कुमारसम्भवम् - मल्लिनाथः/पञ्चदशः सर्गः

विकिस्रोतः तः
← चतुर्दशः सर्गः कुमारसम्भवम् - मल्लिनाथः
पञ्चदशः सर्गः
कालिदासः
षोडशः सर्गः →
पञ्चदशः सर्गः

सेनापतिं नन्दनमन्धकद्विषो (१)युधे पुरस्कृत्य बलस्य शात्रवः ।

सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती (२)हृदयप्रकम्पिनी ।। १५.१ ।।

{१.युद्धे.२.हृदयस्य कम्पिनी.}
     अन्वयः-- बलस्य शात्रवः सेनापतिम् अन्धकद्विषः नन्दनं पुरस्कृत्य सैन्यैः (सह) युधे उपैति इति हृदयप्रकम्पिनी किंवदन्ती सुरद्विषां पुरः अभूत् ।
     सीo- सेनापतिमिति । बलस्य बलनामकराक्षसस्य शात्रवः शत्रुरेव शात्रवः । प्रज्ञादित्वात्स्वार्थेऽण् । इन्द्रः । सेनापतिं पृतनाधिपम् । अन्धकद्विषो हरस्य नन्दनं पुत्रं कार्तिकेयं पुरस्कृत्याग्रे कृत्वा सैन्यैः सह युधे युद्धाय । युद्धं कर्तुमिति यावत् । `क्रियार्थं-' इत्यादिना चतुर्थी । उपैत्यायाति । इत्येवंभूता हृदयप्रकम्पिनी हृदयं वेपयन्ती किंवदन्ती जनश्रुतिः । `किंवदन्ती जनश्रुतिः' इत्यमरः । सुरद्विषां दैत्यानां तारकनगरनिवासिनां पुरोऽग्रेऽभूत् । सर्गऽस्मिन्निन्द्रवंशोपजाती वृत्ते ।। १५.१ ।।


(३)चमूप्रभुं मन्मथमर्दनात्मजं (४)विजित्वरीभिर्विजयश्रियाश्रितम् ।
श्रुत्वा सुराणां पृतनाभिरा(५)गतं चित्ते(६) चिरं चुक्षुभिरे महासुराः ।। १५.२ ।।

{३.चमूपतिम्.४.विजित्वराभिः.५.आवृतम्,आगमम्.६.स्वान्ते.}
     अन्वयः-- महासुराः विजयश्रियाश्रितं चमूप्रभुं मन्मथमर्दनात्मजं विजित्वरीभिः सुराणां पृतनाभिः (सह) आगतं श्रुत्वा चिरं चित्ते चुक्षुभिरे ।
     सीo- चमूप्रभुमिति । महासुरास्तारकनगरनिवासिनो दैत्या विजयश्रिया विजयलक्ष्म्या श्रितं सेवितम् । एतेनास्य कादाचित्कोऽपि पराभवो न भवतीति ध्वनितम् । अत एव चमूप्रभुं सेनाधिपं मन्मथमर्दनस्य शिवस्यात्मजम् । अनेन यदीयः पिता सकलभुवनजेतुर्मकरध्वजस्यापि प्लोषिता, अतोऽस्य किं वक्तव्यम् । `कार्यं निदानाद्धि गुणानधीते', `प्रवर्तितो दीप इव प्रदीपात्' इत्यादिन्यायेन तारकेणाप्ययं दुर्जेय इति ध्वनितम् । तं कार्तिकेयं विजित्वरीभिर्जयशीलाभिः । जयतेः `इण्नशजिसर्तिभ्यः क्वरप्' इति क्वरपि परे `ह्रस्वस्य पिति' इति तुकि कृते `टिड्ढा-' इत्यनेन ङीप् । सुराणां देवानां पृतनाभिः सहागतमायातं श्रुत्वा चिरं बहुकालपर्यन्तं चित्ते मनसि चुक्षुभिरे संचेलुः । बिभ्युरित्यर्थः । `क्षुभ संचलने' कर्तरि लिट् । अत्र वाच्यापेक्षया व्यङ्ग्यार्थस्य अधिकचमत्कृतिजनकत्वाद् ध्वनिः ।। १५.२ ।।


समेत्य दैत्याधिपतेः (१)पुरे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
न्यवेदयन्मन्मथ(२)शत्रुसूनुना युयुत्सुना (३)जम्भजितं (४)सहागतम् ।। १५.३ ।।

{१.पुरः.२.दूनसूनुना,शत्रुसूनुम्.३.जम्भजिता.४.समागतम्.}
     अन्वयः-- दैत्याऽधिपतेः पुरे स्थिताः ते समेत्य किरीटबद्धाऽञ्जलयः प्रणम्य युयुत्सुना मन्मथशत्रुसूनुना सह आगतं जम्भजितं न्यवेदयन् ।
     सीo- समेत्येति । दैत्याधिपतेस्तारकस्य पुरे नगरे स्थितास्ते महासुराः समेत्य समुदित्य । संघीभूयेति यावत् । तथा किरीटेषु मुकुटेषु बद्धोऽञ्जलिर्यैस्तथा सन्तः प्रणम्य युयुत्सुना योद्धुमिच्छुना मन्मथशत्रोः शिवस्य सूनुना पुत्रेण कुमारेण सहागतं जम्भजितमिन्द्रं न्यवेदयन् । शंभुपुत्रो महेन्द्र आगत इति निवेदितवन्त इत्यर्थः ।। १५.३ ।।


दासीकृताशेषजगत्त्रयं (५)न मां जिगाय युद्धे कतिशः शचीपतिः ।
गिरीशपुत्रस्य बलेन सांप्रतं ध्रुवं (६)विजेतेति (७)स काकुतोऽहसत् ।। १५.४ ।।

{५.तु,नु.६.इव,एव.७.सकाकु सोऽहसत्.}
     अन्वयः- `दासीकृताऽशेषजगत्त्रयं मां शचीपतिः कतिशः युद्धे न जिगाय । साम्प्रतं गिरीशपुत्रस्य बलेन ध्रुवं विजेता' इति स काकुतः अहसत् ।
     सीo- दासीकृतेति । दासीकृतं भृत्यीकृतम् । `दासो भृत्ये च शूद्रे च' इति मेदिनी । अशेषजगत्त्रयम् समस्तलोकत्रितयं येन तथाभूतं मां शचीपतिरिन्द्रः कतिशः कतिवारं युद्धे न जिगाय जयति स्म । अपि त्वमेकवारं जिगायेति काकुः । जयनिषेधस्य काक्वाश्रितत्वाज्जयनिषेध एव ध्वन्यते । सांप्रतं वर्तमानकाले गिरीशपुत्रस्य कुमारस्य बलेन वीर्येण तदाश्रयेणेत्यर्थः । ध्रुवं निश्चयेन विजेता विजेष्येत इति स तारकः काकुतः काक्वाहसज्जहास । कदाचिदपि न विजेष्यत इति ध्वन्यते ।। १५.४ ।।


ततः क्रुधा विस्फुरिता(१)धराधरः स तारको दर्पितदोर्बलोद्धतान्(२) ।
युधे (३)त्रिलोकीजयकेलिलालसः सेनापतीन् संनहनार्थमादिशत् ।। १५.५ ।।

{१.अधरच्छदः.२.बलात् निजान्.३.युद्ध.}
     अन्वयः- ततः क्रुधा विस्फुरिताऽधरः (तथा) त्रिलोकीजयकेलिलालसः स तारकः दर्पितदोर्बलोद्धतान् सेनापतीन् युधे सन्नहनाऽर्थम् आदिशत् ।
     सीo- तत इति । ततोऽनन्तरं क्रुधा क्रोधेन निमित्तेन विस्फुरित उच्छ्वसितोऽधरोऽनूर्ध्वं ओष्ठो यस्य । प्रसिद्धं चैतद्यत्क्रोधवशादधरविस्फुरणम् । तथाऽधरो हीनः । नीच इति यावत् । `अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वं च वाच्यवत्' । इति मेदिनी । विस्फुरिताधरश्चासावधरश्चेति विशेषणसमासः । तथा त्रिलोक्या जय एव केलिः क्रीडा,तस्यां । लालसेच्छा यस्य । अनायासेनैव त्रिलोकीं जेष्यामीत्यभिमानवानित्यर्थः । एवंभूतः स तारकोऽसुरो दर्पिताः संजातदर्पास्तथा दोर्बलेन भुजबलेनोद्धतान् प्रगल्भान्सेनापतीन् सेनाधिपान्युधे युद्धाय । युद्धं कर्तुमित्यर्थः । संनहनार्थं संनद्धीभवनार्थंमादिशदाजज्ञे । `युद्धे' इति पाठे युद्धे विषये त्रिलोकीजयकेलि विलास इत्यन्वयितव्यम् ।। १५.५ ।।


महाचमूनामधिपाः समन्ततः संनह्य सद्यः सुतरामुदायुधाः ।
तस्थुर्विनम्रक्षितिपालसंकुले (४)तदङ्गनद्वारवरप्रकोष्ठके ।। १५.६ ।।

{४.तदङ्गणद्वारि बहिः प्रकोष्ठके,तदङ्गणद्वारबहिःप्रकोष्ठके.}
     अन्वयः- उदायुधाः महाचमूनाम् अधिपाः सद्यः सुतरां सन्नह्य विनम्रक्षितिपालसङ्कुले तदङ्गनद्वारप्रकोष्ठके समन्ततः तस्थुः ।
     सीo-- महेति । उदायुधा उद्धतान्यायुधानि शस्त्राणि यैरेवंभूता महाचमूनां महतीनां सेनानामधिपाः स्वामिनः सद्यस्त्वरितं सुतरां संनह्य संनद्धा भूत्वा विनम्रा ये क्षितिपाला राजानस्तैः संकुले व्याप्ते तस्य तारकस्य यदङ्गनद्वारं चत्वरप्रवेशद्वारं तस्य वरः श्रेष्ठो यः प्रकोष्ठोऽन्तरम् । मध्यमिति यावत् । `प्रकोष्ठो मणिबन्धे स्यात्कूर्परस्यान्तरेऽपि च' । इति मेदिनी । तत्र समन्ततः सर्वतस्तस्थुः । नृपं प्रतीक्षमाणा इति शेषः । `समन्ततस्तु परितः सर्वतो विष्वगित्यपि' । इत्यमरः ।। १५.६ ।।


