गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ८६-९०
← अध्यायाः ८१-८५ | गणेशपुराणम्/खण्डः १(उपासनाखण्डम्) अध्यायाः ८६-९० [[लेखकः :|]] |
अध्यायाः ९१-९२ → |
अध्याय ८६ प्रारंभ :-
क उवाच ।
दृष्ट्वा सा तादृशं बालं स्नेहस्नुतपयोधरा ।
आलिलिंग मुदा बालं तद्धस्तहृदया सती ॥१॥
तामूचे मम बालोऽयं गंगागंभीरनिस्वना ।
ममायमिति तां प्राह वह्निर्बालो गिरेः सुताम् ॥२॥
कृत्तिकाद्याश्च तां प्राहुरस्मज्जातोऽयमर्भकः ।
अस्माकमेव बालोऽयमिति चुक्रुशुरातुराः ॥३॥
एवं विवदमानास्ता याता वह्निपुरोगमाः।
कैलासे देवनिलये गिरिशं चन्द्रशेखरम् ॥४॥
गौरी विवेश प्रथमं कटिन्यस्त स्वबालकाः ।
शिवो गृहीत्वा तं स्वांके शिरस्याघ्राय मन्त्रतः ॥५॥
रमयामास परया मुदा देवस्त्रिलोचनः ।
गंगा वह्निः षट्स्त्रियस्ता गृहं जग्मुर्यथा गतम् ॥६॥
तन्नामकरणार्थाय ब्रह्मणं च बृहस्पतिम् ।
आहूय शिव ऊचे तौ नामास्य क्रियतामिति ॥७॥
ब्रह्माबृहस्पती ऊचतुः ।
कार्तिके मासि जातोऽयं कार्तिकेय इति स्फुटम् ।
नामास्य प्रथमं देव पार्वतीनन्दनोऽपि च ॥८॥
शरद्वीपेऽयमुत्पन्नः शरजन्मा ततोऽपि च ।
कृत्तिकाभ्योऽपि जातत्वात् कार्तिकेय इति स्मृतः ॥९॥
यतोऽस्य मातरं षट् ताः स षाण्मातुर इत्यपि ।
अयं पुत्रस्तारकजित्तारकं च विजेष्यति ॥१.८६.१०॥
देवसेनापतिर्भावी सेनानीरिति शब्दितः ।
तत एव महासेनः षण्मुखत्वात् षडाननः ॥११॥
स्कन्नं त्रिवारं रेतो यत् तेन स्कन्दोऽयमुच्यते ।
तयोस्तु वदतोरेवं शक्राद्या आययुः सुराः॥१२॥
आननन्दुश्च नेमुस्तं पुपूजुस्तुष्टुवुर्जगुः ।
व्यानशे रोदसी दिव्यं वाद्यशब्दो रसातलम् ॥१३॥
ततस्ते प्रार्थयामासुः सेनान्यं प्रणिपत्य च ।
त्रैलोक्यकंटकं देव जहि त्वं तारकासुरम् ॥१४॥
नानाभिषेकसम्भारैः सेनापत्येऽभिषिच्य तम् । वैदिकै
स्तान्त्रिकैर्मन्त्रैर्नानामुनिसमीरितैः ॥१५॥
ततोऽनुज्ञां गृहीत्वा ते देवाः स्वस्थानमागमन् ।
ऋषयोऽपि निरुद्योगा स्पतस्तेषु यथां पुरा ॥१६॥
सेनान्यां विद्यमाने नो न भयं विद्यते क्वचित् ।
स बालो ववृधेऽत्यन्तं शुक्लपक्षे यथा शशी ॥१७॥
एकदा बालभावात्स उड्डीय शशिनं ययौ।
गृहीतुं ब्रह्मणाऽवारि नेदृशं साहसं कुरु ॥१८॥
बुद्ध्या बृहस्पति शक्त्या जिगायेन्द्रं च सोऽर्भकः ।
एकदा सुखमासीनं पार्वत्या सहितं शिवम् ॥१९॥
प्रणम्य परिपप्रच्छ सर्वकामार्थसिद्धये।
स्कन्द उवाच ।
पितर्मयाऽश्रावि महा कथा नानाविधाः शुभाः ॥१.८६.२०॥
सर्वसिद्धिकरं देव पुत्रसंपत् प्रवर्धनम् ।
सर्वपापहरं चैव धर्मार्थकाममोक्षदम् ॥२१॥
त्रैलोक्यस्य गुरोस्त्वत्तस्तृप्तिर्नास्ति तथापि मे ।
वद मे सर्वशत्रूणां जयकारि व्रतं शुभमि ॥२२॥
ईश्वर उवाच ।
सम्यक्पृष्टं त्वया स्कन्द सर्वलोकोपकारकम् ।
व्रतं तेऽहं प्रवक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥२३॥
सर्वपापक्षयकरं धर्मार्थकाममोक्षदम् ।
सर्वशत्रुक्षयकरं पुत्रसंपत् प्रवर्धनम् ॥२४॥
अलक्ष्मीसंकटहरं गणनाथस्य तोषकृत ।
यः करोति नरो भक्त्या सपूज्यस्त्रिदशैरपि ॥२५॥
इच्छाविहारी भवति सृष्टिस्थित्यन्तकृच्च सः ।
दर्शनात्तस्य चान्येषां महापापं लयं व्रजेत् ॥२६॥
नात्येषां स्कन्द वरद चतुर्थी व्रतसाम्यता ।
एवमाकर्ण्य वचनं सेनानीः शंकरेरितम् ॥२७॥
पुनः पप्रच्छ पितरं महिमानं व्रतस्य सः ।
स्कन्द उवाच ।
विस्तरेण मम ब्रूहि माहात्म्यं व्रतसम्भवम् ॥२८॥
कस्मिन्मासि दिने चास्य प्रारम्भः क्रियते हर ।
को विधिः किं फलं चास्य कस्याऽभूत् प्रत्ययोऽस्य च ॥२९॥
