कुमारसम्भवम् - मल्लिनाथः/चतुर्दशः सर्गः

विकिस्रोतः तः
← त्रयोदशः सर्गः कुमारसम्भवम् - मल्लिनाथः
चतुर्दशः सर्गः
कालिदासः
पञ्चदशः सर्गः →
चतुर्दशः सर्गः

रणोत्सुकेनान्धकशत्रुसूनुना (१)समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा(२) ।

महासुरं (३)तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यत द्रुतम् ।। १४.१ ।।

{१.स्वयम्.२.जयेषुणा.३.तारकसंज्ञितं द्विषम्;तारकमूर्जितद्विषम्.}
     अन्वयः-- जिगीषुणा रणोत्सुकेन अन्धकशत्रुसूनुना प्रयुक्तैः त्रिदशैः तारकसंज्ञकं द्विषं महासुरं प्रसह्य हन्तुं द्रुतं समनह्यत ।
     सीo- रणेति । जेतुमिच्छति जिगीषति, जिगीषतीति जिगीषुस्तेन जिगीषुणा । सन्नन्ताज्जयतेः `सनाशंसभिक्ष उः' इत्युप्रत्ययः । अत एव रणे समरे । `रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम् ।' इति मेदिनी । उत्सुकेनोत्कण्ठितेनान्धकशत्रोः शिवस्य सूनुना कुमारेण कर्त्रा । प्रयुक्तैः प्रेरितैः, संनहनार्थमिति शेषः । त्रिदशैर्देवैरिन्द्रादिभिः समं सार्धं तारकसंज्ञकं द्विषं शत्रुं महासुरं दैत्यं प्रसह्य बलाद्धन्तुं मारयितुं द्रुतं शीघ्रम् । `लघु क्षिप्रमरं द्रुतम्' इत्यमरः । समनह्यत संनद्धम् । नह्यतेर्भावे लङ् । सर्गेऽस्मिन्नपि वृत्तमुपजातिरेव प्रायः ।। १४.१ ।।


इतः परं "सः"इत्यादिभिस्त्रिभिः कुमारसंनहनमाह-

स दुर्निवारं मनसोऽतिवेगिनं जयश्रियः (४)संनयनं सुदुःसहम् ।
विजित्वरं नाम (५)तदा महारथं धनुर्धरः (६)शक्तिधरोऽध्यरोहयत् ।। १४.२।।

{४.संगमनम्,संयमनम्.५.ततः.६.अध्यरोहत.}
     अन्वयः-- स धनुर्धरः शक्तिधरः (सन्) दुर्निवारं मानसः अतिवेगिनं जयश्रियः संनयनं सुदुःसहं विजित्वरं नाम (दधानम्) महारथं तदा अध्यरोहयत् ।
     सीo- स इति । स गुहः कार्तिकेयो धनुर्धरस्तथा शक्तिधरश्च सन्दुर्निवारं दुःखेन निवारयितुं प्रतिरोद्धुं शक्यम् । अप्रतिरुद्धगतिकमित्यर्थः । मनसः सकाशादप्यतिवेगिनम् । बहुगतिजववन्तमित्यर्थः । इहातिनाम बहुश्चासौ जवश्च, स विद्यते यस्येति कृते `न कर्मधारयान्मत्वर्थीयः' इति निधेषप्रसक्त्या मत्वर्थीयो न स्यात् । अतोऽतीत्यस्य क्रियाविशेषणतामाश्रित्य समर्थनीयम् । केचित्पुनः `मनसोऽपि' इति पठित्वा व्याचक्षते । तथा जयश्रियो विजयलक्ष्म्याः संनयनं सम्यक्प्राप्तिसाधनम् यामारुह्य गच्छन्तो वीराः सजयलक्ष्मीका एव भवन्तीति भावः । सुतरां दुःसहम् । दुःसहता चैतद्दर्शनविषयिणी बोध्या । एतद्दर्शनेनैव शत्रवः पराजिता भवन्ति । अतो युक्तमेव जयश्रीसंनयनत्वम् । अत एव विजित्वरम् । विजित्वरेत्यानुपूर्विकं नाम । नामत्वं च व्यक्तिबोधजनकतावच्छेदकतासंकेतत्वम्, दधानमिति शेषः । तथाभूतं महारथं महान्तं स्यन्दनम् । `रथः पुमानवयवे स्यन्दने वेतसेऽपि च' । इति मेदिनी । तदाध्यरोहयदारुरोह ।। १४.२ ।।


सुरालयश्रीविपदां निवारणं सुरारि(१)संपत्परितापकारणम्(२) ।
केनापि दध्रेऽस्य (३)विरोधिदारणं सुचारु चामीकरघर्मवारणम् ।। १४.३ ।।

{१.संसत्.२.वारणम्.३.विरागदारणम्.}
     अन्वयः- विरोधिदारणं सुरालयश्रीविपदां निवारणं सुराऽरिसम्पत्परितापकारणं सुचारु चामीकरघर्मवारणम् अस्य केन अपि दध्रे ।
     सीo- सुरालयेति । विरोधिनं तारकं दारयति मारयति तद्विरोधिदारणम् । णिजन्तप्रयोगं कुर्वता कविना छत्रस्य जडत्वात्स्वातन्त्र्येण दारणक्रियोपयोगित्वासंभवात्तदीयधारणप्रभावेण वीरो ह्यसौ कुमारस्तारकं जेष्यतीति सूचितम् । `ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः' इति न्यायादिति भावः । अत एव सुरालयस्य स्वर्गस्य श्रियो लक्ष्म्या विपदामापदां निवारणं नाशकम्, अत एव सुरारेस्तारकस्य संपदां परितापस्य संतापस्य कारणं कर्तृ । सर्वत्र कर्तरि ल्युट् । सुचारु सुतरां मनोहरं चामीकरस्य हेम्नो घर्मवारणं छत्रम् । अस्य कुमारस्योपरि केनापि देवेन दध्रे, धृतम् । कर्मणि ल्युट् ।। १४.३ ।।


(१)शरच्चरच्चन्द्रमरीचिपाण्डुरैः(२) (३)संवीज्यमानो वरचारुचामरैः ।
पुरःसरैः किंनरसिद्धचारणै (४)रणेच्छुरस्तूयत वाग्भिरुल्बणैः(५) ।। १४.४ ।।

{१.शरद्वलत्.२.रोचिभिः.३.मुवीज्यमामः.४.रणोत्सुकः,स षण्मुखः.५.उच्चकैः.}
     अन्वयः- शरच्चन्द्रमरीचिपाण्डुरैः वरचारुचामरैः वीज्यमानः रणेच्छुः स उल्बणैः किन्नरसिद्धचारणैः पुरःसरैः वाग्भिः अस्तूयत ।
     सीo-- शरदिति । शरदि घनात्यये चरतो भ्रमतश्चन्द्रस्य मरीचयो मयूखास्तद्वत्पाण्डुरैः । शुभ्रैः । `शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुराः' इत्यमरः । चरत इति विशेषणं चामराणामपि वीजनवशेन चलत्वादन्वर्थमिति बोध्यम् । तथाभूतैर्वरैः श्रेष्ठैः । `वरो जामातरि वृतौ देवतादेरभीप्सिते । पिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम्' । इति मेदिनी । चारुभिर्मनोहरैश्च चामरैर्वीज्यमानः । तथा रणेच्छुः संग्रामाभिलाषुकः स कुमार उल्बणैरुद्भटैः किंनराः किंपुरुषाः । `स्यात्किंनरः किंपुरुषः' इत्यमरः । सिद्धा देवविशेषाश्चारणाश्च तैः कर्तृभिः । पुरःसरैः सद्भिर्वाग्भिः कृत्वाऽस्तूयतेडितः । `ष्टु स्तुतौ' इत्यतः कर्मणि लङ् ।। १४.४ ।।


इदानीमिन्द्रादीनामष्टानामनुप्रयाणमाह-

प्रयाणकालोचितचारुवेष(६)भृद्वज्रं वहन्पर्वतपक्षदारणम् ।
(७)ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य द्युपतिस्तमन्वगात् ।। १४.५ ।।

(६.वेषः.७.ऐरावणम्.)
     अन्वयः- ततो द्युपतिः प्रयाणकालोचितचारुवेषभृत् पर्वतपक्षदारणं वज्रं वहन् (तथा) स्फाटिकशैलसोदरम् ऐरावतम् अधिरुह्य तम् अन्वगात् ।
     सीo- प्रयाणेति । ततोऽनन्तरं द्युपतिरिन्द्रः प्रयाणकाले प्रस्थानसमय उचितं योग्यं चारुं मनोहरं च वेषं बिभर्ति धरति तथोक्तः । तथा पर्वतपक्षाणां दारणं छेदनम् । करणे ल्युट् । वज्रं स्वायुधं वहन् । करेणेति शेषः । तथा स्फाटिकशैलः कैलासस्तस्य सोदरं सदृशमैरावतं गजमधिरुह्यास्थाय तं कुमारमन्वगात्, अनुययावित्यर्थः । `अभ्यगात्' इति पाठस्त्वसाधुः । सेनानीत्वेन वृतत्वादतिश्रेयः कुमारापेक्षयान्येषामिन्द्रादीनामपि गौणत्वात्पुरतो गमनानौचित्यात् ।। १४.५ ।।


तमन्वगच्छद् गिरिश्रृङ्गसोदरं (१)मदोद्धतं मेषमधिष्ठितः शिखी ।
विरोधिविद्वेषरुषाधिकं ज्वलन्महो(२) महीयस्तरमायुधं दधत् ।। १४.६ ।।

{१.महोद्धरम्.२.महामहोजस्तरसा युधे,महो महीयस्तरमादधद्युधि.}
     अन्वयः- विरोधिविद्वेषरुषा अधिकं ज्वलन् शिखी गिरिश्रृङ्गसोदरं (तथा) मदोद्धतं मेषम् अधिष्ठितः महोमहीयस्तरम् आयुधं दधत् (सन्) तम् अन्वगच्छत् ।
     सीo- तमिति । विरोधिनस्तारकस्य विद्विषेण वेरेण हेतुना या रुट् क्रोधस्तया निमित्तेनाधिकं ज्वलन्प्रदीप्यमानः शिख्यग्निगिरेः श्रृङ्गस्य सोदरं सदृशम् । तद्वद्विशालमित्यर्थः । तथा मदेन गर्वेण । `मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः' । इति मेदिनी । उद्धतं मेषं पशुविशेषं लोके `मेढा' इति ख्यातमधिष्ठितोऽधिरुढः तथा महसा तेजसा महीयस्तरमतिशयं महदायुधं शस्त्रं दधत् । अथवा `महो महीयस्तरम्' इति छेदः । महस्तेजोरुपं महीयस्तरमायुधमिति व्याख्यातव्यम् । दधत्सन् । तं कुमारमन्वगच्छदनुगतवान् । अत्राप्यभ्यगच्छदित्यसाधु बोध्यम् ।। १४.६ ।।


