किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)/द्वितीयः सर्गः
← प्रथमः सर्गः | किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्) द्वितीयः सर्गः भारविः |
तृतीयः सर्गः → |
द्वितीयः सर्गः
विहितां प्रियया मनःप्रियामथ निश्चित्य गिरं गरीयसीम् । |
विहितामिति ॥ अथ वृकोदरो भीमः प्रियया द्रौपद्या । प्रियाग्रहणमस्या हितोप- देशतात्पर्यसूचनार्थम् । विहिताम् । अभिहितामित्यर्थः । विपूर्वस्य दधातेः क्रियांसा- मान्यवाचिनो योग्यविशेषपर्यवसानात् । मनःप्रियामभिमतार्थयोगान्मनोहराम् । विशेषणद्वयेनापि गिरो ग्राह्यत्वमुक्तम् । गिरं गरीयसीं सारवत्तरां निश्चित्यं नृपं धर्मराजमुपपत्तिमद्युक्तियुक्तमूर्जिताश्रयमुदारार्थं वचनमूच उक्तवान् । कर्तरि लिट् । ब्रुवो वचिरादेशः । ‘ब्रुविशासि-' इत्यादिना द्विकर्मकत्वम् । ‘अकथितं च' इति नृपस्य कर्मत्वम् ॥
किं तद्वचनं तदाह--
यद[१]वोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा । |
यदिति ॥ मानिनी क्षत्रियकुलाभिमानवती द्रौपदी स्नेहमयेन स्नेहप्रचुरेण । तत्प्रकृतवचने मयट्' । चक्षुषा ज्ञानचक्षुषा । एतेनाप्तत्वमुक्तम् । परितो वीक्ष्य समन्ततो विविच्य यद्वचनमवोचत । ब्रुवोर्वक्तेर्वा लुङ् । 'वच उम्' इत्युमागमः । वागाधिपस्य बृहस्पतेरपि दुर्वचं वक्तुमशक्यम् । शेषे षष्ठीयम्, न कुद्योगलक्षणा । अतो 'न लोक-' इत्यादिना षष्ठीप्रतिषेधो नास्ति । तद्वचतं विस्मयं विदधीत । सर्व- स्यापति शेषः । अथवा वागधिपस्यापि विस्मयं विदधीतेति संबन्धः । दुर्वचम् । केनापति शेषः । यतः स्रैणमपि शास्त्रमनुरुणद्धि हितं चानुबध्नाति । अतो विस्मयकरं ग्राह्यं चैतद्वचनमिति तात्पर्यार्थः ।।
विस्मयकरत्वे हेतुमाह-
विषमोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । |
विषमम् इति ॥ विषमोऽपि दुर्बोधोऽपि । अन्यत्र दुःप्रवेशोऽपि । नयो नीतिशा- स्त्रम् । पयसामाशयो ह्रद इत्र । कृततीर्थः कृताभ्यासाद्युपायः सन् । ‘तीर्थं शास्त्रा- ध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वः ॥ अन्यत्र कृतजलावतारः सन् । 'तीर्थं योनौ जलावतारे च' इति हलायुधः । विगाह्यते गृह्यते प्रविश्यते च । किंतु तत्र
नये जलाशये च स तादृशः पुरुषो विशेषदुर्लभोऽत्यन्तदुर्लभो यः कृत्यं संधिविग्रहादि
कार्यं स्नानादिकं च तस्य वर्त्म सत्साधु देशकालाद्यविरुद्धम् । यथा तथा । अन्यत्र गर्तग्राहपाषाणादिरहितम् । यथा तथोपन्यस्यत्युदाहरति । उपन्यासस्तु, वाङ्मुखम्। उपाद्धाते उदाहारः' इत्यमरः । यथा केनचित्कृततीर्थे पयसि गम्भीरेऽपि प्रवेष्टार: सन्ति। तीर्थकरस्तु विरलः । तद्वन्नीतावपि गूढमपि तत्त्वं वक्तरि सति बोद्धारः सन्ति। वक्ता तु न सुलभः । अत इयमपठितापि साधु वक्तीति युज्यते विस्मय इत्यर्थः ।।
अथ ग्राह्यत्वे हेतुमाह---
परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसाम् । |
परिणामेति ॥ परिणामः फलकालः परिपाकावस्था च । तत्र सुखे हिते। ‘शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च'इति सुखशब्दस्य विशेष्यलिङ्गत्वम्। गरीयसि भूयिष्ठे श्रेष्ठे च ।क्षतौजसामुभयत्रापि क्षीणशक्तीनां व्यथके युद्धोपोद्बलकत्वाद्भयंकरे । अन्यत्रादौ संशयादिदुःखजनके। अल्पीयस्यल्पाक्षरेऽल्पमात्रे च । उक्तं च-‘स्वल्पा च मात्रा बहुलो गुणश्चः' इति । अस्मिन्वचसि द्रौपदीवाक्ये । अतिवीर्यवत्यस्यन्तसामर्थ्यवति भेषज औषध इव।'भैषजौषधधैषज्यम्' इत्यमरः । बहुरनेको गुणो मानत्राणराज्य- लाभादिरारोग्यबलपोषादिश्च दृश्यते । अतो ग्राह्यमस्या वचनमिति भावः ॥
सत्यमेवं तथापि मह्यं न रोचते । किं करोमीत्याह----
इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती । |
इयामिति ॥ रुचिरार्था महितार्थसंपन्नोति रुचिहेतूक्तिः । इयं भारती द्रौपदीवाक्य- मिष्टगुणाय । गुणग्राहिण इत्यर्थः । भवते तुभ्यमपि । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वाच्चतुर्थी । रोचतां स्वदताम् । विध्यर्थे लोट् । हितवचने बलादपीच्छां कुर्या- दौषधवदिति भावः । तथापि स्रैणे वचसि का श्रद्धा तत्राह--नन्विति । गुणानां गृह्या गुणगृह्याः । गुणपक्षपातिन इत्यर्थः । 'पदास्वैरिबाह्यापक्ष्येषु च' इति ग्रहेः क्यप् । विपश्चितो विद्वांसः ।‘विद्वान्विपश्चिद्दोषज्ञः' इत्यमरः । वचने विषये वक्तृविशेषे स्त्री- पुंसादिलक्षणे निःस्पृहा ननु निरास्थाः खलु। 'बालादपि सुभाषितं ग्राह्यम्' इति न्यायादिति भावः ॥
संप्रति स्वयमुपालभते
चतसृष्वर्पिते विवेकिनी नृप विद्यासु निरूढिमागता । |
वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चैताश्चतस्रस्तु लोकसंस्थितिहेतवः ॥' इति कामन्दक: निरूढिमागता प्रसिद्धिं गता। अतएव विवेकिनी सदसद्विवेकवती । यथाह मनुः--‘आन्वीक्षिक्यां तु विज्ञानं धर्माधर्मौ त्रयीस्थितौ । अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ ॥ इति । ते मतिः कथं करिणी पङ्कमिव विपर्ययं वैपरीत्यमविवेक- रूपमेत्यावसीदति नश्यति । तन्न युक्तमिति भावः ॥
किं नश्छिन्नमिदानीं येनेत्थमुपालभ्येमहीत्यत्राह---
विधुरं किमतःपरं परैरवगीतां गमिते दशामिमाम् । |
विधुरमिति ॥ त्वयि परैः शत्रुभिरिमामीदृशीमवगीतां गर्हिताम् । 'अवगीतं तु निर्वादे मुहुर्दृष्टे च गर्हिते' इति विश्वः । दशां गमिते प्रापिते सति । सुरैरपि संभावि- तवृत्ति बहुकृतप्रसारम् । अथवा निश्चितसद्भावम् । पौरुषं पुरुषकारः । युवादित्वा- दण्प्रत्ययः । अवसीदति नश्यतीति यत् । अतःपरं अतोऽन्यदधिकं किं विधुरं किं कष्टम् । न किंचिदित्यर्थः । 'विधुरं प्रत्यवाये स्यात्कष्टविश्लेषयोरपि' इति वैजयन्ती । अस्तीति शेषः। 'अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्ति' इति भाष्यकारः। भवन्तीति लटः पूर्वाचार्याणां संज्ञा । यद्वा पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता । तदुपरि महत्कष्टं तच्च त्वदुपेक्षयेत्युपालभ्यस इत्यर्थः ॥
अथापेक्षाकालत्वादियमुपेक्षेत्याशङ्क्य नायमुपेक्षाकाल इति वक्तुं तदेव तावच्छ्लोक- द्वयेन विविनक्ति----
द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः । |
द्विषतामिति ॥ भूतिमुदयभिच्छता । शोभना मेधा यस्य तेन सुमेधसा सुधिया । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । गुरुर्महानप्यस्वन्ततरोऽत्यन्तदुरन्तः । क्षयोन्मुखं इत्यर्थः । द्विषतामुदयो वृद्धिः । सुखेन मृष्यत इति सुमर्षणः सुसहः । उपेक्ष्य इत्यर्थः । स्वन्तश्चेद्दुर्मर्षण इति भावः । ‘भाषायां शासि-'इत्यादिना खलर्थे युच्प्रत्ययः । महानपि फलसंपत्प्रवणः फलसंपदुन्मुखः। ‘प्रनिरन्तर---' इत्यादिना णत्वम् । परिक्षयो न सुमर्षणः । नोपेक्ष्य इत्यर्थः । अन्यथा तूपेक्ष्य इति भावः । नह्युदय एव प्रतीकार्यो न च क्षय इत्येवोपेक्ष्यः। किंतु स्वत्तत्वास्वन्तत्वाभ्यामुभा- वपि प्रतीकार्यावुपेक्ष्यौ च भवत इत्यर्थः । ,
अथोभयोरपि मध्य एकतरस्योदयक्षययोर्गतिमुक्त्वेदानीं युगपत्परिक्षयागमे गतिमाह-
अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । |
परस्य शत्रोः क्षययुक्तिं क्षययोगमचिरेणाशुभाविनीं भूयसीम् दुरन्तां च, तथात्मनः क्षययुक्तिं विपरीतां चिरभाविनीमल्पीयसीं च विगणय्य विचार्य । 'ल्यपि लघुपूर्वात्' इत्ययादेशः । उपेक्षते । अन्यथोक्तवैपरीत्ये । परस्य क्षययुक्तावल्पीयस्याम्, स्वस्य भूयस्यां च सत्यामित्यर्थः । तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतिकारमचिरेणाशु कुरुते । एवं सति यदा शत्रेरभ्युदयः स्वस्य चातिपरिक्षयो यथास्माकं तदा किं वक्तव्यम् । सद्यः । प्रतिकुरुत इत्यर्थात्सिद्धमनुसंधेयम् ॥
तथाप्युपेक्षायामनिष्टमाचष्टे--
अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया। |
अनुपालयतामिति ॥ उदेष्यतीं वर्धिष्यमाणाम् । 'आच्छीनद्योर्नुम्' इति विक- ल्पान्नुमभावः । द्विषतां प्रभुशक्तिं कोशदण्डजं तेजः । ‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः । अनीहयानुत्साहेनानुपालयतामुपेक्षमाणानां महीभुजां श्रियः संपदो जननिर्वादभयान्निकृष्टपुरुषानुरागोत्थलोकापवादभयादिवेति हेतृत्प्रेक्षा। अचिरादपयान्त्यपसरन्ति । यथा कामन्दकः--'स्त्रीभिः षण्ढ़ इव श्रीभिरलसः परिभूयते' इति । अतः पराक्रमितव्यमित्यर्थः ॥
ननु परिक्षीणः कथं प्रबलेनाभियुज्यत इयत्राह---
क्षययुक्तमपि स्वभावजं दधतं धाम शिवं स[२]मृद्धये । |
क्षयेति ॥ क्षययुक्तमप्ति तथा क्षीणमपि सन्तं स्वभावजं सहजं शिवं सर्वलोकाह्लादकं धाम क्षात्रं तेजः प्रकाशं च दधतं समृद्धये वृद्ध्यर्थमुत्थितमुद्युक्तम्। वर्धिष्णुमित्यर्थः । नृपं प्रजाः । प्रतिपच्चन्द्रं द्वितीयाचन्द्रमिवेत्यर्थः । प्रतिपच्छब्देन द्विती- याग्रहणम् । प्रतिपदि तस्यादृश्यत्वादिति । प्रणमान्ति । प्रह्वीभावेन वर्तन्त इति भावः । चन्द्रं तु नमस्कुर्वन्ति । क्षीणस्याप्युत्साहः कार्यसिद्धेर्निदानमित्यर्थः । ‘जयं हि सत- तोत्साही दुर्बलोऽपि समश्रुते' इति कामन्दकः ॥
ननु प्रभुशक्तिशून्यस्योत्साहः कुत्रोपयुज्यत इत्यत्राह----
प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । |
प्रभवइति । कर्मणामाराम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकार; कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दकः-'सहायाः साधनोपाया विभागो दे-
शकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति पञ्चानामङ्गानां विनिर्णयः
पञ्चाङ्गविनिर्णयः । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । कृतः पञ्चाङ्गविनिर्णयो- यस्य येन वा, स तथोक्तः । नयो नीतिः । मन्त्र इति यावत्। कोशोऽर्थराशिः । 'कोशोऽस्त्री कुङ्मले खड्गपिधानेऽर्थौधदिव्ययोः'इत्यमरः । दण्डश्चतुरङ्गसैन्यम् ।'दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे यमे। यात्राज्ञायां सैन्यभेदे' इति वैजयन्ती । तयोः कोशदण्डयोः । प्रभुशक्तेरित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् ।‘ऋदोरपू'।स नयो विधेयपदेषु कार्यवस्तुषु ।‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः। दक्षतां क्षिप्रकारित्वम् । उत्साहमित्यर्थः । लोकः कृष्यादिप्रवृत्तो जनः ।नियतिं दैवमिव । 'नियतिर्नियमे दैवे' इति विश्वः । अनुरुध्यतेऽनुसरति । रुधेर्दैवादिकात्कर्तरि लट् । मन्त्रस्यापि मूलमुत्साहस्तन्मूलायाः प्रभुशक्तेर्मूलमिति किमु वक्तव्यम् । अतः स एवाश्रयणीयः । यतो नक्तंदिवं मन्त्रयतस्तस्यापि प्रभोर्निरुत्साहस्य न किंचित् सिद्ध्यतीति ।।
ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्यत्राहः--
अभिमानवतो मनस्विनः प्रियमुञ्चैःपदमारुरुक्षतः । |
अभिमानवत इति ॥ अभिमानवतो मानधनस्य प्रियमिष्टमुञ्चैरुन्नतं पदं स्थानं राज्यादिकमारुरुक्षत आरोढुमिच्छतः प्राप्तुकामस्य मनस्विनो धीरस्यात्मपौरुषं स्वपुरुषकार एव विनिपातनिवर्तनक्षममनर्थप्रतीकारसमर्थमालम्बनं सहकारि मतमिष्टम्। यथा कस्यचित्तुङ्गमारोहतः किंचित्पतनप्रतिबन्धकमनुचरहस्तादिकमालम्बनं तद्वदिति ध्वनिः । किं पौरुषादन्यैः सहायैः शूराणामिति भावः ॥
पौरुषानङ्गीकारे दोषमाह---
विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । |
विपद इति ॥ अविक्रमं पौरुषहीनं विपदोऽभिभवन्त्याक्रामन्ति । आपदुपेतं विपन्नमायतिरुत्तरकालः । 'उत्तरः काल आयतिः' इत्यमरः।रहयति त्यजति।निरायतेः। आसन्नक्षयस्येत्यर्थः । लघुतागौरवं नियतवश्यंभाविनी । न कश्चिदेनमाद्रियत इत्यर्थः। अगरीयांल्लघीन्नृपश्रियो राजलक्ष्म्या पदमास्पदं न भवति । यद्वा नृपेति पदच्छेदः । तस्मात्पौरुषं कर्तव्यमेवेत्यर्थः । अत्र पूर्वपूर्वस्याविक्रमत्वादेरुत्तरोत्तरविपदादिकं प्रति कारणत्वात्कारणमालाख्योऽलंकारः ।तथा सूत्रम्-‘पूर्वपूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला' इति ॥
फलितमाह----
तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् । |
तदिति ॥ ततस्मात् । उपेक्षायां दोषसंभवादित्यर्थः । उन्नतेरभ्युदयस्य प्रतिपक्षम- न्तरायं व्यवसायवन्ध्यतामुद्योगशून्यतामवलम्ब्यालम् । अवलम्बनेनालमित्यर्थः।'अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः । तस्य ल्यबादेशः । तथाहि । पराक्रम आश्रयः कारणं यासां तास्तथोक्ताः समृद्धयः संपदो विषादेन सममनुत्साहेन सह न निवसन्ति । पौरुषसाध्याः संपदो नानुत्साहसाध्याः । उभयोः सहावस्थानवि- रोधादित्यर्थः । वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः ।।
ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह-
अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृ[५] त्तिना । |
