कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/प्रथमः सर्गः(उमोत्पत्तिः)

विकिस्रोतः तः
कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)
प्रथमः सर्गः(उमोत्पत्तिः)
कालिदासः
द्वितीयः सर्गः(ब्रह्मसाक्षात्कारः) →

श्रीः

संजीविनीव्याख्यासमेतं

कुमारसंभवम्


प्रथमः सर्गः

   मातापितृभ्यां जगतो नमो वामार्धजानये ।
   सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
 अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
 तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥
 शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् ।
 करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥
  इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
  नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥
  भारती कालिदासस्य दुर्व्याख्याविषमूर्च्छिता ।
  एषा संजीविनी व्याख्या तामद्योज्जीवयिष्यति ॥

 तत्रभवान्कालिदासः कुमारसंभवं काव्यं चिकीर्षुः 'आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्' (काव्या. १।१४) इति शास्त्रात्काव्यादौ वक्ष्यमाणार्थानुगुणं वस्तु निर्दिशति--

अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोय[१]निधी व[२]गाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १ ॥

 अस्तीति ॥ उत्तरस्यां दिशि । अनेनास्य देवभूमित्वं सूच्यते । देवताऽऽत्माधिष्ठाता यस्य सः । एतेनास्य वक्ष्यमाणमेनकापरिणयपार्वतीजननादिचेतनव्यवहार


योग्यत्वः । हिमस्यालयः स्थानमिति हिमालयो नाम हिमालय इति सूचितम्

प्रसिद्धः। अधिको राजाधिराजः। 'राजाहःसखिभ्यष्टच्' (पा. ५।४।९१) । न गच्छन्तीति नगा अचलाः, तेषामधिराजो नगाधिराजोऽस्ति । कथंभूतः ? पूर्वापरौ प्राच्यपश्चिमौ तोयनिधी समुद्रौ वगाह्य प्रविश्य, अत एव पृथिव्या भूमेर्मानं हस्तादिना परिच्छेदः । भावे ल्युट् तस्य दण्डः । यद्वा,-मीयतेऽनेनेति मानम् । करणे ल्युट्, स चासौ दण्डश्च स इव स्थितः, आयामपरिच्छेदकदण्ड इव स्थित इत्यर्थः। पूर्वापरसागरावगाहित्वं चास्य हिमालयस्यास्त्येव । उक्तं च ब्रह्माण्डपुराणे- 'कैलासो हिमवांश्चैव दक्षिणे वर्षपर्वतौ । पूर्वपश्चायतावेतावर्ण वान्तर्व्यवस्थितौ ॥' अत्र हिमाचलस्योभयाब्धिव्याप्तिसाम्यान्मानदण्डत्वेनोत्प्रेक्षणादुत्प्रेक्षालंकारः । 'प्रकृतेऽप्रकृतगुणक्रियादिसंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा' इत्यलंकारसर्वस्वकारः । अस्मिन्सर्गे प्रायेण वृत्तमुपजातिः । क्वचिदिन्द्रवज्रोपेन्द्रवज्रे च । तल्लक्षणं तु-'स्यादिन्द्रवज्रा यदि तौ जगौ गः' । 'उपेन्द्रवज्रा जतजास्ततो गौ'। 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति ॥ ३॥

 इतः परं षोडशभिः श्लोकैर्हिमालयं वर्णयति । तत्र नगाधिराजत्वं निर्वोढुमाह-

यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ।।२।।

 यमिति ॥ सर्वे च ते शैलाश्च सर्वशैलाः । 'पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन' (पा.२|१|४९) इति समासः । यं हिमालयं वत्सं परिकल्प्य विधाय दोहदक्षे दोहनसमर्थे मेरौ दोग्धरि स्थिते सति । 'यस्य च भावेनभावलक्षणम्' (पा.२।३।३७) इति सप्तमी । पृथूपदिष्टां पृथुना वैन्येनोपदिष्टामीहत्तया प्रदर्शितां धरित्रीम्, गोरूपधरामिति शेषः। 'गौर्भूत्वा तु वसुंधरा' इति विष्णुपुराणात् । अकथितं च' (पा. १।४।५१) इति कर्मत्वम् ।भास्वन्ति च भास्व त्यश्च भास्वन्ति द्युतिमन्ति । ओषधिविशेषणं चैतत् । 'नपुंसकमनपुंसकेन-


टिप्प०-1 केचित्वत्र 'अनामनगाधिराजः' इति पाठमादृत्य 'नास्ति नामो नमनं यस्येत्यनामः, स चासौ नगाधिराजश्चेति स तथा कर्मधारयः । 'अनाम' सविशेषणेना स्योन्नतिमत्त्वमुक्तम्' इत्याहुः । अत्र २ 'अस्ति'पदस्यादौ प्रयोगात्तेनैव परमात्मनः प्रतिपादनाच्च मङ्गलमाचरितवान्कालिदास इत्यवसेयम् । (पा.१।२।६९) इत्यादिना नपुंसकैकशेषः। रत्नानि मणीञ्जातिश्रेष्ठवस्तूनि च । 'रत्नं श्रेष्ठे मणावपि' इति विश्वः । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते' इति यादवः । महौषधीश्च संजीवनीप्रभृतीश्च । क्षीरत्वेन परिणता इति शेषः । 'ताः क्षीरपरिणामिनी:' (१।१३।७८) इति विष्णुपुराणात् । दुदुहुः । 'दुहियाचि-'(वा० १०९०।११००) इत्यादिना द्विकर्मकत्वम् । अत्र प्रयोजकत्वेऽपि शैलानां 'पञ्चभिर्हलैः कर्षति ग्रामं ग्रामणीः' इतिवत्तत्समर्थाचरणात्कर्तृत्वेन व्यपदेशः । दुहेः स्वरितेत्त्वेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदम् । अत्रार्थे प्रमाणम्- 'गौर्भूमिरचलाः सर्वे कर्तारोऽत्र पयांसि च । ओषध्यश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सश्च हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥' इति । एतेन वत्सस्य मातुः प्रेमास्पदत्वादस्य सारग्राहित्वं गम्यते । तथा चास्य नगस्य रत्नविशेषभोक्तृत्वान्नगाधिराजत्वं युक्तमिति भावः । अत्र हिमवद्वर्णनस्य प्रकृतत्वात्तद्गतौषधिरत्नानां द्वयानामपि प्रकृतत्वात्तेषां दोहनक्रियारूपसमानधर्मसंबन्धादौपम्यस्य गम्यत्वात्केवलप्राकरणिकविषयस्तुल्ययोगितानामालंकारः । तदुक्तम्-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥' न चात्र रूपकपरिणामाद्यलंकारशङ्का कार्या, तेषामारोपहेतुत्वात् हिमहेमाचलादिषु वत्सत्वदोग्धृत्वादीनामागमसिद्धत्वेनानारोप्यमाणत्वादिति ॥२॥

 ननु हिमदोषदूषितस्य तस्यात्यन्तमनभिगम्यत्वाच्छृित्रिण इव सर्वमपि सौभाग्यं विफलमित्याशङ्क्याह-

अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसंनिपाते निमजतीन्दोः किरणेष्विवाङ्कः ॥३॥

 अनन्तेति ॥ प्रभवत्यस्मादिति प्रभवः कारणम् । अनन्तानामपरिमितानां रत्नानां श्रेष्ठवस्तूनां प्रभवस्य यस्य हिमाद्रेर्हिमम् । कर्तृ । सुभगस्य भावः सौभाग्यम् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (पा. ७।३।१९) इत्युभयपदवृद्धिः । तद्विलुम्पतीति सौभाग्यविलोपि सौन्दर्यविघातकं न जातं नाभूत् । तथा हि-एको


टिप्प०-1 श्लोकार्धमिदं दूषितं केनचिद्दारिद्द्र्य पीडितेन कविवराकेण-एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे। नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषोगुणराशिनाशी' इति ।

दोषो गुणसंनिपात इन्दोः किरणेष्वङ्क इव निमज्जति, अन्तर्लीयत इत्यर्थः । न हि स्वल्पो दोषोऽमितगुणाभिभावकः, किंतु कश्चिदिन्दुकलङ्कादिवद्गुणैरभिभूयते; अन्यथा सर्वरम्यवस्तुहानिप्रसङ्गादिति भावः । अत्रोपमानुप्राणितोऽर्थान्तरन्यासालंकारः। तल्लक्षणं तु-(काव्या.२११६९) 'ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ॥ इति दण्डी ॥ ३ ॥

यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति ।
बलाहकच्छेदविभक्तरागामकालसंध्यामिव धातुमत्ताम् ॥ ४ ॥

 यश्चेति ॥ किंचेति चकारार्थः । यो हिमाद्रिरप्सरसां विभ्रममण्डनानि विलासालंकरणानि । अथवा विभ्रमो विपरीतन्यासः । 'विभ्रमस्त्वरयाऽकाले भूषास्थानविपर्यये' (द० रू० २।३९) इति दशरूपकात् । तेन मण्डनानि तेषां संपादयित्रीम् । एतद्धातुरागदर्शिन्योऽप्सरसः संध्याभ्रमेण प्रसाधनाय त्वरयन्तीति भावः। तथात्वे भ्रान्तिमदलंकारोव्यज्यते । 'कर्तृकर्मणोः कृति' (पा.२।३।६५) इति कर्मणि षष्ठी । वारिणां वाहका बलाहकाः। पृषोदरादित्वात्साधुः। तेषां छेदेषु खण्डेषु विभक्तः संक्रमितो रागो यया ताम् । एतेनाद्रेरभ्रंकषत्वं गम्यते । इदं विशेषणद्वयं संध्यायामपि योज्यम् । धातवः सिन्दूरगैरिकादयोऽस्य सन्तीति धातुमान् । नित्ययोगे मतुप् । तस्य भावो धातुमत्ता ताम् । धातुयोगित्वमिति संबन्धोऽपि वाच्यार्थः 'समासकृत्तद्धितेषु संबन्धाभिधानं भावप्रत्ययेन' इति वचनात् । लक्षणया नित्यानुषङ्गिकधातुमित्यर्थः । अकालसंध्यामिवानियतकाल प्राप्तसंध्यामिव शिखरैर्बिभर्ति धत्ते । अत्र 'संध्या'शब्दस्य जातिवाचित्वाज्जात्युत्प्रेक्षा ॥४॥