(३)अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम्(४) ।
(५)अधिष्ठितः कासरमुद्धरं मुदा (६)वैरस्वतो (७)दण्डधरस्तमन्वगात् ।। १४.७ ।।

{३.नन्विन्द्रनीलाचलचण्डविग्रहः,नवेन्द्रनीलोचितचण्डविग्रहम्.४.शिलोच्चये.५.स्थितोऽति,मत्तेमहिषेऽसभीषणः,अधिष्ठितः कासरमुद्धतं मुदा.६.रणोन्मुखः.७.अभ्यगात्.}
     अन्वयः- अथ वैवस्वतः इन्द्रनीलाऽचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् उद्धतं कासरम् अधिष्ठितः दण्डधरः (सन्) मुदा तम् अन्वगात् ।
     सीo- अथेति । अथानन्तरं वैवस्वतो यमः । `कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः । इन्द्रनीलानां नीलमणीनामचलः पर्वतस्तद्वच्चण्डविग्रहं प्रचण्डदेहम् । कालत्वाद्भयानकमित्यर्थः । तथा विषाणाभ्यां श्रृङ्गाभ्यां विध्वस्ता अधः पातिता महापयोधरा बृहन्मेधा येन तथा । उद्धरमुद्भटं कासरं महिषम् । `लुलायो महिषो वाहद्विषत्कासरसैरिभाः' । इत्यमरः । अधिष्ठितोऽधिरुढः तथा दण्डं धरतीति तथाभूतश्च सन् । मुदा प्रीत्या तं कुमारमन्वगादनुजगाम ।। १४.७ ।।


(१)मदोद्धतं प्रेतमथाधिरुढवांस्तमन्धकद्वेषितनूजमन्वगात्(२) ।
महासुरद्वेषविशेषभीषणः सुरोषणश्चण्डरणाय नैर्ऋतः ।। १४.८ ।।

{१.मदोद्धतः,प्रेतवराधिरोहणः,मदोद्धतःप्रेतवराधिरुढः.२.अभ्यगात्.}
     अन्वयः-- अथ महासुरद्वेषविशेषभीषणः सुरोषणः नैर्ऋतः मदोद्धतं प्रेतम् अधिरुढवान् (सन्) चण्डरणाय तम् अन्धकद्वेषितनूजम् अन्वगात् ।
     सीo- मदोद्धतमिति । अथानन्तरं महासुरद्वेषेण तारकासुरवैरेण विशेषमधिकं यथा तथा भीषणो भयानकः । `भीषणं रसशल्लक्योर्ना गाढे दारुणेऽपि च' । इति मेदिनी । तथा सुतरां रोषणः क्रोधनो नैर्ऋतो राक्षसो नैऋतकोणाधीश्वरो मदेन गर्वेणोद्धतं प्रेतं पिशाचमधिरुढवानास्थितवान्सन् । चण्डरणाय प्रचण्डरणं कर्तुं तमन्धकद्वेषिणो हरस्य तनूजं पुत्रं कुमारमन्वगादन्वियाय ।। १४.८ ।।


(३)नवोद्यदम्भोधरघोरदर्शने (४)युद्धाय रुढो (५)मकरे (६)महत्तरे ।
दुर्वारपाशो वरुणो (७)रणोल्बणस्तमन्वियाय त्रिपुरान्तकात्मजम् ।। १४.९ ।।

{३.नवोदयाम्भोधरघोरदर्शनः नवोदयस्तोरणघोरदर्शनम्,नवोदयस्तोरणघोरदर्शनं.४.युद्धेऽधिरुढः युद्धोपरुढः.५.मकरम्.६.महत्तरम्.७.रणोल्बणम्.}
     अन्वयः- रणोल्वणः वरुणः नवोद्यदम्बोधरघोरदर्शने महत्तरे मकरे रुढः दुर्वारपाशः (सन्) युद्धाय तं त्रिपुराऽन्तकात्मजम् अन्वियाय ।
     सीo- नवेति । रणे युद्ध उल्बण उद्भटो वरुणः प्रचेताः । `वरुणस्तरुभेदेऽप्सु पश्चिमाशापतावपि' । इति मेदिनी । नवो नव्यः । `नवो नव्ये स्तुतौ' इति मेदिनी । उद्यन्नुदयमानो योऽम्भोधरो मेघस्तद्वद्घोरदर्शने भयानकदर्शने । `घोरं भीमं भयानकम्' इत्यमरः । तथा महत्तरेऽतिशयदीर्घे मकरे नक्रे रुढः । तथा दुर्वारः पाश आयुधविशेषो यस्य, पाशधरः सन्नित्यर्थः । युद्धाय युद्धं कर्तुं तं त्रिपुरान्तकस्य शिवस्यात्मजं पुत्रं कुमारमन्वियायान्वगच्छत् ।। १४.९ ।।


दिगम्बरा(१)धिक्रमणोल्बणं क्षणान्मृगं महीयांसमरुद्धविक्रमम् ।
अधिष्ठितः सङ्गरकेलिलालसो(२) मरुन्महेशात्मजमन्वगाद्(३) द्रुतम्(४) ।। १४.१० ।।

{१.अद्रिक्रमण.२.लालसम्.३.अभ्यगात्.४.ध्रुवम्.}
     अन्वयः-- सङ्गरकेलिलालसः मरुत् क्षणात् दिगम्बराऽधिक्रमणोल्बणं महीयांसम् अरुद्धविक्रमं मृगम् अधिष्ठितः (सन्) महेशात्मजं द्रुतम् अन्वगात् ।
     सीo- दिगिति । संगरकेलौ संग्रामक्रीडायां लालसा कामो यस्य `लालसौत्सुक्यतृष्णातिरेकयाच्ञासु च द्वयोः' । इति मेदिनी । तथाभूतो मरुत्पवनो वायुकोणाधीशः क्षणन्मुहूर्तमात्रेणैव । `क्षणः पर्वोत्सवे च स्यात्तथा मानेऽप्यनेहसि' । इति मेदिनी । दिशामम्बरस्य च `अम्बरं वाससि व्योम्नि' इति मेदिनी । अधिक्रमण आक्रमण उल्बणमुद्भटं महीयांसं महत्तरम् । अरुद्धोऽप्रतिरुद्धो विक्रमो विवत्पक्षिवत्क्रमः पादक्षेपो यस्य तथाभूतं मृगं हरिणम् `मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः' । इति मेदिनी । अधिष्ठितः सन् । तं महेशात्मजं कुमारं द्रुतं सत्वरमन्वगादनुजगाम ।। १४.१० ।।


विरोधिनां (५)शोणितपारणैषिणीं गदामनूनां नरवाहनो वहन् ।
महाहवाम्भोधि(६) विगाहनोद्धतं यियासु(७) मन्वागमदीशनन्दनम् ।। १४.११ ।।

{५.विग्रह.६.विगाहमान.७.अभ्यागमत्.}
     अन्वयः-- नरवाहनः विरोधिनां शोणितपारणैषिणीम् अनूनां गदां वहन् महाहवाऽम्भोधिविगाहनोद्धतं यियासुम् ईशनन्दनम् अन्वागमत् ।
     सीo- विरोधिनामिति । नरवाहनः कुबेरः । `पौलस्त्यो नरवाहनः' इत्यमरः । विरोधिनां शत्रूणां संबन्धि शोणितं रुधिरं तेन या पारणा भोजनं तामिच्छति तथाभूतामनूनामन्यूनसारां गदामायुधविशेषं वहन् धारयन्सन् महाहवौ महारणः स एवाम्भोधिः समुद्रस्तस्य विगाहन उद्धतमुद्भटम् । समर्थमिति यावत् । अत एव यियासुं जिगमिषुमीशनन्दनं शिवपुत्रं कुमारमन्वगमत् अनुगच्छति स्मेत्यर्थः ।। १४.११ ।।


महाहि(१)निर्बद्धजटाकलापिनो ज्वलत्त्रिशूल(२)प्रबलायुधा (३)युधे ।
(४)रुद्रास्तुषाराद्रिसखं(५) महावृषं ततोऽधिरुढास्तमयुः िुनाकिनः ।। १४.१२ ।।

{१.निबन्ध.२.प्रवरा-युधा.३.युधि.४.रुषा.५.समम्.}
     अन्वयः- ततः पिनाकिनः रुद्राः महाहिनिर्बद्धजटाकलापिनः ज्वलत्रिशूलप्रबलायुधाः तुषाराऽद्रिसखं महावृषम् अधिरुढाः (सन्तः) युधे तम् अयुः ।
     सीo- महाहीति । ततोऽनन्तरं पिनाकिनः पिनाकवन्तो रुद्रा ईशानकोणाधीशाः महाहिभिर्महद्भिः सर्पैः कृत्वा निर्बद्धो यो जटाकलापः सोऽस्ति येषाम् । अथवा महाहिभिर्निर्बद्धा जटा येषाम् । `शेषाद्विभाषा' इति कप् । तथा लापिन इदानीं तारकं जेष्याम इत्युद्धतवादिनश्च । ततो विशेषणसमासः । केचित्तु `जटाभरावराः' इति पाठं कल्पयन्ति । यथास्थितव्याख्याने तु `न कर्मधारयान्मत्वर्थीयः' इति मत्वर्थीयप्रसङ्गो दुर्वार इत्यलम् । तथा ज्वलद्दीप्यमानं त्रिशूलमेव प्रबलं सबलमायुधं येषाम् । तथा तुषाराद्रेर्हिमवतः सखं सखायम्, तद्वच्छुभ्रमित्यर्थः । महावृषम् । जातावेकवचनम् । अधिरुढाश्च सन्तः । युधे युद्धाय तं कुमारमयुः अन्वयुरित्यर्थः ।। १४.१२ ।।


अन्येऽपि संनह्य (१)मदारणोत्सवश्रद्धालवः स्वर्गिगणास्तमन्वयुः ।
स्ववाहनानि (२)प्रबलान्यधिष्ठिताः प्रमोदविस्मेरमुखाम्बुजश्रियः ।। १४.१३ ।।

