किरातार्जुनीयम्/त्रयोदशः सर्गः
← द्वादशः सर्गः | किरातार्जुनीयम् त्रयोदशः सर्गः भारविः |
चतुर्दशः सर्गः → |
वपुषा परमेण भूधराणां अथ सम्भाव्यपराक्रमं विभेदे ।
मृगं आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ।। १३.१ ।।
स्फुटबद्धसटोन्नतिः स दूरादभिधावन्नवधीरितान्यकृत्यः ।
जयं इच्छति तस्य जातशङ्के मनसीमं मुहुराददे वितर्कं ।। १३.२ ।।
घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।
अयं एकचरोऽभिवर्तते मां समरायेव समाजुहूषमाणः ।। १३.३ ।।
इह वीतभयास्तपोनुभावाज्जहति व्यालमृगाः परेषु वृत्तिं ।
मयि तां सुतरां अयं विधत्ते विकृतिः किं नु भवेदियं नु माया ।। १३.४ ।।
अथवैष कृतज्ञयेव पूर्वं भृशं आसेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किं आरान्मृगजातीरभियाति मां जवेन ।। १३.५ ।।
न मृगः खलु कोऽप्ययं जिघांसुः स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा ।। १३.६ ।।
मुनिरस्मि निरागसः कुतो मे भयं इत्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां किं इव ह्यस्ति दुरात्मनां अलङ्घ्यं ।। १३.७ ।।
दनुजः स्विदयं क्षपाचरो वा वनजे नेति बलं बतास्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजं ।। १३.८ ।।
अयं एव मृगव्यसत्त्रकामः प्रहरिष्यन्मयि मायया शमस्थे ।
पृथुभिर्ध्वजिनीरवैरकार्षीच्चकितोद्भ्रान्तमृगाणि काननानि ।। १३.९ ।।
बहुशः कृतसत्कृतेर्विधातुं प्रियं इच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद्गणं आशिश्रियदाकुलं तिरश्चां ।। १३.१० ।।
अवलीढसनाभिरश्वसेनः प्रसभं खाण्डवजातवेदसा वा ।
प्रतिकर्तुं उपागतः समन्युः कृतमन्युर्यदि वा वृकोदरेण ।। १३.११ ।।
बलशालितया यथा तथा वा धियं उच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः परमं लाभं अरातिभङ्गं आहुः ।। १३.१२ ।।
कुरु तात तपांस्यमार्गदायी विजयायेत्यलं अन्वशान्मुनिर्मां ।
बलिनश्च वधादृतेऽस्य शक्यं व्रतसंरक्षणं अन्यथा न कर्तुं ।। १३.१३ ।।
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नं आललम्बे ।
उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ।। १३.१४ ।।
अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन ।
स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रं इवानतिं प्रपेदे ।। १३.१५ ।।
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस्तदानीं ।
अधिरोहति गाण्डिवं महेषौ सकलः संशयं आरुरोह शैलः ।। १३.१६ ।।
ददृशेऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं वधं आत्मेव भयानकः परेषां ।। १३.१७ ।।
विचकर्ष च संहितेषुरुच्चैश्चरणास्कन्दननामिताचलेन्द्रः ।
धनुरायतभोगवासुकिज्या- वदनग्रन्थिविमुक्तवह्नि शम्भुः ।। १३.१८ ।।
स भवस्य भवक्षयैकहेतोः सितसप्तेश्च विधास्यतोः सहार्थं ।
रिपुराप पराभवाय मध्यं प्रकृतिप्रत्यययोरिवानुबन्धः ।। १३.१९ ।।
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणादवार्यः ।
निपपात जवादिषु पिनाकान्महतोऽभ्रादिव वैद्युतः कृशानुः ।। १३.२० ।।
व्रजतोऽस्य बृहत्पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।
प्रतिनादमहान्महोरगाणां हृदयश्रोत्रभिदुत्पपात नादः ।। १३.२१ ।।
नयनादिव शूलिनः प्रवृत्तैर्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः किरणैर्व्य्ॐअनि मार्गणस्य मार्गः ।। १३.२२ ।।
अपयन्धनुषः शिवान्तिकस्थैर्विवरेसद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन्वराहं तदुपोढैश्च नभश्चरैः पृषत्कः ।। १३.२३ ।।
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।
