गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ८१-८५

विकिस्रोतः तः
← अध्यायाः ७६-८० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ८१- ८५
[[लेखकः :|]]
अध्यायाः ८६-९० →

अध्याय ८१ प्रारंभ :-
क उवाच ।
रामस्तु वपनं कृत्वा स्नात्वा सम्यग्विधानतः ।
उत्थान श्राद्धमकरोद् ब्राह्मणैः कथितं यथा ॥१॥
विश्रान्तिस्थानमारभ्य मन्त्राग्निमुभयोरदात् ।
तदैव प्रययौ तं तु दत्तात्रेयं मुनिं प्रति ॥२॥
कुवेषं शिष्य सहितं श्वहस्तं मलिनं कृशम् ।
ध्यानेनालोक्य तं रामो ननाम मुनिपुंगवम् ॥३॥
बद्धांजलिपुटोऽतिष्ठद्यामार्धं तत्पुरो द्विजः ।
दत्तात्रेयोऽपि सर्वज्ञो बुद्ध्वा तस्याशयं मुनिः ॥४॥
उवाच राममामन्त्र्य ज्ञातं तव प्रयोजनम् ।
अथापि पृच्छे विज्ञातुं किमर्थं त्वमिहागतः ॥५॥
क उवाच ।
स उवाच ततो रामो वृत्तान्तमादितः स्फुटम् ।
राम उवाच ।
कृतवीर्यात्मजो राजा पितुराश्रममागतः ॥६
भोजितः परमान्नेन नानापक्वान्नशालिना ।
भुक्तः स सेनया सार्धं कामधेनुमयाचत ॥७॥
यदा न दत्ता पित्रा मे बलान्नेतुं मनो दधे ।
सा ताडिताऽथ सुषुवे सैनिकानां गणान् बहून् ॥ ८॥
तैर्भग्नो बलिभी राजा ससैन्योऽगान्निजालयम् ।
कामधेनुर्गता स्वर्गं ततो राजा रुषान्वितः ॥९॥
जमदग्नेर्हृदि शरमहनद् दृढमोजसा ।
एकविंशतिकान् बाणान् मातुरंगेऽहनद्रुषा ॥१.८१.१०॥
नाहं तत्र स्थितो ब्रह्मन् पश्चादागत्य दृष्टवान् ।
मन्त्राग्निा तु दग्धौ तौ मातुर्वांक्यादिहागतः ॥११॥
दत्तात्रेयं विना नान्यो वक्ता कार्योत्र कर्मणि ।
कृते कर्मणि सर्वस्मिंस्त्रयोदशदिनावधि ॥१२॥
पश्चाद्राजा निहंतव्यः कृतवीर्यात्मजो बलि ।
एकविंशतिवारं च कार्या नि:क्षत्रिया मही ॥१३॥
इत्थमाज्ञापयन्मह्यं जननी रेणुका मम ।
इत्यर्थमिह संप्राप्तस्तस्मात्कुरु कृपां मयि ॥१४॥
ब्रह्मोवाच ।
इति रामवचः श्रुत्वा रेणुकायाः सखा मुनिः ।
शोकसंविग्नहृदयो राममूच इदं वचः ॥१५॥
दत्तात्रेय उवाच ।
यद्गृहे भुक्तमत्यंतं तेन नेष्टा विरोधिता।
यदि दुष्टेन साऽकारि द्रष्टा तत्फलमन्तिकात् ॥१६॥
इदानीं तु तयोः सम्यगौर्ध्वदेहिकमाचर ।
ब्रह्मोवाच ।
तत आश्रममागत्य दत्तात्रेययुतस्तु सः ॥१७
रामश्चकार भक्त्यैव पित्रोरुत्तरकर्म तत् ।
दत्तात्रेयोक्तमन्त्रैः स द्वितीयदिवसावधि ॥१८॥
समाप्ते कर्मणि मुनिर्गन्तुं कोल्हापुरं मनः ।
चक्रे तदाऽब्रवीद्राम: कदायाति भवान्पुनः ॥१९॥
मुनिः प्रोचे यदा त्वं मे स्मरणं वै करिष्यसि ।
एहि दत्तात्रेय इति तदा मां द्रक्ष्यसेऽनघ ॥१.८१.२०॥
कृत्वा कर्म व्रजत्येव भिक्षितुं स दिने दिने ।
अशौचिनो न भोक्तव्यमन्नमित्यभिचिन्तयन् ॥२१॥
पंचमे दिवसे कर्मसमाप्त मुनिपुंगवः ।
गृहीत्वाऽऽज्ञां गतो यावत्तावद् व्याघ्रः समाययौ ॥२२॥
मातर्मातः क्व याम्यद्येत्येवं चुक्रोश तद् भयात् ।
आविराभूत्तदा माता रेणुका मम वाक्यतः ॥२३॥
असंपूर्णशिरोमात्रा पुत्रस्नेहवशेन हि ।
यदि द्वादश रात्रात्साऽऽहूता स्याद् भार्गवेण तु ॥२४॥