{१.महामहोत्सव महामहोत्सवाः.२.प्रवराणि.}
     अन्वयः- अन्ये अपि स्वर्गिगणाः प्रमोदविस्मेरमुखाऽम्बुजश्रियः महारणोत्सवश्रद्धालवः प्रबलानि स्ववाहनानि अधिष्ठिताः संनह्य तम् अन्वयुः ।
     सीo- अन्येऽपीति । अन्येऽप्युक्तातिरिक्ता अपि स्वर्गिगणाः देवगणाः प्रमोदेन रणानन्देन विस्मेरा विशेषेण समन्दहासा मुखाम्बुजश्रीर्येषाम् । अत एव महति रणोत्सवे श्रद्धालवः श्रद्धाशीला अत एव प्रबलानि स्ववाहनान्यधिष्ठिताः । तथा कवचादिना संनह्य संनद्धा भूत्वा तं कुमारमन्वयुः । अनुजग्मुरित्यर्थः ।। १४.१३ ।।


अथ युग्मेनाह-

उद्दण्डहेमध्वजदण्डसंकुला(३)श्चञ्चद्विचित्रातपवारणोज्ज्वलाः(४) ।

(५)चलद्धनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्ड(६)चीत्कृताः ।। १४.१४ ।।
स्फुरद्विचित्रायुधकान्तिमण्डलै(७)रुद्द्योतिताशावलयाम्बरान्तराः(८) ।

दिवौकसां सोऽनुवहन्महाचमूः पिनाकपाणेस्तनयस्ततो ययौ ।। १४.१५ ।।

{३.चलत्.४.उल्बणाः.५.घनाघना.६.चक्रिताः.७.कन्दलै.८.अम्बरा वरा.}
     अन्वयः- ततः स पिनाकपाणेः तनयः उद्दण्डहेमध्वजदण्डसङ्कुलाः चञ्चद्विचित्रातपवारणोज्ज्वलाः चलद्घनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्डचीत्कृताः स्फुरद्विचित्रायुधकान्तिमण्डलैः उद्योतिताशावलयाऽम्बरान्तराः दिवौकसां महाचमूः अनुवहन् ययौ ।
     सीo- उद्दण्डेति । स्फुरदिति च । ततः सर्वसंनहनानन्तरं स पिनाकपाणेर्हरस्य तनयः कार्तिकेय उद्दण्डा उच्चनालदण्डा ये हेमध्वजाः सुवर्णविकारध्वजास्तेषां दण्डैर्नालदण्‍डैः संकुला व्याप्ताः । अनेकध्वजदण्डवत्य इत्यर्थः । चञ्चन्ति दीप्यमानानि तथा विचित्राणि हरितपीतादिवर्णयुक्तानि च यान्यातपवारणानि च्छत्राणि तैरुज्जवलाः । कान्तिमत्य इत्यर्थः । चलन्तो ये घना मेघास्त इव ये स्यन्दना रथास्तेषां घोषेणारवेण भीषणा भयानकाः । तथा करीन्द्राणां मत्तद्विपानां संबन्धीनि घण्टारवाः, चण्डानि भीषणानि चीत्कृतानि च यासु । चीत्कृतेति शब्दानुकृतिः । तथा स्फुरन्ति सर्वतः प्रसरन्ति विचित्राण्यनेकवर्णान्यायुधसंबन्धिनीनां कान्तीनां मण्डलानि वलयानि तैः कृत्वोद्द्योतितमुच्चैः शोभितमाशावलयं द्युतीनां दिङ्मण्डलमम्बरान्तरमाकाशमध्यं च याभिः । `अम्बरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च' इति मेदिनी । एवंविधां दिवौकसां देवानां महाचमूर्महतीः सेना अनु पश्चाद्वहन्सन् ययौ जगामेत्यर्थः ।। १४.१४ - १४.१५ ।।


कोलाहलेनोच्चलतां(१) दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः(२) ।
घनैर्निरुच्छ्वासमभूदनन्तरं(३) दिङ्मण्डलं व्योमतलं महीतलम् ।। १४.१६ ।।

{१.उच्छलता.२.ध्वजाग्रैः.३.अलंतराम्.}
     अन्वयः- उच्चलतां दिवौकसां कोलाहलेन (तथा) महाचमूनां गुरुभिः घनैः ध्वजव्रजैः निरुच्छ्वासं दिङ्मण्डलं व्योमतलं महीतलम् अनन्तरम् अभूत् ।
सीo- कोलाहलेति । उत्प्लुत्योड्डीय चलताम्, रोषवशादिति भावः । दिवौकसां देवानां कोलाहलेन घोरघोषेण । तथा महाचमूनां गुरुभिर्विशालैर्घनैः सघनैः पुष्टैरिति यावत् । ध्वजव्रजैर्ध्वजसमूहैश्च कृत्वा निरुच्छ्वासं निरुद्धश्वासं निरोधहेतुकव्याप्तिमद्दिशां मण्डलं व्योमतलं महीतलमनन्तरमनुद्भासमानभेदमभूत् । `एकमेवाद्वितीयं ब्रह्म' इत्यद्वैतवादिनां ब्रह्मणोऽद्वैततत्वप्रतिपादने निदर्शनमभूदिति भावः ।। १४.१६ ।।


सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रतिनादमेदुराः ।
नभोन्तकुक्षिंभरयो (१)घनाः स्वना निहन्यमानैः पटहैर्वितेनिरे ।। १४.१७ ।।

{१.घनस्वनाः.}
     अन्वयः- निहन्यमानैः पटहैः सुराऽरिलक्ष्मीपरिकम्पहेतवः दिक्चक्रवाल प्रतिनादमेदुराः नभोऽन्तकुक्षिम्भरयः घनाः स्वना वितेनिरे ।
     सीo- सुरारीति । निहन्यमानैस्तड्यमानैः पटहैः कर्तृभिः `पटहो ना समारम्भे आनके पुंनपुंसकम्' । इति मेदिनी, `आनकः पटहोऽस्त्री स्यात्' इत्यमरश्च । सुरारिलक्ष्म्यास्तारकसंपदः संबन्धिनि परिकम्पे हेतवो निदानम् । दिशां चक्रवाले मण्डले । `चक्रवालं तु मण्डलम्' इत्यमरः । ये प्रतिनादः प्रतिध्वनिस्तेन मेदुराः पुष्टा । तथा नभोन्तेनाकाशप्रान्तेन, प्रान्तपर्यन्तेनेत्यर्थः । कुक्षिं भरन्ति पिपुरन्ति नभोन्तकुक्षिभरयः । सर्वं नभो व्याप्नुवन्त इत्यर्थः । `फलेग्रहिरात्मम्भरिश्च' इत्यत्र चात्कुक्षेरपि समावेशात्कुक्षिंभरिरिति सिद्धम् । तथा घनाः सान्द्राः स्वनाः शब्दा वितेनिरे । वितस्तरिरे इत्यर्थः ।। १४.१७ ।।


प्रमथ्यमाना(२)म्बुधिगर्जतर्जनैः (३)सुरारिनारीगणगर्भपातनैः ।
नभश्चमूधूलिकुलैरिवाकुलं(४) ररास गाढं पटहप्रतिस्वनैः ।। १४.१८ ।।

{२.अर्णवगर्जितस्वनै.३.वरारि.४.आकुलैः.}
     अन्वयः- चमूधूलिकुलैः आकुलं नभः प्रमथ्यमानाऽम्बुधिगर्जतर्जनैः सुराऽरिनारीगणगर्भपातनैः पटहप्रतिस्वनैः गाढं ररास इव ।
     सीo- प्रमथ्यमानेति । चमूनां धूलिकुलै रेणुसमूहैः । `कुलं जनपदे गोत्रे सजातीयगणेऽपि च' । इति मेदिनी । आकुलं व्याप्तं पीडितं नभः प्रमथ्यमानोऽवलोड्यमानो योऽम्बुधिस्तस्य गर्जोगर्जनं तस्य तर्जना जेतारः । ततोऽप्यधिकगर्जनैरित्यर्थः । अत एव सुरारेस्तारकस्य यो नारीगणः स्त्रीसमूहस्तस्य यो गर्भस्तस्य पातनैः पातनकारिभिः । अतिगर्जनभयादिति भावः । पटहप्रतिस्वनैरानकप्रतिघोषैः कृत्वा गाढं दृढं यथा तथा ररासेव रुरोदेव । उत्प्रेक्षालङ्कारः । आर्तानां रोदनमेवैकं शरणं भवतीति भावः ।। १४.१८ ।।


(१)क्षुण्णं रथैर्वाजिभिराहतं खुरैः करीन्द्रकर्णैः परितः प्रसारितम् ।
(२)धूतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं व्याम (३)समारुहत्क्रमात्(४) ।। १४.१९ ।।

{१.क्षिप्तम्.२.धनं घनैः.३.ससारतत्,समासदत्.४.क्षणात्.}
     अन्वयः- रथैः क्षुण्णं काञ्चनशैलजं रजः वाजिभिः खुरैः आहतं (तथा) करीन्द्रकर्णैः परितः प्रसारितं, ध्वजैः धूतं (तथा) वातैः हतं क्रमात् व्योम समारुहत् ।
     सीo- क्षुण्णमिति । रथैः स्यन्दनै क्षुण्णमुत्खनितम् । तथा काञ्चनशैलजं सुमेरुपर्वतजनितम् । इदं विशेषणं पीतत्वद्योतनार्थम् । रजो धूलिः । वाजिभिरश्वैः कर्तृभिः खुरैः करणैः । कृत्वाऽऽहतं चूर्णीकृतम् । पिष्टीकृतमिति यावत् । तथा करीन्द्राणां मत्तगजानां कर्णैः श्रवणैः परितः सर्वतः प्रसारितं विस्तृतम् । तथा ध्वजैर्धूतं कम्पितम् । एतेन सघनता द्योतिता । तथा वातैः पवनैर्हतं स्पृष्टम् । एतेन पवनस्योपरि रंहःप्राप्तौ साधकतोक्ता । क्रमाद्यथाक्रमं व्योम कर्म समारुहत् । आकाशमारुढमित्यर्थः । अत्र रुहेर्भौवादिकत्वाल्लङि गुणप्रसङ्गः, लुङि शलन्तत्वात्क्सप्रसङ्गः, णिजन्तत्वे लङि यकारश्रवणप्रसङ्ग इत्यतोऽयं प्रयोगश्चिन्त्य इति बहवः । वयं तु व्योम्न्याकाशे सम्यगारोहतीति समारोहः, इगुपधलक्षणः कः, तत आचारार्थे क्विपि अल्लोपे धातुत्वाल्लङि शपि अल्लोपस्य स्थानिवत्त्वाद् गुणाभावे च रुपसिद्धिरिति समादध्महे ।। १४.१९ ।।


