत् ॥२७॥
एकस्मान्मंत्रिताद् बाणादसंख्याता ययुः शराः ।
मृद्गन्तो देवगंधर्वान् रोदसी समपूरयन् ॥२८॥
अन्धकारं पुनरभूद् बाणजालैर्निरन्तरम् ।
तद् बाणैरपि ते देवा व्यंगा: पेतुर्धरातले ॥२९॥
बलहा न्यपतत् भूमौ प्रहारेणावपीडितः ।
सर्वेषु देववर्येषु मूर्छितेषु महेश्वरः ॥१.४७.३०॥
श्लाघन्तं बहुगर्जन्तं युध्यन्तं नाभ्यरोचयत् ।
मनसाऽपूजयच्छम्भुस्तस्य दैत्यस्य पौरुषम् ॥३१॥
एतस्मिन्नंतरे तत्र नारदो दृष्टुमाययौ ।
पूजितः प्रावदच्छम्भुं शृणुष्व नीललोहित ॥३२॥
नारद उवाच ।
त्वया चिन्ता न कर्तव्या त्रिपुरस्य वधं प्रति ।
वक्ष्ये तस्य वधोपायं तं कुरुश्व महेश्वर ॥३३॥
तेन पूर्वं तपोऽकारि दुष्करं ब्रह्मणोऽपि हि ।
आराधितो गणपतिः स तस्मै सर्ववांछितम् ॥३४॥
यद्यत्तेन वृतं देवो दत्तवानविचारितम् ।
पुरत्रयं कामगममेकबाणाश्रितं महत् ॥३५॥
मरुद्गतिविहीनं तदभेद्यं सर्वनिर्जरैः ।
स एव मुक्तवान् गुह्यं शरेणकेन यस्तव ॥३६॥
पुरत्रयं भेत्स्यते ते तस्मान् मृत्युमवाप्स्यसि ।
एवमुक्त्वा गते तस्मिन्नारदे मुनिसत्तमे ॥३७॥
मूर्छितान्विबुधान् शर्वः सावधानमथा करोत् ।
सस्मारेभमुखं वाक्यं स्मारितो नारदेन तु ॥३८॥
महाप्रयत्नमारेभे दैत्यराजवधाय सः ।
तेजसा सर्वनाशाय शक्तो देवो निजेच्छया ॥३९॥
रथं कुरूपं शशिसूर्यचक्रं, यन्तारमिन्दीवरजं चकार ।
धनुर्गिरीन्द्रं शरमच्युतं स धुर्याश्विने यावयुजद्गिरीशः ॥१.४७.४०॥
आचम्य देवं मनसा विचिन्त्य, तेनोपदिष्टं च जजापनाम्नाम् ।
सहस्रमेकाक्षरमन्त्रयुक्तममंत्रयत्तेन पिनाकभुग्रम् ॥४१॥
अमन्त्रयन्महाबाणं विष्णुरुपं यदा शिवः ।
चकम्पे धारणी शेषो वनानि गिरयोऽपि च ॥४२॥
बभ्रमुः खगणाः सर्वे चुकूजुश्च महारवान् ।
शब्देनाजगवस्यापि बिभ्रान्ताः सुरमानुषाः ॥४३॥
अमुंचत्तं यदा बाणं तदा दग्धं नभस्तलम् ।
भूमंडलं सपातालं ज्वालामालाभिरंजसा ॥४४॥
दृष्ट्वा पपाल दैत्येन्द्रः ससैन्यः पुरसंश्रयः ।
जवेनागाच्छरः सोऽप्य दहद्दैत्यं पुरत्रयम् ॥४५॥
दैत्यदेहगतं तेजो भर्गं देहे लयं ययौ ।
पश्यतां सर्वसैन्यानां दैत्यदानवरक्षसाम् ॥४६॥
ततोऽन्तरिक्षे वागासीन् मुक्तो दैत्यः शिवाहतः।
ततस्ते तुष्टुवुर्देवा मुनयोऽपि त्रिलोचनम् ॥४७॥
जगुर्गन्धर्वनिचयाश्चारणाः श्रुतितत्पराः ।
ननृतुश्चाप्सरःसंघाः किन्नरा वाद्यवादकाः ॥४८॥
मुमुचुः पुष्पवर्षाणि नारदाद्याः सुरर्षयः ।
ययुः शिवाज्ञया देवाः स्वं स्वं स्थानं निराधयः ॥४९॥
