सामग्री पर जाएँ

क्रमदीपिका/पञ्चमः पटलः

विकिस्रोतः तः
← चतुर्थः पटलः क्रमदीपिका
पञ्चमः पटलः
[[लेखकः :|]]
षष्ठः पटलः →


अधुना दीक्षितस्य मन्त्रविधिं दर्शयति

चैत्रे कृत्वैतन्मासि कर्माच्छपक्षे
पुण्यर्क्षे भूयो देशिकात्प्राप्य दीक्षां ।
तेनानुज्ञातः पूर्वसेवां द्वितीये
मासि द्वादश्यां आरभेतामलायां ।। क्रमदीपिका५.१ ।।

चैत्रे मासि पुण्यर्क्षे शुभनक्षत्रे अच्छपक्षे शुक्लपक्षे एतत्कर्म मन्त्रदीक्षात्मकं कर्म कृत्वा भूयः पुनरपि देशिकात्गुरोर्दीक्षां मन्त्रोपदेशं प्राप्यानन्तरं तेन गुरुणानुज्ञातः द्वितीये मासि वैशाखे द्वादश्यां तिथौ पूर्वसेवां पुरश्चरणं आरभेत् । चैत्रे दुःखाय दीक्षा स्यातिति वचनं गोपालमन्त्रभिन्नदीक्षविषयं ।। टीका ५.१ ।।

______________________________

कृत्वा स्नानाद्यं कर्म देहार्चनान्तं
वर्त्माश्रित्य प्रागीरितं मन्त्रिमुख्यः ।
शुद्धो मौनी सन्ब्रह्मचारी निशाशी
जप्याच्छान्तात्मा शुद्धपद्माक्षदाम्ना ।। क्रमदीपिका५.२ ।।

कृत्वेति । मन्त्रिमुख्यः साधकः स्नानं आरभ्यात्मयोगान्तं कर्म कृत्वा प्रागीरितं वर्त्माश्रित्य पूर्वोक्तपूजाप्रकारं आश्रित्य शुद्धो गायत्रीजपेन निष्पापो ब्राह्मणाद्युक्तबाह्यान्तरशौचयुक्तो मौनी वाग्यतो ब्रह्मचारी अष्टविधमैथुनत्यागी निशाशी रात्रिभोजी शान्तात्मा अनुद्धतचित्तः शुक्लपद्मबीजमालया जप्यात् ।

अत्रैवं आगमान्तरोक्तं बोद्धव्यं । शुभे दिने क्रोशं क्रोशद्वयं वा क्षेत्रं विहारार्थं परिकल्प्य क्षीरद्रुमभववितस्तिपरिमिताष्टकीलकाः प्रत्येकं एकदैव वा दशकृत्वः शतकृत्वो वा जपित्वा अष्टदिग्देवताः सम्पूज्य मध्ये क्षेत्रे क्षेत्रपालबलिं दत्त्वा पूजां कृत्वा पूर्वाद्यष्टदिक्षु तान्निखन्यात्तत्र तत्र तत्तन्नाम्ना दिक्पतिबलिं च दत्त्वा दीपकं च दत्त्वा जपपूर्वदिवसे एकभोजनं उपवासो वा गुरुं ब्राह्मणांश्च तर्पयेत् ।

तथा च सनत्कुमारकल्पे
विप्रांश्च भोजयेदन्नभोजनाच्छादनादिभिः ।
बहुभिर्वस्त्रभूषाभिः सम्पूज्य गुरुं आत्मनः ।
आरभेत जपं पश्चात्तदनुज्ञापुरःसरं ।। इति ।

ततोऽग्रिमदिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यातों अद्यों नम इत्याद्युच्चार्यामुकमन्त्रस्य सिद्धिकाम इयत्सङ्ख्याकजपतद्दशांशामुकद्रव्यहोमतद्दशांशामुकद्रव्यतर्पणतद्दशांशामुकाभिषेकतद्दशांशब्राह्मणसम्प्रदानकभोज्यदानात्मकपुरश्चरणकर्म करिष्ये इति सङ्कल्पं कुर्यात् । ततो मन्त्रर्षिछन्दोदेवतानां कामस्थाने पुरश्चरणजपे विनियोग इति । जपे चायं नियमः

       नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
शयनं दर्भशय्यायां शुचिः प्रयतमानसः ।
दिवसातिक्रमे दोषः सिद्धिबाधः प्रजायते ।।

नारदीये
शनैः शनैरविस्पष्टं न द्रुतं न विलम्बितं ।
न न्यूनं नाधिकं वापि जपं कुर्याद्दिने दिने ।।

तथान्यत्र
अनन्यमानसः प्रातः कालान्मध्यन्दिनावधि ।

नारदीये तथैव च
न वदन्न स्वपन्गच्छन्नान्यत्किं अपि संस्मरन् ।
न क्षुज्जृम्भणहिक्कादिविकलीकृतमानसः ।।
मन्त्रसिद्धिं अवाप्नोति तस्माद्यत्नपरो भवेत् ।
उष्णीषो कञ्चुकी नग्नो मुक्तकेशः तथैव च ।।
प्रसारितपाणिपादो नोच्चपादासनो भवेत् ।।

तथा वैशम्पायनसंहितायाम्
स्नानं त्रिसवनं प्रोक्तं अशक्तौ द्विः सकृत्तथा ।
अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ।।
नासत्यं अभिभाषेत नेन्द्रियाणि प्रलोभयेत् ।
शयनं दर्भशय्यायां शुचिः प्रयतमानसः ।।
तद्वासः क्षालयेन्नित्यं अन्यथा विघ्नं आवहेत् ।
नैकवासा जपेन्मन्त्रं बहुवस्त्री कदाचन ।।
उपर्यधो बहिर्वस्त्रे पुरश्चरणकृद्भजेत् ।।

तथा नारदीये
स्त्रीशूद्राभ्यां न सम्भाषेद्रात्रौ जपपरो न च ।
जपेन्न सन्ध्याकालेषु प्रदोषे नोभयेषु च ।
ब्राह्मणानीतवस्त्रशुद्धजलेन कर्मकृद्भवेत् ।। इति ।। टीका ५.२ ।।

______________________________

अपि तु कृत्यं आह

तन्वन्शुश्रूषां गोषु ताभ्यः प्रयच्छन्
ग्रासं भूतेषु प्रोद्वहश्चानुकम्पां ।
मन्त्राधिष्ठात्रिं देवतां वन्दमानो
दुर्गां दुबोधध्वान्तभानुं गुरुं च ।। क्रमदीपिका५.३ ।।

गोषु शुश्रूषां गोपरिचर्यां धूमकण्डूयनादिरूपां सेवां विस्तारयन् । किं कुर्वन्? ताभ्यो गोभ्यो ग्रास ं प्रयच्छन्गोपालमन्त्र एव ग्रासादिकं अत्रोपादानादन्यत्रानुक्तेश्च । भूतेषु प्राणिषु करुणां धारयन्मन्त्राधिष्ठातृदेवतां दुर्गां अज्ञानान्धकारसूर्यं गुरुं च वन्दमानः ।। टीका ५.३ ।।

______________________________

कुर्वन्नात्मीयं कर्म वर्णाश्रमस्थं
मन्त्रं जप्त्वा त्रिः स्नानकालेऽभिषिञ्चेत् ।
आचामन्पाथस्तत्त्वसङ्ख्याप्रजप्तं
भुञ्जानश्चान्नं सप्तजप्ताञ्चनादि ।। क्रमदीपिका५.४ ।।

स्वीयं वर्णाश्रमोक्तं कर्म कुर्वनात्मीयं आत्मनो यो वर्णो ब्राह्मणादिर्यो वाश्रमो ब्रह्मचर्यादिस्तत्र तत्रस्थं कर्म विहितं तत्तत्कुर्वन्नित्यर्थः । मन्त्रजप्तजलेन काले वारत्रयं स्वात्मानं अभिषिञ्चेत्तत्त्वसङ्ख्याप्रजप्तं द्वात्रिंशत्सङ्ख्याप्रजप्तं पञ्चविंशतिप्रजप्तं वा तथा जलं आचामनित्थं एवान्नं भुञ्जानः । पुनः कीदृशः ? सप्तजप्तं अञ्जनादिकज्जलादि यस्य स तथा आदिशब्देन गन्धमाल्यादीनां परिग्रहः । अञ्जनाद्य इति क्वचित्पाठः ।। टीका ५.४ ।।

______________________________

जपस्थानं आह

अद्रेः शृङ्गे नद्यास्तटे बिल्वमूले
तोये हृदघ्ने गोकुलविष्णुगेहे ।
अश्वत्थाधस्तादम्बुधेश्चापि तीरे
स्थानेष्वेतेष्वासीन एकैकशस्तु ।। क्रमदीपिका५.५ ।।

प्रजपेदयुतचतुष्कं दशाक्षरं मनुवरं पृथक्क्रमशः ।
अष्टादशाक्षरं चेदयुतद्वयं इत्युदीरिता सङ्ख्या ।। क्रमदीपिका५.६ ।।

पर्वतशृङ्गे नदीतीरे बिल्ववृक्षसमीपदेशे हृदयप्रमाणजले गोष्ठे विष्णुप्रतिमाधिष्ठितगेहे पिप्पलवृक्षसमीपदेशे समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकशः एकैकस्मिन्स्थाने स्थानेषु क्रमशः क्रमेण पृथकयुतचतुष्कं कृत्वा दशाक्षरमन्त्रं जपेत्यदाष्टादशाक्षरमन्त्रः तदायुतद्वयं कृत्वा इति जपसङ्ख्योदीरिता अत्र न प्रतिस्थानं अयुतचतुष्कायुतद्वयजपः किन्तु यथा जप्तव्यं येन सर्वत्र जपेन तावत्येव सङ्ख्या भवति अन्यथाष्टसु स्थानेषु जपेनाष्टादशाक्सरे
षोडशायुतजपः स्यात् । प्रपञ्चसारेऽपिअयुतद्वितयावधिजपः स्यादिति । यद्यप्यष्टादशाक्षरे इयं सङ्ख्या तथापि तुल्यन्यायाद्दशाक्षरेऽपि इयं एव व्यवस्थेति रुद्रधरः ।। टीका ५.५६ ।।
 
______________________________

उक्तेषु स्थानेषूउय्क्रमेणाहारनियमं आह

शाकं मूलं फलं गोस्तनभवदधिनी भैक्षं अन्नं च सक्तुं
दुग्धान्नं चेत्यदानः क्षितिधरशिखरादौ क्रमात्स्थानभेदे ।
एकं चैषां अशक्तौ गदितं इह मया पूर्वासेवाविधानं
निर्वृत्तेऽस्मिन्पुनश्च प्रजपतु विधिवत्सिद्धये साधकेशः ।। क्रमदीपिका५.७ ।।

क्षितिधरशिखरादौ पूर्वोक्तपर्वतशृङ्गादौ स्थानविशेषे क्रमादेकैकं क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलं आम्रादि गोस्तनभवं दुग्धं दधि च द्वन्द्वः भैक्षं भिक्षात उपलब्धं अन्नं च प्रशस्तं हैमतिकं सितास्विन्नं सक्तुं भृष्टयवचूर्णं दुग्धान्नं पायसं अदानो भक्षमाणो जपं कुर्यात्मितोदनं ।

       शस्तान्नं च समश्नीयान्मन्त्रसिद्धिसमीहया ।
तस्मान्नित्यं प्रयत्नेन शस्तान्नाशी भवेन्नरः ।। इति ।

