क्रियाधिकारः/तृतीयोऽध्यायः

विकिस्रोतः तः
← द्वितीयोऽध्यायः क्रियाधिकारः
तृतीयोऽध्यायः
[[लेखकः :|]]
चतुर्थोऽध्यायः →


तृतीयोऽध्याय:
विमानविधि:
अत: परं प्रवक्ष्यामि विमानविधिमुत्तमम्।
मूलालयादथैशान्यां सौम्ये वायव्य एव ता ।। 3.1 ।।
प्रथमतरुणालय:
बालालयं प्रकल्प्यैव प्रतिष्ठाप्य च केशवम्।
ततोऽर्चनमविच्छिन्नं कुर्वन् धाम प्रकल्पयेत् ।। 3.2 ।।
उत्सवं कर्तुकामश्च प्रथमे तरुणालये।
ध्वजं बालालयाग्रे तु समारोप्योत्सवं चरेत् ।। 3.3 ।।
जलान्तं वा शिलान्तं वा खात्वा भूमिं समन्तत:।
वालुकाभि: प्रपूर्यैव जलेन सहितं शनै: ।। 3.4 ।।
मुसलैर्हस्तिपादैश्च दारुतुण्डैर्बृहत्तरै:।
दृढीकृत्य तु सर्वत्र जलेनैव प्रपूरयेत् ।। 3.5 ।।
प्राचीसाधनम्
तत्र शङ्कुं प्रतिष्ठाप्य दिक्परिच्छेदमाचरेत्।
तेन प्राचीं विनिश्चित्य शङ्कुना श्रवणेन वा ।। 3.6 ।।
यथोक्तविधिना तत्र कृत्वा च प्रथमेष्टकाम्।
आरभेत विमानं तु पञ्चहस्तादिभेदत: ।। 3.7 ।।
मानलक्षणम्
परमाणुरणूरेणु: केशा लिक्षास्तिला यवा:।
क्रमादष्ठगुणैरेतैर्मानाङ्गुलमुदाहृतम् ।। 3.8 ।।
स्वहस्तेनाष्टतालो यस्स वै मध्यमपूरुष:।
तस्य दक्षिणहस्तस्य मध्यमाङ्गुलिमध्यमम् ।। 3.9 ।।
पर्व दीर्घं ततं वाऽपि मात्राङ्गुलमुदाहृतम्।
मानमात्राङ्गुले चैते उत्तमे परिकीर्तिते ।। 3.10 ।।
तदष्टांशैकहीनं तु मध्यमं परिकीर्तितम्।
सप्तांशैकविहीनं तु कनिष्ठाङ्गुलमीरितम् ।। 3.11 ।।
चतुर्विशत्यङ्गलिभि: हस्त: किष्कुरिति स्मृत:।
अङ्गुलै: पञ्चविंशाद्भि: प्राजापत्य उदाहृत: ।। 3.12 ।।
षड्विंशद्भिर्धनुर्मुष्टि: सप्तविंशैर्धनुर्ग्रह:।
भूमेर्देवालयादीनां मानं मानाङ्गुलेन वै ।। 3.13 ।।
गृहं शय्याऽऽसनं यानं पात्रमायुधमेव च।
इध्मस्रुक्स्रुवजुह्वादीन् कुर्यान्मात्राङ्गुलेन वै ।। 3.14 ।।
भेदो मात्राङ्गुलस्यैव शाखाङ्गुलसमाह्वय:।
मुष्टिमध्यप्रमेय: स्यात्सोऽग्निकुण्डादिकल्पने ।। 3.15 ।।
तस्य मात्राङ्गुलस्यैव मध्यमाधमकल्पने।
पञ्चहस्तादहीनं तु विमानं परिकल्पयेत् ।। 3.16 ।।
विस्तारद्विगुणोत्सेधं कल्पयेत्तु विधानवित्।
एकांशकं तदष्टांशं दशमं च गलान्तका: ।। 3.17 ।।
अंशकौ पादशिखरौ कल्पयेच्छिल्पिनाऽऽलयम्।
गण्यालंकारभेदादि वासाधिकरणोक्तवत् ।। 3.18 ।।
गर्भन्यासोक्तमार्गेण गर्भन्यासं समाचरेत्।
समाप्ते तु विमाने तु पुनर्मूर्धेष्टकां न्यसेत् ।। 3.19 ।।
ध्रुवबेरकल्पनप्रकार:
शूलस्थापनमार्गेण शूलं वा शैलमेव वा।
संस्थाप्?य च यथामार्गं ध्रुवबेरं प्रकल्पयेत् ।। 3.20 ।।
ध्रुवबेरानुरूपञ्च कौतुकं परिकल्पयेत्।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत् ।। 3.21 ।।
सद्यश्चेत्त्वरित: कर्तु शरीरानित्यतादिना।
लौहं वा दारवं वापि बिम्बमर्चितमेव(1) वा (1.) याचितमेव, ।। 3.22 ।।
यागशालां प्रकल्प्यैव पञ्चग्नीन्परिकल्प्य च।
बालालयप्रतिष्ठार्थमाचार्यं परिकल्प्य च ।। 3.23 ।।
बालालयप्रतिष्ठार्थमिष्टकार्थं तथैव च।
शूलसंस्थापनार्थ च कल्पयेदृत्विज: पृथक् ।। 3.24 ।।
सम्भृत्य सर्वसम्भारांस्तथा शूलांस्तथेष्टका:।
पूर्वरात्रौ विशेषेण कृत्वा सद्योऽङ्कुरार्पणम् ।। 3.25 ।।
क्रमाच्च गार्हपत्यादिकुण्डेष्वाघारमाचरेत्।
कृत्वा जङ्गुमबेरस्य नेत्रोन्मेषाधिवासने ।। 3.26 ।।
कुम्भं संसाध्य विधिना सप्तभि: कलशै: पुन:।
सोपस्नानैश्च संस्नाप्य कुम्भं (2)चापि प्रपूजयेत् (2.) प्रोक्षयेत्तथा ई ।। 3.27 ।।
तत्कुम्भोदिततीर्थैश्च विधिना प्रोक्षणादनु।
(बद्ध्वा प्रतिसरं तद्वच्छयने शाययेत्तथा)
हौत्रं प्रशंस्य चाऽवाह्य निरुप्याज्याऽहुतीर्यजेत् ।। 3.28 ।।
बालालयप्रतिष्ठोक्तहोमं पूर्वं जुहोति च।
इष्टका वा शिला वाऽथ स्नापयेत्कलशैस्तथा ।। 3.29 ।।
इष्टकाश्च पृथग्वेद्यामधिवास्य यथाविधि।
प्रोक्तं यथेष्टकान्यासे तथा होमं समापयेत् ।। 3.30 ।।
शूलं वा शैलबेरं वा स्नापयेत्कलशैस्तथा।
बध्द्वा प्रतिसरं तद्वच्छयने शाययेत्पृथक् ।। 3.39 ।।
नृत्तैर्गीतैश्च वाद्यैश्च रात्रिशेषं निनीय च।
प्रातस्स्नात्वा विधानेन (सूक्तानि च जपेत्तथा ।। 3.32 ।।
मुहूर्ते समनुप्राप्ते) पूर्वं भूमिं परीक्ष्य च।
कर्षयित्वा समास्तीर्य तृणं गोभ्यो निवेद्य च ।। 3.33 ।।
बालालये प्रतिष्ठाप्य पुनराद्येष्टकां न्यसेत्।
(नित्यपूजामविच्छिन्नां तत्र सम्यक्प्रकल्पयेत्)
गर्भगेहं विनिश्चित्य तद्घनं द्दढकुट्टिमम् ।। 3.34 ।।
अधिष्ठानावसानान्तं कल्पयित्वा तु तत्र वै।
शूलं वा शैलबेरं वा स्थापयेत्पूर्वत्सुधी: ।। 3.35 ।।
परित: पञ्जरो कृत्वा विमानं कल्पयेद्वहि:।
अथवा यागशालायां मध्ये देदी: पृथक्पृथक् ।। 3.36 ।।
बालालयेष्टकाशूलस्थापनार्थं तथैव च।
तस्य तस्य मुखे सभ्यं कुण्डं कृत्वा पृथक्पृथक् ।। 3.37 ।।
कुम्भं संसाध्य संस्नाप्य हुत्वा संस्थापयेत्क्रमात्।
एवं कर्तुमशक्तश्चेद्ध्रुवबेरं च कौतुकम् ।। 3.38 ।।
शैलं ध्रुवार्चाबेरं वा प्रतिष्ठाप्य समर्चयेत्।
ब्राह्मादिपैशाचान्तेषु योगादीन् निक्षिपेत्क्रमात् ।। 3.39 ।।
सर्वाङ्गसुन्दरं बेरं कृत्वा चोक्तप्रकारत:।
अक्ष्युन्मेषाधिवासौ च कारयित्वा यथाविधि ।। 3.40 ।।
शूलस्थापनमार्गेण पूर्वं संस्थाप्य शिल्पिना।
महाप्रतिष्ठामार्गेण प्रतिष्ठां पुनराचरेत् ।। 3.41 ।।
(1.) कुण्डलितं आ. न दृश्यते।
एकबेरप्रतिष्ठां च सद्य: कर्तुं यदीच्छति।
पूर्वोक्तेनैव मार्गेण रात्रौ होमं समाप्य च ।। 3.42 ।।
प्रातर्भूमिं परीक्ष्यैव कर्षयित्वा तथा भुवम्।
घनभित्तिं च कृत्वा तु तत्र संकल्पयेत्पुन: ।। 3.43 ।।
पञ्जरं परित: कृत्वा विमानं कल्पयेद्वहि:।
(ब्रह्मस्थानप्रतिष्ठा चेद्वर्णयुक्तं न कारयेत्)
दैविके मानुषे चैव स्थापयेच्चेद्विशेषत:
वर्णयुक्तं यदीच्छेच्चेच्छर्करादिक्रमाच्चरेत्
कौतुकं पूर्ववत्कृत्वा प्रतिष्ठां पुनराचरेत्
एवमेव कृतं यत्तद्राजराष्ट्रविवर्धनम्
तस्मात्सर्वप्रयत्नेन शर्करादीन्क्रमाच्चरेत्)
विमानसमविस्तारमंग्रमण्डपमुत्तमम् ।। 3.44 ।।
(1)तदर्धं मध्यमं प्रोक्तं व्द्यन्तरेऽष्टांशभाजिते।
एकैकांशाधिकं चैव नवधा मुखमण्डपम् (1.) तदर्धमघमं. ई. ।। 3.45 ।।
(2)त्रयाणामुत्तमादीनामन्तरालं प्रकल्पयेत्।
मण्डपं तत्र(3) वर्गाढ्यं कल्पयित्वा यथाविधि (2.) षण्?णां चैव. ई. (3.) त्रिवर्गाढ़्यं.
ई. ।। 3.46 ।।
विमानसमविस्तारं प्रथमावरणं स्मृतम्।
पुरस्ताद्दिवगुणं तस्मादग्रमण्डपपूर्वत: ।। 3.47 ।।
द्विगुणं चश्चिमं केचिदिच्छन्ति मुनिसत्तमा:।
विमानद्वारदिग्द्वारं प्रथमावरणं स्मृतम् ।। 3.48 ।।
अन्यथा यदि कुर्वीत राजा राष्ट्रं विनश्यति।
ग्रामस्य यजमानस्य महती च विपद्भवेत् ।। 3.49 ।।
तस्मात्सर्वप्रपत्नेन प्रथमावरणक्रमम्।
विमानद्वारदिग्द्वारं प्रासादार्धसमुच्छ्रयम् ।। 3.50 ।।
अवकाशवशाद्दवारं द्वितीयावरणादिषु।
विमानगर्भगेहस्य स्नापनस्यालयस्य च ।। 3.51 ।।
तथैव यागशालाया: प्राकारेषु महानसे।
द्वारमन्तर्मुखं विद्यादन्येषां तु बहिर्मुखम् ।। 3.52 ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे भूपरीक्षादिप्रतिष्ठोक्तसर्वकर्मणां सद्योविधिर्नाम
(1.) (4 अध्याय:। ई)
तृतीयोऽध्याय: ।।
श्रीविखनसे नम:
--------