स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बाहुवरान(१)धिष्ठितान् ।
महाहवाम्भोधिविधूननोद्धतान्ददर्श(२) (३)राजा (४)पृतनाधिपान्बहून्(५) ।। १५.७ ।।

{१.वाहवरान्.२.ननन्द.३.दैत्यः,पश्यन्.४.पृतनायुधान्.५.निजान्.}
     अन्वयः- स राजा पुरः द्वारपालेन प्रदर्शितान् कृतानतीन् बाहुवरान् अधिष्ठितान् महाहवाऽम्भोधिविधूननोद्धतान् बहून् पृतनाऽधिपतीन् ददर्श ।
     सीo- स इति । स राजा तारकः पुरोऽग्रे द्वारपालेन प्रदर्शितान्कृतानतीन् बाहुवरान्बाहवो वराः श्रेष्ठा येषां तथोक्तानधिष्ठितान् । द्वार इति शेषः । महाहवरुपिणोऽम्भोधेः समुद्रस्य विधूनने कम्पन उद्धतान्प्रगल्भान् । महावीरानित्यर्थः । `संव्रामाभ्यागमाहवाः' इत्यमरः । बहून् पृतनाधिपान् सेनापतीन्ददर्श दृष्टवान् । `अदभ्रं बहुलं बहु' इत्यमरः ।। १५.७ ।।


बली(६) बलारातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनम्(७) ।
महीधराम्भोधिन(८)वारितक्रमं ययौ रथं घोरमथाधिरुह्य सः ।। १५.८ ।।

{६.ततः.७.दानद्रवनाशनस्वनम्,दानद्रवदाननिःस्वनम्.८.अम्भोध्यनिवारित,अम्भोधिनिवारितः.}
     अन्वयः- अत बली स बलाऽरातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनं महीधराऽभोधिम् अवारितक्रमं घोरं रथम् अधिरुह्य ययौ ।
     सीo- बलीति । अथानन्तरं बली वीर्यवान्स तारको बलारातोरिन्द्रस्य सम्बन्धिनो बलस्य सैन्यस्य । `बलं गन्धरसे रुपे स्थामनि स्थौल्यसैन्ययोः' । इति मेदिनी । अतिशातनं तनूकर्तारम् । हन्तारमित्यर्थः । दिग्दन्तिनामैरावतादीनां नादद्रवयोर्घोषमदयोर्नाशनो नाशकः स्वनो घोषो यस्य तम् । यदीयधोषवशाद्दिग्दन्तिनोऽपि तूष्णीं शुष्कमदाश्च भवन्तीति भावः । महीधरेषु पर्वतेष्वम्भोधिषु च नवारितक्रममनिवारितसंचारम् । न शब्देन सह `सुप्सुपा' इति समासः । घोरं भीमं रथमधिरुह्य ययौ जगाम । प्रतस्थ इति यावत् ।। १५.८ ।।


युगक्षयक्षुब्धपयोधिनिःस्वनाश्चलत्पताकाकुलवारितातपाः ।
धरारजोग्रस्तदिगन्तभास्कराः (१)पतिं प्रयान्तं पृतनास्तमन्वयुः ।। १५.९ ।।

{१.प्रति प्रयातुम्,प्रतिप्रयातम्.}
     अन्वयः-- युगक्षयक्षुब्धपयोधिनिःस्वनाः चलत्पताकाकुलवारितातपाः धरारजोग्रस्तदिगन्तभास्कराः पृतनाः ; प्रयान्तं पतिं तम् अन्वयुः ।
     सीo- युगेति । युगक्षये प्रलयकाले क्षुब्धः संचलितोः यः पयोधिः समुद्रस्तस्य निःस्वन इव निस्वनो यासाम् । प्रलयकालाद्रेलीभूतसागरसदृशघोरघोषा इत्यर्थः । चलन्तीनां पताकानां वैजयन्तीनाम् । `पताका वैजयन्त्यां स्यात्सौभाग्ये नाटकाङ्कयोः' । इति मेदिनी । कुलेन समूहेन वारितातपा दूरीकृतधर्मा धराया भूमे रजोभिर्ग्रस्ता दिगन्तानि दिक्प्रान्तानि भास्करश्च याभिस्तथाभूताः पृतनाः सेनाः, कर्त्र्यः । प्रयान्तं प्रतिष्ठमानं तं पतिं तारकासुरमन्वयुः अनुजग्मुरित्यर्थः ।। १५.९ ।।


चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं (२)प्रसर्पिणः ।
दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बुघनेषु(३) पङ्कताम् ।। १५.१० ।।

{२.प्रसर्पतः.३.दानाम्बुधरेषु.}
     अन्वयः- अभिसुरं प्रसर्पिणः महासुरस्य चमूरजः दिगन्तदन्तिनां सितेषु दन्तप्रकाण्डेषु शुभ्रतां दानाऽम्बुघनेषु कुम्भेषु पङ्कतां आप ।।
     सीo-- चमूरज इति । अभिसुरं सुरसंमुखं प्रसर्पिणः प्रतिष्ठमानस्य महासुरस्य तारकस्य सम्बन्धिनीनां चमूनां रजो रेणुः । दिगन्तदन्तिनामैरावतादीनां सितेषु शुभ्रेषु दन्तप्रकाण्डेषु । दन्तरुपासु शाखास्वित्यर्थः । `प्रकाण्डो न स्त्री विटपेमूलशाखान्तरे तयोः' इति मेदिनी । शुभ्रतां दानाम्बुना मदजलेन घनेषु सघनेषु कुम्भेषु मूर्धान्तरेषु । गण्डस्थलेष्विति यावत् । `कुम्भो राश्यन्तरे हस्तिमूर्धान्ते राक्षसान्तरे' । इति मेदिनी । पङ्कतां कर्दमताम् । `पङ्कोऽस्त्री कर्दमे पाप' इति मेदिनी । प्राप । धवलिमाश्रयीभूतसम्बन्धेन युक्तं हि धवलत्वमिति भावः । अन्यत्स्फुटम् ।। १५.१० ।।


महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
(१)उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्त्रवन्ती सहसाऽभ्यवर्धत(२) ।। १५.११ ।।

{१.उद्वेजिताः.२.व्यवर्धत.}
     अन्वयः-- महीभृतां कन्दरदारणोल्बणैः घनैः तद्वाहिनीनां पटहस्वनैः उद्वेलिताः महार्णवा चुक्षुभिरे (तथा) नभःस्त्रवन्ती सहसा अभ्यवर्द्धत ।
     सीo- महीभृतामिति । महीभृतां पर्वतानां सम्बन्धिनो ये कन्दरा दर्यः, तेषां दारणे स्फोटन उल्बणैरुद्भटैः । आत्मव्याप्तिवशात्स्फोटद्भिरिव भासमानैरित्यर्थः । तथा घनैर्द्दढैः । कठोरैरिति यावत् । `घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लोहिमुद्गरे । त्रिषु सान्द्रे दृढे च' इति मेदिनी । तद्वाहिनीनां तारकसेनानां सम्बन्धिनो ये पटहा आनकाः । `पटहो ना समारम्भ आनके पुंनपुंसकम्' इति मेदिनी । तेषां स्वनैः कर्तृभिः उद्वेलिता वेलामतिक्रमिता महार्णवा महान्तः समुद्राश्चुक्षुभिरे संचेलुः । पटहध्वनिजनितभयादिति भावः । तथा नभःस्रवन्त्याकाशगङ्गा च सहसाऽकस्मादभ्यवर्धत । अतिवेला बभूवेत्यर्थः ।। १५.११ ।।


सुरारिनाथस्य महाचमूस्वनैर्विगाह्यमाना तुमुलैः सुरापगा ।
अभ्युच्छ्रितै(३)रूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेतनावलीम्(४) ।। १५.१२ ।।

{३.ऊर्मिशतैरवारितैः.४.निवेतनावलीः.}
     अन्वयः-- तुमुलैः सुराऽरिनाथस्य महाचमूस्वनैः विगाह्यमाना सुरापगा अभ्युच्छ्रितैः वारिजैः ऊर्मिशतैश्च नाकनिकेतनावलीम् अक्षालयत् ।
     सीo-- सुरारिनाथस्येति । तुमुलैः संकुलैः `तुमुलः कलिवृक्षे ना तुमुलं रणसंकुले' । इति मेदिनी । सुरारिरेव नाथो राजा तस्य । यद्वा सुरारीणां नाथो राजा तस्य । सम्बन्धिनां महाचमूनां स्वनैः शब्दैर्विगाह्यमाना व्याप्यमाना सुरापगा मन्दाकिनी । अभ्युच्छ्रितैरध्युत्पतितैर्वारिजैर्वारिजानि कमलानि विद्यन्ते येषु तैः ।कमलसहितैरित्यर्थः । `अर्शआदिभ्यः-' इत्यच् । ऊर्मिशतैस्तरङ्गशतकैश्च । `भङ्गस्तरङ्ग ऊर्मिर्वा' । इत्यमरः । नाकनिकेतनाकलीं स्वर्गवेश्मपङ्क्तिमक्षालयन्ममार्ज ।। १५.१२ ।।


अथ प्रयाणाभिमुखस्य नाकिनां (१)द्विषः पुरस्तादशुभोपदेशिनी ।
(२)अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातपरम्परा तव ।। १५.१३ ।।

{१.द्विषः पुरस्तादशुभौघदायिनी;पताकिनीं प्रत्यसुरेश्वरस्य हि.२.अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातततिर्विशंसती;मुहुर्महारिष्टपरम्परा परापतन्मृत्युमहापताकिनी.}
     अन्वयः- अथ प्रयाणाऽभिमुखस्य नाकिनां द्विषः पुरस्तात् `तव अगाधदुःखाऽम्बुधिमध्यमज्जनम् अशुभोपदेशिनी उत्पातपरम्परा बभूव ।'
     सीo- अथेति । अथानन्तरं प्रयाणाभिमुखस्य प्रस्थानसंमुखस्य नाकिनां देवानां द्विषो वैरिणस्तारकस्य पुरस्तादग्रे भो तारक, तव त्वत्कर्मकम् । अगाधोऽतलस्पर्शः । `अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम्' इति मेदिनी । यो दुःखाम्बुधिर्दुःखसमुद्रस्तन्मध्ये मज्जनं भविष्यति ' इत्येवमशुभोपदेशिन्यशुभवादिन्युत्पातपरम्परा दुःशकुनपंक्तिर्बभूव ।। १५.१३ ।।


