सामग्री पर जाएँ

काशिका (पदमञ्जरीव्याख्यासहिता)/षष्ठोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः काशिका (पदमञ्जरीव्याख्यासहिता)
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →

अथ षष्ठाध्याये तृतीयः पादः
पदमञ्जरी

अलगुत्तरपदे ।। 6 - 3 - 1 ।।
अलुगिति चेत्यादि । प्रत्येकं स्वरितत्वप्रतिज्ञानं दशेयति, अस्य पोरयोजनम् - एकस्य निवृत्तावपरस्य निवृत्तिर्मा भूदिति । स्तोकान्मुक्त इति । करणे च स्तोकाल्पकृच्छ्र इत्यादिना पञ्चमी, स्तोकान्तिक इत्यादिना समासः । उत्तरपद इति किमिति । लुक् तावत्समास एव प्राप्तः प्रतिषिध्यते इति सामर्थ्यादुत्तरपद तइत्येतल्लभ्यते । नलोपो नञः इत्यादौ च न समासे इत्ययो हि समासग्रहणानुवृत्तेरुत्तरपदलाभात् नतरामित्यादौ नञो नलोपाद्यभावः सिद्ध इति पश्नः । निस्तोक इति । अत्रोत्तरपदभूतेभ्योऽपि स्तोकादिभ्यः परस्याः पञ्चम्या अलुक्प्रसङ्गः ।
ननु च लक्षणप्रतिपदोक्तपरिभाषया स्तोकादिभ्यः प्रतिपदं या पञ्चमी विहिता, यश्च तेषां प्रतिपदोक्तः समासस्तस्या एव तत्रैव वा लुग्भविष्यति, तत्किमेतन्निवृत्त्यर्थेनोत्तरपदग्रहणेन इत्यत आह - अन्यार्थमित्यादि । आनङृतो द्वन्द्वे उत्तरपदे परतो यथा स्यात्, उत्तरपदस्य मा भूद् - होतापोतारौ, तअन्यथा परमपि सर्वनामस्थानापेक्षत्वेन बहिरङ्गम ऋतो ङि गुणं बाधित्वा द्वन्द्वक्रियानन्तरप्राप्त आनङ् स्यात्, होतापोतृभ्यामित्यादौ च स्यादेव । तथा इको ह्रस्वोऽङ्यो गालवस्य इति उत्तरपदे यथा स्याद् , ग्रामणीरित्यादावुत्तरस्य पदस्य मा भूदित्येवमाद्यर्थमुत्तरपदाधिकारोऽवश्यं कर्तव्यः स इहैव क्रियेत, समासानुवृत्तिः - लक्षकणप्रतिपदोक्तपरिभाषा नाक्षयितव्या भवतीति । आ कुत तइमावधिकारौ इत्यपेक्षायामाह - अलुगधिकार इत्यादि । ऋकारान्तस्य ह्युत्तरपदेऽनन्तरे पितृपुत्र इत्यादौ आनङा भवितव्यम् । यदि चात्रालुक् स्याद्विभक्त्या व्यवधानं स्यात् । यद्वा - साक्षान्निर्दिष्टमानङादिकार्यं प्रकरणप्प्तस्यालुको निवर्तकमिति अलुगधिकारः प्रगानङः तथाङ्गस्य विधीयमानं कार्यं यत्राङ्गमित्येतद्भवति तत्रैव भवति । कस्मिंश्चैतद्भवति प्रत्यये, न तूत्तरपद तथइति सामर्थ्याद् उत्तरपदाधिकारः प्रागङ्गाधिकारात् ।।
पञ्चम्याः स्तोकादिभ्यः ।। 6 - 2 - 2 ।।
स्तोकादीनां प्रतिपदिकगणेऽपाठात्सूत्रपठितानां ग्रहणमित्याह - स्तोकान्तिकदूरार्थकृच्छाणि स्तोकादीनीति । करणे च स्तोकाल्पकृच्छ्र इत्यादीनि तुस्तोकादीनि न गृह्यन्त अव्याप्तः । स्तोकान्तिक इत्यत्रत्यानि भूयिष्ठानि अर्थग्रहणात् । अलुग्भवतीति । लुग्न भवतीत्यर्थः । सुपो लुकि प्राप्त इति । सुपो धातुप्रातिपदिकयोः इत्यनेन । प्रतिषेधः क्रियत इति । अलुगिति प्रसज्यप्रतिषेध इति दर्शयति, उत्तरपदाधिकारोपजीवनाय तु नाव्ययीभावात् इत्यस्यानन्तरमिदं प्रकरणं नारब्धम्, एकवच्च, सर्वस्यालुक्प्रकरणस्य शेषभूतोऽयमर्थातिदेशः, यस्या विभक्तेरलुग्विधीयते, तदर्थो द्व्यात्मको बह्वात्मकर्श्चैकवद्भवतीति वक्तव्यम् । तेन स्तोकाभ्यां मुक्तः, स्तोकेभयो मुक्त इत्यपि विग्रहे स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इत्यत्राप्यैकपद्यमैकस्वर्यं स्यात् नैष दोषः, स्तोकादिभ्यः प्रतिपदं या पञ्चमी - करणे च स्तोकाल्प इति, तस्य अलुक्, सा चासत्त्ववचनेभ्यो द्विबह्वोर्न सम्भवतीति स्तोकाभ्याम्, स्तोकेभ्य इत्यपादान एषां पञ्चमीत्येव न भविष्यति । एवमपि दूराभ्यामागतः, दुरेभ्य आगत इत्यत्र प्रसङ्गः अत्र हि दूरान्तिकार्थेभ्यो द्वितीया च इति प्रतिपदमेव पञ्चमी । तथाऽन्तिकाभ्यां कृतम्, अन्तिकेभ्यः कृतमित्यादावप्यलुक्प्रसङ्गः तस्मादेकवच्चेति वक्तव्यम् । ननु वृत्तावुपसर्जनपदानि एकादिसङ्ख्यां विहायाभेदैकत्वासङ्ख्यां प्रतिपद्यन्ते, का पुनरियमभेदैकत्वसङ्ख्या विशेषाणामविभागेनावस्थानम्, यथा - मधुन्योषधिरसानाम्, न हि तत्रास्या ओषधेरयंरसोऽस्या अयमिति विभागो दृश्यते, अथ च त एव विशेषा अनुभूयन्ते न पुना रससामान्यम्, तद्वदत्रापि राजपुरुष तइति राजार्थो नैकत्वादिविशेषाः । उक्तं च -
यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ।। इति ।
यद्वा - अनुपात्तसङ्ख्याविशेषमेकत्वादिष्वनुगतं सामान्यमभेदैकत्वसङ्ख्या, यथा सन्तमसे रुपमात्रं
गृह्यते न पुनः शुक्ल इति वा, कृष्ण इति वा, तद्वदत्रापीति सङ्ख्यावान् राजार्थः, न चाव्ययार्थवन्निःसङ्ख्य इत्येतावत्प्रतीयते । उक्तं च
भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः ।
व्यापारज्जातिभागस्य भेदापोहेन वर्तते ।।
अन्तर्हितविशेषेण यथा रुपेण रुपनान् ।
प्रख्यायते न शुक्लादिभेदो रुपस्य गम्यते ।। इति ।
तदेवमभेदैकत्वसङ्ख्योपादानाद् द्विवचनबह्वचनान्तानां सर्वा वृत्तिर्न भवति, किं पुनः समास एव, ततश्च समासाभावादलुग्न भविष्यतीति किमेकवद्भवेन उच्यते किं पुनः कारणम् - वृत्तावभेदैकत्वसङ्ख्या प्रतीयते सङ्ख्याविशेषप्रतिपादकाभावात् । विभक्तिर्हि तस्य प्रतिपादिका, सा च वृत्तौ निवृत्ता, निवृत्तायां च तस्याम् त्रिकऋ प्रातिपदिकार्यः इति पक्षे सङ्ख्यासामान्यस्यापि तावत्प्रदिपादकाभावः । यदि परं गु़ड इत्युक्ते माघुर्यादिवदव्यभिचारात्सङ्ख्या प्रतीयते, अव्यभिचारश्च चसामान्यस्यानियतस्य वा विशेषस्येति, सैवाभेदैकत्वसङ्ख्या । पञ्चकपत्रेऽपि सङ्ख्याविशेषप्रतिपत्तौ द्योतकत्वेनापि तावद् विभक्तयोऽपेक्ष्यन्त इति तदभावात्सामान्योऽनियते वा विशेषः प्रतीयत इति सैवाभेदैकत्वसङ्ख्या । यत्र ह्यर्थप्रकरणादिकं विशेषावगतौ प्रमाणं भवत्येव तत्र वृत्तिथः । तद्यथा, अर्याद् मुद्‌गौः क्रीतं मौद्गिकम्, न ह्येकेन मुद्गेन क्रयः सम्भवति, कारकमध्य इति च, न ह्येकस्य मध्यं सम्भवति प्रकरणात् - भवद्गिरामवसरप्रदानाय इति आदेशात् - तावकीनो मामकीन इति शैषिकः । मासजात इत्यादौ तु प्रातिपदिकार्थस्यैवाक्तपरिमाणत्वात् । द्विपुत्र इत्यादौ सङ्ख्याशब्दसन्निधानात् । तदेवं यत्र विषेषे प्रमाणाभावस्तत्राभेदैकत्वसङ्ख्या ।
यद्येवम्, अत्रालुकि सति विभक्तिरेव प्रमाणमिति द्विवचनबहुवचनान्तानां समास स्यादेव यदा त्वर्थप्रकरणादिना विशेषावगतौ द्विवचनबहुवचनान्तानां वृत्तिर्भवति तदा का शङ्घा विभक्तावेव सत्याम् । यदि चाभेदैकत्वसङ्ख्योपजनाद् द्विचनबहुवचनयोरलुगभावः, एकवचनस्यापि न स्यात्, तस्यापि हि सुद्धमेकत्वं वाच्यम्, माभेदैकत्वसङ्ख्या । अथ विभाक्त्यभावे सङ्ख्यासामान्यस्य प्रतीतस्य विषेषपयेवसानापेक्षायां यो हि बहून् कल्पयति कल्पयत्यसावेकमिति न्यायेन वृत्तावपि शुद्धमेकत्वं प्रतीयत इत्युच्येत, अभैदैकत्वसङ्ख्येत्यनुपपन्नं स्यात्। तस्मादेकवचनान्तम्य, द्विवचनान्तस्य, बहुवचनान्तस्य वा यथेष्टं वृत्तिः, वृत्तौ
चाभेदैकत्वसङ्ख्या, अर्थप्रकरणादिना विशेषावगतिरिति वाच्यम्। एवं च पूर्वोक्तेन न्यानेन द्विवचनबहुचनयोरलुक्प्रसङ्गादतिदेश आश्रयितव्यः ।