एतन्मे सकलं ब्रूहि यदि तुष्टोऽसि शंकर ।
सर्वलोकोपकाराय व्रतस्यास्य प्रसिद्धये ॥१.८६.३०॥ (३७७३)
इति श्रीगणेशपुराण उपासनाखंडे स्कन्दोपाख्याने षडशीतितमोऽध्यायः ॥८६॥
अध्याय ८७ प्रारंभ :-
शंकर उवाच ।
अहं ते कथयिष्यामि व्रतस्यास्य विधिं परम् ।
श्रावणे तु सिते पक्षे चतुर्थ्यामारभेद् व्रतम् ॥१॥
तिलामलककल्केन प्रातःस्नानं विधाय च ।
नित्यनैमित्तिकं सर्वं समाप्य क्रोधवर्जितः ॥२॥
शुचौ मण्डपिकां कृत्वा कदलीस्तम्भमंडिताम् ।
इक्षुचामरपुष्पाढयामादर्शां वलिशोभिताम् ॥३॥
तन्मध्ये कलशम् स्थाप्य वस्त्रयुग्मेन वेष्टितम् ।
तत्र चाष्टदलं पद्मं कारयेच्चन्दनेन तु॥४॥
गुरोराज्ञां गृहीत्वा च पूजाद्रव्याणि प्रोक्षयेत् ।
उपचारैः षोडशभिः पूजयेद् गणनायकम् ॥५॥
कांचनं राजतं वापि स्वस्वशक्त्या विनिर्मितम् ।
एकविंशति पक्वान्नैरेकविंशति संख्यकैः ॥६॥
गजाननाय देवाय नैवेद्यं परिकल्पयेत् ।
एकविंशति मुद्रास्तु दक्षिणार्थं निवेदयेत् ॥७॥
सौवर्णी राजतीर्वापि वित्तशाठ्यं विवर्जितः ।
एकविंशति दूर्वाश्च श्वेता वा हरिता अपि ॥८॥
अर्पयेद्देवदेवाय मन्त्रपुष्पांजलिं तथा ।
ब्राह्मणान्वेदविदुषः पूजयेदेकविंशतिम् ॥९॥
भोजयेत्तादृशान्नेन तावद्दानानि दापयेत् ।
नमेत् क्षमापयेत् पश्चादच्छिद्रमिति वाचयेत्॥१.८७.१०॥
पार्थिवस्य गणेशस्य विधानं कथितं पुरा ।
पूजाप्रकारः सोऽप्यत्र सर्व एव उदाहृतः ॥११॥
कथां तामेव शृणुयात् पश्चाद् बन्धुयुतः स्वयम् ।
ध्यायन् गणेशं भुंजीत मौनेर्नोपवसेत वा ॥१२॥
एवं मासव्रतं कुर्यांद्यावद् भाद्रचतुर्थिका।
तस्यां महोत्सवः कार्यो यथाविभवमादरात् १३॥
पूर्वोक्तेन विधानेन पूजयेद् गणनायकम् ।
रात्रौ जागरणं कार्यं गीतवादित्रनि:स्वनैः ॥१४॥
पुराणश्रवणैरन्यैर्नानाख्यानवरैरपि ।
सहस्रनाममन्त्रेण स्तुवीत द्विरदाननम् ।
प्रभाते विमलं स्नात्वा पूजयेद् द्विरदाननम् ॥१५
ब्राह्मणान् भोजयेद् भक्त्या शतं चैवैकविंशतिम् ।
गोभूकांचन वस्त्राणि भूषणानि धनानि च ।।१६।।
तेभ्यो दद्याद्यथाशक्ति दीनान्धकृपणेषु च ।
अशक्तौ भोजयेदेकं विंशत्येकं तु वाडवान् ॥१७॥
ब्राह्मणाय प्रदातव्या मूर्तिश्चेद्धातुनिर्मिताः ।
अन्यथा परमोत्साहैर्जलमध्ये विसर्जयेत् ॥१८॥
दिव्यवादित्रनिर्घोषैर्नरयानस्थितां च ताम् ।
छत्रध्वजपताकाभिर्वेदगीतादिनिःस्वनैः ॥१९॥
बालानां दण्डयुद्धैश्च तां विसृज्य गृहं व्रजेत् ।
व्रतमेवं तु यः कुर्यादेकवारं षडानन ॥१.८७.२०॥
सर्वान् कामानवाप्यैव गाणेशं पदमाप्नुयात् ।
ब्रह्मणाऽकारि सृष्टयर्थं एकार्णं जपता मनुम् ।
प्रत्यक्षो विकटस्तस्य सामर्थ्यं विविधं ददौ ॥२१॥
विष्णुनाऽप्रापि शक्तिश्च पालने कुर्वता व्रतम् ।
षडक्षरं महामन्त्रं जपता परमाद्भुतम ॥२२॥
स्वेच्छावतारसामर्थ्यं ततः प्राप्तं षडानन ।
मयाऽप्यकारि पुत्रैतज्जपताऽष्टाक्षरं मनुम् ॥२३॥
वृत्रं च शम्बरं दैत्यं शक्रेण मदनेन च ।
जिघांसताऽकारि व्रतं तौ तौ जेतुं च शेकतुः ॥२४॥
नानासामर्थ्यवानस्मि संहरामि जगत् त्रयम् ।
यक्षगन्धर्वमुनिभिः किन्नरोरगराक्षसैः ।
अकारि स्वेष्टसिद्ध्यर्थं सिद्धचारणमानवैः ॥२५॥
एतत्त्वं स्कन्द वरदचतुर्थीव्रतमाचर ।
भविष्यसि रणेऽजेयो विख्यातो भुवनत्रये ॥२६॥
षडक्षरं च मन्त्रं ते ददामि वरदस्य ह।
ब्रह्मोवाच ।
सुमुहूर्ते ददौ तस्मै शिवो दीक्षां षडक्षरीम् ॥२७॥
तदैव स ययौ स्कन्दस्तपस्तप्तुं द्विजोत्तम ।
सुनिर्मलतरे देशे वृक्षवल्लीसमाकुले ॥२८॥
बहुमूलफले रम्ये सरोवापीसुशोभिते ।
एकपादस्थितः स्कन्दस्तपस्तेपे सुदारुणम् ॥२९॥
