कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५)/एकादशः सर्गः(कुमारोत्पत्तिः)
← दशमः सर्गः(कुमारोत्पत्तिः) | कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५) एकादशः सर्गः(कुमारोत्पत्तिः) कालिदासः |
द्वादशः सर्गः(सैनापत्यवर्णनः) → |
एकादशः सर्गः ।
अभ्यर्थ्यमाना विबुधैः समग्रैः प्रव्हैः सुरेन्द्रप्रमुखैरुपेत्य ।
तं पाययामास सुधातिपूर्णं सुरापगा स्वं स्तनमाशु मूर्ता ॥१॥
अभ्यर्थेति ॥ सुरेन्द्रप्रमुखैरिन्द्रादिभिः समग्रैः समस्तैर्विबुधैर्देवैरुपेत्य समी- पमागत्य प्रव्हैर्नम्रैः सद्भिरभ्यर्थ्यमाना याच्यमाना सुरापगा मन्दाकिनी । आशु शीघ्रं मूर्ता मूर्तिमती सती । तं कुमारं सुधया दुग्धामृतेनातिपूर्णं बहुभृतं स्वमा- त्मीयं स्तनं पाययामास पानं कारितवती । सर्गेऽस्मिन्वृत्तमुपजातिः ॥ १ ॥
पिबन्स तस्याः स्तनयोः सुधौघं क्षणंक्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ॥२॥
पिबन्निति ॥ स कुमारस्तस्या मन्दकिन्याः स्तनयोः संबन्धिनं सुधौघं दुग्धामृतसमूहं पिबन् अत एव क्षणंक्षणं प्रतिक्षणं साधु यथा स्यात्तथा समेधमानः सम्यग्वर्धमानः षड्भिः कृत्तिकाभिरेत्य निषेव्यमाणः श्रियमाणश्च सन् । कामपि लोकोत्तरामाकृतिं प्रापाप्तवान् । 'खलु' वाक्यालंकारे । 'खलु स्याद्वाक्यभूषायाम्' इति विश्वः ॥ २ ॥
भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ॥३॥
भागीरथीति ॥ आनन्दबाष्पैराकुललोचनानां व्याप्तनेत्राणाम् । पावकश्च कृत्तिकाश्च पावककृत्तिकाः । भागीरथ्या गङ्गया सहिता याः पावककृत्तिकास्तासां संबन्धि दिव्यं लोकोत्तरस्वरूपं तं नन्दनं पुत्रमुपात्तुं ग्रहीतुं परस्परमन्योन्यं प्रौढतरो- ऽतिशयितो विवादः कलह आसीत् । 'ममायं ममायम्' इति प्रवादपूर्वकः कलि- र्बभूवेत्यर्थः ॥ ३॥
अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः।
नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ॥४॥
पाठा०-१ अभ्यर्थमाना. २ सुधाभिपूर्णम्. ३ स्वर्गापगा. ४ स्वस्तनम्. ५ धात्री. ६ एषः. अत्रान्तर इति ॥ अत्रान्तरे कलहावसरे शिवः पर्वतराजपुत्र्या पार्वत्या समं सह स्वैरविहारो यथेच्छविहारस्तस्माद्धेतोः कारणान्मनोतिवेगेन चेतसोऽप्यतिशय- जवेन विमानेन नभोऽन्तरिक्षं विगाहमानोऽवलोढयंस्तत्र कलहस्थाने जगाम प्राप ॥४॥
निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
अपश्यतां तं गिरिजागिरीशौ षडाननं पड्दिनजातमात्रम् ॥५॥
निसर्गेति ॥ गिरिजागिरीशौ निसर्गेण स्वभावेन यद्वात्सल्य दयावत्वं तस्य वशाद्हेतोर्विवृद्ध्ः प्रवृद्धश्चेतसः प्रमोदो हर्षो ययोस्तथाभूतौ । अत एव गलद- श्रुणी प्रवहद्वाप्पे नेत्रे ययोम्तथाभूतौ सन्तौ । षड्दिनानि, जन्मदिनादारभ्ये- त्यर्थः । जातानि व्यतीतानि यस्य स षड्दिनजातः स एव षड्दिनजातमात्रस्तं षडाननं षण्मुखं तं कुमारमपश्यतां दृष्टवन्तौ ॥ ५॥
अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ।
कस्याथवा धन्यतमस्य पुंसो माताऽस्यं का भाग्यवतीषु धुर्या ॥६॥
अथेति ॥ अथ दर्शनानन्तरं देवी भवानी । पुरस्तादयं कः ? अथवा कस्य धन्यतमस्य पुंसो दिव्यवपुरादितेयसदृशविग्रहः शिशुर्बालः ? पुत्र इति यावत् । अस्य शिशोर्माता जननी का या भाग्यवतीषु धुर्याऽग्रगण्या ? "धुरो यङकौ' (पा. ४।४।७७ ) इति यत् । एतन्मातृत्वादिति भावः । इत्येवं प्रश्नभूतं वचः शशि- खण्डमौलिं हरमाहोक्तवती । आहेति विभक्तिप्रतिरूपकमव्ययम् । तथा चोक्तम् --- 'अव्ययानामनन्त वाद्गणनाय न शक्यते । महाकविप्रयोगेषु यदि सिद्धात्परं च तत् ॥' इति ॥ ६ ॥
स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्थं मिथ्येति वैलक्ष्यमुदाहरन्ति ।। ७ ॥
स्वर्गापगेति ॥ किंच, असौ स्वर्गापगा गङ्गा । अयमनलोऽग्निः । एताः षट् कृत्तिकाः कलहायमानाः कलहं कुर्वाणाः सत्यः । 'शब्दवैरकलह-'