अशक्तं प्रत्याहएकं इति । अशक्तौ चैषां अद्रिशृङ्गाद्यष्टस्थानानां मध्ये एकं स्थानं समाश्रित्य शाकाद्यष्टविधेष्वेकं भोजनं आश्रित्य जपं कुर्यात् । तदुक्तं नारदीये

मृदु कोष्णं सुपक्वं च कुर्याद्वै लघुभोजनं ।
नेन्द्रियाणां यथा वृद्धिस्तथा भुञ्जीत साधकः ।।
यद्वा तद्वा परित्याज्यं दुष्टानां सङ्गमं तथा ।।

इह ग्रन्थे पूर्वसेवाविधानं मया गदितं कथितं अस्मिन्न्निवृत्ते सम्पूर्णे पुरश्चरणजपे पुनश्च प्रजपतु सिद्धये विशिष्टफलसिद्धये विधिवत्यथोक्तप्रकारेण अत्र केचिदस्मिन्पूर्वसेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनः पुरश्चरणजपं करोत्वित्याहुः ।। टीका ५.७ ।।

______________________________

देहार्चनान्ते दिनशो दिनादौ
दीक्षोक्तमार्गान्यतरं विधानं ।
आश्रित्य कृष्णं प्रयजेद्विविक्ते
गेहे निषण्णो हुतशिष्टभोजी ।। क्रमदीपिका५.८ ।।

देहार्चनान्ते देहपूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर्दीक्षोक्तमार्गेषु षोडशपञ्चोपचारादिषु अन्यतरं एकं वर्त्माश्रित्य कृष्णं प्रयजेत्पूजयतु आवरणभेदाद्वर्त्मभेदः । कीदृशः ? विविक्त एकान्ते गृहे निषण्ण उपविष्टः । पुनः कीदृशः ? हुतशिष्टभोजी प्रात्यहिकजपदशांशहोमावशिष्टभोजी ।। टीका ५.८ ।।

______________________________

प्रकारान्तरं अपि महते फलाय पुरश्चरणं आहदशलक्षं इति रुद्रधरः । वयं तु पश्यामः । प्रकृतयथोक्तपुरश्चरणं आह

दशलक्षं अक्षयफलप्रदं मनुं
प्रतिजप्य शिक्षितमतिर्दशाक्षरं ।
जुहुयाद्गुडाज्यमधुसम्प्लुतैर्नवैर्
अरुणाम्बुजैर्हुतवहे दशायुतं ।। क्रमदीपिका५.९ ।।

शुद्धमतिः साधकः अक्षयफलदं मोक्षफलं दशाक्षरं मनुं दशलक्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैररुणकमलैर्दशायुतं लक्षं एकं जुहुयात् । कीदृशैः ? गुडाज्यमधुसम्प्लुतैः गुडघृतमधुसंयुक्तैः ।। टीका ५.९ ।।

______________________________

शुषिरयुगलवर्णं चेन्मनुं पञ्चलक्षं
प्रजपतु जुहुयाच्च प्रोक्तक्प्त्यार्धलक्षं ।
अमलमतिरलाभे पायसैरम्बुजानां
सहितघृतसितैरेवारभेद्धोमकर्म ।। क्रमदीपिका५.१० ।।

शुषिरयुगलवर्णं शुषिरं छिद्रं नवसङ्ख्यात्मकं तस्य युगलं द्वन्द्वं अष्टादशाक्षरं जपेत्तदा पञ्चलक्षं प्रजपतु प्रोक्तक्प्त्या पूर्वोक्तपरिपाट्या चार्धलक्षं जुहुयात्यथोक्तहोमद्रव्यालाभे द्रव्यान्तरं आह अमलमतिरिति शुद्धमतिः अम्बुजानां पद्मानां अलाभेऽप्राप्तौ पायसैः परमान्नैर्होमं आरभेत । कीदृशैः ? सहिते घृतसिते येषु तैः घृतशर्करासहितैरित्यर्थः । स्वाहान्तेन होमपूजेति सर्वत्र बोद्धव्यं होमादेश्चानुष्ठानप्रकारो मत्कृतहोमानुष्ठानपद्धतेरवगन्तव्यः । नारदीये,
यथा
       जपस्य तु दशांशेन होमः कार्यो दिने दिने ।
       अथवा लक्षपर्यन्तं होमः कार्यो विपश्चिता ।। इति ।। टीका ५.१० ।।

______________________________

होमाशक्तं प्रत्याह

असक्तानां होमे निगमरसनागेन्द्रगुणितो
जपः कार्यश्चेति दिव्जनृपविशां आहुरपरे ।
सहोमश्चेदेषां सम इह जपो होमरहितो
य उक्तो वर्णानां स खलु विहितस्तच्चलदृशां ।। क्रमदीपिका५.११ ।।

तावद्द्रव्याद्यसम्पत्त्या होमकर्मणि असमर्थानां ब्राह्मणक्षत्रियवैश्यानां यथासाङ्ख्यं निगमा वेदाश्चत्वारः रसाः षट्नागेन्द्रा अष्टौ एतैर्गुणितैर्जप्योऽनुष्ठेय इत्यपरे आचार्या आहुः । तत्र कृत एव जपः एतैर्गुणित इति रुद्रधरः । वस्तुतस्तु
होमाशक्तौ जपं कुर्याद्धोमसङ्ख्याचतुर्गुणं ।
षड्गुणं चाष्टगुणितं यथासङ्ख्यं द्विजातयः ।।
इति पुरश्चरणचन्द्रिकोक्तं एव युक्तं पश्यामः ।
होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ।
इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ।। इति ।

एतेषां मतापेक्षया अपर इत्युक्तं । एतेषां च मते तर्पणादिव्यतिरेकेण मूलभूतजपद्विगुणजपेनैव पुरश्चरणसिद्धिर्भवति तथैव ग्रन्थान्तरेऽभिधानात् । एषां ब्राह्मणादीनां होमसहितश्चेज्जपः तदा त्रयाणां अपि अयुतचतुष्टयादिसमानं एव वर्णानां ब्राह्मणादीनां होमरहितो य उक्तो जपः । अत्र होमरहितो यश्चतुर्गुणो जप इति भैरवत्रिपाठिनः । स एव तच्चलदृशां तत्पत्नीनां विहितः ।। टीका ५.११ ।।

सनातनः ः होमे असमर्थानां विप्रक्षत्रियवैश्यानां यथासङ्ख्यं निगमादेवाश्चत्वारः, रसाः षट्नागेन्द्रा अष्टौ, एतैर्गुणितो जपः कार्यः । त्वर्थे वाशब्दः । अपर इतिहोमकर्मण्यसुगमं एवेति ।। (ह्ब्व्१७.२०५ टीका)

______________________________

शूद्रं प्रत्याह

यं वर्णं आश्रितो यः शूद्रः स च तन्नतभ्रुवां ।
विदधीत जपं विधिवच्छ्रद्धावान्भक्तिभरावनम्रतनुः ।। क्रमदीपिका५.१२ ।।

ब्राह्मणादीनां मध्ये यं वर्णं शूद्रः समाश्रितः स तन्नतभ्रुवां तेषां एव द्विजात्यादीनां स्त्रीणां विहितं जपं विधिवत्कथितप्रकारेण विहितं कुर्यात् । कीदृशः ? श्रद्धायुतः । पुनः कीदृशः ? भक्तिभरेण भक्त्यतिशयेन नम्रो तनुः शरीरं यस्य स तथा । जपश्चायं होमरहित इति रुद्रधरः ।। टीका ५.१२ ।।

______________________________

पुरश्चरणोत्त्तरकृत्यं आह

पुनरभिषिक्तो गुरुणा विधिवद्विश्राण्य दक्षिणां तस्मै ।
अभ्यवहार्य च विप्रान्विभवैः सम्प्रीणयेच्च भक्तियुतः ।। क्रमदीपिका५.१३ ।।

गुरुणा पुनरपि विधिवत्यथोक्तविधिना अभिषिक्तः कृताभिषेकः तस्मै गुरवे दक्षिणां विश्राण्य दत्त्वा विप्रानभ्यवहार्य भोजयित्वा भक्तियुतः सन्सम्प्रीणयेत्धनधान्यादिभिः प्रीतिं कुर्यात् ।। टीका ५.१३ ।।

______________________________

सिद्धमन्त्रस्य कृत्यं आह

इति मन्त्रवरद्वितयान्यतरं
परिसाध्य जपादिभिरच्युतधीः ।
प्रजपेत्सवनत्रितये दिनशो
विधिनाथ मुकुन्दं अमन्दमतिः ।। क्रमदीपिका५.१४ ।।

इत्यनेन प्रकारेण मन्त्रद्वितयान्यतरं मन्त्रद्वितययोर्मध्ये एकं जपादिभिर्जपपूजाहोमतर्पणादिभिः परिसाध्य साधयित्वा अच्युतधीरच्युते श्रीकृष्णे धीर्बुद्धिर्यस्य स तथा । यद्वा, अच्युता न क्षरिता विष्णौ बुद्धिर्यस्य स तथा सवनत्रितये सन्ध्यादित्रये दिनशः प्रतिदिनं विधिना उक्तप्रकारेण मुकुन्दं कृष्णं प्रयजेत्पूजयतु अमन्दमतिः शुद्धमतिः ।। टीका ५.१४ ।।

______________________________

पूजायां प्रातःकालिकध्यानं आह

अथ श्रीमदुद्यानसंवीतहैम
स्थलोद्भासिरत्नस्फुरन्मण्डपान्तः ।
लसत्कल्पवृक्षाध उद्दीप्तरत्न
स्थलीधिष्ठिताम्भोजपीठाधिरूढं ।। क्रमदीपिका५.१५ ।।

सप्तश्लोकान्तं कुलकं । अथानन्तरं भक्तिनम्रः भक्त्यतिशयेन नम्रदेहः प्रगे प्रातःकाले कथितरूपं कृष्णं अनुस्मृत्य ध्यात्वा तदङ्गेन्द्रवज्रादिभिः तस्य कृष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्पालाः वज्रादयस्तदायुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मोचा कदलीविशेषः हैयङ्गवीनं सद्योजातघृतं । एभिस्तथा दध्ना विमिश्रेण दधिसंयुक्तेन दोग्धेन पायसेन च मन्त्री सम्प्रीणयेत् । कीदृशं ? श्रीमत्शोभायुक्तं यदुद्यानं क्रीडावनं तेन संवीतं वेष्टितं
यद्धैमस्थलं लसत्काञ्चनभूमिस्तत्रोद्भासीनि उद्गतकिरणानि यानि यानि रत्नानि तैः स्फुरत्देदीप्यमानो यो मण्डपस्तस्यान्तर्मध्ये देदीप्यमानो यः कल्पवृक्षस्तस्याधश्छायायां उद्गता दीप्तिर्यस्य तादृशं रत्नमयं यत्स्थानं तदधिष्ठितं तत्रावस्थितं यदम्भोजं पद्यं तदेव पीठं तत्राधिरूढं उपविष्टं ।। टीका ५.१५ ।।

______________________________

महानीलनीलाभं अत्यन्तबालं
गुडस्निग्धवक्त्रान्तविस्रस्तकेशं ।
अलिव्रातपर्याकुलोत्फुल्लपद्म
प्रमुग्धाननं श्रीमदिन्दीवराक्षं ।। क्रमदीपिका५.१६ ।।

पुनः कीदृशं ? महानील इन्द्रनीलः । तद्वन्नीलाभं श्यामं । पुनरत्यन्तबालं पञ्चवार्षिकं । पुनः, गुडाः कुटिलाः स्निग्धाः चिक्कणाः कर्णान्ते कपोले विस्रस्ताः पर्याकुलाः । वक्त्रान्तेति पाठे विस्रस्ता मुखावलम्बिताः केशा यस्य तं । अलिव्रातेन भ्रमरसमूहेन पर्याकुलं चञ्चलं व्याप्तं वा यत्फुल्लं विकसितं पद्मं तद्वत्प्रमुग्धं मनोहरं आननं मुखं यस्य तं । पुनः कीदृशं ? श्रीमत्दोषरहितं यदिन्दीवरं नीलपद्मं तत्सदृशे अक्षिणी
यस्य तं ।। टीका ५.१६ ।।

______________________________


पुनः कीदृशं ?

