क्रियाधिकारः/सप्तदशोऽध्यायः

विकिस्रोतः तः
← षोडशोऽध्यायः क्रियाधिकारः
सप्तदशोऽध्यायः
[[लेखकः :|]]
अष्टादशोऽध्यायः →


सप्तदशोऽध्याय:
त्रिमूर्तिस्थापनम्
त्रिमूर्तिस्थापनं वक्ष्ये जगतामभिवृद्धये।
(सर्वलोकस्य पूजार्थं सर्वलोकहिताय च)
मध्ये विष्णुं प्रतिष्ठाप्य ब्रह्माणं दक्षिणं दक्षिणे तत: ।। 17.1 ।।
वामे रुद्रं प्रतिष्ठाप्य पूजनं यत्तदुत्तमम्।
स्थापनं व्यत्ययेनैव मध्यमं ब्रह्मरुद्रयो: ।। 17.2 ।।
मध्ये रुद्रं प्रतिष्ठाप्य दक्षिणे विष्णुमुत्तरे।
ब्रह्माणं व्यत्ययेनाथ स्थापयेदधमं स्मृतम् ।। 17.3 ।।
कृत्वा वा पार्श्वयोरन्यौ मध्ये ब्रह्माणमेव वा।
सौम्येनानेन विधिना स्थापयेद्विष्णुपद्मजौ ।। 17.4 ।।
शैवेन तान्त्रिकेणैव स्थापनं वै शिवस्य तु।
निष्कलं सकलं वाऽपि स्थापयेच्चन्द्रशेखरमम् ।। 17.5 ।।
त्रयाणां परिवाराणां तत्तदुक्तानि कल्पयेत्।
अनपायिगद्वारविमानेशा: पृथक्पृथक् ।। 17.6 ।।
प्राकारपरिवाराणां सर्वे साधारणा मता:।
प्रथमावरणादीनां द्वारपालास्तथैव च ।। 17.7 ।।
दशतालोत्तमेनैव देवेदवं प्रकल्पयेत्।
शङ्करं मध्यमेनैव विरिञ्चमधमेन च ।। 17.8 ।।
आलयाभिमुखे तेषां यागशालां प्रकल्पयेत्।
षङग्नीन् देवदेवस्य पञ्चाग्नीम् ब्रह्मणस्तथा ।। 17.9 ।।
तच्छास्त्रोक्तेन मार्गेण रुद्रस्यापि प्रकल्पयेत्।
अक्ष्युन्मेषादिकं सर्वं पूर्ववत्कारयेत्पृथक् ।। 17.10 ।।
हौत्रशंसनवेलायामिन्द्रादिपरिषद्गणान्।
मध्यालयाग्निकुण्डे तु समावाह्य समर्चयेत् ।। 17.11 ।।
देवस्य र्प्ववद्धोमं षडग्निषु जुहोति वै।
ब्रह्मणम्सभ्यकुण्डे तु कृत्वा हौत्रप्रशंसनम् ।। 17.12 ।।
प्राजापत्यं जयादींश्च कूश्माण्डं गणहोमकम्।
आहुतीनां सहस्त्रञ्च पूर्ववज्जुहुयाद्बुध: ।। 17.13 ।।
ब्राह्मन्त्रद्वयेनापि शतमष्टोत्तरं यजेत्।
सावित्र्याऽब्जं घृताभ्यक्तं शतवारं ततो यजेत् ।। 17.14 ।।
ऐन्द्रमाग्नेयसंयुक्तं यजेदाहवनीयके।
याम्यं नैऋतसंयुक्तमन्वाहार्ये जुहोति वै ।। 17.15 ।।
वारुणं वायुदैवत्यं गार्हपत्ये जुहोति च।
सौम्यं कौबेरमैशान्यामावसत्थ्ये यजेत्क्रमात् ।। 17.16 ।।
चतुर्वेदादिमन्त्रैश्च शतमष्टोत्तरं यजेत्।
एष एव विशेष: स्यादन्यत्सर्वं समं भवेत् ।। 17.17 ।।
स्थापनं च त्रिमूर्तीनां परिषद्वणपूजनम्।
व्यक्तं मरीचि: प्रोवाच उक्तशेषं समाचरेत् ।। 17.18 ।।
द्विमूर्तिस्थापनम्
द्विमूर्तिस्थापनं वक्ष्ये दक्षिणे विष्णुमव्ययम्।
वामे रुद्रं प्रतिष्ठाप्य नित्यं विधिवदर्चयेत् ।। 17.19 ।।