अथेति ॥ अथावधिः कालः प्रतीक्ष्यते चेत् ।'अवधिस्त्ववधाने स्यात्सन्नि काले विलेऽपि च' इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसंपदो राज्यसंपदः। नरेन्द्रेति वा पदच्छेदः। चिरं चतुर्दशवर्षाण्या- स्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥
अथवा तदा दैववशात्स्वयमेव संपदो दास्यति चेत्तथापि तत्कथं रोचयेमहीत्याह---
द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् । |
द्विषतेति ॥ अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लुट् । हे जननाथ, तवानुजन्मनामनुजानामाविष्कृत पौरुषैः प्रकटितपराक्रमैर्भुजैः कृतमलम् । अस्मद्भुजैर्न किंचित्साध्यमित्यर्थः । राज्य- दानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजितन्यम्' इति शास्त्रात्क्षात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते 'कृतमिति निवारणनिषेधयोः' इति गणव्याख्याने । भुजैरिति गम्यमानसाधनक्रिया- पेक्षया करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-‘न केवलं श्रूयमाणैव क्रिया निमित्तं कारकमावस्यापि तु गम्यमानापि' इति ॥
ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुः-'साम्ना दानेन भेदेन समस्तैर-
थवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥' इति।तत्किमाग्रहेणेत्याशङ्क्याह---
मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः । |
मदेति ॥ मृगाधिपः सिंहो मदसिक्तमुखै:। मदवर्षिभिरित्यर्थः ।स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । तैरेव जीवतीत्यर्थः । चौरादिकाद्वृत्तेर्लट् । भौवादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति।तथाहि। तेजसा प्रभावेण। 'तेज़ो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि' इति वैजयन्ती । जराल्लघयंल्लघूकु- र्वन्महांस्तेजस्व्यन्यतोऽस्मात्पुरुषाद्भूतिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्त- वृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्ष्यमाणसामान्यसम- र्थनरूपोऽर्थान्तरन्यासः ।।
ननु युद्धात्पाक्षिको लाभः, उपायान्तरैस्तु न तथेत्याशंक्याह-
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः । |
अभिमानेति । अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य। अतएवगत्वरैर्गमनशीलैर- स्थिरैः। 'गत्वरंश्च' इति क्वरबन्तो निपातः । असुभिः प्राणैः करणैः। 'पुंसि भूस्यसवः प्राणाः' इत्यमरः । स्थास्नु स्थिरम् । 'ग्लाजिस्थश्च ग्स्नु' इति ग्स्नुप्रत्ययः । यशश्चिची- षतश्चेतुं संग्रहीतुमिच्छतः । चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः सा- चिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वञ्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गा- दागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एवं मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाघ्यमित्यर्थः । अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकारा- भिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्यलंकारः । तदुक्तं काव्यप्रकाशे--- ‘परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ।
नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशंक्याह।
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः। |
ज्वलितमिति ॥ जनो भस्मनां चयं पुञ्जमास्कन्दति पादादिनाक्रमति । अदाहकत्वा- दिति भाग: । ज्वलितं ज्वलन्तम् । कर्तरि क्तः। 'मतिबुद्धि--' इत्यादिन्सूत्रे चकाराद्वर्त- मानार्थत्वम् । हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति । दाहकत्वादिति
फलितमाह---
तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायवन्ध्यताम् । |
तदिति ॥ तत्तस्मात् । उपेक्षायां दोषसंभवादित्यर्थः । उन्नतेरभ्युदयस्य प्रतिपक्षमन्तरायं व्यवसायवन्ध्यतामुद्योगशून्यतामवलम्च्यालम् । अवलम्बनेनालमित्यर्थः ।'अलंखल्वो: प्रतिषेधयोः प्राचां क्त्वा' इति क्त्वाप्रत्ययः। तस्य ल्यवादेशः । तथाहि । पराक्रम आश्नयः कारणं यासां तास्तथोक्ताः समृद्धयः संपदो विषादेन सममनुत्साहन सह न निवसन्ति । पौरुषसाध्याः संपदो नानुत्साहसाध्याः। उभयोः सहावस्थानवि- रोधादित्यर्थः । वैधर्म्येण कार्यकारणरूपोऽर्थान्तरन्यासः ॥
ननु समयः प्रतीक्ष्यते, किं वेगेनेत्यत्राह-
अथ चेदवधिः प्रतीक्ष्यते कथमाविष्कृतजिह्मवृ[७] त्तिना । |
अथेति ॥ अथावधिः कालः प्रतीक्ष्यते चेत् ।'अवधिस्त्वषधाने स्यात्सीन्नि काले विलेऽपि च' इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्योधनेन नरेन्द्रसंपदो राज्यसंपदः । नरेन्द्रेति वा पदच्छेदः। चिरं चतुर्दशवर्षाण्या- स्वाद्यानुभूय कथं सुत्यजाः । ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्ष्यन्त एवेत्यवधिप्रतीक्षणं व्यर्थमित्यर्थः ॥
अथवा तदा दैववशात्स्वयमेव संपदो दास्यति चेत्तथापि तत्कथं रोचयेमहीत्याह-
द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदम् । |
द्विषतेति ॥ अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लट् । हे जननाथ, तवानुजन्मनामनुजानामाविष्कृत- पौरुषैः प्रकटितपराक्रमैर्भुजैः कृतमलम् । अस्सद्भुजैर्न किंचित्साध्यमित्यर्थः । राज्य- दानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । 'क्षत्रियस्य विजितव्यम्' इति शास्त्रात्क्षात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते 'कृतमिति निवारणनिषेधयोः'इति गणव्याख्याने । भुजैरिति गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-'न केवलं श्रूयमाणैव क्रिया निमित्तं कारकमावस्यापि तु गम्यमानापि' इति ॥
ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुः- 'साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ।।' इति।तत्किमाग्रहेणेत्याशङ्क्याह-
मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयते स्वयं हतैः । |
मदेति ॥ मृगाधिपः सिंहो मदसिक्तमुखैः । मदवर्षिभिरित्यर्थः । स्वयं स्वेनैव हतैः करिभिर्वर्तयते वृत्तिं करोति । तैरेव जीवतीत्यर्थः । चौरादिकाद्वृत्तेर्लट् । भौवादिकस्य तु 'अणावकर्मकाच्चित्तवत्कर्तृकात्' इति परस्मैपदनियमादिति । तथाहि । तेजसा प्रभावेण। 'तेजो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि' इति वैजयन्ती । जगल्लघयँल्लघूकुर्वन्महां- स्तेजस्व्यन्यतोऽस्मात्पुरुषाद्भूतिं वृद्धिं नेच्छति खलु । नहि तेजस्विनः परायत्तवृत्तित्वं युक्तम् । मनुवचनं त्वशूरविषयमिति भावः । विशेषेण वक्ष्यमाणसामान्यसमर्थन- रूपोऽर्थान्तरन्यासः॥