चलत्कुण्डलोल्लासिसम्फुल्लगण्डं
सुघोणं सुशोणाधरं सुस्मितास्यं ।
अनेकाश्मरश्म्युल्लसत्कण्ठभूषा
लसन्तं वहन्तं नखं पौण्डरीकं ।। क्रमदीपिका५.१७ ।।

चञ्चले ये कुण्डले ताभ्यां उन्नतौ उल्लसितौ शोभमानौ सम्फुल्लौ विकाशितौ गण्डौ यस्य तं । पुनः शोभमाना घोणा नासा यस्य तं । पुनः सुशोणो लोहितोऽधरो यस्य तं । पुनः शोभनं यत्स्मितं ईषद्धासस्तद्युक्तं आस्यं यस्य तं । पुनः अनेकानि यान्यश्मानि इन्द्रनीलप्रभृतीनि रत्नानि तेषां ये रश्मयः किरणाः तैरुल्लसन्ती या कण्ठभूषा तया लसन्तं शोभमानं । पुनः पौण्डरीकं व्याघ्रसम्बन्धिनखं वहन्तं धारयन्तं ।। टीका ५.१७ ।।

______________________________

पुनः कीदृशं ?

समुद्धूसरोरःस्थलं धेनुधूल्याः
सुपुष्टाङ्गं अष्टापदाकल्पदीप्तं ।
कटीरस्थले चारुजङ्घान्तयुग्मे
पिनद्धं क्वणत्किङ्किणीजालदाम्ना ।। क्रमदीपिका५.१८ ।।

धेनुधूल्या गोरजसा समुद्धूसरं धूसरितं उरःस्थलं यस्य तं गवां अनुगमनात्सुष्ठु पुष्टं अङ्गं यस्य तं । कीदृशं ? अष्टापदाकल्पदीप्तं सुवर्णघटितालङ्कारेण शोभमानं । पुनः कीदृशं ? क्वणत्किङ्किणीजालदाम्ना शब्दायमानक्षुद्रघण्टिकासमूहमालया कटिस्थले श्रोणितटे चारुजङ्घान्तयुग्मे मनोहरगुल्फद्वयोर्ध्वप्रदेशे पिनद्धं बद्धं ।। टीका ५.१८ ।।

______________________________

पुनः कीदृशं ?

हसन्तं हसद्बन्धुजीवप्रसून
प्रभां पाणिपादाम्बुजोदारकान्त्या ।
करे दक्षिणे पायसं वामहस्ते
दधानं नवं शुद्धहैयङ्गवीनं ।। क्रमदीपिका५.१९ ।।

पाणिपादाम्बुजोदारकान्त्या हस्तचरणपद्मविपुलशोभया हसद्बन्धुजीवपुष्पकान्तिं हसन्तं उपहसन्तं । पुनः कीदृशं ? दक्षिणे करे हस्ते पायसं सव्यहस्ते वामकरे नवं नूतनं शुद्धं निष्कलुषं हैयङ्गवीनं नवनीतं ह्यो गोदोहनोद्भवं घृतं दधानं धारयन्तं ।। टीका ५.१९ ।।

______________________________

पुनः कीदृशं ?

महीभारभूतां अरारातियूथान्
अनःपूतनादीन्निहन्तुं प्रवृत्तं ।
प्रभुं गोपिकागोपगोवृन्दवीतं
सुरेन्द्रादिभिर्वन्दितं देववृन्दैः ।। क्रमदीपिका५.२० ।।

महीभारभूतां अरारातियूथान्पृथिवीभाररूपदैत्यसमूहाननःपूतनादीन्शकटासुरप्रभृतीन्निहन्तुं प्रवृत्तं । पुनः कीदृशं ? प्रभुं समर्थं ईश्वरं । पुनः कीदृशं ? गोपिका गोपस्त्री, गोपः गौः एतेषां समूहेन वीतं वेष्टितं । पुनः कीदृशं ? इन्द्रादिभिर्देवसमूहैर्नमस्कृतं ।। टीका ५.२० ।।

______________________________

प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णं
तदङ्गेन्द्रवज्रादिकैर्भक्तिनम्रः ।
सितामोचहैयङ्गवीनैश्च दध्ना
विमिश्रेण दौग्धेन सम्प्रीणयेत्तं ।। क्रमदीपिका५.२१ ।।

पूर्वश्लोके व्याख्यातं अपि क्रमानुरोधेन व्याख्याते प्रगे प्रातःकाले उक्तप्रकारेण कृष्णं अनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गाद्यावरणैः सह सम्पूज्य नैवेद्यं दद्यात् । नैवेद्यद्रव्यं आहसितेति । सिता शर्करा मोचा कदली हैयङ्गवीनं दौग्धेन पायसेन ।। टीका ५.२१ ।।

______________________________

प्रातः सवनपूजाफलं आह

इति प्रातरेवार्चयेदच्युतं यो
नरः प्रत्यहं शश्वदास्तिक्ययुक्तः ।
लभेताचिरेणैव लक्ष्मीं समग्राम्
इह प्रेत्य शुद्धं परं धाम भूयाथ् ।। क्रमदीपिका५.२२ ।।

इत्यनेन प्रकारेण प्रत्यहं शश्वत्सर्वदा आस्तिक्ययुक्तः सन्यो नरः प्रातःकाले अच्युतं अर्चयेत्तं एवावश्यं पूजयति स इह लोके अचिरेणैवाल्पकालेनैव समग्रां सम्पूर्णां लक्ष्मीं सम्पदं लभते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात्प्राप्नोति तत्सरूपो भवतीत्यर्थः ।। टीका ५.२२ ।।

______________________________

प्रातः पूजायां एव नैवेद्यं तर्पणं च दर्शयति

अहोमुखेऽनुदिनं इत्यभिपूज्य शौरिं
दध्नाथ वा गुडयुतेन निवेद्य तोयैः ।
श्रीमन्मुखे समनुतर्प्य च तद्धिया तं
जप्यात्सहस्रं अथ साष्टकं आदरेण ।। क्रमदीपिका५.२३ ।।

अथवा शब्दः पादपूरणे इति पूर्वोक्तप्रकारेण अह्नोमुखे प्रातःकाले अनुदिनं प्रत्यहं शौरिं कृष्णं अभिपूज्य गुडसहितेन दध्ना नैवेद्यं दत्त्वा जलैस्तद्धिया गुडसहितबुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतर्प्य अथानन्तरं तं मन्त्रं आदरेण साष्टकं सहस्रं अष्टोत्तरसहस्रं जपेत् ।। टीका ५.२३ ।।

______________________________

मध्यन्दिनसवनध्यानं आह

मध्यंदिने जपविधानविशिष्टरूपं
वन्द्यं सुरर्षियतिखेचरमुख्यवृन्दैः ।
गोगोपगोपवनितानिकरैः परीतं
सान्द्राम्बुदच्छविसुजातमनोहराङ्गं ।। क्रमदीपिका५.२४ ।।

चतुर्थश्लोकस्थक्रियया योजना एवं अनेन प्रकारेण मध्यन्दिने मध्याह्ने नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस्तस्या आप्त्यर्थं अर्चयतु । कीदृशं ? जपविधानेन विशिष्टं रूपं यस्य तं जपार्थं यत्ध्यानं । अथ प्रकटसौरभेत्यादि तृतीयपटलोक्तध्यानं तदेवात्रापीति त्रिपाठिनः । पुनः कीदृशं ? वन्द्यं श्रेष्ठं । पुनः कीदृशं ? सुरा इन्द्रादय ऋषयो नारदादयः यतयः सनकादयः खेचराः स्वर्गवासिनः एतेषां मुख्याः श्रेष्ठाः तेषां
वृन्दैः समूहैः तथा गौः गोपः गोपस्त्री च एतेषां निकरैः समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस्तद्वच्छविर्यस्य तत् । अथ च सुजातं दोषरहितं । अथ च मनोहरं नेत्रोत्सवकारकं अङ्गं यस्य ।। टीका ५.२४ ।।

______________________________

पुनः कीदृशं ?

मयूरपत्रपरिक्प्तवतंसरम्य
धम्मिल्लं उल्लसितचिल्लिकं अम्बुजाक्षं ।
पूर्णेन्दुबिन्दुवदनं मणिकुण्डलश्री
गण्डं सुनासं अतिसुन्दरमन्दहासं ।। क्रमदीपिका५.२५ ।।

मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्पत्रं चेति मायूरपत्रं तेन परिक्प्तो यो वतंसः शिरोभूषणं । वष्टिभागुरिरल्लोपं अवाप्योरुपसर्गयोः इत्यकारलोपः । तेन रम्यो धम्मिल्लः केशपाशः यस्य तं । पुनः कीदृशं ? अम्बुजवत्पद्मवतक्षिणी यस्य स तथा तं । पुनः कीदृशं ? सम्पूर्णो य इन्दुबिम्बश्चन्द्रमण्डलं तद्वद्वदनं मुखं यस्य स तथा तं । पुनः कीदृशं ? मणिमयं यत्कुण्डलं तेन श्रीयुक्तौ शोभासहितौ गण्डौ यस्य तं । पुनः
कीदृशं ? शोभना नासा यस्य तं । पुनः कीदृशं ? मनोहरेषद्हास्ययुक्तं ।। टीका ५.२५ ।।

______________________________

पुनः कीदृशं ?

पीताम्बरं रुचिरनूपुरहारकाञ्ची
केयूरकोमिकटकादिभिरुज्ज्वलाङ्गं ।
दिव्यानुलेपनपिशङ्गितमसराजद्
अम्लानचित्रवनमालं अनङ्गदीप्तं ।। क्रमदीपिका५.२६ ।।

पीताम्बरं वस्त्रं यस्य तं । पुनः कीदृशं ? मनोहरनूपुरादिभिः शोभितं अङ्गं यस्य तं हारो मुक्तावली काञ्ची क्षुद्रघण्टिका केयूरं अङ्गदं ऊर्मिर्मुद्रिका कटकः कङ्कण आदिपदेन किरीटादीनां परिग्रहः । पुनः कीदृशं ? देवसम्बन्धिनानुलेपनेन कुङ्कुमादिना पिशाङ्गितं पिञ्जरितं अंसे स्कन्धे राजन्ती शोभमाना अम्लाना अक्लिष्टा चित्रा नानाप्रकारिका वनमाला पत्र्पुष्पमयी आपादलम्बिनी माला यस्य तं । पुनः कीदृशं ? अनङ्गवत्कामवत्दीप्तं ।। टीका ५.२६ ।।

______________________________

पुनः कीदृशं ?