यद्येवम्, गोपुचरः अप्सुयोनिः, अप्सव्य इति ये नित्यबहुवचनान्ताः तेषा मप्यलुकि एकत्वातिदेशादेकवचनप्रसङ्गः एवं तर्ह्यनभिधानमत्र हेतुः । तदाह द्विवचनबहुवचनान्तानां त्वनभिधानादिति । वाक्यमपि तर्हि न प्राप्नोति । न च वाच्यम् - समासे नास्त्यभिधानम्, वाक्ये पुनरस्तीति । नु हि समाससंज्ञाऽर्थाभिधाने उपयुज्यते, यत्पुनरुपयुज्यते - प्रातिपदिकम्, विभक्तिश्च, तत्सर्वमविकलमिति किमत्रानभिधानं करिष्यति । तत्राह - तेनात्रेत्यादि । स्वरस्याप्यर्थाभिधान उपयोगात्, पृथक्स्वरयुक्तस्य वाक्यस्य प्रतिपादकत्वमैकस्वर्ययुक्तस्य समासस्याप्रतिपादकत्वं च युक्तमित्यर्थः ।
ब्राह्मणाच्छंसिन इत्यादि । किं पुनरत्रोपसङ्ख्यायते द्वितीयार्थे पञ्चमी, ब्राह्मणानि शंसति ब्राह्मणच्छंसी, अलुक् तु तत्पुरुषे कृति बहुलम् इत्येव सिद्धः । ननु शास्राण्यसौ शंसति, न ब्राह्मणानि नैष दोषः ब्राह्मणविहितेषु शास्रेषु ब्राह्मतणशब्दो द्रष्टव्यः । अपर आर - युक्त एवात्र पञ्चम्यर्थः, आहरणपूर्वके शंसने शंसतिर्वर्तते, ब्राह्मणादाहृत्य सूक्तानि शंसतीति ब्राह्मणाच्छंसी । एवमापि होतृप्रभृतिष्वपि ब्राह्मणाच्छंसीति प्राप्नोति तत्राह - ऋत्विग्विशेषस्य रुढिरियमिति । तस्या इति । ब्राह्मणाच्छंसीत्यस्या रुढेरित्यर्थः । सतेति । ब्राह्मणाच्छंसीत्यत्र पक्षे पञ्चम्यर्थो न सम्भवति, पक्षान्तरे तु सम्भवति ।।
ओजःसहोम्भस्तमसस्तृतीयायाः ।। 6 - 3 - 3 ।।
ओजःसहोग्भस्तमसस्तृतीयायाः ।। उदाहरणेषु कर्तृकरणे कृता बहुलम् इति समासः । इह कस्मान्न भवति - सततनैशतमोवृतामिति उच्यते उत्तरपदेन पूर्वपदमाक्षिप्यते, तेनोपात्तमोजःप्रभृति विशेष्यते पूर्वपदभूतेभ्य
ओजः प्रभृतिभ्य इति । न चात्र तमः शब्दः पूर्वपदम्, किं तर्हि सततनैशतमः शब्दः । यत्र तदन्ताविधिरिष्यते तत्रोपात्तेनाक्षिप्तं पूर्वपदं विशेष्यते, तेन तस्य तदन्तस्य च भवति - इष्टकचितम्, पक्वेष्टकचितमिति । क्वचित्तु - यदेवोपात्तं तस्यौवोत्तरपदेऽनन्तरे तत्कार्यं भवति, न तूपात्तस्य तदन्तस्य वा पूर्वपदत्वमपेक्ष्यते, यथा - आनङ् ऋतो द्वन्द्वे होतृपोतृनेष्टोद्गातारः इति, अत्र नेष्टृशब्दश्च न पूर्वपदम्, नापि तदन्तं पूर्पदम्, किं तर्हि होतृशब्दः न तस्योत्तरपदमनन्तरम् ।
अञ्चसा - आर्जवेन । यस्य पुमानग्रजः स पुंसा हेतुनाऽनुज इति कृत्वा, जनुषान्धः - जात्यन्धः, जनु - जन्म ।
आत्मनश्च पूरणे ।। 6 - 3 - 6 ।।
वार्तिकमेवेदं सूत्ररुपेण पठितम् । पूरणशब्दस्य स्वरितत्वात्तदधिकारविहितानां प्रत्ययानामत्र ग्रहणं न स्वरुपस्य ग्रहणमित्याह - पृरणप्रत्ययान्त इति । यद्यप्युत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवतीति दृदयस्य दृल्लेख इत्यत्र ज्ञापयिष्यते, तथाप्यात्मन्शब्दात् पूर्णप्रत्ययस्यासम्भवात्सामर्थ्यादत्र तदन्तविधिः । आत्माना वा कृत इति । वृत्तौ कृतार्थस्यान्तर्भावात् कर्तरि करणे वा तृतीया, तृतीया तत्कृतार्थेन इति समासः, यथा - कुङ्कमलोहितादावित्यर्थः ।
आत्मा चतुर्थो यस्येति । एकस्यापि वस्तुनो बुद्धिपरिकल्पितविभेदस्य वत्तिपदार्थत्वम्, तअन्यपदार्थत्वं चाविरुद्धम् ।।
वैयाकरणारुयायां चतुर्थ्याः ।। 6 - 3 - 7 ।।
वैयाकरणानामित्यादि । यदि तु व्याकरणे भवा वैयाकरणी, अणृगयनादिभ्यः इत्यण्, वैयाकरणी चासावाख्या चेति वैयाकारणाख्येत्येषं व्याख्यायेत आत्मनेभाषः , परस्मैभाष इत्यत्र न स्यात् अनयोरष्टाध्याय्यामपठितत्वात् । तस्माद्ययोपदशितमेव व्याख्यातम् । यद्येवम्, कुबेरबलिरित्यादौ लोकिकसज्ञाशब्दे प्रसङ्गः, वैयाकरणानामपि तेन व्यवहारात् अत आह - ययोत । विशेषणसामर्थ्यादवधारणमाश्रीयत इति भावः । यदा तु धातुसूत्रगणोणादिवाक्यात्मकं पञ्चस्थानं व्याकरणम्, तदा वैयाकरणी चासावाख्या चेत्यास्मन् व्याख्यानेऽपि न दोषः । आत्मनेपदमिति । अन्वर्थत्मस्य समासविधौ दर्शितम् ।
परस्य च ।। 6 - 3 - 8 ।।
किमथेमिदमुच्यते अलुग् यथा स्यात् - परस्मैपदम्, परस्मैभाषः । सिद्धोऽत्रालुक् पूर्वेणेव न सिध्यति आत्मनः इति तत्र वर्तते । निवर्तिष्यते यदि निवर्तेत, तेभ्यो हितास्तद्धिता इत्यत्रापि प्राप्नोति । तस्मात् अत्मनः थइति तत्रानुवर्तते, तस्मश्चानुवर्तमाने परस्य चेति वक्तव्यम् ।।
हलदन्तात्सप्तम्याः सज्ञायाम् ।। 6 - 3 - 9 ।।
उदाहरणेषु संज्ञायाम् इति समासः । गविष्ठिर इत्यादि । अन्यथा अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इत्यवादेशस्याकरणादहलदन्तत्वान्न स्यात्, यथा - भूम्यां पाशो भूमिपाश इत्यत्रेति भावः ।
हृद्‌द्युभ्यामिति । असंज्ञार्थमिदम् । हृदिस्पृक्, दिविस्पृगिति । द्वितीयार्थे चैषा सप्तमी । तथा हि भाष्यम् - अन्यार्थे चैषा सप्तमी द्रष्टव्या, हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् इति । आख्याग्रहणस्योपसमस्तत्वादिह संज्ञाग्रहणम् । तत्रैव त्वसमास्तमाख्याग्रहणं कर्तव्यम् ।।
कारनाम्नि च प्राचां हलादौ ।। 6 - 3 - 10 ।।
वणिम्भिः पशुपालैः कर्षकैश्च कल्पितो राजग्राह्यो भागः - करः, कर कएव कारः, प्रज्ञादित्वादण् ।
नियमविकल्पा इति नियमविशेषा इत्यर्थः । तानेव दर्शयति - कारनाम्न्ये नेत्यादि । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव इति प्रथमो नियमः, अप्राग्देशावर्तिनि तु त्वचिसारादावकारनाम्न्यपि भवत्येव । तथा कारनाम्नि हलादौ यदि भवति प्रचामेव इति द्वितीयः । प्राचां कारनाम्नि च यदि भवति हलादावेव इति तृतीयः । अवीनां समूहोऽविकटम्, सङ्घाते कटच् । कथं पुरेकस्मिन्वाक्ये नियमत्रयं लभ्यते कः पुनराह - एकमिदं वाक्यमिति आगृह्यमाणविशेषत्वेन प्रत्येकमेवकारध्याहारात् त्रीण्येव वाक्यानि । संज्ञाग्रहणेन प्रकृतेऽपि
नामग्रहणं क्रियते नियमार्थत्वं विस्पष्टयितुम् अन्यथाऽसंज्ञायां विध्यर्थताऽपि समाभाव्येत । कथं पुरसंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यात् - प्रचां कारे हलादिनोत्तरपदेनासंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यत् - प्रचां क्रे हलादिनोत्तरपदेनासंज्ञानामपि भवति समास इति । यस्मिन्विधिः इत्येव सिद्धे आदिग्रहणं विस्पष्टार्थम् ।।
अमूर्द्धमस्तकात् स्वाङ्गादकामे ।। 6 - 3 - 12 ।।
उदाहरणेषु प्रत्युदारहणेषु च व्यधिकरणपदो बहुव्रीहिः । अक्षशौण्ड इति । सप्तमी शौण्डैः इति तत्पुरुषः ।।
बन्धे च विभाषा ।। 6 - 3 - 13 ।।
स्वाङ्गात् इतदि निवृत्त्म्, सामान्यनायं विधिः । बन्धे इति धातुरेवात्र सहकारेणाऽनुकृतः । नेन्त्सिद्धबध्नादिषु च इति धातावेव प्रतिषेध उक्तः, ततश्च बहुव्रीहिरेवास्य विकल्पस्य विषयः । तत्रापि हस्तबन्धादौ स्वाङ्े प्रप्तविभाषा, चक्रबन्धादावस्वाङ्गे त्वप्रप्तविभाषेत्युभयत्रविभाषा समापद्यते त्तपुरुषे तु नैवास्य प्रवृत्तिः इतीमां शङ्कामपनयति बन्ध इति घञन्तो गृह्यत इति । ततश्च तत्पुरुषेऽपि घञन्तस्य वृत्तिर्विरुद्धा, प्रतिषेधस्य बन्धनादौ चरितार्थत्वादिति भावः । उभयत्र विभाषेयमिति । कथमित्याह - स्वाङ्गाद् बहुव्रीहाविति । तत्पुरुषे त्विति । यद्यपि बहुव्रीहावेवास्वाङ्गादप्राप्त इति शक्यं वक्तुम्, तथाप्यस्य तत्पुर्षे प्रवृत्ति दर्शीयितुं तत्पुरुषे चास्य प्रवृत्तिः पूर्वविप्रतिषेधेन अन्यथा बहुव्रीहिरस्यावकाशः, बध्नातिप्रतिषेधस्य च बन्धनादिरषकाशः घञन्ते तु तत्पुरुषे उभयप्रसङेगे परत्वात्प्रतिषेध एव स्यात् ।।