व्रतं चकार विधिवद्यथोक्तं शम्भुना पुरा।
अनुष्ठानाच्च मन्त्रस्य व्रतस्यास्य प्रभावतः ॥१.८७.३०॥
प्रसन्नोऽभूत्तदैवास्य परमात्मा गजाननः ।
दर्शयामास सेनान्ये योगिध्येयमनुत्तमम् ॥३१॥
निजं रूपं महातेजाश्चतुर्भुजविराजितम् ।
महामुकुट संशोभि कुंडलांगदशोभितम् ॥३२॥
एकदन्तं भालचन्द्रं शुण्डादण्डविराजितम् ।
पाशांकुशकरं माला दन्तहस्तं सुशोभनम् ॥३३॥
मुक्तामणिगणोपेतं सर्पराजयुतोदरम् ।
दिव्यवस्त्र परीधानं दिव्यगन्धानुलेपनम् ॥३४॥
अनेकसूर्यसंकाशं तेजोज्वाला सुदीपितम् ।
ददर्श षण्मुखस्तत्र विस्मयोत्फुल्ललोचनः ॥३५॥
व्याकुलीभूतचित्तोऽसौ किमेतदित्यचिन्तयत् ।
मया यच्चिन्त्यतेऽन्यद्वा तद्वा विन्द्यां न चाप्यहम् ॥३६॥
ततः पप्रच्छ तूष्णीं स को भवान्किं च नाम ते ।
गजानन उवाच ।
चिन्त्यते यो दिवारात्रौ त्वयैकाग्रेण चेतसा ॥३७।
सोऽहं प्राप्तो वरं दातुं वद ते हृदि वांछितम् ।
ददामि तुष्टस्तपसा षडानन गजाननः ॥३८॥
स्कन्द उवाच ।
विदुर्न देवा न च शास्त्रकारा ब्रह्मादयः शेषमुखाश्च नागाः ।
तव स्वरूपं जगदीश सम्यक् ददर्शि तन्मे द्विरदाननाद्य ॥३९॥
तेनैव जातः परिपूर्णकामः तथापि याचे तव देववाक्यात् ।
पराजयो मे न कदापि भूयात् प्रत्यक्षतामेहि विचिन्त्यमानः ॥१.८७.४०॥
अविस्मृतिः स्यात् तव पादपद्मे सर्वेषु देवेषु वरिष्ठता च ॥४१॥
अलक्ष्यो लक्ष्यतां यातः ततो लक्षविनायकः ।
नाम्ना ख्यातो भवात्र त्वं भक्तकाम सुरद्रुमः ।
लक्ष उवाच ।
सर्वं तद्भविता स्कन्द यद्यत् प्राथितमद्य मे ॥४२॥
अविस्मृतिश्च सान्निध्यं चिन्त्यमानस्य मे भवेत् ।
पराजयो रिपूणां ते देवश्रैष्ठ्यं भविष्यति ॥४३॥
ब्रह्मोवाच ।
एवं वरान् ददौ देवो मयूरं निजवाहनम्।
ददौ स्कन्दाय सुप्रीतो विनयाच्च तपोबलात् ॥४४॥
मयूरध्वज इत्येवं नाम ख्यातं ततोऽभवत् ।
गजानन उवाच ।
मृतिं यास्यन्ति हस्तात्ते तारकाद्या महासुराः ॥४५॥
लक्षविनायक इति नाम्नाऽहं भक्तवत्सलः ।
भविष्यामि चिरादत्र क्षेत्रे त्वद्वाक्यतोऽनघ ॥४६।।
ब्रह्मोवाच ।
एवमुक्त्वा तु विकटस्तत्रैवान्तर्हितोऽभवत् ।
ततः स्कन्दो महामूर्तिं कृत्वा स्थाप्य द्विजैः सह ॥४७॥
लक्षविनायक इति नाम चक्रे शुभं तदा ।
मोदकैर्लक्षसंख्याकैः पुष्पैर्दूर्वांकुरैरपि ॥४८॥
पूजयामास तां मूर्तिमन्यैर्द्रव्यस्तथाविधैः ।
ब्राह्मणान् भोजयामास तावत् संख्याऽयुतान् द्विजान् ॥४९॥
स्तुत्वा नत्वा ययौ स्कन्दः शंकरं लोकशंकरम् ।
मयूरमारुह्य ततः सर्वं चाकथयच्च तम् ॥१.८७.५०॥
मयूरध्वज इति च नाम देवकृतं जगौ ।
तारकासुरनाशाय ययौ स्कन्दः शिवाज्ञया॥५१॥
स्मृत्वा गजाननं देवं परिगृह्य शिवाशिषः ।
देवसेनापतित्वेऽसावभिषिक्तः सुरर्षिभिः ।।५२॥
सेनानीस्तारकं दृष्ट्वा युद्धं चक्रे महाबलः ।
लक्षवर्षान्तरे तं स मारयामास शक्तितः ॥५३॥
युद्धं तद् वर्णितुं शक्तिः शेषस्यापि न वै भवेत्।
तारके निहते दैत्ये ननन्दुः सर्वदेवताः ॥५४॥
मुनयो लोकपालाश्च नागाश्च मानवास्तथा ।
मुमुचुः पुष्पवर्षाणि स्कन्दस्योपरि निर्वृताः ॥५५॥
सर्वदेवाश्च लोकाश्च स्वं स्वं स्थानं ययुस्तदा ।
स्वाहास्वधा वषट्कारान् यथापूर्वं च चक्रिरे ॥५६॥
ब्रह्मोवाच । एवं प्रभावो देवोऽसौ कथितस्ते गजाननः ।
व्रतप्रभावोऽपि मया यथावत्ते निरूपितः ॥५७॥
त्रयस्त्रिंशत् कोटिसुरैरवध्योऽसौ महासुरः ।
स्कन्देन निहतः संख्ये देवव्रत प्रभावतः ॥५८॥
इन्द्रादिदेवतावृन्दैः पूजनीयोऽभवच्च सः ।
व्यास उवाच ।
अनुष्ठानं कृतं तेन कस्मिन् स्थाने समाधिना ॥५९॥