आगता स्यात्सा संपूर्णा सर्वावयवशोभिनी ।
उवाच तं किमाहूता वद बाल प्रयोजनम् ॥२५॥
आलिलिंग तदा स्नेहाद्रामं स्नुतपयोधरा ।
दत्तात्रेयः पुनरगात् षष्टे च दिवसे मुनिः ॥२६॥
अपश्यद्रेणुकां तत्र तादृशीं राममब्रवीत् ।
मध्यएव किमाहूता न्यूनदेहा समागता । २७॥
सपिंडीकरणादूर्ध्वं यद्याहूता तदाऽखिला।
आगता स्याद्रेणुकेयं तव स्नेहाद्द्विजर्षभ ॥२८॥
राम उवाच ।
बालभावाद् भयाद् ब्रह्मन् स्वभावान्मातरित्यहम् ।
उक्तवान् मुनिशार्दूल दृष्टवानीदृशीमिमाम् ॥२९॥
वृषोत्सर्गं च कृत्वानेकादशदिने द्विजः ।
सपिंडीकरणं चैव द्वादशे कृतवान् द्वयोः ॥१.८१.३०॥
ततः परेह्नि पाथेयं श्राद्धं पुण्याहवाचनम् ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो यथार्हतः ॥३१॥
जमदग्निर्दिव्यदेहो ब्रह्मलोकमथागमत् ।
तस्थौ सा रेणुका भूमौ स्थाने स्थाने च तादृशी ॥३२॥
पूरयत्यखिलान् कामान् जनानां भक्तिकारिणाम् ।
माहात्म्यं विस्तृतं तस्याः स्कान्दे प्रोक्तं विशेषतः ॥३३॥
अतिविस्तारभीत्याऽत्र न प्रोक्तं मुनिसत्तम ॥३४॥ (३५७२)
इति श्रीगणेशपुराण उपासनाखंडे रामोपाख्यानं एकाशीतितमोऽध्यायः ॥८१॥

अध्याय ८२ प्रारंभ :-
व्यास उवाच ।
कथं रामो बाल एव कृतवीर्यसुतेन ह।
एकाकी बहुसैन्येन सहस्रभुजशालिना ॥१॥
अजयत्तं महावीरं तन्मे कथय विस्तरात् ।
क उवाच ।
एकस्मिन् दिवसे रामो मातरं परिपृष्टवान् ॥२॥
राम उवाच ।
यस्मादिन्द्रादयो देवा बिभ्यति त्रासकम्पिताः ।
अनन्तं यस्य सैन्यं तच्चतुरंगसमन्वितम् ॥३॥
कथं विजेष्ये तं मातरुपायं मेऽखिलं वद ।
एकविंशतिवारं च कथं निःक्षत्रियां धराम् ॥४॥
करिष्ये वद तत्सर्वं त्वत्प्रसादाज्जयो भवेत्।
अतुला मम कीर्तिश्च सर्वलोकेषु विश्रुता ॥५॥
मातोवाच ।
विजयस्ते भवेत्पुत्र शंकराराधनं कुरु ।
तुष्टे तस्मिन्महादेवे सर्वं सेत्स्यति वांछितम् ॥६॥
इति तद्वचनं श्रुत्वा रामः कैलासमाययौ ।
प्रणम्य मातृचरणावाशिषं प्रतिगृहय च ॥७॥
तत्रापश्यन्महादेवं रत्नसिंहासनेस्थितम् ।
बद्धांजलिपुटो रामो नत्वा तुष्टाव तं तदा ॥८॥
राम उवाच ।
नमो देव देवेश गौरीश शम्भो ।
नमो विश्वकर्त्रे नमो विश्वभर्त्रे ।
नमो विश्वहर्त्रे नमो विश्वभर्ते ।
नमो विश्वधाम्ने नमःश्चन्द्रधाम्ने ॥९॥
नमो निर्गुणायामलज्ञानहेतोर्निराकार साकार नित्याय तेऽस्तु ।
नमो देववेदात्तशास्त्रातिगाय।
नमोऽव्यक्तव्यक्तात्मने सत्स्वरूप ॥१.८२.१०॥
गुणत्रयप्रबोधाय गुणातीताय ते नमः ।
नमः प्रपंचविदुषे प्रपंचरहिताय ते ॥११॥
क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो महेश्वरः ।
उवाच राममामन्त्र्य तृप्तो वाक्यामृतेन ते ॥१२॥
वरं वृणीष्व मत्तस्त्वं यं यं कामयसे हृदि ।
जानामि जामदग्न्यं त्वां रेणुकातनयं द्विज ॥१३॥
राम उवाच ।
कार्तवीर्येण दुष्टेन कामधेनुमपेक्षतां ।
जमदग्तिर्हतो रोषाद् अपराधं विना प्रभो ॥१४॥
रेणुका ताडिता बाणैः समन्ताज्जननी मम।
एकविंशतिसंख्याकैर्भुक्त्वाऽपि सेनया सह ॥१५॥
