सामग्री पर जाएँ

किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)/उपोद्घातः

विकिस्रोतः तः
← मुखपृष्ठम् किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्)
उपोद्घातः
भारविः
विषयानुक्रमः →

उपोद्धातः ।


 किरातार्जुनीयप्रणेतातिप्राचीनो महाकविमूर्धन्यः श्रीभारविः कस्मिन्समये कतमं जनपदं जन्मना भूषितवानिति निश्चेतुमतीव दुःशकम् । किं तु काव्यमालायां मुद्रिते त्रयोदशे प्राचीनलेखे 'किरातार्जुनीयपञ्चदशसर्गादिकोम्कारो दुव्विनीतनामधेयः' इति किरातार्जुनीयस्य, षोडशे प्राचीनलेखे च ‘येनायोजिनवेऽश्मस्थिरमर्थविधौ विवेकिन्प्र जिनवेश्म। स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥' इति भारविकवेर्नाम समुपलभ्यते । तत्र त्रयोदशो लेखोऽष्टानवत्युत्तरषटूछतेषु (६९८) शक वर्षेषु, षोडशो लेखश्च षट्पञ्चाशदधिकपञ्चशतेषु (५५६)शकवर्षेषु लिखितोऽस्ति । एतेन ख्रिस्ताब्दीयसप्तमशतकारम्भेऽपि भारविकविः कालिदासवत्सुप्रसिद्ध उपमा- नभूतश्चासीत् । तादृशी प्रसिद्धिश्च सत्वरमेव न भवतीति ख्रिस्ताब्दीयषष्ठशतकात्प्राचीनो भारविरिति निर्विकल्पम् ।।

 'व्हिएना ओरिएण्टल् जर्नल्' नाम्नस्त्रैमासिकपुस्तकस्य तृतीये भागे द्वितीये खण्डे (१४४ मिते पृष्ठे) शार्मण्यदेशीयो याकोबीपण्डितोऽपि “We therefore cannot place Magha later than about the middle of the sixth century; and Bharavi who is older than Magha by at least a few decades about the beginning of the sixth century' इत्यादि वदन्ख्रिस्ताब्दीयषष्ठशतकमध्यभागात्कथमपि माघकविर्नार्वाचीनः, भारविश्च ततोऽपि प्राचीन इति स्थिरीकरोति ।

 देशश्च भारवेरनिश्चित एव । राजाराम-रामकृष्ण-भागवत-पण्डितस्तु ‘म-हाठ्यांच्या संबंधानें चार उद्गार' एतन्नामके महाराष्ट्रभाषाग्रथिते स्वकीयसंदर्भे (३४ पृष्ठे) "जशा- सह्याद्रीच्या कड्यावर समुद्राच्या लाटा मोघ होतात' असा किराताच्या अठराव्या सर्गात उद्गार काढणारा भारवि निःसंशय दाक्षिणात्य होय; मग तो, महाठा असो किंवा अस्सल द्रविड़ असो,' इत्युद्गिरति । अत्र यदि सह्याद्रिनामग्रहणमात्रेणैव भार- वेर्दाक्षिणात्यत्वमङ्गीक्रियेत, तदा तु दक्षिणदिक्प्रसिद्धानां मलय-सह्य-सुवैलादिपर्वतानां कावेरी-गोदावरी-ताम्रपर्णी-भीमा-वेणादिनदीनां च वर्णयिता हरविजयकारः सुप्रसिद्ध काश्मीरकरत्नाकरमहाकविरपि दाक्षिणात्य एवेत्यपि सुवचम् । एवं विन्ध्याटवीवर्णन तत्परो बाणोऽपि विन्ध्याद्रिवासी कश्चन भिल्लः स्यात् । अन्येऽपि खर्गपातालादिवर्णन- बद्धपरिकरा:, कवयस्तत्तत्प्रदेशवास्तव्या देवा दानवाश्च भवितुमर्हन्तीत्यतिसरला सरणिर्देशनिर्णय समुद्गीणां भागवतमहाशयेन ।