नमस्कृत्य महेशानं त्रिपुरासुरघातिनम् ।
मुनयोऽपि निरुद्वेगाः स्वस्वानुष्ठानतत्परा: ॥१.४७.५०॥
आसंस्तस्मिन्हते दैत्य वेदवेदांगशालिनः ।
अग्निहोत्राणि यज्ञांश्च दानानि च व्रतानि च ॥५१॥
चक्रुः सर्वजना भूमौ पुनरुत्साहसंयुताः ।
शैलादि गणपस्कन्द्रैः सर्वैः पारिषदैरपि ॥५२॥
कृतावनामस्त्रयक्ष्योऽपि विभज्य तं महारथम्।
जयशब्दैस्तूर्यशब्दैर्देवदुंदुभिनिःस्वनैः ॥५३॥
अलंकृतं शैलराजं कैलासं मुदितो ययौ।
त्रिपुरारिरिति स्पष्ट ततो नामास्य पप्रथे ॥५४॥
एवं महागणपतेर्मन्त्रसामर्थ्यमिदमीरितम् ।
सहस्रनाम्नामपि च प्रभावोऽयं निरूपितः ॥५५॥
न विज्ञातो मदन्येन कस्यापि न निवेदितः ।
पठनाच्छ्रवणादस्य सर्वकामफलं लभेत् ॥५६॥ ( २०२१ )
इति श्रीगणेशपुराण उपासनाखंडे शिवविजयोनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥
अध्याय ४८ प्रारंभ :-
व्यास उवाच ।
श्रुतं मया महाख्यानं त्रिपुरस्य वधाश्रयम्।
तथापि श्रोतुमिच्छामि क्व स्थिता जगदम्बिका ॥१॥
कथमाविर्बभूवैषा तिथौ दग्धः क्व दैत्यराट् ।
एतत्सर्वं सविस्तारं कथयस्व पितामह ॥२॥
ब्रह्मोवाच ।
बाहुले पौर्णमास्यां स सायं दग्धो महासुरः ।
दिवायुद्धं महाघोरं प्रागेव वर्णितं हि तत् ॥३॥
यतोऽर्चित: सुरैः सर्वैर्जयशाली सुरारिहा ।
अतस्तस्यां दीपदानं कुर्वन्ति भुवि मानवाः ॥४॥
तस्यां स्नानं च दानं च जपहोमादिकं च यत् ।
बहुलं जायते यस्मात्तस्मात्सा बाहुली स्मृता ॥५॥
तस्यां ये तु न कुर्वन्ति त्रिपुरारिमहोत्सवम् ।
न लभंते जयं क्वापि दग्धपुण्या भवन्ति ते ॥६॥
अतस्तस्यां पौर्णमास्यां प्रातरर्चन्ति ये शिवम् ।
निशि यत्तैः कृतं पापं विलयं प्रतिपद्यते ॥७॥
आजन्मतः कृतं पापं मध्याह्नार्चनतस्तथा ।
सप्तजन्मार्जितं पापं प्रदोषार्चनतो मुने ॥८॥
आविर्भावं शिवायास्त्वं कथ्यमानं मया शृणु ।
तस्य मृत्युं शिवाज्ज्ञात्वा भयादन्तर्हिता शिवा ॥९॥
आविरासीज्जगन्माता हिमाचलगुहामुखात् ।
ददर्श पर्वतं घोरं सिंहव्याघ्रमृगाकुलम् ॥१.४८.१०॥
अपश्यन्ती शिवं सा तु विरहाकुलमानसा ।
विललाप भृशं भीता हा तात हा शिवेति च ॥११॥
कथं माम् न विजानीषे सर्वज्ञः सन्सदाशिव ।
वन एकाकिनीं घोरे क्रंदंतीं कुररीमिव ॥१२॥
कदा मे दर्शनं ते स्यात् किं मां विस्मतवानसि ।
शक्ता न जीवितं धर्तुं सोढुं वा विरहं हर ॥१३॥
तावत्त्वमपि कुत्रासि न मे शोकं शृणोषि किम् ।
त्वां विना शरणं कं वा यामि किं वा करोम्यहम् ॥१४॥