वेणुं धमन्तं अथवा स्वकरे दधानं
सव्येतरे पशुपयष्टिं उदारवेषं ।
दक्षे मणिप्रवरं ईप्सितदानदक्षं
ध्यात्वैवं अर्चयतु नन्दजं इन्दिराप्त्यै ।। क्रमदीपिका५.२७ ।।

वेणुं धमन्तं वादयन्तं । अथवा पक्षान्तरे स्वकरे सव्येतरे वामे गोरक्षणदण्डं दधानं तथा दक्षे दक्षिणे ईप्सितदानदक्षं मणिं दधानं । पुनः कीदृशं ? उदारवेषं । उद्भटवेषं इति रुद्रधरः । वस्तुतस्तु वेणुं वादयन्तं तदेव दर्शयति अथेति वामकरे सव्यं दक्षिणवामयोरित्यभिधानात्द्वयोरेवात्रतन्त्रेण सङ्ग्रहः तत्र सव्ये द्वितीयवामहस्ते पशुपयष्टिं परशुरकार्थं यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणिप्रवरं मणिश्रेष्ठं
चिन्तामणिं दधानं । कीदृशं ? मणिप्रवरं ईप्सितदानदक्षं वाञ्छितार्थदानक्षमं इत्यर्थः ।। टीका ५.२७ ।।

______________________________

आवरणनैवेद्यदानप्रकारं आह

दामादिकाङ्गदयितासुहृदङ्घ्रिपेन्द्र
वज्रादिभिः समभिपूज्य यथाविधानं ।
दीक्षाविधिप्रकथितं च निवेद्यजातं
हैमे निवेदयतु पात्रवरे यथावथ् ।। क्रमदीपिका५.२८ ।।

दाम आदिर्यस्य । आदिपदेन सुदामादीनां परिग्रहः । अङ्गानि पूर्वोक्तानि पञ्च दयिता रुक्मिण्याद्याः सुहृदो वसुदेवाद्याः अङ्घ्रिपा मन्दराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषां आयुधानि पूर्वोक्तानि । एतैर्यथाविधानं यथोक्तप्रकारेण कृष्णं सम्पूज्य दीक्षाविधाने कथितं नैवेद्यसमूहं हैमं सुवर्णमये पात्रश्रेष्ठे यथावत्निवेदयतु ।। टीका ५.२८ ।।

______________________________

होमादिकं आह

अष्टोत्तरं शतं अथो जुहुयात्पयोऽन्नैः
सर्पिःप्लुतैः सुसितशर्करया विमिश्रैः ।
दद्याद्बलिं च निजदिक्षु सुरर्षियोगि
वर्गोपदैवतगणेभ्य उदग्रचेताः ।। क्रमदीपिका५.२९ ।।

अनन्तरं पयोऽन्नैः पायसैः सर्पिःप्लुतैः सुसितशर्करया विमिश्रैः अतिशुभ्रशर्करया मिलितैः अष्टाधिकं शतं जुहुयात्होमं कुर्यात् । साहचर्यात्कल्पनालाघवाच्च होमोक्तद्रव्येणैव निजदिक्षु स्वस्वदिक्षु सुरर्षियोगि वर्गोपदैवतगणेभ्यो बलिं दद्यात् । तत्र सुरा विरञ्चिप्रभृतयः पूर्वदिक्स्थाः ऋषयो नारदादयो दक्षिणदिक्स्थाः योगिवर्गः सनकादिः पश्चिमदिक्स्थाः उपदेवगणाः यक्षसिद्धगन्धर्वविद्याधराद्याः उत्तरदिक्स्था इति त्रिपाठिनः । उपदेवगणाः दशदिक्पाला इति रुद्रधरः
 । उदग्रचेता उद्भटचित्तः सोत्साह इत्यर्थः ।। टीका ५.२९ ।।

______________________________

नवनीतमिलितपायसधियार्चनान्ते जलैर्मुखे तस्य ।
सन्तर्प्य जपतु मन्त्री सहस्रं अष्टोत्तरशतं वापि ।। क्रमदीपिका५.३० ।।

अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत्पायसं तद्बुद्ध्या जलैः सन्तर्प्य तर्पणं कृत्वा मन्त्री साधकः अष्टाधिकं सहस्रं शतं वा जपतु ।। टीका ५.३० ।।

______________________________

एतत्फलं आह

अह्नो मध्ये वल्लवीवल्लभं तं
नित्यं भक्त्याभ्यर्चयेत्यो नराग्र्यः ।
देवाः सर्वे तं नमस्यन्ति शश्वत्
वर्तेरन्वै तद्वशे सर्वलोकाः ।। क्रमदीपिका५.३१ ।।

यो नराग्र्यो नरश्रेष्ठः अह्नो मध्ये मध्याह्ने तं वल्लवीवल्लभं गोपीप्रियं नित्यं सर्वदा भक्त्या सात्त्विकेन भावेनार्चयेत् । तं नरश्रेष्ठं सर्वे देवाः नमस्यन्ति । तथा शश्वत्सर्वदा सर्वे जना एव तद्वशे वर्तेरन्तद्वश्याः स्युरित्यर्थः ।। टीका ५.३१ ।।

______________________________

मेधायुःश्रीकान्तिसौभाग्ययुक्तः
पुत्रैर्मित्रैर्गोमहीरत्नधान्यैः ।
भोगैश्चान्यैर्भूरिभिः सन्निहाढ्यो
भूयान्भूयो धाम तच्चाच्युताख्यं ।। क्रमदीपिका५.३२ ।।

तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनं, श्रीः लक्ष्मीः । कान्तिः शरीरशोभा, सौभाग्यं सर्वजनप्रियता । एतैः युक्तः सम्बद्धः तथा पुत्रैरौरसैः मित्रैः सुहृद्भिर्गौः प्र्थिवी रत्नं धान्यं व्रीह्यादिः । एतैश्चतथान्यैर्भूरिभिः प्रचूरैः सुखैराढ्यः उपचितः सन्पुनः देहावसाने अच्युताख्यं कृष्णनामकं तेजो महो भूयान्तद्रूपो भवतीत्यर्थः ।। टीका ५.३२ ।।

______________________________

तृतीयकालपूजाव्यवस्थां आह

तृतीयकालपूजायां अस्ति कालविकल्पना ।
सायाह्ने निशि वेत्यत्र वदन्त्येके विपश्चितः ।। क्रमदीपिका५.३३ ।।

तृतीयकालपूजायां कालस्य वेलायां विकल्पना विकल्पोऽस्ति तं एवाहसायाह्ने सन्ध्यायां निशि रात्रौ वेति अत्र एके विपश्चितो वदन्ति ।। टीका ५.३३ ।।

______________________________

किं तत्राह

दशाक्षरेण चेद्रात्रौ सायाह्नेऽष्टादशार्णतः ।
उभयीं उभयेनैव कुर्यादित्यपरे जगुः ।। क्रमदीपिका५.३४ ।।

चेद्यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यदष्टादशार्णतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्ने इत्येकेषां मतं । अपरे च पुनः उभयीं उभयपूजां उभयेनैव दशाक्षरेणाष्टादशाक्षरेण च तत्कुर्यादिति जगुः कथयन्ति । तथा चैच्छिको विकल्प इति भावः ।। टीका ५.३४ ।।

______________________________

सायाह्न इत्यादि । अत्र नवश्लोकान्तं कुलकं ।

सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते ।
द्व्यष्टसाहस्रसङ्ख्यातैर्भवनैरभिसंवृते ।। क्रमदीपिका५.३५ ।।
हंससारससङ्कीर्णैः कमलोत्पलशालिभिः ।
सरोभिरमलाम्भोभिः परीते भवनोत्तमे ।। क्रमदीपिका५.३६ ।।
उद्यत्प्रद्योतनद्योतसद्युतौ मणिमण्डपे ।
मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिं ।। क्रमदीपिका५.३७ ।।
नारदाद्यैः परिवृतं आत्मतत्त्वविनिर्णये ।
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परं अक्षरं ।। क्रमदीपिका५.३८ ।।

सायाह्ने एवं एतादृशवेषधारिणं हरिं ध्यात्वार्चयेत् । कीदृशं ? मृद्वास्तरकोमलासनरूपे हेमाम्भोजासने कनकपद्मासने समासीनं उपविष्टं कुत्रावस्थितं मणिमण्डपे । किं विशिष्टे ? उद्गच्छन्यः प्रद्योतनः सूर्यः तस्य द्योतस्य समाना द्युतिर्यस्य तस्मिन् । कुत्र ? भवनोत्तमे गृहश्रेष्ठे । किं विशिष्टे ? चित्रोद्यानोपशोभिते बहुधोपवनसेविते । पुनः किं विशिष्टे ? द्वारवत्यां विद्यमाने । पुनः किं विशिष्टे ? भवनैर्गृहैरभिसंवृते । कीदृशैः ? द्व्यष्टसाहस्रसङ्ख्यातैः ।

पुनः किं विशिष्टे ? सरोभिः सरोवरैः परीते । कीदृशैः ? अमलाम्भोभिर्निर्मलजलैः । पुनः कीदृशैः ? हंससारससङ्कीर्णैः हंसादिपक्षिगणैर्व्याप्तैः । पुनः कीदृशैः ? कमलोत्पलशालिभिः पद्मोत्पलसहितैः ।

हरिं कीदृशं ? नारदाद्यैर्मुनिभिः परिवृतं वेष्टितं । किमर्थं ? आत्मतत्त्वविनिर्णये आत्मतत्त्वनिश्चये निमित्ते । पुनः कीदृशं ? तेभ्यो नारदादिभ्यः स्वं धाम ज्ञानस्वरूपं आत्मानं कथयन्तं । पुनः कीदृशं ? परमविद्यातत्कार्यरहितं । पुनः कीदृशं ? अक्षरं अविनाशि ।। टीका ५.३५३८ ।।

______________________________

पुनः कीदृशं ?

इन्दीवरनिभं स्ॐयं पद्मपत्रोरुणेक्षणं ।
स्निग्धकुन्तलसम्भिन्नकिरीटमुकुटोज्ज्वलं ।। क्रमदीपिका५.३९ ।।

इन्दीवरनिभं नीलाम्भोजसदृशं स्ॐयं उग्रतारहितं । पुनः कीदृशं ? पद्मपत्रवदायते दीर्घे ईक्षणे यस्य तं । पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास्तैः सम्भिन्ने मिलिते किरीटमुकुटे ताभ्यां उज्ज्वलं देदीप्यमानं । तत्र किरीटशब्देन ललाटाश्रितः त्रिशृङ्गोऽलङ्कारविशेषः कथ्यते । मुकुटशब्देन च मूर्ध्नि मध्यभागाश्रितं तच्च दीपशिखाकारोऽलङ्कारविशेषः कथ्यते ।। टीका ५.३९ ।।

______________________________

पुनः कीदृशं ?

चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलं ।
श्रीवत्सवक्षसं भ्राजकौस्तुभं वनमालिनं ।। क्रमदीपिका५.४० ।।

चारु मनोहरं प्रसन्नं फलदायि वदनं यस्य तं । पुनः स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तं । पुनः श्रीवत्सो विप्रपादप्रहारकृतचिह्नविशेषो वक्षसि यस्य तं । पुनः भ्राजन्देदीप्यमानः कौस्तुभो मणिविशेषो यस्य तं । पुनः वनमालाधारिणं ।। टीका ५.४० ।।

______________________________

काश्मीरकपिशोरस्कं पीतकौशेयवाससं ।
हारकेयूरकटकरसनाद्यैः परिष्कृतं ।। क्रमदीपिका५.४१ ।।

काश्मीरेण कुङ्कुमवर्णं उरो यस्य तं । पुनः पीतवस्त्रधारिणं । पुनः हारः मुक्ताहारः केयूरं अङ्गदं बाह्वलङ्कारः । कटकः कङ्कणः । रसना क्षुद्रघण्टिका आदिशब्देनाङ्गुलीयकादेः परिग्रहः एतैः परिष्कृतं शोभितं ।। टीका ५.४१ ।।

______________________________

पुनः कीदृशं ?