आमेखलं संचरतां घनानां छायामधःसानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥५॥


पाठा०-१ छायामिषे सानुगताम् ; छायामधः सानुगता। टिप्प०---1 नारायणपण्डितस्तु 'वस्तुतस्त्वत्र विकस्वरालङ्कार एव । यत्र कस्यचिद्विशेषस्य समर्थनार्थं सामान्यं विन्यस्य तत्प्रसिद्धावाप्यपरितुष्यता कविना तत्समर्थनाय पुनर्विशेषान्तरन्यासविधया विन्यस्यते तत्र विकस्वरालङ्कारः।' इत्याह ।  आमेखलमिति ॥ सिद्धा अणिमादिसिद्धा देवयोनिविशेषाश्च । 'पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः' इत्यमरः। आ मेखलाभ्य आमेखलं नितम्बपर्यन्तम् । 'मेखला खड्गबन्धे स्यात्काचीशैलनितम्बयोः' इति विश्वः । 'आङ् मर्यादाभिविध्योः' (पा.२।१।१३) इत्यव्ययीभावः। संचरतां धनानां मेघा- नामधःसानूनि मेघमण्डलादधस्तटानि गतां प्राप्ताम् । 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः' (पा. २।१।२४) इति समासः। छायामनातपम्। 'छाया सूर्य- प्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । निषेव्य वृष्टिभिरुद्वेजिताः क्लेशिताः सन्तः । 'उद्वेगः स्तिमिते क्लेशे भये मन्थरगामिनि' इति शब्दार्णवः । यस्य हिमाद्रेरातपवन्ति सातपानि शृङ्गाण्याश्रयन्ते, आश्रित्य स्थिता इत्यर्थः । अतिमेघमण्डलमस्यौनत्यमिति भावः ॥ ५ ॥

पदं तुषारस्रुतिधौतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥६॥

 पदमिति ॥ यस्मिन्नद्रौ किरातास्तुषारस्रुतिभिर्हिमनिस्यन्दैधौतं क्षालितं रक्तं शोणितं यस्य तत्तथोक्तम् । अतो दुर्ग्रहमिति भावः । हता द्विपा गजा यैस्तेषां हतद्विपानां केसरिणां सिंहानां पदं पादप्रक्षेपस्थानमदृष्ट्वापि नखरन्धैर्नखद्रोणि- भिर्मुक्तैर्मुक्ताफलैर्मार्गं विदन्ति जानन्ति । अत्र व्याधाः सिंहघातिनो गजेन्द्राश्च मुक्ताकरा इति भावः । 'करीन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि' (गरुड. ६९।१) इति ॥ ६ ॥

न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥७॥

 न्यस्ताक्षरा इति । यत्र हिमाद्रौ धातुरसेन सिन्दूरादिद्रवेण । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यमरः । न्यस्ताक्षरा लिखितवर्णा अत एव


पाठा०‌-१ विन्दन्ति|


टिप्प-1 'अणिमा महिमा चैव लघिमा गरिमा तथा। प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः' इत्यष्टसिद्धियुक्ताः । सिमलक्षणं चोक्तम्-'अवाप्ताष्टगुणैश्वर्याः सिद्धाः सद्भिरुदाहृताः । तेषां कुलेऽपि ये जातास्तेऽपि सिद्धाः प्रकीर्तिताः' इति ।

कुञ्जरस्य ये बिन्दवः काये वयोविशेषभाविनः पद्मकाख्याः । 'पद्मकं विन्दुजालकम्' इत्यमरः । त इव शोणा रक्तवर्णाः लिखितभागेष्विति शेषः। भूर्जत्वचो भूर्जपत्रवल्कलानि । 'भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका अपि' इति यादवः विद्याधरसुन्दरीणाम् । लिख्यन्ते येषु ते लेखाः पत्रिकाः । अनङ्गस्य लेखास्तेषां क्रियया, कामव्यञ्जकलेखकरणेनेत्यर्थः । उपयोगमुपकारं व्रजन्ति । दिव्याङ्गनाविहारयोग्योऽयं शैल इति भावः ॥ ७ ॥

यः पूरयन्कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किंनराणां तानप्रदायित्वमिवोपगन्तुम् ॥८॥

 य इति॥यो हिमाद्रिः दरी गुहा सैव मुखं तस्मादुस्थेनोत्पनेन । 'आतश्चोपसर्गे' (पा. ३।१३१३६) इति कप्रत्ययः। समीरणेन वायुना कीचका वेणुविशेषाः । 'वेणवः कीचकास्ते स्युर्य स्वनन्त्यनिलोद्धताः' इत्यमरः । तेषां रन्ध्रभागान्छिद्रप्रदेशानू । पूरयन्धमयन् । 'वांशिकोऽपि वंशरन्ध्राणि मुखमारुतेन पूरयति' इति प्रसिद्धिः । उद्गास्यतां देवयोनित्वादुच्चैर्गान्धारग्रामेण गानं करिष्यताम् । उक्तं च नारदेन-'षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ॥' इति । किंनराणां देवगायकानां तानप्रदायित्वम् । तानो नाम स्वरान्तरप्रवर्तको रागस्थितिप्रवृत्त्यादिहेतुरंशापरनामा वंशवाद्यसाध्यः प्रधानभूतः स्वरविशेषः। 'तानस्त्वंशस्वरो मतः' इत्यभिनवगुप्तः। ‘गाता यं यं स्वरं गच्छेत्तं तं वंशेन तानयेत्' इति भरतः । तत्प्रदानशीलत्वं तानप्रदायित्वंचांशिकत्वमुपगन्तुमिच्छतीवेत्युत्प्रेक्षा । सा च दरीमुखोत्थेनेत्येकदेशविवर्तिरूपकोजीविता, मुखसाध्यत्वात्तानप्रदायित्वस्य । यत्रावयवरूपणादवयविरूपणं गम्यते तदेकदेशविवर्ति रूपकम् । गम्यते चात्रावयविनः पुंसो रूपणं यच्छब्द- निर्दिष्टे हिमाद्रावित्यलं बहुना ॥८॥

कपोलंकण्डू करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ॥ ९॥

 कपोलेति ॥ यत्र हिमाद्रौ करिभिर्गजैः । कपोलकण्डूर्गण्डस्थलकण्डूर्विनेतुमपनेतुं विघट्टितानां धर्षितानां सरलद्रुमाणां संबन्धि स्रुतानि करिकपोलघर्ष- णाक्षरितानि क्षीराणि येषां तेषां भावसत्ता तया हेतुना प्रसूत उत्पनो गन्धः


पाठा०-१ स्थान. २ कण्डम्. ३ समीरः. ४ गन्धैः. सानूनि सुरभीकरोति । एतेनास्य गजाकरत्वं गम्यते। तथा च गजायुर्वेदे- 'हिमवद्विन्ध्यमलया गजानां प्रभवा नगाः' इति ॥ ९॥

वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥१०॥

 वनेचराणामिति ॥ यत्र हिमाद्रौ रजन्यां दर्यः कन्दरा एव गृहास्तेषामुत्सङ्गेष्वभ्यन्तरेषु निषक्ताः संक्रान्ता भासो यासां ता ओषधयस्तृणज्योतींषि| 'अग्नावोषधिषु च तेजो निधाय रविरस्तं याति' इत्यागमः । वनितानां सखायो वनितासखाः । 'राजाहःसखिभ्यष्टच्' (पा.५।४।९१) । तेषाम् , रममाणानामित्यर्थः । वने चरन्तीति वनेचराः किराताः। 'चरेष्टः' (पा.३।२।१६) इति टप्रत्ययः । तत्पुरुषे कृति बहुलम्' (पा. ६।३।१४) इत्यलुक् । तेषां वनेचराणाम् । अतैलपूराः, अनपेक्षिततेलसेका इत्यर्थः । सुरते सुरतकर्मणि प्रदीपा भवन्ति । अत्रौषधीप्वारोप्यमाणस्य प्रदीपत्वस्य प्रकृतसुरतोपयोगित्वात्परिणामालंकारः । तदुक्तम् -'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' (अलं. १६) इति । तथा प्रदीपकारणतैलपूरणनिषेधादकारणकार्योत्पत्तिलक्षणा विभावना चेत्युभयोः संसृष्टिः ॥ १० ॥

उद्वेजयत्यङ्गुलिपार्णिभागान्मार्गे शिलीभृतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥११॥