योजयस्व पुनर्मां त्वं शिवेन च शिवेन च ।
इदानीं पुनरुत्पन्नां जानीह जठरात्तव ॥१५॥
वरं तमेह शीघ्रं मे गवेषय सदाशिवय् ।
नो चेद्देहपरित्यागं भृगोरस्मात् करोम्यहम् ॥१६॥
क उवाच ।
एवं रुदन्त्यास्तस्यास्तु श्रुत्वा तां गिरमुत्तमाम् ।
न्यवेदयद्धिमवते कश्चिदागत्य धीवरः ॥१७॥
धीवर उवाच ।
काचिन्नितम्बिनी बाला सर्वाभरणभूषिता ।
ताटंके बिभ्रती श्रुत्योर्मंडले इव भास्यतः ॥१८॥
नानारत्नलसद्दीप्ति मुकुटं मस्तके भृशम् ।
ललाटे तु चतुष्कोणं मुक्ताषोडश शोभितम् ॥१९॥
पुष्पं कांचनरत्नाढ्यं मुक्तादामविलम्बितम् ।
सीमन्तान्तर्गतं चारु नासिके स्वर्णमौक्तिकम् ॥१.४८.२०॥
अंगदे चारुणी बाह्वोर्हस्तयोर्वलयानि च ।
लसत्कांचनरत्नाढयं प्रत्येकमंगुलीयकम् ॥२१॥
मुक्ताफलमयीं मालां लसत्कंचुक संश्रिताम् ।
हेमरत्नमयीं कांचीं कटी क्षौमावृते शुभाम् ॥२२॥
गुल्फयोः शृंखले हैमे सिंचच्चारु सुनूपरे।
पादांगुलीष्वपि पृथक् त्तत्तद्भूषणमुत्तमम् ॥२३॥
एवं सर्वानवद्यांगीं रूदतीं विह्वला भृशम् ।
द्रुष्टा पृष्टा न मां वक्ति गृह्णाति सा तवाभिधाम् ॥२४॥
ब्रह्मोवाच।
इत्थं निशम्य हिमवांस्त्वरितस्तां सुतां ययो।
सान्त्वयन्हेतुगर्भाभिर्वाग्भिस्तामवदत्सुधीः ॥२५॥
हिमवानुवाच। किमर्थं शोचसे सुभ्रु सृष्टिस्थित्यन्तहेतुके ।
सर्वलक्षण संपूर्णे सर्वशक्तियुतेऽनघे॥२६॥
अकर्तुमन्यथाकर्तुं कर्तुमीशे महेश्वरि ।
अवाप्तसर्वकामे च सर्वप्राण्यन्तरं गते ॥२७॥
न वियुक्ता शिवेन त्वं सर्वान्तर्यामिणी शुभे ।
अथापि योजयिष्ये त्वां शिवेन शिवकारिणा ॥२८॥
उत्तिष्ठेति गृहीत्वा तामाययौ निजमन्दिरम् ।
ननन्द पार्वती तत्र दृष्ट्वा मेनां सुतान्विताम् ॥२९॥
निश्वासपरमाऽप्यासीच्छिवं द्रष्टुं समुत्सुका।
उवाच पितरं नत्वा साधूपायं वदस्व मे ॥१.४८.३०॥
व्रतं दानं तपो वापि दुष्करं शिवलब्धये ।
करिष्ये तमहं तात पूर्ववत्तप उत्तमम् ॥३१॥
ब्रह्मोवाच ।
अवदज्जनकस्तां तु विचार्य मनसा सकृत् ।
कार्यसिद्धिकरं शीघ्रमुपायं शृणु तं मुने ॥३२॥
हिमवानुवाच ।
शृणु पार्वति वक्ष्यामि साधूपायं शिवाप्तये ।
उपास्तिं विघ्नराजस्य धर्मार्थकाममोक्षदाम् ॥३३॥
अनुष्ठितां महेन्द्राद्यैर्देवैश्च नारदादिभिः ।
प्राप्ताश्च सिद्धयस्तास्ताः शक्रादि पदलक्षणाः ॥३४॥
ब्रह्मणः सृष्टिसामर्थ्यं दत्तं तेन महात्मना ।
विष्णोश्चावनसामर्थ्यं दत्तं सर्वेश्वेरण ह ॥३५॥
