किराताष्टकम्
प्रत्यर्थि व्रातवक्षःस्थलरुधिरसुरा-
पानमत्तम्पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे
मामके तापहन्ता ।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो
सावधानः सदा नः ॥ १ ॥
आखेटाय वनेचरस्य गिरिजा-
सक्तस्य शम्भोःसुतः
त्रातुं यो भुवनं पुरा समजनि
ख्यातः किराताकृतिः ।
कोदण्डः छुरिकाधरो घनरुचिः
पिञ्छावतंसोज्वलः
स त्वं मामव सर्वदा रिपुगण
त्रस्तं दयावारिधे ॥ २ ॥
यो मां पीडयति प्रसह्य सततं
देही त्वदेकाश्रयं
भित्वा तस्य रिपोरुरः छुरिकया
शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोलसितया
श्रीमन् किराताकृते
तत्प्राणान् वितरान्तकाय भगवन्
कालारिपुत्राञ्जसा ॥ ३ ॥
विद्धो मर्ममसु दुर्वचोभिरसतां
सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां
खिन्नोऽस्मि यावद् भृशं
तावत् त्वं छुरिकाशरासनधरः
चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय
प्रत्यर्थिवर्गं क्षणात् ॥ ४ ॥
हर्तुं वित्तधर्मतो मम रताः-
छोराश्च ये दुर्जनाः
तेषां मर्मसु ताडयाशु विशिखै-
स्त्वत्कार्मुकान्निःसृतैः ।
शास्तारं द्विषतां किरातवपुषं
सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं
नान्यं प्रपन्नोऽस्म्यहम् ॥ ५ ॥
यक्षप्रेतपिशाचभूतनिवहाः
दुःखप्रदा भीषणाः
बाधान्ते नरशोणितोत्सुकधियो
ये तां रिपुप्रेरिताः ।
चापज्यानिनदैस्त्वमीश सकलान्
संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किरा-
ताकार संरक्ष माम् ॥ ६ ॥
द्रोग्धुं ये निरतास्त्वदीयपदप-
द्मैकान्तभक्ताय मे
मायाःछन्नकळेबराश्च विषदा
नाद्यैःसुदा कर्मभिः ।
वश्यस्तम्भनमारणादि कुशल-
प्रारम्भ दक्षानरीन्
दुष्टान्संहर देवदेव शबरा-
कार त्रिलोकेश्वर ॥ ७ ॥
तन्वा वा मनसा गिराऽपि सततं
दोषां चिकीर्षन्त्यलं
त्वत्पादप्रणतस्य मे निरपरा-
धस्यापि ये मानवाः ।
सर्वान् सहेर तान् गिरीशसुत मे
तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं
नाथं प्रपन्नोऽस्म्यहम् ॥ ८ ॥
कृष्टो राजभटैः सदाऽपि परिभूतोअं
खलैर्वैरिभि-
श्चान्यर्घोरतरैर्वि पज्जलनिधौ
मग्नोऽस्मि दुःखातुरः
हा हा किं करवै विभो शबरवेषं
त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपां
नाथार्थ बन्धो मयि ॥ ९ ॥
स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्-
नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपती-
नाबद्धवैरानपि ।
संहृत्यात्म विरोधिनः खलजनान्
दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो-
दिव्यां गतिं शाश्वतीम् ॥ १० ॥
इति किराताष्टकं सम्पूर्णम् ॥