जहि तं दुष्टनृपतिमिति मात्रा नियोजितः ।
त्वामहं शरणं यात उपायं वद तद्वधे ॥१६॥
त्रिःसप्तवारं तेनैव कुर्यां निःक्षत्रियां महीम् ।
क उवाच ।
एवं विदिततत्वार्थो महादेवो जगाद् तम् ॥१७॥
आलोक्य प्रणिधानेन जयोपायं सुखावहम् ।
षडक्षरं महामन्त्रं द्विरदाननतोषकम् ॥१८॥
कथयामास रामाय जपं कुरु प्रयत्नतः ।
लक्षमात्रं च होमं च दशांशेन समाचार ॥१९॥
तर्पणं तद्दशांशेन तद्दशांशेन भोजनम् ।
ब्राह्मणानां महाभक्त्या प्रसन्नो भविता भुवि ॥१.८२.२०॥
गजाननो देवदेवः सर्वकार्यं करिष्यति ।
इति तद्वचनं श्रुत्वा प्रणम्य भवमादरात् ॥२१॥
आज्ञां गृहीत्वा रामोऽसावचलायां भ्रमन्भ्रमन् ।
कृष्णाया उत्तरे देशेऽपश्यत्स्थानमनुत्तमम् ॥२२॥
नानावृक्षलताजालैरभिरामं सुसिद्धिदम् ।
तत्राकरोदनुष्ठानं यथोक्तं तेन शम्भुना ॥२३॥
इन्द्रियाणां च मनसो वृत्तिं स्थाप्य गजानने ।
आवर्तयन् महामन्त्रमेकांगुष्ठस्थितो द्विजः ॥२४॥
जुहाव तर्पयामास भोजयामास वै द्विजान् ।
दशांशेन दशांशेन दशांशेन यथाक्रमम् ॥२५॥
ततः प्रसन्नो भगवानाविरासीद् गजाननः ।
चतुर्भुजो महाकायो महामायोऽति सुन्दरः ॥२६॥
नागयज्ञोपवीती च नानालंकार शोभितः।
मुकुटी कुंडली भ्राजच्चारुगंडो लसन्मुखः ॥२७॥
मुक्ताप्रवालमालाभिर्भ्राजद्वक्षा महाभुजः ।
परशुं कमलं दन्तं मोदकांश्च दधद्भुजैः ॥२८॥
पुष्करं पुष्करे धृत्वा भामयन् स्वेच्छया विभुः ।
प्रभया भासयन् सर्वा दिशो विदिश एव च ॥२९॥
ददर्श रामोऽकस्मात्तं न्यमीलयत चाक्षिणी।
तत्तेजसा प्रतिहते तत्तस्तुष्टाव तं द्विजः ॥१.८२.३०॥
राम उवाच।
सहस्रादित्य संकाश नमस्ते जगदीश्वर ।
नमस्ते सर्वविद्येश सर्वसिद्धिप्रदायक ॥३१॥
विघ्नानां पतये तुभ्यं विघ्ननिवारण ।
सर्वान्तर्यामिणे तुभ्यं नमः सर्वप्रियंकर ॥३२॥
भक्तप्रियाय देवाय नमो ज्ञानस्वरूपिणे ।
नमो विश्वस्यकर्त्रे ते नमस्तत्पालकाय च ॥३३॥
निवारय महाविघ्नं तपोनाशकरं मम। क उवाच ।
इति स्तुतिं समाकर्ण्य सौम्यतेजा गजाननः ॥३४॥
उवाच रामं संभ्रान्तं स्वस्यैव तिग्मतेजसा ।
गणेश उवाच ।
यं ध्यायसि दिवारात्रौ मन्त्रं जप्त्वा षडक्षरम् ॥३५॥
वरं दातुं समायातः सोऽहं राम तवाधुना ।
वरं वृणीष्व मत्तस्त्वं यद्यद् वांछसि चेतसा ॥३६॥
ब्रह्मांडानामनेकानां सृष्टा पाताऽपहारकः ।
नैव जान्नन्ति मे रूपं ब्रह्माद्या मुनयोऽपि च ॥३७॥
राजर्षयश्च सर्वेऽपि सोऽहं ते दर्शनं गताः ।
राम उवाच ।
योऽप्रमेयोऽखिलाधार: सृष्टिसंहारकारकः ॥३८॥
यो न वेदैर्न तपसा न यज्ञैर्र्कतसंचयैः।
न दानैर्नैव योगैश्च जनानां दृष्टिगोचरः ॥३९॥
सोऽहं त्वं हि मया दृष्टोऽनुग्राहात्तव विघ्नप ।
किमन्यद्वरये देव भक्तिं देहि निजां दृढाम् ॥१.८२.४०॥
गणेश उवाच ।
भविता मम भक्तिस्ते दृढा राम द्विजोत्तम् ।
प्रलोभितस्यापि वरैर्न ते बुद्धिः सुविह्वला ॥४१॥
परशुं मे गृहाण त्वं सर्वशत्रुनिबर्हणम् ।
नाम ते परशुरामेति त्र्यलोक्ये ख्यातिमेष्यति ॥४२॥