शिवस्यापि च तेनैव सामर्थ्यं संहृतौ दृढम् ।
शेषस्यापि च तेनैव सर्वविघ्नहरेण च ॥३६॥
धराधरणसामर्थ्यं दत्तं सर्वेश्वरेण ह ।
यस्य स्वरूपं न विदुर्ब्रह्माद्या मुनयोऽपि च ॥३७॥
वाचामगोचरो योऽसौ मनसोऽथाप्यगोचरः ।
गजानन स्वरूपेण परिदृष्योऽयमीश्वरः ॥३८॥
अतस्तेनैव रुपेण सर्वारंभेषु पूज्यते ।
तमुपासस्व सर्वेशं मया प्रोक्तेन वर्त्मना ॥३९॥ ( २०६० )
इति श्री गणेशपुराण उपासनाखंडे अम्बाविर्भावो नामाष्टचत्वारिंशत्तमोऽध्यायः ॥४८॥
अध्याय ४९ प्रारंभ :-
पार्वत्युवाच ।
दयानिधे गिरीन्द्र त्वं पितर्मे वद सत्वरम् ।
उपासनां गणेशस्य सर्वेशस्य जगद्गुरो ॥१॥
यया शिवं समभ्येत्य शिवं प्राप्स्यामि शाश्वतम् ।
मर्त्यलोकेऽपि लोकानामुपकारो भविष्यति ॥२॥
हिमवानुवाच ।
तवस्नेहवशाद्देवी रहस्यं परमं शुभम् ।
लोकानां चोपकाराय वक्ष्ये शृण्वेकचेतसा ॥३॥
प्रत्यूषकाल उत्थाय नैऋतीं दिशमाव्रजेत् ।
आच्छाद्य धरणीं पूर्वं तृणकाष्ठदलैरपि ॥४॥
उर्वरां वर्जयेत्तिष्ठन्नुत्सर्पं च बुद्धिमान् ।
त्यक्त्वा मूत्रपुरीषे तु यथोक्तं शौचमाचरेत् ॥५॥
दन्तजिह्वा विशुद्धिं च कृत्वा स्नातुं ततो व्रजेत् ।
नदीं तडागं वापीं वा सरः कूपमथापि वा ॥६॥
कृत्वा पूर्वं मलस्नानं मन्त्रस्नानं ततश्चरेत् ।
मृदा वा चन्दनेनापि तिलकं कुंकुमेन वा ॥७॥
कुर्याद्धौते वाससी वा परिधाय शुभासने ।
उपविश्यैकचित्तस्तु सर्वं नित्यं समाप्य च ॥८॥
मृत्तिकां सुन्दरां स्निग्धां क्षुद्रपाषाणवर्जिताम् ।
सुविशुद्धामवल्मीकां जलसिक्तां विमर्दयेत् ॥९॥
कृत्वा चारुतरां मूर्तिं गणेशस्य शुभां स्वयम् ।
सर्वावयवसंपूर्णां चतुर्भुजविराजिताम् ॥१.४९.१०॥
परश्वादि स्वायुधानि दधतीं सुन्दरां घनाम् ।
स्थाप्य पीठे ततः पाणी प्रक्षाल्य मेलयेत्सुधीः ॥११॥
पूजाद्रव्याणि सर्वाणी जलादीनि प्रयत्नतः ।
अष्टगंधानक्षतांश्च रक्तपुष्पाणि गुग्गुलुम् ॥१२॥
त्रिपंचसप्तभिः पत्रैर्युतान् दूर्वांकुरान् शुभान् ।
अष्टोत्तरशतं नीलाऽन् श्वेतानानीय सुन्दरान ॥१३॥
घृतदीपं तैलदीपं नैवेद्यं विविधं शुभम् ।
मोदकापूप लड्डूकान् पायसं शर्करायुतम् ॥१४॥
सूक्ष्मं च तंदुलान्न च व्यंजनानि बहूनि च ।
सचन्द्रपूगचूर्णाढ्यं खाद्यखादिरसंयुतम् ॥१५॥
एलालवंगसंमिश्रं ताम्बूलं केसरान्वितम् ।
जम्ब्वाम्रपनसादीनि द्राक्षारम्भा बलानि च ॥१६॥
तत्तदृतुभव नीशे नारिकेलानि चानयेत् ।
बहुप्रकारमार्तिक्यं कांचनीं दक्षिणां तथा ॥१७॥