पाठा०-१ निसर्गवात्सल्यरसाद्विवृद्धचेतःप्रमोदौ; निसर्गवात्सल्यविवृद्धचेतःपृथु- प्रमोदौ. २ तौ. ३ तद्दिन. ४ असौ. ५ च. ६ मिथः, ७ उदाहरन्ते. (पा. ३।१।१७) इत्यादिना करोत्यर्थे क्यङ् । अयं पुत्रो मम मत्संबन्धी-इति गङ्गा- वाक्यम् । अयं तव न, किंतु मम-इत्यग्निवाक्यम् । इत्थं मिथ्योभयोर्युवयोर्मध्ये न कस्यापि, किं त्वस्माकमिति सत्यम्-इति कृत्तिका वाक्यम् । इति परस्परं वैलक्ष्यं विलक्षणं यथा तथा किं किमर्थमुदाहरन्ति विवदन्ते ॥ ७ ॥
एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ॥ ८ ॥
एतेष्विति ॥ हे ईश! एतेषु स्वर्गापगादिषु मध्ये कस्येदमपत्यं पुत्रः ? किंभू- तम् ? अखिला या त्रिलोकी तत्र तिलकायमानं तिलक इवा चरत् । 'कर्तुः क्यङ् सलोपश्च' ( पा. ३।१।११ । इत्याचारार्थे क्यङ् । तत आत्मनेपदित्वाच्छानच् । अथाथवा । सिद्धा देवविशेषाः । उरगाः सर्पाः । राक्षसा निशाचराः । देवदैत्यगन्ध- र्वसहिता ये सिद्धोरगराक्षसास्तेषु मध्येऽन्यतमस्य कस्यापीति वदेत्यर्थः ॥ ८ ॥
श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
सान्द्रप्रमोदोदयसौख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ॥ ९॥
श्रुत्वेतीति॥ चन्द्राचूडो हरः कौतूहलिन्याः श्रवणे कौतुकवत्या हृदयप्रियायाः पार्वत्या इति पूर्वोक्त वाक्यं वचः । 'वच परिभाषणं', 'ऋहलोर्ण्यत्' ( पा. ३।१।- १२४) इति ण्यत् । श्रुत्वा विमला स्मितश्रीर्यस्य, किंचितिहस्येत्यर्थः । सान्द्रः सधनः, बहुरिति यावत् । यः प्रमोदो हर्षः । 'प्रमोदामोदसंमदाः' इत्यमरः । तस्योदय उत्पत्तिस्तेन यत्सौख्यं तस्य हेतुभूतम् , तज्जनकमित्यर्थः । वचो वचन- मवोचतोक्तवान् ॥ ५ ॥
जगत्रयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति ।
कल्याणि! कल्याणकरः सुराणां त्वत्तोऽपरस्याः कथमेष सर्गः ॥१०॥
जगत्रयीति ॥ हे प्रिये ! जगत्रय्या नन्दन आनन्दकारकः । नन्द्यादित्वात् 'नन्दिग्रहि-' (पा. ३।१।१३४ ) इति ल्युः। वीरः पराक्रम्येष पुरोवर्ती शिशुः प्रवीरमातुः प्रकृष्टवीरजनन्यास्तव नन्दनः पुत्रोऽस्ति । ममैवायं नन्दन इत्यत्र किं मानमित्याशङ्क्याह-हे कल्याणि! सुराणामिन्द्रादीनां कल्याणकरः शर्मकार्येष पुरो-
पाठा०-१ वाचम्. २ जगत्रयानन्दन. ३ मातः. ४ अयम्. ५ परस्याः. वर्ती सर्गः सृष्टिः, पुत्र इति यावत् । स्वत्तोऽपरस्यास्त्वदन्यस्याः स्त्रियाः कथं केन प्रकारेण स्यात् ? तारकविनाशजनितकल्याणकरत्वे त्वज्जनितस्यैव शक्तिः, अतस्त- वैवायं पुत्र इति भावः ॥ १० ॥
देवि! त्वमेवास्य निदानमास्से सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ॥ ११ ॥
देवीति ।। हे दवि प्रिये! जगतां मङ्गलानि मङ्गलकर्माणि गानानि गीतानि, मङ्गलप्रबन्धरूपाणीति यावत् । तेषां हेतोः कारणस्यास्य शिशोः सर्गे सृष्टौ, उत्पत्ताविति यावत् । त्वमेव निदानमादिकारणमास्स उपविशसि, असीत्यर्थः । 'निदानं त्वादिकारणम्' इत्यमरः । 'आसु उपवेशने' । लटो मध्यमपुरुषैक- वचनम् । नन्वहमेव कारणमित्यत्र किं मानमिति दृष्टान्तेन दर्शयति-त्वमेवेति सत्यम् । विचारयस्व । क्रिमिति तत् ? रत्नं रत्नाकरे समुद्र एव । अथ च रत्न- खनावेव युज्यते युक्तं भवति । 'खनिः स्त्रियामाकरः स्यात्' इति, 'रत्नाकरो जल- निधिः' इति चामरः ॥ ११ ॥
अथ युग्मेनाह-
अतः शृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत् ।
संक्रान्तमन्तस्त्रिदशापगायां ततोऽवगाहे सति कृत्तिकासु ॥१२॥
गर्भत्वमाप्तं तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि ।
बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य ॥ १३ ॥
अत इति । गर्भत्वमिति ॥ हे प्रिये ! अतः कारणात् । अवहितेनावधानेन, सावधानतयेति यावत् । भावे निष्टा । वृत्तं वृत्तान्तं शृणुष्व शृणु । तथा हि-मया यद्बीजं वीर्यमग्नौ निहितं स्थापितं तद्बीजं त्रिदशापगायां गङ्गायामन्तर्मध्ये अवगाहे स्नाने सति संक्रान्तं लग्नम् । ततो गङ्गातः कृत्तिकासु च संक्रान्तं सत् गर्भत्वमाप्तं गर्भी भूतम् । अथ च ताभिः कृत्तिकाभिरमोघं तदेतच्छरस्तम्बमध्यधिशरस्तम्बम् । अधेर्व्यत्ययः प्रामादिक एव । न्यधायि निहितम् । धाञः कर्मणि लुङ् । तत्र शरस्तम्बेऽशेषचराचरस्य समस्तस्थावरजङ्गमस्य जगतोऽभूतपूर्वः पूर्वं भूतपूर्व-
