किरातार्जुनीयम्/द्वादशः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← एकादशः सर्गः किरातार्जुनीयम्
द्वादशः सर्गः
भारविः
त्रयोदशः सर्गः →

अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनं ।
क्लान्तिरहितं अभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ।। १२.१ ।।

अभिरश्मिमालि विमलस्य धृतजयधृतेरनाशुषः ।
तस्य भुवि बहुतिथास्तिथयः प्रतिजग्मुरेकचरणं निषीदतः ।। १२.२ ।।

वपुरिन्द्रियोपतपनेषु सततं असुखेषु पाण्डवः ।
व्याप नगपतिरिव स्थिरतां महतां हि धैर्यं अविभाव्यवैभवं ।। १२.३ ।।

न पपात संनिहितपक्ति- सुरभिषु फलेषु मानसं ।
तस्य शुचिनि शिशिरे च पयस्यमृतायते हि सुतपः सुकर्मणां ।। १२.४ ।।

न विसिस्मिये न विषसाद मुहुरलसतां नु चाददे ।
सत्त्वं उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ।। १२.५ ।।

तपसा कृशं वपुरुवाह स विजितजगत्त्रयोदयं ।
त्रासजननं अपि तत्त्वविदां किं इवास्ति यन्न सुकरं मनस्विभिः ।। १२.६ ।।

ज्वलतोऽनलादनुनिशीथं अधिकरुचिरम्भसां निधेः ।
धैर्यगुणं अवजयन्विजयी ददृशे समुन्नततरः स शैलतः ।। १२.७ ।।

जपतः सदा जपं उपांशु वदनं अभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे परिवेषभीषणं इवार्कमण्डलं ।। १२.८ ।।

कवचं स बिभ्रदुपवीत- पदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुः- परिवीतभीमगहनो विदिद्युते ।। १२.९ ।।

प्रविवेश गां इव कृशस्य नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान्गुरुतां नयन्ति हि गुणा न संहतिः ।। १२.१० ।।

परिकीर्णं उद्यतभुजस्य भुवनविवरे दुरासदं ।
ज्योतिरुपरि शिरसो विततं जगृहे निजान्मुनिदिवौकसां पथः ।। १२.११ ।।

रजनीषु राजतनयस्य बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ।। १२.१२ ।।

महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ।
ह्रीतं इव नभसि वीतमले न विराजते स्म वपुरंशुमालिनः ।। १२.१३ ।।

तं उदीरितारुणजटांशुं अधिगुणशरासनं जनाः ।
रुद्रं अनुदितललाटदृशं ददृशुर्मिमन्थिषुं इवासुरीः पुरीः ।। १२.१४ ।।

मरुतां पतिः स्विदहिमांशुरुत पृथुशिखः शिखी तपः ।
तप्तुं असुकरं उपक्रमते न जनोऽयं इत्यवयये स तापसैः ।। १२.१५ ।।

न ददाह भूरुहवनानि हरितनयधाम दूरगं ।
न स्म नयति परिशोषं अपः सुसहं बभूव न च सिद्धतापसैः ।। १२.१६ ।।

विनयं गुणा इव विवेकं अपनयभिदं नया इव ।
न्यायं अवधय इवाशरणाः शरणं ययुः शिवं अथो महर्षयः ।। १२.१७ ।।

परिवीतं अंशुभिरुदस्त- दिनकरमयूखमण्डलैः ।
शम्भुं उपहतदृशः सहसा न च ते निचायितुं अभिप्रसेहिरे ।। १२.१८ ।।

अथ भूतभव्यभवदीशं अभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं कमनीयविग्रहं अयुग्मलोचनं ।। १२.१९ ।।

ककुदे वृषस्य कृतबाहुं अकृशपरिणाहशालिनि ।
स्पर्शसुखं अनुभवन्तं उमा- कुचयुग्ममण्डल इवार्द्रचन्दने ।। १२.२० ।।

स्थितं उन्नते तुहिनशैल- शिरसि भुवनातिवर्तिना ।
साद्रिजलधिजलवाहपथं सदिगश्नुवानं इव विश्वं ओजसा ।। १२.२१ ।।

अनुजानुमध्यमवसक्त- विततवपुषा महाहिना ।
लोकं अखिलं इव भूमिभृता रवितेजसां अवधिनाधिवेष्टितं ।। १२.२२ ।।
परिणाहिना तुहिनराशि- विशदं उपवीतसूत्रतां ।
नीतं उरगं अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ।। १२.२३ ।।

प्लुतमालतीसितकपाल- कमुदं उपरुद्धमूर्धजं ।
शेषं इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतं ।। १२.२४ ।।

मुनयस्ततोऽभिमुखं एत्य नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं जगतां अशर्म भृशं आचचक्षिरे ।। १२.२५ ।।

तरसैव कोऽपि भुवनैक- पुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवेरभिभूय वृत्र इव भीमविग्रहः ।। १२.२६ ।।

स धनुर्महेषुधि निभर्ति कवचं असितं उत्तमं जटाः ।
वल्कं अजिनं इति चित्रं इदं मुनिताविरोधि न च नास्य राजते ।। १२.२७ ।।