ननु युद्धात्पाक्षिको लाभः, उपायान्तरैस्तु न तथेत्याशङ्क्याह-
अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः । |
अभिमानेति ॥ अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य । अतएवगत्वरैर्गमनशीलैरस्थिरैः। 'गत्वरश्च' इति क्वरवन्तो निपातः । असुभिः प्राणैः करणैः । 'पुंसि भूस्यसवः प्राणाः' इत्यमरः । स्थास्नु स्थिरम् ।'ग्लाजिस्थश्च ग्स्नु:' इति ग्स्नुप्रत्ययः । यशश्चिचीपतश्चेतुं संग्रहीतुमिच्छतः। चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः साचिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वच्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गा- दागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एव मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाध्यमित्यर्थः। अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकारा- भिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्त्यलंकारः । तदुक्तं काव्यप्रकाशे- 'परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः' इति ॥
नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः 'जीवन्नरो भद्रशतानि पश्येत्' इत्याशङ्कयाह-
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मनां जनः । |
ज्वलितमिति । जनो भस्मनां चयं पुञ्जमास्कन्दति पादादिनाक्रमति । अदाहकत्वादिति भावः । ज्वलितं ज्वलन्तम् । कर्तरि क्तः। 'मतिबुद्धि-' इत्यादिसूत्रे चकाराद्वर्त- मानार्थत्वम् । हिरण्यं रेतो यस्य तं हिरण्यरेतसमग्निं नास्कन्दति । दाहकत्वादिति
भावः । अतो हेतोर्मानिनोऽभिभूतिभयात्प्राणलाभेन तेजस्त्यागे परिभवो भविष्यतीति
भयादसूनेव सुखमक्लिष्टमुज्झन्ति त्यजन्ति । धाम तेजस्तु नोज्झन्ति। मानहानिकराज्जी- वनात्स्वतेजसा मरणमेव वरमित्यर्थः । पूर्वतरश्लोकवदर्थान्तरन्यासः ।
अथवा किमत्र प्रयोजनचिन्तया। किंतु तेजस्विनामयं स्वभाव एव याज्जिगीषुत्वमि त्याशयेनाह--
किम[९] पेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः । |
किमिति ॥ मृगाधिपः सिंहः किं फलं प्रयोजनमपेक्ष्य ध्वनतो गर्जतः । धरन्तीति धराः । पचाद्यच् । पयसां धरास्तान्पयोधरान्मेघान्प्रार्थयतेऽभियाति।‘याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः । यद्वावरुणद्धीत्यर्थः । प्रा अर्थयते। ‘प्रा स्याद्याच्ञावरोधयोः' इत्यभिधानात्प्रा अवरोधेन।प्रा इति तृतीयान्तम्।आकारान्तस्य प्राशब्दस्य योगविभागात् 'आतो धातोः' इत्यालोपः। तथाहि । महीयसो महत्तरस्य सा प्रकृतिः खलु यया प्रकृत्यान्यसमुन्नतिं परवृद्धिं न सहते। महतः परभञ्जन- मेव पुरुषार्थ इत्यर्थः । पूर्ववदलंकारः ॥
निगमयति----उक्तार्थोपसंहरणं निगम उच्यते ।।
कुरु तन्मतिमेव विक्रमे नृप निर्धूय तमः प्रमादजम् । |
कुरु तदिति ॥ हे नृप, तत्तस्मादुक्तरीत्या पराक्रमोत्साहयोर्हेतुत्वाद्धेतीः।'यत्तद्यतस्ततो हेतौ' इत्यमरः । प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुष एवं मतिं कुरु । विक्रममेवाङ्गीकुरु, न तूपायान्तरमित्यर्थः । न च विक्रमवैफल्यशङ्का कार्येत्याह-- ध्रुवमिति । विद्विषां विपत्तयस्त्वदनुत्साहहतास्तवानुत्साहेनाव्यवसायेन हृताः प्रतिबद्धाः। अन्यथा प्रागेव विपद्येरन्निति भावः । इत्येतद्ध्रुवं निश्चितमवेहि विद्धि । 'ध्रुवं नित्ये निश्चिते च' इति शाश्वतः ।। न च नः पराजयशङ्का कार्येत्याह----
द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायन्तः । |
द्विरदानिति ॥ दिग्वैिभावितान्दिक्षु प्रसिद्धांस्तानायत आगच्छतः ।आङ्पूर्वादि- ण्धातोः शतृप्रत्ययः । चतुरो द्विरदान्दिग्गजानिव, तथोक्तविशेषणांश्चतुरस्तोयनिधी- निव, रण आयतो दिग्विभाविंताञ्छतमन्युतेजस इन्द्रविक्रमांश्चतुरस्तवानुजान्द्विषतां मध्ये कः प्रसहेत सोढुं शक्नुयादित्यर्थः। 'शकि लिङ् च' इति शक्थार्थे लिङ् । अतो निःशङ्कं प्रवर्तस्वेति भावः ॥
आशीर्वादव्याजेन फलितमाह---
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि । |
ज्वलत इति ॥ तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः। शिवेतराशिवामङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसंततिर्वै- रिवनिताश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसंभवादवश्यं तद्वधस्त्वदा कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलंकारः । तदुक्तम्-'विषयस्यानुपादानाद्विषय्युपनिबध्यते। यत्र सातिशयोक्तिः स्यात्कवेः प्रोढोक्तिजीविता ॥' इति । तत्रापि क्रोधस्य जात- वेदसो भेदेऽप्यभेदाध्यवसायाद्भेदेऽभेदरूपा । ततः एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च यथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ।।
इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् । |
इतीति । इत्युक्तरीत्या दर्शिता विक्रिया विकारो वागारम्भात्मको येन तं कोपपरी- तमानसं कोपाक्रान्तचित्तम् । इदं विशेषणद्वयं द्विरदेऽपि योज्यम् । मरुतः सुतं भीमं महीपतिर्युधिष्ठिरो दुष्टं द्विरदमिव । एतेन भीमस्य शौर्यमेव, न बुद्धिरस्तीति गम्यते। उपसान्त्वयितुमनुनेतुमुपचक्रमे प्रवृतः । 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् । राज्ञा तावदुपकारविशेषापेक्षया कथंचिदवशो जनः शनैः शनैर्द्विरदवद्वशीकरणीयः, न तु त्याज्य इति भावः ॥
प्रथमं तावत्स्तुत्यादिभिः प्रसादयति--
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । |
अपवर्जितेति ॥ विप्लवः प्रमाणबाधः। अन्यत्र बाह्यमलसंक्रमः । सोऽपवर्जितो यस्य तस्मिन्नपवर्जितविप्लवे। शुचौ। सौशब्द्यं लोहशुद्धिश्च शुचित्वम् । तद्वतीत्यर्थः । अतएव हृदयग्राहिणि मनोरमै मङ्गलास्पदे । एकत्र हितार्थप्रतिपादकत्वादन्यत्र मङ्गलवस्तुत्वाच्च श्रेयस्करे। 'रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्यं प्रातः पश्येत्सदा बुधः॥' इति पुराणवचनात् । तव गिरां विस्तरे वाक्प्रपञ्चे । 'प्रथप्ने वावशब्दे' इति घञ्प्रतिषेधात् 'ऋदोरप्' इत्यप् । अतएव 'विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः' इत्यमरः । मतिस्त्वद्बुद्धिरादर्शे दर्पण इव।'दर्पणे मुकुरादर्शौ' इत्यमरः । विमला विशदाभिदृश्यते । वाग्वैशद्यादेव मतिवैशद्यमनुमीयते । तत्पूर्वकत्वात्तस्येत्यर्थः॥ अथ युग्मेनाह----