इतः परम् `आगामिदैत्याशने -' त्यादिभिरेकादशभिरुत्पातपरम्परामेव प्रपञ्चयति-

(३)आगामिदैत्याशनकेलिकाङ्क्षिणी (४)कुपक्षिणां घोरतरा परम्परा ।
दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा ।। १५.१४ ।।

{३.भविष्यदैत्याशनकेलिकामिनी.४.द्युपक्षिणाम्.}
     अन्वयः- घोरतरा कुपक्षिणां परम्परा आगामि दैत्याऽशनकेलिकाङ्क्षिणी सुराऽरिवाहिनीः उपर्युपरि एत्य निवारितातपा (सती) व्योम्नि पदं दधौ ।
     सीo- आगामीति । घोरतरातिशयभयानका कुपक्षिणां गृघ्रादीनां कपोतादीनां वा परम्परा । आगामि भविष्यद्यद्दैत्यस्याशनकेलिर्भोजनक्रीडा तत्कांक्षतीति तथाभूता । तथा सुरारिवाहिनीस्तारकसेना उपर्युपरि । `उपर्यध्यधसः सामीप्ये' इति द्विर्भावः । तद्योगे द्वितीया । तदुक्तं वामनेन- `उपर्यादिषु सामीप्यं द्विरुक्तेषु द्वितीयया' । इति । अनिवारितातपा न निवारितघर्मा च सती व्योम्न्याकाशे पदं स्थानं दधौ धृतवती । अनेन पद्येन प्रयाणानौचित्यद्योतकमुत्पातद्वयं वर्णितम् । तथाहि-आकस्मिकोपरि वृत्तिः आतपानिवृत्तिश्च । तस्मात्सर्वथैवास्य मरणं भविष्यतीति सूच्यते ।। १५.१४ ।।


मुहु(१)र्विभग्नातपवारणध्वजश्चलद्धराधूलिकुलाकुलेक्षणः ।
(२)धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ।। १५.१५ ।।

{१.विभिन्न.२.धूताश्वमातङ्गमहारथव्रजोऽनवक्षणोऽभूत्;जनाश्वमातङ्गमहारथव्रजानवेक्षमाणः.}
     अन्वयः-- विभग्नातपवारणध्वजः चलद्धराधूलिकुलाकुलेक्षणः धूताऽश्वमातङ्गमहारथाकराऽनवेक्षणः प्रसभं प्रभञ्जमः अभूत् ।
     सीo- मुहुरिति । विभग्ना त्रोटिता आतपवारणसहिता ध्वजा येन । चलन्त्यो विसरन्त्यो या धराधूलयः पृथिवीरजांसि तासां कुलेन साधनीभूतेनाकुलानि व्याकुलीकृतानीक्षणानि लोकनेत्राणि येन । तथा धूतस्य कम्पितस्य । नभसि भ्रमितस्येति यावत् । अश्वानां मातङ्गानां महारथानां चाकरस्य निकरस्य । `आकरो निकरे रत्नस्थाने श्रेष्ठे च कथ्यते' इति मेदिनी । अनवेक्षणमदर्शनं येन । आच्छादितसकलसेनाङ्गः प्रभञ्जनो वायुः । `पवमानप्रभञ्जनाः' इत्यमरः । अभूदुत्पन्नः । `मुहु' `प्रसभम्' इत्यस्य विशेषणत्रयेऽपि सम्बन्धः । अयं तृतीय उत्पातः ।। १५.१५ ।।


सद्यो विभिन्नाञ्जनपुञ्ज(३)तेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
पुरः (४)पथोऽतीत्य महाभुजङ्गमा भयंकराकारभृतो भृशं ययुः ।। १५.१६ ।।

{३.संनिभाः.४.परोत्पात.}
     अन्वयः- सद्यो विभिन्नाऽञ्जनपुञ्जतेजसः उच्चकैः भृशं भयङ्कराकारभृतः महाभुजङ्गमा पुरः मुखैः विषाऽग्निं विकिरन्तः पथः अतीत्य ययुः ।
     सीo-- सद्य इति । सद्यो विभिन्नं तत्क्षणपतितं यदञ्जनं कज्जलम् । `अञ्जनं कज्जले चाक्तौ सौवीरे च रसान्तरे' । इति मेदिनी । तस्य पुञ्ज इव निकर इव तेजो धाम येषाम् । नूतनपातितकज्जलसमूहश्यामभास इत्यर्थः । उच्चकैर्महान्तः । विस्तीर्णा इति यावत् । तथा भृशं भयकराकारभृतः । अतिभीषणस्वरूपधारिण इत्यर्थः । महाभुजंगमा महान्तः सर्पाः पुरोऽग्रे विषाग्निं गरलरूपमग्निम् । `क्ष्वेडस्तु गरलं विषम्' इत्यमरः । विकिरन्तो विक्षिपन्तः सन्तः पथः सैन्यगन्तव्यमार्गानतीत्य पूर्वविहितात्मसम्बन्धेन वियोज्य ययुः । चतुर्थोऽयमुत्पातः ।। १५.१६ ।।


मिलन्महाभीमभुजङ्गभूषणं प्रभुर्दिनानां परिवेषमादधौ ।
महासुरस्य द्विषतोऽति(१)मत्सरादि(२) वान्तमासूचयितुं भयङ्करः ।। १५.१७ ।।

{१.नुमत्सरात्;नमत्सरात्.२.आत्तमास्यं प्रयतुर्भयंकरम्;आत्तमास्वप्रयतुर्भयंकराः.}
     अन्वयः- दिनानां प्रभुः द्विषतः महासुरस्य अन्तम् आसूचयितुं मिलन्महाभीमभुजङ्गभीषणं परिवेषम् अतिमत्सरात् इव भयङ्करः आदधौ ।
     सीo-- मिलदिति । दिनानां प्रभुः सूर्यो द्विषतः शत्रुभूतस्य `द्विषद्द्वेषणदुर्हृदः' इत्यमरः । महासुरस्य तारकस्यान्तं विनाशम् । मरणमिति यावत् । `अन्तःस्वरुपे नाशे ना स्त्री शेषे चान्तिके त्रिषु' । इति मेदिनी । आसूचयितुं ज्ञापयितुं मिलन्तः संयुजन्तः । तथा महाभीमा अतिभयंकरा ये भूजङ्गाः सर्पास्तैर्भीषणं भयदं परिवेषं परिधिं कुण्डलाकारम् । `परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । अतिमत्सरादिवादधौ धृतवान् । विनाशरुपफलसूचकपरिवेषाधाने मत्सरस्य हेतुत्वाभावेऽपि हेतुत्वकल्पनाद्धेतूत्प्रेक्षा । अत एव भयंकरो विभीषकः । `मेघर्ती-' ति खश् । पञ्चमोऽयमुत्पातः ।। १५.१७ ।।


त्विषामधीशस्य पुरोऽ(३)धिमण्डलं शिवाः समेताः परुषं ववाशिरे ।
(४)सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ।। १५.१८ ।।

{३.अभिमण्डलम्.४.सुराधिराजस्य.}
     अन्वयः-- त्विषाम् अधीशस्य अधिमण्डलं समेताः शिवाः सुराऽरिराजस्य रणाऽन्तशोणितं द्रुतं प्रसह्य पातुम् उत्सुका इव परुषं ववाशिरे ।
     सीo- त्विषामिति । त्विषां तेजसामधीशस्य रवेरधिमण्डला इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । समेताः समुदिताः शिवाः क्रोष्ट्र्यः । `शिवा झाटामलौषधौ । अभयामलकी गौरी क्रोष्ट्रीशक्रफलासु च' । इति विश्वः । सुरारिराजस्य तारकस्य सम्बन्धिनि रणान्ते संग्रामसमीपे यच्छोणितं रक्तं द्रुतं शीघ्रं प्रसह्य बलात्पातुं पानं कर्तुमुत्सुका इव परुषं कठोरं यथा ववाशिरे चुक्रुशुः । अत्रोत्पातद्वयम् । मार्तण्डमण्डलाधिकरणकं शिवासमुदितत्वं तत्कर्तृककठोररुदितं चेति । षष्ठसप्तमावेतावुत्पातौ ।। १५.१८ ।।


दिवापि तारास्तरला(१)स्तरस्विनीः परापतन्तीः परितोऽथ(२) वाहिनीः ।
विलोक्य (३)लोको मनसा (४)व्यचिंन्तयत्प्राणव्ययान्तं(५) व्यसनं सुरद्विषः ।। १५.१९ ।।

{१.तदानिशम्.२.अभिवाहिनीम्.३.लोकाः.४.व्यचिन्तयन्.५.प्राणात्ययान्तं व्यसनम्.}
     अन्वयः- अत दिवा अपि तरलाः तरस्विनीः ताराः वाहिनीः परितः परापतन्तीः विलोक्य लोकः मनसा सुरद्विषः प्राणव्ययाऽन्तं व्यसन्नम् अचिन्तयत् ।
     सीo- दिवापीति । अथ दिवापि दिनेऽपि तरलाश्चञ्चलाः तरस्विनीर्वेगवतीः । `रंहस्तरसी तु रयः स्यदः' इत्यमरः । तारा नक्षत्राणि, वाहिनीः परितः `अभितः परितः समये-' त्यादिना द्वितीया । परापतन्तीर्विलोक्य लोको मनसा सुरद्विषः सम्बन्धि प्राणव्ययान्तं प्राणनाशावधिव्यसनं व्यचिन्तयत् । प्राणनाशावधि राज्ञो दुःखं भविष्यतीति चिन्तयामासेत्यर्थः । अष्टमोऽयमुत्पातः ।। १५.१९ ।।


(६)ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
रवेण रौद्रेण (७)हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ।। १५.२० ।।