 किरातार्जुनीयमपहायान्यः कोऽपि ग्रन्थो भारविकविग्रणीतो नावलोकितः । किरा- तार्जुनीयस्य तु प्रकाशवर्ष-जोनराज-एकनाथ-धर्मविजय-विनयसुन्दर-नरहरि-मल्लिनाथाथिभिः प्रणीताष्टीकास्तत्तद्देशेषु समुपलभ्यन्ते । तासु मल्लिनाथप्रणीता घण्टापथाख्यैव सर्वगुणपूर्णा सर्वत्र लब्धप्रचारा च । तत्र प्रकाशवर्ष-जोनराजौ, काश्मीरकौ, धर्मविजय-विनयसुन्दरौ जैनौ, एकनाथ-नरहरि-मलिनाथाश्च दाक्षिणात्याः सन्ति । प्रतापरुद्रीयटीकाप्रारम्भे मल्लिनाथस्य कनिष्ठसूनुः कुमारस्वामी भङ्गलाचरणश्लोकद्वया नन्तरमित्थमात्मानं वर्णयति----‘वाणीं काणभुजीमजीगणदवासासीच्च वैयासिक़ीमन्तस्तत्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाचकलद्रहस्यमखिलं यश्चाक्ष- पादस्फुरां लोलेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥ त्रिस्कन्धशास्त्रजलधिं चुलुकीकुरुते स्म यः । तस्य श्रीमल्लिनाथस्य तनयोऽजनि तादृशः ॥ कोलाचलपेद्दयार्थः प्रमाणपदवाक्यपारदृश्वा यः । व्याख्यातसर्वशास्त्रः प्रबन्धकर्ता च सर्वविद्यासु ॥ तस्यानुजन्मा तदनुग्रहात्तविद्योऽनवद्यो विनयावनम्रः । स्वा[] मी विपश्चिद्वितनोति टीकां प्रतापरुद्रीयरहस्यभेत्रीम् ॥ यद्यन्निगढमखिलं शक्त्या तत्तत्प्रकाश्यते । ना मूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ इति । स च मल्लिनाथस्तैलङ्गाभिजनः ख्रिस्ताब्दीयचतुर्दशशतक आसीदति बहुसंमतम् । केचित्तु मल्लिनाथः ख्रिस्ताब्दीय सप्तदशशतकोत्तरभागादप्यर्वाचीनः । यतोऽयं शिशुपालवधकिरातार्जुनीयादिटीकासु केशवकोशं प्रमाणत्वेनोपन्यस्यति । केशवश्च स्वकीयकोशं 'तत्रायं सांप्रतं कलिः । तद्गताब्दा: कुतिथिमाः (४७६१)' इति कटपयादिक्रमेणात्मग्रन्थनिर्माणसमये कलिगताब्दान्वदति । अतः षष्ट्यधिकषोडशशत(१६६०)मिते ख्रिस्ताब्दे केशवेन कोशः प्रणीत इति स्फुटमेवेति वहन्ति । एतद्वम्श्या गजेन्द्रगढ़ाख्यनगर्यामद्याप्यधिवसन्तीति केचिद्वदन्ति । काव्यप्रकाशटीकाकारस्य सरस्वतीतीर्थस्य जनको मल्लिनाथस्त्वस्माद्भिन्नः । यतो नारायणो न[] रहरिश्चेति तत्सूनुद्वयस्य नामधेये। शिशुपालवधोपोद्धाते तु सरस्वती तीर्थजनकः शिशुपालवधादिटीकाकारश्चैक एवेति भ्रमेण लिखितम् ।।

 घण्टापथयुक्तस्यास्य किरातार्जुनीयस्य मुद्रणावसरेऽस्माभिः संकलितानि पुस्तकानि त्वेतानि--

१----जयपुरराजगुरुपर्वणीकरनारायणभट्टानां सटीकं (१७३०) मिते विक्रमाब्दे जोध पुरे यशवन्तसिंहराज्ये सौभाग्यहर्षेण लिखितं प्रायः शुद्धम् । प्रारम्भे पत्रपञ्चकहीनम् । तत्पत्राणि १३९ ।

२-सटीकमेव पुस्तकं जयपुरमहाराजाश्रितपण्डितश्रीसरयूप्रसाहानां नातिशुद्धं प्रारम्भे पञ्चचतुष्टयेनान्तिमपञ्चेण च विकलम् । सार्धशतवर्षप्राचीनमिवोपलक्ष्यमाणम्। तत्पत्राणि २८३ ।

३-टीकामात्रं जयपुरराजगुरुभट्टलक्ष्मीदत्तात्मजभट्टश्रीदत्तानां शुद्धं प्रत्नंतरमतिम्लि ष्टस्वरूपम् । तत्पत्राणि १०३ ।

४-भट्टश्रीदत्तानामेव टीकामात्रं पञ्चदशसर्गस्याष्टत्रिंशन्मितश्लोकपर्यन्तं प्राचीनं सुवाच्यं किं तु नातिशुद्धम् । तत्पत्राणि १५७ ।

५-तेषामेव मूलमात्रं शुद्धं प्राचीनं च। तत्पत्राणि ६७ ।

 एवं पुस्तकपञ्चकमासाद्य टीकापाठान्सम्यग्विविच्यैतन्मुद्रणमकारि । ग्रन्थादौ विषयानुक्रमः, ग्रन्थान्ते च पञ्चदशसर्गस्थगोमूत्रिकादिबन्धश्लोकानां चित्राणि, टीकायां मल्लिनाथेन प्रमाणतयोपन्यस्तानां ग्रन्थग्रन्थकर्तृणां तत्तत्स्थलोल्लेखपूर्वकं नामानि; ग्रन्थस्थनिखिलश्लोकानां मातृकाक्रमेणानुक्रमणी च निवेशिनास्ति । एवं प्रयत्नपूर्वकं मुद्रितोऽयं ग्रन्थो निर्मत्सराणां गुणैकपक्षपातिनां विदुषामानन्दावहो भूयादिति शिवम् ।।


१. कुमारस्वामी । २. नरहरेरेव संन्यासग्रहणानन्तरं सरस्वतीतीर्थ इति नाम जातम् ।

  1. कुमारस्वामी ।
  2. नरहरेरेव संन्यासग्रहणानन्तरं सरस्वतीतीर्थ इति नाम जातम् ।