परमेण विशाखेन तन्मे ब्रूहि प्रजापते ।
ब्रह्मोवाच ।
अनुष्ठानं कृतं तेन यत्रास्ते घृषणेश्वरः ॥१.८७.६०॥
प्रसिद्धो वर्तते नाम्ना आसील्लक्षविनायकः ।
एलोऽभूत्तत्र नगरे पश्चाद् राजाऽभिविश्रुतः ।
तन्नाम्ना नगरं ख्यातं ततस्तदभवन् मुने ॥६१॥ (३८३४)
इति श्रीगणेशपुराण उपासनाखंडे तारकवधो नाम सप्ताशीतितमोऽध्यायः ॥८७॥
अध्याय ८८ प्रारंभ :-
मुनिरुवाच ।
श्रुतमाख्यानकं ब्रह्मन् गजाननव्रताश्रयम् ।
दग्धश्चेन्मदनस्तेन शंकरेण रुषाग्निना। ॥१॥
दृश्यते सर्वलोकेषु मदनोऽद्यापि तत्कथम् ।
एतत्कथय मे सर्वं विस्तराच्चतुरानन ॥२॥
ब्रह्मोवाच ।
तृतीयं तु तदा नेत्रं रुषोद्घाटितवान्हरः ।
अपराधं तु विज्ञाय मदनस्य रतिस्तदा ॥३॥
आक्रन्दती मृतं कामं हरान्तिकमुपागमत् ।
साष्टांगप्रणिपत्यैनं तुष्टाव च यथामति ॥४॥
रतिरुवाच ।
नमामि देवं गिरिजासहायं वृषध्वजं भालविलोचनं च ।
य: पाति लोकान् खलु सत्वयुक्तो निर्माति लोकान् रजसा गुणेन ॥५॥
यः स्वेच्छया संहरतेऽखिलेशो जगत्तमोविष्टतनुर्महेशः ।
यो नुः कपालं वहते जनानां भिक्षाशनः पूरयतेऽखिलार्थान् ॥६॥
दीनानुकम्पी भगवान् महेशो गतप्रियायाः शरणं ममास्ताम् ।
कर्तुं तथाऽकर्तुमदीनसत्त्वः शक्तोऽन्यथा कर्तुमपीह देवः ॥७॥
स मे विधत्तां शरणं गताया सौभाग्यमुच्चैर्मृतजीवनेन ।
नो चेदहं प्राणविसर्जनेन यशः करिष्ये विपरीतमीश ॥८॥
ब्रह्मोवाच ।
एवं तया स्तुता शम्भुः प्रसन्नस्तामथाब्रवीत् ।
शम्भुरुवाच ।
वरं वृणु महाभागे कामपत्नि शुभानने ॥९॥
ददामि तुष्ट: स्तोत्रेण सर्वांन्कामान् हृदि स्थितान् ।
इत्थं शिववचः श्रुत्वा रतिर्हृष्टा प्रणम्य तम् ॥१.८८.१०॥
सौभाग्यकामा तं देवं निजगाद भृशातुरा ।
रतिरुवाच ।
स्वामिन् यदि प्रसन्नश्चेच्छृणु मे परमं वचः ॥११॥
रसायां दिवि भूमौ वा कान्ताः स्युः कामिनीगुणाः ।
मम लावण्यलेषो न तेषु कापि त्रिलोचन ॥१२॥
मां दृष्ट्वा मुमुचुः शक्रमुख्या वीर्यमपत्रपाः ।
ततो मे महती लज्जा जातामेतामपाकुरु ॥१३॥
लावण्यं च वृथा जातं विना कामेन शंकर ।
अयशो दहते मह्यं रतिः सा विधेवति च ॥१४॥
भर्तुदानेन देवेश मां जीवय दयानिधे।
एवं तया प्रार्थितोऽसौ शंकरो लोकशंकरः ॥१५॥
उवाच श्लक्ष्णया वाचा हर्षयन् कामयोषितम् ।
शिव उवाच ।
चिन्ता मां कुरु कल्याणि न लज्जां कर्तुमर्हसि ॥१६॥
स्मृतमात्रस्त्वया बाले कामः स्याद् दृष्टिगोचरः।
मनसा चिन्तितो वापि मनोभूरिति संज्ञितः ॥१७॥
पूरयिष्यति ते कामान् मान्या त्वं च भविष्यसि ।
विष्णोः सकाशादुत्पत्तिं रमायां प्राप्स्यते यदा ॥१८॥
भर्ता तव जने ख्यातो नाम्ना प्रद्युम्नसंज्ञितः ।
भविष्यति महाभागे गच्छेदानीं निजालयम् ॥१९॥
साऽगता शिववाक्येन मन्दिरं भृशसुंदरम् ।
सस्मार तं पतिं सा तु पुरोऽनंगः समाययौ ॥१.८८.२०॥
ईश्वरेच्छा वशात्तस्याः प्रत्यक्षं समजायत ।
इतिश्चाश्चर्ययुक्ता सा जहृषे पतिना सह ॥२१॥
ततोऽनंगो ययौ शंम्भुं प्रणम्याभिदधे वचः ।
अनंग उवाच ।
विनाऽपराधं देवेश गमितोऽनंगतां कथम् ॥२२॥
इन्द्रादिदेवतावृन्दैस्तारकासुर पीडितः।
मुनिभिश्च विशाखस्य त्वत्त उत्पत्तिवेदिभिः ॥२३॥
प्रार्थितस्तव निष्ठाया भंगं कर्तुमहं विभो ।
उपकाराय सर्वेषामकार्ष कर्म तादृशम् ॥२४॥
उपकारसमं पुण्यं न चास्ति भुवनत्रये ।
विपरीतं तु तज्जातं मम दैवाद् सुरेश्वर ॥२५॥
त्रयस्त्रिंशत्कोटिदेवेष्वहं चारुतरः पुरा।
उपमा चारुपुरुषे ममैव दीयतेऽखिलैः ॥२६॥
कथं तिष्ठामि देवेश स्वांगहीनः परेतवत् ।
अतो मयि महादेव कृपयाऽनुग्रहं कुरु ॥२७॥
ब्रह्मोवाच ।