 उद्वेजयतीति ॥ यत्र हिमाद्रौ, शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् । अत एवाङ्गुलीनां पार्ष्णीनां च भागान्प्रदेशानुद्वेजयत्यतिशैत्यात्लेशयत्यपि मार्गे । श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् । दुर्वहेण दुर्धरेण श्रोणिपयोधरेणार्ताः पीडिताः।आइपूर्वादृच्छतेः क्तः। 'उपसर्गारति धातौ' (पा.६।११९१) इति वृद्धिः। अश्वानां मुखानीव मुखानि यासां ता अश्वमुख्यः किंनरस्त्रियः । उष्ट्रमुखवत्स- मासः । 'स्यात्किनरः किंपुरुषस्तुरंगवदनो मयुः' इत्यमरः । मन्दां मन्थरां गतिं न भिन्दन्ति, न त्यजन्तीत्यर्थः । पादपीडाकरेऽप्यतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः ॥११॥

दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुचैःशिरसां सतीव ॥१२॥

दिवाकरादिति ॥ यो हिमाद्विर्दिवा दिवसे भीतं भयाविष्टमिव । उलृक-

पाठा०-१ अतीव. मिवेति च ध्वनिः । गुहासु लीनमन्धकारं ध्वान्तम् । दिवा दिनं करोतीति दिवाकरस्तस्माद्दिवाकरात् । 'दिवाविभानिशाप्रभाभास्कर-' (पा. ३।२।२१) इत्यादिना टप्रत्ययः । 'भीत्रार्थानां भयहेतुः' (पा. १।४।२५) इत्यपादानत्वात्पञ्चमी । रक्षति त्रायते। ननु क्षुद्रसंरक्षणमनहमित्याशङ्कयाह-क्षुद्र इति । उच्चैःशिरसा- मुन्नतानां शरणं प्रपन्ने शरणागते क्षुद्रे नीचेऽपि सति सज्जन इव नूनं ममत्वं ममायमित्यभिमानः, अस्तीति शेषः । 'मम'शब्दात्त्वप्रत्ययः। अर्थान्तरन्यासोऽलंकारः ॥ १२॥

लाङ्गूलविक्षेपविसर्पिशोभैरितस्ततश्चन्द्रमरीचिगौरैः।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः॥१३॥

 लाङ्गूलेति ॥ चमर्यो मृगीविशेषाः। इतस्ततो लाङ्गलानि वालधयः । 'पुच्छोऽस्त्री लोमलाङ्कले वालहस्तश्च वालधिः' इत्यमरः । तेषां विक्षेपैर्विधूननैर्विसर्पिण्यो विसृमराः शोभाः कान्तयो येषां तैश्चन्द्रमरीचिभिरिव गौरैः शुभैः । 'गौरः करीषे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि च' इति यादवः । 'उपमानानि सामान्यवचनैः' (पा. २१११५५) इति समासः । वालव्यजनैश्चामरैर्यस्य हिमाद्रे- गिरिराजशब्दं 'गिरिराज' इति नामार्थयुक्तमभिधेयवन्तं कुर्वन्ति । राजानो हि छत्रचामरादिचिह्निता इति भावः॥ १३ ॥

यत्रांशुकाक्षेपविलञ्जितानां यदृच्छया किंपुरुषाङ्गनानाम् ।
दरीगृहद्वारविलम्बिबिम्बास्तिरस्करिण्यो जलदा भवन्ति ॥१४॥

 यत्रेति ॥ यत्र हिमाद्रौ, अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानां किंपुरुपाङ्गनानां किंनरस्त्रीणां यदृच्छया देवगत्या दरीगृहद्वारेषु विलम्बिविम्बा लम्बमानमण्डला जलदास्तिरस्करिण्यो जवनिका भवन्ति । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । 'तिरसोऽन्यतरस्याम्' (पा. ८।३।४२) इति सत्वम् । अत्र जलदेष्वारोप्यमाणस्य तिरस्करिणीत्वस्य प्रकृतोपयोगित्वात्परिणामालंकारः॥१४॥


पाठा०-१चान्द्र. २ द्वारि.


टिप्प०-1 अयं श्लोको मम्मटेम दूषित:-'अत्राचेतनस्य तमसो दिवाकरात्रासो न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभा-

समानस्यास्य न काचिदनुपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्न इति ।

भागीरथीनिर्झरसीकराणां वोढा मुहुः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिखण्डिबर्हः ॥१५॥

 भागीरथीति ॥ भागीरथी निर्झरसीकराणां गङ्गाप्रवाहपयःकणानाम् । कर्मणि पष्ठी। वोढा प्रापकः । वहेस्तृच । मुहुः पुनःपुनः सद्यो वा । 'पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुःपदम्' इति वैजयन्ती । कम्पिता देवदारवो येन स तथोक्तः । भिन्नानि विश्लेषितानि शिखण्डिनां बर्हाणि गतिलाघवार्थं किरात- कटिबद्धानि येन स तथोक्तः । क्रमाद्विशेषणत्रयेण शैन्यसौरभ्यमान्यान्युक्तानि । यस्य हिमादेर्वायुः । अन्विष्टमृगैमर्गितमृगैः। श्रान्तैरिति भावः । 'अन्विष्टं मार्गितं मृगितम्' इत्यमरः । किरातैरासेव्यते ॥ १५ ॥

सप्तर्षिहस्तावचितावशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैमयूखैः ॥ १६ ॥

 सप्तर्षीति ॥ सप्त च ते ऋषयश्च सप्तर्षयः । दिक्संख्ये संज्ञायाम्' (पा.२।११५०)इति समासः । तेषां हम्तैरवचितेभ्यो लूनेभ्योऽवशेषाण्यवशिष्टानि । शेषोऽप्रधानसंतापे त्रिवन्यत्रोपयुज्यते' इति केशवः । कर्मण्यणप्रत्ययः । अनेन पद्मानां साफल्यं सूचितम् । यस्य हिमाद्रेः । रोहन्तीति रुहाणि । 'इगुपधज्ञाप्रीकिरः कः' (पा.३।१।१३५) इति कप्रत्ययः। अग्र उपरि यानि सरांसि तेषु रुहाणि पद्मान्यधः परिवर्तमानो भ्रमन्विवस्वान्सूर्य ऊर्ध्वमुखैमयूखैः प्रबोधयति विकासयति । न कदाचिदधोमुखैः। अतिमार्तण्डमण्डलत्वादग्रभूमेरिति भावः । 'सप्तर्षिमण्डलं ध्रुवादप्यूर्ध्वम्' इति ज्योतिषिकाः । अतस्तेषामग्रसरोरुहभागित्वं युक्तम् ॥ १६॥

यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं खयमन्वतिष्ठत् ॥१७॥

 यज्ञाङ्गेति ॥ यस्य हिमाद्रेर्यज्ञाङ्गानां यज्ञसाधनानां सोमलतादीनां योनिः  प्रभवस्तस्य भावस्तत्वम् । 'यज्ञाङ्गार्थं मया सृष्टो हिमवानचलेश्वरः' इति विष्णुपुराणात् । धरित्रीधरणक्षमं भूभारधरणयोग्यं सारं बलं च । 'सारो बले स्थिरांशे च' इत्यमरः । भवेक्ष्य ज्ञात्वा प्रजापतिः स्वयमेव कल्पितो यज्ञभागो यस्मिंस्त-


पाठा०-१ आचरित.

त्तथोक्तम् । 'सोमस्य राज्ञः कुरङ्ग इन्दोः शृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती' इति श्रुतेरिति भावः । शैलानामाधिपत्यमधिपतित्वम् । 'पत्यन्तपुरोहितादिभ्यो यक्' (पा. ५३१११२८) इति यक्प्रत्ययः । अन्वतिष्ठत् , ददाति स्मेत्यर्थः । उक्तं च ब्रह्माण्डपुराणे- 'शैलानां हिमवन्तं च नदीनां चैव सागरम् । गन्धर्वाणामधि- पतिं चक्रे चित्ररथं विधिः' इति ॥ १७ ॥

 संप्रति कथां प्रस्तौति-

स मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरूपां विधिनोपयेमे ॥१८॥

 स इति ॥ मेरोः सवा मेरुसग्वः । बन्धुसंपन्न इति भावः । स्थितिजोमर्यादाभिज्ञः । अनेन श्रुतसंपत्तिः सूच्यते । स हिमवान्पितॄणां मानसीं मन:संकल्पजन्यां मुनीनामपि माननीयाम् । योगिब्रह्मवादिभ्यां पूज्यामित्यर्थः । उक्तं च विष्णुपुराणे (१:१०,१८-१९)---'तेभ्यः शुभास्पदं जज्ञे मेनका हरिणी तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥' इति । आत्मानुरूपां कुलशीलसौन्दर्यादिभिः सदृशीं मेनां मेनकादेवीति नामवतीं कन्यां कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेणोपयेमे परिणीतवान् । 'उपाद्यमः स्वीकरणे' (पा. १।३।५६) इत्यात्मनेपदम् । तेषां तु मानसी कन्या मेना नाम महागिरेः । पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते ॥” इति ब्रह्माण्डपुराणात् ॥ १८ ॥

कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भोऽभवद्भूधरराजपत्न्या ॥ १९ ॥

 कालक्रमेणेति ॥ अथ कालक्रमेण, गच्छता कालेनेत्यर्थः । तयोर्मेनकाहिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे। यद्वा, रूप्यते निश्चीयतेऽनेनेति रूपं ज्ञानं तद्योग्ये, शास्त्रानुसारिणीत्यर्थः । सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमं यौवनमुद्वहन्त्या भूधरराजपल्या मेनकाया गर्भोऽभवत् ॥ १९ ॥

असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥२०॥

 असूतेति ॥ सा मेना नागवधूपभोग्यम्, नागकन्यापरिणेतारमित्यर्थः । अम्भोनिधिना बद्धसख्यं समुद्रकृतमैत्रीकम् । सख्यमूलं सूचयति-पक्षच्छिदि पक्षच्छेत्तरि । 'सत्सूद्विष-' (पा.३।२।६१) इत्यादिना विप्प्रत्ययः । वृत्रशत्रौ क्रुद्ध कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम् । संबन्धसामान्ये षष्ठी। जाना- तीति ज्ञः । 'इगुपधज्ञा-' (पा.३।१।१३५) इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । 'आतोऽनुपसर्गे कः' (पा.३।२।३) इति कप्रत्ययः । 'उपपदमतिङ्' (पा.२।२।१९) इति समासः। स न भवतीत्यवेदनाज्ञस्तम् , कुलिश- क्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यत- शक्रात्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । 'पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात्सुधीः ॥' इत्यभ्रातृककन्यापरिणय. निषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकवर्णनमिति तात्पर्यार्थः ॥२०॥

अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधू प्रपेदे ।। २१ ॥

 अथेति ॥ अथ मैनाकजननानन्तरं दक्षस्य प्रजापतः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता। 'सती साध्वी पतिव्रता' इत्यमरः । सती नाम देवी। पितुर्दक्षस्य । कर्तरि षष्ठी। अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनका प्रपेदे । अत्र पुरा किल सती देवी दक्षाध्वरे तत्कृतां स्वभर्त्रवज्ञामसहमाना पितरं प्रसूं चोपेक्ष्य मत्कर्तव्यकार्य त्वजामातैव करिष्यतीति निर्धाय देवकार्याणि साधयितुं च योगाग्निना स्वशरीरं ददाहेति पुरावृत्तकथानुसंधेया ॥२१॥

सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन संपत् ।। २२ ।।

 सेति ॥ भव्या कल्याणी सा सती भूधराणामधिपेन हिमवता समाधिमत्यां


पाठा०-१अपमानेन|


टिप्प०-1 पर्वतानां पक्षच्छेदश्चोक्त:-सर्वेऽपि पर्वताः पूर्वं पक्षवन्तः किला- भवन् । ततस्तेषामवस्थानैर्वेगैः पक्षसमीरणैः। चूर्णीभूताञ्जनपदानवलोक्याथ वृत्रहा। क्रुद्धः कुलिशमादाय पक्षच्छेदेन पर्वतान् । क्षणेन स्थावरीचक्रे' इत्यादिना ।

नियमवत्यां तस्यां मेनकायां सम्यक्प्रयोगात्साध्वाचरणाद्धेतोरपरिक्षतायाम- भ्रष्टायां नीतावुत्साहगुणेनोत्साहशक्त्या कर्त्रा। संपदिवोदपाद्युत्पादिता । उत्पद्य- तेर्ण्यन्ताकर्मणि लुङ् । 'चिण्भावकर्मणोः' (पा. ३।१।६६) इति चिण्प्रत्ययः। 'चिणो लुक्' (पा.६१४।१०४) इति तस्य लुक् ॥ २२ ॥

प्रसन्नदिक्पांसुविविक्तवातं शङखनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजंगमानां सुखाय तज्जन्मदिनं बभूव ॥ २३ ॥

 प्रसन्नेति ॥ प्रसन्ना निर्मला दिशो यस्मिंस्तत्प्रसन्नदिक् । पांसुविविक्ता रजोरहिता वाता यस्मिंस्तत्तथोक्तम् । शङ्खस्य स्वनात् स्वनस्य वाऽनन्तरं पुष्पवृष्टियस्मिस्तत्तथोक्तम् , तस्याः पार्वत्या जन्मदिनम् । स्थितिशीलाः स्थावराः शैलवृक्षादयः । 'स्थेशभासपिसकसो वरच्' (पा. ३।१।६६) इति वरच्प्रत्ययः । जंगम्यन्ते भृशं गच्छन्तीति जंगमा दवतिर्यङ्मनुग्यादयः। स्थावराश्च जंगमाश्च तेषां द्वयानामपि शरीरिणां सुखायानन्दाय बभूव ।। २३ ॥

तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिनवमेघशब्दादुद्भिन्नया रत्नशलाकयेव ॥ २४ ॥

 तयेति ॥ स्फुरत्प्रभामण्डलया तया दुहित्रा सवित्री जनयित्री । 'स्वरतिमूतिसूयतिधञूदितो वा' (पा. ७|२|६४४) इतीडागमः । विदूरस्याद्रेः प्रान्तभूमिर्विदूरभूमिः । 'अविदूरे विदूरस्य गिरेरुत्तुङ्गरोधसः । काकतालीयसीमान्ते मणीनामाकरो भवेत् ॥' इति बुद्धः । 'नवमेध'शब्दादुद्भिन्नया रत्नशलाकया रत्नाङ्कुरेणेव सुतरां चकासे रराज ॥ २४॥

दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेखा।
पुपोष लावण्यमयान्विशेषाञ्ज्योत्स्नान्तराणीव कलान्तराणि ।।२५।।

 दिने दिन इति ॥ लब्ध उदयो यया सा लब्धोदया, उत्पनेत्यर्थः । अभ्युदितत्यन्यत्र । दिने दिने प्रतिदिनम् । 'नित्यवीप्सयोः' (पा. ८१११४) इति वीप्सायां द्विरुक्तिः। परिवर्धमाना । उभयत्र समानमेतत् । सा बाला । चन्द्रमस इयं चान्द्रमसी लेखेव लावण्यमयान्कान्तिविशेषप्रचुरान् । 'मुक्ताफलेषु छाया- यास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेयु तल्लावण्यमिहोच्यते ॥' इति भूपालः । विशेषानवयवान् । 'विशेषोऽवयवे व्यक्तौ' इत्युत्पलमाला। ज्योत्स्नायामन्तर-


पाठा०-१ तूर्य. २ धरित्री. ३ वैदूर्यभूमिः. ४ नादात्. मन्तर्धानं येषां तानि ज्योत्स्नान्तराणि ज्योत्स्नयान्तर्हितानि, तन्मयानीति यावत् । अन्याः कलाः कलान्तराणीव । सुप्सुपेति समासः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्धिपु चान्तरम्' इति शाश्वतः । पुपोपोपचितवती । इयं वाक्योपमेत्याह दण्डी। तल्लक्षणं तु (काव्या. २१४३)-'वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेव शब्दत्वात्सा तु वाक्योपमा द्विधा ॥' इति ॥ २५ ॥

तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धुजनो जुहाव ।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम ॥२६॥

 तामिति ॥ बन्धुप्रियां तां बालां बन्धुजनः पित्रादिः। अभिजनादागतेनाभि- जनेन, पिनादिपूर्वबन्धुसंबन्धोपाधिकनेत्यर्थः । 'अभिजनाः पूर्वबान्धवाः' इति काशिका । नाम्ना। पर्वतस्यापत्यं स्त्री पार्वती । 'तस्यापत्यम्' (पा.४।१।९२) इत्यण्प्रत्ययः । इति जुहावाहूतवान् । ह्वयतेर्लिटि रूपम् । पर्वतजन्यत्वोपाधिना पार्वतीति नाम्ना प्रसिद्धिरिति भावः। पश्चादभिजननामप्रवृत्त्यनन्तरं मात्रा जनन्या । 'उ' इति संबोधने । 'उ इति वितर्कसंबोधनपादपूरणेषु' इति गणव्याख्याने । 'मा शब्दो निषेधे । उ हे वत्से ! 'मा' मा कुर्वित्येवंरूपेण । तपसस्तपश्चर्यायाः। 'वारणार्थानामीप्सितः' (पा.११४।२७) इत्यपादानत्वात्पञ्चमी । निषिद्धा निवारिता सती सुमुखी सा बाला उमाख्यां 'उमा' इत्याख्यां नामधेयं जगाम ॥२६॥

महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसंङ्गा ।। २७॥

 महीभृत इति ॥ पुत्राश्च दुहितरश्च पुत्राः । 'भ्रातृपुत्रौ स्वसृदुहितृभ्याम्' (पा. १।२।६८) इत्येकशेषः। तेऽस्य सन्तीति पुत्रवान् । भूमार्थे मतुप् । तस्य पुत्रवतोऽपि, बह्वपत्यस्यापीत्यर्थः । महीभृतो हिमाद्वेदृष्टिश्चक्षुस्तस्मिन्नपत्ये तोके । 'अपत्यं तोकं तयोः समे' इत्यमरः । तस्यां पार्वत्यामित्यर्थः । तृप्तिं न जगाम । तथा हि-अनन्तपुष्पस्य नानाविधकुसुमस्यापि मधोर्वसन्तस्य संबन्धिनी द्विरे- फमाला भृङ्गपतिश्रुतस्य विकारे चूते चूतकुसुमे। 'अवयये च प्राण्यौषधि- वृक्षेभ्यः' (पा.४।३।१३५) इति विकारार्थोत्पमस्याण्प्रत्ययस्य लुक्प्रकरणे पुष्पमूलेषु बहुलम्' (वा० २९५०) इति पठनाल्लुक् । सविशेषः सातिशयः सङ्गो यस्याः सा तथोक्ता, अत्यन्तासत्तेत्यर्थः ॥ २७ ॥


पाठा०-१ तपसे. २ संघा; संज्ञा.