स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । |
स्फुटतेति । उपपत्तिरिति च ॥ पदैः सुप्तिङन्तशब्दैः स्फुटता विशदार्थता नापाकृता न त्यक्ता। अर्थगौरवमर्थभूयस्त्वं च न न स्वीकृतम्। स्वीकृतमेवेत्यर्थः । वैशद्यप्रसक्ता- र्थगौरवाभावनिवर्तनार्थं नञ्द्वयम् । ‘संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः। गिरां पदानामवान्तरवाक्यानां च पृथगर्थता भिन्नार्थता । अपुनरुक्तार्थतेति यावत् । रचिता कृता । तथा क्वचिदपि सामर्थ्यं गिरामन्योन्यसाकाङ्क्षत्वं नापोहितं न वर्जितम् । अन्यथा दृशदाडिमादिशब्दवदेकवाक्यता न स्यात् । यथाहु:---‘अर्थैकत्वादेकं वाक्यं सापेक्षा चेद्विभागे स्यात्' इति । नन्वर्थगौरवमित्यत्र कथं पष्ठीसमासः। 'पूरणगुण-' इत्यादिना प्रतिषेधात् । नैष दोषः । ये शुक्लादयः शब्दागुणे गुणिनि च वर्तन्ते । यथा पटस्य शौक्ल्य्म् शुक्ल: पट इति च तेषामेवात्र निषेधात् । ये पुनः स्वतो गुणमात्रवचना यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्येवमादयः। तेषामनिषेधात् । तथा 'तत्स्थैश्च गुणैः षष्ठी समस्यते' इति वचनाद्वहुलमभियुक्तप्रयोगदर्शनाच्च । बलाकायाः शौक्ल्यमित्यादौ तु भाष्यकारवचनादसमासः । अत एवाह वामनः--'पत्रपीतिमादिषु गुणवचनसमासो बालिश्यात्' इति ।।
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः । |
उपपत्तिरिति ॥ किंच बलाद्बलमाश्रित्य । कर्मणि ल्यब्लोपे पश्चमी वक्तव्या। उपपत्तिर्युक्तिरुदाहृता । पराक्रमपक्ष एव श्रेयानिति युक्तिरुक्तेत्यर्थः । उचितं चैतन्महावीरस्येति भावः । तथानुमानेन युक्त्यागमः शास्त्रं च न क्षतो न हतः। किंत्वागमाविरुद्धमेवोक्तम् । अन्यथा तद्विरोधादनुमानस्यैव प्रामाण्यभङ्गप्रसङ्गादिति भावः । ईदृगित्थं क्षात्रयुक्तमिदं वचनमविद्यमान ईदृगाशय इत्थं क्षात्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः।'अभिप्रायश्छन्द आशयः' इत्यमरः । कः प्रसभं हठाद्वक्तुमुपक्रमेत । न कोऽपीत्यर्थः । इत्थं वक्तुमुपक्रमितैव नास्ति । वक्ता तु दूरापास्त एवेति भावः । केचिदेतच्छ्लोकत्रयं निन्दा- परत्वेनापि योजयन्ति । तदसत् । हितोपदेशमात्रतत्परस्यतिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वानर्थमूलभूतनिन्दातात्पर्यकल्पनानौचित्यादिति ॥
यदि साधूक्तं तर्हि तथैव क्रियतामित्याशंक्याह----
अवितृप्ततया तथापि मे हृदयं निर्णयमेव धावति । |
अवितृप्ततयेति ॥ तथापि त्वया सम्यङ्निर्णीतेऽपि मे हृदयमवितृप्ततयासंतुष्टतया ।
अद्यापि संशयगतत्वेनेत्यर्थः । निर्णयमेव धावत्यनुसरति । अपेक्षत इति यावत् ।
अद्यापि निर्णयस्यानुदयादिति भावः । निर्णयानुदये हेतुमाह---अवेति । विधेयेषु संधिविग्रहादिकर्तव्यार्थेषु या विशेषसंपदोऽवान्तरभेदभूमानस्ताः सुखमक्लेशेनावसाययितुम् । पुरुषान्प्रत्यानुकूल्येन स्वस्वरूपं स्वयमेव शीघ्रं प्रत्याययितुमित्यर्थः। स्यतेर्ण्यन्तादणि कर्मकर्तृकात्तुमुन् । णेरनादिसुत्रस्यायं विषयः । क्षमन्त इति क्षमाः । पचाद्यच् । शक्ता न भवन्ति ।'क्षमं शक्ते हिते त्रिषु' इत्यमरः । विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्म्याद्बाहुल्याच्च दुर्ज्ञेयत्वादद्यापि निर्णयाकाङ्क्षेति तात्पर्यार्थः।अत्र निर्णयधावनं प्रत्युत्तरवाक्यार्थस्य हेतुत्वाभिधानाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । तदुक्तम्-‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ।
वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशंक्याह----
सहसा विधीत न क्रियामविवेकः परमापदां पदम् । |
सहसेति ॥ क्रियत इति क्रियां कार्यं सहसा। अविमृष्येत्यर्थः ‘सहसेत्याकस्मि- काविमर्षयोः' इति गणव्याख्याने स्वरादिपाठादव्ययम्। न विदधीत न कुर्वीत । कुतः । अविवेकोऽविमृष्यकारित्वं परमत्यन्तमापदां पदं स्थानम् । कारणमित्यर्थः । व्यतिरके- णोक्तमर्थमन्वयेनाह--वृणत इति । गुणलुब्धा गुणगृध्नव इति स्वयंवरहेतूक्तिः। संपदः श्रियः । विमृष्य करोतीति विसृष्यकारी। 'उपपदमतिङ्' इति समासः । तं स्वयमेव वृणते भजन्ते हि । 'वृङ् संभक्तौ इति धातुः । तस्माद्विमृष्यैव प्रवर्तितव्यमित्यर्थः । अत्र सहसा विधाननिषेधलब्धविमृष्यकारित्वरूपकारणस्यापद्रूपव्यतिरेककार्येण समर्थनाद्वैधर्म्येणार्थान्तरन्यासः । द्वितयार्धेन च स एव साधर्म्येणेति ज्ञेयम् ।
ननु साहसिकस्यापि फलासिद्धिर्दृश्थत एव । तत्किं विवेकेनेत्यत्राह--
अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा । |
अभीति ॥ यः पुमान् । विधीयन्त इति विधयः कृत्यवस्तूनि बीजानीवेत्युपमित- समासः । शरदं लोक इवेति वाक्यगतोपमानुसारात्। तानि विधिबीजानि। विवेको वारीव तेन विवेकवारिणा । पूर्ववत्समासः । अनुपालयन्प्रतीक्षमाणः संरक्षन्नमिवर्षति सिञ्चति । स पुमान् ।फलं साधननिष्पाद्योऽर्थः, सस्यं च ।'सस्ये हेतुकृते फलम्' इत्युभयत्राप्यमरः । तच्छालिनीं क्रियां कर्म लोको जनः । ‘लोकस्तु भुवने जने' इत्यमरः । शरदमिव सदा नित्यमधितिष्ठति । सदा क्रियाफलं प्राप्नोत्येव । न कदाचिद्व्यभिचरतीत्यर्थः । साहसिकस्य काकतालीयन्यायेन फलसिद्धिर्विवेकिनस्तु नियतेति भावः । अत्र फलशब्देन सस्यहेतुकृतयोरर्थयोरभेदाध्यवसायाच्छ्लेषमूलाति- शयोक्तिस्तदनुगृहीता चोपमेत्यनुसंधेयम् ॥
नियता विवेकिनः फलसिद्धिरित्युक्तम् । संप्रति तामेव रुच्यर्थं स्तौति----
शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया । |
शुचीति ॥ शुचि संप्रदायशुद्धं श्रुतं शास्त्रश्रवणं कर्तुं वपुर्भूषयति । अन्यथाविद्वा- न्पुरुषः शोच्य इति भावः। तस्य श्रुतस्य प्रशमः क्रोधोपशान्तिरलंक्रिया भूषणं भवति । अन्यथा श्रुतवैफल्यादिति भावः । पराक्रमः सत्यवसरे शौर्यं प्रशमस्याभरणं भवति । अन्यथा सर्वैः परिभूयत इति भावः । स पराक्रमः । नयापादिता नीतिसंपादिता । विवेकपूर्विकेति यावत् । सा चासौ सिद्धिश्च सैव भूषणं यस्य स तथोक्तः । अन्यथा साहसिकस्य सिद्धिः काकतालीयत्वेन पक्षे पराक्रमवैयर्थ्यं स्यादिति भावः । 'वपुषो भूष्य- तैवात्र सिद्धेर्भूषणतैव तु । उभयं मध्यमानां तु तेषां पूर्वोत्तरेच्छया ।।' इति विवेकः । एवंविशिष्टसिद्धेरनन्यभूषिताया एव भूषणत्वोक्त्या सर्वोत्तरतया स्तुतिर्गम्यते । अत्रो- त्तरोत्तरस्य पूर्वपूर्वविशेषणत्वादेकावल्यलंकारः । तदुक्तम्--‘यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव । भजति परं परमेषालंकृतिरेकावली कथिता ॥' इति ॥