अथवा कर्तुमिच्छेच्चेत् ब्रह्मण: स्थापनं पृथक्।
ग्रामादिषु च तन्मध्ये विविक्तेऽन्यत्र वा वने ।। 17.20 ।।
भूपरीक्षादिकं सर्व तन्मन्त्रेणैव कारयेत्।
कृत्वा विमानबेरादिनयनोन्मीलनादिकम् ।। 17.21 ।।
स्थापनोक्तक्रियास्सर्वा: कारयेत्पूर्ववद्बुध:।
ब्राह्ममन्त्रद्वयेनापि नित्यं विधिवदर्चयेत् ।। 17.22 ।।
हवींषि पायसादीनि चत्वार्येवं निवेदयेत्।
उत्सवे तु ध्वजं हंसलक्षणं तस्य कल्पयेत् ।। 17.23 ।।
विना पुरुषसूक्तेन विष्णुसूक्तेन वैष्णवै:।
ब्राह्ममन्त्रद्वयेनैव तत्तद्धोमस्तदुत्सवे ।। 17.24 ।।
एष एव विशेष: स्यादन्यत्सर्व समं भवेत्।
परिवारस्थापनम्
रविं गुहञ्च विध्नेशं दुर्गा ज्येष्ठां सरस्वतीम् ।। 17.25 ।।
स्थापयित्वाऽर्चनं कर्तु यदीच्छेद्भक्तित: पृथक्।
खिले विस्तरत: प्रोक्तं यन्मया तत्समाचरेत् ।। 17.26 ।।
आश्रयालयमिच्छेच्चेत्परितो विष्णुमन्दिरे।
भास्करादीन् प्रकल्प्यैव पूजयेच्चेन्महाफलम् ।। 17.27 ।।
प्रथमाऽवरणे प्राच्यां भास्करं भारतीमपि।
गुहं याम्ये तु विध्नेशं नैऋते परिकल्पयेत् ।। 17.28 ।।
ज्येष्ठां वायव्यभागे तु दुर्गां याम्ये प्रकल्पयेत्।
प्रत्यङ्मुखौ च कर्तव्यौ भारती च दिवाकर: ।। 17.29 ।।
कारयेत्प्राङ्मुखानन्यानिति पूर्वजशासनम्।
सौम्येनैव विधानेन पूजयेत्सर्वसम्पदे ।। 17.30 ।।
सौम्यालयाश्रितानेतान् तान्त्रिकेण न चार्चयेत्।
औपासनाग्निरेव स्यादेतेषामाश्रयालये ।। 17.31 ।।
कुर्याद्ध्रुवार्चामार्गेण सर्वमन्यत्खिलोक्तवत्।
आलयं प्रतिमोत्सेधं परिवारोक्तवद्भवेत् ।। 17.32 ।।
आश्रयालयकल्प:
आश्रयालयकल्पञ्च प्रवक्ष्यामि तपोधना:।
स्वतन्त्रमालयं कर्तुमशकृतोन्यऽत्र वाऽऽलये ।। 17.33 ।।
स्थापयित्वाऽर्चयेत्सोऽपि समग्रं फलमाप्नुयात्।
मूलालये स्थिते देवे स्थितं एवाऽश्रये भवेत् ।। 17.34 ।।
आसीने चाऽसनं वाऽपि स्थानकञ्च प्रकल्पयेत्।
स्थानकासनशय्यासु शयनेऽन्यतमं मतम् ।। 17.35 ।।
मूलालये ध्रुवार्चायामाश्रयञ्च ध्रुवार्चनम्।
ध्रुवकौतुकसंयुक्ते तद्वदेवैकमेव वा ।। 17.36 ।।
अवताराश्रयञ्चेत्तु गौणमार्गे यथाविधि।
आसीनावेव सर्वत्र वराहनरसिंहकौ ।। 17.37 ।।
अवताराश्रयं कुर्वन् प्रथमावरणादिषु।
मत्स्यकूर्मौ प्रकुर्वीत पूर्वद्वारस्य दक्षिणे ।। 17.38 ।।
वराहत्रयमाग्नेयाद्याम्यान्तं परिकल्पयेत्।
पारसिंहं प्रकुर्वीत गिरिजं याम्यपश्चिमे ।। 17.39 ।।
स्थूणजं नैऋते देशे नीलवारुणमध्यमे।
सौदर्शनं नृसिंहन्तु वारुणे च तत: परम् ।। 17.40 ।।