पाठा०-१ आर्ये; आद्ये. २ स्वर्गे, ३ अत्र. ४ त्रिदिवापगायाम्. ५ विगाहे. ६ यत्. स्तादृङ्न भवतीत्यभूतपूर्वो महोत्सवो महानुत्सवोऽयं शिशुर्बभूव । जन्यजनकयोर- भेदविवक्षया 'आयुर्घतम्' इतिवन्महोत्सवोऽयमिति प्रयोगः ॥ १२-१३ ॥
अशेषेति ॥ हे प्रिये ! अशेषविश्वस्य समस्तजगतः प्रियं प्रीतिकारकम् । 'इगुपध-' (पा. ३।१।१३५ ) इत्यनेन कः । तथाभूतं दर्शनं यस्य तथोक्तेनैतेन । अत्रान्वादेश एतच्छब्दस्य नित्यमेनादेशनियमात् कथमेनाभावः साधुः ? सत्यम् ; अत्रान्वादेश एव नास्ति; तत्र किंचिद्विधानोद्युक्त्याश्रयीभूतस्य पुनरुपादाना- श्रयीभूतस्य च भेदाभाववत्त्वेन विवक्षितत्वात् । प्रकृते तु तदन्यथात्वादन्वादेशा- भावेनैनादेशाभावसिद्धिरित्यलम् । त्वं सुपुत्रिणीनां शोभनपुत्रवतीनां धुर्याऽग्र- गण्या, श्रेष्ठतमेति यावत् । असीति शेषः । हे अचलराजपुत्रि ! विलम्ब्य विलम्बं कृत्वाऽलम् , विलम्बो न कर्तव्य इत्यर्थः । किंतु स्वपुत्रमात्मतनूजमुत्सङ्गतलेऽङ्कतले निधेहि स्थापय ॥ १४ ॥
अथ युग्मेनाह-
अथेति ॥ किरीटेति ॥ अथामृतांशुश्चन्द्रो मौलौ यस्य तथाभूते हरे । इति पूर्वोक्तप्रकारेण वादिनि भाषमाणे सति । समस्तस्य सकलस्य चराचरस्य जगतो धात्री परिपोषिका । 'ऋन्नेभ्यः-' (पा. ४।१।५) इति ङीप् । तथा सान्द्रः सघनो यः प्रमोद आनन्दस्तेन सुतरां पीनं प्रफुल्लत्वात्पुष्टं गात्रं यस्यास्तथाभूता शैलेन्द्रस्य हिमालयस्य पुत्री कन्या पार्वती नभःस्थैः, तत्काल आकाशमाश्रयद्भिरित्यर्थः । तथा सत्वरैश्च नाकिलोकैरिन्द्रादिलोकैः किरीटेषु बद्धा अञ्जलयो यैस्तथाभूतैः सद्भिर्नमस्कृता वन्दिता सती सद्यो रभसेन वेगेन विमानतो विमानात् । पञ्चम्या-
स्तसिल् । अवातरदुत्ततार। अथ च तमात्मजं कुमारं ग्रहीतुमुत्कण्ठितमानसा
चाभूत् , अहमेनं गृह्णामीति मनस्यैच्छदित्यर्थः ॥ १५-१६ ॥
स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि भूयः ।
हित्वोत्सुका तं सुतमाससाद पुत्रोत्सवे माद्यति का न हर्षात् ॥१७॥
स्वर्गेति ॥ पुत्रोत्सव उत्सुकोत्कण्ठिता पार्वती । स्वर्गापगा गङ्गा तया सहिता याः पावककृत्तिकास्ता आदयो येषां तान् । अत्र 'आदि'शब्देनेन्द्रादयो ग्राह्याः । स्वर्गापगा च पावकश्च कृत्तिकाश्चेति द्वन्द्वसमासेऽल्पाच्तरत्वात् 'पावक'शब्दस्य पूर्वनिपातः प्रसज्येतेति पूर्वरीतिरादृता । तान् कृताञ्जलीनत एव भूयोऽतिशयमानमतो नमस्कुर्वतोऽपि हित्वा परित्यज्य तं सुतमाससाद प्राप । तथा हि- हर्षादानन्दवशात् का न माद्यत्युन्मत्ता न भवति ? पुत्रोत्सवेन सर्वासामुन्मत्तत्वं भवतीति भावः ॥ १७ ॥
प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
परिस्पृशन्ती करकुड्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ १८ ॥
प्रमोदेति ॥ सा पार्वती । अग्रतः स्थितमपि तं पुत्रं क्षणं न ददर्श । यतः प्रमोदबाष्पैरानन्दाश्रुभिराकुले व्याप्तत्वाद्दर्शनाशक्ते लोचने यस्याः, आनन्दाश्रुभिरन्धीभूतेत्यर्थः । अथ च कर एव कुड्मलं कलिका तेन परिस्पृशन्ती सती किमपि लोकोत्तरमपूर्वम्, अभूतपूर्वमित्यर्थः । शाकपार्थिवादीनामुत्तरपदलोपः । सुखान्तरम् , अन्यत्सुखमित्यर्थः । 'अन्तर'शब्दोऽत्रोपमानाभावद्योतकः । प्राप प्राप्तवती ॥ १८ ॥
सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बष्पतरंगितायाः ।
विवृद्धवात्सल्यरसोत्तराया देव्या दृशोर्गोचरतां जगाम ॥ १९ ॥
सुविस्मयेति ॥ शिशुः कर्ता । सुतरां यौ विस्मयानन्दावाश्चर्यहर्षौ ताभ्यां विकस्वरायाः प्रफुल्लीभूतायाः तथा गलद्बाष्पैस्तरंगितायाः संजाततरंगायाः । तारकादित्वादितच् । वपुषि गलद्भिर्बाष्पजलैरुद्भूतप्रवाहकल्लोलकलिताया इत्यर्थः । तथा विवृद्धं यद्वात्सल्यं दयावत्त्वम्, पुत्रत्वादिति भावः। तत्र यो रसः प्रीतिः स
पाठा०-१ भूम्ना; मूर्धा. २ सुकान्तम्. ३ को न. ४ करकुड्मलाभ्याम्. ५ सविस्मय ६ दृशः. उत्तरः प्रधानं यस्यास्तथाभूताया देव्याः पार्वत्याः संबन्धिनोर्दृशोर्विलोचनयोर्गोचरतां विषयतां जगाम प्राप, बाष्पनिर्मुक्ताभ्यां लोचनाभ्यां देवी तमपश्यदित्यर्थः ॥ १९॥
तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।
सा नन्दनालोकनमङ्गलेषु क्षणंक्षणं तृप्यति कस्य चेतः ॥२०॥
तमिति ॥ तं बालं क्षणमीक्षमाणाऽवलोकमाना सा देवी विनिमेषं विगतनिमेषमीक्षणानां नेत्राणां सहस्रमाप्तुं मम सहस्रं नेत्राणि भवन्त्वित्यैच्छदियेष, द्वाभ्यां विलोचनाभ्यामाकण्ठदर्शनजननाभावादिति भावः । तथा हि-नन्दनस्यालोकनान्येव मङ्गलानि तेषु विषये क्षणंक्षणम् , प्रतिक्षणमित्यर्थः । 'नित्यवीप्सयोः' (पा. ८।१।४) इति वीप्सायां द्विर्भावः । कस्य चेतस्तृप्यति तृप्तिं प्राप्नोति ? अपि तु न कस्यापीत्यर्थः ॥ २० ॥
विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्याम् ।
नवोदयं पार्वणचन्द्रचारुं गौरी स्वमुत्सङ्गतलं निनाय ॥ २१ ॥
विनम्रेति ॥ गौरी पार्वती । 'षिद्गौरादिभ्यश्च' (पा. ४।१।४१) इति ङीष् । नवोदयं नूतनोद्भवम् , तत्कालजातमित्यर्थः । अत एव पार्वणः पर्वणि भवः । 'तत्र भवः' (पा. ४।३।५३ ) इत्यण् । स चासौ चन्द्रश्च तद्वच्चारुं मनोहरम् । चन्द्रोऽपि नवोदय इति ज्ञेयम् । तथाभूतं तं तनूजं पुत्रम् , कर्मभूतमित्यर्थः । आदाननयने उभे अपि प्रत्यस्य कर्मत्वं विवेचनीयम् । विनम्राः पादप्रणता ये देवासुरास्तेषां पृष्ठेषु गच्छतः संचरतस्ताभ्याम् । अनेन तेभ्योऽभयदानमुद्रा कृतेति व्यज्यते । पाणिसरोरुहाभ्यां करकमलाभ्यामादाय गृहीत्वा स्वमात्मीयमुत्सङ्गतलं निनाय प्रापयामास । हस्ताभ्यामुत्थाप्य स्वाङ्क आरोपितवतीत्यर्थः ॥ २१ ॥
स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्रा।
तमेकमेषा जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ।। २२ ।।
स्वमिति ॥ इन्दुवक्रा चन्द्रमुख्येषा पार्वती । एकमद्वितीयं जगदेकवीरं
पाठा०-१ न नन्दनालोकनमङ्गलेषु; सुनन्दनालोकनकौतुकेन. २ हृष्यति. ३ नवोदयात् ; महोदयात्. ४ तम्. ५ एकमेवम् ; एकदेवम् . ६ एकदेवी. जगत्स्वेकवीरं तमात्मनो नन्दनं पुत्रं सुधानिधानममृतपात्रमिव स्वमात्मीयमङ्कमारोप्य संस्थाप्य पुत्रिणीनां पुत्रवतीनां धुर्यग्रभागे पूज्या पूजयितुं योग्या बभूव । एतत्पुत्रस्य सर्वासामपि पुत्रेभ्योऽधिकत्वादग्रपूज्यत्वमुचितमेवेति भावः ॥ २२ ॥
निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
तमेकपुत्रं जगदेकमाताभ्युत्सङ्गिनं प्रस्रविणी बभूव ॥ २३ ॥
निसर्गेति ॥ निसर्गेण स्वभावेन, न तूपाधिनेत्यर्थः । यो वात्सल्यरसो दयावत्त्वरसस्तयौघेन सिक्ता प्लाविता, तत्रातिवात्सल्यवतीत्यर्थः । तथा सान्द्रप्रमोदोऽतिशयहर्षः स एवामृतं पीयूषं तस्य पूरेण प्रवाहेण पूर्णा भृता जगतामेकाऽद्वितीया माता परिपोषिका देव्युत्सङ्गिनमधिश्रितोत्सङ्गं तमेकपुत्रमभि संमुखं प्रस्रविणी दुग्धस्राववती बभूव, पुत्रं दृष्ट्वा मातुः स्तनाभ्यां पयः पततीति युक्तमिति भावः॥ २३ ॥
अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ॥२४॥
अशेषेति ॥ षाण्मातुरः षण्णां मातॄणामपत्यं षाण्मातुरः कार्तिकेयः । अत्र 'षण्मातृ'शब्दात् 'मातुरुत्संख्या-' (पा. ४।१।११५) इत्यादिनाण् 'मातृ'शब्दस्योदादेशश्च । 'षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः' इत्यमरः । सुरस्रवन्त्या देवनद्याः, गङ्गाया इत्यर्थः । 'स्रवन्ती निम्नगापगा' इत्यमरः । तथा कृत्तिकाभिश्च सस्पृहं सेच्छं यथा तथा । 'इच्छा काङ्क्षा स्पृहेहा तृट्' इत्यमरः । अस्मदीयपयोधरस्रवदमृतपातोयमिदानीमेतदीयस्तनपयः पिबन् पुनरप्यस्मदीयपयोऽपि स्मरेदेवंभूतेच्छासहितमित्यर्थः । मुहुर्मुहुरनुवेलमीक्ष्यमाणोऽवलोक्यमानः सन्नशेषं सकलं यल्लोकत्रयं तस्य मातुः पोषिण्या अस्या देव्याः स्तन्या स्तनेभवा । 'शरीरावयवाद्यत्' (पा. ५।१।६) इति यत् । सा चासौ सुधा च तामधासीत् पपौ। 'धेट् पाने' कर्तरि लुङ् । 'विभाषा घ्राधेट्-' (पा. २।४।७८ ) इति सिज्लुग्न ॥ २४ ॥
सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
तस्यैकनालोद्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं , चुचुम्ब ॥ २५ ॥