प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ।। २८॥

 प्रमेति ॥ प्रभामहत्या प्रकाशाधिकया शिखया ज्यालया दीप इव । शिखादीपयोरवयवावयविभावाद्भेन व्यपदेशः। त्रयो मार्गो यस्याम्तया त्रिमार्गया मन्दाकिन्या। तृतीया द्यौर्लोक इति त्रिदिवः स्वर्गः । वृत्तिविषये 'त्रि'शब्दस्य त्रिभागवत्पूरणार्थत्वम् । पृषोदरादित्वात् 'दिव'शब्दादकारागमः । पुंस्त्वं लोकात् । दीव्यतेर्घञर्थे कविधानम्। 'दीव्यन्त्यत्र जनाः' इति क्षीरस्वामी। तस्य मार्ग इव । संस्कारो व्याकरणजन्या शुद्धिस्तद्वत्या गिरा वाचा। 'भद्रैषां लक्ष्मीर्निहिताधि वाचि' (ऋ० ८।२।२३) इति श्रुतेरिति भावः। मनस ईषा मनीषा साऽस्यास्तीति मनीषी विद्वानिव । शकन्ध्वादित्वात् (वा० ३६३२) साधुः । तया पार्वत्या स हिमवान्पूतः शोधितश्च विभूषितश्च । अत्र शिखागिरो- रविशिष्टयोरुपमानानर्हत्वान्न विशेषणाधिक्यदोषः । इयं मालोपमा ॥२८॥

मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥२९॥

 मन्दाकिनीति ॥ सा पार्वती बाल्ये वयसि क्रीडानां रसः स्वादः, रुचि- रिति यावत् । तं क्रीडारसम् । 'रसो गन्धे रसः स्वादे' इति विश्वः । निर्विशतीव भुञ्जानेव । निर्वेशो भृतिभोगयोः' इति विश्वः । 'आच्छीनद्योर्नुम्' (पा.७।१६८०) इति विकल्पान्नुमभावः । सखीनां मध्यगता सती मन्दाकिन्याः सैकतेषु पुलि- नेषु वेदिकाभिः कन्दुकैः । क्रियया निवृत्तैः कृत्रिमैः । 'ड्वितः क्विः' (पा.३।३।८८) इति क्विप्रत्ययः । 'क्रेर्मन्नित्यम्' (पा.४।४।२०) इति मबागमश्च । पुत्रकैः पाञ्चालिकाभिः। 'पाञ्चालिका पुत्रिका स्याद्वस्वदन्तादिभिः कृता' इत्यमरः। 'संज्ञायां कन्' (पा.५।३।८७) इति कन्प्रत्ययः । मुहुः पुनः पुना रेमे ॥२९॥

तां हममालाः शरदीव गङ्गां महौषधि नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ ३०॥

 तामिति ॥ स्थिरः स्थेयानुपदेशः प्राग्भवीयो यस्यास्तादृशीम् , मेधाविनी.


पाठा०-१ महौषधी. मित्यर्थः । तां पार्वतीमुपदेशकाले प्राक्तनजन्मविद्याः। पूर्वजन्माभ्यस्तविद्या इत्यर्थः । शरदि गङ्गां हंसमाला इव नक्तं रात्रौ महौषधि तृणविशेषमारमभासः स्वदीप्तय इव प्रपेदिरे। उपमानसामर्थ्यादुपदेशमन्तरेणैवेति गम्यते ॥३०॥

असंभृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ क्यः प्रपेदे ॥३१॥

 असंभृतमिति ॥ अथ सा पार्वती। अङ्गयष्टेरसंभृतमयनसिद्धं मण्डनं प्रसाधनमनासवाख्यमासवाख्यारहितं मदस्य करणं साधनं कामस्य पुष्पव्यति- रिक्तमस्त्रमस्त्रभूतं बाल्याच्छैशवात्परमनन्तरभावि वयो यौवनं प्रपेदे प्राप । यौवनेनैव हि युवतयः प्रसाध्यन्ते माद्यन्ते काम्यन्से चेति भावः । अत्र द्वितीय- पाद मासवरूपकारणाभावेऽपि तत्कार्यमदोक्तेर्विभावनालंकारः। तदुक्तम्- (अलं) 'कारणाभावे कार्योत्पत्तिविभावना' इति । प्रथमतृतीययोस्त्वारोप्यमाण- योर्मण्डनमदनास्त्रयोः प्रकृतोपयोगात्परिणामालंकारः । तल्लक्षणं तूक्तम् ॥ ३१ ॥

उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरस्रशोभि वपुर्विमक्तं नवयौवनेन ॥३२॥

 उन्मीलितमिति ॥ नवयौवनेन प्रथमयौवनेन विभक्तमभिव्यञ्जितम् । स्तनजघनादिसंस्थानमित्यर्थः। तस्याः पार्वत्या वपुस्तूलिकया कूर्चिकया, शला- कयेत्यर्थः । 'तूलिका कथिता लेख्यकूर्चिका तूलशय्ययोः' इति विश्वः। उन्मी- लितं रञ्जनद्रव्येणोद्भासितं समुत्कीर्णम् , रूपमिति यावत् । चित्रमालेख्यमिव । सूर्याशुभिभिन्नं विकसितमरविन्दं पद्ममिव । चतस्रोऽस्रयो यस्य तच्चतुरस्त्रमन्यूनातिरिक्तं यथा तथा शोभत इति चतुरस्रशोभि । ताच्छील्ये णिनिः । बभूव । चित्रारविन्दयोस्तूलिकातरणिकिरणसंबन्ध इव स्वतःसिद्धस्यैवाङ्गसौष्टवस्य यौवन- प्रादुर्भावोऽभिव्यञ्जको बभूवेत्यर्थः ॥ ३२ ॥

 देवतानां रूपं पादाङ्गुष्टप्रभृति वर्ण्यते, मानुषाणां केशादारभ्येति धार्मिकाः । संप्रति सप्तदशभिः श्लोकैः पार्वत्याः पादादिकेशान्तवर्णनमारभते-

अभ्युनताङ्गष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजहतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥३३॥


पाठा०-१ साधु. २ अत्युन्नता.

 अभ्युन्नतेति ॥ अभ्युन्नतयोरङ्गुष्ठनखयोः प्रभाभिर्निमित्तेन निक्षेपणानिर्भर न्यासाद्धेतोः रागमन्तर्गतं लौहित्यम् । 'रागः क्लेशादिके रक्ते मात्सर्ये लोहितादिषु' इति शाश्वतः । उद्विरन्तौ वमन्तौ, बहिर्निःसारयन्ताविव स्थितावित्यर्थः । अत्रोद्गिरतेगौंणार्थत्वान्न ग्राम्यतादोषः, प्रत्युत गुण एव । यथाह दण्डी (कान्या. १।९५)-'निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥' इति । तस्याश्चरणौ तच्चरणौ । पृथिव्यामव्यवस्थां व्यवस्थारहिताम् , संचारिणीमित्यर्थः। स्थलारविन्दश्रियमाजहतुः । स्थलविशेषणान्नियतलौहित्यलाभः । अत्र सामुद्रिकाः-'यस्या रक्ततलौ पादावुन्नताग्रौ तलस्पृशौ । निगूढगुल्फो निहतौ सा स्यान्नृपतिसंमता ॥ इति । अत्रोपमानधर्मस्यारविन्दश्रियश्चरणयोरुपमेययोरसंभवादरविन्द श्रियमिव श्रियमिति प्रतिबिम्बीकरणाक्षेपान्निदर्शनालंकारः । सा च संबन्धेऽसंबन्धलक्षणातिशयोक्त्यनुप्राणिता; अव्यवस्थाम्' इत्यनेन स्थलारविन्दस्य स्थैर्यसंबन्धेऽप्यसंबन्धाभिधानात् । निदर्शनालक्षणं तु-'असंदर्मयोगादुपमानोपमेययोः। प्रतिबिम्बक्रिया गम्या यत्र सा स्तान्निदर्शना ॥' इति ॥ ३३ ॥

सा राजहंसैरिव संनंताङ्गी गतेषु लीलाश्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नपुरसिञ्जितानि ।। ३४ ॥

 सेति ॥ प्रत्युपदेशलुब्धैः । 'गुरुशुश्रूपया विद्या पुष्कलेन धनेन वा । अथवा विद्यया विद्या चतुर्थी नोपपद्यते ॥' इति न्यायादिति भावः । तदेव व्यनक्ति- नूपुरसिञ्जितान्यादित्सुभिगदातुमिच्छुभिः, मञ्जीरसिञ्जितमञ्जुकूजितोपदेश- मिच्छद्भिरित्यर्थः । राजहंसैः । संनताङ्गी, कुचभारादिति भावः । सा पार्वती लीलाभिर्विलासैरञ्चिताः पूजिता विक्रमाः पादन्यासा येषु तेषु । 'अञ्चेः पूजायाम्' (पा. ७।२।५३) इतीडागमः । 'लीलाविलासक्रिययोः' इत्यमरः । गतेषु विषयेषु व्यनीयतेव विनीता किमु ? अन्यथा कथमस्या हंसगमनमित्युत्प्रेक्षा ॥ ३४ ॥

वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुलावण्य उत्पाद्य इवास यत्नः॥३५॥