कुर्याल्लक्षमीनृसिंहञ्च वरुणोदानमध्यमे।
पातालनरसिंहञ्च वामनं वायुदिश्यपि ।। 17.41 ।।
धनदेदानयोर्मध्ये कारयेत्तु त्रिविक्रमम्।
जामदग्न्यं तु कौबेरे कुबेरेशानमध्यमे ।। 17.42 ।।
कुर्याद्दाशरथिं राममैशान्ये तु हलायुधम्।
ईशानेन्द्रान्तरे कृष्णं द्वारवामे तु कल्किनम् ।। 17.43 ।।
वराहं नारसिंहञ्चरामं कृष्णं तथैव च।
दिक्षु सर्वासु संस्थाप्य पूजयेत्सर्वसिद्धये ।। 17.44 ।।
योगे मूलालये कुर्याद्योगमेवाश्रयालयम्।
भोगे भोगञ्च योगं वा न जातु विरहादिकम् ।। 17.45 ।।
मूलबेरन्तु शूलञ्चेच्छूलमेवाश्रयालये।
शैले शैलञ्च शूलं वा लोहे लौहं शिलामपि ।। 17.46 ।।
एकबेरन्तु सर्वत्र शैलमेव प्रकल्पयेत्।
सुदर्शनप्रतिष्ठा चेद्याम्ये वा नैर्ऋते तथा ।। 17.47 ।।
कल्पयेदीश्वरं प्राच्यां प्रागादि परिकल्पनम् ?।
पादहीनमथार्ध वा मूलादारश्रयमन्दिरम् ।। 17.48 ।।
तत्र मूलालयोत्कृष्टमलङ्कारं न कल्पयेत्।
सङ्खचाधिकतलं नैव कल्पयेदाश्रयालयम् ।। 17.49 ।।
सालाश्रयं त्रिवर्गाढ्यं तदन्तर्मण्डलेऽपि वा।
अग्रमण्डपसंयुक्तं प्रथमाऽवरणे स्मृतम् ।। 17.50 ।।
विमानद्वारदेवाश्च गर्भालयगता अपि।
परिवारा इति प्रोक्ता मुख्?ावासान्तमर्चनम् ।। 17.51 ।।
द्वितीयावरणे चेत्तु शान्तान्तपरिषद्युतम्।
तृतीयावरणे चेत्तु होमकर्माणि कारयेत् ।। 17.52 ।।
मुखमण्डपसंयुक्तं चक्रशङ्खयुतं तथा।
चतुर्थावरणे चेत्तु नवविंशतिविग्रहै: ।। 17.53 ।।
अनपायिगणान्त्?सर्वान्कल्पयेत्स्नपनालयम्।
द्वात्रिंशद्विग्रहैरूर्ध्वं पृथगेवोत्सवादिकम् ।। 17.54 ।।
ब्रह्मपद्मावटान्ताश्च भूपरीक्षादिका: क्रिया:।
नैवाश्रयालये कुर्यादिति पूर्वजशासनम् ।। 17.55 ।।
आरभ्याद्येष्टकान्यासं विमानं परिकल्पयेत्।
नैवाद्यन्त्येष्टकान्यासौ तच्चेदावृतमण्डपे ।। 17.56 ।।
मूलं पौराणिकं चेत्तु यथाकाममथाश्रयम्।
गौणं समं वा मुख्यं वा कल्पयेच्चेन्न दोषकृत् ।। 17.57 ।।
अन्येदवालये विष्णो: कुर्याच्चेदालयाश्रयम्।
सर्वं मूलालयोत्कृष्टं कल्पयेदिति शासनम् ।। 17.58 ।।
विष्णवालयेऽन्यदेवानां कुर्याच्चेदाश्रयालयम्।
न समं नैव चोत्कृष्टं हीनमेव प्रकल्येत् ।। 17.59 ।।
स्थितेऽपि देवे ज्येष्ठा च विध्नेशश्च सरस्वती।
आसीना एव कर्तव्यास्तदाऽन्ये संस्थिता मता: ।। 17.60 ।।
इति सङ्क्षेपत: प्रोक्तमाश्रयालयकल्पनम् ।।
इर्त्योष श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे त्रिमूर्तिद्विमूर्तिस्थापनविध्याश्रयालयकल्पनं नाम
सप्तदशोऽध्याय:
------