पाठा०-१ सोत्सङ्गिनम् ; अभ्युत्सङ्गितम्. २ सुखास्रपूर्णेन. ३ उद्गम. ४ चुचुम्बे. सुखेति ॥ मृगाङ्कमौलेर्हरस्य कलत्रं भार्या । 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । एकनाल एककाण्ड उद्गतान्युदितानि यानि पञ्च पद्मानि तेषां लक्ष्मीरिव शोभेव लक्ष्मीः शोभा यस्यास्तथाभूतां तस्य कुमारस्य षण्णां वदनानां समाहारं षड्वदनीम् । 'द्विगो:-' (पा. ४।१।२१) इति ङीप् । इह संख्यासादृश्यमन्तरा न विरोधः । सुखाश्रुपूर्णेनानन्दाश्रुजलपरिपूरितेनैकेन मुखाम्बुजेन वदनकमलेन क्रमाद्यथाक्रमं चुचुम्ब स्पृष्टवती, अतिशयप्रेमवशादिति भावः ॥ २५॥
हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ २६ ॥
हैमीति ॥ तं नन्दनं तनयमादधाना सा पार्वती । फलं दधाना हेमगिरेः सुमेरोः संबन्धिनी, तदुत्पन्नेत्यर्थः । हैमी हेमविकारा । विकारार्थकेऽणि 'टिड्डाणञ्-'(पा. ४।१।१५) इति ङीप् । लतेव । विकस्वरं प्रफुल्लं पद्मं कमलं दधाना नाकनदीव गङ्गेव । नूतनं नवोदयमिन्दुं दधाना पूर्वापूर्वसंज्ञिका दिगिव । आभाच्छुशुभे । अत्र मालोपमालंकारः ॥ २६ ॥
प्रीतात्मना सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दधाना विमानमभ्रंलिहमारुरोह ॥ २७ ॥
प्रीतेति ॥ कुमारं पुत्रमुत्सङ्गतले दधाना बिभ्रती सा देवी प्रीतात्मना प्रसन्नीभूतमनसा प्रयतेन सावधानेन, न तु संभ्रमितेन । 'नयवर्त्मगाः प्रभवतां हि धियः' इति न्यायादिति भावः । तथाभूतेन शशिशेखरेण शिवेन दत्तहस्तावलम्बा सती, अत्यतिप्रेमभरादिति भावः । अभ्रंलिहमाकाशस्पृक् । 'वहाभ्रे लिहः'( पा. ३।२।३२) इति खश् । विमानमारुरोहारूढा ॥ २७ ॥
महेश्वरोऽपि प्रमदप्ररूढरोमोद्गमो भूधरनन्दनायाः।
अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात् ॥२८॥
महेश्वर इति ॥ प्रमदेनानन्देन प्ररूढा रोमोद्गमा यस्य तथाभूतो महेश्वरोऽप्यात्मजे पुत्रे वत्सलत्वाद्दयावत्त्वाद्धेतोर्भूधरनन्दनायाः पार्वत्या अङ्कादुत्सङ्गतस्तं
पाठा--१ हैमम्. २ सुप्रयतेन. ३ अकाण्डमादत्त. ४ तमङ्कतः ५ सः. ६ सौम्यात्मज. पुत्रमुपादत्ताग्रहीत् । अथ च तदङ्कतो हरोत्सङ्गात् सा देव्युपादत्त । अथ च सोऽपि हरोऽपि तस्य देव्या अङ्कादुपादत्त, इत्यनुवेलमन्योन्यग्रहणं चक्रतुरित्यर्थः ॥ २८ ॥
दधानया नेत्रसुधैकसत्रं पुत्रं पवित्रं सुतया तयाद्रेः ।
संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाञ्जगाम ॥२९॥
दधानयेति ॥ शशिखण्डधारी महेश्वरः सुधाया अमृतस्यैकं सत्रं सदादानम् । 'सत्रमाच्छादने यज्ञे सदादाने धनेऽपि च' इत्यमरः । नैत्रयोः संबन्धि सुधैकसत्रं येन, नेत्रयोरमृतवत् सुखदातारमित्यर्थः । तथा पवित्रं पूतम् । 'पुवः संज्ञायाम्' (पा. ३।२।१८५) इति त्रच्प्रत्ययः । तथाभूतं पुत्रं सुतं दधानया बिभ्रत्या तयाद्रेर्हिमालयस्य सुतया कन्यया पार्वत्या कत्र्र्या । संश्लिष्यमाणः स्नेहवशादालिङ्गयमानः सन् विमानस्य वेगेन गृहाञ्जगाम प्रययौ। 'गृहाः पुंसि च भूम्न्येव' इत्यमरः॥ २९ ॥
अधिष्ठितः स्फाटिकशैलशृङ्गे तुङ्गे निजं धाम निकामरम्यम् ।
महोत्सवाय प्रमथप्रमुख्यान्पृथून्गणाञ्शंभुरथादिदेश ॥३०॥
अधिष्ठित इति ॥ अथानन्तरं शंभुर्महेश्वरस्तुङ्गे उन्नते स्फटिकमयः स्फाटिको यः शैलः कैलासस्तस्य शृङ्गे शिखरे । 'शृङ्गं प्राधान्यसान्वोश्च' इत्यमरः । निकामरम्यमतिमनोहरं निजं स्वीयम् । 'स्वके नित्ये निजं त्रिषु' इत्यमरः । अधिष्ठितः सन् । 'अधिशीङ्-' (पा. १।४।४६ ) इत्यादिनाधारस्य कर्मसंज्ञा । महोत्सवाय महोत्सवं कर्तुम् । 'तुमर्थाच्च-' (पा. २।३।१५) इति चतुर्थी । पृथून्महतः प्रमथप्रमुख्यान्प्रमथादीन्गणानादिदेशाज्ञापयामास ॥ ३० ॥
पृथुप्रमोदः प्रगुणो गणानां गणः समग्रो वृषवाहनस्य ।
गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ॥३१॥
पृथ्विति ॥ अथानन्तरं पृथुर्महान् प्रमोदो हर्षो यस्य । तथा प्रकृष्टा गुणा यस्यैवविधः समग्रः संपूर्णो गणानां गणः प्रमथादीनां समूहो वृषवाहनस्य महेश्वरस्य गिरीन्द्रपुत्र्याः पार्वत्याश्च तनयस्य जन्मन्युत्सवं विधातुं कर्तुं संववृते संवृत्तः, उद्युक्त इति यावत् ॥ ३१ ॥