एवं संभृतसंभार एकान्तस्थलमास्थितः ।
चैलाजिने कुशमये आसने च कृतासनः ॥१८॥
भूतशुद्धिं प्रकुर्वीत प्राणानां स्थापनं तथा ।
दिग्बंध पूर्वं देवांश्च गणेशादीन्नमेत्पुरा ॥१९॥
अन्तर्बहिर्मातृकाश्च न्यसेदागम मार्गतः ।
सन्निधामादिका मुद्रा दर्शयेद्गुरु मार्गतः ।
मन्त्रन्यासं ततः कृत्वा षडंगन्यासमेव च ॥१.४९.२०॥
पूजाद्रव्याणि संशोध्य ततो ध्यायेद् गजाननम् ।
एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् ॥२१॥
पाशांकुशधरं देवं मोदकान् बिभ्रतं करैः ।
रक्तपुष्पमयीं मालां कंठे हस्ते परां शुभाम् ॥२२॥
भक्तानां वरदं सिद्धि बुद्धि बुद्धिभ्यां सेवितं सदा ।
सिद्धिबुद्धिप्रदं नृणाम् धर्मार्थकाममोक्षदम् ।
ब्रह्मरुद्रहरीन्द्राद्यैः संस्तुतं परमर्षभिः ॥२३॥
आगच्छ जगदाधार सुरासुरवरार्चित ।
अनाथनाथ सर्वज्ञ गीर्वाण परिपूजित ॥२४॥
स्वर्णसिंहासने दिव्यं नानारत्नसमन्वितम् ।
समर्पितं मया देव तत्र त्वं समुपाविश ॥२५॥
देवदेवेश सर्वेश सर्वतीर्थाहृतं जलम्।
पाद्यं गृहाण गणप गन्धपुष्पाक्षतैर्युतम् ॥२६॥
प्रवालमुक्ताफल पुत्र रत्न तांबूल जांबूनदमष्टगंधम् ।
पुष्पाक्षतायुक्तममोघशक्ते, दत्तं मयाऽर्घ्यं सफली कुरुष्व ॥२७॥
गंगादिसर्वतीर्थेभ्यः प्रार्थितं तोयमुत्तमम ।
कर्पूरैला लवंगादि वासितं स्वीकुरु प्रभो ॥२८॥
चम्पकाशोक बकुल मालती मोगरादिभिः ।
वासितं स्निग्धता हेतु तैलं चारु प्रगृह्यताम् ॥२९॥
कामधेनु समुद्भूतं सर्वेषां जीवनं परम्।
पावनं यज्ञहेतुस्ते पयः स्नानार्थमर्पितम् ॥१.४९.३०॥
धेनुदुग्धसमुद्भूतं शुद्धं सर्वजन: प्रियम् ।
मयाऽऽनीतं दधिवरं स्नानार्थं प्रतिगृह्यतामू ॥३१॥
नवनीत समुत्पन्नं सर्वसंतोषकारणम् ।
यज्ञांगं देवताहारो घृतं स्नातुं समर्पितम् ॥३२॥
पुष्पसारघसंभूतं सर्वतेजोविवर्धनम् ।
सर्वपुष्टिकरं देव मधुस्नानार्थमर्पितम् ॥३३॥
इक्षुसारसमुद्भूतां शर्करां सुमनोहराम् ।
मलापहारिणीं स्नातुं गृहाण त्वं मयाऽर्पिताम् ॥३४॥
सर्वमाधुर्यताहेतुः स्वादुः सर्वप्रियंकरः ।
पुष्टिकृत् स्नातुमानीत् इक्षुसारभवो गुडः ॥३५॥
कांस्ये कांस्येन पिहितो दधिमध्वाज्यपूरित; ।
मधुपर्को मयाऽऽनीतः पूजार्थं प्रतिगृह्यताम् ॥३६॥
सर्वतीर्थाहृतं तोयं मया प्रार्थनया विभो ।
सुवासितं गृहाणेदं सम्यक्स्नातुं सुरेश्वर ॥३७॥
रक्तवस्त्रयुगं देव लोकलज्जानिवारणम् ।
अनर्घ्यमतिसूक्ष्मं च गृहाणेदं मयार्पितम् ॥३८॥
राजतं ब्रह्मसूत्रं च कांचनं रत्नसंयुक्तम्।