{६.चलद्भिः.७.दिगन्तदारणम्.}
     अन्वयः- निरम्बुदात् नभसः अभितः ज्वलद्भिः प्रभाभरैः उच्चैः उद्भासिताऽऽशेषदिगन्तराऽम्बरं रौद्रेण रवेण हृदन्तदारणं वज्रं पपात ।
     सीo- ज्वलद्भिरिति । निरम्बुदादनुद्भूतमेघान्नभसो व्योम्नः सकाशादभितो ज्वलद्भिः प्रस्फुरद्भिः प्रभाभरैः कान्तिसमूहैः कृत्वा । उच्चैरतिशयितं यथा तथोद्भासितानि प्रकाशितान्यशेषदिगन्तराणि समस्तदिशां प्रान्तगतानि येन । तथा रौद्रेण भयानकेन रवेण घोषेण हृदन्तस्योरोमध्यस्य दारणं विदारकं वज्रं स्फूर्जथुः पपात । `स्फुर्जथुर्वज्रनिर्घोषः' इत्यमरः । अत्राप्युत्पातद्वयं अम्बुदसांनिध्याभावेऽपि वज्रदर्शनं तत्पातश्चेति । एवं नवमदशमावुत्पातावुक्तौ ।। १५.२० ।।


(१)ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
(२)धूमं ज्वलन्त्यो व्यसृजन्मुखै(३) रजो दधुर्दिशो रासभकण्ठधूसरम् ।। १५.२१ ।।

{१.अङ्गारभर.२.धूम्रम्.३.मुखे.}
     अन्वयः- नभस्तलं ज्वलद्भिः अङ्गारचयैः (तथा) शोणिताऽस्थिभिः सह गाढं ववर्ष । ज्वलन्त्यश्च दिशः रासभकण्ठधूसरं रजः दधुः, मुखैः धूमं व्यसृजन् ।
     सीo- ज्वलद्भिरिति । नभस्तलम् । निरम्बुदं सदिति शेषः । ज्वलद्भिरङ्गारचयैः काष्ठशकलसमूहैः । तथा शोणितास्थिभिश्च सह गाढं दृढम् । बह्विति यावत् । ववर्ष । ज्वलदङ्गाररुधिरास्थिगर्भितं जलं ववर्षेत्यर्थः । अम्बुदसांनिध्याभावेऽपि वृष्ठिरेकादशतमोऽयमुत्पातः । साप्यङ्गारादिमिश्रितेति द्वादशतमः । अत एव ज्वलन्त्यो दिशो रासभकण्ठधूसरं खरगलसदृशधूसरवर्णम् । `रासभो गर्दभे क्षुद्रजन्तुरोगप्रभेदयोः' । इति मेदिनी । धूमं धूमरुपं रजोरेणुं मुखैः प्रारम्भप्रदेशैर्व्यसृजंस्तत्यजुः । त्रयोदशतमोऽयमुत्पातः ।। १५.२१ ।।


निर्घातघोषो (४)गिरिश्रृङ्गशातनो (५)घनोऽम्बराशाकुहरोदरम्भरिः ।
बभूव (६)भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जित(७)गर्जितर्जनः ।। १५.२२ ।।

{४.गिरिश्रृङ्गघातनैः,गिरिश्रृङ्गशातनैः.५.धराम्बराशाकुहरोदरंभरिः.६.भूमा.७.गर्जितस्वनः,गर्जतर्जनः.}
     अन्वयः- प्रकोपिकालाऽर्जितगर्जितर्जनः अम्बराशाकुहरोदरम्भरिः गिरिशृङ्गशातनः घनः निर्घातकोषः भूम्ना श्रुतिभित्तिभेदनः बभूव ।
     सीo- निर्घातेति । प्रकोपिना प्रकृष्टरोषेण कालेन यमेनार्जितोत्पादिता गर्जिनी गर्जनां कुर्वती तर्जनापकारगीर्यत्र । अत एवाम्बरस्याशानां च कुहरेणान्तरेणोदरंभरिः, अत एव गिरीणां श्रृङ्गस्य शातनो भेदकः तथा घनः सान्द्रो निर्घातश्चासौ घोषश्च स भूम्ना बाहुल्येन श्रुतिभित्तिभेदनः कर्णकुड्यताडनो बभूव । चतुर्दशतमोऽयमुत्पातः ।। १५.२२ ।।


(१)स्खलन्महेभं (२)प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः ।
(३)प्रक्षुभ्यदंभोधिविभिन्नभूधराद्(४) बलं(५) द्विषोऽभूदवनि(६) प्रकम्पात् ।। १५.२३ ।।

{१.चलन्.२.प्रणयत्तुरंगमम्.३.संक्षुभ्यत्.४.भूधरम्.५.पुरः.६.प्रकम्पनम्;प्रकम्पत.}
     अन्वयः- द्विषः बलं प्रक्षुभ्यदम्भोधिविभिन्नभूधरात् अवनिप्रकम्पात् स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः अभूत् ।
     सीo- स्खलदिति । द्विषस्तारकस्य बलं सैन्यम् । `बलं गन्धरसे रुपे स्थामनि स्थौल्यसैन्ययोः' इति विश्वः । प्रक्षुभ्यद्भिरुन्मथ्यमानैरम्भोधिभिर्विभिन्ना विदीर्णा भूधराः पर्वता यत्र । प्रोत्पद्यमानविकटतरधरणिकम्पप्रोच्छलत्समुद्वेलज्जलधिघोरतरप्रवाहस्फुटन्तो धराधरा बभूवुरिति भावः । एवंभूतादवनिप्रकम्पात्भूकम्पाद्धेतोः स्खलन्महेभं मूर्च्छद्बृहत्करीन्द्रं प्रपतत्तुरङ्गमं प्रकृष्टपतद्वाजिराजं परस्पराश्लिष्टोभयवदन्योन्यासंसक्ताननो यत्र तथाभूतं बभूव । पञ्चदशतमोऽयमुत्पातः ।। १५.२३ ।।


ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना(७) मिथो रुदन्तः करुणेन निर्ययुः ।। १५.२४ ।।

{७.पातिना.}
     अन्वयः- सर्वे श्वानः समेत्य उर्ध्वीकृतास्याः रविदत्तवृष्टयः करुणेन श्रवणाऽन्तशातिना स्वरेण मिथः रुदन्तः सुरविद्विषः पुरः निर्ययुः ।
     सीo- उर्ध्वीकृतास्या इति । सर्वे श्वानः समेत्य समुदेत्योर्ध्वीकृतास्या उर्ध्वदिशाविहितवदनाः । तथा रविदत्तदृष्टयः सूर्यनिबद्धलोचनाः । तथा करुणेन करुणरसपूरितेनात एव श्रवणान्तशातिना कर्णमध्यतनूकारिणा स्वरेण शब्देन कृत्वा रुदन्तः क्रोशन्तः सन्तः सुरविद्विषस्तारकस्य पुरोऽग्रे निर्ययुर्निरगच्छन् । षोडशतमोऽयमुत्पातः ।। १५.२४ ।।


(१)अपीति पश्यन्परिणामदारुणां (२)महत्तमां गाढमरिष्टसंततिम् ।
दुर्दैवदष्टो न(३) (४)खलु (५)न्यवर्तत क्रुधा प्रयाणव्यवसायतो सुरः ।। १५.२५ ।।

{१.इति प्रपश्यन्.२.महत्तरम्.३.दष्टः.४.खलः.५.निर्वर्तते.}
     अन्वयः- इति गाढं परिणामदारुणां महत्तमाम् अरिष्टसन्ततिं पश्यन् अपि असुरः दुर्दैवदष्टः (सन्) क्रुधा प्रयाणव्यवसायतः न न्यवर्तत ।
     सीo- अपीति । गाढं दृढं यथा तथा परिणाम उत्तरकाले दारुणां भयप्रदां महत्तमामतिशयमहतीमरिष्टसंततिमुत्पातपरम्परां पश्यन्नपि असुरस्तारकः क्रुधाऽमर्षेण प्रयाणव्यवसायतः प्रस्थानोद्योगान्न न्यवर्तत न निवृत्तः खलु । यतो दुर्दैवेन दुरदृष्टेण दष्टो हतः । `विनाशकाले विपरीतबुद्धिः' इति न्यायादिति भावः ।। १५.२५ ।।


अरिष्टमाशङ्क्य विपाकदारुणं (६)निवार्यमाणोऽपि(७) बुधैर्महा(८)सुरः ।
पुरः प्रतस्थे महतां वृथा भवेदसद्ग्रहान्धस्य (९)हितोपदेशनम् ।। १५.२६ ।।

{६.निवार्यमाणः.७.विबुधै,विबुधैः,विविधैः.८.महासुरैः.९.हितोपदेशनाः,हितोपदेशिता.}
     अन्वयः- महासुरः विपाकदारुणम् अरिष्टम् आशङ्क्य निवार्यमाणः अपि पुरः (एव) प्रतस्थे ; असद्ग्रहाऽन्धस्य महतां हितोपदेशनं वृथा भवेत् ।
     सीo- अरिष्टेति । महासुरस्तारकोऽरिष्टं विपाक उत्तरकाले दारुणं भयदमाशङ्क्य तर्कयित्वा निवार्यमाणो निषिध्यमानोऽपि पुर एव प्रतस्थे, न तु पश्चान्निववृते । तथाहि । महतां महता कृतम् असद्ग्रहेणनधस्याविवेकिनः हितस्योपदेशनं वृथा व्यर्थं भवेत् । दुराग्रहशीलस्य सम्यगुपदेशोऽपि तदमततया व्यर्थः, स्यादिति भावः ।। १५.२६ ।।


इदानीं पञ्चभिः पञ्चमहोत्पातानाह--

क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरघर्मवारणम् ।
रराज मृत्योरिव पारणाविधौ प्रकल्पितं(१०) हाटकभाजनं महत् ।। १५.२७ ।।

{१०.राजतपानभाजनम्.}
     अन्वयः- प्रतिकूलवायुना क्षितौ निरस्तं तदीयचामीकरघर्मवारणं मृत्योः पारणाविधौ प्रकल्पितं महत् हाटकभाजनम् इव रराज ।
     सीo-- क्षिताविति । प्रतिकूलवायुना प्रतीपपवनेन क्षितौ पृथिव्यां निरस्तं निक्षिप्तम् । `असु क्षेपणे' इत्यतः कर्मणि निष्ठा । तदीयं तारकसम्बन्धिनो चामीकरस्य हेम्नः । `चामीकरं जातरूपं महारजतकाञ्चने' । इत्यमरः । घर्मवारणं छत्त्रं मृत्योर्यमस्य सम्बन्धिनि पारणाविधौ । भोजनक्रियानिमित्तमित्यर्थः । `निमित्तात्कर्मयोगे' इति सप्तमी । योगोऽत्र संयोगः । प्रकल्पितं निर्मितं महद्विशालं हाटकभाजनं सुवर्णपात्रमिवेत्युत्प्रेक्षा । रराज शुशुभे ।। १५.२७ ।।