तत एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः ।
अनंगाय प्रणमतेऽनुष्ठानं चादिशच्च तम्। ॥२८॥
ततोऽनंगो ययौ रम्यं जनस्थानं सुसिद्धिदम्।
तत्रानुष्ठानमकरोदनंगः शंकराज्ञया ॥२९॥
संवत्सरशतं पूर्णं तताप स तपो महत् ।
एकाक्षरं जपन्मन्त्रं गणेशध्यान तत्परः ॥१.८८.३०॥
वायुमात्राशनो नित्यं सदा रति सहायवान् ।
ततः प्रसन्नो भगवान् देवदेवो गजाननः ॥३१॥
आविरासीद्दशभुजो महामुकुटशोभितः ।
ज्वलद्रत्नप्रभाचारु कुंडलांगद मंडिताः ॥३२॥
कोटिसूर्यप्रतीकाशो मुक्तामाला विभूषितः ।
दिव्यमाल्यांबरधरो दिव्यगन्धानुलेपनः ॥३३॥
सिन्दूरारुणशुंडास्यो दशायुधलसत्करः ।
शेषालंकृतनाभिश्च नानालंकारराजितः ॥३४॥
सिंहस्कन्धो महाश्रीमांश्चीत्कारत्रासिताखिलः ।
इन्द्रादयोपि मुनय आविर्भूते गजानने ॥३५॥
आययुरप्सरोभिश्च यक्षगन्धर्वकिन्नरैः ।
दिव्यवादित्रनिर्घोषैः पुपूजुस्ते गजाननम् ॥३६॥
उपचारैः षोडशभिर्भक्त्या देवं पृथक्पृथक् ।
कामोऽपि तत उत्थाय प्रणिपत्याखिलान् सुरान् ॥३७॥
ववन्दे देवचरणौ पूर्वं नत्वा मुनीनपि ।
प्रशशंस तदा देवं विकटं करुणाकरम् ॥३८॥
काम उवाच ।
धन्यस्त्वमसि देवेषु परब्रह्मस्वरूपवान् ।
निराकारोऽपि साकारो जातोऽसि भक्तवत्सल ॥३९॥
अद्य धन्यं मम जनुस्तपो धन्यतरं च मे ।
यत्तवाङघ्रियुगं दृष्टं सर्वदुःखविमोचनम् ॥१.८८.४०॥
कारणं सर्वसिद्धीनां धर्मार्थकाम मोक्षदम ।
धन्ये नेत्रयुगे मेऽद्य याभ्यां दृष्टः परः पुमान् ॥४१॥
यं न जानन्ति वेदारताः सांख्याः पातंजलादयः ।
नेति नेत्यभवंस्तूष्णीं वेदोऽपि यत्र कुंठितः ॥४२॥
अनन्तकोटिब्रह्मांड रोमकूपोऽखिलेश्वरः ।
येन मन्त्रेण सोऽदर्शि मन्त्रो धन्यतरोऽपि सः ॥४३॥
गणेश उवाच ।
सम्यगुक्तं रतिपते न मां ब्रह्मादयो विदुः ।
यदा साकारतां यामि तेऽपि जानन्ति मां तदा ॥४४॥
ममैवानुग्रहात्काम दृष्टवानसि मां तदा।
यतोऽहं परितुष्टस्ते तपसा मनुना तथा ॥४५॥
वृणु मत्तोऽखिलान् कामान् कामे कामं ददामि ते ।
ब्रह्मोवाच ।
इति देववचः श्रुत्वा पुनरूचे मनोभवः ॥४६॥
आनुपूर्व्येण सकलं वृतान्तं शिवकारितम् ।
तस्मै चाकथयत्काम: प्रसन्नार्थप्रदायिने ॥४७॥
अनंगतां स्वस्य रतेराक्रन्दं मनुमेव च । अ
नुष्ठानं चिरकृतं शिवदत्तं वरं तथा ॥४८॥
वृणोति स्म वरं तस्मात् सुप्रसन्नाद् गजाननात् ।
काम उवाच ।
यदि प्रसन्नो भगवांस्तन्मे देहि सदेहताम् ॥४९॥
मान्यतां सर्व देवेषु प्राग्वल्लावण्यमेव च ।
भक्तिं दृढां त्वच्चरणे त्रैलोक्यविजयं तथा ॥१.८८.५०॥ (३८८४)
इति श्रीगणेशपुराण उपासनाखंडे अष्टाशीतितमोऽध्यायः ॥८८॥
अध्याय ८९ प्रारंभ :-
गणेश उवाच ।
यद्यत्ते प्रार्थितं काम तत्तत्ते भविताऽखिलम् ।
रमोदराज्जनिं प्राप्य सांगस्त्वं सर्वसुन्दरः ॥१॥
भविता सर्वमान्यश्च त्रैलोक्यविजयी तथा।
पुप्पं फलं किसलयं कामिन्यवयवा मरुत् ॥२॥
उद्बोधकानि ते सन्तु ज्योत्स्ना चन्दन नीरजे ।
मरालाण्डज शब्दश्च जेतास्येतैर्हरादिकान् ॥३॥
दर्शनात् स्मरणादेषां मनस्यपि भविष्यसि ।
मनोभूः स्मृतिभूरेवं नामापि स्याज्जनेषु ते ॥४॥
अविस्मृतिर्मच्चरणे दृढा भक्तिश्च ते भवेत् ।
स्मृताऽहं पुरतः स्यां ते महत्कार्यउपस्थिते ॥५॥
ब्रह्मोवाच ।
एवं तस्मै वरान् दत्त्वा कामायाथ गजाननः ।
अन्तर्दधे महाभाग पश्यत्सु च सुरर्षिषु ॥६॥
तत्र कामो महामूर्तिं गणेशस्य तथाविधाम् ।
संपाद्य स्थापयामास पूजयामास तां तदा ॥७॥
रतिनिर्मित पक्वान्नैर्मोदकैर्लड्डुकादिभिः ।
महोत्कटेति नामास्य तेजस्वित्वात्तथाऽकरोत् ॥८॥
प्रासादं निर्ममे कान्तं रत्नस्तम्भविराजितम् ।