भक्त्योपपादितं देव गृहाण परमेश्वर ॥३९॥
अनेक रत्नयुक्तानि भूषणानि बहूनि च ।
तत्तदंगे कांचनानि योजयामि तवाज्ञया ॥१.४९.४०॥
अष्टगन्धा समायुक्तं रक्तचन्दनमुत्तमम् ।
द्वादशांगेषु ते देव लेपयामि कृपां कुरु ॥४१॥
रक्तचन्दनसंमिश्रास्तंदुलांस्तिलकोपरि ।
शोभाय संप्रदास्यामि गृहाण जगदीश्वर ॥४२॥
पाटलं कर्णिकारं च बंधूकं रक्तपंकजम् ।
मोगरं मालतीपुष्पं गृह्यतां परमेश्वर ॥४३॥
नाना पंकज पुष्पैश्च ग्रथितां पल्लवैरपि ।
बिल्वपत्रयुतां मालां गृहाण सुमनोहराम् ॥४४॥
दशांगं गुग्गुलं धूपं सर्वं सौंगंध्य कारकम् ।
सर्वपापक्षयकरं त्वं गृहाण मयाऽर्पितम् ॥४५॥
सर्वज्ञ सर्वलोकेष तमोनाशनमुत्तमम् ।
गृहाण मंगलं दीप देवदेव नमोऽस्तु ते ॥४६॥
नाना पक्वान्नसंयुक्तं पायसं शर्करान्वितम् ।
नाना व्यंजनशोभाढयं शाल्योदनमनुत्तमम् ॥४७॥
दधिदुग्धघृतैर्युक्तं लवंगैला समन्वितम् ।
मरीचिचूर्णसहितं क्वथिका वटकान्वितम् ॥४८॥
राजिकाधान्यसंयुक्तं मेथीपिष्टं सतक्रकम् ।
हिंगुजीरककूष्मांड मरीचि माष पिष्टकैः ॥४९॥
संपादितैः सुपक्वैश्च भर्जितैर्वटकैर्युतम् ।
मोदकापूप लड्डूक शष्कुली मंडकादिभिः ॥१.४९.५०॥
पर्पटैरपि संयुक्तं नैवेद्यममृतान्वितम्।
हरिद्रा हिंगुलवणसहितं सूपमुत्तमम् ॥५१॥
ससामुद्रं गृहाणेदं भोजनं कुरु सादरम् ।
सुतृप्तिकारकं तोयं सुगन्धं च पिबेच्छया ॥५२॥
त्वयि तृप्ते जगत्तृप्तं नित्यतृप्ते महात्वनि ।
उत्तरापोशनार्थं ते दद्मि तोयं सुवासितम् ॥५३॥
मुखपाणिविशुद्ध्यर्थं पुनस्तोयं ददामि ते ।
दाडिमं मधुरं निम्बु जम्ब्वाम्रपनसादिकम् ॥५४॥
द्राक्षारंभा फलं पक्वं कर्कन्धूः खार्जुरं फलम् ।
नारिकेलं च नारिंगमांजिरं जम्बिरं तथा ॥५५॥
उर्वारुकं च देवेश फलान्येतानि गृह्यताम् ।
मुखपाणिविशुद्ध्यर्थं पुनस्तोयं ददामि ते ॥५६॥
गृहाण चन्दनं चारु करांगोद्वर्तनं शुभम् ।
नाना परिमल द्रव्यैर्निर्मितं चूर्णमुत्तमम् ॥५७॥
सुगन्धि नामकं पुण्य गन्धि चारु प्रगृह्यताम् ।
चारु शालुरसंभूतं वंशसारसमुद्भवम् ।।५८॥
सीमन्तभूषणं चूर्णं लाक्षारंजितमस्तु ते ।
सचन्द्रपूग चूर्णाढ्यं खाद्यखादिरसंयुतम् ॥५९॥
एलालवंगसंमिश्रं ताम्बूलं केसरान्वितम् ।
न्यूनातिरिक्त पूजायाः संपूर्णफलहेतवे ॥१.४९.६०॥
दक्षिणां कांचनीं देव स्थापयामि तवाग्रतः ।
सितपीतैस्तथा रक्तैर्जलजैः कुसुमैः शुभैः ॥६१॥
ग्रथितां सुन्दरां मालां गृहाण परमेश्वर ।