विजानता भावि शिरो(१) निकृन्तनं (२)प्रज्ञेन शोकादिव तस्य मौलिना ।
मुहुर्गलद्भिस्तरलैरलंतरामरोदि मुक्ताफलवाष्पबिन्दुभिः ।। १५.२८ ।।

{१.विकर्तनम्.२.स्रस्तेन,प्रश्नेन.}
     अन्वयः-- प्रज्ञेन भावि शिरोनिकृन्तनं विजानता तस्य मौलिना शोकात् मुहुः गलद्भिः तरलै मुक्ताफलबाप्पबिन्दुभिः अलन्तराम् अरोदि ।।
     सीo-- विजानतेति । प्रज्ञेन । बुधेन । `प्रज्ञस्तु पण्डिते वाच्यलिङ्गो बुद्धौ तु योषिति' । इति मेदिनी । अत एव भावि भविष्यच्छिरोनिकृन्तनं मस्तकच्छेदनं विजानता बुध्यमानेन तस्य तारकस्य मौलिना किरीटेन । `मौलिः किरीटे श्रृङ्गारे धम्मिल्ले द्रुमचूडयोः' इति विश्वः । शोकाद्धेतोर्मुहुर्गलद्भिर्निःसरद्भिस्तरलैश्चञ्चलैः । `तरलं चञ्चले खड्गे हारमध्यमणावपि' । इति विश्वः । मुक्तफलान्येव बाष्पबिन्दवोऽश्रुबिन्दवः । `बिन्दुस्तु दन्तनाले स्यात्तथा वेदितृविप्लुषोः' इति विश्वः । तैः कृत्वालंतरामतिशयपर्याप्तं यथा । `अलं भूषणपर्याप्तिवारणेषु निरर्थके' इति विश्वः । अरोदीव रुदितमिवेत्युत्प्रेक्षा । मुकुटखचितमणिनिचयसाहसिकभूपतनरुप उत्पातोऽयमिति भावः ।। १५.२८ ।।


निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रै(३)रभिमौलिमाकुलै(४)र्भविष्यदेतन्मरणोपदेशिभिः ।। १५.२९ ।।

{३.अभिमौलि चाकुलैः.४.तस्यातनुच्छयामपायदर्शिभिः.}
     अन्वयः- भविष्यदेतन्मरणोपदेशिभिः (तथा) आकुलं गृध्रैः अभितः अनुयायिभिः मुहुर्मुहुः निवार्यमाणैः अपि तं ग्रहीतुकामैः इव मौलिम् अभि अपाति ।
     सीo- निवार्यमाणैरिति । भविष्यति एतस्य तारकस्य मरणमुपदिशन्ति बोधयन्ति तथाभूतैः तथाकुलैर्भक्षणक्रियासम्भ्रमितैर्गृध्रैः पक्षिविशेषैः `गृध्रः खगान्तरे गृध्री वाच्यवच्चाथ लुब्धके' इति विश्वः । अभितः सर्वतोऽनुयायिभिरनुगच्छद्भिः । अत एवोत्प्रेक्षते मुहुर्मुहुरनेकवेलं निवार्यमाणैरपि तं ग्रहीतुकामैरिव मौलिं किरीटमभि संमुखमपाति पतितम् । भावे लुङ् । पुनःपुनर्निवार्यमाणा अपि तद्बुभुक्षया मौलिमुद्दिश्यैव पेतुरिति भावः । अयमपि महोत्पातः ।। १५.२९ ।।


सद्यो निकृत्ताञ्जनसोदर(१)द्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषो(२)ल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमैक्षत ।। १५.३० ।।

{१.सोदरं क्वचित्.२.उल्कात.}
     अन्वयः- जनः तस्य ध्वजे सद्योनिकृत्ताञ्जनसोदरद्युतिं फणामणिप्रज्वलदंशुमण्डलं निर्यद्विषोल्काऽनलगर्भफूत्कृतं महाहिम् ऐक्षत ।।
     सीo- सद्य इति । जनो लोकस्तस्य ताररकस्य ध्वजे । तदुपरीत्यर्थः । सद्यो निकृत्तस्य तत्कालपातितस्याञ्जनस्य कज्जलस्य सोदरा समाना द्युतिः शोभा यस्य । अञ्जनसदृशश्यामलमित्यर्थः । तथा फणामणिभिः फणरत्नैःप्रज्वलदधिकीभवदंशुमण्डलं यस्य । निर्यद्विषमेवोल्कानलः स गर्भे मध्ये येषां तादृशानि फूत्कृतानि यस्य तथाभूतं महाहिं महान्तं सर्पमैक्षत ददर्श । अयमपि महोत्पातः ।। १५.३० ।।


(३)रथाश्वकेशावलिकर्ण(४)चामरं ददाह बाणासन(५)बाणबाणधीन् ।
(६)अकाण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दन(७)धुर्यगोचरः ।। १५.३१ ।।

{३.रथस्य.४.चामरान्.५.बालवालवीन्.६.अखण्डेन.७.धूर्युगोद्गतः.}
     अन्वयः- अकाण्डतः तस्य अतनुस्यन्दनधुर्यगोचरः चण्डतरः हुताऽशनः रथाऽश्वकेशावलिकर्णचामरं बाणासनबाणबाणाधीन् ददाह ।
     सीo-- रथेति । अकाण्डतोऽसमये सार्वविभक्तिकस्तसिल् । तस्य तारकस्य सम्बन्धी योऽतनुस्यन्दनो महान् रथस्तस्य धुर्योऽग्रभागस्तस्य गोचरः । तल्लग्न इत्यर्थः । चण्डतरोऽतिशयप्रचण्डो हुताशनोऽग्निः । रथाश्वसम्बन्धिनी या केशावलिः कर्णचामराणि च तेषां समाहारस्तत् । प्राण्यङ्गत्वादेकवद्भावः । तथा बाणासनं बाणक्षेपक्रियासाधनम् । करेणे ल्युट् । धनुर्बाणाः बाणधिस्तूणीरश्चेत्येतानित्यर्थः । ददाह । अयमपि महोत्पातः ।। १५.३१ ।।


(१)इत्याद्यरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो (२)न गतात्न्यवर्तता(३)म्बरात्तदाभून्मरुतां सरस्वती ।। १५.३२ ।।

{१.इत्याद्यनिष्टैः,इत्यादिरिष्टैः.२.न च त; विन्यवर्तत न गतः सवर्त्मना.३.अम्बरे.}
     अन्वयः- मदाऽन्धः असुरः अशुभोपदेशिभिः इत्याद्यरिष्टैः पुनः विहन्यमानः अपि यदा गतात् न न्यवर्तत, तदा अम्बरात् मरुतां सरस्वती अभूत् ।
     सीo- इत्यादीति । मदान्धोऽसुरस्तारकोऽशुभोपदेशिभिरमङ्गलसूचकैरित्याद्यरिष्टैः पूर्वोक्तमहोत्पातैः पुनः पुनर्विहन्यमानोऽपि विघ्नितः क्रियमाणोऽपि यदा गताद् गमनात् । भावे निष्ठा । न न्यवर्तत न निवृत्तः । तदाऽम्बराद् व्योम्नः सकाशान्मरुतां देवानां सरस्वती वाण्यभूत् ।। १५.३२ ।।


मदान्ध मा गा भुजदण्डचण्डिमावलेपतो (४)मन्मथहन्तृसूनुना ।
सुरैः (५)सनाथेन पुरंदरादिभिः समं समन्तात्स(६ मरं विजित्वरैः ।। १५.३३ ।।

{४.मन्मथशत्रु.५.सनाथैस्त्रिदशेश्वरादिभिः.६.समरे.}
     अन्वयः-- `हे मदाऽन्ध ! भुजदण्डऽचण्डिमाऽवलेपतः विजित्वरैः पुरन्दरादिभिः सुरैः समन्तात् सनाथेन मन्मथहन्तृसूनुना समं सङ्गरं मा गाः' ।
     सीo-- मदान्धेति । भो मदान्ध ! भुजदण्डयोर्यश्चण्डिमा प्रचण्डत्वं तेन योऽवलेपो गर्वः । `अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च'। इति मेदिनी विश्वश्च । तस्मात् । पञ्चम्यास्तसिल् । हेत्वर्थे पञ्चमी । विजित्वरैर्जयनशीलैः पुरंदरादिभिः सुरैः समन्तात्परितः सनाथेन सहितेन मन्मथहन्तृसूनुना शिवपुत्रेण समं सह समरं युद्धम् । कर्तुमिति शेषः । मा गा मा याहि ।। १५.३३ ।।


अथ `गुहः-' इत्यादिभिस्चतुर्भिः कुमारविषये तारककर्तृकसमरानौचित्यमेव दर्शयति-

(१)गुहोऽसुरैः षड्दिनजातमात्रको निदाघधामेव निशातमोभरैः ।
(२)विषह्यते नाभिमुखो(३) हि(४) संगरे कुतस्त्वया(५) (६)तस्य समं विरोधिता ।। १५.३४ ।।

{१.महासुरैः सुरासुरैः.२.विमुह्यते.३.सोऽभिमुखम्.४.न.५.त्वियम्.६.तेन.}
     अन्वयः-- (हे मदाऽन्ध !) सङ्गरे अभिमुखः षड्दिनजातमात्रकः गुहः असुरैः निशातमोभरैः निदाघधामा इव नहि विषह्यते, त्वया समं तस्य विरोधिता कुतः (स्यात्) ?
     सीo-- गुहेति । भो मदान्ध ! संगरे युद्धेऽभिमुखः संमुखः षड्दिनानि जाताति व्यतीतानि यस्य । जन्मदिनादारभ्यातिक्रान्तषड्दिनं इत्यर्थः । गुहः सेनानीः । `गुहः षाण्मातुरे गुह्ये' इति मेदिनी । असुरैर्देत्यैः कर्तृभिः । निशातमोभरै रात्र्यन्धतमससमूहैर्निदाघधामा उष्णतेजाः सूर्य इव न हि नैव विषह्यते विमृष्यते । त्वया समं सह तस्य सम्बन्धिनी विरोधिता वैरं कुतः कारणात्स्यात् । कुमारविषयकभवत्कृतवैरनिमित्तसमरोऽनुचित एवेति भावः ।। १५.३४ ।।