भयविप्लुतं ईक्षितो नभःस्थैर्जगतीं ग्राह इवापगां जगाहे ।। १३.२४ ।।
सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खं आससाद ।
कुपितान्तकतर्जनाङ्गुलिश्रीर्व्यथयन्प्राणभृतः कपिध्वजेषु ।। १३.२५ ।।
परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन्वनेषु ।
स जवेन पतन्परःशतानां पततां व्रात इवारवं वितेने ।। १३.२६ ।।
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।
सह पूर्वतरं नु चित्तवृत्तेरपतित्वा नु चकार लक्ष्यभेदं ।। १३.२७ ।।
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायं एषणीयं ।
लघु साधयितुं शरः प्रसेहे विधिनेवार्थं उदीरितं प्रयत्नः ।। १३.२८ ।।
अविवेकवृथाश्रमाविवार्थं क्षयलोभाविव संश्रितानुरागं ।
विजिगीषुं इवानयप्रमादाववसादं विशिखौ विनिन्यतुस्तं ।। १३.२९ ।।
अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्ण्रयः स सम्भ्रमेण ।
निपतन्तं इवोष्णरश्मिं उर्व्यां वलयीभूततरुं धरां च मेने ।। १३.३० ।।
स गतः क्षितिं उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।
असुभिः क्षणं ईक्षितेन्द्रसूनिर्विहितामर्षगुरुध्वनिर्निरासे ।। १३.३१ ।।
स्फुटपौरुषं आपपात पार्थस्तं अथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन्प्रियतां एति यथा कृतावदानः ।। १३.३२ ।।
उपकार इवासति प्रयुक्तः स्थितिं अप्राप्य मृगे गतः प्रणाशं ।
कृतशक्तिरवाङ्मुखो गुरुत्वाज्जनितव्रीड इवात्मपौरुषेण ।। १३.३३ ।।
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिं इवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तं उच्चैः परिरेभे नु भृशं विलोचनाभ्यां ।। १३.३४ ।।
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरं ।
संनिकाशयितुं अग्रतः स्थितं शासनं कुसुमचापविद्विषः ।। १३.३५ ।।
स प्रयुज्य तनये महीपतेरात्मजातिसदृशीं किलानतिं ।
सान्त्वपूर्वं अभिनीतिहेतुकं वक्तुं इत्थं उपचक्रमे वचः ।। १३.३६ ।।
शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतं ।
प्राह ते नु सदृशी दिवौकसां अन्ववायं अवदातं आकृतिः ।। १३.३७ ।।
दीपितस्त्वं अनुभावसम्पदा गौरवेण लघयन्महीभृतः ।
राजसे मुनिरपीह कारयन्नाधिपत्यं इव शातमन्यवं ।। १३.३८ ।।
तापसोऽपि विभुतां उपेयिवानास्पदं त्वं असि सर्वसम्पदां ।
दृश्यते हि भवतो विना जनैरन्वितस्य सचिवैरिव द्युतिः ।। १३.३९ ।।
विस्मयः क इव वा जयश्रिया नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः कस्य निर्जितरजस्तमोगुणः ।। १३.४० ।।
ह्रेपयन्नहिमतेजसं त्विषा स त्वं इत्थं उपपन्नपौरुषः ।
हर्तुं अर्हसि वराहभेदिनं नैनं अस्मदधिपस्य सायकं ।। १३.४१ ।।
स्मर्यते तनुभृतां सनातनं न्याय्यं आचरितं उत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः कः प्रयातु वद तेन वर्त्मना ।। १३.४२ ।।
आकुमारं उपदेष्टुं इच्छवः संनिवृत्तिं अपथान्महापदः ।
योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलतां ।। १३.४३ ।।
तिष्ठतां तपसि पुण्यं आसजन्सम्पदोऽनुगुणयन्सुखैषिणां ।
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः ।। १३.४४ ।।
नूनं अत्रभवतः शराकृतिं सर्वथायं अनुयाति सायकः ।
सोऽयं इत्यनुपपन्नसंशयः कारितस्त्वं अपथे पदं यया ।। १३.४५ ।।
अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यं आहृते ।
निघ्नतः परनिबर्हितं मृगं व्रीडितव्यं अपि ते सचेतसः ।। १३.४६ ।।
संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदं अस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं व्रीडयन्ति चरितानि मानिनं ।। १३.४७ ।।