न केवलं व्योमन्यारुढम्, किन्तु दिगन्तेष्वपि तथेत्याह--

खातं खुरै रथ्यतुरङ्गपुंगवै (१)रुपत्यकाहाटकमेदिनीरजः ।
गतं दिगन्तान्मुखरैः(२) समीरणैः (३)सुविभ्रमं भूरि बभार भूयसा ।। १४.२० ।।

{१.उपत्यकानां कनकस्थलीरजः.२.प्रखरैः.३.दाहभ्रमम्.}
     अन्वयः-- रथ्यतुरङ्गपुङ्गवैः खुरैः खातम् उपत्यकाहाटकमेदिनीरजः भूरि मुखरैः समीरणैः दिगन्तात् गतं (सत्) भूयसा सुविभ्रमं बभार ।
     सीo- खातमिति । रथं वहन्ति ते रथ्याः । `तद्वहति रथयुगप्रासङ्गम्' इति यत् । तथोक्ता ये तुरङ्गपुङ्गवा अश्वश्रेष्ठास्तैः कर्तृभिः खुरैः कृत्वा खातं क्षुण्णम् । उपत्यकाऽद्रेरासन्ना या हाटकमेदिनी सुवर्णभूमिः । अद्रेः सौवर्ण्यासन्नभूमिरिति तात्पर्यार्थः । `उपाधिभ्यां त्यकन्नासन्नारुढयोः' इत्यासन्नार्थे त्यकन्प्रत्ययः । तस्याः सम्बन्धि । रजः कर्तृ । भूरि बहलं मुखरैः शब्दायमानैः समीरणैः पवनैर्दिगन्तान्दिक्प्रान्तान्गतम् । गमितमित्यर्थः । अन्तर्भावितणिजर्थोऽत्र बोध्यः । तथोक्तं सत् । भूयसातिशयेन शोभमानं विभ्रमं विलासम् । शोभामिति यावत् । बभार धृतवान् । अत्यन्तं शुशुभ इत्यर्थः । `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' । इत्यमरः ।। १४.२० ।।


अधस्तथोर्ध्वं पुरतोऽथ पृष्ठतोऽभितोऽपि चामीकररेणुरुच्चकैः ।
चमूषु सर्पन्मरुदाहतोऽहर(४)न्नवीनसूर्यस्य च कान्तिवैभवम् ।। १४.२१ ।।

{४.तत्कालबालातपवैभवं बहु,तत्कालबालारुणवेभवं बहु.}
     अन्वयः- चमूषु मरुदाहतः, अधः तथा ऊर्ध्वं पुरतः अथ पृष्ठतः (तथा) अभितः अपि सर्पन् चामीकररेणुः उच्चकैः नवीनसूर्यस्य कान्तिवैभवम् अहरच्च ।
     सीo- अध इति । चमूषु सेनासु मरुता पवनेनाहत उत्पादितः । अत एवाधो नीचैः । तथोर्ध्वमूर्ध्वभागे । अथ पृष्ठतः पृष्ठभागे । तथाभितोऽपीतस्ततश्च सर्पन्प्रसरन् । चामीकररेणुः सुवर्णरजः । सुवर्णपर्वतोद्भूतत्वादिति भावः । नवीनसूर्यस्योषस्यसूर्यस्य कान्तिवैभवं द्युतिसंपदमहरत् । ततोऽप्यधिकं शुशुभ इत्यर्थः ।। १४.२१ ।।


(१)बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु (२)नभःस्थले स्थितम् ।
अकालसन्ध्याघनरागपिङ्गलं(३) घनं घनानामिव (४)वृन्दमुद्यतम् ।। १४.२२ ।।

{१.वातोद्धतम्,बलोद्धतम्.२.नभस्तले.३.पिङ्गितम्.४.दण्डम्.}
     अन्वयः- काञ्चनभूमिजं रजः बलोद्धृतं दिगन्तेषु नभःस्थले स्थितम् अकालसन्ध्याघनरागपिङ्गलं घनं उद्यतं घनानाम् वृन्दम् इव बभौ ।
     सीo- बलोद्धृतमिति । काञ्चनस्य भूमौ जातं रजो धूलिर्बलोद्धृतं सैन्येनोत्पातितमत एव दिगन्तेषु दिक्प्रान्तेषु तथा नभःस्थल आकाशदेशे स्थितं च सत् । अकाले या संध्या तस्या यो घनः सान्द्रो रागो लौहित्यं तेन पिङ्गलं पिशङ्गम् । `पिशङ्गौ कद्रुपिङ्गलौ' इत्यमरः । तथा घनं सान्द्रमुद्यतमुत्पन्नम् । पर्वतेभ्य इति शेषः । घनानां मेघानां वृन्दं समूह इव बभौ । अकालसंध्यालिप्तो मेघो यथा भाति तद्वत्सुवर्णबूमिजमपि रजो बभावित्यर्थः । अत्र पूर्णोपमालंकारः । ननु भानाश्रयीभूते रजसि घनवृन्द त्वेनोत्प्रेक्षासम्भवात्सम्भावनैवास्त्विति चेत् । सत्यम् । क्रियाप्राधान्यमते रजःकर्तृकशोभायां घनवृन्दत्वोत्प्रेक्षापत्तेः ।। १४.२२ ।।


(५)हेमावनीषु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखं महागजाः ।
रसातलोत्तीर्ण(६)गजभ्रमात्क्रुधा दन्तप्रकाण्डप्रहृतानि(७) तेनिरे ।। १४.२३ ।।

{५.हैमावनीषु.६.गजभ्रमेण ते.७.प्रहृतानि;प्रकृतानि.}
     अन्वयः- महागजाः हेमाऽवनीषु आत्मनः प्रतिबिम्बम् अभिमुखं विलोक्य रसातलोत्तीर्णगजभ्रमात् क्रुधा मुहुः दन्तप्रकाण्डप्रहृतानि तेनिरे ।
     सीo-- हेमेति । महागजा महान्तो दन्तिनो हेम्नः सुवर्णस्यावनीषु पृथ्वीषु पतितमात्मनः प्रतिबिम्बमभिमुखं विलोक्य रसातलात्पातालात् । `अधोभुवनपातालं बलिसद्म रसातलम्' । इत्यमरः । उत्तीर्णा उत्थिता ये गजास्तेषां भ्रमाद् भ्रान्त्या निमित्तेन । जातयेति शेषः । क्रुधा क्रोधेन । `प्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः । मुहुरनुवेलं दन्ता एव प्रकाण्डाः स्तम्बाः । `काण्डे स्तम्बे तरुस्कन्धे बाणेऽवसरनीरयोः' । इति मेदिनी । तैस्तत्कर्मकानि प्रहृतानि प्रहारान् । भावे निष्ठा । तेनिरे वितस्तरिरे । कर्तरि लिट् । `अत एकहल्मध्ये नादे-' इत्येत्वाभ्यासलोपौ । पृथिव्यामात्मप्रतिबिम्बदर्शनेन अन्यगजभ्रमवतां गजानां युक्तमेव प्रहारकरणमिति भावः । `नान्यस्य गन्धमपि मानभृतः सहन्ते' इति गन्धस्यापि दुःसहत्वात् । किं पुनः साक्षाद्दर्शनस्य । तद्दर्शनं तद्वति तत्प्रकारकमतद्वति तत्प्रकारकं वा तत्र तेषां नातीव निग्रहः, मानान्धतायाः प्राधान्यात् ।। १४.२३ ।।


सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः ।
शुद्धासु चामीकरशैलभूमिषु (१)नादृश्यत स्वं प्रतिबिम्बमग्रतः ।। १४.२४ ।।

{१.व्यदृश्यत.}
     अन्वयः-- सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः शुद्धासु चामीकरशैलभूमिषु अग्रतः स्वं प्रतिबिम्बं न अदृश्यत ।
     सीo-- सुजातेति । सुजातः शोभनो यः सिन्दूरस्य परागो रजस्तेन पिञ्जरैः पीतैः तथा कलं मन्द्रं यथा तथा चलद्भिर्गच्छद्भिः सुराणां देवानां सैन्यस्य सिन्धुरैर्गजैः कर्तृभिः । शुद्धासु निर्मलास्वपि चामीकरशैलस्य सुमेरुपर्वतस्य भूमिष्वग्रतः पतितमपि स्वं प्रतिबिम्बं नादृश्यत नालोकि । कर्मणि लङ् । आधाराधेययोरेकवर्णतया पृथगभासमानत्वादिति भावः । `सिन्दूरस्तनूभेदे स्यात्सिन्दूरे रक्तचूर्णके' । इति मेदिनी ।। १४.२४ ।।


इति क्रमेणामरराजवाहिनी महा(२)हवाम्भोधिविलासलालसा ।
अवातरत्काञ्चनशैलतो द्रुतं (३)कोलाहलाक्रान्तविधूतकन्दरा ।। १४.२५ ।।

{२.हवारम्भ.३.कोलाहलावृत्तिविधूतकन्दराः,कोलाहलाकूतविधूतकन्दरा ; कोलाहलाकृत्तविधूतकन्दराः.}
     अन्वयः- महाहवाऽम्भोधिविलासलालसा कोलाहलाक्रान्तविधूतकन्दरा अमरराजवाहिनी इति क्रमेण काञ्चनशैलतः द्रुतम् अवातरत् ।
     सीo-- इतीति । महानाहवः संग्रामः स एवाम्भोधिः समुद्रस्तत्र यो विलासो लीला । क्रीडेति यावत् । `विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम्' । इति मेदिनी । तत्र लालसौत्सुक्यं यस्याः । तथा कोलाहलेन क्लकलेन । `कोलाहलः कलकलः' इत्यमरः । आक्रान्ता व्याप्ता अत एव विधूताः कम्पिताः कन्दरा गह्वरा यया । `कन्दरस्त्वङ्कुशे पुंसि गुहायां च नपुंसकम्' । इति मेदिनी । एवंभूताऽमरराजवाहिनीन्द्रसेना ।`वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' । इति मेदिनी । इति क्रमेण पूर्वोक्तक्रमेण काञ्चनशैलतः सुमेरोः सकाशाद् द्रुतं शीघ्रमवातरत् उत्ततारेत्यर्थः ।। १४.२५ ।।


(१)महाचमूस्यन्दनचण्डचीत्कृतैर्विलोल(२)घण्टेभपतेश्च बृंहितैः ।
सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहा (३)महत्स्वप्नसुखं न तत्यजुः ।। १४.२६ ।।