पाठा०-१ दत्त्वानया. २ पात्रम्. ३ तथा, ४ मौलिः; वाही. ५ गृहम्. ६ अधिष्ठित. ७ निजे. ८ धामनि कालरम्ये; धाम्नि निकामरम्ये. ९ प्रमथान्सनाथः. १० महिम्ना स्वमुदा; प्रथिम्नां पृथक्. ११ प्रमोद. १२ प्रगुणे. इतःपरं सप्तभिरुत्सवानेवाह-
स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि ।
उच्चिक्षिपुः काञ्चनतोरणानि गणा वराणि स्फटिकालयेषु ॥३२॥
स्फुरदिति ॥ गणाः प्रमथाः स्फटिकालयेषु स्फटिकगृहेषु स्फुरन्त्यो भासमाना या मरीचयः किरणास्तामिश्छुरितं मिश्रीकृतमम्बरं यैस्तानि। संतानशाखिनां देववृक्षाणां प्रसवानि पत्राणि तैरञ्चितानि निर्मितानि वराणि श्रेष्ठानि काञ्चनं काञ्चनस्य विकारः काञ्चनं स्वर्णसूत्रं तदाधेयीभूतानि तोरणानि मालाविशेषानुच्चिक्षिपुरुच्चैश्चिक्षिपुः, बबन्धुरित्यर्थः ॥ ३२ ॥
दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव मध्यलोके ।
महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः पटहः पटीयान् ॥३३॥
दिक्ष्विति ॥ अथ तोरणोत्क्षेपानन्तरम् । दिक्षु दशसु दिशासु प्रसर्पन्प्रसिद्धो भवन् , आत्मनिनादेनेति शेषः । गम्यमानार्थत्वादप्रयोगः । तासां दिशामधीश्वराणां दिक्पालानाममराणां देवानामिन्द्रादीनां संबन्धी पटीयान्समर्थः, घोरनिनाद इति शेषः । धीरो गम्भीरः पटहोऽन्यैर्भृत्यभूतैरमरैराहतस्ताडितः सन् । मध्यश्चासौ लोकश्च मध्यलोकः, भूलोक इत्यर्थः। तस्मिन् । महोत्सवम् । अत्रापि भवत्पुत्रजन्मनास्माकं महानुत्सवो जात इति शंसितुमिव कथयितुमिव । दध्वान ध्वनिं चकार। ध्वनिकरणे महोत्सवज्ञापनस्य फलत्वाभावेऽपि फलत्वकल्पनात्फलोत्प्रेक्षा ॥ ३३ ॥
महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ॥ ३४ ॥
महेति ॥ तत्र महोत्सवे समागतानां प्राप्तानामत एव गृहे गिरिराजपुत्र्या भवान्या संभावितानां पूजितानाम् , सत्कृतानामित्यर्थः । गन्धर्वा विद्याधराश्च देवविशेषास्तेषां सुन्दरीणां स्त्रीणां स्त्रीकर्तृकाणि मङ्गलगीतकानि मङ्गलप्रयोजनगीतान्यभवन् , जातानीत्यर्थः ॥ ३४ ॥
सुमङ्गलोपायनपात्रहस्तास्तं मातरो मातृवदभ्युपेताः ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ॥३५॥
पाठा०-१ विचिक्षिपुः, २ चलानि. ३ नाकिलोके. ४ धीरम्. ५ पूर्ण, ६ अभ्युपेत्य. सुमङ्गलेति ॥ सुमङ्गलानि यान्युपायनान्युपदासामग्र्यस्तेषां पात्रं तत्सहिता हस्ता यासामेवंभूताः सत्योऽभ्युपेताः प्राप्ता मातरो ब्राह्म्याद्याः, सप्तेति शेषः । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डाः सप्त मातरः ॥' इत्यमरः । मूर्ध्नि शिरसि दूर्वाक्षतकानि निधाय संस्थाप्य तं गिरिजातनूजं कुमारं मातृवत्पार्वतीवत्तत्तुल्यं यथा तथा स्वं स्वीयमङ्कं निन्युः, स्वाङ्के स्थापयामासुरित्यर्थः । मातृवदित्यनेन तासामप्यत्र महत्प्रेमास्तीति दर्शितम् ॥ ३५ ॥
ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन ।
सुसंधिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् ।। ३६ ॥
ध्वनत्स्विति ॥ अङ्क्यालिङ्ग्योर्ध्वकेष्वेतत्संज्ञकेषु तूर्येषु वाद्येषु सुतरां मन्द्रं गम्भीरं यथा तथा । 'कलो मन्द्रस्तु गम्भीरे' इत्यमरः । ध्वनत्सु शब्दायमानेषु सत्सु । अप्सरसो रम्भादिका रसेन स्नेहेन शोभना मधुराः संधयः स्वरसंध्यादयो येषु तथाभूता बन्धाः गीतप्रबन्धा यत्र यस्मिन्कर्मणि । सुवृत्तानि शोभनच्छन्दांसि गीतान्यनुगानि यत्र यस्मिन्कर्मणि । भावा रत्यादयो रसाः शृङ्गारादयस्तैरनुविद्धं व्याप्तं यत्र यस्मिन्कर्मणि यथा तथा ननृतुर्गात्राणि विचिक्षिपुः ॥ ३६ ॥
वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग्दिदीपे ।
जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षं प्रससाद सद्यः ॥ ३७॥
वाता इति ॥ तत्रोत्सवे । वाताः पवनाः सौख्यकरा ववुश्चेलुः । आशा दिशः प्रसेदुर्निर्मला बभूवुः । हुतभुगग्निर्विधूमो निर्धूमः सन्दिदीपे ज्वलति स्म । 'दीपी दीप्तौ' इति लिट् । जलानि विमलान्यभूवन् । अन्तरिक्षं व्योम सद्यः प्रससाद स्वच्छमभूत् । 'भवो हि लोकाभ्युदयाय तादृशाम्' इति न्यायादिति भावः ॥३७॥