रुक्मिण्या उदराज्जातस्त्यक्तो दैत्येन वारिधौ ॥९॥
मत्स्येन गिलितस्तत्र स मत्स्यो धीवरैस्ततः ।
शम्बरायार्पितेनापि मायावत्ये निवेदितः ॥१.८९.१०॥
विभिन्नेऽस्मिंस्तदुदरान्निर्गतो वर्द्धितस्तया।
नारदोऽकथयत्तस्यै कामोऽयं वर्द्धितस्त्वया ॥११॥
उपदिष्टोऽनेकमायाः शम्बरं स ततोऽवधीत् ।
गणेशस्य प्रसादेन बहुनेको व्यजिग्यत ॥१२॥
मायावत्या शिक्षिताभिर्मायाभिर्बहुभिश्च सः ।
प्रद्युम्न इति विख्यातः सरस्वत्याः पुरं ययौ ॥१३॥
सर्वदेवेषु मान्यश्च त्रैलोक्यजयकारकः ।
गजाननप्रसादेन बभूवानन्दनिर्वृतः ॥१४॥
रुक्मिणिप्रभृतिस्त्रीभिर्दृष्टः कृष्ण इवापरः ।
तत उत्थाय याताभिर्लज्जिताभिः समन्ततः ॥१५॥
बुद्ध्वा पुत्रं नारदस्य वाक्येन मुमुदुश्च ताः।
आलिलिंगुस्तमभ्येत्य प्रणनाम रतिश्च ताः ॥१६॥
सर्वा पुरी हर्षयुता तस्मिंज्ञाते बभूव सा ।
क उवाच ।
एवं जनस्थानगत गणेशस्य महामुने ॥१७॥
महिमा कथितो यत्र रामेणाच्छेदि नासिका ।
शूपणख्या स्नतस्तत्तु नाम्ना ख्यातं तु नासिकम् ॥१८॥
तत्राद्यापि हि दृश्यन्त उपला मोदका इव ।
एवं नाराधितस्तेन कामेनासौ गजाननः ॥१९॥
षडक्षरेण मन्त्रेण शेषेणाराधितो यथा ।
रतिश्च मदनश्चापि ननन्दतुरुभौ यथा ॥१.८९.२०॥
व्यास उवाच ।
कथमाराधितो ब्रह्मन् शेषेणासौ गजाननः ।
किमर्थं किं च तेनाप्तं सुप्रसन्नाद् गजाननात् ॥२१॥
एतत् सविस्तरं ब्रूहि पृच्छतश्चतुरानन ।
प्रष्टुः श्रोतुश्च वक्तुश्च यतः पुण्यं विवर्धते ॥२२॥
ब्रह्मोवाच ।
सम्यक्पृष्टं त्वया ब्रह्मन् कथयामि कथामृतम् ।
शृणुष्वावहितो भूत्वा सर्वं सत्यवती सुत ॥२३॥
कस्मिंश्चित्समये शम्भुः पार्वत्या सहितो मुने ।
सुखासीनो गिरिवरे रम्यसानुशिलोच्चये ॥२४॥
नानाद्रुमलताकीर्णे निर्झरारावशब्दिते ।
गुञ्जन्ति भ्रमरा यत्र रुक्मपंकजवासिनः ॥२५॥
चम्पकाशोक बकुल मालती कुसुमानिलः ।
आनन्दयति चित्तानि वसतां यस्य शेखरे ॥२६॥
आययुस्तत्र गन्धर्वा अप्सरो यक्ष किन्नराः ।
देवाश्च मुनयो नागास्तं दृष्टुं गिरिजापतिम् ॥२७॥
केचित्तं प्रणिपातेन साष्टांगेनाभ्यवादयन् ।
उच्चैर्जगुश्च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥२८॥
पुपूजुस्तं दशभुजं व्याघ्राजिनधरं हरमि ।
नन्दिर्भृंगिगणाकीर्णं भालचन्द्रत्रिशूलिनम् ॥२९॥
भस्मांगं शेषशिरसं शंकरं वृषभध्वजम् ।
अपरैरर्चितं देवमुपचारैर्मनोमयैः ॥१.८९.३०॥
निमील्य नयने तस्थुः केचिद् ध्यानपरायणाः ।
वसिष्ठो वामदेवश्च जमदग्निस्त्रितो द्विजः॥३१॥
अत्रिः कण्वो भरद्वाजो गौतमाद्या मुनीश्वराः ।
तुष्टुवुर्विविधैः स्तोत्रैस्तत्र तं पार्वतीपतिम् ॥३२॥
स्तुवस्तु तेषु मुनिषु शेषो गर्वपरं ययौ ।
अहमेव श्रेष्ठतरो लोकेषु त्रिषु नापरः ॥३३॥
यतः श्रेष्ठतरः शम्भु स्तस्याहं शिरसि स्थितः ।
धराधरणसामर्थ्यं मयि नान्यत्र कुत्रचित् ॥३४॥
वासुके रज्जुभूतान्मत् कुलीनादमृतं सुरैः ।
प्राप्तं ततोऽमरत्वं च तस्मान्नान्योऽस्ति मत्परः ॥३५॥
तद्धृदिस्थं तदा गर्वं ज्ञात्वा शम्भू त्रिलोककृत् ।
विज्ञायाखिलदृक्तूष्णीमुत्तस्थौ सहसा शिवः ॥३६॥
आस्फालयद्धरापृष्ठे शेषं तादृशगर्वितम् ।
एकैको मस्तकस्तस्य दशधा दशधाऽभवत् ॥३७॥
मूर्छितः प्रहरार्द्धं स गतप्राण इवाभवत् ।
ततः प्रभृत्यसौ जातः सहस्त्रफणिमंडितः ॥३८॥
जीवशेषः शुशोचाथ शेषोऽशेषाहि भूषणः ।
अलंकरण भूतोऽहं त्रैलोक्येश हरस्य ह ॥३९॥
इमामवस्थां संप्राप्तो न जाने केन कर्मणा ।
चलितुं नैव शक्नोमि पक्षहीन इवाण्डजः ॥१.८९.४०॥
किं करोमि क्व गच्छामि को मे त्राताऽधुना भवेत् ।