क उवाच ।
एवं तस्मै वरं दत्त्वा परशुं च गजाननः ।
पश्यतां सर्वलोकानामन्तर्धानं ययौ तदा ॥४३॥
रामो स्थापयामास महागणपतिं तदा ।
ब्राह्मणैर्वेदवेदांगशास्त्रविद्भिः समं मुदा ।
ब्राह्मणान्भोजयामास दत्त्वा दानान्यनेकशः ॥४४॥
प्रासादं कारयामास रत्नस्तंभयुतं दृढम् ।
संपूज्य तं परिक्रम्य प्रणिपत्य गजाननम् ॥४५॥
रामः प्रसन्नमनसा प्रययौ निजमन्दिरम् ।
ततो रामो जुहावोच्चैः कार्तवीर्यं धरापतिम् ॥४६॥
युद्धे तु शातयामास राज्ञो बाहुसहस्रकम् ।
निःक्षत्रियां च पृथिवीं चक्रे त्रिसप्तवारतः ॥४७॥
ब्राह्मणेभ्यो ददौ पृथ्वीं यज्ञं कृत्वा सदक्षिणम् ।
पुपूजुस्तं तदा लोका ज्ञात्वा विष्णुं तमीश्वरम ॥४८॥
दृष्ट्वा पराक्रमं तस्य सर्वदेवातिगं दृढम ।
एवं नानाविधो ब्रह्मन् महिमा ते निरूपितः ॥४९॥
गजाननस्य देवस्य संक्षेपेण मया सुत ।
निखिलेन न शेषोऽपि क्षमो वक्तुं मुनीश्वर ॥१.८२.५०॥
उपासनाखंडमिदं शृणुयान्मासवो भुवि ।
सर्वांन्कामानवाप्नोति गणेशं धाम चाप्नुयात् ॥५१॥
यथेष्टं रमते तत्र यावदाभूत संप्लवम् ॥५२॥ (३६२४)
इति श्रीगणेशपुराण उपासनाखंडे रामवरदानं नाम द्वयशीतितमोऽध्यायः ॥८२॥

अध्याय ८३ प्रारंभ :-
मुनिरुवाच ।
कस्मिन् स्थाने तपोऽकारि रामेण परमाद्भुतम् ।
तन्मे कथय लोकेश तृप्तिं मे नास्ति शण्वतः ॥१॥
क उवाच ।
मयूरेश्वरनाम्ना यत्क्षेत्रं ख्यातं चतुर्युगे ।
यत्रावतीर्णो देवेशो मयूरारूढ एव सः ॥२॥
कमलासुर नामानमहनद् दैत्यपुंगवम् ।
यस्मान् मयूरमारूढो मयूरेश इति स्फुटम् ॥३॥
संस्तुतो देवमुनिभिर्लोके तां ख्यातिमागमत् ।
तत्रानुष्ठानमकरोदवाप परशुं ततः ॥४॥
स्वयं परशुरामोऽभून्नाम्ना ख्यातस्त्रिविष्टपे ।
इतिहासं प्रवक्ष्यामि शृणु तं मुनिसत्तम ॥५॥
तारकोनाम दैत्योऽभून्महाबल पराक्रमः ।
दिव्यवर्षसहस्रं स तपस्तेपे सुदारुणम् ॥६॥
ततः प्रसन्नो ब्रह्माऽस्मै ददौ सर्वांभयं द्विज ।
देवर्षियक्षगन्धर्वोरगराक्षसहस्ततः ॥७॥
तच्छस्त्रास्त्रगणान् मृत्युर्न ते क्वापि भवेदिति ।
उत्पत्स्यते यदा स्कन्दस्ततस्ते मरणं भवेत ॥८॥
इति तद्वाक्यमाकर्ण्य बलगर्वसमायुतः ।
तारकोऽपीडयल्लोकांस्त्रैलोक्ये वसतो मुने ॥९॥
वेदाध्ययननिष्ठांश्च तपोऽनुष्ठानकारिणः ।
अग्निहोत्ररतानन्यान् कारागारेऽक्षिपद् द्विजान् ॥१.८३.१०॥
सर्वान् राज्ञोऽथ नागांश्च वशे कृत्वा दिवं ययौ ।
इन्द्रादयस्तदा देवा हिमाचल गुहां गताः ॥११॥
तद् भयान्नाभवत् क्वापि यजनं पूजनं तथा।
अहमेवेश्वरो देवो ब्राह्मणः कुलदेवता ॥१२॥
अहं नमस्य पूज्यश्च नान्यो जगति वर्तते ।
यश्चान्यान् प्रणमेत् क्वापि पूजयेद्वा कदाचन ॥१३॥
स दण्ड्यस्ताडनीयः स्याद् गच्छेद्वा यमसादनम् ।
एवं सर्वेषु लोकेषु ख्यापयामास दूततः ॥१४॥
ततः सर्वे जना रिक्ता जाता: सज्जनवर्जिताः ।
निःस्वाध्यायवषट्कारा यज्ञदानविवर्जिताः ॥१५॥
उच्छिन्नकुलधर्मांश्च स्वाचाररहिताः खलाः ।
मुनयः साधवः सर्वे गिरिगह्वरमाश्रिताः ॥१६॥