विमृष्य कुर्यादिति स्थितम् । तत्र विमर्षोपायः क इत्युक्ते शास्त्रमेवेत्याह---
मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । |
भतीति ॥ मतिभेदः कार्यविप्रतिपत्तिः । मतभेदस्तम इवेत्युपमितसमासः । दीप इवेत्युपमानुसारात् । तेन तिरोहित आच्छन्नेऽतएव गहने दुरवगाहे कृत्यविधौ कार्यानुष्ठाने विवेकिनां सुकृतः सदभ्यस्तोऽतएव परिशुद्धो निश्चितोऽन्यत्र सुविहितः प्रवातादिदोष- रहितश्च आगमः शास्त्रम्। 'आगमः शास्त्र आयाते' इति विश्वः । दीप इवार्थदर्शनं कार्यज्ञानं वस्तुप्रतिभासनं च कुरुते ॥
एवं विमृष्य कुर्वतो दैवादनर्थागमोऽपि न कश्चिदपराध इत्याह---
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः। |
स्पृहणीयेति ॥ स्पृहणीयगुणैर्लोकश्लाघ्यगुणैर्महात्मभिः सज्जनैश्चरितेऽनुष्ठिते वर्त्म- न्याचारे मनो यच्छतां निदधताम् । सन्मार्गेण व्यवहरतामित्यर्थः। विधिहेतुर्दैवनिमित्तकः । 'विधिर्विधाने दैवे च' इत्यमरः । अतएवागसामपराधानामहेतुर्विनिपातो दैविकानर्थोऽपि। 'विनिपातोऽपाते स्याद्दैवादिव्यसनेऽपि च' इति विश्वः । समुन्नतेरति वृद्धेः समस्तुल्य: । दैविकेषु पुरुषस्यानुपालभ्यत्वादिति भावः । यथाह कामन्दकः-- 'यत्तुसम्यगुपक्रान्त' कार्यमेति विपर्ययम् । पुरुषस्त्वनुपालभ्योदैवान्तरितपौरुषः॥'इति।।
संप्रति यद्धिष्मृयं तदाह-
शिवमौपयिकं गरीयसीं फलनिष्पत्तिम[१४]दूषितायतीम् । |
शिवमिति ॥ जिगीषवो विजयेच्छवो नृपा विजितक्रोधरया जितक्रोधवेगाः सन्तो गरीयसीं प्रभूतामदूषितायतीमक्षतोत्तरकालाम् । स्वन्तामित्यर्थः । फलनिष्पत्तिं फलसिद्धिं विगणय्य । फलवत्त्वं निश्चित्येत्यर्थः । पौरुषं पुरुषकारं शिवमनुकूलमौ- पयिकमुपायम् । विनयादित्वात्स्वार्थे ठक् । उपायाद्ध्रस्वत्वं च । नयन्ति प्रापयन्ति । पौरुषमुपायेन योजयन्तीत्यर्थः । नानिश्चितफलं कर्म कुर्वत इति भावः । यथाह कामन्दकः--'निष्फलं क्लेशबहुलं संदिग्धफलमेव च । न कर्म कुर्यान्मतिमान्सदा वैरानु- घन्धि च ॥' इति।नयतिः प्रापनार्थे द्विकर्मकः। अत्र पौरुषस्य कर्तृस्थकर्मत्वेऽप्युपायस्या- तथात्वात्क्रोधं विनयत इत्यादिवत् 'कर्तृस्थेचाशरीरे कर्मणि' इत्यात्मनेपदं न भवति ॥
यदुक्तं विजितक्रोधरया इति तदावश्यकमित्याह-
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः । |
अपनेयमिति ॥ उदेतुमभ्युदेतुमिच्छता राज्ञा पुरः प्रथमं रोषमयं रोषादागतम् । 'मयट् च' इति मयट् । तिमिरमज्ञानं धिया विवेकबुद्ध्या करणेनापनेयमपनोद्यम्। तथाहि । अंशुमतापि कर्त्रा प्रभया तेजसा करणेन निशाकृतं तमो ध्वान्तमविभिद्य नोदीयते । किंतु विभिद्यैवेत्यर्थः । सूर्यस्याप्येवं किमुतान्येषामित्यपिशब्दार्थः । इणो भावे लट् ॥
ननु दुर्बलस्यैवमस्तु । बलीयसस्तु क्रोधादेव कार्यसिद्धिरित्यत आह-
बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः । |
बलवानिति ॥ बलवाञ्छूरोऽपि यः।कोपज्जन्म यस्य तस्य कोपजन्मनः ।'अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः । तमसो मोहस्य । कृद्योगात्कर्तरि षष्ठी,अभिभवमाक्रान्तिं न रुणद्धि न निवारयति । स नृपः । क्षयस्य पक्षः क्षयपक्षः कृष्णपक्ष ऐन्दवीरिन्दुसंबन्धिनीः कला इव । ‘कला तु षोडशो भागः' इत्यमरः । सकलाः समग्रा: शक्तिसंपदः प्रभुमन्त्रोत्साहशक्तीस्तिस्रोऽपि हन्ति नाशयति । अन्धस्य जङ्घाबलमिव क्रोधान्धस्य लोकोत्तरमपि सामर्थ्यं व्यर्थमेवेत्यर्थः । अत्र कालस्य सर्व- कारणत्वात्क्षयपक्षस्य कलाक्षयकारित्वमस्त्येव । तमसस्तु तत्कालविजृम्भणात्तथा व्यपदेशः ॥
विमृष्य कुर्वतः क्रियाप्रकारमाह-
समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् । |
समेति ॥ यः । समा नातिमुदुर्नातितिग्मा वृत्तिर्यस्य स समंवृत्तिः सन्समये सत्यवसरे मार्दवं मृदुवृत्तित्वमुपैति तिग्मतां तीक्ष्णवृत्तित्वं च तनोति । स मेदिनीपतिर्विवस्वानिव ओजसा तेजसा लोकमधितिष्ठत्याक्रामति । सूर्योऽपि ऋतुभेदेने समवृत्तिरित्यादि योज्यम् ॥
उक्तान्यथाकरणेऽनिष्टमाह---
क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता । |
क्वेति ॥ श्रियां सम्पदां चिराय बहुकालं परिग्रहः स्वायत्तीकरणं क्व । इन्द्रियाणि चाजिन इवेति समासः । दुष्टानाममार्गधाविनामिन्द्रियवाजिनां वश्यो वशंगतस्तस्य भावस्तत्ता क्व । नोभयमेकत्र तिष्ठतीत्यर्थः । कुतः । हि यस्माच्छरदभ्रवच्चलाश्चञ्चलाः । किंच बहुच्छला बहुव्याजाः । बहुरन्ध्रा इति यावत् । 'छलं तु स्खलिते व्याजे' इति विश्वः । श्रियः संपदः । चलेन्द्रियैरजितेन्द्रियैरसुरक्षा रक्षितुमशक्या; । कथंचित्प्राप्ता अपि श्रियो नाविनीतेषु तिष्ठन्तीत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलंकार: ॥
क्रोधस्य दुष्ठतामुक्त्वा तस्य त्यागमुपदिशति-----
किमसामयिकं वितन्वता मनसः क्षोभमुपात्तरंहसः । |
किमिति ॥ उपात्तरंहसः प्राप्तत्वरस्य मनसः । समयोऽस्य प्राप्तः सामयिकः। 'समयस्तदस्य प्राप्तम्' इति ठञ् । स न भवतीत्यसामयिकस्तमप्राप्तकालं क्षोभं वितन्वता भवता धीरतया धैर्यगुणेन । 'मनसो निर्विकारत्वं धैर्यं सत्स्वपि हेतुषुः' इति रसिकाः । अधरीकृतस्तिरस्कृतः । प्रागिति शेषः । अपां पतिः समुद्रः किं किमर्थमुच्चकैरधिकः क्रियते । न पराजितं पुनरुच्चकैः कुर्यादिति भावः । अत्र वितन्वतेति भीमविशेषणत्वेन अपांपतिपदार्थस्योच्चै: करणे हेतुत्वोक्त्या काव्यलिङ्गमलंकारः ॥ ' '
श्रुतमप्यधिगम्य ये रिपून्विनयन्ते न शरीरजन्मृनः । |
श्रुतमिति ॥ किंच । ये श्रुतं शास्त्रमधिगम्यापि शरीरजन्मनः शरीरप्रभवान् रिपून्का- मक्रोधादीन्न विनयन्ते न नियच्छन्ति । 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदम् । ते खल्चचिराय संपदां चापलाश्रयमस्थैर्यनिबन्धनमयशो दुष्कीर्तिं जनयन्ति । आश्रय- दोषादस्थैर्थं सम्पदां न स्वदोषादित्यर्थः । अजितारिषङ्वर्गस्य कुतः संपद इति भावः ॥
तथा क्रोधात्कार्यहानिरित्याशयेनाह---
अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गता[१५]पनी । |