अभ्रंलिहैः श्रृङ्गशतैः समन्ततो (७)दिक्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशि(८)खेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ।। १५.३५।।

{७.दिक्चक्रवालस्थगितस्य;दिक्चक्रवालस्थगतस्य.८.स्वशरैर्विनिर्ममे;येनाहवे तेन कुतः समो भवान्.}
     अन्वयः- (हे मदाऽन्ध !) अभ्रंलिहैः श्रृङ्गशतैः दिक्चक्रवालैः समन्ततः स्थगितस्य क्रौञ्चस्य भूभृतः रन्ध्रं विशिखेन निर्ममे । तस्य आहवः त्वया सह कुतः ?
     सीo-- अभ्रंलिहैरिति । भो मदान्ध ! येन सेनान्या कर्त्रा । अभ्रंलिहैराकाशस्पृग्भिः श्रृङ्गशतैः सानुशतैः । तथा दिक्चक्रवालैः । `चक्रवालं तु मण्डलम्' इत्यमरः । समन्ततः परितः स्थगितस्याच्छादितस्य क्रौञ्चस्य क्रौञ्चसंज्ञकस्य भूभृतः पर्वतस्य सम्बन्धि रन्ध्रं छिद्रम् । जातावेकवचनम् । विशिखेन बाणेन निर्ममे निर्मितम् । कर्मणि लिट् । तस्याहवः सङ्ग्रामस्त्वया सह कुतः कारणात्स्यात् । अपि तु नेदमुचितमिति भावः ।। १५.३५ ।।


अथ युग्मेनाह-

लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
(१)कृत्वाभिषेकं रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयांबभूव यः ।। १५.३६।।

{१.कृताभिषेकः.}
     अन्वयः- यः अनङ्गविद्विषः धनुर्वेदं लब्ध्वा समरे महीभुजां घनैः रुधिराऽम्वुभिः त्रिःसप्तकृत्वः अभिषेकं कृत्वा स्वक्रोधवह्निं शमयाम्बभूव ।
     सीo- लब्ध्वेति । यो जामदग्न्यः परशुरामोऽनङ्गविद्विषो हरसकाशाद्धनुर्वेदं लब्ध्वा प्राप्य । अधीत्येति यावत् । अतः समरे युधि महीभुजां राज्ञां सम्बन्धिभी रुधिराम्बुभिः शोणितजलैस्त्रिःसप्तकृत्वस्त्रिगुणसप्तवारम् । एकविंशतिवारमिति यावत् । अभिषेकं स्नानं कृत्वा स्वक्रोधवह्निमात्मीयकोपाग्निं शमयांबभूव । एकविंशतिवारं क्षत्रियान्हत्वा शान्तोऽभूदितिः भावः ।। १५.३६ ।।


न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति ।
येन त्रिलोकी(२)सुभटेन तेन कुतोऽ(३)वकाशः सह (४)विग्रहग्रहे ।। १५.३७ ।।

{२.तिलकेन.३.अवकाशी,अवकेशी.४.विग्रहग्रहः.}
     अन्वयः- क्षत्रियाणां क्षयकालरात्रिकृत् स जामदग्न्यः त्रिलोकीसुभटेन येन समराय न वल्गति । तेन सह विग्रहग्रहे कुतः अवकाशः (स्यात्) ?
     सीo- नेति । क्षत्रियाणाम् । `क्षत्राद्धः' इति घप्रत्ययः । आयनेयी-' ति तस्येयादेशः । क्षयसम्बन्धिनी कालरात्रिं करोति यः स जामदग्न्यो जमदग्नेरपत्यं रामस्त्रिलोक्यां सुभटेन सुतरां योद्ध्रा येन सेनान्या सह समराय समरं कर्तुं न वल्गति न चलति । नैवोद्युङ्क्त इत्यर्थः । तेन सकलराजकुलजिघत्सद्रामविभीषकेन सेनान्या सह तव त्वत्कर्तृके विग्रहग्रहे रणग्रहे । `विग्रहः कायविस्तारविभागे ना रणे स्त्रियाम्' । इति मेदिनी । कुतः कस्मादवकाशोऽवसरः स्यात् । अपि तु न स्यादिति काक्वा व्याख्येयम् । अतः सर्वथैवामुना सह त्वया न योद्धव्यं किं तु निवर्तनीयमेवेति भावः ।। १५.३७ ।।


ननु निवर्तने पुनरपि वधशङ्केति चेत्तत्राह-

त्यजाशु (१)गर्वं मदमूढ मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना (२)जगत्सुवीरं (३)स चिराय जीव तत् ।। १५.३८ ।।

{१.दर्पम्.२.जगत्प्रवीरम्.३.सुचिराय.}
     अन्वयः-- (हे मदमूढ !) आशु गर्वं त्यज, स्मराऽरिसूनोः वरशक्तिगोचरं मा गाः । अधुना नूनं जगत्सु वीरं तम् एव शरणं व्रज । स (त्वम्) चिराय जीव ।
     सीo- त्यजेति । भो मदमूढ उन्मादमूर्ख, आशु शीघ्रं गर्वंमभिमानं त्यज । स्मरारिसूनोः सेनान्याः सम्बन्धिनी या वरा श्रेष्ठा शक्तिरायुधं तस्या गोचरं विषयं मास्म गा मा स्म याहि । तर्हि किं कर्तव्यमित्याह- अधुनेदानीं नूननेव निश्चयेनैव । `नूनमवश्यं निश्चये द्वयम्' इत्यमरः । शरणं रक्षितारम् । `शरणं गृहरक्षित्रोर्वधरक्षणयोरपि' । इति मेदिनी । तं जगत्सुवीरं सेनान्यं व्रज गच्छ । तत्तस्माद् गमनाद्धेतोः स त्वं चिराय जीव बहुकालं प्राणान्धारय । कुमारगमनं विना न तवान्यज्जीवातुरिति भावः ।। १५.३८।।


श्रुत्वेति वाचं वियतो (४)गरीयसीं क्रोधादहंकारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि (५)सन्न(६)कम्पतोच्चैर्दिव(७)मभ्यधाच्च सः ।। १५.३९ ।।

{४.वरीयसीम्.५.सः.६.नाकम्पत,प्राकम्पत.७.अभ्यधात्ततः.}
     अन्वयः- वियत इति गरीयसीं वाचं श्रुत्वा क्रोधात् अहङ्कारपरः स महासुरः प्रकम्पिताऽशेषजगत्यः सन् अपि अकम्पत, दिवम् उच्चैः अभ्यधात् च ।
सीo- श्रुत्वेति । वियत आकाशस्येत्येवंभूतां गरीयसीमतिशयगुर्वीं वाचं श्रृत्वा क्रोधाद्धोतोरहंकारेऽभिमाने । `गर्वोऽभिमानोऽहंकारः' । इत्यमरः । परः सक्तः । `परः श्रेष्ठादिदूरान्योत्तरे क्लीबं तु केवले' । इति मेदिनी । आदिशब्दसंगृहीतत्वेन शक्तिवाचकत्वं विवेचनीयम् । सोऽसुरस्तारकः प्रकर्षेण कम्पितं वेपितमशेषं समस्तं जगतां त्रयं येन तथाभूतः सन्नप्यकम्पत चकम्पे । भारत्या अत्याप्तत्वादिति भावः । अथ च दिवं स्वर्गमुच्चैरुच्चैः स्वरेणाभ्यधादचकथत् ।। १५.३९ ।।


अथ `किम्' इत्यादिभिस्त्रिभिस्तदुक्तिमाह-

किं ब्रूथ रे(१) व्योमचरा महासुराः (२)स्मरारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेदना(३) हि साऽधुना कथं (४)विस्मृतिगोचरीकृता ।। १५.४० ।।

{१.हे.२.मखारि.३.वेपन महोनेवऽधु.४.विस्मृत्य गताः;स्वपृष्ठतः.}
     अन्वयः-- `हे व्योमचरा महासुराः ! स्मराऽरिसूनुप्रतिपक्षवर्तिनः सन्तः किं ब्रूथ ? सा मदीयबाणव्रणवेदना अधुना कथं विस्मृतिगोचरीकृता ?'
     सीo-- किमिति । रे व्योमचराः ! रे इति नीचसंबोधने । महासुरा महान्तः सुरा यूयं स्मरारिसुनोः कुमारस्य प्रतिपक्षे कोटौ वर्तन्ते तथाभूताः सन्तः किं ब्रूथ वदथ । नेदं वाच्यमिति ध्वनिः । ननु वादे त्वया किं कृतमित्याह-सा पूर्वतरा मदीयानां बाणानां संबन्धिनां व्रणानां रन्ध्राणां वेदना पीडाधुना हीदानीमेव कथं केन प्रकारेण विस्मृतिगोचरीकृता विस्मरणविषयीकृता । अपि त्विदानीमपि सैव स्मर्तव्या, अग्रे भोक्ष्यमाणत्वात् ।। १५.४० ।।


(५)कटुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम् ।
श्वानः (६)प्रमत्ता इव (७)कार्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ।। १५.४१ ।।

{५.कटुस्वरैरारटथ,कटुस्वरैरीरयथ.६.प्रवृत्ताः.७.कार्त्तिकी निशा.}
     अन्वयः- (हे देवाः !) अम्बरस्थिताः षड्दिनजातकस्य शिशोः बलात् कार्त्तिके प्रमत्ताः श्वान इव निशि वनान्ते मृगधूर्तका किं स्वैरं प्रालपथ ?
     सीo-- कटुस्वरैरिति । भो देवाः । यूयमम्बरस्थिता आकाशवर्तिनः सन्तः षड्दिनजातकस्य षड्दिनजन्मनः शिशोर्बालस्य बलाद्वीर्याद्धेतोः कार्तिके बहुले मासि प्रमत्ता उन्मत्ताः श्वान इव निशि वनान्ते वनमध्ये मृगधूर्त्तका मृगा एव धूर्तकास्त इव किं प्रालपथ प्रलापं कुरुथ ? अपि तु मदपेक्षया निर्वीर्यैर्भवद्भिः प्रलापो न विधेय इति भावः ।। १५.४१ ।।