देवं ते प्रार्थयामासुः कथं दैत्यो विवर्द्धितः ।
विना त्वां शरणं शम्भो यामः कं जगदीश्वरम् ॥१७॥
निर्माता रक्षिता धाता संहर्ता जगतां विभो ।
दावानलो वनमिव दहतेऽस्मान्स दर्पतः ॥१८॥
यदि ते संजिहीर्षा स्यात् संहरस्व स्वयं जगत् ।
नोचेत् संहर दैत्यं त्वं तारकं सर्वपीडकम् ॥१९॥
एवं संप्रार्थ्य तेपुस्ते दुष्करं तप उत्तमम् ।
पत्रभक्ष्या वायुभक्ष्या निराहारा जलाशिनः ॥१.८३.२०॥
एवं स्थितेषु मुनिषु तेनाज्ञातेषु दैत्यराट् ।
ऐन्द्रं पदं समास्थाय ब्रह्माणं समताडयत् ॥२१॥
विष्णुस्ततोऽगमत् क्षीरसागरं निद्रितुं मुने ।
त्यक्त्वा कैलासमगमच्छंकरोपि गुहान्तरम् ॥२२॥
दिक्पाला दिग्गजाश्चापि नानागह्वरमाश्रिताः ।
तेषां स्थानेऽस्थापयत्स दैत्यानन्यांश्च दैत्यराट् ॥२३॥
अचलामचलस्तिष्ठन् पालयामास वै प्रजाः।
गर्जते स्वस्वभावेन कम्पतेऽथ त्रिविष्टपम् ॥२४॥
तत इन्द्रादयो देवास्तुष्टवुर्गिरिगह्वरे ।
गिरिशं गिरिजानाथं गिरा गंभीरया मुदा ॥२५॥
देवा ऊचुः ।
देवाधिभूमिगगनेन शशिस्वरूप।
वाय्वग्निरूप यजमान जलस्वरूप ।
त्वं स्थावरानथ चरान् सृजसेऽवसीश ।
त्वं सर्वमेव हरसे निजयेच्छयेश ॥२६॥
तन्नोचितं त्वयि परे परदुःखहारिन्।
स्वीयं यशःपरगतं बहुधाऽद्य कर्तुम् ।
तन्नाशयैनमथवा सकलान् मुनींश्च ।
देवान् द्वयोश्च भजनं परिविष्टचित्तान् ॥२७॥
कं वा व्रजेम शरणं त्वदृते गिरीश ।
कं बा भजेम भगवंस्त्वदृते महेश ।
कं वा वदेम वृजिनार्दन पार्वतीश ।
को वाऽवितुं प्रभवति त्वदृतेऽखिलेश ॥२८॥
क उवाच ।
एवं ते तुष्टुवुर्यावच्छुश्रुवुस्तावदेव हि ।
नभोवाणीं सर्वदेवा हरपुत्रो यदा भवेत् ॥२९॥
तदाऽस्य नाशो भविता यत्नं कुरूत तत्र वै ।
नभोवाणी समाकर्ण्य सर्वे हर्षसमन्विताः ॥१.८३.३०॥
कैलासं देवनिलयमापुरिन्द्रादयः सुराः ।
नापश्यच्छंकरं तत्र ददृशुः पुरतोऽमरः ॥३१॥
मूलप्रकृतिरूपां तामुमां सर्वे विजिज्ञपुः ।
तारके तारकज्ञानप्रदे तारय तारकात् ॥३२॥
त्रैलोक्यपीडकाद् दुष्टात् पदभ्रष्टान् मुनीन सुरान् ।
तथा विचिन्त्यतां मातस्तस्य नाशो भवेद्यथा ॥३३॥
मातस्त्वां प्रणमाम देवजननीं त्रैलोक्यरक्षाकरे ।
शर्वाणि त्रिपुरे परात्परकले ब्रह्मादिभिः संस्तुते ।
त्वं वेदैरनिरूपिते कुरु जगत् कल्याणमीश प्रिये ।
स्वेच्छोपात्तसुविग्रहे सुरहरे वैश्वादि भूतेऽनघे॥३४॥
क उवाच ।
एवं संप्रार्थिता देवी विश्वमाता जगाद तान्।
नभोवाणी मया ज्ञाता शंकरः शं करिष्यति ॥३५॥
सहैव यान्तु सर्वेऽपि मया यत्र स शंकरः ।
परं नियममास्थाय कुरुते परमं तपः ॥३६॥
इत्युक्त्वा सर्वदेवान्सा भिल्लीवेशमधारयत् ।
यां दृष्ट्वा परमो योगी कामबाणार्दितो भवेत् ॥३७॥
देवा अपि तदा केजिज्जाता मदनविह्वलाः ।
उर्वशी मेनका रम्भा पूर्वचित्ती रतिस्तथा ॥३८॥
लज्जिता तां निरीक्ष्यैव सर्वावयवसुन्दराम् ।
ते देवा सा च गिरिजा प्राप्ता ब्रह्मन् शिवान्तिकम् ॥३९॥
स्थाणुं तं स्थाणुभूतं च ध्याननिश्चललोचनम् ।
ध्यायन्तं मनसा ब्रह्म जपन्तं निष्परिग्रहम् ॥१.८३.४०॥