तत्पुरुषे कृति बहुलम् ।। 6 - 3 - 14 ।।
अत्रापि कृदन्तस्य ग्रहण्, न कृन्मात्रस्य, तत्र परतः सप्तम्या असम्भवत् इह कस्मान्न भवति - परमे कारके परमकारक इति उच्यते - अन्तरङ्गा कृत्प्रतिपाद्यक्रियानिमित्ता सप्तमी, इह तु क्रियान्तरनिमित्तापरमे कारके निधेहीति, तेन बहिरङ्गत्वान्नास्या ग्रहणम् ।
कुरुचर इति । हलदन्तात् इत्यधिकारमनाश्रित्यैतदुदादृतम् । विभाषाग्रहणे प्रकृते बहुलग्रहणं क्वचित् प्रकृत्यादीनामुपसंग्रहार्थम् । तेन कर्णेजपादावलुगेव, मद्रचरादौ लुगेव, ब्राह्मणाच्छंस्यादौ असप्तम्या अप्यलुक् । एवं च सर्वमेवालुक्प्रकरणमस्यैव प्रपञ्चः ।।
प्रावृट्‌शरत्कालदिवां जे ।। 6 - 3 - 15 ।।
प्रावृट्‌शरदोः पृथग्ग्रहणात्कालेति स्वरुपग्रहणम् ।।
घकालतनेषु कालनाम्नः ।। 6 - 3 - 17 ।।
घ इति तरप्तमपोर्ग्रहणम्। काल इति स्वरुपग्रहण्, तन इति ट्युट्युलोरादेशस्य सतुट्‌कस्य ग्रहणम् ।
पूर्वाह्णेतनमिति । सप्तम्यर्थप्रकर्षे प्रत्यः, तस्याद्रव्यप्रकर्षत्वादलुक्पक्षे, किमेत्तिङव्ययघात् इत्यामुप्रत्ययः । लुक्पक्षे तु निमित्ताभावादद्रव्यप्रकर्षेऽप्यामभावः । तरबन्तात् सप्तमी । क्वचित्तु - अलुक्पक्षेऽपि सप्तमी समुदायात्पठ्यते, तत्र प्रकृत्यर्थविवक्षया अद्रव्यप्रकर्षे इति प्रतिषेधो व्याख्येयः । पूर्वह्णे इति । विभाषा पूर्वह्णापराह्णाभ्याम् इति ट्युट्युलौ, अनादेशास्तुट् च ।
कथं पुनर्घतनप्रत्ययमात्रेऽलुक् उदाहृतः, यावता प्रत्ययग्रहकणवरिभाषया तदन्त उत्तरपदेऽलुगुदारर्तव्यः अत आह - उत्तरपदाधिकार इति । कुत इत्याह । लेखग्रहणादिति । यदयम् हृदयस्य हृल्लेखयदणलासेषु इत्यण्ग्रहणे क्रियमाणे लेखग्रहणं करोति, तज्झापयति - नोत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्भवतीति । यदि स्यात्, लेखगर्हणं न कुर्यात् अणन्त इत्येव सिद्धत्वात् । ननु च घञर्थं लेखगर्हणं स्यात्, न वै घञन्त इष्यते । कालेति न स्वरुपग्रहणमिति । नामग्रहणात् । क्वचिन्नञ् न पठ्यते, तत्र घकाले स्वरुपग्रहणमित्यर्थः ।।
शयवासवासिष्वकालात् ।। 6 - 3 - 18 ।।
अत्राकाल इत्यर्थगर्हण्, व्याख्यानात् । तदाहअकालवाचिन इति । खशय इति । अधिकरणे शेतेः इत्यच् । वास इति । घञ् । ग्रामेवासीति । सुप्यजातौ णिनिः ।
अपो योनीत्यादि । शब्दप्रधानत्वादप इत्येकवचनम्, योनिः - उत्पत्तिः अप्सुयोनिर्यस्य सोऽम्सुयोनिः । अप्सव्य इति । ओर्गुणः, वान्तो यि प्रत्यये । अप्सुमन्ताविति । सप्तम्यन्तान्तुपोऽसम्भवादप्स्विति शब्दो ययोरस्ति तावप्सुमन्तौ कारीर्यामाज्यभागौ, तयोर्हि अप्स्वग्ने सधिष्टवः, अप्सु मे सोमो अब्रवीत्, इत्यनुवाक्ययोरप्सुशब्दोऽस्ति । यद्येवम्, अनुकरणत्वादस्यवामीयादिवल्लुगन भविष्यतीति किं मतुब्ग्रहणेन अन्य तु मतिशब्दं पठन्ति, उदारहन्ति - अत्र सोमो वाप्सुमतिरिति तत्तु भाष्ये न दृष्टम् ।।
नेन्त्सिद्धबध्नातिषु च ।। तत्पुरुषे कृति बहुलम् इति प्राप्तं प्रतिषिध्यते, सप्तम्यांः परस्याः परस्य केवलस्येनोऽसम्भवादुत्तरपदाधिकारेऽपि प्रत्ययग्रहणे तदन्तविधिरित्याह - इन्नन्त उत्तरपद इति । स्थण्डिलवर्तीति । व्रते इति णिनिः । उपपदसमासः । साङ्काशयसिद्ध इति । सिद्धशुष्कपक्वबन्धैश्च इति समासः । चारबद्ध थइति । बद्धशब्दो निष्ठान्तः । योगविभागात् समास इति । बद्धशब्देन ।
तदिति । बन्ध इत्येव शब्दरुपम् । अथ धञन्तः कस्मान्न भवति तत्राह धञन्ते हीति । अथ वा - पचाद्यजन्ते च बन्धे च विभाषा इत्ययं विकल्पः कस्मान्न भवति इत्यत आह - धञन्ते हीति ।।
स्थे च भाषायाम् ।। 6 - 3 - 20 ।।
आखरेष्ठ इति । स्थः क च इति कः ।।
षष्ठ्या आक्रोशे ।। 6 - 3 - 21 ।।
पश्यतोहर इति । षष्ठी चानादरे इति षष्ठी, पश्यन्तमनादृत्य हरतीत्यर्थः ।
शुनः शेप इति । आकारन्तोऽप्यस्ति शेपशब्दः न केवलं सकारान्तः । शुन इव शेपमस्येति बहुव्रीहिः । एवं पुच्छलाङ्‌गूलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ।।
ऋतो विद्यायोनिसम्बन्धेभ्यः ।। 6 - 3 - 23 ।।
विद्या च योनिश्च विद्यायोनी, अभ्यर्हितत्वाद्विद्यायाः पूर्वनिपातः, तत्कृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, कृतशब्दो गम्यमानत्वान्न प्रयुज्यते । पितुःपुत्र इति । प्रख्यातात्पितुरुत्पन्न इत्यर्थः ।
विद्यायोनिसम्बन्धेभ्यः पूर्वोत्तरपदग्रहणमिति । सूत्रे पञ्चमीनिर्देशात्पूर्वपदानामेव विद्यायोनिसम्बन्धवावित्वं लभ्यते, नोत्तरपदानाम् अथ सप्तमीनिर्देशः क्रियते । उत्तरपदानामेव लभ्यते, न पूर्वपदानाम् । तस्मादुभयेषामपि तद्वाचित्वेऽयं विधिरिति वक्तव्यमित्यर्थः । अन्यवृत्तिपरत्वाच्चास्य तेषां परस्परव्यतिकरेऽपि भवति - होतुः पुत्रः, पितुरन्तेवासीति ।।
आनङ्‌ ऋतो द्वन्द्वे ।। 6 - 3 - 25 ।।
अत्र यद्यृकारस्य द्वन्द्वे आनङ् भवतीत्यवं विज्ञायेत, पितृपितामहादप्याङ् स्यात् ऋतः ित्येतच्चानर्थकं प्रकृतत्वात्, तस्माद् द्वन्द्वविशेपणमृत इति । जातौ चेदमेकवचनमिति मन्यमान आह - ऋकारान्तानामित्यादि। इह कार्यार्थः श्रवणार्थो वा वर्णानामुपदेशः, नकारश्चायं न क्वचित् श्रूयते सर्वत्र नलोपः प्रातिपदिकान्तस्य इति नलोपेन भवितव्यम्, कार्यमपि चास्य न किञ्चिदुपदिश्यते, तस्मान्नार्थ एतेन इत्यत आह - नकारोञ्चारणमित्यादि । असति नकारे उः स्थानेऽणेव शिष्यते इति उरण् रपरः इति रपरत्वं स्यात्, तस्मिश्च न्यमणेव शिष्यते, किं तर्हि थअण् चान्यच्चेति, नास्ति रपरत्वप्रसङ्गः । तस्माद्रपरत्वनिवृत्त्यर्थं नकारोच्चारणम् । ङकारः ङिच्च इत्यन्त्यादेशार्थः । यत्र च निर्दिश्यमानं कार्यिणो विशेषणम्, तत्र निर्दिश्यमानस्यादेशा भवन्तीत्येतद्भवति, नात्र ऋतः इति कार्यिणो विशेषणम्, किं तर्हि द्वन्द्वस्य विशेषणम् । पुत्र इत्यत्रानुवर्तत इति । पुत्रेऽन्यतरस्याम् इत्यतः । यद्यत्र पुत्र थइति वर्तते, विभाषा स्वसृपत्योः इत्यत्रानुवर्तेत, ततश्च भ्रातुष्पुत्र इत्यादावनाक्रोशेऽपि विकल्पप्रसङ्गः एवं तर्हि व्याख्यानादत्रैव सम्बध्यते, अत एव ह्यत्रेत्युक्तम् । एवमपि पुत्र उत्तरपदे पूर्वपदमात्रस्यानङ् प्रप्नोति, कार्यिणोऽनिर्देशात्, ऋतः इति श्रुतस्य द्वन्द्वविशेषमत्वादत तआह - ऋत इति चेति । अनुवर्तते इत्युषङ्गः । ञतोविद्यायोनि इत्यतः ञतः इत्यनुवर्तते, तत्कार्यिणं विशेषयिष्यतीत्यर्थः । यद्यपि तत् पञ्चम्यन्तम्, तथापि तदिह व्याख्यानात्षष्ठ्यन्तं विपरिणम्यते ।।
देवताद्वन्द्वे च ।। 6 - 3 - 26 ।।
अनृकारन्तार्थमविद्यायोनिसम्बन्धार्थं वचनम्। द्वन्द्व इति वर्तमान इत्यादि । प्रकृतं द्वन्द्वग्रहणं