अन्यदोषं इव सः स्वकं गुणं ख्यापयेत्कथं अधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग्विभिन्नबुधसेतुं अर्थितां ।। १३.४८ ।।
दुर्वचं तदथ मा स्म भून्मृगस्त्वावसौ यदकरिष्यदोजसा ।
नैनं आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ।। १३.४९ ।।
को न्विमं हरितुरङ्गं आयुध- स्थेयसीं दधतं अङ्गसंहतिं ।
वेगवत्तरमृते चमूपतेर्हन्तुं अर्हति शरेण दंष्ट्रिणं ।। १३.५० ।।
मित्रं इष्टं उपकारि संशये मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ।। १३.५१ ।।
लभ्यं एकसुकृतेन दुर्लभा रक्षितारं असुरक्ष्यभूतयः ।
स्वन्तं अन्तविरसा जिगीषतां मित्रलाभं अनु लाभसम्पदः ।। १३.५२ ।।
चञ्चलं वसु नितान्तं उन्नता मेदिनीं अपि हरन्त्यरातयः ।
भूधरस्थिरं उपेयं आगतं मावमंस्त सुहृदं महीपतिं ।। १३.५३ ।।
जेतुं एव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।
प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ।। १३.५४ ।।
वाजिभूमिरिभराजकाननं सन्ति रत्ननिचयाश्च भूरिशः ।
काञ्चनेन किं इवास्य पत्त्रिणा केवलं न सहते विलङ्घनं ।। १३.५५ ।।
सावलेपं उपलिप्सते परैरभ्युपैति विकृतिं रजस्यपि ।
अर्थितस्तु न महान्समीहते जीवितं किमु धनं धनायितुं ।। १३.५६ ।।
तत्तदीयविशिखातिसर्जनादस्तु वां गुरु यदृच्छयागतं ।
राघवप्लवगराजयोरिव प्रेम युक्तं इतरेतराश्रयं ।। १३.५७ ।।
नाभियोक्तुं अनृतं त्वं इष्यते कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ।। १३.५८ ।।
मार्गणैरथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदं एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीं ।। १३.५९ ।।
तेन सूरिरुपकारिताधनः कर्तुं इच्छति न याचितं वृथा ।
सीदतां अनुभवन्निवार्थिनां वेद यत्प्रणयभङ्गवेदनां ।। १३.६० ।।
शक्तिरर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययं ।
कारणद्वयं इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ।। १३.६१ ।।
अस्त्रवेदं अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यं अपहाय गीयते तापसेषु चरितार्थं आयुधं ।। १३.६२ ।।
अभ्यघानि मुनिचापलात्त्वया यन्मृगः क्षितिपतेः परिग्रहः ।
अक्षमिष्ट तदयं प्रमाद्यतां संवृणोति खलु दोषं अज्ञता ।। १३.६३ ।।
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनरमूं अपक्रियां ।
आपदेत्युभयलोकदूषणी वर्तमानं अपथे हि दुर्मतिं ।। १३.६४ ।।
यष्टुं इच्छसि पित्éन्न साम्प्रतं संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुं एव पदवीं अपि क्षमः किं मृगेऽङ्ग विशिखं न्यवीविशः ।। १३.६५ ।।
सज्जनोऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते ।
वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि ।। १३.६६ ।।
अस्त्रवेदविदयं महीपतिः पर्वतीय इति मावजीगणः ।
गोपितुं भुवं इमां मरुत्वता शैलवासं अनुनीय लम्भितः ।। १३.६७ ।।
तत्तितिक्षितं इदं मया मुनेरित्यवोचत वचश्चमूपतिः ।
बाणं अत्रभवते निजं दिशन्नाप्नुहि त्वं अपि सर्वसम्पदः ।। १३.६८ ।।
आत्मनीनं उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः ।
इत्यनेकफलभाजि मा स्म भूदर्थिता कथं इवार्यसंगमे ।। १३.६९ ।।
दृश्यतां अयं अनोकहान्तरे तिग्महेतिपृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुद्धतो भूपतिः समयसेतुवारितः ।। १३.७० ।।
सज्यं धनुर्वहति योऽहिपतिस्थवीयः स्थेयाञ्जयन्हरितुरङ्गमकेतुलक्ष्मीं ।
अस्यानुकूलय मतिं मतिमन्ननेन सख्या सुखं समभियास्यसि चिन्तितानि ।। १३.७१ ।।
इति भारविकृतौ महाकाव्ये किरातार्जुनीये त्रयोदशः सर्गः ।