ददृशुः सर्वदेवास्ते भिल्ली चापि त्रिलोचनम् ।
तत ऊचेऽखिलान्देवानुमोपायं सुखावहम् ॥४१॥
देहातीत इवास्तेऽसौ तपोनिष्ठः सदाशिवः ।
एतस्य देहभावार्थं कामं विज्ञापयन्तु च ॥४२॥
तेनेषुणा यदा विद्धः एकनिष्ठः सदाशिवः ।
यास्यते देहभावं स तदा कार्यं भविष्यति ॥४३॥
ततो देवाः सर्व एव कामं सस्मरुरुत्कटम् ।
समागतं तमूचुस्ते स्वकार्य कृतनिश्चयाः ॥४४॥
प्रार्थयामासुरपरे स्वकार्याय मनोभवम् ।
विभुस्त्वमसि लोकानां चरेषु स्थावरेषु च ॥४५॥
त्वयैव जायते सृष्टिस्त्वया व्याप्तमिदं जगत् ।
अबला कामिनः सर्वे त्वयैव बलवत्तराः ॥४६॥
त्वया विना वृथा सर्वं जगत् स्थावरजंगमम् ।
अतस्त्वयैव कर्तव्यं सर्वेषां कार्यमुत्कटम् ॥४७॥
काम उवाच ।
यद्यप्यहं विसामग्रिस्यथा युष्मत् प्रसादतः ।
करिष्यामि वचः कार्यमादेह पतनावधि ॥४८॥
सुमं धनुर्मरालाज्येषुः कटाक्षोऽथ योषितः ।
विजेष्येऽथापि सकलानमरान् छंकरावधि ॥४९॥
वसन्तं प्रतिलभ्यैव सहायं सकलं सुराः ।
क उवाच ।
एवमुक्त्वा गतः कामो यत्रास्तेऽसौ सदाशिवः ॥१.८३.५०॥
मोहितुं शंकरं देवं देवानां कार्यसिद्धये ॥५१॥ (३६७५)
इति श्रीगणेशपुराण उपासनाखंडे त्र्यशीतितमोऽध्यायः ॥८३॥

अध्याय ८४ प्रारंभ :-
क उवाच ।
एवमुक्त्वा गतः कामः सुरकार्यार्थसिद्धये ।
अपश्यच्छंकरं स्थानं वृक्षवल्लीसमाकुलम् ॥१॥
सिंह शार्दूलजुष्टं च पक्षिश्वापदसंयुतम् ।
स्वयं च निर्ममे मायावाटिकां तत्क्षणेन सः ॥२॥
सरोवराणि भूरीणि सुधारूपजलानि च ।
अनेक कुसुमान् वृक्षा नागव्यूतिसुगन्धिभिः ॥३॥
जम्ब्वाम्रबदरी वृक्षान् सुपक्वफलशालिनः ।
तथैव रम्भा पनसा नारिकेलीः सखर्जुरी: ॥४॥
एलालवंग मारीच वृक्षानन्याननेकशः ।
अगृहयमाणो गन्धोऽसौ हरनासापुरं ययौ ॥५॥
उषःकाले हरोऽपश्यज्ज्योत्स्ना जलयं मनोहरम् ।
अनेक फलपुष्पाढ्यं कामकाननमद्भुतं ॥६॥
तदैव भेदयामास मानसं शूलिनस्तु सः ।
स्वीयामशोकवनिकां धिक्च के मनसा शिवः ॥७॥
देहभावं गतो देवश्चिन्तयामास कारणम ।
कृतं केन तपोविघ्नं कृतमेतद्वनं शुभम् ॥८॥
अकस्माद्रचितं केन दुष्टेनेदं गतायुषा ।
आबद्ध्य भ्रुकुटीं रोषादारक्त नयनोदरः ॥९॥
कामस्तु भयसंत्रस्तो लीनः क्वापि न गृहयते ।
इन्द्रादीनां स सस्मार स्मृतास्ते नात्र ते ययुः ॥१.८४.१०॥
विमानानि समारूढाः कार्यसिद्धीच्छया सुराः ।
शिवेन ददृशे तावन् मदनोऽति लघुः कृशः ॥११॥
उद्घाटयंस्तृतीयं स नेत्रं दग्धं मनोभवम् ।
चकम्पे पृथिवी सर्वा स्वर्गः पातालमेव च ।।१२।।
मा जहीति ब्रुवन्देवा यावत्तावत्स नेत्रजः ।
चकार भम्मसात् कामं भस्ममात्रावशेषितम् ॥१३॥
ततो भिल्ली महेशानं प्रार्थयामास सादरम् ।
नमस्कृत्वांजलिं बद्ध्वा त्रैलोक्यहितकाम्यया ॥१४॥
त्रैलोक्यदाहकं वह्निमुपसंहर शंकर ।
ब्रह्मलब्धवरो दैत्यस्तारकोऽति महाबली॥१५॥
आक्रान्तं तेन त्रैलोक्यं निःस्वाध्यायं निराहुति ।
स्थानच्युताः सुरा सर्वे त्वां दृष्ट्वा तपसि स्थितम् ॥१६॥
त्वरया काममामन्त्र्य देहभावाय तेऽनघ ।