अतिपातितेति ॥ अतिपातितान्यतिक्रान्तानि कालः समयोऽनुरूपः साधनानि सहयादीनि यया सा तथोक्ता । तापयतीति तापनी । कर्तरि ल्युट् । टित्वान्ङीप् । स्वस्य यच्छरीरमिन्द्रियवर्गश्च तयोस्तापन्यक्षमा क्रोधो भवन्तं जनवत्पृथग्जनमिव। 'तेन तुल्यं-' इति वतिप्रत्ययः । तेनेवार्थों लक्ष्यते । 'तद्धितश्चासर्वविभक्तिः' इत्यव्ययम् । नयसिद्धेर्नयसाध्यफलादपनेतुं पृथक्कर्तुं नार्हति। असमयक्रोधस्यात्मसं- तापातिरिक्तं फलं नास्तीत्यर्थः ॥
दुष्टः क्रोध इत्युक्तम् । अथ क्षमाया गुणानाह-
उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः । |
उपकारकमिति ॥ आयतेरुत्तरकालस्य भृशमत्यन्तमुपकारकम्।स्थिरफलहेतुरित्यर्थ:। भूरिणः प्रभूतस्य कर्मफलस्य । प्रसूयतेऽनेनेति प्रसवः कारणम् । अपायि न भवतीत्यनपयि स्वयमविनश्यदेव द्विषां निबर्हणं विनाशकमेवंगुणकं साधनं तितिक्षासमं क्षमातुल्यं नास्ति । 'क्षान्तिः क्षमा तितिक्षा च' इत्यमरः । 'तिज निशाने' इति धातोः 'गुप्तिज्किद्भ्य: सन्' इति क्षमार्थे सन्प्रत्ययः । तितिक्षासममित्यनुक्तोपमेया समास आर्थी लुप्तोपमा, भृशायत्यनपायिशब्दैः साधनान्तरवैलक्षण्याद्व्यतिरेकश्च व्यज्यते । भेदप्राधान्य उपमानादुपमेयस्याधिक्ये विपर्यये च व्यतिरेकः ।।
ननु तितिक्षया कालक्षेपे दुर्योधनः सर्वान् राज्ञो वशीकुर्यादित्यत्राह--
प्रणतिप्रवणान्विहाय नः सहजस्नेह[१६]निबद्धचेतसः । |
प्रणतीति। सहजस्नेहेनाकृत्रिमप्रेम्णा निबद्धचेतसोऽस्मासु गाढं लग्नचित्ताः। सुयोधने तु न तथेति भावः । किं च मानभृतामहंकारिणां प्रथमेऽग्रेसरा:। सुयोधनस्तु ततोऽपीति भावः । वृष्णयो यादवा: प्रणतिप्रवणान्प्रणामपरान् । सुयोधनस्तु न तथेति भावः । नोऽस्मान्विहाय सुयोधनं सदा न प्रणमन्ति न नमन्ति नानुसरन्ति। किंतु कार्यकाले त्यक्ष्यन्त्येवेत्यर्थः। सति यादवविग्रहे न किंचिदस्माकमसाध्यं भवेदिति भावः । अनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥
सुहृदः सहजास्तथेतरे मतमेषां न विलङ्घयन्ति ये । |
सुहृद इति ॥ किं चैषां वृष्णीनां ये सहजाः सहजाताः । मातृपितृपक्ष इत्यर्थ 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । सुहृदो मित्राणि तथेतरे कृत्रिमसुहृदश्च मतं वृष्णि- पक्षं न विलङ्घयन्ति नातिक्रामन्ति । ते द्वयेऽपि नृपाः । दुर्योधनोपजीविनोऽपीति भावः । आत्मसिद्ध्यं आत्मजीवनार्थं धृतराष्ट्रात्मजं दुर्योधनं विनयादानुकूल्यादिव यापयन्ति कालं गमयन्ति।कार्यकाले तु वृष्णिपक्षप्रवेशिन एवेत्यर्थः।यातेर्ण्यन्ताल्लट्। 'अर्तिह्रि-' इत्यादिना पुगागमः ॥
किंच नायमभियोगकाल इत्याशयेनाह -
अभियोग इमान्महीभुजो भवता तस्य कृतः कृ[१७]तावधेः । |
अभियोग इति ॥ कृतावधेः परिभाषितकालस्य । ‘अवधिस्त्ववधाने स्यात्सीम्नि काले बिलेऽपि च' इति विश्वः। तस्य सुयोधनस्य।कर्मणि षष्ठी।भवता कृतः।अवधित इति शेषः । अभियोगः । आर्द्राभिभव इति यावत् ।'अभियोगस्तु शपथे स्यादार्द्रे च पराभवे' इति विश्वः । इमान्पूर्वोक्तान्महीभुजो राज्ञो हरिदश्व उष्णरश्मिः कमला- करानिव समुत्पतन्नुद्यन्नेव प्रविघाटयिता भेत्स्यति । धाटयतेर्भौवादिकालुट् । चौरादि- कस्य तु 'मितां ह्रस्वः' इति ह्रस्वत्वं स्यात् ।।
अथ न ये वृष्णिपक्षास्तान्प्रत्याह-
उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः । |
उपजापेति ॥ मदोद्धतः स दुर्योधनो नृपतीनन्यान्नृपान्विलङ्घ्यन्मदादमानयन् ।। सहन्त इति सहाः। पचाद्यच् । उपजापस्य सहान्भेदयोग्यान्। 'समौ भेदोपजापौ' इत्यमरः । विधाता विधास्यति । दधातेर्लुट् । अवमानितो जनः सुभेद्य इति भावः । न च ते सहिष्णव इत्याह-जनः प्राकृतोऽप्यधःक्रियामपमानं न सहते । लोकाधिकधाम लोकोत्तरप्रतापं राजकं राजसमूहः । ‘गोत्रोक्षोष्ट्र-' इत्यादिना वुञ्प्रत्ययः । किमु । न सहृत इति किं वक्तव्यमित्यर्थः । तथा सति कृत्स्नमेव राजमण्डलमस्मा- नेवावलम्बिष्यते इति भावः ॥
ननु सखीनिवेत्यादिवनेचरोक्त्या तस्य मदसंभावनापि कथमित्यत्राह----
असमापितकृत्यसंपदां हतवेगं विनयेन तावता । |
असमापितेति ॥ असमापितकृत्यसंपदामकृतकृत्यानामतोऽभिमानशालिनामहंका- रिणां विभूतयः संपद एव तावता स्वल्पेन विनयेन । कार्यवशादारोपितेनेति शेषः । हतवेगं प्रतिबद्धवेगं नतु स्वरूपतो हतं मदमुत्तम्भयितुं वर्धयितुं प्रभवन्ति । सर्वथा दुर्जनसंपदो विकारयन्तीति भावः ॥
अथ मदस्यानर्थहेतुतां युग्मेनाह---
मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता । |
मदेति। अपरागेति च ॥ मदमानाभ्यां दर्पहंकाराभ्यां समुद्धतं नृपं मूढता कार्याप- रिज्ञानं नियमेनावश्यं न वियुङ्क्ते न विमुञ्चति । अतिमूढो नयान्नीतिमार्गादुदस्यत उत्क्षिप्यते । कर्मकर्तरि लट्। नयहीनाज्जनोऽपरज्यतेऽपरक्तो भवति । ‘स्वरितञित:- इत्यादिनात्मनेपदम् ॥
अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः । |
अपरागोऽप्रीतिः । द्वेष इति यावत् । समीरण इव । तेनेरितश्चोदितः। अतएव, क्रमेण शीर्णा शीर्णीभूताकुला चला च मूलसंततिः प्रकृत्यादिस्वजनवर्गः शिफासंघातश्च यस्य स तथोक्तः । ‘मुलं वशीकृते स्वीये शिफातारान्तिकादिषुः' इति वैजयन्ती। रिपुर्महानपि तरुवद्वृक्ष इव सहिष्णुना क्षमावतोन्मूलयितुमुद्धर्तुं सुकरः सुसाध्यः । सुकरोन्मूलन इत्यर्थः । अत्र मदादेः पूर्वपूर्वस्योत्तरोत्तरं प्रति कारणत्वात्करणमाला, तरुवदित्युपमा चेति द्वयोः संसृष्टिः ॥
नन्वन्तर्भेदमात्रेण कथं सुसाध्यस्तत्राह---
अणुरप्युपहन्ति विग्रहः प्र[१९]शुमन्तःप्रकृतिप्रकोपजः । |
अणुरिति ॥ अणुरल्पोऽप्यन्तःप्रकृतिप्रकोपजोऽन्तरङ्गामात्याद्यपरागसमुत्थः । 'प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे । छन्दःकारणगुह्येषु जन्त्वमात्यादिकेष्वपि॥' इति वैजयन्ती । विग्रहो वैरं प्रभुमुपहन्ति नाशयति । अत्र दृष्टान्तमाह-तरुशखान्तानां विधर्षों घर्षणं तज्जोऽनलोऽग्निः । भूधरं गिरिमखिलं साकल्येन हिनस्ति हि । दहती- त्यर्थः । अत्रोपसानोपमेयसमानधर्माणां प्रतिबिम्बतया निर्देशेन दृष्टान्तालंकारः ॥
तथापि कथं वर्धमानं शत्रुमुपेक्षेतेत्याशङ्क्य दुर्विनीतत्वादित्याह---
मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः । |
मतिमानिति ॥ मतिमान्प्राज्ञ:। विनयं प्रमथ्नातीति विनयप्रमाथिनो दुर्विनीतस्य द्विषः समुन्नतिं वृद्धिं समुपेक्षेत । उपेक्षायाः फलमाह---तादृगविनीतोऽन्तरे क्वचिद्रन्ध्रे सुजयः सुखेन जेतुं शक्यः खलु । हि यस्मादविनीतसंपदो विपदन्ता विपन्मर्यादकाः । अनर्थोदर्का इत्यर्थः ॥