चलनेऽवनिश्चलति तस्य करणनियमे सदिङ्मुखं ।
स्तम्भं अनुभवति शान्तमरुद्- ग्रहतारकागणयुतं नभस्तलं ।। १२.२८ ।।

स तदोजसा विजितसारं अमरदितिजोपसंहितं ।
विश्वं इदं अपिदधाति पुरा किं इवास्ति यन्न तपसां अदुष्करं ।। १२.२९ ।।

विजिगीषते यदि जगन्ति युगपदथ संजिहीर्षति ।
प्राप्तुं अभवं अभिवाञ्छति वा वयं अस्य नो विषहितुं क्षमा रुचः ।। १२.३० ।।

किं उपेक्षसे कथय नाथ न तव विदितं न किंचन ।
त्रातुं अलं अभयदार्हसि नस्त्वयि मा स्म शासति भवत्पराभवः ।। १२.३१ ।।

इति गां विधाय विरतेषु मुनिषु वचनं समाददे ।
भिन्नजलधिजलनादगुरु ध्वनयन्दिशां विवरं अन्धकान्तकः ।। १२.३२ ।।

बदरीतपोवननिवास- निरतं अवगात मान्यथा ।
धातुरुदयनिधने जगतां नरं अंशं आदिपुरुषस्य गां गतं ।। १२.३३ ।।

द्विषतः परासिसिषुरेष सकलभुवनाभितापिनः ।
क्रान्तकुलिशकरवीर्यबलान्मदुपासनं विहितवान्महत्तपः ।। १२.३४ ।।

अयं अच्युतश्च वचनेन सरसिरुहजन्मनः प्रजाः ।
पातुं असुरनिधनेन विभू भुवं अभ्युपेत्य मनुजेषु तिष्ठतः ।। १२.३५ ।।

सुरकृत्यं एतदवगम्य निपुणं इति मूकदानवः ।
हन्तुं अभिपतति पाण्डुसुतं त्वरया तदत्र सह गम्यतां मया ।। १२.३६ ।।

विवरेऽपि नैनं अनिगूढं अभिभवितुं एष पारयन् ।
पापनिरतिरविशङ्कितया विजयं व्यवस्यति वराहमायया ।। १२.३७ ।।

निहते विडम्बितकिरात- नृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभं मृगयाविवादं अयं आचरिष्यति ।। १२.३८ ।।

तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।
सत्त्वविहितं अतुलं भुजयोर्बलं अस्य पश्यत मृधेऽधिकुप्यतः ।। १२.३९ ।।

इति तानुदारं अनुनीय विषमहरिचन्दनालिना ।
घर्मजनितपुलकेन लसद्- गजमौक्तिकावलिगुणेन वक्षसा ।। १२.४० ।।

वदनेन पुष्पितलतान्त- नियमितविलम्बितमौलिना ।
बिभ्रदरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ।। १२.४१ ।।

बृहदुद्वहञ्जलदनादि धनुरुपहितैकमार्गणं ।
मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ।। १२.४२ ।।

अनुकूलं अस्य च विचिन्त्य गणपतिभिरात्तविग्रहैः ।
शूलपरशुशरचापभृतैर्महती वनेचरचमूर्विनिर्ममे ।। १२.४३ ।।

विरचय्य काननविभागं अनुगिरं अथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः परितोऽपदिश्य मृगयां प्रतस्थिरे ।। १२.४४ ।।

क्षुभिताभिनिःसृतविभिन्न- शकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा भयादिव ररास भूधरः ।। १२.४५ ।।

न विरोधिनी रुषं इयाय पथि मृगविहङ्गसंहतिः ।
घ्नन्ति सहजं अपि भूरिभियः समं आगताः सपदि वैरं आपदः ।। १२.४६ ।।

चमरीगणैर्गणबलस्य बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथु- प्रियबालवालधिभिराददे धृतिः ।। १२.४७ ।।

हरसैनिकाः प्रतिभयेऽपि गजमदसुगन्धिकेसरैः ।
स्वस्थं अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर्मृगाधिपैः ।। १२.४८ ।।

बिभरांबभूवुरपवृत्त- जठरशफरीकुलाकुलाः ।
पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ।। १२.४९ ।।

महिषक्षतागुरुतमाल- नलदसुरभिः सदागतिः ।
व्यस्तशुकनिभशिलाकुसुमः प्रणुदन्ववौ वनसदां परिश्रमं ।। १२.५० ।।

मथिताम्भसो रयविकीर्ण- मृदितकदलीगवेधुकाः ।
क्लान्तजलरुहलताः सरसीर्विदधे निदाघ इव सत्त्वसम्प्लवः ।। १२.५१ ।।

इति चालयन्नचलसानु- वनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशन- क्षतवीरुधं वसतिं ऐन्द्रसूनवीं ।। १२.५२ ।।

स तं आससाद घननीलं अभिमुखं उपस्थितं मुनेः ।
पित्रनिकषणविभिन्नभुवं दनुजं दधानं अथ सौकरं वपुः ।। १२.५३ ।।

कच्छान्ते सुरसरितो निधाय सेनां अन्वतिः सकतिपयैः किरातवर्यैः ।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैर्लक्ष्मीवाननुपदं अस्य सम्प्रतस्थे ।। १२.५४ ।।

इति भारविकृतौ महाकाव्ये किरातार्जुनीये द्वादशः सर्गः ।