हरिताः श्वेतवर्णा वा पंचत्रिपत्रसंयुताः ॥६२॥
दूर्वांकुरा मया दत्ता एकविंशतिसंमिताः ।
एकविंशतिसंख्याकाः कुर्याद्देव प्रदक्षिणाः ॥६३॥
पदे पदे ते देवेश नश्यन्तु पातकानि मे ।
औदुंबरे राजते वा कांस्ये कांचनसंभवे ॥६४॥
पागे प्रकल्पितान् दीपान्गृहाण चक्षुरर्पकान् ।
पंचारार्ति पंचदीपैर्दीपितां परमेश्वर ॥६५॥
चारुचन्द्रनिभं दीप गृहाण वीचिवारणम् ।
यथाऽस्य नेक्ष्यते भस्म तथा पापं विनाशय ॥६६॥
स्तोत्रैर्नानाविधैः सूक्तैः सहस्रनामभिस्ततः ।
उपविश्य स्तुवीतैनं कृत्वा स्थिरतरं मनः ॥६७॥
दीनाधीश दयानिधे सुरगणैः संसेव्यमान द्विज।
ब्रह्मेशान महेन्द्र शेष गिरिजा गंधर्व सिद्धैः स्तुत ।
सर्वारिष्ट निवारणैकनिपुणः त्रैलोक्यानाथं प्रभो।
भक्तिं मे सफलां कुरुष्व सकलां क्षान्त्वाऽपराधान्मम ॥६८॥
इति मूर्तिं समभ्यर्च्य दंडवत्प्रणिपत्य च ।
जपेन्मन्त्रं ततो देवि सर्वसिद्धिप्रदायकम् ।।६९॥( २१२९ )
इति श्रीगणेशपुराण उपासनाखंडे गणेश पार्थिवपूजा निरूपणं नामैकोनपंचाशत्तमोऽध्यायः ॥४९॥
अध्याय ५० प्रारंभ :-
पार्वत्युवाच ।
अहं मन्त्रे न जानामि गिरीन्द्र मे वद स्वयम् ।
अनुग्रहं गणेशस्य यामि यामि शिवं शिवम् ॥१॥
हिमावानुवाच ।
मन्त्रा नानाविधा देवि नानासिद्धिप्रदायकाः ।
असंख्याता गणेशस्य कांश्चित्तेषु वदामि ते ॥२॥
कृत्वा पद्मासनं सम्यङ्नियम्य खानि सर्वशः ।
कृतन्यासविधिः पश्चाज्जपं कुर्यान्निजेच्छया ॥३॥
एकाक्षरस्यमन्त्रस्य लक्षं लक्षार्धमेव च ।
षडक्षरस्य मन्त्रस्य नियतं चायुतं तथा ॥४॥
तथा पंचाक्षरस्यापि दशाष्टाक्षरयोरपि ।
अष्टाविंशद्वर्णमन्त्रो जप्तव्योऽयुत संख्यया ॥५॥
एवं नानाविधान्मंत्रांज्जपन्ति स्वेष्टसिद्धये ।
त्वं तु पार्वति मे वाक्यं शृणुष्वैकाग्रमानसा ॥६॥
एकाक्षरं षडर्णं च गृहाण मन्त्रमुत्तमम ।
नभः शुक्लचतुर्थ्यां त्वमारम्भं कुरु सुव्रते ॥७॥
अनुष्ठानं मासमात्रं कुरु कार्यं भविष्यति ।
शिवं प्राप्स्यसि सुव्यक्तमन्यद्यच्चापि वांछितम् ॥८॥
पार्थिवी पूजिता मूर्तिः स्त्रिया वा पुरुषेण वा ।
एका ददाति सा काम्यं धनपुत्रपशूनपि ॥९॥
असाध्यं साधयेन्मर्त्यो मूर्तिद्वयप्रपूजनात् ।
त्रिमूर्ति पूजनाद्राज्यं रत्नानि सर्वसम्पदः ॥१.५०.१०॥
चतुर्मूर्तिः पूजयेद्यो धर्मार्थं काम मोक्षभाक् ।
सार्वभौमो भवेद्राजा पंचमूर्ति प्रपूजनात् ॥११॥
षण्मूर्तिपूजया सृष्टि स्थिति प्रलयकृद् भवेत् ।