{१.महाचमूनां करिचण्ड.२.घण्टाक्वणितोपबृंहितैः.३.महास्वप्न.}
     अन्वयः-- सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहाः महाचमूस्यन्दननण्डचीत्कृतैः विलोलघण्टेभपतेः बृंहितैश्च महत् स्वप्नसुखं न तत्यजुः ।
     सीo- महेति । सुरेन्द्रस्येन्द्रस्य शैलेन्द्रे मेरौ या महागुहा महागह्वराणि तासु शेरते स्वपन्ति । गुहासु निद्रां कुर्वन्त इत्यर्थः । तथाभूताः सिंहा मृगेन्द्रा महाचमूषु महतीषु सेनासु ये स्यन्दना रथास्तेषां चण्डैः प्रचण्डैः । तीव्रैरिति यावत् । `चण्डो धनहरी शङ्खपुष्पास्त्रिष्वतिकोपने । तीव्रेऽपि चूडावलभौ शिखायां बाहुभूषणे ।' इति मेदिनी । चीत्कृतैः शब्दविशेषैः । इयं च शब्दानुकृतिः । तथा विलोलघण्टोऽतिचपलघण्टो य इभपतिर्गजराजस्तस्य । जातावेकवचनम् । बृंहितैर्गर्जितैश्च । `बृंहितं करिगर्जितम्' इत्यमरः । महद्दीर्घं स्वप्ने निद्रायां यत्सुखम् । `सुखं शर्मणि ना नाके' इति मेदिनी । `स्वपो नन्' इति नन्प्रत्ययः । न तत्यजुर्न जहुः । अत्र निद्राप्रतिबन्धाश्रयीभूतबहुविधकोलाहलरूपे सत्यपि निदाने निद्राभङ्गरूपकार्योत्पत्यभावाद्विशेषोक्तिरलङ्कारः, `कार्याजनिर्विशेषोक्तिः सति पुष्कलकारणे' । इति लक्षणात् । `शयवासवासिष्वकालात्' इति सूत्रं हलदन्तादेवेति नियमाद् गुहाशय इत्यत्र तदभावान्नालुक् ।। १४.२६ ।।


गम्भीरभेरीध्वनितैर्भयंकरै(४)र्महागुहान्तप्रतिनादमेदुरैः ।
महारथानां (५)गुरुनेमिनिस्वनैरनाकुलैस्तैर्मृगराजताजनि(६) ।। १४.२७ ।।

{४.मुहुर्गुहान्तः.५.गुरुनादनिःस्वनैः.६.तापि किम्.}
     अन्वयः-- महागुराऽन्तप्रतिनादमेदुरैः गम्भीरभेरीध्वनितैः (तथा) महारथानां गरुनेमिनिःस्वनैः (अपि) अनाकुलैः तैः मृगराजता अजनिं ।
     सीo- गम्भीरेति । महान्तः परिणाहिनो ये गुहान्ता गह्खरमध्यानि तेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैः । अत एव भयंकरैर्विभीषकैः `मेघर्तिभयेषु कृञः' इति खश् । गम्भीराणि मन्द्राणि यानि भेरीध्वनितानि दुन्दुभिशब्दाः । `भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । तैः । तथा महारथानां महतां स्यन्दनानां सम्बन्धिन्यो या गुरुनेमयो महत्यश्चक्रधाराः । `चक्रधारा प्रधिर्नेमिः' इत्यमरः । तासां निःस्वनैः शब्दैश्चापि । निमित्तभूतैरित्यर्थः । अनाकुलैराकुलत्वाभाववद्भिस्तैः सिंहैर्निमित्तैर्मृगराजता मृगाधिपत्यम् । अन्वर्थेति शेषः । सार्थाऽजनि जाता । राज्ञामयमेव परमो धर्मः प्रतिकर्तुमशक्तैरपि यदरिभ्यो न भेतव्यमिति । तदेभिर्मृगराट्त्वधारिभिः । कथंचिदपि न भीतम् । अतो युक्तमेषां खलु मृगराजेत्यभिधानमित्यभिप्रायः । अत्रापि विशेषोक्तिरलङ्कारः ।। १४.२७ ।।


(१)समुत्थितेन त्रिदिवौकसां (२)महाचमूरवेणाद्रितटान्तदारिणा ।
प्रपेदिरे केसरिणोऽधिकं मदं (३)स्ववीर्यलक्ष्मीमृगराजतावशात् ।। १४.२८ ।।

{१.समुच्छ्रितेन.२.चमूरवेण तट.३. स्ववीरलक्ष्मी.}
     अन्वयः- समुत्थितेन अद्रितटाऽन्तदारिणा त्रिदिवौकसां महाचमूरवेण केसरिणः स्ववीर्यलक्ष्मीमृगराजतावशात् अधिकं मदं प्रपेदिरे ।
     सीo-- समुत्थितेनेति । समुत्थितेन समुदितेनात एवाद्रेः सुमेरोस्तटान्तानां श्रृङ्गमध्यानाम् । `तटं नपुंसकं क्षेत्रे प्रतीरे तु तटी त्रिषु' । इति मेदिनी । `प्रपातस्त्वतटे भृगुः' इत्यमरश्च । दारिणा विदारकेण । अतिघोषेण महान्तः पर्वतभृगवोऽपि विदीर्णा बभूवुरित्यर्थः । अत्र शब्दकर्तृकपर्वततटविदारणस्यायोगेऽपि तद्योगकल्पनात्सम्बन्धातिशयोक्तिरलङ्कारः । त्रिदिवौकसां देवानां सम्बधिन्यो या महाचम्वो महत्यः सेनाः । `चमूः सेनाविशेषेऽपि सेनामात्रे च योषिति' । इति मेदिनी । तासां रवेण ध्वनिना निमित्तेन केसरिणः सिंहाः कर्तारः स्वस्य वीर्यं पराक्रम एव लक्ष्मीः शोभा यस्याः । आत्मपराक्रमशालिनीत्यर्थः । तथाभूता या मृगराजता हरिणाधिपत्यं तस्या वशादायात्तत्वात् ।`वशो जनस्पृहायत्तेष्वायत्तत्वप्रभुत्वयोः' इति मेदिनी । अधिकं बहु मदं गर्वं प्रपेदिरे । कर्तरि लिट् । भयानकोऽपि चमूरवः प्रत्युत सिंहानामधिकमदकारक एव जात इति भावः ।। १४.२८ ।।


भिया सुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं द्रुतं मृगाः ।
गुहागृहान्ताद्बहिरेत्य(१) (२)हेलया तस्थुर्विशङ्कं(३) नितरां मृगाधिपाः ।। १४.२९ ।।

{१.अभिसृत्य.२.लीलया.३.विनिः शङ्कतराः.}
     अन्वयः- मृगाः सुराऽनीकविमर्दजन्मना भिया द्रुतं दूरतरं विदुद्रुवुः । मृगाऽधिपाः हेलया गुहागृहाऽन्तात् बहिः एत्य नितान्तं विशङ्कं तस्थुः ।
     सीo- भियेति । मृगा हरिणाः `मृगः पशौ कुरङ्गे च' इति मेदिनी । सुराणां देवानामनीकस्य सैन्यस्य । `अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी । यो विमर्दः प्राणापहारि मर्दनं तज्जन्मना । ततो जनितयेत्यर्थः । भिया भयेन निमित्तेन द्रुतं सत्वरं दूरतरं विदुद्रुवुः पलायांचक्रिर इत्यर्थः । भयशीलत्वादिति भावः । अथ च मृगाधिपाः सिंहा हेलया क्रीडया । सहसैवेत्यर्थः । गुहागृहस्य गह्वररूपस्य सद्मनोऽन्तान्मध्याद्बहिरेत्य । `अपपरिबहिः--' इति समासविधानाज्ज्ञापकात्पञ्चमी । नितरां विशङ्कं निर्भयं यथा तथा तस्थुः ।। १४.२९ ।।


(४)विलोकिताः कौतुकिनाऽमरावतीजनेन (५)जुष्टप्रमदेन दूरतः ।
सुराचलप्रान्तभुवः(६) प्रपेदिरे (७)सुविस्तृतायाः प्रसरं (८)सुसैनिकाः ।। १४.३० ।।

{४.विलोकिता.५.जातप्रमदेन,दुष्टं प्रमदेन.६.भुवि.७.सुविस्तृतायाम्.८.न सैनिकाः.}
     अन्वयः- कौतुकिना जुष्टप्रमदेन अमरावतीजनेन दूरतः विलोकिताः सुसैनिकाः सुविस्तृतायाः सुराऽचलप्रान्तभुवः प्रसरं प्रपेदिरे ।
     सीo- विलोकिता इति । कौतुकिना, सैनिकदर्शने कौतुकाविष्टचेतसेत्यर्थः । जुष्टप्रमदेन सेवितकलत्रेण । कलत्रसहितं वर्तमानेनेति फलितोऽर्थः । अमरावतीजनेन सुरेन्द्रनगरीलोकेन दूरतो `दूरान्तिकार्थेभ्यो द्वितीया च' इति पञ्चमी । `पञ्चम्याः--' इति तसिल् । विलोकिता दृष्टाः सुसैनिकाः शोभनाः सेनास्थलोकाः कर्तारः । सुतरां विस्तृतायाः सुराचलस्य सुमेरोर्या प्रान्तभूस्तस्याः प्रसरं प्रदेशं प्रपेदिरे प्रापुः । सुमेरोरवरुह्याधः प्रापुरिति भावः ।। १४.३० ।।


(१)पीतासितारक्तसितैः सुराचल(२) प्रान्तस्थितैर्धातुरजोभिरम्बरम् ।
(३)अयत्नगन्धर्वपुरोदयभ्रमं बभार (४)भूम्नोत्पतितैरितस्ततः ।। १४.३१ ।।

{१.पीतासितं रक्तसितम्.२.प्रान्तोत्थितैः.३.अखर्व.४.सुतराम्,नितराम्.}
     अन्वयः- अम्बरम् इतस्ततः भूम्ना उत्पतितैः सुराऽचलप्रान्तस्थितैः पीताऽसिताऽऽरक्तसितैः धातुरजोभिः अयत्नगन्धर्वपुरोदयभ्रमं बभार ।
     सीo- पीतासितेति । अम्बरं नभः कर्तृ । इतस्ततः सर्वत्रेत्यर्थः । भूम्ना बाहुल्येनोत्पतितैरुड्डीयितैरत एव सुराचलस्य सुमेरोः प्रान्तेषु स्थितैः । प्रान्तत्वं ह्यूर्ध्वं दैशिकमवगन्तव्यम् । तथा पीतानि चासितानि चारक्तानि च सितानि च तैर्धातुरजोभिर्गरिकादिघूलिभिर्निमित्तेन । अयत्नेन यत्नाभावेन । अनायासेनेति यावत् । यो गन्धर्वपुरस्य देवगायकनगरस्योदय उत्पतिस्तस्य भ्रमं बभार धृतवत् । अन्तर्भावितणिजर्थः । गन्धर्वपुरस्य ह्यनेकवर्णपरिमण्डितत्वरूपसामान्यधर्मेण नभसो योपमा तन्मूलिका भ्रान्तिः । अत उपमोत्थापितोऽयं भ्रान्तिमानलङ्कारः । तेनोभयोरङ्गाङ्गिभावेन सङ्करः ।। १४.३१ ।।