हृतविश्वम्भराभूरिभारं मुदितमानसं ।
शङ्खचक्रगदापद्मराजद्भुजचतुष्टयं ।। क्रमदीपिका५.४२ ।।

हृतोऽपनीतो विश्वम्भरायाः पृथ्व्या भूरिभारो बृहद्भारोऽसुरादिलक्षणो येन तं । पुनः मुदितं हृष्टं मानसं यस्य तं । पुनः शङ्खचक्रगदापद्मैः शोभितं बाहुचतुष्टयं यस्य तं ।। टीका ५.४२ ।।

______________________________

एवं ध्यात्वार्चयेन्मन्त्री तदङ्गैः प्रथमावृतिं ।
द्वितीयां महिषीभिस्तु तृतीयायां समर्चयेथ् ।। क्रमदीपिका५.४३ ।।
नारदं पर्वतं जिष्णुं निशठोद्धवदारुकान् ।
विश्वक्सेनं च सैनेयं दिक्ष्वग्रे विनतासुतं ।। क्रमदीपिका५.४४ ।।

अत्र पूजायां अङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति । द्वितीयावरणं महिषीभिः रुक्मिण्यादिभिः । तृतीयायां आवृतौ दिक्षु प्रवादिदिक्षु वक्ष्यमाणान्नारदादीनग्रे च विनतासुतं गरुडं पूजयेत् । पर्वतनामा मुनिविशेषः । जिष्णुरर्जुनः । निशठो यादवविशेषः । उद्धवोऽपि तथा । दारुकः कृष्णसारथिः । विश्वक्सेनः भाण्डागारिकः सैनेयः सात्यकिः ।। टीका ५.४३४४ ।।

______________________________

लोकेशैस्तत्प्रहरणैः पुनरावरणद्वयं ।
इति सम्पूज्य विधिवत्पायसेन निवेदयेथ् ।। क्रमदीपिका५.४५ ।।

लोकेशैरिन्द्रादिभिरेकं आवरणं । तत्प्रहरणैस्तदायुधैर्वज्रादिभिरपरावरणं । एवं क्रमेणावरणद्वयं इत्यनेन प्रकारेण पञ्चावरणकेन सम्पूज्य विधिवद्दीक्षाकथितं पायसं दद्यात् ।। टीका ५.४५ ।।

______________________________

तर्पणप्रकारं जपसङ्ख्यां च दर्शयति

तर्पयित्वा खण्डमिश्रैर्दुग्धबुद्ध्या जलैर्हरिं ।
जपेदष्टशतं मन्त्री भावयन्पुरुषोत्तमं ।। क्रमदीपिका५.४६ ।।

खण्डेन शर्करया विमिश्रं मिलितं यद्दुग्धं तद्बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन्ध्यायन्मन्त्री साधकः अष्टाधिकशतं जपेत् । यद्यपि तर्पणस्य क्त्वाप्रत्ययेन पूर्वकालता प्रतीयते तथापि प्रथमं जपः तदनु तर्पणं कार्यं तथैवानुक्रमात्सम्प्रदायाच्चेति रुद्रधरः ।। टीका ५.४६ ।।

______________________________

पूजासु होमं सर्वासु कुर्यान्मध्यन्दिनेऽथवा ।
आसनादर्घ्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः ।। क्रमदीपिका५.४७ ।।

सर्वासु तिसृष्वपि पूजासु होमं कुर्यात् । पक्षान्तरं आहाथवेति । मध्यन्दिने मध्याह्न्पूजायां वा होमं कुर्यादित्यर्थः । आसनादिति । आसनमन्त्रादारभ्यार्घ्यपर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत्दण्डवत्प्रणमेत् । अवसानार्घ्यं अवशेषयित्वा मध्ये होमं कृत्वा ततः पूजाशेषार्घ्यं अवसानार्घ्यसंज्ञकं पराङ्मुखार्घ्यापरपर्यायं दद्यादित्यर्थः ।। टीका ५.४७ ।।

______________________________

समर्प्यात्मानं उद्वास्य तत्स्वे हृत्सरसीरुहे ।
विन्यस्य तन्मयो भूत्वा पुनरात्मानं अर्चयेथ् ।। क्रमदीपिका५.४८ ।।

आत्मसमर्पणमन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत्परमेश्वरतेजः पूजास्थानादुद्वास्य उद्वृत्त्य स्वकीयहृदयपद्मे विन्यस्य तन्मयो भूत्वा पुनरात्मानं पूजयेत् ।। टीका ५.४८ ।।

______________________________

सायाह्नपूजाफलं आह

सायाह्ने वासुदेवं यो नित्यं एव यजेन्नरः ।
सर्वान्कामानवाप्यान्ते स याति परमां गतिं ।। क्रमदीपिका५.४९ ।।

यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथितप्रकारेण यजेत्पूजातर्पणहोमादिभिः परितोषयेत्सर्वान्कामान्वाञ्छितानर्थानवाप्य देहावसाने परां गतिं विष्णुसायुज्यं प्राप्नोति ।। टीका ५.४९ ।।

______________________________

रात्रौ चेन्मन्मथाक्रान्तमानसं देवकीसुतं ।
यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगं ।। क्रमदीपिका५.५० ।।

चेद्यदि रात्रौ पूजा क्रियते तदा रासः क्रीडाविशेषस्तेन परिश्रान्तं देवकीनन्दनं यजेत्मन्मथेन आक्रान्तं मानसं हृदयं यस्य तं । पुनः गोपीनां मण्डलं गोष्ठीविशेषः तस्य मध्ये स्थितं ।। टीका ५.५० ।।

______________________________

रासक्रीडां दर्शयति

पृथुं सुवृत्तं मसृणं वितस्ति
मात्रोन्नतं कौ विनिखन्य शङ्कुं ।
आक्रम्य पद्भ्यां इतरेतरात्त
हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ।। क्रमदीपिका५.५१ ।।

इतरेतरात्तहस्तैः परस्परगृहीतहस्तैः अयं भ्रमो भ्रमणं रासगोष्ठी । किं कृत्वा ? कौ पृथिव्यां पृथुं स्थूलं सुवृत्तं वर्तुलाकारं मसृणं स्निग्धं वितस्तिमात्रोत्थितं द्वादशाङ्गुलप्रमाणेनोर्ध्वं स्थितं शङ्कु काष्ठखण्डं विनिखन्य । पुनः किं कृत्वा ? पद्भ्यां शङ्कुं आक्रम्य नियन्त्र्य ।। टीका ५.५१ ।।

______________________________

ध्यानं आह

स्थलनीरजसूनपरागभृता
लहरीकणजालभरेण सता ।
मरुता परितापहृताध्युषिते
विपुले यमुनापुलिने विमले ।। क्रमदीपिका५.५२ ।।

द्वादशश्लोकान्तं कुलकं । कल्याणमयस्वरूपं अजं विचिन्त्य प्रथमोदितपीठवरे पूर्वोक्तदीक्षासम्बन्धिपूजापीठश्रेष्ठे विधिवत्यथाविधि प्रयत्नेन पूजयेत् । कीदृशं ? यमुनापुलिने यमुनातटे इतरेतरबद्धकरप्रमदागणकल्पितरासविहारविधौ अन्योन्यबद्धहस्तस्त्रीसमूहपरिकल्पितक्रीडाविशेषविधौ मणिशङ्कुगं मणिमयशङ्कुमध्यगतं । कीदृशे ? पुलिने वायुनाधुयुषिते आक्रान्ते । कीदृशेन ? स्थलनीरजं स्थलकमलं तं पुष्पपरागभृता तत्केशरसंनिकृष्टपुष्परजोयुक्तेन अनेन सौगन्ध्यं वर्णितं पुनः लहरीतरङ्गस्तस्य कणजालं बिन्दुसमूहः
तस्य भरेण प्रकर्षेण सतां । उत्कृष्टेन युक्तेनेति त्रिपाठिनः । अनेन शैत्यं उक्तं । पुनः परितापहृता खेदविनाशकेन अनेन मान्द्यं उक्तं । पुनः कीदृशे पुलिने ? विपुले विस्तीर्णे पुनः विमले शुद्धे ।। टीका ५.५२ ।।

______________________________

पुनः कीदृशं ?
अशरीरनिशातशरोन्मथित
प्रमदाशतकोटिभिराकुलिते ।
उडुनाथकरैर्विशदीकृतदिक्
प्रसरे विचरद्भ्रमरीनिकरे ।। क्रमदीपिका५.५३ ।।

अशरीरः कामः तस्य यो निशातशरस्तीक्ष्णबाणस्तेन उन्मथिता व्यग्रीकृता याः
प्रमदास्तासां शतकोटिभिराकुलितीकृते इतस्ततोऽव्याप्तेः । पुनः कीदृशे ? उडुनाथश्चन्द्रस्तस्य करैः किरणैर्विशदीकृतः प्रकाशितो दिक्
प्रसरो दिगवकाशो यत्र तस्मिन् । पुनः कीदृशे ? विचरन्ती भ्रमन्ती या भ्रमरी तस्या निकरः समूहो यत्र तस्मिन् ।। टीका ५.५३ ।।

______________________________

पुनः कीदृशं ?
विद्याधरकिन्नरसिद्धसुरैः
गन्धर्वभुजङ्गमचारणकैः ।
दारोपहितैः सुविमानगतैः
स्वस्थैरभिवृष्टसुपुष्पचयैः ।। क्रमदीपिका५.५४ ।।

विद्याधरप्रभृतयो यथा प्रसिद्धाः तथा भुजङ्गमः हस्तपादादिशरीरान्वितो नागलोकस्थः सर्पः एतैर्दारोपहितैः सस्त्रीकैः शोभनविमानगतैः आकाशनिष्ठैः कृतपुष्पवृष्टिसमूहैः आकुलिते ।। टीका ५.५४ ।।

______________________________

पुनः कीदृशं कृष्णं ?

इतरेतरबद्धकरप्रमदा
गणकल्पितरासविहारविधौ ।
मणिशङ्कुगं अप्यमुनावपुषा
बहुधा विहितस्वकदिव्यतनुं ।। क्रमदीपिका५.५५ ।।

अमुना वपुषा अनेन मणिशङ्कुगातेन शरीरेण नानाप्रकारकृतस्वीयदिव्यशरीरं ।। टीका ५.५५ ।।

______________________________

पुनः कीदृशं ?

सुदृशां उभयोः पृथगन्तरगं
दयितागणबद्धभुजद्वितयं ।
निजसङ्गविजृम्भदनङ्गशिखि
ज्वलिताङ्गलसत्पुलकालियुजां ।। क्रमदीपिका५.५६ ।।

सुदृशां कामिनीनां उभयोर्द्वयोः पृथक्द्वयद्वयक्रमेण अन्तरगं मध्यगतं । पुनः कीदृशं ? दयितागणेन नारीसमूहेन बद्धं स्वहस्तेनान्योऽन्यं ग्रथितं भुजद्वितयं यस्य तं एतेनैतदुक्तं भवति कामिन्योर्मध्ये कामिनीनां एव हस्तेन गृहीतहस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कुगं कामिनीनां अपि अन्तरेण युक्तं इति भावः । कीदृशां ? निजसङ्गेन गोपालकृष्णसङ्गेन विजृम्भमाणः प्रज्वलितो यो अनङ्गशिखी कामाग्निस्तेन ज्वलितं प्रदीप्तं यदाङ्गं तत्र लसन्ती शोभमाना या पुलकाली रोमाञ्चपङ्क्तिस्तया युज्यन्ते इति तद्युजस्तासां ।। टीका ५.५६ ।।

______________________________

पुनः कीदृशं ?