 वृत्तेति ॥ वृत्ते वर्तुले पूर्वमनुगतेऽनुपूर्वे, गोपुच्छाकार इत्यर्थः । वृत्ते च


पाठा०-१ संनतांसा. २ विभ्रमेषु. ३ लब्धैः. तेऽनुपूर्वे च वृत्तानुपूर्वे । नातिदीर्घे च । महाविभाषया न समासः। नञो विशेषणत्वं 'च'शब्दप्रयोगादेव ज्ञेयम् । शुभे मङ्गले । तस्या इमे तदीये जङ्घे प्रसृते । 'जङ्घा तु प्रसृता' इत्यमरः । सृष्टवतो निर्मितवतो विधातुः स्रष्टुः शेषाङ्गनिर्माणविधौ, - जङ्घाव्यतिरिक्तावयवनिर्माणार्थमित्यर्थः । उत्पाद्ये पुनःसंपाद्ये लावण्ये कान्तिविशेषविषये । लावण्यलक्षण तूक्तम् । यत्न आसेव बभूवेवेत्युत्प्रेक्षा । उपादानमन्तरेण कार्यस्य दुष्करत्वात्तदङ्गानां च लावण्योपादानकत्वात् पूर्वसंपादितस्य च जङ्घार्थमेव कार्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये तज्ज्ङ्घे इति भावः । आसेति बभूवार्थे ‘तिङन्तप्रतिरूपकमव्ययम्' इत्याह शाकटायनः । वल्लभस्तु-"न तिङन्तप्रतिरूपकमव्ययम् , 'अस्तेर्भूः' (पा.२।४।५२) इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् , किंतु कवीनामयं प्रामादिकः प्रयोगः” इत्याह । वामनस्तु (काव्या. सू. ५।२।२७)-- 'अस गतिदील्यादाने- ष्विति धातोलिटि रूपमिदम्' इत्याह । अस इत्यनुदात्तेतू(?) दीप्त्यर्थे । आस दिदीपे, प्रवृत्त इत्यर्थः ॥ ३५ ॥

नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः ॥३६॥

 नागेन्द्रेति ॥ नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात् कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । 'परिणाहो विशालता' इत्यमरः । रूपं लब्ध्वापि । 'अपि'शब्दात् करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुप- मानबाह्या जाता उपमानक्रियानर्हा बभूवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्य- मिति भावः ॥३६॥

एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः।
आरोपितं यद्गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ ३७॥.

 एतावतेति ॥ अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बम् , एतावता नन्वेतावतैव । 'प्रश्नावधारणानुज्ञानुनयामत्रणे ननु' इत्यमरः । शोभत इति शोभि । आवश्यके णिनिः, ततस्स्वप्रत्ययः । अनुमेयं शोभित्वं शोभा यस्य तदनुमेयशोभि । 'त्वप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः' इत्याह वामनः । पश्चादादौ नैःस्पृशेऽपि पश्चात् , तपश्चर्यानन्तरमित्यर्थः । गिरौ शेत इति गिरिशः


पाठा०-१ कान्ति. २ कु. सं.

शिवः । 'गिरौ डश्छन्दसि' (वा० ४९९९) इति डप्रत्ययः । भाषायामपि क्वचिदिष्यते । अथवा,-गिरिः कैलासोऽस्यास्तीति गिरिशः । लोमादित्वाच्छप्रत्ययः । तेन गिरिशेन । अन्यासां नारीणां कमनीयः कामयितुं शक्यो न भवतीत्यनन्यनारीकमनीयस्तमङ्कं निजोत्सङ्गमारोपितमधिरोपितमिति यत् । एतावता लिङ्गेनेति पूर्वेणान्वयः । रोहतेर्ण्यन्ताकर्मणि क्तः । 'रुहः पोऽन्यतरस्याम्' (पा. ७।३।४३) इति हकारस्य पकारः। गत्यर्थविवक्षायां द्विकर्मकत्वम् । प्रधाने कर्मणि क्तः । गिरिजानितम्बबिम्बं विश्वातिशायि सौन्दर्यं गिरिशाङ्कारूढत्वाव्यतिरेकेण नार्य- न्तरनितम्बबिम्बवत् । विपक्षे हेत्वनुक्तिरेव बाधिका । दाक्षायणीनितम्बबिम्बस्य तु पक्षसपक्षयोरन्यतरभावानतिवृत्तेर्निष्कलङ्कमनुमानमित्यलमस्थानसंरम्भेण ॥३७॥

तस्याः प्रविष्टा नतनाभिरन्धं रराज तन्वी नवलोमराजिः।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः॥३८॥

 तस्या इति ।। नीवीं वस्त्रग्रन्थिम् । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । अतिक्रम्यातीत्य नतं निम्नं नाभिरन्धं प्रविष्टा प्रविशन्ती तन्वी सूक्ष्मा तस्याः पार्वत्या नवलोमराजिः सितेतरस्यासितस्य, इन्द्रनीलस्येत्यर्थः । तस्याः पार्वत्या मेखला तन्मेखला । 'तस्याः' इत्यनुवृत्तौ पुनस्तच्छब्दोपादानं वाक्यान्तरत्वात्सोढव्यम् । यद्वा,-तस्या नीव्या मेखला तन्मेखला, तत्र तद- वस्थानात् । तस्या मध्यमणेरर्चिः प्रभेव रराज । 'ज्वालाभासोर्नपुंस्वर्चिः' इत्यमरः ॥ ३८॥

मध्येन सा वेदिविलग्नमध्या चलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ ३९ ॥

 मध्येनेति ॥ 'वेदिः परिष्कृता भूमिः' इत्यमरः । वेदिविलग्नमध्या वेदिवत्


पाठा०-१ नीला. २ राजी. ३ गम्भीरनाभीह्रदसंनिधाने रराज नीला नवलोमराजिः । मुखेन्दुभीरुस्तनचक्रवाकचञ्चुच्युता शैवलमञ्जरीव ॥ (१ नाभि. २ भीतं.) ४ नवयौवनस्य कामेन.


टिप्प-1 मेखलामध्यवर्तिनो नायकमणेरचिरेव नीवीमतिक्रम्य नतनामिरन्ध्र प्रविष्टेवेत्यर्थः । अत्र वर्णसाम्यादिकमुत्प्रेक्षाहेतुः । नेयमुपमा, अर्चिषो नीम्यतिक्रमासंभवात्' इति नारायण० । कृशमध्या, तनुमध्येति यावत् । सा बाला पार्वती । मध्येन मध्यभागेन चारु सुन्दरं वलित्रयं कामस्यारोहणार्थं नवयौवनेन प्रयुक्तं रचितं सोपानमिव बभारेत्युत्प्रेक्षा ॥ ३९ ॥

अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥४०॥

 अन्योन्यमिति ॥ अन्योन्यं परस्परम् । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये' (वा० ४७००) इति द्विरुक्तिः । -समासवच्च बहुलम्' (वा० ४७००) इति बहुलवचनादसमासपक्षेऽपि पूर्वपदस्थस्य सुपः सुर्वक्तव्य इति तत्रत्यवार्ति- कम् । उत्पीडयदुपरुन्धत्पाण्डु गौरमुत्पलाक्ष्याः स्तनद्वयं तथा तेन प्रकारेण प्रवृद्धम् । कर्तरि क्तः । श्याममुखस्य कृष्णचूचुकस्येति स्वरूपवर्णनम् । तस्य स्तनद्वयस्य मध्ये यथा येन प्रकारेण मृणालसूत्रान्तरं बिसतन्तुमात्रावकाशोऽप्यलभ्यं लब्धुमशक्यम् । 'अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थे' इत्यमरः । अत्र संबन्धेऽसंबन्धरूपातिशयोक्त्यलंकारः । कुचयोः पीवरत्वातिशयार्थमवकाशसंब- न्धेऽप्यसंबन्धाभिधानादिति ॥ ४० ॥

 लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह-

शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ।। ४१॥

 शिरीषेति ॥ तस्या इमौ तदीयौ बाहू शिरीषपुष्पादधिकं सौकुमार्य मार्दवं ययोस्तथोक्ताविति मे वितर्क ऊहः । कुतः ? यो बाहू पराजितेनापि पूर्वं निर्जितेनापि मकरध्वजेन कामेन हरस्य कण्ठपाशौ कण्ठबन्धनरज्जू कृतौ, कण्ठालिङ्गनं प्रापितावित्यर्थः । तदसाध्यसाधनात्तत आधिक्यमिति भावः । अत्र बाह्वोरारो- पितकण्ठपाशत्वस्य प्रकृतवैरनिर्यातनोपयोगात् परिणामालंकारः ॥ ४१ ।।


पाठा०-१ चारु. २ विवृद्धम्. ३ मालाधिक. ४ प्रतर्कः ५ निर्भसिता- शोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य शोभा व्योन्नः प्रदोषे विफलीचकार ।


टिप्प०-1 यो मकरध्वजः पूर्व दर्पाद्देवमासाद्य विफलीकृतसुकुमारतरपूर्वोपकरणो स एव याभ्यां पशुमिव रज्वा कण्ठे निबध्यात्मविधेयं चकार, तयोः सौकुमार्य कथं शिरीषकुसुमादिभिरुपमातुं शक्यम् । अत्र व्यतिरेकोऽलंकारः' इति नारायण०।

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥४२॥

 कण्ठस्येति ॥ स्तनाभ्यां बन्धुरस्योन्नतस्य तस्याः पार्वत्याः कण्ठस्य गलस्य निस्तलस्य वर्तुलस्य मुक्ताकलापस्य मुक्ताभूषणस्य च । 'वर्तुलं निस्तलं वृत्तं बन्धुरं तूम्नतानतम्' । 'कलापो भूषणे बर्हे तूणीरे संहतावपि' इति चामरः । अन्योन्यशोभाजननाद्भूषणभूष्यभावोऽलंकारालंकार्यभावः साधारणः समानो बभूव, उभावप्यन्योन्यस्य भूष्यौ भूषणे च बभूवनुरित्यर्थः । अत्र कण्ठमुक्ता- कलापयोः शोभाक्रियाद्वारेणान्योन्यभूषाजनकत्वादन्योन्यालंकारः । तदुक्तम् ( अलं. स.)-'परस्परं क्रियाजननमन्योन्यम्' इति ॥ ४२ ॥