अप्रेषयन्स वै भस्म जातः श्रेष्ठापराधतः ॥१७॥
इदानीं देव रक्षास्मांस्त्वामेव शरणं गतान् ।
विख्यातस्त्रिषु लोकेषु शरणागत पालकः ॥१८॥
क्षमस्व कृपणानां त्वं देवानां शरणैषिणाम् ।
अपराधं महादेव करुणाकर शंकर ॥१९॥
क उवाज ।
इति तस्या वचः श्रुत्वा स्वाङ्घ्रिस्थशिरसो मुने ।
जगाद हास्यवदनो वह्निं संहृत्य शंकरः ॥१.८४.२०॥
उत्तिष्ठोत्तिष्ठ देवानां रक्षणं कृतमद्य मे।
पादयोः पतितायास्ते वचसा प्रणयेन च ॥२१॥
तत आलिंग्य सहसा भिल्लीमंकमथानयत् ।
वृषभारुह्य च तया सार्द्धं कैलासमागमत् ॥२२॥ (३६९७)
इति श्रीगणेशपुराण उपासनाखंडे कामदहनं नाम चतुरशीतितमोऽध्यायः ॥८४॥

अध्याय ८५ प्रारंभ :-
क उवाच ।
शिवस्यालिंगनाद् भिल्ली मदनानलदीपिता ।
नाप क्वापि सुखं देवी निर्जले शफरी यथा ॥१॥
पतिता जलमध्ये सा शीतलोशीरशालिनी।
न शर्म लेभे तत्रापि स्थले निद्रां न चालभत् ॥२॥
कर्पुरचन्दनं तस्या अधिकं तापमादधे ।
न शीतलपदार्थोऽस्याः कोऽपि संतोषमादधे ॥३॥
एवं बहुतिथे काले सास्थिचर्मावशोषिता।
ततो गिरिशमागम्य गिरिजा गिरमब्रवीत् ॥४॥
न त्वं मृशसि मां देव कामवस्थां गताऽस्मि ह ।
दग्धोऽपि मदनो मह्यमत्यन्तं पीडयत्यहो ॥५॥
नानोपायाः कृतास्तस्य शान्तये न च साऽभवत् ।
येनोपायेन शान्तिः स्यात्स तं कुरु मम प्रभो ॥६॥
इति वाक्यं समाकर्ण्य प्रियायाः प्रियकृद्धरः ।
रहस्येतां करे कृत्वा पर्यंके पर्यवेशयत् ॥७॥
रेमे तया यथेष्टं स मदनेन वशीकृतः।
मृतेनापि कृतं तेन महत्कार्यं सुरेरितम् ।।८॥
अनंगेन समो नैव धन्वीति यश आष्तवान् ।
तयोस्तु क्रीडतो याताः षष्टिसाहस्रवत्सराः ॥९॥
भ्रष्टस्थाना मुनिसुराः श्रुत्वा मदनचेष्टितम् ।
कैलासं पुनरायातास्तत्र क्रीडारतं हरम्॥१.८५.१०॥
ज्ञात्वा तूष्णीं स्थितास्तत्र चिन्ताव्याकुलचेतसः ।
तारकासुरभीतास्ते पुनर्गह्वरमागता ॥११॥
कदा वधो भवेदस्य कदा स्थानानि याम च ।
करिष्यति कदा शम्भुरस्माकं दुःखनाशनम् ॥१२॥
इति चिन्तार्णवे मग्ना यावद् ब्रह्मादयः सुराः ।
तावदूचे सुराचार्यो वाक्यं मे शृणुतानघाः ॥१३॥
प्रेषयन्त्वखिला वह्निं रूपान्तरधरं हरम् ।
स हरं बोधयित्वाशु भवत्कार्यं भविष्यति ॥१४॥
ततस्ते वह्निमाकार्य तुष्टुवुर्विविधैः स्तवैः ।
देवा ऊचुः ।
त्वत्तो यज्ञक्रिया ब्रह्मन् संस्काराः सर्व एव हि ॥१५॥
अपां त्वमसि हेतुश्च देवानां मुखमेव च ।
अग्निहोत्रप्रणेता त्वं गार्हपत्यादिनामभिः॥१६॥
त्वमेव पिबसीशाब्धि वारि नित्यं महत्तरम् ।
त्वमेव पचसे नृणाम् जठरे षड्रसानपि ॥१७॥
त्वमेव सर्वजन्तूनां सन्धौ सन्धौ विचेष्टसे ।
त्वया त्यक्तं प्रेतसंज्ञां लभते दह्यते त्वया ॥१८॥
हेतुस्त्वमसि देवेश जन्तूनां प्राणधारणे।
त्वयाद्भिश्च विना नान्नं पक्तुं शक्यं न च क्वचित् ।
त्वमेव ब्रह्मा रुद्रश्च सूर्यश्चानेक रूपधृक् ॥१९॥
त्वमेव जायसे मूलं क्रोधस्य जगदीश्वर ।
यत्र तत्र भवेत्तेजस्तत्तद्रूपं तवैव च ॥१.८५.२०॥