विविधश्रुतिभिन्नमनोज्ञतर
स्वरसप्तकमूर्च्छनतालगणैः ।
भ्रममाणं अमूभिरुदारमणि
स्फुटमण्डनशिञ्जितचारुतरं ।। क्रमदीपिका५.५७ ।।

अमूभिर्गोपीभिः सह भ्रममाणं भ्रमीकुर्वाणं । कैः ? विविधो नानाप्रकारः श्रुतिर्नामस्वरारम्भकावयवः शब्दविशेषः तेन भिन्नं सङ्गतं मनोज्ञतरं अतिहृदयग्राहि यत्स्वरसप्तकं निषादेत्यादि तस्य या मूर्च्छना एकविंशतिप्रकारिका भागतालाश्वतालपरितालादयः ऊनपञ्चाशतेतेषां गणैः समूहैः । पुनः कीदृशं ? उदार उदूढो यो मणिस्तस्य स्फुटं प्रव्यक्तं अतितेजस्वितया यन्मण्डनं तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयङ्गमं ।।५७ ।।

______________________________

पुनः कीदृशं ?

इति भिन्नतनुं मणिभिर्मिलितं
तपनीयमयिरिव भारकतं ।
मणिनिर्मितमध्यगशङ्कुलसद्
विपुलारुणपङ्कजमध्यगतं ।। क्रमदीपिका५.५८ ।।

इति भिन्नतनुं । अनेन प्रकारेण गोपीभिर्मिलितदेहं गोपालकृष्णं कं इव तपनीयमयैः सुवर्णमयैः मणिभिर्मिलितं ग्रथितं मरकतमणिं इव । पुनः कीदृशं ? मणिनिर्मितो मध्यगतो यः शङ्कुः तल्लग्नं लसद्देदीप्यमानं यद्विपुलं बृहदरुणपङ्कजं तस्य मध्यगतं ।। टीका ५.५८ ।।

______________________________

पुनः कीदृशं ?

अतसीकुसुमाभतनुं तरुणं
तरुणारुणपद्मपलाशदृशं ।
नवपल्लवचित्रसुगुच्छलसच्
छिखिपिच्छपिनद्धकचप्रचयं ।। क्रमदीपिका५.५९ ।।

अतसीप्रसिद्धा तस्याः कुसुमानीवाभा दीप्तिर्यस्यास्तनोस्तादृशी तनुर्यस्य तं । पुनः कीदृशं ? तरुणेति नूतनारुणपद्मपत्रसदृशनेत्रं । पुनः कीदृशं ? नवेति नूतनपल्लवनानाविधस्तवकशोभमानमयूरपुच्छसम्बद्धकेशसमूहं ।। टीका ५.५९ ।।

______________________________

पुनः कीदृशं ?
चटुलभ्रुवं इन्दुसमानमुखं
मणिकुण्डलमण्डितगण्डयुगं ।
शशरक्तसदृक्दशनच्छदनं
मणिराजदनेकविधाभरणं ।। क्रमदीपिका५.६० ।।

चटुलभ्रुवं चलद्भ्रूलताकं । पुनः कीदृशं ? शुक्लपक्षीयपूर्णचन्द्रसदृशाननं । पुनः कीदृशं ? मणिमयकुण्डलशोभितगण्डद्वयं । पुअनः कीदृशं ? शशशोणिततुल्याधरं । पुनः कीदृशं ? मणिना शोभमाननानाप्रकाराभरणं ।। टीका ५.६० ।।

______________________________

पुनः कीदृशं ?
असनप्रसवच्छदनोज्ज्वलसद्
वसनं सुविलासनिवासभुवं ।
नवविद्रुमभद्रकराङ्घ्रितलं
भ्रमराकुलदामविराजितनुं ।। क्रमदीपिका५.६१ ।।

असनो वृक्षविशेषः तस्य प्रसवः पुष्पं तस्य छेदनं पत्रं च तद्वदुज्ज्वलं शोभमानं मनोहरं वस्त्रं यस्य तं । पुनः कीदृशं ? शोभनक्रीडाविचित्रस्थानं । पुनः कीदृशं ? नवो नूतनो यो विद्रुमः प्रवालस्तद्वत्भद्रं मनोहरं कराङ्घ्रितलं यस्य तं । पुनः कीदृशं ? भ्रमरैराकुलं व्याप्तं यत्पुष्पदाममाला तेन विराजितं भुजद्वयं यस्य तं यद्वा मालया विराजिता तनुर्यस्य तं ।। टीका ५.६१ ।।

______________________________

पुनः कीदृशं ?
तरुणीकुचयुक्परिरम्भमिलद्
घुसृणारुणवक्षसं उक्षगतिं ।
शिववेणुसमीरितगानपरं
स्मरविह्वलितं भुवनैकगुरुं ।। क्रमदीपिका५.६२ ।।

युवतीनां स्तनद्वयालिङ्गनसम्बद्धकुङ्कुमारुणितं उरःस्थलं यस्य तं । पुनः कीदृशं ? उक्षगतिं वृषभगतिं । पुनः कीदृशं ? शिवः कल्याणप्रदो यो वेणुर्वंशस्तेन समीरितं सम्पादितं यद्गानं गीतं तत्परं तदासक्तं । पुनः कीदृशं ? स्मरेण कामेन विह्वलितं अनायत्तं । पुनः कीदृशं ? भुवनत्रयस्य एकं अद्वितीयं गुरुं ।। टीका ५.६२ ।।

______________________________

प्रथमोदितपीठवरे विधिवत्
प्रयजेदिति रूपं अरूपं अजं ।
प्रथमं परिपूज्य तदङ्गवृत्तिं
मिथुनानि यजेद्रसगानि ततः ।। क्रमदीपिका५.६३ ।।

इति रूपं अजं प्रथमोदिते पीठवरे पूर्वकथितदेवताक्ळ्प्तपीठे यजेतरूपं निर्गुणं । आवरणानि दर्शयतिप्रथमं इति । तदङ्गवृत्तिं पूर्वोक्ताङ्गावरणं प्रथमं परिपूज्य ततस्तदनन्तरं मिथुनानि केशवकीर्त्यादीनि रासगानि रासक्रीडागतानि ।। टीका ५.६३ ।।

______________________________

दलषोडशके स्वरं ऊतिगणं
सहशक्तिकं उत्तमरासगतं ।
सरमामदनं स्वकलासहित
मिथुनाह्वं अथेन्द्रपविप्रमुखान् ।। क्रमदीपिका५.६४ ।।

दलषोडशके षोडशपत्रे पूजयेत्मिथुनं एव कथयति स्वरमूर्तिगणं इति स्वरभवा अकारादिवर्णभवाः केशवादिषोडशमूर्तयः । स्वरमूर्तिगणं कीदृशं ? सहशाक्तिकं कीर्त्यादिशक्तिसहितं । पुनः कीदृशं ? उत्तमो यो रासः तत्र गतं । क्वचिदुत्तररासगतं इति पाठः । तत्र मध्यरासे परमेश्वरपूजा उत्तरादिरासे केशवादिकं पूजयेत् ।

पुनः कीदृशं ? रमा श्रीबीजं मदनः कामबीजं एताभ्यां सहितं । पुनः कीदृशं ? स्वकीया याः कलाः षोडशस्वराः तैः सहितं । प्रयोगश्चश्रीं क्लीं अं केशवकीर्तिभ्यां नमः इत्यादि । पुनः कीदृशं ? मिथुनाह्वं मिथुनसंज्ञकं । अथानन्तरं इन्द्रपविप्रमुखानिन्द्रादीन्वज्रादींश्च पूजयेदित्यर्थः ।। टीका ५.६४ ।।

______________________________

पूर्वोक्तावृतिसङ्ख्यापूर्वकं नैवेद्यं कथयति

इति सम्यगमुं परिपूज्य हरिं
चतुरावृतिसंवृतं आर्द्रमतिः ।
रजतारचिते चषके ससितं
सुशृतं सुपयोऽस्य निवेदयतु ।। क्रमदीपिका५.६५ ।।

अनेन प्रकारेण चतुरावरणवेष्टितं अमुं हरिं सम्यक्यथाविधि सम्पूज्य श्रद्धावान्रजतारचिते रूप्यनिर्मिते चषके पात्रे अस्य हरेः ससितं सशर्करं सघृतं घृतसहितं पाठान्तरं । सुशृतं आवर्तितं पयो दुग्धं निवेदयतु ।। टीका ५.६५ ।।

______________________________

विभवे सति कांस्यमयेषु पृथक्
चषकेषु तु षोडशसु क्रमशः ।
मिथुनेषु निवेद्य पयः ससितं
विदधीत पुरोवदथो सकलं ।। क्रमदीपिका५.६६ ।।

विभवे सति यदि तादृशं ऐश्वर्यं भवति तदा कांस्यघटितेषु पृथकेकैकं षोडशसचषकेषु क्रमेण मिथुनगणेषु ससितं पयो निवेद्य अथानन्तरं पुरोवत्निवेदयामि भगवते इत्याद्युक्तप्रकारेण सकलं पूजाविशेषं समापयेत् ।। टीका ५.६६ ।।

______________________________

रासपूजाफलं आह
सकलभुवनमोह्नं विधिं यो
नियतं अमुं निशि निश्युदारचेताः ।
भजति स खलु सर्वलोकपूज्यः
श्रियं अतुलां समवाप्य यात्यनन्तं ।। क्रमदीपिका५.६७ ।।

अमुं विधिं रासपूजाप्रकारं सकलभुवनमोह्नं सकलभुवनवश्यकरं नियतं अबाधेन यो निशि निशि प्रतिरजनि उदारचेताः प्रसन्नमनाः सन्सम्यक्भजति कुर्यात्स सर्वलोकपूज्यः सनतुलां अतिशयितां श्रियं समृद्धिं समवाप्य अनन्तं विष्णुं याति प्राप्नोति ।। टीका ५.६७ ।।

______________________________

निशि वा दिनान्तसमये
प्रपूजयेन्नित्यशोऽच्युतं भक्त्या ।
समफलं उभयं हि ततः
संसाराब्धिं समुत्तितीर्षति यः ।। क्रमदीपिका५.६८ ।।

यः पुमान्संसारसागरं तरितुं इच्छति सोऽच्युतं भक्त्या निशि वा दिनान्तसमये वा सन्ध्यायां पूजयेन्नित्यशः प्रत्यहं हि यतः उभयनिशासन्ध्यापूजनद्वयं समफलं ततस्तस्माद्धेतोः निशि वा दिनान्ते वा पूजयेदित्यर्थः ।। टीका ५.६८ ।।
______________________________

उक्तं उपसंहरति

इत्येवं मनुविग्रहं मधुरिपुं यो वा त्रिकालं यजेत्
तस्यैवाखिलजन्तुजातदयितस्याम्भोधिजावेश्मनः ।
 हस्ते धर्मसुखार्थमोक्षतरवः सद्वर्गसम्प्रार्थिताः
सान्द्रानन्दमहारसद्रवमुचो येषां फलश्रेणयः ।। क्रमदीपिका५.६९ ।।

