गणेशपुराणम्/खण्डः १ (उपासना खण्डः)/अध्यायः ३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३८ गणेशपुराणम्/खण्डः १ (उपासना खण्डः)
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →

व्यास उवाच ।
ततः किमकरोद् ब्रह्मस्त्रिपुरो वरदर्पितः ।
तत्सर्वं कौतुकं महयं वक्तुमर्हस्यशेषतः ।। १ ।।
ब्रह्मोवाच ।
ततः काश्मीर पाषाणभवां मूर्तिं गजाननीम ।
स्थापयामास विधिवद् ब्रह्मणैर्मन्त्रकोविदैः।।२।।
महांतं कांचनं दिव्यं मणिमुक्ता विभूषितम् ।
गणेशपुरमध्ये स प्रासादं कृतवान्शुभम् ।। ३ ।।
उपचारैः षोडशभिः पूजयामास तं विभुम् ।
नमस्कारैरसंख्यातैः स्तुतिभिः प्रार्थनैरपि ।।४।।
क्षमाप्य देवदेवेशमनुज्ञोप्य ययौ बहिः ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो यथार्हतः ।।५ ।।
ततस्तदभवत्स्थानं बंगाले त्रिपुरस्य ह ।
गणेशपुरमित्येवं सर्वेषां सर्वसिद्धिदम् ।। ६ ।।
ततः स त्रिपुरो दैत्यो गजानन वरोद्धतः ।
नृलोकान्पालयामास देवानामाक्रमे रतः ।।७।।
पदातयस्तुरंगाश्च गजाश्च रथिनस्तथा ।
दशदिग्भ्यो ययुस्तं तु सेवार्थं बलवत्तराः । ।८।।
राजानः सेवका जाता आनुकूल्येन तस्य ह ।
प्रतिकूला गता मृत्युं युद्धं कर्तुं मनीश्वराः ॥९॥
एवमाक्रम्य भूखंड ततोऽगादमरावतीम् ।
तत इंद्रो देवगणै नौंनायुद्ध करे वृतः ॥1.39.१०॥
ऐरावत समारूढो ययौ युद्धाय दंशितः ।
सोऽपि सेनां त्रिधा चक्रे चतुरंगां महाबलः ॥११॥
भीमकायं महादैत्यं वज्रदंष्ट्रं च दानवम् ।
धनुर्युद्धे गदायुद्धे शस्त्रयुद्धे च कोविदम् ॥१२॥
अस्त्रयुद्धे मल्लयुद्धे निष्णातं दैत्यपुंगवम् ।
भीमकायमवोचत्स नृलोकस्याधिपो भव ॥१३॥
कालकूटं वज्रदंष्ट्रं जगाद त्रिपुरो बली ।
त्रिभागयाऽनया याहि सेनया त्वं रसातलम् ॥१४॥
शेषमुख्यान सर्वनागान् वशान्कुरु ममायज्ञा।
अहं त्रिभागया शक्रमाक्रमिष्येऽखिलान्सुरान् ॥१५॥
भौमकायो वज्रदंष्ट्रो यथाज्ञप्तो प्रतस्थतुः ।
चतुरंगबलैर्युक्तः स्वयं नन्दनमाययौ ॥१६॥
दिव्यान् वृक्षान् बभंजुस्ते वार्यमाणास्तु सैनिकाः ।।
तत्र स्थित्वा दैत्यराजो दूतान् शक्राय प्राहिणोत् ।
अत्रा नयन्तु तं शक्रं दर्शनाय त्वरान्विताः
वदन्तु मम वाक्यं वा मृत्युलोकं व्रजाधुना ॥१८॥
तत्र त्वां पालयिष्यामि साम्ना देह्यमरावतीम्
यदि युद्धे च ते बुद्धिस्तदा शीघ्रं प्रयाहि माम् ॥१९॥
ते गत्वा शक्रमाचख्युस्त्रिपुरासुर चेष्टितम् ।
श्रुत्वेत्थं वचनं तेषां वज्राहत इवाचल ।।1.39.२०।।
चकम्पे चाचलरिपुर्वायुनेव यथा तरुः ।
चिन्तया व्याकुलीभूतः किमेतदिति चिन्तयन् ॥२१॥
क्रोधानलेन जज्बाल संरक्ताखिललोचनः ।
कुर्वन्भस्मेव लोकानां शोषयन्निव वारिधीन् ॥२२॥
उवाच दूतान् गच्छन्तु यान्तु युद्धाय सत्वराः ।
स्वयमैरावतारूढो जगर्ज सुरशत्रुहा ॥२३॥
तेन नादेन महता क्षोभयन्भुवनत्रयम् ।
श्रुत्वा तद्वचनं ते तु गता दूतः यथागतम् ॥२४॥
विबुधाश्चापि सन्नद्धा नानाशस्रासिपाणयः ।
भिण्डिपालकराः केचित् केचिच्छक्त्यृष्टिपाणयः ॥२५॥
मुद्गरासिधराः केचिद्धनुर्बाणकराः परे ।
गदाखेटकराः केचित् केचित्तु दंडपाणयः ॥२६॥
एवं देवगणैर्युक्तो वज्रभृन्निर्ययौ बहिः ।
कृतस्वस्त्ययनो विप्रैर्नाना वादित्र निस्वनैः ॥२७॥
त्रिपुरो दूतवाक्येन ज्ञात्वा युद्धोद्यमं तु तम् ।