कथं दुर्विनीतस्य शत्रोः सुजयत्वमित्याशङ्क्य भेदजर्जरितत्वादित्याह-
लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलम् । |
लघ्विति ॥ लघुवृत्तितया स्वस्य दुर्वृत्तरूपतया बहिर्मित्रादिजनपदेष्वन्तरमात्यादिषु च भिदां भेदं गतम् । 'षिद्भिदादिभ्योऽङ्' इत्यङ्प्रत्ययः । नृपस्य मण्डलं राष्ट्रमनन्तरः संनिहितो जिगीषुरापगारयो नदीवेगः शिथिलमन्तर्भेदजर्जरं कूलमिवाभिभूयाक्रम्य हरति ।।
अनुशासतमित्य[२०]नाकुलं नयवर्त्माकुलमर्जुनाग्रजम् । |
अन्विति ॥ इतीत्थमाकुलमरिनिकारस्मरणात्क्षुभितमर्जुनाग्रजं भीमसेनं नयवर्त्म- नीतिमार्गमनाकुलमसङ्कीर्णं यथा तथानुशासतमुपदिशन्तम् । 'जक्षित्यादयः षट्' इत्य- भ्यस्ताच्छतुर्नुमभावः । तं युधिष्ठिरं पराशरात्मजो वेदव्यासः । स्वयमभिवाञ्छितोऽर्थ इव । साक्षान्मनोरथ इवेत्युत्प्रेक्षा । अभीयाय प्राप्तः ।।
अथ युग्मेनाह----
मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं नि[२१]रीक्षितैः । |
मधुरैरिति ॥ मधुरैः शान्तैर्निरीक्षितैरवलोकनैः । नपुंसके भावे क्तः । न विद्यते वशमायत्तत्वं येषां तान्यवशानि प्रतिकूलानि । 'वशमायत्ततायां च' इति विश्वः । तिर्यञ्चि मृगपक्ष्यादीनि शमं शान्तिं लम्भयन्प्रापयन् । 'लभेश्च' इति नुमागमः। 'गत्यर्थ-' इत्यादिना द्विकर्मकत्वम्। परितः पटूज्ज्वलमेनसाम् ।दह्यतेऽनेनेति वहनं निवर्तकं तथापि विलोकनक्षमं दर्शनीयम् । वह्लयादिविलक्षणमिति भावः । धाम तेजो बिभ्रत् ॥
सहसोपगतः सविस्मयं तपसां सूतिरसूतिरा[२२]पदाम् । |
सहसेति ॥ पुनः सहसोपगतोऽकस्मादागतस्तपसां सूतिः प्रभव आपदामसूतिरप्रभवः । निवर्तक इति यावत् । स मुनिर्व्यासो वपुष्मान्देहधारी पुण्यसंचयः पुण्यराशिरिवेत्युत्प्रेक्षा । जगतीभुजा राज्ञा सविस्मयं ददृशे दृष्टः ।।
अथोच्चकैरासनतः परार्ध्यादुद्यन्स[२३]धुतारुणवल्कलाग्रः । |
अथेति ॥ अथ दर्शनानन्तरम् । उच्चकैरुन्नतात्परार्ध्याच्छ्रेष्ठात् । ‘अर्धाद्यत्' । परा- वराधमोत्तमपूर्वाच्च' इति यत्प्रत्ययः । आसनतः सिंहासनादुद्यन्नुत्तिष्ठन्नत एव धूतानि कम्पितान्यरुणानि वल्कलाग्राणि यस्य स तथोक्तः। स नृपः कीर्णं विस्तृतमाकपिश- मंशुजालं यस्य स तथोक्तः । सुमेरोः शृङ्गादुद्यंस्तिग्मरश्मिरिव । रराज ॥
अवहितहृदयो विधाय सो[२५]ऽर्हामृषिवदृषिप्रवरे गुरूपदिष्टाम् । |
अवहितेति ॥ स नरेन्द्रोऽवहितहृदयोऽप्रमत्तचित्तः सन् । ऋषिप्रवरे मुनिश्रेष्ठे । ऋषिवदृष्यर्हाम् । अर्हार्थं वतिप्रत्ययः । गुरूपदिष्टाम् । शास्त्रीयामित्यर्थः । अर्हां पूजाम्। 'गुरोश्च हलः' इत्यकार प्रत्ययः । विधाय पश्चादनन्तरं तदनुमतं तेनानुज्ञातमासनम् । प्रशमः शान्तिः श्रुतं शास्त्रश्रवणमिव । अलंचकार । उक्तं च--'प्रशमस्तस्य भवत्यलं क्रिया' इति । मुन्याज्ञयोपविष्टवानित्यर्थः ॥
व्यक्तोदितस्मितमयूखवि[२६]भासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः । |
इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वितीयः सर्गः ।
व्यक्तेति ।। व्यक्तोदितैः स्फुटोद्गतैः स्मितमयूखैर्विभासितावोष्ठौ यस्य स तथोक्तः । विकीर्णधाम्नो विस्तीर्णतेजसो मुनेरभिमुखं तिष्ठन्स नृपः । इद्धं दीप्तमंशुजालं तन्वन्तं गुरुं गष्पितिम् । 'गुरुर्गीष्पतिपित्रादौ' इत्यमरः । 'अभितःपरितः' इत्यादिना द्वितीया । अभितोऽभिमुखम् । तिष्ठत इति शेषः । सकलस्य संपूर्णस्य शशाङ्का मूर्ति-
र्यस्य तस्येन्दोर्लक्ष्मीमुवाह वहति स्म । अत्रोपमेयस्य राज्ञ उपमानेन्दुधर्मेण लक्ष्म्याः साक्षात्संबन्धासंभवात्तत्सदृशीं लक्ष्मीमिवेति प्रतिबिम्बकरणाक्षेपादसंभवद्वस्तुसंब- न्धात्पदार्थवृत्तिर्निदर्शनालंकारः। तदुक्तम्- 'प्रतिविम्बस्याकरणं संभवता यत्र वस्तुयोगेन । तत्साम्यमसंभवता निदर्शना सा द्विधाभिमता ॥ इति ॥ इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां किरातार्जुनीयकाव्य- व्याख्यायां घण्टापथसमाख्यायां द्वितीयः सर्गः समाप्तः ।
तृतीयः सर्गः।
अथ त्रिभिर्मुनिं विशिषंश्चतुर्भिः कलापकमाह । तदुक्तम्-'द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतम् ॥ 'इति--
ततः शरच्चन्द्रकराभिरामैरुत्सर्पिभिः प्रांशुमिवांशुजालैः। |
तत इति । तत उपवेशानन्तरं धर्मात्मजो युधिष्ठिरः शरच्चन्द्रकराभिरामैः आह्लाद- कैरित्यर्थः । उत्सर्पिभिरूर्ध्वं प्रसारिभिरंशुजालैः प्रांशुमुन्नतमिव स्थितमित्युत्प्रेक्षा। पुनरानीलरुचं कृष्णवर्णं पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीप्। जटा बिभ्राणं धारयन्तमतएव तडित्वन्तं विद्युद्युक्तमम्बुवाहमिव स्थितमित्युत्प्रेक्षा ॥
प्रसादलक्ष्मीं दधतं समग्रां वपुःप्रकर्षेण जनातिगेन । |
प्रसादेति ॥ पुनः समग्रां संपूर्णी प्रसादः सौम्यता तस्य लक्ष्मीं संपदं दधतम् । अतएव जनमतिगच्छतीति जनातिगेन लोकातिशायिना । 'अन्येष्वपि दृश्यते' इति डप्रत्ययः । वपुःप्रकर्षेणाकारसंपदासंस्तुतानामपरिचितानामपि । व्यासोऽयमित्यजानता- मपीत्यर्थः । 'संस्तवः स्यात्परिचयः' इत्यमरः । चेतःसु चित्तेष्वार्द्रं, स्नेहार्द्रं, भावमभिप्रायं प्रसह्य बलात्समासजन्तम् । लगयन्तमिति यावत् । 'देशसञ्जस्वञ्जां शपि' इत्युपधाया लोपः । प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः॥
अनुद्धताकारतया विविक्तां तन्वन्तमन्तःकरणस्य वृत्तिम् । |
अनुद्धतेति ॥ पुनरतुद्धताकारतया शान्ताकारत्वेन लिङ्गेनान्तःकरणस्य वृत्तिं विविक्तां पूताम् । शान्तामिति यावत् । 'विविक्तौ पूतविजनौ' इत्यमरः । तन्वन्तं प्रक- टयन्तम् । आकृतिरेवास्य चित्तशुद्धिं कथयतीत्यर्थः । पुनर्माधुर्यं निसर्गसौम्यता विस्त्र
- ↑ ।
- ↑ ‘विवृद्धये' इति पाठः,
- ↑ ‘उर्च्छृितम्' इति पाठः,
- ↑ ।
- ↑ मूर्तिना' इति पाठः,
- ↑ ।
- ↑ 'भूर्तिना'इति पाठः
- ↑ ।
- ↑ ‘अवेक्ष्य' इति पाठः,
- ↑ ‘एवम्” इति पाठः
- ↑ व्यवसाययितुम्” इति पाठः,
- ↑ 'वृणुते' इति पाठः.
- ↑ अदूषितायतिम्' इति पादः
- ↑ 'अदूषितायतिम्' इति पाठ:,
- ↑ 'तापिनी' इति पाठः,
- ↑ 'प्रेम' इति पाठः
- ↑ 'क्षतावधेः' इति पाद:
- ↑ ।
- ↑ ।
- ↑ अनाविलं' इति पाठः,
- ↑ 'समीक्षितैः' इति पाठः,
- ↑ 'एनसाम्' इति पाठः,
- ↑ 'सुधौतारुण' इति पाठः,
- ↑ 'घर्मरश्मि:' इति पाठः,
- ↑ 'पूजां ' इति पाठः,
- ↑ 'विकासितोष्ठ:'इति पाठ:
- ↑ 'मृगाङ्कमूर्तेः'इति पाठ: