क्रियाधिकारः/चतुर्विंशोऽध्यायः

विकिस्रोतः तः
← त्रयोविंशोऽध्यायः क्रियाधिकारः
चतुर्विंशोऽध्यायः
[[लेखकः :|]]
पञ्चविंशोऽध्यायः →


चतुर्विंशोऽध्याय:
अर्चनायां निष्कृति: कवाटोद्धाटने
अत: परं प्रवक्ष्यामि (1)अर्चनाहीननिष्कृतिम्।
आदित्यस्योदयात्पूर्व प्रातर्देवालयस्य च (1.) महार्चाहीननिष्कृतिम् ख. ।। 24.1 ।। सायमस्तमयात्पूर्वं मध्याह्रादह्रि मध्यमे।
कवाटोद्धाटने हीने शीघ्रमुद्धाटयेत्तत: ।। 24.2 ।।
नित्याग्निकुण्डे छुल्ल्यां वा परिषिच्य च पावकम्।
आज्येन वरुणा सौरैर्जुहुयाद्दवारदैवतै: ।। 24.3 ।।
वैष्णवैरपि षण्मन्त्रै: पुन: (2)कर्म समाचरेत्।
द्रव्यसङ्ग्रहे
नीतञ्चेदर्चनाद्रव्यं जलपुष्पाद्यमन्त्रकम् (2.) कार्यं आ. ।। 24.4 ।।
आलये वाऽथ संस्कुर्यात्तमन्मन्त्रं द्विगुणं जपेत्(3)।
अन्यसूत्रिभिरानीतं संस्कुर्यात्?ित्रगुणं चरेत् (3.) भवेत् आ. ।। 24.5 ।।
गृह्णीयात् ब्राह्मणालाभे नेयञ्चेत्क्षत्रियादिभि:।
शङ्खचक्राङ्कितभुजै: पूर्वालाभे तथोत्तरै: ।। 24.6 ।।
चतुर्वेदादि षट्कृत्वो जपं कुर्यात्पुन: पुन:(4)।
वापयेन्नखकेशादीस्ते च पर्वणि पर्वणि (4.) प्रयत्नत: ई: ।। 24.7 ।।
शुद्धाम्बरधरा: स्नाता: शुद्धदन्तनखा: तथा।
दीपहीने
सन्ध्यादीपविहीने तु श्रीदैवत्यं सवैष्णवम् ।। 24.8 ।।
आग्नेयञ्च सकृद्धुत्वा दीपांश्च द्विगुणं ददेत्।
अजस्रदीपविच्छेदे शतमष्टोत्तर यजेत् ।। 24.9 ।।
सर्वेषामेव देवानां दीप: प्रियतमो भवेत्।
श्वेतपङ्कजनालोत्थैस्सूत्रै: कृत्वा तु वर्तिकाम् ।। 24.10 ।।
उत्तमं दीपदानन्तु कापिलेन घृतेन वै।
अष्टाङ्गुलोच्छ्रयज्वालो (1)दीप उत्तम उच्यते (1.) यथालाभोच्छ्रयोऽपि वा ख.
।। 24.11 ।।
(2)उक्तपङ्कजनालोत्थै: सूत्रै: कृत्वा तु वर्तिकाम्।
षङ्गुलोच्छ्रयज्वालो मध्यमो गव्यसर्पिषा (2.) रक्त. ई. ।। 24.12 ।।
तैलेन कल्पितो दीप: पिचतुवर्तियुतोऽधम:।
त्रियङ्गुलोच्छ्रयज्वालो यथालाभोच्छ्रयोऽपि वा ।। 24.13 ।।
कर्पूरवर्तिकाक्लृप्तो दीपस्स्यादुत्तमोत्तम:।
मार्जनादिहीने
मार्जने च तथा हीने हीने चैवोपलेपने ।। 24.14 ।।
'आपो-हिरण्य-पवमानै:' प्रोक्षयित्वोपलेपयेत्।
निर्माल्यशोधने हीने हीने चाभ्युक्षणे तथा ।। 24.15 ।।
वैष्णवं वैष्वक्सेनञ्च वारुणञ्च यजेत्पुन:।
बिम्बाभिषेकेऽशक्तश्चेद्देवेशमभिवाद्य च ।। 24.16 ।।
कुशोदकैस्समभ्युक्ष्य पूर्ववस्त्रं विसृज्य च।
अन्येन धौतवस्त्रेण देवेशं परिधापयेत् ।। 24.17 ।।
बिम्बाभिषेकहीने तु वैष्णवं वारुणं यजेत्।
पुष्पन्यासहीने
पुष्पन्यासविहीने तु कालातीते पुनस्तदा ।। 24.18 ।।
कृत्वैव पुष्मन्यासञ्च विष्णुगायत्रिया पुन:।
जुहुयाद्दशकृत्वस्तु नामभिर्जुहुयाच्छतम् ।। 24.19 ।।
अन्यदेवार्चनाहीने
गर्भालयगतान् देवान् द्वारेशान् द्वारपालकान्।
समभ्यर्च्चायेद्देवं हीने तेषामथार्चने ।। 24.20 ।।
द्विगुणं तान् समभ्यर्च्य तत्तन्मत्रं सकृद्यजेत्।
अर्चने ध्यानहीने तु विष्णुसूक्तं यजेत्तत: ।। 24.21 ।।
देवं सम्यक्ताथा ध्यात्वा पुनरर्चयति क्रमात्।
नवभेदेष्वथैकस्मिन् कल्पितेऽप्यर्चने तथा ।। 24.22 ।।
आसनादिषु यद्धीनं तत्तत्प्रति विशेषत:।
वैष्णावं विष्णुगायत्रीं जुहुयातृतदनुस्मरन् ।। 24.23 ।।
देवदेवं स्मरन् बुद्ध्या सर्वव्यापिनमव्ययम्।
हविर्निवेदनहीने
हविर्निवेदने हीने ब्राह्मं हुतृवा तत: परम् ।। 24.24 ।।
प्राजापत्यं ततो हुत्वा वैष्णवेन समन्वितम्।
विष्णुसूक्तं हविस्तद्वद्द्विगुणञ्च निवेदयेत् ।। 24.25 ।।
उपदंशेषु हीनेषु यजेत्सौम्यं सवैष्णवम्।
सामादिञ्च घृते हीने जुहुयाद्वैष्णवान्वितम् ।। 24.26 ।।
जुहुयाद्दधिहीने तु (1)यजुराद्यं सवैष्णवम्।
मुखवासहीने
मुखवासविहीने तु श्रीमन्त्रं वैष्णवं यजेत् (1.) नृ सूक्तं वैष्णवं यजेत् आ. ।। 24.27 ।।
नित्यहोमहीने
(2)नित्यहोमं कपालाग्रावज्ञानाज्जुहुयाद्यदि।
वैष्णवं व्याहृतीश्चापि हुत्वा च जुहुयात्तथा (2.) नित्याग्नौ मन्त्रहीने तु आ.
।। 24.28 ।।
नित्याग्निं तमविच्छिन्न्मशक्तो रक्षितुं यदि।
समिध्यात्मनि वाऽऽरोप्य निधायाहरहर्यजेत् ।। 24.29 ।।
श्रीवैखानससूत्रोक्तो मन्त्र आरोपणे स्मृत:।
तथाऽवरोपणे चाग्नौ (3)नामन्त्रं किञ्चिदाचरेत् (3.) तन्मन्त्रम्. ख. ।। 24.30 ।।
सकालेऽर्चनेहीने
प्रातस्सन्ध्यार्चने हीने मध्याह्रे द्विगुणं भवेत्।
वैष्णवं पौरुषं सूक्तं (4)विष्णुसूक्तं यजेत्तत: (4.) नित्यकुण्डे यजेत्तथा आ. ।।24.31 ।।
प्रातर्मध्याह्रयोर्हीने सायाह्रे द्विगुणं भवेत्।
एकाहे त्वर्चनाहीने हुत्वा तद्द्विगुणं पुन: ।। 24.32 ।।
हवींष्यपि निवेद्यैव दक्षिणाग्नौ तत: परम्।
पञ्चविंशतिकृत्वस्तु षण्मात्रान् वैष्णवान् यजेत् ।। 24.33 ।।
वैष्णवं पौरुषं सूक्तं हुत्वा (1)विप्रांश्च भोजयेत्।
एकाहे त्विदमुद्दिष्टं द्वितीये द्विगुणं भवेत् (1.) विष्णुं समर्चयेत् आ. ।। 24.34 ।।
?Bद्वादशाहान्तमित्येवं वर्धयेत्तु दिने दिने।
अतीते द्वादशाहे तु दक्षिणाग्नौ तत: परम् ।। 24.35 ।।
वैष्णवं पौरुषं सूक्तं विष्णुसूक्तं शतं यजेत्।
चत्वारिंशद्भिरष्टाभि: कलशै: स्नापयेत्पुन: ।। 24.36 ।।
महाहवि: प्रभूतं वा समभ्यर्च्य निवेदयेत्।
आचार्याय पशून् दद्याद्ब्राह्मणान् भोजयेत्पुन: ।। 24.37 ।।
मासहीनं यदि भवेदालयं परितस्तथा।
अग्नीनाहवनायादीन् प्रागादि परिकल्पयते ।। 24.38 ।।
देवेशं मनसा ध्यात्वा प्रत्येकञ्चैकविंशतिम्।
देवीभ्याञ्च मुनिभ्याञ्च वैघ्नं गारूडमेव च ।। 24.39 ।।
तत्तद्धोमे सुहोतव्यं महाव्याहृतिसंयुतम्।
शताष्टकलशैर्देवं स्नापयित्वा विधानत: ।। 24.40 ।।
पुण्याहं वाचयित्वा तु ब्राह्मणानपि भोजयेत्।
यावद्दिनार्चनं हीनं गणयित्वा तत: परम् ।। 24.41 ।।
तावद्दिनार्चनाद्रव्यं देवेशाय निवेदयेत्।
एवं मासे प्रकुर्वीत द्विमासे द्विगुणं भवेत् ।। 24.42 ।।
वर्षान्तं वर्धयेदेवं वर्षेऽतीते तत: परम्।
अष्टाधिकसहस्रैर्वा शतैर्वा कलशैस्तदा ।। 24.43 ।।
स्नापयित्वा तु देवेशं प्रणम्यैवानुमान्य च।
सुवर्णपशुभूम्यादीन् दत्वाऽऽचार्याय दक्षिणाम् ।। 24.44 ।।
ततोऽब्जाग्नौ महाशान्तिं हुत्वा देवमनुस्मरन्।
सहस्त्रपद्मं सङ्गृह्य गायत्रीं वैष्णवीं वदन् ।। 24.45 ।।
आप्लुत्याऽप्लुत्य जुहुयात्कापिलेन घृतेन वै।
पूर्वोक्तेन विधानेन प्रतिष्ठां पुनराचरेत् ।। 24.46 ।।
एवमेवार्चने हीने प्रायश्चित्तं विधीयते।
अन्येषामपि देवानां (1)सामान्यमिदमुच्यते (1.) वैष्णवं शतकृत्वश्च हुत्वाऽभ्यर्च्य निवेदयेत्। चत्वारिंशद्भिरष्टाभि: कलशै: स्नापये. त्प्रभुम्। महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत्. आ. ।। 24.47 ।।
बलिहीने
(2)प्रातस्सन्ध्याबलौ हीने मध्याह्रे द्विगुणं भवेत्।
वैष्णवं सौरसौम्ये च प्राजापत्यं यजेत्तत: (2.) एतदारभ्य 78 श्लोक पर्यन्तं ई कोशेषु न दृश्यते. अवधिश्च चिह्रित: ।। 24.48 ।।
प्रातर्मध्याह्रयोर्होने सायाह्रे द्विगुणं भवेत्।
एकाहं बलिहीनञ्चेदग्नावौपासनीयके ।। 24.49 ।।
जुहुयाद्विणुसूक्तञ्च ,पूर्वमन्त्रैश्च संयुतम्।
उत्थापयेद्वलिं हीनं पूर्वोक्तविधिना तत: ।। 24.50 ।।
एकाहे त्विदमुद्दिष्टं द्विदिने द्विगुणं भवेत्।
वर्धयेत् द्वादशाहान्तमतीते द्वादशेऽहनि ।। 24.51 ।।
अग्जाग्नौ पौरुषं सूक्तं विष्णुसूक्तं तत: परम्।
पारमात्मिकसंयुक्तं 'मीङ्कारादीन्' जुहोति च ।। 24.52 ।।
संस्नाप्य सप्तकलशैर्बिम्बं कौतुकमेव च।
महाहविर्निवेद्यैव बलीनुत्थापयेत्क्रमात् ।। 24.53 ।।
एवमेवविधानेन यावन्मासान्तमाचरेत्।
मासहीनं यदि भवेत्प्राच्यामहावनीयके ।। 24.54 ।।
यजेदष्टोत्तरशतं सूक्ते वैष्णवपौरुषे।
मध्ये तु सर्वदैवत्यं सभ्यकुण्डे जुहोति च ।। 24.55 ।।
शताष्टकलशैर्देवं स्नापयित्वा तत: परम्।
पञ्चविंशतिगा दत्वा देवमुद्दिश्य यत्नत: ।। 24.56 ।।
महाहविर्निवेद्यैव बलीनुत्थापयेत्क्रमात्।
एवमेव विधानेन कुर्यात्संवत्सरावधि ।। 24.57 ।।
पतिते तद्धलौ स्पृष्टे अस्पृश्यै: श्रुतिदूषकै:।
पूर्ववद्वलिमापाद्य बनिदेवं यजेत्पुन: ।। 24.58 ।।
बलिमुत्थाप्य विघ्नश्चेत्सौरं सौम्यसमन्वितम्।
हुत्वा तु पूर्ववत्कर्म प्रारभेत यथाविधि ।। 24.59 ।।
बलौ प्रमाणहीने तु वैष्णवञ्चैकविंशतिम्।
भिन्ने जीर्णे शतं पात्रे तत्प्रमाणविवर्जिते ।। 24.60 ।।
वेष्णवं पौरुषं सूक्तं विश्णुसूक्तमत: परम्।
पारमात्मिक 'मीङ्कारान्' रौद्रं तथैव च ।। 24.61 ।।
सौरमाग्नेयसंयुक्तं पञ्चवारुणसंयुतम्।
जयाद्यैश्चैव कूष्माण्डै: जुहुयात्तस्य शान्तये ।। 24.62 ।।
अतिवातातिवृष्ट्योश्च हरिमाराध्य पूर्ववत्।
ध्रुवकौतुकसंयुक्तं गर्भगेहे प्रदक्षिणम् ।। 24.63 ।।
कृत्वा सौपानमध्ये तु श्रीभूताग्रे बलिं ददेत्।
परिवारबलिञ्चापि देवेशं परितस्तथा ।। 24.64 ।।
तत्तत्स्थाने समासाद्य दद्यादित्येव केचन।
कल्पितान्नबलौ काले त्वलब्धेऽन्नबलौ सति ।। 24.65 ।।
कुर्यादर्ध्यबलिं वाऽपि पूर्ववत्पुष्पमेव वा।
नित्याग्नौ दशकृत्वस्तु यजेत्सौरञ्च वैष्णवम् ।। 24.66 ।।
आलयावरणाद्वाह्ये मुखे वामे प्रकल्पिते।
कल्पिते बलिपीठे च तच्च कुर्यात्पुदक्षिणम् ।। 24.67 ।।
बलिभ्रमणकाले तु वाद्यहीने तु पौरुषम्।
नृत्तगेयविहीने च विष्णुसूक्तञ्च वैष्णवम् ।। 24.68 ।।
हुत्वा घण्टाध्वनियुतं बलिभ्रमणमाचरेत्।
जपन्वै शाकुनं सूक्तं स्वस्तिसूक्तसमन्वितम् ।। 24.69 ।।
शवपाते
पञ्चाशच्चापसीमान्ते चैकवीथ्यां शवे सति।
अर्चनञ्च हविर्दानं देवदेवस्य वर्जयेत् ।। 24.70 ।।
यदि कुर्यात्तदज्ञानाच्दुद्धोदैरभिषिच्य च।
यद्देवाद्यैश्च हुत्वा तु समभ्यर्च्य निवेदयेत् ।। 24.71 ।।
षष्टिसप्तत्यशीत्यर्वाक् क्षत्रियादिशवे सति।
अनुलोमशवे कुर्याच्छान्तिं शूद्रस्य चोक्तवत् ।। 24.72 ।।
अन्यवास्तुगते पूजा न दोषाय भवेच्छवे।
अस्पृश्यस्पर्शे
अर्चकान्यद्विजै: स्पृष्टे शुद्धोदैरभिषेचयेत् ।। 24.73 ।।
स्प्तभि: क्षत्रियै: स्पृष्टे कलशै: स्नापयेद्धरिम्।
स्नापयेद्वैश्यसंस्पर्शे चतुर्विशतिभस्तथा ।। 24.74 ।।
शान्तिहोमञ्च जुहुयाच्छक्तितो भोजयेद्दिवजान्।
अष्टोत्तरशतैश्शूद्रै: संस्पर्शे स्नापयेत्तथा ।। 24.75 ।।
महाशान्तिं ततो हुत्वा ब्राह्मणानपि भोजयेत्।
स्पृष्टेऽनुलोमैश्शूद्रोक्तप्रायश्चित्तं समाचरेत् ।। 24.76 ।।
उच्छिष्टाशुचिभिर्विप्रै: कुर्याच्छूद्रोक्तनिष्कृतिम्।
स्पृष्टे त्वाशौचवद्वप्रै: कुर्याच्छूद्रोक्तनिष्कृतिम् ।। 24.77 ।।
प्रतिलोमैस्तु संस्पृष्रूटे जलादिष्वधिवास्य च।
महाशान्तिञ्च सप्ताहमब्जाग्नौ जुहयात्तत: ।। 24.78 ।।
प्रतिष्ठोक्तक्रमेणैव प्रतिष्ठां पुनराचरेत्।
(अनुलोमैस्तु संस्पृष्टं हविर्यदि निवेदयेत् ।।
कलशै: स्नापयेद्देवं चत्वारिशद्भिरष्टभि:।
महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत् ।।
देवेशं स्नापने काले पूजानैवेद्यकालयो:।
प्रतिलोमाश्च पतिता: पाषण्डा वेददूषका: ।।
नास्तिका भिन्नमर्यादा यदि पश्यन्ति मोहत:(1)।
हवितर्वा यदि पश्यन्ति (2)श्वकाकाद्या: प्रमादत: (1.) लोभत: ख. (2.) श्वशूद्रस्पर्शने यदि. ई. ।।
देवेशायानिवेद्यैव तद्धवि: प्रक्षिपेज्जले।
(3)तद्धविर्न निवेद्यं स्याद्देवेशाय प्रयत्नत: (3.) देवेशं न निवेद्यैव तद्धविर्विसृजे ज्जले. ई. ।।
हविरन्यत्सुसम्पाद्य देवेशाय निवेदयेत्।
वैष्णवं विष्णुसूक्तञ्च (4)महाव्याहृतिसयुतम् (4.) महापातकिदर्शने. ई. ।।
(5)चतुरावर्त्य हृत्यैव पक्वान्नेनैव होमयेत्।)
कारयेत्तान्त्रिकस्पर्शे प्रतिलोमोक्तनिष्कृतिम् (5.) पक्वान्नं जुहुयादपि. आ. ।। 24.79 ।।
अवेदमूलास्समायास्तान्त्रिका वेददूषका:।
ब्राह्मणै: पाचकादन्यै: स्पृष्टं नैव हविर्ददेत् ।। 24.80 ।।
यदि दद्यात्तु मोहेन वैष्णवन्तु सकृद्यजेत्।
उच्छिष्टाशुचिभिर्विप्रै: क्षत्रियैर्विड् भिरेव वा ।। 24.81 ।।
अन्ने निवेदिते स्पृष्टे शुद्धोदैरभिषेचयेत्।
वैष्णवं दशकृत्वश्च हुत्वाऽन्यच्च निवदेयेत् ।। 24.82 ।।
स्पृष्टमाशौचवद्विप्रै: शूद्रैर्वाऽथानुलोमजै:।
निवेदयेच्चेदज्ञज्ञनात्कलशैरधमाधमै: ।। 24.83 ।।
स्नापयित्वा ततश्शन्तिं हुत्वाऽभ्यर्च्य निवेदयेत्।
प्रतिलोमैस्तु संप्पृष्टं हविर्यदि निवेदयेत् ।। 24.84 ।।
कलशै: स्नापयेद्देवं चज्वारिशद्भिरष्टभि:।
महाशान्तिञ्च हुत्वा तु प्रभूतञ्च निवेदयेत् ।। 24.85 ।।
देवेशं स्नानकाले वा पूजाकाले निवेदने।
प्रतिलोमाश्च पाषण्डा: पतिता वेददूषका: ।। 24.86 ।।
नास्किका भिन्नमर्यादा यदि पश्यन्ति मोहत:।
हविर्वा यदि तैर्द्दृष्टं देवेशाय निवेदयेत् ।। 24.87 ।।
देवेशं स्नापयित्वा तु शुद्धोदैस्तस्य शान्ये।
अभ्यर्च्य शान्तिहोमान्ते प्रभूतञ्च निवेदयेत् ।। 24.88 ।।
पूजनार्थ जले पुष्पे मन्त्रवत्संस्कृते पुन:।
स्पृष्टञ्चेद्ब्राह्मणादन्यै: तत्त्यक्त्वाऽन्यत्समाहरेत् ।। 24.89 ।।
अथवा प्रोक्षणै: प्रोक्ष्य पात्रान्तरनिवेशितम्।
पूर्ववन्मन्त्रसंस्कारं कृत्वा तेनैव पूजयेत् ।। 24.90 ।।
उच्छिष्टाशुचिभिर्विप्रै: स्पृष्टं यदि तथैव च।
स्पृष्टमाशौचवद्विप्रै: त्यक्त्वाऽन्यद्द्रव्यमाहरेत् ।। 24.91 ।।
प्रतिलोमैस्तु संस्पृष्टं दृष्टञ्चैव विसर्जयेत्।
शूद्रैरथाप्य शुचिभि: प्रतिलोमैरुदक्यया ।। 24.92 ।।
स्पृष्टमाज्यं दधि क्षीरं मधु वा तोयमेव वा।
देवार्थं नैव गृह्णीयाद्दष्टं सूतिकया तथा ।। 24.93 ।।
अज्ञानाद्देवदेवाय यदि तानि निवेदयेत्।
शुद्धोदै: स्नापयित्वा तु हुत्वा शान्तिं समर्चयेत् ।। 24.94 ।।
त्याज्यं पुष्पञ्च संस्पृष्टमेवमन्यत् फलादिकम्।
न त्यजेद्यदि लोभेन शान्तिं हुत्वाऽभिषेचयेत् ।। 24.95 ।।
अमन्त्रकाऽर्चनं विष्णोरकाले च तथाऽर्चनम्।
ग्रामनाशञ्च दुर्भिक्षं व्याधिञ्चैव प्रयच्छति ।। 24.96 ।।
तस्मात्सर्वप्रयत्नेन काले काले विशेषत:।
मन्त्रवत्पूजयेद्विष्णुमिति पूर्वजशासनम् ।। 24.97 ।।
अविज्ञातेषु सर्वेषु मन्त्राणान्तु पृथक् पृथक्।
ऋषिच्छन्दोधिदेवेषु छन्दोऽनुष्टुबिति स्मरेत् ।। 24.98 ।।
अन्तर्यामी ऋषि: प्रोक्त: परमात्मा च देवता।
इति सामान्यत: स्मृत्वा पूजयेत्पुरुषेत्तमम् ।। 24.99 ।।
अष्ठविधा भक्ति:
भक्तिमष्टविधां वक्ष्ये देवदेवे तु शार्ङ्गिणि।
तद्भक्तजनवात्सल्यं तत्पूजास्वनुमोदनम् ।। 24.100 ।।
तत्कथाश्रवणे भक्ति: स्वरनेत्राङ्गविक्रिया।
तदनुस्मरणं नित्यं तदर्थे दम्भवर्जनम् ।। 24.101 ।।
नित्यं तदेकशेषित्वं यच्च तन्नोपजीवति।
भक्तिरष्टविधा ह्येषा यत्र साधारणेन वै ।। 24.102 ।।
तमेव पूजकं श्रेष्ठं वरयेन्नान्यमर्चकम् ।।
इत्यार्षे श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां क्रियाधिकारे नित्यार्चनाप्रा?यश्चित्तविधिर्नाम चतुर्विशोऽध्याय:।
--------