समासविशेषप्रतिपत्त्यर्थम्, इदं प्रसिद्धं साहचर्यं यस्य युगलस्य तत्परिग्रहर्थम् । कथं पुनर्न परिग्रहः तइत्यत आह अत्यन्तसहचारत इत्यादि । द्वन्द्वं रहस्यमर्यादा इत्यत्राभिव्यक्तिग्रहणेनात्यन्तसहचरितयुगले द्वन्द्व इति निपात्यते, तस्यात्र ग्रहणं देवतापदेन, समस्तं चेदम्प्रकृतस्य द्वन्द्वस्यार्थद्वारकं विशेषणम् - अत्यन्तसहचरितयुगलाभिधायिनि द्वन्द्व इति यावत् । साहचर्यमेव विशिनष्टि - तत्रेति । सहवापः - सहनिर्वापः । अग्नीषोमाभ्यां जुष्टं निर्वपामि इत्यादि । उभयत्रेति । पूर्वपत्वेनोत्तरपदत्वेनेत्यर्थः ।।
इद् वृद्धौ ।। 6 - 3 - 28 ।।
अत्र वृद्धिमदुत्तरपदं वृद्धिशब्देनोच्यते, वृद्ध्यात्मकस्योत्तरपदत्यासम्भवात् । अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्योति विग्रहः, पूर्वत्रेत्वम्, उत्तरत्रानङ् । द्व्यधिष्ठानं देवतात्वमिति । देवतेत्येकवचनम् । आनङमीत्वं च बाधितुमिति । वरुणे हीत्वस्य प्रसङ्गः, अन्यत्रानङः । यद्यपि प्राग् वृद्धेविग्रहवाक्य एवानङीत्वयोः प्रसङ्गः, तथाप्यपवादविषयत्वात्प्रक्रियावाक्ये न क्रियेते, लौकिके तु वाक्ये भवत एव ।
इद्‌वृद्धौ विष्णोः प्रितिषेधः - आग्नावैष्णवमेकादशकपालं निर्वपेत् ।।
दिवसश्च पृथिव्याम् ।। 6 - 3 - 30 ।।
दिवसः इति प्रथमान्तम् । अकारोच्चारणं किमर्थम्, यावता प्रयोजनाभावात्सकारस्येत्संज्ञा न भविष्यति तत्राह - अकारीञ्चारणमिति । असति तस्मिन् पृथिवीशब्दे परतः सकारस्य रुत्वम्, विसर्जनीयः, कुप्वोः - क - पौ च इत्येते विकाराः प्राप्नुवन्ति, अकारे सति सकारस्योच्चारणं भवति, तेन प्रयोगेऽस्याविकृतस्यैव ग्रहणं भवति ।
कथमित्यादि । द्वन्द्वे इत्यनुवृत्तेर्वाक्ये नैव प्राप्नोतीति प्रश्नः । कर्तव्यीऽत्र यत्न इति । छान्दसोऽयं प्रयोगः, दृष्टानुविधश्छन्दसि इत्येषोऽत्र यत्नः ।
उषासोषसः ।। 6 - 3 - 31 ।।
उषासानक्तेति । छान्दसोऽयं प्रयोगः । उषाश्च नक्तं चेति द्वन्द्वः, प्रथमाद्विवचनस्य डादेशः । अत्र पदकाले पदकाले पदकाराः - उषसानक्तेति ह्रस्वमधीयते ।।
 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ।। 6 - 3 - 34 ।।
अत्र त्रयः पक्षाः सम्भवन्ति - स्त्रिया इति स्रीप्रत्ययग्रहणम्, अर्थग्रहणम् शब्दग्रहणं चेति । तत्र यदि स्रीग्रहणं स्वर्यते, स्वरितेनादिकारावगतिर्भवतीति स्त्र्यधिकारविहिताष्टाबादयो गृह्यन्त, यथा - गोस्रियोरुपसर्जनस्य इत्यत्र तदा चायमर्थो भवति - भाषितपुंस्कात्परे टाबादिस्रीप्रत्यया यथा पुंसि न भवन्ति तथा उत्तरपदे न भवन्तीति । नन्वश्रुतक्रियापदेसु वाक्येषु भवतीत्यध्याहारोऽन्यत्र दृष्टः उच्यते वतिनिर्देशेषूपमाने सत्ता, असत्ता वा या प्रसिद्धा सोपमेयेऽतिदेश्या यथा - उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति ततः पुंसि स्रीप्रत्ययस्याभावात्स्रियामप्यभावोऽतिदिश्यत इति न भविष्यतित्येव वाक्यशेषः परिकल्पनीयः, तदा त्वनूङित्यनेन सामानाधिकरण्यात् स्रियाः इति प्रथमार्थे षष्ठी, पुंवदिति सप्तमीसमर्थाद्वतिः । तत्र च प्रगेव समासाद्विग्रद्दवाक्य एव स्रीप्रत्ययस्य कृतत्वान्न तस्योत्तरपदे परतः न क्रोडादिबह्वचः इतिवत् प्रगभावः शक्यः प्रतिपादयितुमिति लुक् तद्धितलुकि इत्यादिवत्कृतस्य निवृत्तिरेव प्रतिपाद्या । विग्रहवाक्य एव कृताः स्रीप्रत्यया उत्तरपदे परतो निवर्तन्ते, लुप्यन्त इत्यर्थः ।
यदा तु पुंवत् स्रीत्वयुक्तं द्रव्यं स्रीशब्देनोच्यते, तदार्थग्रहणं भवति, स्रियाः स्त्र्यर्थस्य पुंस इति पुमर्थस्येवल कार्यं भवतीत्यर्थः । तदा च षष्ठीसमार्थाद्वतिः । यदा तु स्त्र्यर्थवाची शब्दः स्रीशब्देनोच्यते तदा शब्दग्रहणम्, स्रियाः - स्रीलिङ्गस्य शब्दस्य पुंवद् रुपं भवतीति रुपतिदेशः, वृत्तिविषये पुंशब्दसम्बन्धिनः कार्यस्यातिदेष्टव्यस्याभावात् । तत्र च प्रत्त्यासत्तेः पुंभावभाजः स्रीशब्दस्य प्रयोगान्तरे पुमांसमाचक्षाणस्य यद्रूपं तदेवातिदिश्यते, न यस्य कस्यचित् ।
अनूङ् इति षष्ठ्यर्थे प्रथमा, तत्रार्थग्रहणे स्रीशब्दे मुख्यः । अर्थस्य तूत्तरपदेन पौर्वापर्यमनूङः, तत्त्वं च स्वतोऽनुपन्नमिति शब्दद्वारकमाश्रयणीयम् । इत्रयोस्तु पक्षयोः स्त्रीशब्दो गौणः । पौर्वापर्यादिकं तु समञ्चसमिति न प्रमाणतः पक्षविशेषपरिग्रहः सम्भवतीति निर्दोषतः पक्षः परिग्रह्यः ।
तत्राद्ये पक्षे एतभार्य इत्येतशब्दाद् वर्णादनुदात्तात् इति ङीपि तकारस्य च नकारे एकदेशाविकृतस्यानन्यत्वादेतशब्दाद्भाषितपुंस्कात्पर ईकार इति तन्निवृत्तावप्यर्थस्य स्त्रीत्वमनिवृत्तमिति नकारः श्रूयेत । न च सन्नियोगशिष्टत्वादीकारनिवृत्तौ नकारस्य निव़त्तिः, उत्तरपदनिमित्तायाः स्त्रीप्रत्ययनिवृत्तेर्नकारनिवृत्त्याख्ये पूर्वविधौ स्थानिकद्भावे सत्यन्यतराभावस्यासिद्धेः । न च नकारस्यापि अदिकारविहितत्वादिकारवत्पुंवद्भावेनैव निवृत्तिः तस्य भाषितपुंस्कात्परत्वाभावात्, अप्रत्ययत्वेनोङ्‌सादृश्याभावाच्च । तथा पठ्‌वी भार्यास्य पटुवी भार्यास्य पटुभार्य इति निवृत्तस्यापि स्रीप्रत्ययस्य स्थानिवद्भावाद्यणादेशः स्यात् ।
अथ तूत्तरपदे परतोऽनूङ् स्त्रीप्रत्ययो भाषितपुंस्कान्न भवतीति न क्रोडादिबह्णचः इतिवत् प्रागभाव एवात्र विधेयः तत्सामर्थ्याच्च विग्रहवाक्य तएव प्राप्तोऽन्तारङ्गोऽपि स्त्रीप्रत्ययो न क्रियते इत्युच्येत तदैतद्दोषाभावेऽपि लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययेषु दोषः । लुक् - वतण्डस्यापत्यं स्त्री वतण्‍डाच्च लुक् स्त्रियाम्, शार्ङ्गरवादिपाठान्ङीन्, वतण्डी चासौवृन्दारिका च वातण्ड्यवृन्दारिकेति पुंवत् कर्मधारय िति इकारस्य निवृत्तावपि अर्थगतस्य स्त्रीत्वस्यानिवृत्तत्वात् लुक् स्त्रियमा इति यञो लुक्प्राप्नोति । स्यादेतत् - स्त्री - ई स्त्रीति ईकारप्रश्लेषेण स्त्रियां य ईकारस्तत्र परतो लोपः, अत्र तु पुंवद्भावेनेकारस्यानुत्पन्नत्वाल्लुङ् न भविष्यतीति तन्न, इत्रेतराश्रयप्रसङ्गात् । कथम् शार्ङ्गरवादिषु वतण्डशब्दः कृतयञ्लुक् पठ्यते, ततश्चाकृते लुकि ईकारो नास्ति, अकृते चेकारे लुकोऽप्रसङ्गः । अलुक् - गर्गस्यापत्यं स्त्रियः, गर्गादिभ्यो यञ् यञश्च इति ङीप् , गार्ग्यश्च ता वृन्दारिकाश्त गर्गवृन्दारिका इति ङीपि निवृत्तेऽपि स्त्रीत्वस्यानिवृत्तत्वाद् यञञोश्च स्त्रियामिति लुग्न प्राप्नोति, वाक्यवदलुगेव स्यात् । अस्त्रीविषयः - कुञ्जस्यापत्यं स्त्री गोत्रे कुञ्जादिभ्यश्चफञ्, गोत्रं च चरणैः सह िति जातित्वान् ङीष्, कौञ्जायनी चासौ वृन्दारिका च कौञ्जायनवृन्दारिकाः ङीषि निवृत्तेऽपि स्त्रीत्वस्यानिवृत्तेः व्रातच्फञोरस्त्रियाम् इत्यस्त्रीविषयो न स्यात् । द्विस्त्रीप्रत्ययः - गर्गस्यापत्यं स्त्री गर्गादिभ्यो यञ्, प्राचां ष्फ तद्धितः, षिल्लक्षणो ङीष्, गार्ग्यायणी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ यत्र द्वौ स्त्रीप्रत्ययौ तत्र यो भाषितपुंस्कात्परः ष्फो नासावुत्तरपदे, ङीषा व्यावधानात्। यश्चोत्तरपदे ङीष् नासौ भाषितपुंस्कात्परः, ष्फेण व्यवधानात्, तस्य च स्त्रियामेव विहितत्वात् इति पुंवद्भाव एव न स्यात् । तथा इडविडोऽपत्यं स्त्री जनपदशब्दात्क्षत्त्रियादञ् दरदोऽपत्यं स्त्री द्व्यञ्मगध इत्यण्, तयोः अतश्च इति लुक् - इडवॢडदरत्, स चासौ वृन्दारिका च ऐडवॢवृन्दारिका - अत्र पुंवद्भावो न स्यात् अधिकारविहितस्य कस्यचित्प्रत्यस्याभावात् ।