सप्ताष्ट नव मूर्तीनां पूजया सर्वविद्भवेत् ॥१२॥
भूतं भव्यं भविष्यं च वेत्ति देवप्रसादतः ।
त्रयस्त्रिंशत्कोटि देवा वह्नीन्द्र शिवविष्णवः ॥१३॥
सनकाद्या मुनिगणाः सेवन्ते दशपूजनात् ।
एकादशार्चनादेव दशरुद्राधिपो भवेत् ॥१४॥
द्वादशादित्य राज्यं च लभेच्च द्वादशार्चनात् ।
अतिसंकटवेलासु कुर्याद् वृद्ध्या प्रपूजनम् ॥१५॥
अष्टोत्तरशतं यावत्तावत्तत्तदवाप्नुयात् ।
महामुक्तिमवाप्नोति लक्षपूजनतोऽन्वहम् ॥१६॥
कारागृहान्मुक्तिकामः कारयेन्मूर्तिपंचकम् ।
त्रिःसप्त रात्रान्मुच्येत गणेशानुग्रहान्मुने ॥१७॥
सप्तमूर्ती: प्रकुर्वीत प्रत्यहं पंचवत्सरम् ।
महापापात्प्रमुच्येत गणेशे भक्तिमान्नरः ॥१८॥
आजन्म मरणादेकां पूजयेत्पार्थिवी नरः ।
गणेश: स तु विज्ञेयो दर्शनाद्विघ्ननाशनः ॥१९॥
तमेव सर्वकामेष पूजयेन्न गणाधिपम ।
तस्यैव पूजया प्रीतो न देवःस्यात्तथा स्वयम ॥१.५०.२०॥
सर्वरोगप्रपीडासु मूर्तीनां त्रयमुत्तमम् ।
नवाहं पूजयेद्यस्तु सर्वपीडां व्यपोहति ॥२१॥
सौवर्णी राजती ताम्री रीतिकांस्यसमुद्भवा ।
मौक्तिकी च प्रवाली च सर्वमेतत्प्रयच्छति ॥२२॥
एवं कृते व्रते देवि सर्वान्कामानवाप्स्यसि ।
यावद्भाद्रपदे मासि चतुर्थी परिलभ्यते ॥२३॥
तस्यां महोत्सवः कार्यो यथाविभवमादरात् ।
रात्रौ जागरणं कार्यं तत्कथावाद्यगायनैः ॥२४॥
प्रभाते विमले स्नात्वा पूर्ववत्पूजयेद्विभुम् ।
गणेशं वरदं देवं ततो होमं समारभेत् ॥२५॥
कुंडे सांगं स्थंडिले वा हूयाज्जप दशांशतः ।
पूर्णाहुतिं ततः कुर्याद् बलिदानपुरःसरम् ॥२६॥
आचार्यं पूजयेत् पश्चाद् गोभ्वासोधनादिभिः ।
ब्राह्मणां स्तोषयेत् पश्चाद्धोमशेषं समापयेत् ॥२७॥
तर्पयेत्तद्दशांशेन तद्दशांशेन भोजयेत् ।
ब्राह्मणान्वेदविदुषः सपत्नीकांश्च कांश्चन ॥२८॥
तेभ्यो भूषणवासांसि दद्याच्छक्त्या च दक्षिणाम् ।
दद्यात् स्त्रीणामलंकारान् योषिद्भ्यश्च सकुंचुकान् ॥२९॥
तुष्टये गणनाथस्य सिद्धिबुद्धियुतस्य ह ।
वित्तशाठ्यं न कुर्वीत यथाविभवमाचरेत् ॥१.५०.३०॥
ततः सुहृज्जनयुतः स्वयं भुंजीत सादरम् ।
अपरस्मिन्दिने मूर्तिं नृयाने स्थापयेन्मुदा ॥३१॥
छत्रध्वजपताकाभिश्चामरैरुपशोभिताम् ।
किशोरैर्दण्डयुद्धेन युध्यद्भिश्च पुरःसरम् ॥३२॥
महाजलाशयं गत्वा विसृज्य निनयेज्जले।
वाद्यगीतध्वनियुतो निजमन्दिरमाव्रजेत् ॥३३॥ ( २१६२)
इति श्री गणेशपुराण उपासनाखंडे हिमवद्गिरिजा संवादे चतुर्थीव्रतकथनं नाम पंचाशत्तमोऽध्यायः ॥५०॥