महास्वनः(५) सैन्यविमर्दसम्भवः कर्णान्त(६)कूलंकषतामुपेयिवान् ।
पयोनिधेः क्षुब्धतरस्य (७)वर्धनो बभूव भूम्ना भुवनोदरम्भरिः ।। १४.३२ ।।

{५.रवः प्रगल्भाहतभेरिसम्भवः.६.मूलंकषताम्.७.मन्थनः.}
     अन्वयः- कर्णाऽन्तकूलङ्कषताम् उपेयिवान् क्षुब्धतरस्य पयोनिधेः वर्धनः भुवनोदरम्भरिः सैन्यविमर्दसम्भवः महास्वनः भूम्ना बभूव ।
सीo- महास्वन इति । कर्णान्तः श्रवणमध्यं स एव कूलं तटम् । `अथ कूलं तटे सूर्ये सैन्यपृष्ठतडागयोः' इति मेदिनी । तत्कषत्युन्मार्ष्टि तस्य भावस्तत्ता ताम् । `सर्वकूलाभ्रकरीषेषु कष' इति खश् । `अरुद्विषत्-' इति मुम् । उपेयिवान्प्राप्तवान् । कर्णान्तं स्फोटयन्नित्यर्थः । क्षुब्धतरस्यात्यन्तसंचलितस्य । वेलामतिक्रान्तस्येत्यर्थः । पयोनिधेः समुद्रस्य वर्धनः । कर्तरि ल्युट् । तथा भुवनैः कृत्वोदरं भरतीति तथोक्तः । आवृतसकलब्रह्माण्डत्वाद् भुवनानां मध्यपातो युक्त इति भावः । एवंभूतः सैन्यविमर्दसम्भवः सेनासंघट्टनोत्पन्नो महास्वनो भूम्ना बाहुल्येन युक्तो बभूव । अतिमहत्त्वविशिष्टो जात इत्यर्थः ।। १४.३२ ।।


महागजानां गुरुबृंहितैस्ततैः(१) सुहेषितैर्घोरतरैश्च वाजिनाम् ।
(२)घनै रथानां गुरुचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः ।। १४.३३ ।।

{१.शतैः,स तैः.२.स्वनैः.}
     अन्वयः- महागजानां गुरुबृंहितैः, ततैः घोरतरैश्च वाजिनां सुहेषितैः, घनैः रथानां गुरुचण्डचीत्कृतैश्च पटहस्य निःस्वनः तिरोहितः अभूत् ।
     सीo-- महागजानामिति । महागजानां महतां दन्तिनां सम्बन्धिभिर्गुरुबृंहितैर्गुरुणि गम्भीराणि यानि बृंहितानि ध्वनितानि तैः । तथा ततैर्विस्तृतैः । तथा घोरतरैरत्यन्तभयङ्करैर्वाजिनां सुहेषितैः शोभनहेषणैः । तथा घनैर्गम्भीरै रथानां सम्बन्धिभिर्गुरूणि महान्ति चण्डानि भयानकानि च यानि चीत्कृतानि तेश्च पटहस्य निस्वनः स्वनस्तिरोहितोऽन्तर्हितः । अप्रकाशित इति यावत् । अभूत् ।। १४.३३ ।।


महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु(३) च ।
ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः ।। १४.३४ ।।

{३.ष्वलम्.}
     अन्वयः- महासुराणाम् अवरोधयोषितां कचाऽक्षिपक्ष्मस्तनमण्डलेषु ध्वजेषु नागेषु रथेषु वाजिषु च रजः क्षणं तस्थौ ।
     सीo- महासुराणामिति । महासुराणां तारकादीनां सम्बन्धिनीनामवरोधयोषितामन्तःपुरस्त्रीणाम् । `शुद्धान्तश्चावरोधश्च' इत्यमरः । सम्बन्धीनि कचाश्च, अक्षिपक्ष्माणि च, स्तनमण्डलानि च तस्मिन् । `द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति प्राण्यङ्गत्वादेकवद्भावः । तथा ध्वजेषु नागेषु हस्तिषु रथेषु वाजिषु च घनं सान्द्रं सुरसैन्यजं रजो धूलिः तस्थौ । अनेन तेषां शत्रूणामशुभमुक्तमिति ध्वनिः ।। १४.३४ ।।


(१)घनैर्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं (२)नभःस्थलम् ।
(३)अयायि हंसैरभि मानसं घनभ्रमेण सानन्दमनर्ति केकिभिः ।। १४.३५ ।।

{१.चलैः.२.नभस्तलम्.३.अयापि;अवापि.}
     अन्वयः- घनैः स्थगिताऽर्कमण्डलैः चमूरजोभिः निचितं नभःस्थलं विलोक्य घनभ्रमेण हंसैः मानसम् अभि अयायि, (अथ च) केकिभिः सानन्दम् अनर्ति ।
     सीo-- घनैरिति । घनैः सान्द्रैरत एव स्थगितार्कमण्डलेराच्छादितसूर्यबिम्बैश्चमूरजोभिः सेनाधूलिभिर्निचितं व्याप्तं नभस्थलं व्योमदेशं विलोक्य घनभ्रमेण मेघभ्रान्त्या हंसैर्मरालैर्मानसं सराऽभि संमुखमयायि गतम् । भावे लुङ् । तेषां वर्षास्वप्रगल्भत्वादिति भावः । अथ केकिभिर्मयूरैः सानन्दं सहर्षमनर्ति नृत्यमकारि । अत्रापि भावे लुङ् ।। १४.३५ ।।


(४)सान्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैरभिश्रितै(५) ।
चकाशिरे (६)स्वर्णमया महाध्वजाः परिस्फुरन्तस्तडितां गणा इव ।। १४.३६ ।।

{४.सान्द्रे.५.विलासिभिः,श्रिते,निभैरभिस्रुतैः.६.स्वर्णमयध्वजव्रजाः.}
     अन्वयः- अम्बरे नवाऽम्बुदाऽनीकनिभैः सान्द्रैः सुराऽनीकरजोभिः अभिश्रिते स्वर्णमया महाध्वजाः परिस्फुरन्तः तडितां गणाः इव चकाशिरे ।
     सीo- सान्द्रैरिति । अम्बरे नभति । `अम्बरं वासरि व्योम्नि कार्पासे च सुगन्धके' । इति मेदिनी । नवो नूतनः इति यावत् । योऽम्बुदो मेघस्तस्यानीकं समूहस्तन्निभैस्तत्सदृशैः । `निभस्तु कथितो व्याजे पुलिंगः सदृशे त्रिषु' इति मेदिनी । तथा सान्द्रैः सघनैः । `सान्द्रं बले वापि घने मृदौ च' । इति मेदिनी । सुराणामनीकस्य सैन्यस्य रजोभिः । `रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' । इति मेदिनी । अभिश्रित आवृते सति स्वर्णमया हेममया महाध्वजा महान्तो ध्वजाः । `ध्वजः स्याच्छौण्डिके पुमान् । न स्त्रियां तु पताकायां खट्वाङ्गे मेढ्रचिह्नयोः' । इति मेदिनी । परिस्फुरन्तः परितः स्फुरन्तः प्रकाशमानास्तडितां विद्युताम् । `तडित् सौदामनी विद्युत्' इत्यमरः । गणाः समूहा इव चकाशिरे शुशुभिरे ।। १४.३६ ।।


विलोक्य धूलीपटलैर्भृशं भृतं द्यावापृथिव्योरलमन्तरं महत् ।
किमूर्ध्वतोऽधः (१)किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत ।। १४.३७ ।।

{१.अधस्तत्.}
     अन्वयः- जनैः द्यावापृथिव्योः महत् अन्तरं धूलीपटलैः भृशं भृतं विलोक्य रजः उर्ध्वतः अधः उपैति किम् ? अधस्त ऊर्ध्वतः अभ्युपैति किम् ? इति अलम् अतर्क्यत ।
     सीo- विलोक्येति । जनैर्लोकैर्द्यावापृथिव्योर्द्यौश्च पृथिवी च तयोः । `दिवसश्च पृथिव्याम्' इत्यत्र चकाराद्द्यावादेशः । महद्विशालमन्तरमवकाशो धूलिपटलै रजोनिचयैर्भृशं बहु यथा भृतं पूर्णं विलोक्य रज ऊर्ध्वतः सकाशदध उपैति । किंवाऽधस्तः सकाशादूर्ध्वत उर्ध्वभागे । सार्वविभक्तिकस्तसिः । अभ्युपैति किमित्यलं पर्याप्तमतर्क्यत तर्कितम् । भावे लङ् । सर्वतो रजोव्याप्त्या कुत आगच्छतीति निश्चयाभावादिति भावः ।। १४.३७ ।।


नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु (२)चक्षुषोर्गतिः ।
(३)सूच्यग्रभेद्यैः पृतना(४)रजश्चयैराच्छादिता(५) प्राणिगणस्य सर्वतः ।। १४.३८ ।।

{२.चक्षुषः.३.सूच्यग्रभिन्नैः.४.रजोभरैः,रजोभिः.५.सुनिर्भरम्.}
     अन्वयः- सूच्यग्रभेद्यैः पृतनारजश्चयैः सर्वत आच्छादिता प्राणिगणस्य चक्षुषोः गतिः उर्ध्वं न, अधश्च न, पुरो न, पृष्टतो न, पार्श्वतः (अपि) न अभूत् खलु ।
     सीo- नोर्ध्वमिति । सूच्यग्रेण सीवनद्रव्यपुरोभागेन । `सूची तु सीवनद्रव्येऽप्याङ्गिकामिनयान्तरे' । इति मेदिनी । भेद्यैर्भेत्तुं योग्यैः । `ऋहलोः-' इति ण्यत् । अनेनातिसद्यस्ता द्योतिता । तथाभूतैः पृतनायाः सेनायाः । `पृतना तु स्त्रियां सेनामात्रसेनाविशेषयोः' । इति मेदिनी । रजसां चयैः समूहैः । `चयः समूहे प्राकारमूलबन्धे समाहतौ' । इति मेदिनी । सर्वत आच्छादिताऽऽवृता प्राणिगणस्य जन्तुसमूहस्य चक्षुषोर्नेत्रयोः । `लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी' इत्यमरः । गतिः प्रसरणमूर्ध्वं नाभूत्, अधश्च नाभूत्, पुरो नाभूत्, पृष्ठतो नाभूत्, पार्श्वतोऽप्युभयतो नाभूत् । खलु निश्चयेन ।। १४.३८ ।।