को मे निजपदं प्राप्तावुपायं कथयेच्छुभम् ॥४१॥
कौ वा मेऽपनयेद्दुःखमिति चिन्तापरस्तु सः ।
ददर्श तेन मार्गेण गच्छन्तं नारदं मुनिम् ॥४२॥
जहर्ष किंचिन्नागेन्द्रः स्वप्नं प्राप्येव भिक्षुकः ।
अतिकष्टामवस्थां तां नारदोऽलोकयत्पुरः ॥४३॥
निश्चेष्टं निरनुश्वासं ध्याननिष्ठं यथा मुनिम्।
अशेष विषयज्ञोऽपि शेषं पप्रच्छ नारद : ॥४४॥ (३९२८)
इति श्रीगणेशपुराण उपासनाखंडे एकोननवतितमोऽध्यायः ॥८९॥
अध्याय ९० प्रारंभ :-
नारद उवाच ।
किमर्थमेवं जातोऽसि निस्तेजा दुःखितो भृशम् ।
कथं भग्नशिरा कस्याचरोऽप्रियतरं मुने ॥१॥
किं वा क्षुब्धो गिरीशस्तेऽकारि गर्व स्त्वयाऽथ किम् ।
वद यत्कारणं शेष प्रतीकारं पुरा वदे ॥२॥
त्वां विना कारयेत्को नु चराचरयुतां धराम् ।
अनुक्तवति तस्मिंस्तु स्वयमेवाब्रवीन्मुनिः ॥३॥
उपायं नागराजस्य स्वस्थानप्रापकं शुभम् ।
नारद उवाच ।
अवधारय मे वाक्यं शेषाशेषकला निधे ॥४॥
सुपर्वाणश्च केशाद्या येन स्युः किङ्करा इव ।
धरिष्यसे धरां मूर्निेन पुष्पमालामिवार्भकः ॥५॥
शेष उवाच ।
किंचित् पुरातनं पुण्यमासीच्चेद्दर्शनं तव।
अजन्य कस्मादग्रेऽपि सम्यङ्मे स्यान्न संशयः ॥६॥
अन्यथा कृतपुण्यानां दर्शनं तु कथं भवेत्।
अति विह्वलगात्रत्वादशक्तो भूमिधारणे ॥७॥
तं प्रयत्नं वद मुने येनाहं स्यां यथा पुरा ।
नारद उवाच ।
भणे महामनुं तेऽद्य तस्य देवस्य नागराट्।॥८॥
यस्य प्रसादादिन्द्राद्यास्तत्तत् पदमवाप्नुवन् ।
केशा यदाज्ञयाऽशेष सृष्टिस्थित्यन्तकारिणः ॥९॥
यस्मिन् प्रसन्ने सर्वेशे पूर्वावस्थामवाप्स्यसि ।
कारुण्यं तव दृष्ट्वैव क्लिन्नं मे सर्वमानसम् ॥१.९०.१०॥
अतः षडक्षरं मन्त्रं गणेशस्य ददामि ते ।
अस्यानुष्ठानमात्रेण प्रत्यक्षस्ते गजाननः ॥११॥
सर्वान् विधास्यते कामान्यान्यांस्त्वं वृणुषे ततः ॥१२॥
क उवाच ।
कृत्वोपदेशं शेषाय नारदोन्तर्हितोऽभवत् ।
शेषोऽपि तपसे कृत्वा निश्चयं परमं शुभम् ।
निरुद्धाशेषकरणो ध्यात्वा देवं गजाननम् ॥१३॥
जजाप परमं मन्त्रं सहस्रपरिवत्सरम् ।
तदन्ते पुरतोऽपश्यद् देवदेवं गजाननम् ॥१४॥
सिंहारूढं त्रिनेत्रं दशभुजमुरगं कुंडले चांगदे च ।
मुक्तामालां वहंतं सुललितमुकुटं रत्नमुद्राक्षसूत्रम् ।
नानादेवर्षिवृन्दैरनुगतमनिशं वक्रतुण्डं गजास्यं ।
भक्तेच्छोपात्तदेहं सुरनरपरदं चिन्तयेदेकदन्तम् ॥१५॥
एवं गजाननस्तस्य दर्शनार्थं समाययौ ।
सिद्धिबुद्धियुतस्तादृग यादृग् ध्यातोऽहिनापुरा ॥१६॥
सहस्रसूर्य सदृशो दीप्त्याक्रान्त दिगन्तरः ।
तेजसा तस्य शेषोऽपि धर्षितोऽन्ध इवाभवत् ॥१७॥
चकम्पे भयसंविग्नो व्यग्रचित्तोऽतिविह्वलः ।
स्वस्थो मुहूर्तमात्रेण चिन्तयामास चेतसि ॥१८॥
किमिदं तेज आयातं प्रलयानलसन्निभम् ।
तच्चेद्दहेत सर्वलोकानिदं मामेव धक्ष्यति ॥१९।।
कल्याणे कर्मणि कथं क्रियमाणे शुभं भवेत् ।
अथवा नारदेनोक्तं द्रक्ष्यामि गणनायकम् ॥१.९०.२०॥
एवं चिन्तातुरे तस्मिन्नुवाच द्विरदानन ।
मा भैः कुतर्ककुशल वरदोऽहं समागतः ॥२१॥
यं ध्यायसि दिवारात्रौ वृणु यत्ते हृदि स्थितम् ।
अहमेव जगत्कर्ता पाता हर्ताऽखिलेश्वर ॥२२॥
मत्तेजसा भाति चन्द्रो वह्निः सूर्यश्च भानि च ।
परब्रह्मस्वरूपोऽपि तपसा तव तोषितः ॥२३॥
अविर्भूतो वरं दातुं लोकोपकृतयेऽपि च ।
त्वं तु मत्तो वरान्ब्रूहि यान्यान् कामयसेऽखिलान् ॥२४॥
शेष उवाच ।
तेजसा धर्षितो देव द्रष्टुं वक्तुं च नोत्सहे ।
अनुग्रहश्च पूर्णस्ते मयि सौम्यो भवानघ ॥२५॥
क उवाच ।
एवं संप्रार्थितस्तेन करुणाब्धिर्गजाननः ।