अतस्त्वां प्रार्थयामोऽद्य त्रिलोक्या उपकारक ।
त्रैलोक्याक्रमणं तेन तारकेण कृतं विभो ॥२१॥
जानासि तन्नभोवाणीं कामस्यापि च तां गतिम् ।
पार्वतीहरयोर्बोधं चिरंक्रीडानिमग्नयोः ॥२२॥
कुरु गत्वाऽन्यरूपेण भिक्षां याचस्व तत्र वै।
एवं कृते जगत्कार्यमस्माकं च भविष्यति ॥२३॥
ब्रह्मोवाच ।
इति देववचः श्रुत्वा काषायवसनो द्विजः ।
भूत्वा शुष्माययौ तत्र यत्रास्तां पार्वतीश्वरौ ॥२४॥
क्रीडासक्तौ बहिः स्थित्वा भिक्षां देहीत्युवाच सः ।
त्रिवारं प्लुतशब्देन द्वाभ्यामपि श्रुतः स्वनः ॥२५॥
ऊचतुर्विस्मितौ तौ तु परस्परमुभौ वचः ।
परिधत्तां शुके स्वे स्वे कुतोऽत्रायं समागतः ॥२६॥
किमस्मै च प्रदातव्यमिति चिन्तां च चक्रतुः ।
उमांजलावधाद्वीर्यमशक्ता तस्य धारणे ॥२७॥
जानती भाविनं चार्थं ददौ सा भिक्षुकाय तत् ।
भूमौ त्यक्तं दहेदेतत् त्रैलोक्यं सचराचरम् ॥२८॥
हरवीर्यमित्यपि यद्वह्निः शापभयात्तयोः ।
गर्भवाननलो जातो लज्जावानपि तापवान्॥२९॥
तत्र यत्र ययौ वह्निः शर्म लेभे न तत्र वै।
उषस्युत्थाय गंगायां तुलासंस्थे दिवाकरे ॥१.८५.३०॥
स्नातुं यावत्स शौचादि कुरुते तावदेव ह।
आगताः षट् स्त्रियस्तत्र स्नातुमूर्जे समाहिताः ॥३१॥
अग्निना यत्समुत्सृष्टं गंगेयं च हरप्रिया ।
धारयिष्यति शक्ता चेज्जलरूपा सुशीतला ॥३२॥
शिववीर्यं च तत्ताभिः प्राशितं षड्विभागतः ।
तस्मिन्नेव क्षणे सोऽग्निरन्तर्द्धि समपद्यत ॥३३॥
अंकुशानि च यातानि दूरदेशं गतेऽनले ।
परिधाय स्ववस्त्रांस्तास्ततो याता निजं गृहम् ॥३४॥
ददृशुः पतयस्तासां मुखान्यत्युज्ज्वलानि च ।
गर्भिण्य इति ते ज्ञात्वा ज्ञानदृष्ट्या मुनीश्वराः ॥३५॥
बहिश्चक्रुर्गृहात् सर्वा न प्रदर्श्यं मुखं त्विदम् ।
ताः समेत्य पुनर्गगां तीरे शर सुशोभिते ॥३६॥
मुमुचुः स्व स्व गर्भं ताः शुद्धाः स्नाता गृहान्ययुः ।
षट्सु तासु प्रयातासु स्वं स्वं गर्भं विमुच्य वै ॥३७॥
षण्मुखो द्वादशभुजो बालस्तत्र व्यजायत ।
तस्य हुंकारमात्रेण निपेतुर्भानि रवाद्भुवि ॥३८॥
चकम्पे धरणी सर्वा शेषः पातालमेव च ।
द्रुमा उन्मीलिताः सूर्यो नीहाराच्छादितोऽभवत् ॥३९॥
एतस्मिन्नन्तरे तत्र नारदो दिव्यदर्शनः ।
कैलासं गिरिशं दृष्टुं गच्छन्मार्गे ददर्श तम् ॥१.८५.४०॥
अतिदीप्ततरं बालं दुर्दशं बलवत्तरम् ।
प्रणिधानेन तं ज्ञात्वा तूष्णीं कैलासमाययौ ॥४१॥
उवाच पार्वतीं शम्भुं वृत्तांतं सर्वमेव च ।
जहर्ष पृथिवी सर्वां ज्ञात्वा तं गिरिशात्मजम् ॥४२॥
देवदुन्दुभयो नेदुर्गन्धर्वां जगुरद्भुतम् ।
नारद उवाच ।
आगच्छता मया दृष्टो गौरि मार्गे तवात्मजः ॥४३॥
षण्मुखो द्वादशभुजो सूर्यकोटिसमप्रभः ।
गंगातीरे निपतितस्त्यक्तस्ते षण्मुखो नु किम् ॥४४॥
कोटिकन्दर्पशोभाढ्यो गर्जितक्षोभिताखिलः ।
कथं निष्ठुरताऽकारि गौरि सुन्दरबालके ॥४५॥
क उवाच ।
इत्युक्त्वाऽन्तर्हिते तस्मिन्गौरी बालकमभ्यगात् ॥४६॥ (३७४३)
इति श्रीगणेशपुराण उपासनाखंडे स्कन्दोपाख्यानं नाम पंचाशीतितमोऽध्यायः ॥८५॥