सङ्गेन वो (१)गर्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
(२)अतस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽप्य(३) मुम् ।। १५.४२ ।।

{१.भर्गतपस्विनः.२.अतस्करम्.३.तु.}
     अन्वयः- हे देवा ! वः सङ्गेन वराकः (अपि) एष गर्भतपस्विनः सुतः तस्करसङ्गतः अतस्करः यथा ध्रुवम् अन्तम् अवाप्स्यति । तत् वः प्रथमं निहन्मि, ततः अमुम् अपि निहन्मि ।।
     सीo-- सङ्गेनेति । भो देवाः । वो युष्माकं सङ्गेन सम्बन्धेन निमित्तेन वराकोऽतिकृपणत्वाच्छोचनीयः । `वराकः शंकरे पुंसि शोचनीयेऽभिधेयवत् । इति मेदिनी । एष पुरोवर्ती गर्भतपस्विनः । अत्र गर्भशब्देन गर्भत्वं तदस्यास्तीति गर्भः । अशं आद्यच् । ततो गर्भत्ववानिति निष्पन्नम् । गर्भत्वं चात्र बालत्वम् । `गर्भो भ्रूणेऽर्भके कुक्षौ' । इति मेदिनी । एवं च बाल इति निष्कर्षः । स चासौ तपस्वी च । बालत्वेऽपि तपस्वित्वकथनाद्वार्धक्ये त्वर्थात्सिद्धम् । एवं च बालकत्वमारभ्य तपस्वित्वेन निष्किंचनस्येति तात्पर्यार्थः । अथवा गर्भत्वादिति ल्यब्द्योतनिका या पञ्चमी तदन्तेन तपस्वीत्यर्थः । तथाभूतस्य शिशुर्बालः कुमारः । तस्करसङ्गतश्चौरसङ्गेनातस्करो यथा चौर इव । ध्रुवं निश्चयेनान्तं मरणमवाप्स्यति । तत्तस्माद्वो युष्मान्प्रथमं प्राङ् निहन्मि । `वर्तमानसामीप्ये वर्तमानवद्धा' इति भविष्यत्कालेऽपि वर्तमानप्रयोगः । ततो भवद्धननानन्तरममुं कुमारमपि निहन्मि निहनिष्यामि ।। १५.४२ ।।


इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं (४)क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः ।। १५.४३ ।।

{४.ध्रुवम्.}
     अन्वयः- इति ईरयति महासुरे क्रुधा उग्रतरं महाकृपाणम् अलं कलयति नभश्चराः भयात् परस्परोत्पीडितजानवः (सन्तः) दूरतरं विदुद्रुवुः ।
     सीo- इतीति । इति पूर्वोक्तमीरयति वदति महासुरे तारके क्रुधा हेतुनोग्रतरमत्यन्तभयानकं महाकृपाणं महान्तं खड्गम् । अलं पर्याप्तत्वेन । अनेन प्रथमं स्पर्शमात्र एवेति व्यज्यते । `अलं भूषणपर्याप्तिवारणेषु निरर्थके' । इति विश्वः । कलयति बिभ्रति सति । नभश्चरा देवा भयाद्धेतोः परस्परमन्योन्यमुत्पीडिता अति सङ्कीर्णतया धृष्टत्वाद् व्यथिता जानव ऊरुपर्वाणि येषाम् । `जङ्घा तु प्रसृता जानूरुपर्वाष्टीवदस्त्रियाम्' । इत्यमरः । तथाभूताः सन्तो दूरतरमतिदूरम् । `दूरान्तिकार्थेभ्यो द्वितीया च' इति प्रातिपदिकार्थमात्रे द्वितीया । विदुद्रुवुः पलायांचक्रिरे । `द्रु गतौ' इत्यस्मात्कर्तरि लिट् ।। १५.४३ ।।


ततोऽवलेपाद्विकटं (१)विहस्य स (२)व्यवत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं (३)नन्वित्यवोचन्नि(४)जसारथिं रथी ।। १५.४४ ।।

{१.विकृष्य.२.अभिकोशमाधादसिमंशुभासरम्.३.बत.४.प्रति.}
     अन्वयः- ततः स विकटं विहस्य उत्तमम् असिम् कोशात् बहिः व्यधत्त । (अथ च) रथी (सन्) ननु ! `रथं द्रुतवासवाऽन्तिकं प्रापय' इति निजसारथिम् अवोचत् ।
     सीo-- तत इति । ततोऽनन्तरं स तारको विकटं करालं यथा तथा । वक्ष्यमाणस्यासेर्विशेषणं वा । `विकटा वज्रवाराह्यां त्रिषु रुचिकरालयोः' । इति मेदिनी । विहस्याट्टहासं कृत्वा । उत्तममसिं करवालं कोशाद्विहिर्व्यधत्त कृतवान् । अथ च रथी सः `रथं वासवान्तिकमिन्द्रसमीपं द्रुतम् । ननु निश्चयेन । प्रापय' इति निजं स्वीयं सारथिं सूतमबोचत् । `ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारण' इति निजं स्वीयं सारथि सूतमवोचत् । `ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे' । इति विश्वः ।। १५.४४ ।।


मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः ।
(५)ततः प्रपेदे सुरसैन्यसागरं भयंकराकारमपारमग्रतः ।। १५.४५ ।।

{५.द्रुतम्.}
     अन्वयः-- ततः मनोऽतिवेगेन सारथिप्रणोदितेन रथेन प्रचलन् महासुरः अग्रतः अपारं भयङ्कराकारं प्रपेदे ।
     सीo- मन इति । ततोऽनन्तरं मनोतिवेगेनान्तः करणादपि बहुलगतिजवेन सारथिना प्रणोदितेन प्रेरितेन रथेन प्रचलन्गच्छन्महासुरस्तारकोऽग्रतः । पुरतः । स्थितमिति शेषः । अपारमनवधिकं भयंकराकारम् । विभीषकाकृतिमत्पुरुषमित्यर्थः । सुरसैन्यसागरं देवसेनासमुद्रं प्रपेदे प्राप ।। १५.४५ ।।


पुरः सुराणां (१)पुतनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार (२)भूम्नाथ स बाहुदण्डयोः प्रचण्डयोः सङ्गरकेलिकौतुकी ।। १५.४६ ।।

{१.पृतनाः पथीयसीः.२.भूम्ना बहु.}
     अन्वयः-- अथ वीरः स सङ्गरकेलिकौतुकी (सन्) प्रतीयसीं सुराणां पृतनां पुरः विलोक्य प्रचण्डयोः बाहुदण्डयोः प्रमोदजं पुलकं भूम्ना बभार ।
     सीo- पुर इति । वीरः शूरः । `वीरो रसविशेषे पुंस्युत्तरे सुभटे त्रिषु' । इति मेदिनी । स तारकः प्रथीयसीमतिपृथुलां सुराणां देवानां सम्बन्धिनीं पृतनां सेनां पुरोग्रे विलोक्य प्रचण्डयोर्बाहुदण्डयोर्भुजदण्डयोः । `दण्डोऽस्त्री लगुडे पुमान्' इति मेदिनी । प्रमोदजमानन्दजनितं पुलकं रोमाञ्चं भूम्ना बाहुल्येन बभार धृतवान् । यतः सङ्गरकेलौ संग्रामक्रीडायां कौतुक्युत्साहवान् । वीराणां सेनादर्शनमेव महान्मुदो हेतुरिति भावः ।। १५.४६ ।।


ततो (३)महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ।। १५.४७ ।।

{३.असुरेन्द्रानुचरा;सुरेनद्रस्य चराः.}
     अन्वयः- ततः मनसः (अपि) अतिवेगिनः (तथा) भूयसा रणाऽन्तलीलारभसेन चमूचरा महेन्द्रस्य चराः, समरे युयुत्सुभिः किं विलम्ब्यते (इति वक्तुम्) पुरः प्रचेलुः ।
     सीo-- तत इति । ततोऽनन्तरं मनसः सकाशादप्यतिवेगिनोऽत्यन्तजववन्तः । तथा भूयसातिशयेन रणान्ते संग्राममध्ये या लीला विलासः । विलासोऽत्र समराङ्गणाधिकरणकमात्मीयभुजदण्डगतपराक्रमचमत्कृतिदर्शनम् । तत्र रभसेन वेगेन । `लीलां विदुः केलिविलासखेलाश्रृङ्गारभावप्रभवक्रियासु' इति विश्वः । चम्वां सेनायां चरन्तीति विग्रहे `चरेष्टः' इति टप्रत्ययः । तथाभूता महेन्द्रस्येन्द्रस्य चराश्चाराः दूता इति यावत् । `चरो द्युतप्रबन्धे स्याच्चारजङ्गमयोश्चले' । इति विश्वः । समरे संग्रामे युयुत्सुभिर्योद्धुमिच्छुभिः । भवद्भिरित्यर्थः । किं विलम्ब्यते किं विलम्बः क्रियते । अपि तु सत्वरमेव युध्यतामिति प्रतिपक्षान्वक्तुमित्यपि शेषः । पुरोऽग्रे प्रचेलुः ।। १५.४७ ।।


(१)पुरःस्थितं देवरिपोश्चमूचरा (२)बलद्विषः सैन्यसमुद्रम(३)भ्ययुः ।
भुजं समुत्क्षिप्य (४)परेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ।। १५.४८ ।।