अभवत् कोटिचन्द्राभः सौम्यतेजाः सुरेश्वर ॥२६॥
ततो वव्रे वरान् शेषो नत्वा स्तुत्वाऽखिलेश्वरः ।
अनादिनिधनं देव वन्देऽहं गणनायकम् ॥२७॥
सर्वव्यापिनमीशानं जगत्कारणकारणम्।
सर्वस्वरुपं विश्वेशं विश्ववन्द्यं नमाम्यहम् ॥२८॥
गजाननं गणाध्यक्षं गरूडेशस्तु तं विभुम् ।
गुणाधीशं गुणातीतं गणाधीशं नमाम्यहम् ॥२९॥
विद्यानामधिपं देवं देवदेवं सुरप्रियम् ।
सिद्धिबुद्धिप्रियं सर्वं सिद्धिदं भुक्तिमुक्तिदम् ॥१.९०.३०॥
सर्वविघ्नहरं देवं नमामि गणनायकम् ।
क उवाच ।
एवं स्तुत्वा तु देवेशं वरदं द्विरदानननम् ॥३१॥
वरयामास यान् कामांस्तां शृणुष्व महामुने ।
शेष उवाच ।
अद्य धन्यं तपो ज्ञानं पिता माता जनुर्मम ॥३२॥
देहो नेत्राणि भूरीणि मस्तकानि बहूनि च ।
त्वां स्तोतुं संप्रवृत्ता या धन्यस्या रसना मम।
कुलं शीलं च धन्यं मे त्वङ्घ्रियुगदर्शनात् ।
अखंडितं ते भजनं देहि मेऽखण्डविक्रम ॥३४॥
दुःखं किं किं नु वक्तव्यं सर्वज्ञे त्वयि विघ्नराट् ।
अखर्वगर्वकरणात् स्फुटिता मस्तका मम ॥३५॥
महारुषा महेशेना स्फालितस्य महीतले।
नारदस्य प्रसादेन दृष्टं ते चरणाम्बुजम् ।
इदानीं देव मे देहि श्रेष्ठतां भुवनत्रये ॥३६॥
पाटवं सर्वशिरसि सामर्थ्यं धारणे भुवः।
अचलं देहि मे स्थानं दर्शनं ते निरन्तरम्॥३७॥
सान्निध्यं शंकरस्यापि कुलश्रेठ्यं शिवे रतिम ।
गणपतिरुवाच।
यदि ते दशधा जातो मस्तको भुजगाधिप ॥३८॥
तदा सहस्रवदनः सहस्रफणिमण्डितः ।
भविष्यसि जने ख्यातो यावच्चन्द्रार्कतारकाः ॥३९॥
धराधरणसामर्थ्यं दृढं तव भविष्यति ।
पंचास्यपंचशिरसि मत्प्रसादात् स्थितिं स्थिराम्॥१.९०.४०॥
लप्स्यसे भुजगश्रेष्ठ मत्सान्निध्यं निरन्तरम् ।
अन्यत्ते वांछितं शेष तदशेषं भविष्यति ॥४१॥
क उवाच ।
एवं वरान् ददौ तस्मै स्वोदरे तं बबन्ध ह ।
व्यालबद्धोदर इति नाम प्राप गजाननः ॥४२॥
शेषस्य मस्तके हस्तमभयार्थं ददौ विभुः ।
स्वयं विराट्स्वरूपं स्वं शेषायादर्शयन् भुवा ॥४३॥
शब्देनापूरयद् व्योम भूतलं विदिशं दिशः ।
यस्य पादतले भूमिर्दिशः श्रोत्रेऽक्षिणी रविः ॥४४॥
ओषध्यो यस्य रोमाणि नखा यस्य धराधराः ।
मेघाः स्वेदोदकं यस्य प्रजनश्चतुराननः ॥४५॥
कुक्षौ यस्य जगत्सर्वं चत्वारश्चैव सागराः ।
अनन्तानन एको योऽप्यनन्तनयन: स्वराट् ॥४६॥
अनन्तरूपी चानन्त शक्तिरत्यन्त दीप्तिमान् ।
यद्रोमकूपे भान्ति स्म ब्रह्माण्डानि सहस्रशः ॥४७॥
दृष्ट्वा तं तादृशं शेषो भीत्या भ्रान्त इवाभवत् ।
प्रार्थयामास विघ्नेशं पुनः सौम्यो भवेति च ॥४८॥
ततो दशभुजो देवः सिंहारूढोऽभवच्च सः ।
उवाच वरदो देवो नेदृग् दृष्टः सुरैरपि॥४९॥
मदनुग्रहतोऽदर्शि त्वया शेषाद्य भाग्यतः ।
अचलं मयि ते स्थानं पातालेऽपि शिवेऽपि च ।
मया दत्तं प्रसन्नेन धर पुष्पमिवाद्य गाम् ॥१.९०.५०॥
शेष उवाच ।
धरे धरां स्वशिरसि धरणीधर इत्यपि ।
ममापि तेऽपि विख्यातं नाम लोकेऽति विश्रुतम् ॥५१॥
अस्मिन्क्षेत्रे स्थिरो भूत्वा भक्तकामान् प्रपूरय ।
ब्रह्मोवाच ।
ओमिति तमथोक्त्वाऽसौ विघ्नेशोऽन्तर्दधे स्वयम् ॥५२॥
शेषोऽपि तादृशीं मूर्तिं कृत्वाऽस्थापयदादरात् ।
अकरोद् बहुरत्नाढयं प्रासादं कांचनं शुभम् ॥५३॥
धरणीधर इत्येतन्नामास्य परिकल्पयत् ।
हरेः शयनतां प्रायादवहत् पुष्पवद्धराम् ।।५४॥
स्थिरोऽभून्नाभिपद्मेऽपि विघ्नराजस्य भूषणम् ।
एवं ते कथितो व्यास विघ्नेशमहिमाऽद्भुतः ॥५५॥
प्रवालनगरे ख्यातो गणेशो धरणीधरः।
एतदर्थं हि शेषेण कृतमाराधनं विभोः ॥५६॥ (३९८४)
इति श्रीगणेशपुराण उपासनाखंडे शेषोपाख्याने नवतितमोऽध्यायः ॥९०॥