सन्नद्धामकरोत्सेनां प्रहृष्टां चतुरंगिणीम् ।।२८॥
असंख्यातां समादाय ह्यारूढोऽभि निर्ययौ ।
परस्परं ददृशतुस्ते सेने वीरभूषणे ॥२९॥
कोलाहलो महानासीद् बृंहितैर्ह्रेषितैरपि ।
क्ष्वेडितै रथघोषैश्च वाद्यघोषैरनेकधा ॥1.39.३०॥
ततो हुंकारमात्रेण नोदितास्त्रिपुरेण ते ।
वीरा युयुधिरे देवैः स संमर्दो महानभूत् ॥३१॥
नाभूत् स्वपर बोधोऽपि जघ्नुरेव परस्परम् ।
एवं सुतुमुले जन्ये मृतास्ते दानवा बहु ॥३२॥
सुमनसोऽपि पतिता दैत्यशस्त्र प्रपीडिताः।
बभुस्ते सैनिकास्तत्र पुष्पिता इव किंशुकाः ॥३३॥
अशय्याः शयिताः केचिदंघ्रिहीनास्तथाऽपरे।
क्रमेलका गजाध्यक्षा रथाश्वाश्च पदातिनः ॥३४॥
ततः पलायनपरा दैत्या याता दिशो दश ।
सिंहं दृष्ट्वैव सहसा मृगा जीवनकांक्षिणः ॥३५॥
ततो निवार्य तत्सैन्यं वृन्दारकरिपुः स्वयम् ।
क्रोधानल महाज्वालो गर्जन्मेघ इवापरः ॥३६॥
शत्रुसान्निध्यमगमद् भक्षयन्निव रोदसी ।
स्वखड्गेनाहनतीव्रं हस्तं वज्रधरं हरेः ॥३७॥
वज्रं पपात तद्धस्तात् तदद्भुतमिवाभवत् ।
तदा दाया हनद्दैत्यस्तेनैवैरावतं गजम् ॥३८॥
ऐरावतः प्रहारेण पलायनपरो ययौ ।
ततो जघान स हरिर्मुष्टिना दैत्यपुंगवम् ॥३९॥
सक्षणं पतितो भूमौ तत उत्थाय वेगवान् ।
जघान मुष्टिना शक्रं धरण्यां तमपातयत् ॥1.39.४०॥
तत उत्थाय मघवा दैत्यं प्राह रुषान्वितः ।
इदानीं मल्लयुद्धाय सज्जीभवासुरेश्वर ॥४१॥
ततः स विस्मयाविष्ट उवाच बलगर्वितः ।
किमर्थत्वं निजप्राणे निर्दयोऽसि सुरेश्वर ॥४२॥
कृमिकीटपतंगानां प्राणोऽतीव प्रियो मतः ।
गच्छ देव धरण्यां ते स्थानं दत्तं मया शुभम् ॥४३॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा जगाद बलवृत्रहा।
यद्यहं जीविताच्वांहि मोचयामि न चेद्रिपो ॥४४॥
तदाऽहं धरणीं यामि त्वदाज्ञा वशगोऽधम ।
त्वमेव हतमूर्धाऽद्य धरणीं यास्यसे खल ॥४५॥
वदत्येवं तु देवेन्द्र दैन्येन्द्रो निजघान तम् ।
मुष्टिना हृदये दुष्टस्ततो युद्धमभूत्तयोः ॥४६॥
चाणूरकृष्णयोर्यद्वत् परस्पर जयैषिणोः ।
हृदयं हृदयेनैव हस्तं हस्तेन जघ्नतुः ।४७॥
जानुभ्यां जानुनी चोरू ताभ्यां तौ च निजघ्नतुः ।
मस्तकं मस्तकेनैव कूर्परं कूर्परेण तु ॥४८॥
पृष्टं पृष्टेन पादाभ्यां पादौ तावभिजघ्नतुः ।
पादौ गृहीत्वा दैत्योऽस्य भ्रामयित्वा मुहुर्मुहुः ॥४९॥
तत्याज दूरतः शक्रं यथा न ज्ञायते क्वचित् ।
आरुरोह स्वयं तं तु चतुर्दन्तं गजेश्वरम् ॥1.39.५०॥
ततो देवगणाः सर्वे हिमवद् गिरिगह्वरम् ।
ययुः शक्रं विचिन्वन्तो दैत्यसंत्रासतापिताः ॥५१॥
कुत्र वा पतितो देवो द्रक्ष्यामो वा कथं विभुम् ।
एवं संचिंतयन्तस्ते भ्रमंतो ददृशुश्च तम् ॥५२॥
अधोमुखं समायान्तं देवेन्द्रं तं तदैव ह ।
प्रणेमुर्देवसंघास्तमालिलिंगस्तथाऽपरे ॥५३॥
पूजयामासुरपरे बीजयामास कश्चन ।
पादसंवाहनं चास्य चक्रुः केचन भक्तितः ॥५४॥
तत्रैव न्यवसन् सर्वे गुप्तरूपाः सुरास्तदा ।
दैत्यस्त्वैरावतारूढो ययौ ताममरावतीम् ॥५५॥
देवस्थानानि दैत्यानामिंद्रासन गतः स्वयम् ।
ददौ विभज्य प्रत्येकं मानपूर्वं सुरद्विषाम् । ॥५६॥
दिव्य वादित्रनिर्घोषैः शृण्वन् गांधर्वनिस्वनान् ।
किन्नरैः सेव्यमानस्तु रेमे चाप्सरसां गणैः ५७ (१५१६)
इति श्रीगणेशपुराण उपासनाखंडे इन्द्रपराजयो नामैकोन चत्वारिंशोऽध्यायः ॥३९॥