द्वितीये तु पक्षेऽर्थस्य पुमर्थत्वेऽतिदिष्टे तद्वाची शब्दः प्रवर्तत इति नैते दोषाः, किन्तु खित्यनव्ययस्य इति ह्रस्वत्वस्यास्य पुंवद्भावस्य विप्रतिषेधो नोपपद्यते भन्नविषयत्वात् । अचो ह्रस्वत्वमर्थस्य पुंवद्भावः, ततः कालिम्मन्येत्यत्र विप्रतिषेधे परम् इतिह्रस्वत्वमिष्टम्, तन्न प्रप्नोति । शब्दपक्षे तु द्वयोरप्येकविषयत्वाद्विप्रतिषेधोऽस्ति, पुंवद्भावस्यावकाशः, यत्र खिदन्तं नास्ति - दर्घनीयभार्यः, ह्रस्वत्वस्यावकारशो यत्र पुंवद्भावो नास्ति - कालिम्मन्यः पुमानिति कालिम्मन्या स्त्रीत्यत्रोभयप्रसङ्गे परत्वाद् ह्रस्वत्वं भवति । न च कृतेऽपि ह्रस्वत्वे पुनः प्रसङ्गविज्ञानात्पुंवद्भावप्रसङ्गः, सकृद्‌गतिन्यायस्याश्रयणात् । न चार्थपक्षेऽप्यसत्यप्येकविषयत्वेऽसम्भवाद्विप्रतिषेधः, असम्भवादित्यस्यैवासिद्धेः । यद्यपि हि पुंवद्भावे सति स्त्रीप्रत्ययस्य निवृत्तौ दीर्घान्तत्वाभावाद् ह्रस्वस्याप्रवृत्तिः, तथापि ह्रस्वे प्रवृत्तेऽप्यर्थस्यानिवृत्तत्वात्पुंवद्भावः प्राप्नोत्येव ।
तदेवमाद्ययोर्दुष्टत्वात्तृतीयं पक्ष्माश्रित्याह - भाषितः पुमान्येनेत्यादि । भाषितः पुमान्येन शब्देनेति शब्देऽन्यपदार्थे बहुव्रीहिराश्रीयते, ततः स्त्रियां पुंसि च वर्तमानस्य यस्य प्रवृत्तिनिमित्तं भिद्यते, तस्यापि प्राप्नोति - द्रोणीभार्यः, पात्रीभार्य इति । द्रोणशब्दः परिमाणे पुंल्लिङ्गः, पात्रशब्दोऽर्द्धर्चादित्वात्परिमाणे पुंल्लिङ्गः, भाजनविशेषे तु स्त्रीलिङ्गः, सर्वत्राप्यत्र प्रवृत्तिनिमित्तभेदेऽपि य एव प्रयोगान्तरे पुमांसमाख्यत्, स एव सम्प्रति स्त्रियां वर्तत इति स्यादेव पुंवद्भाव इति मत्वा विशिनष्टि - समानायामाकृताविति । भाष्यग्रहन्थोऽयम्, अतो व्याचष्टे - एकस्मिन्प्रवृत्तिनिमित्त इति । स भाषितपुंस्कः
शब्दः, अयं तावदर्थो विवक्षित इत्यर्थः । यथा पुनरयमर्थः सूत्राक्षरैरेव लभ्यते, तथा पृच्छति - तदेतदेवमित्यादि । तदेतदर्थरुपम् एवम्प्रकारं कथं भवतीत्यर्थः । प्रवृत्तिनिमित्तलक्षणेऽन्यपदार्थे सप्तम्यर्थे बहुव्रीहिरित्युत्तरम् । एतदुक्तं भवति - यस्मिन्पिरवृत्तिनिमित्ते पुमान् भाषितः पुमासमाचक्षाणस्य यत्प्रवृत्तिनिमित्तं तेन युक्तं स्त्र्यर्थमाच्क्षाणो भाषितपुंस्क इति ।
नन्वेवमपि द्रोणीभार्य इत्यादौ दोषः स्यदेव, कथम् यस्यां गवादन्यां द्रोणीशब्दो वर्तते, सोऽपि यदा अर्थ इत्युच्यते तदा भाषितपुंस्केन प्रवृत्तिनिमित्तेन युज्यते, तत्र चार्थं शब्दप्रवृत्तिनिमित्तमप्यर्थ्यमानत्वाद् गवादन्यां सन्निहितमिति तत्र वर्तमानो द्रोतथणीशब्दः स्वयं तत्प्रवृत्तिनिमित्तमनभिदधानोऽपि वस्तुतस्तद्युक्तमर्थमाह नैतदस्ति, एवं हि भाषितपुंस्कग्रहणमनर्थकं स्यात् सर्वत्र सुलभत्वात् । अतो यः शब्दो भाषितपुंसकेन प्रवृत्तिनिमित्तेन युक्तं स्वार्थं तेनैव रुपेणाह, न रुपान्तरेण, स भाषितपुंस्को गृह्यते । द्रोणीशब्दस्तु द्रोणीत्वजातियुक्तेन रुपेण गवादन्यां वर्तते, नार्थ्यमानतया ।
एवमपि द्यौर्भार्या यस्य द्युभार्य इत्यत्र दिव्यशब्दस्य स्त्रीलिङ्स्य स्वर्ग इति पुंल्लिङ्गः प्राप्नोति, येनैव रुपेण स्वर्गशब्देनोच्यते, तेनैव रुपेण दिव्शब्देनापीति कृत्वा एवं तर्हि प्रत्त्यासत्तेर्यंस्य पुंवद्भावो विधीयते, तेनैव यत्र पुमान् भाषित इति विज्ञायते, आत्मनः प्रयोगान्तरे पुमांसमाचक्षाणस्य यत्प्रवृत्तिनिमित्तं तद्युक्तं स्त्र्यर्थम्, सम्प्रत्याचक्षाणस्य स्त्रीशब्दस्य पुम्भाषणदशायां यद्रू पं तदेवाद्यापि भावतीत्यर्थः । आतिदेशिकभेदाच्च पुंवदिति वतिनिर्देशः ।
अनूङिति पर्युदासे सति नञिवयुक्तन्यायेन ऊङ्‌सदृशस्य टाबादेर्ग्रहणादैडविडवृन्दारिकेत्यादौ स्त्रीप्रत्ययाभावान्न स्यादिति प्रसज्यप्रतिषेधं दर्शयति - ऊङोऽभावोऽनूङिति । भाषितपुंस्कादनूङिति । यद्ययमसमासः स्यात् - अनूङिति, तदा प्रथमा स्यात्, लुप्तषष्ठीकं वा । षष्ठीपक्षेऽयमर्थो भवति - भाषितपुंस्कात्परस्य स्त्रीशब्दस्येव रुपं भवति, ऊङन्तस्य तु नेति । ततश्च पुंवद्भावभाजः स्त्रीशब्दस्य भाषितपुंस्कत्वं विशेषणं न स्यात्, तत्र को दोषः इह च प्रसज्येत - अङ्गारका नाम शकुनयः तेषां कालिकाः स्त्रियः तत एताः कालिकावृन्दारिका इति । एतच्छब्दाद्भाषितपुंस्कात्परः कालिकाशब्द इति तस्य स्त्रीविषयस्याप्यङ्गारकशब्दता स्यात्। शक्यन्ते हि ताः साहचर्यादङ्गारकशब्देनाभिधातुम् । तथा अश्वस्य वडवा, पुरुषस्य योषित्, हंसस्य वरटा, कच्छपस्य डुलीत्यादावपि प्रसङ्गः । दर्शनीयभार्य इत्यादौ च न स्यात्, न ह्यत्र दर्शनीयशब्दो भाषितपुंस्कात्परः । प्रथमायां तु भाषितपुंस्कादित्यनेन सामानाधिकरण्यात्स्त्रिया इति पञ्चमी षष्ठ्यां कस्यचिदर्थस्यासम्भवात् । ततश्च भाषितपुंस्कात् स्त्रीलिङ्गात्पर ऊङोऽन्यः प्रत्ययः पुंवदित्यर्थो भवति, तत्र स एव दोषो यः प्रथमपक्षे । तदेवं समासे देषप्रसङ्गाद्व्यधिकारणपदो बहुव्रीहिराश्रयणीय इत्याह - भाषितपुस्कादनूङित्यादि । आलुक्च निपातनात्पञ्चम्या इति । अलौकिकत्वादस्य निपातनादित्यपरिहारः । लुगपि तर्हि न प्राप्नोति अलौकिकत्वादेवेति यत्किञ्चदेतत् । अनूङ्‌ इइति षष्ठ्यरथे प्रथमा, तदायमर्थेऽवस्थितः - भाषितपुस्कात्स्वस्मादूङोऽभावो यस्मिन् । कोऽर्थः यस्मिन् स्त्रीशब्दे भाषिपुंस्कात्पर उङ्‌न कृत इत्यर्थ तइति । अपर आह - भाषितपुंस्कादिति षष्ठ्यर्थे पञ्चमी, सर्वमन्यत्पूर्ववत् । भाषितपुंस्कस्य स्त्रीशब्दस्य पुंशब्दस्येव रुपं भवति,
ऊङन्तस्य तु नेति ।
नन्वेवमाश्रीयमाणे यत्र भाषितपुस्कस्यैवानन्तरमुत्तरपदं तत्रैव स्यात् दर्शनीयबा्य इत्यादौ, अत्र हि भाषितपुंस्कस्य दर्शनीयशब्दस्य टापश्चैकादेशः पूर्वं प्रत्यन्तवद्भावाद्भाषितपुंस्कग्रहणेन गृह्यते, गार्गी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ न स्यात्, योऽत्र भाषितपुंस्को गार्ग्यशब्दो न तस्यानन्तरमुत्तरपदम् ङीपा व्यवधानात् । यस्य चानन्तरं गार्गीशब्दस्य नासौ भाषितपुंस्कः स्यादेतदेवम्, प्रयोगान्तरे भाषितपुंस्कस्य सम्प्रति स्त्रियां वर्तमानस्य पुंवद्भाव उच्येत । स्त्रियां वर्तमानस्य तदैव भाषितपुंस्कस्य पुंवद्भावं ब्रूमः, सम्भवति च स्त्रीयां वर्तमानस्य तदैव भाषितपुंस्कत्वं भाषितपुंस्केन प्रवृत्तिनिमित्तेन युक्तां स्त्रियमाहेति कृत्वा । एवं च स्त्रीशब्दस्यैवान्तर उत्तरपदे पुंवद्भाव इति सर्वत्र सिध्यति ।