इत्यमुना प्रकारेण यः पुमान्मन्त्रशरीरं मधुसूदनं त्रिकालं वा पूजयेत्तस्य नानाविधप्राणिसमूहवल्लभस्य अम्भोधिजावेश्मनो लक्ष्मीनिवासस्य धर्मादिपुरुषार्थचतुष्टयवृक्षा हस्ते भवन्तीति शेषः । कीदृशाः ? सतां वर्गः समूहः तेन प्रार्थिताः । संसर्गीति पाठे ससर्गिभिर्निकटस्थैर्यद्यपि मोक्षस्य फलं नास्ति तथापि मोक्षपदेन तद्धेतुभूतं तत्त्वज्ञानं उक्तं येषां वृक्षाणां फलपङ्क्तयः नित्यानन्दब्रह्म स्वरूपमहारसद्रवदाः ।। टीका ५.६९ ।।

______________________________

अथोच्यते पूर्वसमीरितानां
पूजावसाने परं अस्य पुंसः ।
कल्पस्तु काम्येष्वपि तर्पणानां
विनापि पूजां खलु यैः फलं तथ् ।। क्रमदीपिका५.७० ।।

अथानन्तरं परमस्य पुंसः श्रीगोपालकृष्णस्य पूजावसाने पूजानन्तरं पूर्वसमीरितानां शीमन्मुखैत्यादिकथितानां नित्यतर्पणानां कल्पः प्रकारः काम्येष्वपि तर्पणेषु प्रकार उच्यते यैस्तर्पणैः पूजां विनापि तत्फलं पूजाफलं प्राप्नोति यथापूजा तथैव तर्पणं ।। टीका ५.७० ।।

______________________________

सन्तर्प्य पीठमन्त्रैः सकृत्प्रथमं अच्युतं तत्र ।
आवाह्य पूजयेत्तं तोयैरेवाखिलैः समुपहारैः ।। क्रमदीपिका५.७१ ।।

प्रथमं पीठमन्त्रैराधारशक्त्यादिमन्त्रैः पीठाङ्गभूतदेवतां सकृत्सकृदेकैकवारं सन्तर्प्य अनन्तरं तत्र तोयमये पीठे अच्युतं आवाह्य जलैरेव गन्धादिसकलोपचारात्मकैः पूजयेत् ।। टीका ५.७१ ।।

______________________________

बद्ध्वाथ धेनुमुद्रां तोयैः सम्पाद्य तर्पणद्रवं ।
तद्बुद्ध्याञ्जलिना तं सुवर्णचषकीकृतेन तर्पयतु ।। क्रमदीपिका५.७२ ।।

ततो धेनुमुद्रां बद्ध्वा तोयैस्तर्पणाढ्यं सम्पाद्य तद्द्रव्यरूपतया तोयं भावयित्वा तद्बुद्ध्या तत्कथितद्रव्यतर्पणद्रव्यबुद्ध्या तं कृष्णं तर्पयतु केनाञ्जलिना कीदृशेन सुवर्णचषकतया विचिन्तितेनेत्यर्थः ।। टीका ५.७२ ।।

______________________________

विंशतिरष्टोपेता कालत्रयतर्पणेषु सङ्ख्योक्ता ।
भूयः स्वकालविहितान्सकऋत्तर्पयेच्च परिवारान् ।। क्रमदीपिका५.७३ ।।

कालत्रयतर्पणेषु त्रिकालतर्पणेषु एकस्मिन्कालेऽष्तोपेता अष्टाविंशतिः तर्पणस्य सङ्ख्योक्ता पुनः स्वकालविहितान्स्वस्मिन्प्रातर्मध्याह्नादौ ये ये विहिताः परिवारा आवरणदेवतास्तान्सकृदेकैकवारं सन्तर्पयेत् ।। टीका ५.७३ ।।

______________________________

कालत्रयस्य तर्पणद्रव्यं आह

प्रातर्दधिगुडमिश्रं मध्याह्ने पायसं सनवनीतं ।
क्षीरं तृतीयकाले ससितोपलं इत्युदीरितं द्रव्यं ।। क्रमदीपिका५.७४ ।।

गुडसहितं दधि प्रातःकाले नवनीतसहितं पायसं मध्याह्ने ससितोपलं शर्कराविकारसहितं क्षीरं तृतीयकाले इत्यमुना प्रकारेण द्रव्यं तर्पणद्रव्यं कथितं ।। टीका ५.७४ ।।

______________________________

तर्पणमन्त्रं आह

तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु ।
द्वितीयान्तेषु तु ततः पूजाशेषं समापयेथ् ।। क्रमदीपिका५.७५ ।।

मन्त्रान्ते मूलमन्त्रावसाने स्वकीयानि तर्पणीयदेवतानां नामानि तेषु तत्समीपेषु द्वितीयान्तेषु अमुकदेवतां इत्यादिरूपेषु तर्पयामीतिपदं योज्यं अनन्तरं पूजाशेषं समापयेत् ।। टीका ५.७५ ।।

______________________________

उत्तरकृत्यं आह

अभ्युक्ष्य तत्प्रसादाद्भिरात्मानं प्रतिवेदपः ।
तज्जप्त्वा तं अथोद्वास्य तन्मयः प्रजपेन्मनुं ।। क्रमदीपिका५.७६ ।।

तत्प्रसादाद्भिः परमेश्वरप्रसादतत्तर्पणजलैः आत्मानं शरीरं सिक्त्वा तज्जप्त्वा मन्त्रं जप्त्वा अपः प्रपिबेत् । अथानन्तरं तं देवं उद्वास्य स्वहृदये संयोज्य तन्मयः सन्मन्त्रं जपेत् ।। टीका ५.७६ ।।

______________________________

सप्रकारं सद्रव्यं काम्यं तर्पणं आह

अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु ।
तानि प्रोक्तविधानानां आश्रित्यान्यतरं भजेथ् ।। क्रमदीपिका५.७७ ।।

अथानन्तरं काम्येषु तर्पणेषु यानि नारदादिभिः कथितानि द्रव्याणि तानि वक्ष्यन्ते प्रोक्तविधानानां त्रिकालोक्तविधानानां अनन्तरं एकं विधानं आश्रित्य काम्यतर्पणकर्म भजेत् ।। टीका ५.७७ ।।

______________________________

द्रव्यैः षोडशभिरमुं प्रतर्पयेदेकशश्चतुर्वारं ।
स चतुःक्षीराद्यन्तैः सकृज्जलाद्यन्तं अच्युतं भक्त्या ।। क्रमदीपिका५.७८ ।।

षोडशभिर्द्रव्यैरमुं श्रीकृष्णं एकशश्चतुर्वारं तद्द्रव्यबुद्ध्या जलैरेव तर्पयेत् । कीदृशैः ? चत्वारि क्षीराणि आद्यं येषां तैह् । षोडशद्रव्याणां आदौ दुग्धाञ्जलिचतुष्टयं अन्ते च चतुष्टयं इत्यर्थः । सकृज्जलाद्यन्तं इति क्रियाविशेषणं । तथा च प्रथमं एकवारं जलेन ततश्चतुर्वारं ततः चतुर्वारं क्षीरैः ततः सकृज्जलेन इति पर्यवसन्नं ।। टीका ५.७८ ।।

______________________________

षोडशद्रव्याण्याहपायसं इति ।

पायसदाधिककृसरं गौडान्नपयोदधीनि नवनीतं ।
आज्यं कदलीमोचारजस्वलाचोचमोदकापूपं ।। क्रमदीपिका५.७९ ।।
पृथुकं लाजोपेतं द्रव्याणां कथितं इह षोडशकं ।
लाजान्तेऽन्त्यक्षीरात्प्राक्समर्प्य सितोपलापुञ्जैः ।। क्रमदीपिका५.८० ।।

पायसं परमान्नं । दाधिकं दध्ना परिष्कृतं अन्नं । कृसरं मुद्गौदनं गौडान्नं गुडोदकपक्वं अन्नं । पयो दुग्धं दधि प्रसिद्धं नवनीतं आज्यं घृतं कदली चम्पाकदली मोचा स्वर्णकदली रजस्वला कदलीविशेषः । चोचोऽपि कदलीविशेषः । मोदको लड्डुकः । अपूपं पूलिका पृथक्चिपिटकं लाजसमेतं लाजसहितं इति द्रव्याणां षोडशकं कथितं इह ग्रन्थेति लाजेति । लाजतर्पणानन्तरं अन्त्यचतुःक्षीरतर्पणात्पूर्वं सितोपलापुञ्जैः श्वेतशर्करासमूहैः भावनया तोयभावापन्नैः सकृत्सन्तर्पयेत्
 ।। टीका ५.७९८० ।।

______________________________

उक्तकाम्यतर्पणस्य फलं आह

प्रगे चतुःसप्ततिवारं इत्यमुं
प्रतर्पयेद्योऽनुदिनं नरो हरिं ।
अनन्यधीस्तस्य समस्तसम्पदः
करे स्थिता मण्डलतोऽभिवाञ्छिताः ।। क्रमदीपिका५.८१ ।।

इत्यनेन प्रकारेण प्रगे प्रातःकाले चतुःसप्ततिवारं अमुं हरिं कृष्णं यो नरोऽनुदिनं प्रत्यहं अनन्यधीः एकाग्रचित्तः सन्सन्तर्पयेत्तस्य पुंसः मण्डलतः एकोनपञ्चाशद्दिवसातर्वागिति त्रिपाठिनः अष्टचत्वारिंशद्दिवसाभ्यन्तर इति लघुदीपिकाकारः । पञ्चत्रिंशद्दिवसाभ्यन्तर इति रुद्रधरः । अभिवाञ्छिता आकाङ्क्षिताः सकलसिद्धिसमृद्धयः हस्तस्थिता भवन्ति अत्र सितोपलापुञ्जस्य गणना न कार्या ।। टीका ५.८१ ।।

______________________________

काम्यतर्पणानन्तरं आह

धारोष्णपक्वपयसीदधिनवनीते घृतं च दौग्धान्नं ।
मत्स्यण्डीमध्वमृतं द्वादशशः तर्पयेन्नवभिरेभिः ।। क्रमदीपिका५.८२ ।।

धारोष्णं पयः तदानीन्तनं एव निष्पादितं दुग्धं तथा पक्वं पयः साधितं दुग्धं धारोष्णपक्वे च पयसी च अमू धारोष्णपक्वपयसी । दधि प्रसिद्धं नवनीतं घृतं दौग्धान्नं पायसं मत्स्यण्डी शर्कराविशेषः सशर्करं विनष्टदुग्धं इति त्रिपाठिनः । मधु प्रसिद्धं अमृतं एतैर्नवभिर्द्रव्यैर्द्वादशशवारं तर्पयेत् ।। टीका ५.८२ ।।

______________________________

एतस्य फलं आह

तर्पणविधिरयं अपरः पूर्वोदितसमफलोऽष्तशसङ्ख्यः ।
कार्मणकर्मणि कीर्तौ जनसंवनने विशेषतो विहितः ।। क्रमदीपिका५.८३ ।।

अयं तर्पणप्रकारः पूर्वोक्ततर्पणप्रकाराद्भिन्नः । कीदृशः ? पूर्वकथिततर्पणफलसमफलः । पुनः कीदृशः ? अष्टोत्तरशतप्रमाणकः ततो नवभिर्द्रव्यैर्द्वादशकृत्वा तर्पणेनाष्टोत्तरसङ्ख्या भवति । पुनः कीदृशः ? कार्मणकर्मणि वश्यकरणकर्मणि तथा कीर्तौ सत्कथायां जनसंवनने लोकवशीकरणे लोकप्रियत्वेन वा विशेषेण विहितः ।। टीका ५.८३ ।।