 इदानीं पार्वतीवदनं चन्द्रकमलसदृशमित्येतदेव वचोभङ्याह-

चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः॥४३।।

 चन्द्रमिति ॥ लोला चपला, परिभ्रमणशीलेत्यर्थः । लक्ष्मीः कान्त्यभिमानिनी देवता चन्द्रं गता प्राप्ता सती पद्मगुणान्सौगन्ध्यादीन्न भुङ्क्ते नानुभवति । पद्माश्रिता सती चन्द्रमस इमां चान्द्रमसीमभिख्यां शोभाम् । 'अभिख्या नाम शोभयोः' इत्यमरः । अमृतवदानन्दिनीं न भुङ्क्ते; उमामुखं प्रतिपद्य तु द्वे चन्द्रपद्मे संश्रयः कारणं यस्यास्तां द्विसंश्रयां प्रीतिमानन्दमवाप, तत्रोभयगुणसंभवादिति भावः । अत्रोपमानभूतचन्द्रपद्मापेक्षयोपमयस्योमामुखस्याधिकगुणवत्त्वोक्त्या व्यतिरेकालंकारः । तदुक्तम् ( अलं. स.)-- 'भेदप्राधान्येनोपमानादुपमेयस्याधिक्ये विपर्यये वा व्यतिरेकः' इति ॥ ४३ ॥

पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥४४॥

 पुष्पमिति ॥ पुष्पं पुण्डरीकादिकं प्रवाले बालपल्लवे उपहितं निहितं स्याद्यदि, 'प्रवालो वल्लकीदण्डे विद्रुमे बालपल्लवे' इति विश्वः । मुक्ताफलं वा स्फुटे निर्मले विद्रुमे तिष्ठनीति स्फुटविद्रुमस्थं स्याद्यदि ततस्तर्हि विशदस्य शुभ्रस्य ताम्रे अरुणे ओष्ठे पर्यस्ता प्रसृता रुक्कान्तिर्यस्य तथोक्तस्य तस्याः पार्वत्याः


पाठा०-१ ताम्रोष्ठ. स्मितस्यानुकुर्यात् , स्मितमनुकुर्यादित्यर्थः । अत्र 'माषाणामश्नीयात्' इतिवत्संबन्धमात्रविवक्षया षष्ठी । अत्र पुष्पप्रवालयोर्मुक्ताविद्रुमयोश्चासंबन्धेऽपि संबधोक्त्यातिशयोक्तिः । सा च 'संभावना' इत्यलंकारसर्वस्वकारः। विशेषतस्तु पुष्पमुक्ताफलयोरुपमानयोः प्रकृतोत्कर्षार्थमुपमेयताकल्पनात्प्रतीपालंकारः । तदुक्तम् ( अलं. स.)--'उपमानस्याक्षेप उपमेयताकल्पनं वा प्रतीपः' इति लक्षणात् । स च पूर्वोक्तातिशयोक्त्यनुप्राणित इति ॥ ४४ ॥

स्वरेण तस्याममृतस्त्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥४५॥

 स्वरेणेति ॥ अभिजातवाचि मधुरभाषिण्यां तस्यां पार्वत्याममृतस्रुतामृतस्राविणेव । क्विप् । स्वरेण नादेन प्रजल्पितायामालपन्त्याम् । कर्तरि क्तः । अन्यैः काकादिभिः पुष्टाऽन्यपुष्टा कोकिलापि । मुख्यया वृत्त्या जातिवचनत्वाभावान्ङीवभावः । ताड्यमाना वाद्यमाना विपमबद्धा तन्त्रीवितन्त्रीरिव । 'अवितृस्तृतत्रिभ्य ई:' (उ० ४३८) इति तन्त्रिधातोरौणादिक ईप्रत्ययः । ङीबभावान्न 'हल्ङ्याभ्यः-' (पा.६।१।६८) इति सुलोपः । तदुक्तम् –'अवीलक्ष्मीतरीतन्त्रीधीह्रीश्रीणामुणादिषु । स्त्रीलिङ्गानाममीषां तु न सुलोपः कदाचन ॥' इति । एते डीबन्ता न भवन्तीत्यर्थः। श्रोतुर्जनस्य प्रतिकूलशब्दाः कर्णकठोरनादा भवन्तीति शेषः ॥ ४॥

प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः॥४६॥

 प्रवातेति ॥ प्रवाते प्रभूतवातस्थले यन्नीलोत्पलं ततो निर्विशेषं निर्भेदम् ,


पाठा०-१ अन्यपुष्टाः.२ शब्दाः.३ कर्णद्वयस्थं नगराजपुत्र्यास्ताटङ्कयुग्मं सुतरां रराज । मत्वा भवित्रीं त्रिपुरारिपत्नीं तो सेवमानाविव पुष्पवन्तौ ॥ (१ नितरां बभास. २ ज्ञात्वा. ३ सेवासमेतो.) टिप्प.-1 'अत्र यदि-शब्दबलादसिद्धार्थस्य कल्पनात् “यद्यथोक्तौ च कल्पनम्" इत्युक्तोऽतिशयालंकारः' इति नारायण० । 2 'अत्र "अमृतस्रृतेव" इत्युत्प्रेक्षा माधुर्यसौकुमार्यादिगुणैः परभृताविरुताद्देवीसंजल्पितस्य व्यतिरेकं द्योतयति । "प्रतिकूल' शब्दश्च तमभिद्योतयतीति व्यतिरेकालंकारो ध्वन्यते' इति नारायण०। तत्सदृशमित्यर्थः । अधीरविप्रेक्षितं चकितविलोकितम् । आयताक्ष्या विशालनेत्रया तया पार्वत्या मृगाङ्गनाभ्यो हरिणीभ्यो गृहीतमभ्यस्तं नु ? अथवा मृगाङ्गनाभिस्ततस्तस्याः पार्वत्याः । पञ्चम्यास्तसिल् । गृहीतं नु ? अत्र विवक्षितस्य परस्परग्रहणस्योत्प्रेक्षणादुत्प्रेक्षेति केचित् । तदुपजीविसंदेहालंकार इत्यन्ये । उभयोः संकर इत्यपरे ॥ ४६ ॥

तस्याः शलाकाञ्जननिर्मितेव कान्तिभ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लीलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥४७॥

 तस्या इति ॥ आयतलेखयोर्दीर्घरेखयोस्तस्याः पार्वत्या भ्रुवोः संबन्धिनी शलाकयाञ्जनेन निर्मितेव स्थिता या कान्तिीलाचतुरां विलाससुभगां तां कान्तिं वीक्ष्यानङ्गः स्वचापसौन्दर्येण यो मदस्तं मुमोच । इह सौन्दर्यातिशयोक्तिः ॥४७॥

लजा तिरश्वां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः॥४८॥

 लज्जेति॥ तिरश्चां तिर्यग्जातीनां चेतसि लज्जा स्याद्यदि। संशयाभावोऽसंशयम्, संदेहो नाम्नीत्यर्थः। पर्वतराजपुत्र्याः । 'शार्ङरवाद्यञो डीन्' (पा. ४१११७३) इति ङीन् । तं प्रसिद्ध केशपाशं केशवकलापम् । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । प्रसमीक्ष्य दृष्ट्वा चमर्यो मृगीविशेषा बालाः प्रिया यासामिति विग्रहे बालप्रियास्तासां भावो बालप्रियत्वम् , प्रियबालत्वमित्यर्थः । आहितान्यादिपाठाद्वा परनिपातः । 'त्वतलोर्गुणवचनस्य' (वा० ३९२७) इति पुंवद्भावः । शिथिलं कुर्युः, निर्लज्जत्वान्न शिथिलयन्तीत्यर्थः । अत एवात्र निर्लज्जत्वकरणहतोराद्यपादे वाक्यार्थत्वेनोक्त्या काव्यलिङ्गाख्योऽलंकारः। तदुक्तम्- 'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ॥ ४८ ॥

सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेश विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ।। ४९ ॥

 सर्वोपमेति ॥ किंबहुना सा पार्वती विश्वसृजा विधात्रा। एकत्र तिष्ठती-


पाठा०-१ लोलाम्. २ ताटङ्कपत्रं विरराज तस्याः शैलात्मजायाः श्रवणद्वयस्थम् । मत्वा भवित्रीं मदनारिपनी सेवासमेताविव पुष्पवन्तौ ॥ (१ युग्मम्. २ पुष्पदन्तौ.) त्येकस्थं, तस्य सौन्दर्यस्य सर्ववस्तुगतस्येत्यर्थः । दिदृक्षयेव प्रयत्नाद्यथाप्रदेश क्रमाद्विनिवेशितेन स्थापितेन सर्वेषामुपमाद्रव्याणां चन्द्रारविन्दाधुपमानवस्तूनां समुच्चयेन समाहारेण निर्मिता । 'दिदृक्षयेव' इति फलोत्प्रेक्षा दर्शनार्थित्वाद्विश्वसृज इति ॥ ४९॥

तां नारदः कामचरः कदाचित् कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ ५० ॥

तामिति ॥ कामेनेच्छया चरतीति कामचरो नारदः। कदाचित्पितुर्हिमवतः समीपे कन्यां तां पार्वतीं प्रेक्ष्य किल, प्रेम्णा न त्वन्यथा, हरस्य शिवस्यार्धं हरतीत्यर्धहरा । 'हरतेरनुद्यमनेऽच्' (पा.३।२।९) इत्यच्प्रत्ययः । शरीरस्यार्धहरां शरीरार्धहराम् । कुलधुरंधरादिवदवयवद्वारा समुदायविशेषकत्वात्समासः । अन्यथा त्वर्धस्य समप्रविभागवचनत्वात् 'अर्धं नपुंसकम्' (पा. २।२।२ ) इत्यशरीरेति स्यात् । एकवधूमसपत्नीकां भार्याम् । 'पूर्वकाल-' (पा. २।११४९ ) इत्यादिना समासः। भवित्रीं भाविनीं समादिदेश, हरस्यार्धाङ्गहारिण्येकपत्नी भविष्यतीत्या- दिष्टवानित्यर्थः ॥ ५० ॥

गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥५१॥

 गुरुरिति ॥ गुरुः पिता । 'गुरू गीष्पतिपित्राद्यौ' इत्यमरः । अतो नारदवच- नावेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । 'वरो ना रूपजामात्रोः' इति वैज- यन्ती। तस्थौ, वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निर्बन्ध इत्यत आह-ऋत इति । तथा हि-मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकाहते कृशानुं विना । 'अन्यारादितरते-' (पा.२।३।२९) इत्यादिना पञ्चमी । अपराणि तेजांसि सुवर्णादीनि नार्हन्ति, न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ॥५१॥

 तर्हि तमेवाहूय दीयतामित्याशङ्कयाह-

अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥५२॥


पाठा०-१ एकवधूः. २ अन्यतर.  अयाचितारमिति ॥ अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथा हि-साधुः सज्जनः । 'साधुर्वार्धषिके चारौ सजने चाभिधेयवत्' इति विश्वः । अभ्यर्थनाभङ्गभयेन याजावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्य- मवलम्बते ॥ ५२॥

 न च तथैव स्थितः किं तूपायान्तरं चिन्तितवानिति वक्तुं प्रस्तौति-

यदैव पूर्वे जनने शरीरं सा दक्षरोपात्सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥५३॥

 यदेति ॥ शोभना दन्ता यस्याः सा सुदती । 'वयसि दन्तस्य दतृ' (पा.५।४।१४१) इति दत्रादेशः। 'उगितश्च' (पा.४।१।६) इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि। 'पूर्वादिभ्यो नवभ्यो वा' (पा. ७।१।१६) इति स्मिन्नादेशविकल्पः। पूर्वज्वलने' इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ। यदा यस्मिन्काले दक्षरोपाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशूनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् , अपरिग्रहोऽपत्नी. कोऽभूत् रूयन्तरं न परिजवाहेत्यर्थः । 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः ॥ ५३॥

स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मुगनाभिगन्धि किंचित्क्वणत्किनरमध्युवास।। ५४॥

 स इति ॥ कृत्तिवासाश्चर्माम्बरः । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । यतात्मा नियतचित्तः स पशुपतिस्तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् , कस्तूरीमृग- संचारादिति भावः । 'मृगनाभिर्मगमदः कस्तूरी चाथ कोलकम्' इत्यमरः ।


पाठा०-१ खयमुत्ससर्ज. २ ततःप्रभृति. ३ जितात्मा. टिप्प.---] 'अत्र “गतिबुद्धि-" (पा.११४१५२) इत्यादिसूत्रे ग्रहेरनुपादानादेव प्रतिग्राहयितुमिति द्वितीयानुपपत्तेः प्राप्त्यर्धत्वमेव युक्तम् । तत्तु प्रत्युपसर्गादिति दक्षिणावर्तः । नाथस्तु निरुपसर्गस्यापि ग्रहे: प्राप्त्यर्थत्वमुक्तवान्' इति नारायण० । क्वणन्तो गायन्तः किंनरा यस्मिंस्तत्तथोक्तम् । किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास, कुत्रचित्प्रस्थ उवासेत्यर्थः । 'उपान्वध्याङ्सः' (पा.१॥४१४८) इत्याधारस्य कर्मत्वम् । 'प्रस्थोऽस्त्री सानुमानयोः' इत्यमरः ॥ ५४ ॥

गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ।। ५५ ॥

 गणा इति ॥ गणाः प्रमथगणाः । 'गणाः प्रमथमंख्यौघाः' इति वैजयन्ती। नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । 'नमेरुः सुरपुंनागः' इनि विश्वः । स्पर्शवतीः सुखस्पर्शाः, मृद्वीरित्यर्थः। प्रशंसायां मतुप्। भूर्जत्व वो भूर्जवल्कलानि दधानाः, वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैविच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौपधिविशेषः । शिलायाः 'स्त्रीभ्यो ढक्' (पा.४।१।१२०) इति भवार्थे ढक् । 'शिलाजतु च शैलेयम्' इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेपु निषेदुः, उपविविशुरित्यर्थः ॥ ५५ ॥

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नैरसोहसिंहध्वनिरुन्ननाद ॥ ५६ ॥

 तुषारेति ॥ तुषारसंघाता हिमवनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्भीतैर्गोसदशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद, जगर्जेत्यर्थः । स्वभावोक्तिरलंकारः । तदुक्तम् –'स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्' इति ॥ ५६ ॥


पाठा०--१ वसानाः, टिप्प०-1 'रमणीयवस्तुसंनिधानेऽपि समाधिभङ्गशंका नाभूदिति द्योत्यते । उक्तं च

शाकुन्तले ( ११२ ) 'प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्कांक्षन्ति तपोभिरन्यमुनयस्तस्मिस्तपस्यन्त्यमी ।।' इति नारायण० ।

तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥५७॥

 तत्रेति ॥ तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता, दातेत्यर्थः । अष्टौ मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । 'भूतार्कचन्द्रयज्वानो मूर्तयोऽष्टौ प्रकी- र्तिताः' इति । तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वाकेनापीत्युक्तम् ॥ ५७ ॥

अनर्ध्यमर्ध्येण तमद्रिनाथः स्वौकसामर्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥५८॥

 अनर्घ्यमिति ॥ अद्रीणां नाथोऽद्रिनाथो हिमवान् , अर्धं मूल्यमर्हतीत्यर्यः। 'मूल्ये पूजाविधावर्धः' इत्यमरः । दण्डादिभ्यो यः' (पा.५:१।६६) इति यप्रत्ययः। अर्ध्यो न भवतीत्यनर्ध्यस्तमनर्ध्यम् , अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' (पा.३।२।१८८) इति वर्तमाने क्तः। 'क्तस्य च वर्तमाने' (पा.२।३।६७) इति षष्ठी। तमीश्वरमर्ध्येण पूजार्थोदकेन । 'पादार्घाभ्यां च' (पा.५।४।२५) इति यत्प्रत्ययः। 'षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यमरः । अर्चयित्वा पूजयित्वास्येश्वरस्याराधनाय सखीभ्यां जयाविजयाभ्यां समेत प्रयतां नियतां तनूजां सुतां समादिदेशाज्ञापयामास ॥ ५८ ॥

प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ॥५९॥

 प्रत्यर्थीति ॥ गिरिशः शिवः समाधेः प्रत्यर्थिभूतां प्रतिपक्षभूतामपि। सुप्सुपेति


पाठा०-१ अथ. २ समृद्धम्. टिप्प०-1 कालिदासकृतमष्टमूर्तिवर्णनं यथा शाकुन्तले (१११)-'या सृष्टिः सृष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वभूतप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षामिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः' इति । समासः । श्रोतुमिच्छन्ती शुश्रूषमाणां सेवमानाम् । सेवका हि सेव्ये दत्तकर्णा भवन्ति । इच्छार्थे सन्प्रत्ययः । 'ज्ञाश्रुस्मृदृशां सनः' (पा. ११३।५७) इत्यात्मनेपदम् । तां पार्वतीमनुमेनेऽङ्गीचकार, न प्रतिषिद्धवानित्यभिप्रायः । न चैतावता धीरस्य कश्चिद्विकार इत्याशयः । धीरत्वमेवार्थान्तरन्यासेनाह-विकारेति। विकारस्य प्रकृतेरन्यथात्वस्य हेतौ स्त्रीसंनिधानादिकारणे सति विद्यमानेऽपि येषां चेतांसि न विक्रियन्ते न विकृति नीयन्ते, त एव धीराः। विक्रियन्ते इति कर्मणि लट् ॥ ५९॥

 शुश्रूषाप्रकारमेवाह-

  अवचितबलिपुष्पा वेदिसंमार्गदक्षा
   नियमविधिजलानां बर्हिषां चोपनेत्री।
  गिरिशमुपचचार प्रत्यहं सा सुकेशी
   नियमितपरिखेदा तच्छिरश्चन्द्रपादः॥६॥

 अवचितेति ॥ सुकंशी शोभनमूर्धजा । 'स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' (पा.४।१।५४) इति ङीप् । सा पार्वती । अवचितानि लृनानि बलिपुष्पाणि पूजाकुसुमानि यया सा। वेदेर्नियमवेदिकायाः संमार्गे संमार्जने दक्षा । नियमविधेर्नित्यकर्मानुष्ठानस्य यानि जलानि तेषां बर्हिषां कुशानां चोपनेत्र्यानेत्री सती। तस्य गिरिशस्य शिरसि चन्द्रस्य पादै रश्मिभिः। 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः। नियमितपरिखेदा निवर्तितपरिश्रमा सती। अहन्यहनि प्रत्यहम् । 'अव्ययं विभक्तिसमीपसमृद्धि-' (पा.२।१।६) इत्यादिना नियतार्थेऽव्ययीभावः। 'नपुंसकादन्यतरस्याम्' (पा.५।४।१०९) इति टच्प्रत्ययः। गिरिशमुपचचार शुश्रूषांचके ॥ ६॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य
उमोत्पत्तिर्नाम प्रथमः सर्गः।

  1. वारिनिधी.
  2. विगाह्य.