गम्भीरशङ्खध्वनिमिश्रमुच्चैर्गृहोद्भवा दुन्दुभयः प्रणेदुः ।
दिवौकसां व्योम्नि विमानसंघा विमुच्य पुष्पप्रचयान्प्रसस्रुः॥३८॥
गम्भीरेति ॥ गृहोद्भवा महेश्वरनिकेतनीया दुन्दुभयो गम्भीरो मन्द्रो यः
पाठा०-१ सुगन्धि. २ सुतन्त्रि; सवृत्ति. ३ शब्द. ४ विमुञ्चता पुष्पचयान्; विमुच्यते पुष्पचयान्. शङ्खध्वनिः पाञ्चजन्यशब्दस्तेन मिश्रं यथा स्यात्तथोच्चैः प्रणेदुः । 'उपसर्गादसमासेऽपि-' ( पा. ८।४।१४ ) इति णत्वम् । अथ च दिवौकसां देवानां विमानसंघा व्योम्नि पुष्पप्रचयान्विमुच्य विकीर्य प्रसस्रुः, प्रतस्थिर इत्यर्थः ॥ ३८ ॥
इत्थं महेशाद्रिसुतासुतस्य जन्मोत्सवे संमदयांचकार ।
चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ॥ ३९ ॥
इत्थमिति ॥ महेशो हरः । अद्रिसुता पार्वती तस्याः सुतस्य पुत्रस्येत्थमेवंभूते जन्मोत्सवेऽशेषं समस्तं चराचरं स्थावरजंगममेतद्विश्वं जगत् संमदयांचकारोन्मत्तीचकार, उन्मादसाधनैरिति शेषः । परं केवलं तारकस्य तारकासुरस्य श्रीर्लक्ष्मीश्चकम्पे, बिभायेत्यर्थः ॥ ३९ ॥
ततः कुमारः सुमुदां निदानैः स बाललीलाचरितैर्विचित्रैः ।
गिरीशगौर्योर्हृदयं जहार मुदे न हृद्या किमु बालकेलिः ॥४०॥
तत इति ॥ ततोऽनन्तरं स कुमारो विचित्रैरनेकरूपैरत एव सुमुदां सुतरां प्रीतीनां निदानैरादिकारणैः । 'निदानं त्वादिकारणम्' इत्यमरः । बाललीलाचरितैः शिशुक्रीडाचरितैर्गिरीशगौर्योः शिवपार्वत्योः । अभ्यर्हितत्वाद्बह्वचोऽपि पूर्वनिपातः। हृदयं मनो जहार, प्रसादयामासेत्यर्थः । हृद्या मनोहरा बालकेलिर्मुदे न किमु भवति ? किं तु भवत्येवेत्यर्थः ॥ ४०॥
महेश्वरः शैलसुता च हर्षात्सतर्षमेकेन मुखेन गाढम् ।
अजातदन्तानि मुखानि सूनोर्मनोहराणि क्रमतश्चचुम्ब ॥४१॥
महेश्वर इति ॥ महेश्वरो हरः शैलसुता पार्वती च हर्षाद्धेतोः सतर्षं सतृष्णं यथा तथाऽजातदन्तान्यनुद्भूतदशनानि मनोहराणि सूनोः कुमारस्य मुखान्येकेन मुखेन गाढं दृढं यथा तथा क्रमतो यथाक्रमं चुचुम्ब पस्पर्श । अत्र कर्तृद्वयस्य पार्थक्येन क्रियान्वयो विधेयः, अन्यथा द्विवचनापत्तिरिति विवेचनीयम् ॥४१॥
क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः।
बालः स लीलाचलनप्रयोगैस्तयोर्मुदं वर्धयति स्म पित्रोः॥४२॥
पाठा०-१ जन्मोत्सवः. २ समुदः. ३ स्वबाललीलाललितैः. ४ अपि. ५ सहर्षम्. ६ वक्राणि. ७ क्रमशः. ८ चुचुम्बे. ९ सलीलम्. क्वचिदिति ॥ स बालः कुमारः क्वचित्प्रदेशे स्खलद्भिः क्वचित्प्रदेशेऽस्खलद्भिः कचित्प्रदेशे प्रकम्पैः प्रकृष्टकम्पैः क्वचित्प्रदेशेऽप्रकम्पैर्लीलया ये चलनप्रयोगास्तैर्निमित्तभूतैस्तयोः पित्रोर्जननीजनकयोः माता च पिता च पितरौ, तयोः पित्रोः। 'पिता मात्रा' (पा. १।२।७० ) इत्येकशेषः । मुदं प्रीतिं वर्धयति स्म । 'कन्दलयांचकार' इत्यपि पाठः । अर्थः स एव ॥ ४२ ॥
अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गणक्रीडनधूलिधूम्रः ।
मुहुर्वदन्किंचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ ४३ ॥
अहेत्विति ॥ गृहाङ्गणे यत्क्रीडनं तेन निमित्तेन धूलिभी रजोभिर्धूम्रो धूसरः सन्नङ्कगत उत्सङ्गं प्राप्तः कुमारः । अहेतुकारणो यो हासो हसितं तेन च्छुरितो मिश्रित आननेन्दुर्मुखचन्द्रो यस्य । अलक्षितार्थमव्यक्तार्थं मुहुः किंचिद्वदंस्तयोर्मुदं प्रीतिं ततान चकार ।। ४३ ॥
गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमाकेसरिणं सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखाग्रं कर्षन्बभूव प्रमदाय पित्रोः ॥४४॥
गृह्णन्निति ॥ स कुमारः हरवाहनस्य वृषस्य विषाणे शृङ्गे गृह्णन् , कराभ्यामिति शेषः । तथोमाकेसरिणं पार्वतीसिंहं सलीलमप्रयासं यथा तथा स्पृशन् । तथा भृङ्गिणो गणस्य सूक्ष्मतरं शिखाग्रं कर्षन् । पित्रोर्जननीजनकयोः प्रमदाय हर्षाय बभूव । क्रियाग्रहणात्संप्रदानत्वम् ॥ ४४ ॥
एको नव द्वौ दश पञ्च सप्तेत्यजीगणन्नात्ममुखं प्रसार्य ।
महेशकण्ठोरगदन्तपङ्क्तिं तदङ्कगः शैशवमौग्ध्यमैशिः ॥४५॥