दिगन्तदन्त्यावलि(१)दानहारिभिर्विमानरन्ध्रप्रतिनादमेदुरैः ।
अनेकवाद्य(२)ध्वनितैरनारतैर्जगर्ज गाढं (३)गुरुभिर्नभस्तलम् ।। १४.३९ ।।

{१.दन्तावल.२.वाह.३.गुरुमत्सरादिव.}
     अन्वयः-- दिगन्तदन्त्यावलिदानहारिभिः विमानरन्ध्रप्रतिनादमेदुरैः गुरुभिः अनारतैः अनेकवाद्यध्वनितैः नभस्तलं गाढं जगर्ज ।
     सीo- दिगन्तेति । दिगन्तेषु या दन्त्यावलिर्गजपङ्क्तिस्तस्या दानं मदजलं तस्य हारिभिः शेषकैः । घोरध्वनितश्रवणजनितभयवशाद्दिगन्तदन्तिनोऽपि शुष्कमदजला जाता इति भावः । तथा विमानानां देवस्यन्दनानां रन्ध्रेषु जालेषु यः प्रतिनादः प्रतिध्वनिस्तेन मेदुरैः पुष्टैर्गुरुभिर्दीर्घैरनारतैरविद्यमान क्षणिकविरामैरनेकवाद्यानां मृदङ्गादीनां ध्वनितैर्घोषेः कृत्वा नभस्तलं कर्तृ गाढं दृढं जगर्ज । प्रतिननादेत्यर्थः । अन्योऽपि कस्मिंश्चित्कर्णकटुरवकारिणि सति तदस्थोऽपि प्रतिनदति तद्वत् । समासोक्तिरलंकारः- `समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य यत्' । इति लक्षणात् ।। १४.३९ ।।


भुवं विगाह्य प्रययौ महाचमूः (४)क्वचिन्न मान्ती (५)महतीं दिवं खलु ।
सुसंकुलायामपि तत्र निर्भरात्किं(६) कांदिशीकत्वमवाप नाकुला ।। १४.४० ।।

{४.ततः.५.दिवमभ्यागात्ततः.६.निर्भरा विकांदिशीकत्वम्.}
     अन्वयः-- महाचमूः भुवं विगाह्य क्वचित् (अपि) न मान्ती महतीं दिवं प्रययौ खलु । निर्भरात् सुसङ्कुलायाम् अपि तत्र आकुला सती कान्दिशीकत्वं किं न अवाप ?
     सीo- भुवमिति । महाचमूर्महती सेना भुवं विगाह्य व्याप्य क्वचिदपि भूमिस्थले न मान्त्यसमाविशन्ती सती महतीं विशालां दिवं स्वर्गं प्रययौ प्राप खलु निश्चयेन । अथ च निर्भरादधिकात्मभाराद्धेतोस्तत्रापि दिव्यपि सुतरां संकुलायां व्याप्तायां सत्यामाकुला व्याकुला सती कांदिशीकत्वं भयद्रुतत्वम् । `कांदिशीको भयद्रुतः' इत्यमरः । किं नावाप । अपि त्ववापेवेत्यर्थः । परस्परपेषणभिया व्याकुलत्वाद् दुद्रुवुरित्यर्थः । अत्र द्रवणं द्ववणेच्छामात्रपरम् । द्रवणं कर्तुमैच्छदिति तात्पर्यार्थः । अन्यथा व्याप्तेः प्रतिबन्धकत्वेन द्रवणासम्भवाद् द्रवणोक्तेरफलत्वापत्तिः ।। १४.४० ।।


उद्दामदान(१)द्विपवृन्दबृंहितैर्नितान्तमुत्तुङ्गतुरङ्गहेषितैः ।
(२)चलद्घनस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमिवाकुलं(३) जगत्(४) ।। १४.४१ ।।

{१.द्विपबृंहितेः.२.चलध्वज.३.अथ.४.नभः.}
     अन्वयः- उद्दामदानद्विपवृन्दबृंहितैः नितान्तम् उत्तुङ्गतुरङ्गहेषितैः नितान्तं चलद्घनस्यन्दननेमिनिस्वनैः आकुलं जगत् निरुच्छ्वासम् इव बभूव ।
     सीo-- उद्दामेति । उद्दामदाना उत्कटमदा ये द्विपा गजास्तेषां वृन्दस्य समूहस्य बृंहितैः शब्दैः । तथोत्तुङ्गा उन्नता ये तुरङ्गा अश्वास्तेषां हेषितैर्हेषाभिः । तथा नितान्तमत्यन्तं चलन्तो घना इव स्यन्दना रथास्तेषां या नेमयश्चक्रधारास्तासां निःस्वनैश्च नितरामाकुलं व्याकुलं जगन्निरुच्छ्वासमिव निरुद्धश्वासमिवाभूत् । आकुलत्वसाधारणधर्मेण निरुद्धश्वासत्वमुत्प्रेक्षत इत्युत्प्रेक्षालङ्कारः ।। १४.४१ ।।


महागजानां गुरुभिस्तु गर्जितैर्विलोलघण्टारणितै (५)रणोल्वणैः ।
(६)वीरप्रणादैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः ।। १४.४२ ।।

{५.रणोज्ज्वलैः.६.वीरप्रभेदैः.}
     अन्वयः-- महागजानां गुरुभिः गर्जितैः, रणोल्बणैः विलोलघण्टारणितैः प्रमदप्रमेदुरैः वीरप्रणादैः दिशः वाचालताम् आदधिरेतराम् ।।
     सीo- महागजानामिति । महागजानां सम्बन्धिभिर्गुरुभिर्दीर्घैर्गर्जितै रणोल्वणैर्विलोला या घण्टास्तासां रणितैश्च प्रमदेनोन्मादेन निमित्तेन प्रमेदुरैः प्रकर्षेण पुष्टैर्वीरप्रणादैर्वीराणां शब्दैश्च दिशः काष्ठाः कर्त्र्यः । वाचालतां मुखरतामादधिरेतरामतिशयेन धृतवत्यः । तरपि `किमेत्तिङ्-' इत्याम् ।। १४.४२ ।।


दन्तीन्द्(१)रदानद्रववारिवीचिभिः सद्योऽपि नद्यो (२)बहुधा पुपूरिरे ।
(३)धारा रजोभिस्तुरगैः क्षतैर्भृता याः पङ्कतामेत्य रथैः स्थलीकृताः ।। १४.४३ ।।

{१.दानाम्बुधि,दानद्रुत.२.बहुताः.३.धरारजोभिस्तुरमक्षतैर्भृतं वाः पङ्कतामेत्य रजस्वलीकृतम्,धारारजोभिस्तुरगैः क्षितिर्भृता या पङ्कतामेत्य रथैः स्थलीकृता.}
     अन्वयः- दन्तीन्द्रदानद्रववारिवीचिभिः नद्यः अपि सद्यः बहुधा पुपूरिरे । (अथ) याः तुरगैः क्षतैः रजोभिः भृताः पङ्कताम् एत्य रथैः धाराः स्थलीकृताः ।
     सीo- दन्तीन्द्रेति । दन्तीन्द्राणां गजेन्द्राणां ये दानद्रवाः मदस्रुतयस्तेषां वारीणि जलानि तेषां वीचिभिस्तरङ्गैः कर्तृभिः । नद्यो वाहिन्योऽपि सद्यो बहुधा पुपूरिरे पूरिताः । कर्मणि लिट् । ग्रीष्मसन्तापेन शुष्का अपि नद्यो जलपूर्णा आसन्नित्यर्थः । अथ या नद्यस्तुरगैः क्षतैः क्षुण्णै रजोभिर्भृताः पूर्णा अत एव पङ्कतां कर्दमतामेत्य स्थिताः । ता रथैः कर्तृभिः । धाराश्चक्रधारा भ्रामयित्वा स्थलीकृताः ।। १४.४३ ।।


(४)निम्नाः प्रदेशाः स्थलतामुपागमन्निम्नत्वमुच्चैरपि (५)सर्वतश्च ते ।
तुरङ्गमाणां व्रजतां खुरैः (६)क्षता रथैर्गजेन्द्रैः परितः (७)समीकृताः ।। १४.४४ ।।

{४.निम्नप्रदेशः.५.सर्वतः स्थलम्,सर्वतः स्थलाः.६.क्षिती.७.समीकृता.}
     अन्वयः- निम्नाः प्रदेशा- स्थलताम् उपागमन् । सर्वतः उच्चैः अपि ते निम्नत्वम् (उपागमन्) अथ च व्रजतां तुरङ्गमाणां खुरैः क्षाताः रथैः गजेन्द्रैः (च) परितः समीकृताः ।
     सीo- निम्ना इति । निम्ना नीचाः प्रदेशा भूमयः स्थलतां समानभूमित्वमुपागमन्प्रापुः । सर्वत उच्चैरप्युन्नता अपि ते प्रदेशा निम्नत्वमुपागमन् । निम्नमुच्चैरभवत्, अन्यप्रदेशोत्थापितधूलिपूरितत्वात् । उच्चैर्निम्नमभवत्, आत्मधूलिनामन्यत्र पतितत्वादिति भावः । अथ च ते प्रदेशा व्रजतां गच्छतां तुरङ्गमाणां खुरैः क्षताश्चुक्षुदिरे । अत एव रथैर्गजेन्द्रैश्च परितो निम्नोन्नतेषु समीकृताः । समाश्चक्रिर इत्यर्थः ।। १४.४४ ।।


नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्वणैः ।
(१)पयोधिनिर्धूननकेलिभिर्जगद् बभूव भेरीध्वनितैः(२) समाकुलम् ।। १४.४५ ।।

{१.पयोधिनिर्धूननकेलिभिः,पयोधिनिर्धूतककेलिभिः.२.स्वनितैः.}
     अन्वयः-- नभोदिगन्तप्रतिघोषभीषणैः महामहीभृत्तटदारणोल्बणैः पयोधिनिर्धूननकेलिभिः भेरीध्वनितैः जगत् समाकुलं बभूव ।
     सीo-- नभ इति । नभसि व्योम्नि दिगन्तेषु च यः प्रतिधोषः प्रतिध्वनिस्तेन भीषणैर्भयानकैः । महान्ति यानि महीभृतां तटानि भृगवस्तेषां दारणे भेदन उल्बणैरुद्भटैः । समर्थैरिति यावत् । तथा पयोधेः समुद्रस्य निर्धूनने कम्पने केलिः क्रीडा येषाम् । पयोधिमपि कम्पयद्भिरित्यर्थः । भेरीध्वनितैर्वदनैकवाद्यमानवाद्यविशेषरवैर्निमित्तैर्जगत् समाकुलं व्याकुलं बभूव ।। १४.४५ ।।