______________________________

तर्पणानन्तरं आह

सखण्डधारोष्णधियामुकुन्दं
व्रजन्पुरग्रामं अपि प्रतर्प्य ।
लभेत भोज्यं सरसं सभृत्यैर्
वासांसि धान्यानि धनानि मन्त्री ।। क्रमदीपिका५.८४ ।।

सखण्डधारोष्णधियामुकुन्दं व्रजन्पुरग्रामं अपि प्रतर्प्य लभेत भोज्यं सरसं सभृत्यैर्वासांसि धान्यानि धनानि मन्त्री ।। टीका ५.८४ ।।

______________________________

तर्पणस्याशेषफलदातृतां तर्पणोत्तरकृत्यं च दर्शयति

यावत्सन्तर्पयेन्मन्त्री तावत्सङ्ख्यं जपेन्मनुं ।
तर्पणेनैव कार्याणि साधयेदखिलान्यपि ।। क्रमदीपिका५.८५ ।।

अखिलानि समस्तानि कार्याणि वाञ्छितानि तर्पणेनैव विनापि पूजाहोमं साधयेत् । अत्र यावत्सङ्ख्यं तर्पणं करोति तावत्सङ्ख्यं मन्त्रं जपेत् ।। टीका ५.८५ ।।

______________________________

प्रयोगान्तरं आह

द्विजोभिक्षावृत्तिर्य इह दिनशो नन्दतनयः
स्वयं भूत्वा भिक्षां अटति विहरन्गोपसुदृशां ।
अमा चेतोभिः स्व्वैर्ललितललितैर्नर्मविधिभिर्
दधिक्सीराज्याढ्यां प्रचुरतरभिक्षां स लभते ।। क्रमदीपिका५.८६ ।।

भिक्षावृत्तिर्जीवनोपायो यस्य स द्विजो त्रैवर्णिको दिनशः प्रतिदिनं स्वयं नन्दतनयो भूत्वा तद्रूपेणात्मानं विचिन्त्य इह भिक्षां अटति याचते । किं कुर्वन्? स्वकीयैर्ललितललितैः अतिमनोहरैः नर्मविधिभिः क्रीडाकर्मभिर्गोपसुदृशां गोपस्त्रीणां चेतोभिः सार्धं विहरनमाशब्दः सहार्थे सदधिदुग्धघृतप्रचुरां बहुभिक्षां प्राप्नोति ।। टीका ५.८६ ।।

______________________________

मध्ये कोणेषु षट्स्वप्यनलपुटस्यालिखेत्कर्णिकायां
कन्दर्पं साध्ययुक्तं विवरगतषडर्णं द्विशः केशरेषु
शक्तिश्रीपूर्वकानि द्विनवलिपिमनोरक्षराणि च्छदानां
मध्ये वर्णान्दशानां दशलिपिमनुवर्यस्य चैकेकशोऽब्जं ।। क्रमदीपिका५.८७ ।।

दशदलपद्मं विलिख्य कर्णिकायां षट्कोणं वह्निगृहं विलिख्य वह्निगृहयुग्मस्य मध्ये षट्कोणेषु विलिखेत् । लेखनप्रकारं आहकर्णिकायां मध्ये साध्यनामसहितं अमुकस्यामुकं सिध्यत्वित्यनेन सहितं कन्दर्पं कामबीजं विलिखेत् । तथा विवरगतं षडर्णं षट्कोणगतवक्ष्यमाणषडक्षरं विलिखेत्तथा केशरेषु दशदलमूलेषु द्विशः द्वौ द्वौ कृत्वा द्विनवलिपिमनोरष्टादशाक्षरमन्त्रस्य शक्तिश्रीपूर्वकानि भुवनेश्वरीबीजश्रीबीजाद्यान्यक्षराणि विलिखेत् । तथा दशानां
पात्राणां मध्ये दशलिपिमनुवर्यस्य दशाक्षरमन्त्रश्रेष्ठस्य वर्णानेकैकशो विलिखेत्ततोऽब्जं पद्मं ।। टीका ५.८७ ।।

भूसद्मनाभिवृतं अस्रगमन्मथेन
गोरोचनाभिलिखितं तपनीयसूच्या ।
पट्टे हिरण्यरचिते गुलिकीकृतं तद्
गोपालयन्त्रं अखिलार्थदं एतदुक्तं ।। क्रमदीपिका५.८८ ।।

भूबिम्बेन चतुरस्रेण वेष्टितं कुर्यात् । कीदृशेन ? भूसद्मना अस्रगमन्मथेन कोणगतकामबीजेन एतदखिलार्थदं गोपालयन्त्रं उक्तं कीदृशं ? सुवर्णशलाकया गोरोचनादिना सुवर्णरचिते पट्टे लिखितं । अनन्तरं वर्तुलीकृतं ।। टीका ५.८८ ।।

______________________________

सम्पातसिक्तं अभिजप्तं इदं महद्भिर्
धार्यं जगत्त्रयवशीकरणैकदक्षं ।
रक्षायशःसुतमहीधनधान्यलक्ष्मी
सौभाग्यलिप्सुभिरजस्रं अनर्घ्यवीर्यं ।। क्रमदीपिका५.८९ ।।

इदं मन्त्रं सम्पातसिक्तं आहूतिदानशेषपुरःस्थितघृतसिक्तं तथा मन्त्रेणाभिमन्त्रितं रक्षाभयनिवारणं यशः सत्कथाप्रकाशः सुतः पुत्रः मही पृथिवी धनं सुवर्णादि लक्ष्मीः सर्वसम्पत्तिः सौभाग्यं सर्वजनप्रियत्वं एतत्प्राप्तुं इच्छद्भिर्महद्भिः शौचयुक्तैः सततं धारणीयं । अयं अर्थःयथोक्तं यन्त्रं सम्पाद्य प्राणप्रतिष्ठां कृत्वा पञ्चामृतादिभिः अभिषिच्य अष्टोत्तरशतं सहस्रं वा सम्पातघृतसिक्तं कृत्वा यथोक्तसङ्ख्यं
जप्त्वा धारयेदिति कीदृशं ? जगत्त्रयवशीकरणैककुशलं । पुनः अनर्घ्यवीर्यं महाप्रभावं ।। टीका ५.८९ ।।

______________________________

यन्त्रस्य दर्शयति धारणादन्यत्राप्युपयोगम्

भूतोन्मादापस्मृतिविषमूर्च्छाविभ्रमज्वरार्तानां ।
ध्यायन्शिरसि प्रजपेन्मन्त्रं इमं झटिति शमयितुं विकृतिं ।। क्रमदीपिका५.९० ।।

भूतः शम्शानदेशवर्ती अदृश्यरूपोऽनिष्टकारी उन्मादश्चित्तविभ्रमः अपस्मृतिरपस्मारणयोगः विषं मूर्छाकारिस्थावरं जङ्गमं च मूर्च्छा अचेष्टा विभ्रमः प्रसादः ज्वरो रोगविशेषः एतैरार्तानां पीडितानां शिरसि मस्तकोपरि इदं यन्त्ररूपं ध्यायनिमं गोपालमन्त्रं जपेत्किं कर्तुं ? विकृतिं झटिति शीघ्रं शमयितुं नाशयितुं ।। टीका ५.९० ।।

______________________________

यन्त्रे षडक्षरमन्त्रं उद्धरति

स्मरत्रिविक्रमाक्रान्तश्चक्रीष्णायहृदित्यसौ ।
षडक्षरोऽयं सम्प्रोक्तः सर्वसिद्धिकरो मनुः ।। क्रमदीपिका५.९१ ।।

स्मरः कामबीजं त्रिविक्रमः ऋकारः तेन क्रान्तः सम्बद्धः चक्री ककारः तथा कृ इति ष्णायेति स्वरूपं हृन्नमः इत्यनेन प्रकारेणासौ षडक्षरोऽयं मन्त्रः सम्प्रोक्तः सर्वसिद्धिकरः अखिलकामदः ।। टीका ५.९१ ।।

______________________________

शक्तिबीजं उद्धरति

क्रोडोऽग्निदीप्तो मायावीलवलाञ्छितमस्तकः ।
सैषा शक्तिः परा सूक्ष्मा नित्या संवित्स्वरूपिणी ।। क्रमदीपिका५.९२ ।।

क्रोडो हकारः । कीदृशः ? अग्निना रेफेण दीप्तः । पुनः मायावी दीर्घईकारः तद्युक्तः । पुनः लवेन बिन्दुना लाञ्छितं मस्तकं यस्य सः । तथा सानुस्वार इत्यर्थः । एषा शक्तिः परा उत्कृष्टा सूक्ष्मा मृणालतन्तुसदृशी नित्या जन्मनाशरहिता संवित्स्वरूपिणी स्वप्रकाशस्वरूपिणी ।। टीका ५.९२ ।।

______________________________

श्रीबीजं उद्धरति

अस्थ्यग्निगोविन्दलवैर्लक्ष्मीबीजं समीरितं ।
आभ्यां अष्टादशलिपिः स्याद्विंशत्यक्षरो मनुः ।। क्रमदीपिका५.९३ ।।

अस्थि शकारः अग्निः रेफः गोविन्दो दीर्घईकारः लवो बिन्दुः एतैः संयुक्तैः श्रीबीजं समीरितं कथितं । आभ्यां शक्तिश्रीबीजाभ्यां सहितः पूर्वोक्ताष्टादशाक्षरमन्त्रः विंशत्यक्षरो भवति ।। टीका ५.९३ ।।

______________________________

परमेश्वरपूजास्थाननियतिं दर्शयति

शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च ।
नित्यं पूजा हरेः कार्या न तु केवलभूतले ।। क्रमदीपिका५.९४ ।।

शालग्रामे प्रसिद्धे मणौ गोमेदपद्मरागादौ यन्त्रेऽस्मिन्नेव गोपालयन्त्रे मण्डले सर्वतोभद्रादौ सोमसूर्याग्निमण्डले वेति रुद्रधरः । प्रतिमासु सुवर्णादिगोपालप्रतिमायां । अत्र हरेर्नित्यं सर्वदा पूजा कार्या न तु केवलायां भूमौ ।। टीका ५.९४ ।।

______________________________

कथितप्रकाराणां फलं दर्शयति

इति जपहुतपूजातर्पणाद्यैर्मुकुन्दं
य इह भजति मवोरेकं आश्रित्य नित्यं ।
स तु सुचिरं अयत्नात्प्राप्य भोगान्विशेषान्
पुनरमलतरन्तद्धाम विष्णोः प्रयाति ।। क्रमदीपिका५.९५ ।।

इति श्रीकेशवभट्टाचार्यविरचितायां क्रमदीपिकायां पञ्चमः पटलः ।

इति कथितप्रकारैर्जपहोमपूजातर्पणैः आदिपदादभिषेकादिना यो मुकुन्दं नित्यं सेवते । किं कृत्वा ? मन्वोर्दशाष्टादशाक्षरयोरेकं गृहीत्वा इह लोके अयत्नात्सुचिरं सर्वकालं सर्वान्भोगान्प्राप्य पुनरन्ते प्रसिद्धं निर्मलं तेजः प्राप्नोति तद्धामाभवतीत्यर्थः ।। टीका ५.९५ ।।

इति श्रीविद्याविनोदगोविन्दभट्टाचार्यविरचिते क्रमदीपिकाया विवरणे
पञ्चमः पटलः