{१.पुरःपरा.२.सुरद्विषः.३.अभ्यगुः.४.सहेलमात्मनः.}
     अन्वयः-- देवारिपोः चमूचराः पुरः स्थितं बलद्विषः सैन्यसमुद्रम् अभ्ययुः (अथ च) अभितः भुजं समुत्क्षिप्य आत्मनः अभिधानम् उच्चैः परेभ्यः न्यवेदयत् ।
     सीo-- पुर इति । देवरिपोस्तारकस्य चमूचराः सेनाचराः पुरःस्थितमग्रस्थितं बलद्विष इन्द्रस्य सम्बन्धिनं सैन्यसमुद्रं सेनासागरमभ्ययुः संमुखत्वेन जग्मुः । अथ चाभितः संमुखम् । `अभितः शीघ्रसाकल्यसंमुखोभयतोऽन्तिके' इति विश्वः । भुजं बाहुं समुत्क्षिप्योत्थाप्य आत्मनोऽभिधानं नाम । `आख्याह्वे अभिधानं च नामधेयं च नाम च' । इत्यमरः । उच्चैः स्वरेण परेभ्यः शत्रुभ्यो न्यवेदयन्वयममुकनामानो वयममुकनामान इति निवेदितवन्तः ।। १५.४८ ।।


पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा (५)परं चुक्षुभिरे (६)महासुराः ।
(७)पुरारिसूनोर्नयनैककोणके (८)ममुर्भटा(९)स्तस्य(१०) रणेऽवहेलया ।। १५.४९ ।।

{५.अभितः.६.अखिलाः सुरः,अखिलाः स तु.७.स्मरारिसूनोः.८.ममौ.९.भटः,पुरः.१०.भावि रणे हि हेलया.}
     अन्वयः-महासुराः पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा चुक्षुभिरे, रणे अवहेलया तस्य पुरऽरिसूनोः नयनैककोणके भटा ममुः ।
     सीo-- पुर इति । महासुरा महान्तः सुरा इन्द्रादयः पुरोगतमग्रे प्राप्तं दैत्यस्य तारकस्य चमूरेव महानर्णवः समुद्रस्तं दृष्ट्वा परं केवलम् । `परमव्ययमिच्छन्ति-' । इति विश्वः । चुक्षुभिरे संचेलुः विव्यथुरिति यावत् । रणे सङ्गरेऽवहेलया मदपेक्षया केयं वराकिका सेनेत्यनादरेणोपलक्षितस्य तस्य पुरारिसूनोः शिवपुत्रस्य नयनैककोणके नेत्रैकदेश एव । `कोणोवाद्यप्रभेदे स्यात्कोणोऽब्धौ लगुडेऽर्कजे । वीणादिवादनोपायेऽप्येकदेशे गृहस्य च ।' इति विश्वः । अत्र गृहस्यैव कोण इत्यविवक्षितम् । किंत्त्वन्यसाधारणत्वेन प्रकृत इष्टसिद्धर्थमुपलक्षितत्वेन गमनीय इत्यलम् । भटा योद्धारो ममुः संविविशुः ।। १५.४९ ।।


द्विषद्वलत्रासवि(१) भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः ।
अपश्यदुद्दिश्य (२)महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा ।। १५.५० ।।

{१.विसंकुलाश्चमूम्.२.महाहवोत्सवम्,महाहवे बलम्.}
     अन्वयः-- महारणोत्सवम् उद्दिश्य अन्धकशत्रुनन्दनः द्विषद्वलत्रासविभीषिताः दिवौकसां चमूः प्रसादपीयूषधरेण चक्षुषा अपश्यत् ।
     सीo-- द्विषदिति । महारणोत्सवमुद्दिश्य स्थितोऽन्धकशत्रुनन्दनः कार्त्तिकेयो द्विषद्वलत्रासेन तारकसैन्यशासनेन विभीषिता भीता दिवौकसां देवानां चमूः सेनाः कर्म । प्रसादोऽनुग्रहः स एव पीयूषममृतं तद्धरति तथाभूतेन चक्षुषापश्यद्ददर्श । अनेन `यूयं मा भैष्ट प्रसन्ना भवत, निःशङ्कं युध्यध्वं चेति व्यज्यते ।। १५.५० ।।'


(३)उत्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा (४)मखाशनाः ।
(५)अहं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य सङ्गतिः ।। १५.५१ ।।

     अन्वयः- शक्तिधरस्य मृधे दर्शनात् उत्साहिताः महेन्द्रप्रमुखाः मखाऽशनाः मृधे अहम् (एव) अरीन् जेतुम् (समर्थः अस्मि नाऽन्यः) इति वदन्तः सन्तः अरीरमन् `वरस्य सङ्गतिः कस्य वीर्याय' ?
{३.उत्साहितः.४.सुधाशिनः.५.अहजुष,आयत्नतः.}
     सीo- उत्साहिता इति । शक्तिधरस्यायुधविशेषस्य धारिणः । `शक्तिर्बले प्रभावादौ शक्तिः प्रहरणान्तरे'। इति विश्वः । अत एव मृधे सङ्ख्ये । `मृधमास्कन्दनं सङ्ख्यम्' इत्यमरः । तस्य कुमारस्य दर्शनाद्धेतोरुत्साहिता उत्साहं प्राप्ता महेन्द्रप्रमुखा इन्द्रपूर्वा मखाशना यज्ञहविर्भोंक्तारो देवाः मृधे सङ्गरे `अहमेवारीञ्शत्रूञ्जेतुं समर्थोऽस्मि नान्यः' इति वदन्तः सन्तोऽरीरमन्रेमिरे । तथाहि । वरस्य श्रेष्ठस्य सङ्गतिः सम्बन्धः कस्य पुरुषस्य वीर्याय वीर्यं कर्तुं न भवति ? अपि तु सर्वस्यापीत्यर्थः । गतवीर्यस्य वीर्यकरणे महदाश्रय एव निदानं नान्यदिति काक्वा ध्वन्यते ।। १५.५१ ।।


परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्धुं (१)स्वकरोद्धृतायुधाः ।
(२)वैतालिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे ।। १५.५२ ।।

{१.प्रवरोद्धृतायुधाः प्रचुरोद्धृतायुधाः.२.वैमानिकैः श्रावितमानसत्क्रमाभिधानम्,वैतालिकैः श्रावितानामविक्रमाः सोत्साहम्, वैतालिकश्रावितनामविक्रमाभिधानम्.}
     अन्वयः- रणे विजयैषिणः योद्धुं स्वकरोद्धृतायुधाः वज्रधरस्य द्विषः अपि सैनिका वैतालिकश्राविततारविक्रमाऽभिधानं (यथा तथा) परस्परम् ईयुः ।
     सीo-- परस्परमिति । रणे युद्धे विजयैषिणो विजयं प्राप्तुमिच्छवः । अत एव योद्धुं युद्धं कर्तुं स्वकरैरात्मीयपाणिभिरुद्धृतानि गृहीतान्यायुधानि खड्गादीनि यैस्तथाभूता वज्रधरस्येन्द्रस्य द्विषोऽपि तारकस्य च । अपिरत्र समुच्चसार्थः । `अपि संभावनाप्रश्नशङ्कागर्हासमुच्चये'। इति विश्वः । सैनिकाः सेनाचराः । `चरति' इति ठक् । वैतालिकैर्बन्दिभिः श्रावितान्याकर्णितानि तार उच्चैर्विक्रमोऽभिधानानि नामानि च यस्मिन्कर्मणि यथा तथा परस्परमन्योन्यमीयुः प्रापुः । मिमिलुरितियावत् ।। १५.५२ ।।


(३)सङ्ग्रामं प्रलयाय संनिपततो वेलामतिक्रामतो

वृन्दारासुरसैन्यसागरयुगस्या(४)शेषदिग्व्यापिनः ।
(५)कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोष(६)णः

शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिंभरिः ।। १५.५३ ।।

{३.संग्रामप्रलयाय,संग्रामे प्रलयाय.४.आरोहदिग्व्यापिनः.५.कालातिथ्यपृथुप्रदानवहलः,कालातिथ्यपृथूच्चच्चाल बहलः.६.क्रोधिनः क्रोधिलः.}
     अन्वयः- प्रलयाय संग्रामं सन्निपततः वेलाम् अतिक्रामतः अशेषदिग्व्यापिनः कालातिथ्यभुजः वृन्दारासुरसैन्यसागरयुगस्य क्रोषणः कोलाहलः बहलः शैलोत्तालतटीविघट्टनपटुः ब्रह्माण्डकुक्षिम्भरिः बभूव ।
     सीo-- संग्राममिति । प्रलयाय नष्टचेष्टतायै । तां कर्तुमित्यर्थः । संग्रामं समरं संनिपततः समुदितवतः । अन्यत्र प्रलयाय लोकसंहाराय संनिपततो वर्धमानस्य । अत एव वेलां मर्यादाम् । एकत्र न्यायाचरणम्, अन्यत्रावधिम् । सोमानमिति यावत् । `वेलाकाले च जलधौ तीरे नीरविकारयोः । क्लिष्टरसने रोगे च सोम्नि वाचि युधि स्त्रियाम्' इति विश्वः । अतिक्रामत उल्लङ्घयतः । निर्मर्यादत्वेन युध्यमानस्य सीमानमुल्लङ्घ्य चलत इत्यर्थः । अत एवाशेषासु दिक्षु व्यापिनो व्याप्नुवतः । उभयत्रापि समानमेतत् । तथा कालस्य यमस्य सम्बन्ध्यातिथ्यमतिथ्युचितसत्कारं भुनक्ति भोक्ष्यति तथोक्तस्य । `वर्तमानसामीप्ये-' इति लट् । अन्यत्र कालं कृष्णमातिथ्यमतिथिसत्कारं भुनक्ति भोजयति । अन्तर्भावितणिजर्थः । प्रलये वर्धमानसमुद्रनीरे केवलं तस्यैव वर्तमानत्वात् । वृन्दाराणां देवानामसुराणां च सैन्ये ते एव सागरौ समुद्रौ तयोर्युगस्य युग्मस्य । `युग्मं तु युगलं युगम्' । इत्यमरः । तत्सम्बन्धी क्रोषणो मुखरः कोलाहलः कलकलो बहलः । अत एव शैलसम्बन्धिनीनामुत्ताला उच्चतालवृक्षसहिता यास्तट्यः सैकतानि । श्रृङ्गाणीति यावत् । तासां विघट्टने स्फोटने पटुः समर्थः । अथ एव ब्रह्माण्डेन कुक्षिं भरति तथोक्तश्च बभूव । शार्दूलविक्रीडितं वृत्तम् । `सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ।। १५.५३ ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीताराम-

कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे

सुरासुरसैन्यसंघट्ट नाम पञ्चदशः सर्गः ।।