इतस्ततो वातविधूत (३)चञ्चलैर्नोरन्ध्रिताशागमनैर्ध्वजांशुकैः(४) ।
(५)लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैरमज्जि धूलीजलधौ नभोगते(६) ।। १४.४६ ।।

{३.विधूति.४.आरोधिताशा.५.लघु क्वणत्,चलत्क्वणत्.६.नभोगतैः.}
     अन्वयः- इतस्ततः वातविधूतचञ्चलैः नीरन्ध्रिताशागमनैः क्वणत्काञ्चनकिङ्किणीकुलैः लक्षैः ध्वजांऽशुकैः नभोगते धूलीजलधौ अमज्जि ।
     सीo- इत इति । इतस्ततो वातविधूतानि पवनकम्पितान्यत एव चञ्चलानि च तैः । तथा नीरन्ध्रितं निरवकाशीकृतमाशासु दिक्षु गमनं यैः । आत्मव्याप्त्या रुद्धपथिकपथैरित्यर्थः । क्वणद्रणत्काञ्चनाकिङ्किणीनां सौवर्णनूपुराणां कुलं जालं येषां प्रान्तभागेषु । शोभार्थं प्रतिबद्धनूपुरजालैरित्यर्थः । लक्षैर्लक्षसंख्यैः । `लक्षं शरव्ये संख्यायाम्' इति मेदिनी । ध्वजांशुकैर्ध्वजपटैः । `अंशुकं शुक्लवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः' इति मेदिनी । नभसि गते प्रसृते धूलिजलधौ रजोम्बुधावमज्जि मज्जितम् । भावे लुङ् । सर्वाणि ध्वजांशुकानि धूलिभिरलक्षितानि बभूवुरित्यर्थः ।। १४.४६ ।।


घण्टारवै रौद्रतरैर्निरन्तरं(१) विसृत्वरैर्गर्जरवैः सुभैरवैः ।
(२)मत्तद्विपानां प्रथयाम्बभूविरे न वाहिनीनां पटहस्य निःस्वनाः ।। १४.४७ ।।

{१.निरन्तरैः.२.मदद्विपानाम्.}
     अन्वयः- मत्तद्विपानां निरन्तरं विसृत्वरैः सुभैरवैः गर्जरवैः रौद्रतरैः धण्टारवैः वाहिनीनां पटहस्य निस्वनाः न प्रथयाम्बभूविरे ।
     सीo- घण्टारवैरिति । मत्तद्विपानां सम्बन्घिभिर्निरन्तरं विसृत्वरैः प्रसृमरैः । सुतरां भैरवैर्भीषणैः । `भैरवः पुंसि शम्बरे । भीषणेऽपि च' इति मेदिनी । गर्जरवैर्गर्जनारूपघोषैः । रौद्रतरैरत्युग्रैः । `रौद्रं तूग्रममीत्रिषु' इत्यमरः । घण्टारवैश्च । वाहिनीनां सेनानां सम्बन्धिनः पटहस्यानकाख्यवाद्यविशेषस्य निःस्वनाः शब्दा न प्रथयांबभूविरे न प्रकटीचक्रिरे ।। १४.४७ ।।


करालवाचाल(३)मुखाश्चमू(४)स्वनै(५)र्ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः ।
तिरोबभूवे (६)गहनैर्दिनेश्वरो रजोन्धकारैः परितः कुतोऽप्यसौ ।। १४.४८ ।।

{३.मुखैः,रवैः.४.चमू रवैः.५.स्त्रस्ताम्बराः,स्त्रस्तां धराम्.६.गगने,गहने.}
     अन्वयः- चमूस्वनैः करालवाचालमुखाः ध्वस्ताऽम्बराः रजस्वला दिशः वीक्ष्य परितः गहनैः रजोऽन्धकारैः असौ दिनेश्वरः कुतः अपि तिरोबभूव ।
     सीo- करालेति । चमूस्वनैः सेनाघोषैः करालानि वाचालानि च मुखानि प्रारम्भाः । `मुखं निःसरणे वक्रे प्रारम्भोपाययोरपि' इति मेदिनी । तथा ध्वस्तं रजोव्याप्तमम्बरं यासाम् । तथा रजस्वला रजोयुक्ता दिशो वीक्ष्य परितो गहनैः सघनैः रजोन्धकारैः कर्तृभिः । असौ दिनेश्वरः सूर्यः कुतोऽपि कुत्रापि तिरोबभूवे तिरोगमितः । अन्तर्हित इत्यर्थः । `भूङ्गतौ' इत्यतो लिट् । `भू प्राप्तौ' इत्यतो वा । वीक्ष्येवेति गम्योत्प्रेक्षा । अथ द्वितीयपक्षे-रजस्वला आर्तववतीः । अत एव कराला भीषणा वाचां वाणीमलान्त्यगृह्णन्ति मुखानि यासाम् । ततो विशेषणसमासः । मौनव्रतधारिणीरित्यर्थः । तथा ध्वस्ताम्बराः स्रस्तशाटिकाः । नग्ना इत्यर्थः । एवं भूता चमूर्योषितः । `चमूः सेनाविशेषे च सेनामात्रे च योषिति' । इति मेदिनी । वीक्ष्य रजस्यार्तवविषयेऽन्धकारोऽन्धवत्कारः कृतिः । क्रिया इति यावत् । भावे घ़ञ् । आर्तवमपत्रपद्भिरित्यर्थः, रजस्वलादर्शननिषेघात् । गहनैर्गहनमनोभिः सद्भिरित्यर्थः । दिनेश्वरः कश्चित्पुरुषः कुतोऽपि कुत्रापि तिरोभूयते, कश्चिदसत्पुरुषो रजस्वलां पश्यन्नपि सद्भिः करुणया पटादिभिस्तिरोधीयते तद्वदित्यर्थः ।। १४.४८ ।।


आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योम रजोभिदूषिता ।
भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं (१)घनमत्सरादिव ।। १४.४९ ।।

{१.गुरुमत्सरादिव.}
     अन्वयः-- सैनिकैः रभसेन आक्रान्तपूर्वा दिगङ्गना रजोऽभिदूषिता घनमत्सरात् इव व्योम भेरीरवाणां घनैः प्रतिशब्दितैः गाढं जगर्ज ।
     सीo-- आक्रान्तपूर्वेति । सैनिकैः सेनाजनै रभसेन वेगेनाक्रन्तपूर्वा पूर्वमाक्रान्ता दिगङ्गना दिग्रूपा नायिका रजसा धूल्या, आर्तवेन च । `रजो रेणौ परागे स्यादार्तवे च गुणान्तरे' । इति मेदिनी । अभिदूषिता कृता, वीक्ष्येति शेषः । अतो घनमत्सरादिव गाढद्वेषादिव व्योम कर्तृ भेरीरवाणां घनैः प्रतिशब्दितैः कृत्वा गाढं जगर्ज । अन्योऽप्यात्मपत्नीमन्यसङ्गमेन रजोयुक्तां वीक्ष्य गर्जति ।। १४.४९ ।।


गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे ।
गुरुतरा (२)इव वारिधरा रथा भुवमितीह(३) विवर्त(४) इवाभवत्(५) ।। १४.५० ।।

{२.बहुवारिभराद्घनाः.३.अतीव.४.नमन्तः.५.अभवन्.}
     अन्वयः- गुरुसमीरसमीरितभूधराः इव गजाः गगनं विजगाहिरे । गुरुतराः वारिधरां इव रथाः भुवम् (विजगाहिरे) इह इति विवर्तः इव अभवत् ।
     सीo- गुरुसमीरेति । गुरुणा महता समीरेण वातेन समीरिता उपरिक्षिप्ता भूधराः पर्वता इवेत्युत्प्रेक्षा । गजा गगनं विजगाहिरे । अवगाहितवन्त इत्यर्थः । गुरुतरा अपि महान्तो वारिधरा मेघा इवेत्युत्प्रेक्षा । रथा भुवं विजगाहिरे । इह सङ्गर इत्येवं विवर्त इव व्यत्यय इवाभवत् । गगनपृथिव्यवगाहने स्यन्दननागयोर्भूधरसम्भवात् । उत्प्रेक्षितं च तत्सादृश्यदर्शनात् । द्रुतविलम्बितं वृत्तम् ।। १४.५० ।।


(१)बलवदसुरलोकानल्प(२)कल्पान्तकाले

निरवधय इवाम्भोराशयो घोरघोषाः(३) ।
गुरुतरपरिमज्जद्भूभृतो देवसेना

(४)ववृधुरपि (५)सुपूर्णा व्योमभूम्यन्तराले ।। १४.५१ ।।

{१.वरतरसुर.२.संहारकाले.३.घोरघोराः.४.ववृषुः.५.सुपूर्णव्योमभूम्यन्तरालाः,समाना व्योम्रि भूम्यन्तराले.}
     अन्वयः-- गुरुतरपरिमज्जद्भूभृतः व्योमभूम्यन्तराले सुपूर्णाः घोरघोषाः देवसेना अपि बलवदसुरलोकाऽनल्पकल्पाऽन्तकाले निरवधयः अम्भोराशय इव ववृधुः ।
     सीo-- बलवदिति । गुरुतरा अत एव परिमज्जन्तो भूभृतो राजानः पर्वताश्च यासु येषु च । व्योमभूम्योर्द्यावापृथिव्योन्तराले मध्ये सुतरां पूर्णा अपि । इत्युभयत्रापि समानम् । घोरघोषा भयानकरवा देवसेना ववृधुः । तत्रोत्प्रेक्षते-बलवतामसुरलोकानामनल्पो महान्यः कल्पान्तकालः प्रलयकालस्तत्र निरवधयोऽपारा अम्भोराशय इव समुद्रा इव । अत्रोपमैव अस्त्विति चेत्, न । तत्राभिन्नलिङ्गमुभयोरिति नियमात् । मालिनी छन्दः । लक्षणं पूर्वमुक्तम् ।। १४.५१ ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसम्भवश्रीसीता-

रामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसम्भवे

महाकाव्ये देवसेनाप्रयाणं नाम चतुर्दशः सर्गः ।।