ग्रामणि दृष्टिरस्येति । अत्र ग्रामणिशब्दोऽपरित्यक्तस्वलिङ्ग तएव दृष्टिशब्देन समानाधिकरणो भवति
। अत्र यदि पुंवद्भावः स्यान्नपुंसकह्रस्वत्वं निवर्तेतः
कथमित्यादि । अनवयवभूतगर्भसम्बन्धः स्त्रियां गर्भिणीशब्दस्य प्रवृत्तिनिमित्तम्, पुंसि त्ववयवभूतगर्भसम्बन्धः । प्रसूत - प्रजातशब्दयोरपि स्त्रियां गर्भमोचननिमित्तम, पुंसितुगर्भाधानम् । कर्तव्योऽत्र यत्न इति । अन्तर्वर्तिवस्तुसम्बन्धमात्रं गर्भिणीशब्दस्य प्रवृत्तिनिमित्तमवयवत्वानवयवत्वेन तन्त्रम् । एवं प्रसूतप्रजातशब्दयोरपि आधानविमोचनत्यागेनापत्यसम्बन्धमात्रं निमित्तमाश्रीयत इत्ययमत्र यत्नः ।
ब्रह्मबन्धूभार्य इति । ऊङो निवृत्तिर्न भवति । न कोपधायाः इत्यत्रैवोङ्‌ग्रहणे कर्तव्ये पृथक्प्रतिषेधादस्य वैलत्रण्यं ज्ञयते । तेन ब्रह्मबन्धूवृन्दरिकेति पुंवत्कर्मधारय इति निषेधविपये विधीयमानोऽपि पुंवद्भावो न भवति । एष चार्थोऽनूङित्यस्य तत्रानुवृत्तेर्लभ्यते । अपूरणीप्रियादिष्वित्ययं तु प्रतिषेधस्तत्रैव कर्तव्यः, न ह्यस्य पुंवत्कर्मधारय इत्यत्रानुवृत्तिरिष्यते महानवमी, महाद्वादशी, अक्षयतृतीया, कृष्णचतुर्दसीत्यादौ पूरण्यामपि कर्मधारये पुंवद्भावस्येष्टत्वात् ।
प्रधानपूरणीग्रहणं कर्तव्यमिति । प्रधानं या पूरणी तस्यामेव प्रतिषेधो भवतीति वक्तव्यमित्यर्थः । एवच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते । कल्याणपञ्चमीकः पक्ष इति । अत्र तिरोहितावयवभेदः पक्षोऽन्यपदार्थ इति तत्र पूरण्या अननुप्रवेशान्नास्ति प्राधान्यम्, कल्याणपञ्चमा रात्रय इत्यादावुद्‌भूतावयवभेदा रात्रमोऽन्यपदार्थः, तत्र यथा रात्रयः समासाभिधेया, एवं पञ्चम्यपीति पूरण्याः प्राधान्यम् ।
अथ दृढभक्तिः, शोभनभक्तिरित्यत्र कथं पुंवद्भावः, यावता प्रियादिषु भक्तिशब्दः पठ्यते अत आह - दृढभक्तिरित्येवमादिष्विति । स्त्रीवाचित्वं पूर्वपदस्याविवक्षितम्, अतो दृढभक्तिरित्येवमादिसिद्धिरित्येवं चोद्यसमाधानं कर्तव्यमित्यर्थः । दृढशब्दोऽत्र दार्ढ्यनिवृत्तिपरः, तत्र दार्ढ्यनिवृत्तिपरायां चोदनायां स्त्रीलिङ्गोपादानमकिञ्चित्करमिति भावः । न चैवं सूत्रस्यानादरणीयत्वम्, लिङ्गविशेषविवक्षायां दर्शनीयभार्य इत्याद्यनिष्टप्रसङ्गात् । अथेह कथं भवितव्यम् - पट्‌वीमृद्व्यौ भार्ये अस्येति, पट्‌वीमृदुभार्य इति भवितव्यम् यस्योत्तरपदमनन्तरं तस्य पुंवद्भावो नेतरस्येति ।।
तसिलादिष्वाकृत्वसुचः ।। 6 - 3 - 35 ।।
अनुत्तरपदार्थमासम्भः । ततस्तत्रेति । प्राग्दिशो विभक्तिः इति विभक्तित्वात्त्यदाद्यत्वम्, टाप्, अनेन पुंवद्भावः ।
इह केचित्तसिलादिषु पठ्यन्ते, येषु पुंवद्भावो नेष्यते, केचिच्चान्यत्र पठ्यन्ते, येषु पुंवद्भाव इष्यते, तस्मादाह - परिगणनमिति । त्रतसोरुदाहृतम् । तरप्तमपो दर्शनीयतरा, दर्शनीयतमा । चरट्‌जातीयरोः पटुचरी, पटुजीतीया । कल्पदेशीयरोः - दर्शनीयकल्पा, दर्शनीयदेशीया । देश्यप्रत्ययस्य नास्ति पाठः । रुपप्पाशपोः दर्शनीयरुपा, पटुपाशा । थम्थालोः - इदमस्थमुः, किमश्च इति विहितस्थमुः, प्रकारवचने थाल् अनया प्रकृत्या इत्थम्, कया प्रकृत्या कथम्, तया तथा । दार्हिलोः - तस्यां वेलायां तदा, तर्हि । तिल्थ्यनोः - वृकज्येष्टाभ्यां तिल्तातिलौ चच्छन्दसि, वृकी प्रशस्ता वृकतिः । तातिलो नासिति पाठः । अजाविभ्यां थ्यन् अजायै हिता अजथ्या । अत्र घरुपकल्पेषु ङ्यन्तस्य परत्वात् ह्रस्वः - पटिवतमा, पटिवकल्पा, पटिवरुपा ।
शसि बहूल्पार्थस्येति । बह्‌वल्पार्थात् इत्ययमपि शस् तसिलादिषु द्रष्टव्य इत्यर्थः ।
ङास्तिकमिति । यद्यत्र पुंवद्भावो न स्यत्, तदा हस्तिनीशब्दस्य यस्तेतिलोपे कृते तस्य स्थानिवत्त्वाद् असिद्धवदत्राभात् इत्यसिद्धत्वाच्च नस्तद्धिते इति टिलोपो न स्यादिति पुंबद्भावो विधीयते । ठक्छसोश्च इत्येनन पुंपद्भावो न लभ्यते छसा सहचरितस्य ठको ग्रहणात् । श्यैनेयः, रोहिणेय इति । श्येतरोहिताभ्याम् वर्णादनुदात्तात् इति । ङीब्नकारौ । अत्र पुंवद्भावे सति - श्यैतेयः, रौहितेय इति स्यात् ।
कथमित्यादि । यदि ढे पुंवद्भावः प्रतिषिध्यते, ततोऽग्नेः स्री वृषाकप्यग्निकुसितकुसिदानामुदात्तः इति अग्निशब्दान् ङीपि कृते ऐकारे आयादेशे च अग्नायी, स देवतास्य अग्नेर्ढक् इति, सर्वत्राग्निकलिभ्यां ढक् इति ढकि पुंवद्भावनिपेधादाग्नायेय इति प्राप्नोति, तत्कथमाग्नेय इति कर्तव्योऽत्र यत्न इति । केचिदाहुः - अढे इत्यपनीयानपत्य इति वक्तव्यम् । इदमपि सिद्धं भवति - कुण्डिन्या अपत्यमिति गर्गादिभ्यो यञ्, तत्र पुंवद्भावाभावाद्यस्येति लोपे तस्य स्थानिवद्भावात् नस्तद्धिते इत्यसति टिलोपे कौण्डिन्य इति भवति,
पुंवद्भावे तु सति कौण्ड्य इति प्राप्नोति । तथा सपत्न्या अपत्यं शिवादित्वादण्, तत्र पुंवद्भावाभावात् सापत्न इति भवति, पुंवद्भावे तु सति नित्यं सपत्न्यादिषु इति विहितयोर्ङीब्नकारयोनिवृत्तयोः सापत इति स्यात् । तदेवम्, अनपत्ये इति वचनाद् ढेऽप्यनपत्ये पुंवद्भवति स आग्नेय इति । अपत्ये तु न भवति - श्यैनेयः, रौहिणेय इति । यद्यनपत्य इत्युच्यते, गर्गस्यापत्यं स्त्री गार्ग्यायणी, तस्या अपत्यम् गोत्रस्रियाः कुत्सने ण च इति णप्रत्यये कृते पुंवद्भावो न प्राप्नोति, ततश्च गार्ग्ययणो जाल्म इति स्यात्, गार्ग्यो जाल्म इति चेष्यते, तस्मादनपत्य इति न शक्यं वक्तुम्। कथं कौण्डिन्यः आगस्त्यकौण्डिन्ययोः इति निपातनात् सिद्धम् । कथं सापत्नः शत्रुपर्यायः सपत्नशब्दोऽस्तिः व्यन्सपत्ने इति लिङ्गात् । स शार्ङ्गरवादिषु पठितव्यः, ततः शिवाद्यण्, तस्मात् स्त्रीभ्योढक् इत्यत्रैव पुंवद्भावप्रतिषेध इति व्याख्यानमेवात्र शरणम् ।
ठक्‌छसोरिति । छसः सित्त्वात् सिति च इति पदसंज्ञाविधानाद्भत्वाभावाद् वचनम्, ठग्रहणं किमर्थम्, इकादेशे कृते भस्याढे इत्येव सिद्धे ठावस्थायामेव यथा स्यात् किमेवं सति भवति इसुसुक्तान्तात्कः इति कादेशाः सिद्धो भवति अन्यथा यदीकादेशे कृते पुंवद्भावः स्यात्, ततो यथा माथितिक इत्यत्रेकादेशे कृते कादेशो न भवति, एवं भावत्क इत्यत्रापि न स्यात् ।।
क्यङ्‌मानिनोश्च ।। 6 - 3 - 36 ।।
अयमस्याः, इयमस्या इति वैयधिकरण्यप्रदर्शनार्थमिदमुक्तम् । पूर्वणेव सिद्धमिति । एकस्या एव कर्मत्वात्कर्तृत्वाच्च सामानाधिकरण्यस्याभावात् ।।
न कोपधाया ।। 6 - 3 - 37 ।।
मद्रेषु भवा मद्रिका, वृजिका, मद्रवृज्योः कन् । वैलेपिकमिति । अण्महिष्यादिभ्यः, अत्र भास्याढे तद्धिते
इति ह्यौपसंख्यानिकी प्राप्तिः प्रतिषिद्ध्यते । पूर्वेषु तु सौत्री । तद्धितवुयग्रहणमिति । तद्धितस्य यः ककारः वोश्च यः ककारः तस्येति वक्तव्यमित्यर्थः । पाकभार्य इति । पाकशब्दः प्रथमवयोवाची, ततो ङीबपवादोऽजादित्वाट्टाप् ।।
संज्ञापूरण्योश्च ।। 6 - 3 - 38 ।।