एक इति ॥ तस्य पितुरङ्कग उत्सङ्गगत ऐशिः, ईशस्यापत्यमित्यर्थः । 'अत इञ्' (पा. ४।१।९५) इत्यपत्यार्थ इञ् । आत्ममुखं प्रसार्य महेशस्य ये कण्ठोरगाः कण्ठगताः सर्पास्तेषां दन्तपङ्क्तिम् । एको नव द्वौ दश पञ्च सप्तेस्यजीगणत् संख्यातवान् । यतः शैशवमौग्ध्यं बालत्वनिमित्तमूढतां दधानः । अजीगणदिति गणयतेर्लुङ् । 'ई च गणः' (पा. ७।४।९७ ) इत्यभ्यासाकारस्येकारः ॥ ४५ ॥
पाठा०-१ गेहाङ्गण. २ केसरिणः सटाली:. ३ मञ्जु. ४ तदङ्गगः, ५ नुन्नमीतिः; मुग्धमैशिः. कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
दन्तानुपातुं रभसी बभूव मुक्ताफलभ्रान्तिकरः कुमारः॥४६॥
कपर्दीति ॥ कुमारः कार्तिकेयः कपर्दिकण्ठान्ते शिवकण्ठमध्ये स्थितस्य कपालदाम्नो नृकरोटीस्रज आननकोटरेषु वदनकूपेषु । 'कोटरो नागरे कूपे पुष्करिण्युच्चधाटके' इति मेदिनी । अङ्गुलिं प्रवेश्य दन्तानुपात्तुं ग्रहीतुं रभसी रभसो वेगोऽस्यास्तीति तथोक्ताः । 'रभसो वेगहर्षयोः' इति मेदिनी । बभूव, एतान्वेगेन गृह्णामीत्यैच्छदित्यर्थः। यतो मुक्ताफलभ्रान्तिकरो मौक्तिकभ्रमकारी॥४६॥
शंभोः शिरोऽन्तःसरितस्तरंगान्विगाह्य गाढं शिशिरान्रसेन ।
२स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ॥४७॥
शंभोरिति ॥ स कुमारः । शिशिराञ्छीतलाञ्छंभोः संबन्धिनः शिरसोऽन्तमध्ये स्थितायाः सरितो गङ्गायास्तरंगान् रसेन स्वादेन । स्वादोऽत्र त्वगिन्द्रियग्राह्यत्वेन विवक्षितः । 'रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तक्रादौ द्रव्यरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्' इति मेदिनी । गाढं दृढम् । 'गाढबाढदृढानि च' इत्यमरः । विगाह्यावगाह्य । अत एव जातजाड्यं जातशीतकृतजडत्वं निजपाणिपद्मं स्वीयकरकमलं भाले यद्विलोचनं तत्र योऽग्निस्तत्रातापयत् । अन्योऽपि शीतजडं हस्तमग्नौ तापयति तद्वदिति भावः ॥ ४७ ॥
किंचित्कलं ३भङ्गुरकंधरस्य नमज्जटाजूटधरस्य शंभोः ।
प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ।। ४८॥
किंचिदिति ॥ किंचिद्भङ्गुरा पतनशीला । 'भञ्जभासमिदो घुरच् ( पा. ३।२१।१६१ ) इति घुरच्, 'चजो:-' (पा. ७।३।५२ ) इति कुत्वम् । कंधरा ग्रीवा यस्य। बालत्वात् स कुमारो नमज्जटाजूटस्य धरस्तस्य शंभोर्हरस्य प्रलम्बमानमाश्रयमाणं कलं मधुरं मुकुटेन्दुखण्डं मुकुटचन्द्रशकलम् । 'भित्तं शकलखण्डे वा' इत्यमरः । कौतुकेनानन्देन चिरं बहुकालं चुचुम्बे, पस्पर्शेत्यर्थः ॥ ४८ ॥
इत्थं शिशोः शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ।
५मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥४९॥
पाठा०-१करान् ; धरः. २ संजातजाड्यः. ३ भङ्गुरकण्ठरम्य. ४ कैतव. ५ मुदा. इत्थमिति ॥ गिरिजागिरीशौ मनोभिरामैर्मनोरमैरित्थमेवंभूतैः शिशोः कुमारस्य शैशवस्य बालस्य याः केलयस्तासां वृत्तैश्चरित्रैः । 'वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले' इत्यमरः । मनसो विनोदस्तत्र य एको रसः प्रीतिस्तत्र प्रसक्तावासक्तौ सन्तौ कदाचिदपि दिवानिशमहर्निशं नाविदतां नावबुध्येताम् , अगाधपुत्रोत्सवार्णवमग्नत्वादिति भावः ॥ ४५ ॥
इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
ललितललितं सान्द्रानन्दं मनोहरमाचरन् ।
अलभत परां बुद्धिं षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद विभुर्यया ॥ ५० ॥
इतीति ॥ इत्येवंभूतं बहुविधं नानाप्रकारकं ललितललितं ललितप्रकारमतिसुन्दरम् । सान्द्र आनन्दो येन । मनोहरं बालक्रीडाया विचित्रं विचेष्टितं चेष्टाम् ,चरित्रमिति यावत् । आचरन्विदधद्विभुः स कुमारः षष्ठे दिने परामुत्कृष्टां बुद्धिं धिषणां नवयौवनं तारुण्यं चालभत प्राप । यया बुध्या सकलं समस्तं शस्त्रम् , सकलानि शस्त्राणीत्यर्थः । शास्त्रम् , शास्त्राणीत्यर्थः । उभयत्रापि जातावेकवचनम् । विवेद ज्ञातवान् । किलेति प्रसिद्धौ । प्राचीनसत्संस्काराणां किमिवाशक्यमिति भावः । हरिणीच्छन्दः; 'रसयुगहयैन्सॉ म्रॉ स्लौ गो यदा हरिणी तदा' इति लक्षणात् ॥ ५० ॥
इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये कुमारोत्पत्तिर्नामैकादशः सर्गः ॥
- पाठा०-१ वृद्धिम्. २ विभोरपि.