संज्ञाशब्दा ये दानादिक्रियानिभित्ताः पुंसि च स्त्रियां च लोके प्रयुज्यन्ते तदर्थः संज्ञाप्रतिषेधः । ये त्वेकद्रव्यनिमित्ता देशनिमित्ता वा संज्ञाशब्दास्तत्राभाषितपुंस्कत्वादेवाप्रसङ्गः । दत्तायते, गुप्तायते इति । अत्र यद्यपि सत्यसति वा प्रतिषेधे विषेषाभावः, तथापि वस्तुतः प्रतिषेधस्यच विषय इत्येतावताऽस्योपन्यासः ।।
वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ।। 6 - 3 - 39 ।।
वृद्धेनिमित्तं णकारः । इह निमित्तग्रहणं न कर्तव्यम्, वृद्धेस्तद्धितस्य इत्येव वक्तव्यम् - वृद्धेर्यस्तद्धितः, कश्च वृद्धेस्तद्धितः यस्तस्या निमित्तमेवं सिद्धे निमित्तग्रहणाद्व्यधिकरणपदो बहुव्रीहिः । अपर आह - षष्ठीसमासादर्शआद्यच्प्रत्यय इति । यद्वा - निमित्तग्रहणाद्वहुवचनान्तस्य समासः वृद्धीनां तिसृणामपि निमित्तं वृद्धिनिमित्तमिति । वतुस्त्वाकारस्यैव निमित्तम् । इह तु सर्वस्मै हिता सार्वा सा भार्या यस्य स सार्वभार्य इति यद्यपि सर्वपुरुषाभ्याम् इति णप्रत्यये आकार एव वृद्धिर्भवति, तथापि नासौ स्वरुपेण वृद्धेर्निमित्तम्, किं तर्हि णित्त्वेन । तच्च तिसृणामपि निमित्तम् ।
मध्ये भवा मध्यमा, तमध्यान्मः । काण्डं लुगातीति काण्डलावी, कर्मण्यण् टिट्ञाणञ् इति ङीप् , यत्तदेतेभ्यः परिमाणे वतुप् आ सर्वनाम्नः अगितश्चं ङप्, तावती । तत्पुरषाश्रयणेऽस्यापि प्रतिषेघः स्यात्, बहुव्रीहौ तु णकारदेरभावान् न भवति । काषायीति । तेन रक्तं रागात् इत्यण् । लौहीति । प्राणिरजतादिभ्योऽञ् । खदिरशब्दः पलाशादिः ईषा - रथावयवविशेषः ।।
स्वाङ्गञ्चेतोऽमानिनि ।। 6 - 3 - 40 ।।
स्वाङ्गाच्चेतोऽमानिनि ।। अमानिनीति वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम् । स्वाङ्गाच्चोपसर्जनात् इति ङीष्, दीर्घकेशी ।
सहनञ्विद्यमानपूर्वाच्च इति प्रतिषेधादकेशा ।।
जातेश्च ।। 6 - 3 - 41 ।।
कठबहूवृचयोः गौत्रं च चरणौः सह इति जातित्वान् ङीष् ।
अयमित्यादि । व्याख्यानमत्र शरणम् ।।
पुंवत् कर्मधारयजातीयदेशीयेषु ।। 6 - 3 - 42 ।।
ननु कर्मधारये स्त्रियाः पुंवत् इत्यादिना सिद्धः पुंवद्भावः जातीयदेशीययोरपि तसिलादिष्विति, किमर्थोऽयमारम्भः इत्यत आह - प्रतिषिद्धार्थोऽयमिति । प्रतिषिद्धोऽपि पुंवद्भावो यथा स्यादित्येवमर्थमित्यर्थः । प्रतिषेधार्थोऽयमिति पाठे प्रतिषेधाविषयः प्रतिषेधशब्देनोक्तः । निवृत्तिवचनो वार्थशब्दः ।
कुक्कुट्यादीनामित्यादि । अस्त्र्यर्थेमसमानाधिकरणार्थं वचनम् । न वेत्यादि । उपसंख्यानं प्रत्याचष्टे । न वा वक्तव्यम्, किं कारणम् स्त्रीपूर्वपदस्याविवक्षितत्वात् । नात्र स्त्रीत्वावसायः आरभ्यमाणेऽपि पुंवद्भावे समाश्रयणीयः, अनारम्भऽपि तथा भविष्यति । यदि तर्हि स्त्रीलिङ्गेन समासो न भविष्यति । यद्यपि तावदत्रैतच्छक्यते वक्तुम्, इह तु कथं मृग्या क्षीरं मृगक्षीरमिति, नहि पुंसः क्षीरेण सम्बन्धोऽस्ति अत्रापि जात्यन्तरनिवृत्तिपरत्वाच्चोदनायाः स्त्रीत्वमाकिञ्चित्करत्वादविवक्षितम् । यत्र तु लिङ्ग, विशेष उपकारकस्तत्रासौ विवक्षित एव यथा - अडामूत्रेण पर्युक्षितं दातव्यमिति । पूर्वपदार्थोऽत्र जातिरिति । कुक्कुटाण्डाजौ पूर्वपदार्थो जातिः स च समामान्येन स्त्रीत्वादिविशेषरहितेन रुपेण विवक्षित इत्यर्थः ।
खिद्‌घादिष्विति । तत्र खिति विप्रतिषेधः स्त्रियाः पुंवत् इत्यत्रैवोदाहृतः । घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरुपा, नर्तकिकल्पा, यत्र पुंवद्भावः प्रतिषिध्यते न कोपधायाः इति - तसिलादिष्विति । पुंद्भावस्यावकाशः यद् ङ्यन्तं न भवति - दर्शनीयतरेत्यादि । पट्वितरेत्यादावुभयप्रसङ्गे विप्रतिषेधः । केऽणो ह्रस्वो भवतीत्यावकाशः - नर्तकिका, पुंवद्भावस्यावकारः - दरदोऽपत्यं स्त्री, द्व्यञ्मगध इत्यण्, तस्य अतश्च लुक्, ततः प्रागिवात्कः, तसिलादिष्विति पुंवद्भावाद्दारदशब्दः, प्रत्ययस्थात् इतीत्वं दारिदिका । ननु च परिगणितास्तसिलादयः न च कप्रत्ययस्तेषु समस्ति एवं तर्हि विप्रतिषेधादेव कप्रत्ययोऽपि तत्राभ्युपगम्यत इति अनुमीयते, पट्‌विका मृट्‌विकेत्यादावुभयप्रसङ्गे परत्वाद् ह्रस्वः, सर्वत्र चात्र सकृदित्याश्रयणाद् पुंवद्भावाभावः ।
अनूङिति यदुक्तं तस्य प्रयोजनं दर्शयति - इहेत्यादि । तद्राजप्रत्ययस्येति । ये द्व्यचस्तेषु द्व्यञ्मगध इत्यण्, शेषेषु जनपदशब्दात् इत्यञ् , पृथ तइति थकारान्तः ।।
घरुपकल्पचेलड्‌ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ।। 6 - 3 - 43 ।।
चेलादीनां वृत्ति विषये कुत्सनवचनत्वात्तैः कुसितानि कुत्सनैः इति समासः । ङ्य इत्यत्र ई्याश्छन्दसि बहुलम् इत्यादिवदागमः प्राप्तः, सौत्रत्वान्न कृतः ।।
दत्तातरेति । ननु च स्वाङ्गाच्चेतः इत्यतः ईतः इत्यनुवर्तिष्यते । एवमपि प्रामणीतरः - अत्रापि प्राप्नोति स्त्रियामिति वर्तते । एवमपि प्रमणीतरा - अत्रापि प्राप्नोति स्त्रियाम इति वर्तते, स्त्रीया ईतः स्त्रीवाचिन ईकार स्येत्यर्थः, ग्रामणीशब्दे त्वनर्थक ईकारः । शेषप्रवऌप्त्यर्थं तर्हि ङीब्ग्रहणम्, क्रियमाणे हि ङीब्ग्रहणे ङ्योऽनेकाचः इति श्रुतत्वात्तदपेक्षः शेषो लभ्यते - अङीब् या नदी ङ्यन्तं च यदेकाजिति । अन्तरणापि ङीब्ग्रहणं प्रवलृप्तः शेषः, कथम् ईत इति वर्तते, अनीच्च या नदी ईदन्तं च यदेकाजिति । तदेतन्ङीग्रहणं तिष्ठतु तावत् ।।
नद्याः शेषस्यान्यतस्याम् ।। 6 - 3 - 44 ।।
भाषितपुंस्कादनूङ् इति निवृत्तम् । कश्च शेष इति । यदि च यत्र पूर्वसूत्रेण ह्रस्वो न विवत्रितः स शेषः, ततो यदभाषितपुंस्कम्, यच्च भिन्नायामाकृतौ भाषितपुस्कमनेकाज ङ्यन्तं तस्यापि ह्रस्वत्वं प्रसज्यते - आमलकीतरा, द्रीणीतरेति । अत्रापि पूर्वेण विहितत्वादिति प्रश्नः । पूर्वसूत्रे यत्साक्षात् श्रुतं तदपेक्षः शेष इत्युत्तरम् ।
शेषग्रहणं शक्यमकर्तुम्। कथम् नद्या अन्यतरस्यां ह्रस्व इत्युत्सर्गः, तस्यानेकाच ईतो नित्यह्रस्वत्वमपवादः, तस्मिन्नित्ये प्राप्ते उगितश्च इति विभाषाऽऽरभ्यते । यद्येवम्, नद्या अन्यतरस्याम् इत्यत्र भाषितपुंस्कादित्यनुवर्त्त्यते, द्रोणीतरा - तअत्रापि प्राप्नोती, तस्मात्कर्तव्यं शेषग्रहणम् । तस्मिश्च क्रियमाणे
श्रुतापेक्षं शेषत्वं यथा विज्ञायेतेति पूर्वसूत्रे ङीग्रहणमपि कर्त्तव्यम् ।
लक्ष्मीत्रेति । अवितॄस्त़तन्विभ्य ईः लक्षेर्मुट् च इतीकारप्रत्ययान्तो लक्ष्मीशब्द इति कृन्नद्यन्तो भवति । स तर्हि प्रतिषेधो वक्तव्यः न वक्तव्यः कथम् स्त्रिया इत्युनुवर्तते, तेन नदीं विशेषयिष्यामः स्त्रिया नद्या इति न च कुन्नदी स्त्रीवाचिनी । नदीसंज्ञाऽपि तर्हि न प्राप्नोति उक्तोऽत्र परिहारो नदीसंज्ञाप्रकरणे ।।
उगितश्च ।। 6 - 3 - 45 ।।
पुंवद्भावोऽप्यत्र पत्रे वक्तव्य इति । भाष्ये नैतद् दृष्टम् । प्रकर्षयोगात्प्रागित्यादिना वक्तव्यं प्रत्याचष्टे । विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम्। न चेह प्रकणयोगात्प्राक्स्त्रीत्वविवक्षायां स्त्रीप्रत्यय इति मन्यते ।।
आन्महतः समानाधिकरणजातीययोः ।। 6 - 3 - 46 ।।
महतः पुत्रो महत्पुत्र इति । ननु चात्र आन्महतः इत्येतावानेव योगः कर्तव्यः, ततः जातीये च इति द्वितीयः, तत्र पूर्वस्मिन् योगे उत्तरपदेन समासः सन्निधाप्यते, स च लक्षणप्रतिपदोक्तपरिभाषाया सन्महत् इत्यादिना तयो विहितः स एव ग्रहीष्यते, स च समानापरिभाषया सन्महत् इत्यादिना यो विहितः स एव ग्रहीष्यते, स च समानाधिकरण एवेति अनर्थकं समानाधिकरणग्रहणग्रहणम्, तदेतदाशङ्कते तावत् - लक्षणोक्तत्वादिति । निराकरोति - बहुव्रीहावपीति । तदर्थमिति । बहुव्रीहावपि यथा स्यादित्यवमर्थमित्यर्थः । लक्षणप्रतिपदेक्तपरिभाषाया निवृत्त्यर्थमिति वा ।
इह आमहान् महान्सम्पन्नो महद्भूतश्चन्द्रमा इति महच्छब्दो भूतशब्दश्तैकस्मिन्नर्थे चन्दर्मसि वर्तेते इति सामानाधिकरण्यादात्त्वं प्राप्नोति । स्यादेतत् - अभूततद्भावे च्विर्विधीयते, अभूततद्भावश्च कः कारणस्य विकारत्मनाऽभूतस्य तदात्मना भावः, तत्र प्रकृतिः कर्त्री, न विकृतिः, तथा च - सङघीभवन्ति ब्राह्मणाः, पटीभवन्ति तन्तवः, अत्वं त्वं सम्पद्यते त्वद्भवतीति प्रकृत्याश्रयेण बहुवचनप्रथमपुरुषौ दृश्येते, न विकृत्वाश्रयेणैकवचनमध्यमपुरुषौ, ततश्च भूत इति क्तप्रत्ययो भवन् क्रियायाः कर्तर्यमहत्युत्पन्नः, न तु विकारे महति ततः किम् आमहतो भूतेन सामानाधिकरण्यम्, न तु महतः न ह्यवस्थावत एकत्वेऽप्यवस्थयोः सामानाधिकरण्यं सम्भवति, नहि भवति बालश्चासौ स्थविरश्चेति, भवति तु बालश्चासौ देवदत्तश्चेति, अतो वैयधिकरण्यादात्त्वाभाव इति । यद्येवम्, अमहती महती सम्पन्ना ब्राह्मणी महद्भूता ब्राह्मणीति पुंवद्भावोऽपि न स्याद्वैयधिकरण्यादेव यथा प्रकृतेः कर्तृत्वं दृष्टं तथा विकृतेरपि दृश्यते । तथा च पस्पशायां भाष्यम् - सुवर्णपिण्डः खदिराङ्गारवर्णे कुण्डले भवति इति । तथा क्लृपि सम्पद्यमाने चतुर्थी वक्तव्या इति सम्पद्यकर्तरि विधीयमाना चतुर्थी विकाराद्भवति - मूत्राय कल्पते यवागूरिति, न प्रकृतेः । तथा असङ्घो ब्राह्मणसङ्घो भवति, अपटस्तन्तवः पटो भवतीति विकाराश्रयं वचनं दृश्यते तत्र यदि विकृतेः कर्तृत्वमाश्रित्य सामानाधिकरण्याश्रयः पुंवद्भावो विधीयेत, आत्त्वमपि स्यात् । अथ प्रकृतेः कर्तृत्वाद्वैयधिकरण्यादात्त्वं न स्यात्, पुंवद्भावोऽपि न स्यात् उच्यते, दर्शितं तावदिदं यथा च्विविषये द्वयोरपि प्रकृतिविकृत्योः कर्तृत्वमिति । युक्तं चैतत्, यदि विकृतेः कर्तृत्वमाश्रित्य प्रत्ययः । यदा चैकोऽर्थः प्रकृतिविकारात्मक आश्रीयते, तदा परिणामव्यवहारः । उक्तं च - जहद्धर्मान्तरं पूर्वमुपाद्त्ते यदा परम् । तत्त्वादप्रच्युतो धमी परिणाम सः उच्यते ।। इति । यदा त्वन्यतरव्यवस्था न विवक्ष्यते, तदा च्वरभावः - तन्तवो भवन्ति, पटो भवतीति, तज्ञ योऽयं पूर्वकं धर्मं जहदुत्तरं चोपाददत्सम्मृछितोऽर्थः सञ्जायमानः सम्पद्यकर्तेति चोच्यते, तदभेदाच्च पूर्वोत्तरावस्थयोरपि कर्तृत्वम्, अत एतदपि निरस्तम्। असत्या उत्तरावस्थाया उत्पत्तौ शशविषाणमप्युत्पद्येत, सत्याश्च पूर्ववस्थाया उत्पत्तौ सर्व एव पटादयः सर्वदोत्पद्यमाना एव भवेयुरिति । कथं निरस्तम् किं सदुत्पद्यतं, किञ्चासत् पूर्वोत्तरयोरवस्थयोरनुवर्तमानं वस्तु तस्मान्न भिन्नेन नाप्यभिन्नेन केनचिद्रूपेणोत्पद्यते, यथा - मृद्वस्तु धटरुपेण । यद्येवम्, पूर्ववस्थया किमपराद्धम्, यत्सैव नोत्पद्यते न किञ्चिदपराद्धम्, असती तु सा कथं कर्त्रो स्यात् । विनष्टायां हि तस्यामुत्तरवस्थोत्पद्यते, यथा घटः पिण्डावस्थायाम् । अतो दृद्वग्त्वेव तेव तेव पिण्डादिरुपेण परिणमत इति युक्तम् । एवमामूलप्रकृतितः । सा तु प्रकृत्यन्तरनिरपेक्षैव तेन तेन पृथिव्यादिरुपेण परिणमत इति । तदेवं स्थितमेतत् सम्मूर्च्छितोऽर्थात्मा सम्पद्यकर्ता, तदभेदाच्च पूर्वोत्तरावस्थयोरपि कर्तृत्वमिति । उक्तं च - पूर्वावस्थामभिजहत्संस्पृशन् धर्ममुत्तरम् । सम्मूर्छित इवार्थात्मा
जायमानोऽभिधीयते ।। इति ।
तदेवं सति च्व्यर्थे वाक्ये क्वचित्प्रकृतेरेव कर्तृत्वम्, च्व्यन्तस्य गतित्वाद्, गतीनां च क्रियाविशेषणत्वादन्यद्धि भनम्, अन्यद्धि सङ्घीभवनम् तत्र केवले भवने सङ्घः कर्ता, सङ्घीभवने तु ब्राह्मणः । यथा - व्याकरणस्य सूत्रं करोतीति सत्रं तद्विशेषणम्, व्याकरणं सत्रयतीत्यत्र विशिष्टकरोतेर्व्याकरणं कर्म तद्वदत्रापि । तत्र मद्दद्भतश्चन्द्रमा इति च्व्यन्तोऽयं महच्छब्दौ भूतशब्दस्य प्रवृत्तिनिमित्ते भवने पर्यवस्यति । भूतशब्दस्तु महत्त्वेनासंस्पृष्टश्चन्द्रमाः स्वरुपे वर्तत इति वैयधिकरण्यादात्त्वाभावः । महद्भूता ब्राह्मणीत्यत्र तु मृगक्षीरादिवत्स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम् । यत्र तु स्त्रीत्वं विवक्षितम्, न भवत्येव तत्र पुंवद्भावः -- अगौमती गोमती सम्पन्न गोमतीभूता ब्राह्मणीति ।
वृत्तिकाग्स्तु विकृतेः कर्तृत्वाश्रयेण सामानाधिकरण्य सत्यपि परिहारमाह गीणत्वान्महपर्थस्येति । गोणमुख्ययोहि मुख्ये सम्प्रत्ययो भवति, तद्यथा - गौरनुबन्ध्याऽजोऽग्नीपोमीय इति न वाहीकोऽनुबध्यते, स्वशास्त्रेऽपि स्वरुपम् इत्यत्र रुपग्रहणेन ज्ञापितरुपवदर्थोऽपि तन्त्रमिति मुख्यार्थस्य महच्छभ्दस्चात्र ग्रहणाद् गौणर्थस्यात्त्वाभावः । च्व्यन्तेषु हि एकस्य वस्तुनः प्रकृतिविकारात्मकतया द्व्यात्मकत्वं गम्यते । पटीभवन्तीति ह्युक्ते प्रागपटः सम्प्रति पटात्मना परिणमत इति प्रतीयते । पटो भवतीत्युक्ते नैवं प्रतीयते, किन्तु पटो रक्तादिरुपेण भवतीत्यपि गम्यते । तत्र केवलविकारावस्थावाचकस्य पठशब्दस्य प्रागवस्थायामनुगतावस्थायां च वृत्तिर्न लक्षणामन्तरेणोपपद्यते ।
अपर आह महत्त्वेन परिणामोन्मुखेऽमहति महच्छब्दस्य वृत्तिः । अत्र च प्रमाणम् - पटो भवतीति वाक्ये रक्तादिरुपेण भवतीत्यपि गम्यते, पटीभवतीत्यत्रापटः पटो भवतीत्येव गम्यते । एवमर्थे प्रवृत्तिरुपचारमन्तरेण नोपपद्यते इति गौणार्थत्वादात्त्वाभाव थइति मन्तव्यम् । यदि तर्हि पुंवद्भावस्तु विशेषमनुपादाय विधीयमानो गौणार्थस्यापि भवति, शब्दविशेषोपादाने हि गौणमुख्यन्यायः एवं तु गोमतीभूतत्यत्र तु पुंवद्भावनिवृत्तये यतितव्यम् । यदि तहि शास्तत्रेषु मुख्यार्थस्य ग्रहथण्, कथं तर्हि वाहीक् वृद्ध्यात्वे भवतः - गौर्वाहीकः, गां वाहीकमिति उच्यते पदस्य पदान्तरसम्बन्धे सति गौणार्थत्वाभिव्यक्तिः विभक्त्यन्तं च पदान्तरेण सम्बध्यते, ततश्च पदस्य पदान्तरसम्बन्धे सति यत्कार्थं प्राप्तं सत्रैवसौ न्यायः , न प्रतिपदिककार्येष्वति मुख्य एव स्वार्थे सास्नादिमति वृद्ध्यात्वे अनुभूय गोशब्दो वाहीके वर्तिष्यते । इह तु महच्छब्दस्योत्तरपदे परतो विधीयमानमात्त्वं तस्यामवस्थायां मुख्यार्थस्यैव भवितुमर्हति । अनेनैव न्यायेन च तस्य गौशब्दस्य गौऽभवदित्यत्र ओत् इति प्रगृह्यसंज्ञा न भवति, अग्निसोमौ माणवकारवित्यत्र अग्नेः स्तुत्स्तोमसोमाः इति षत्वं न भवति, ईदग्नेः थइतीत्त्वं च ।
महदात्त्व इत्यादि । समुच्चये चशब्दः, नान्वाचये । तेव यत्रैव पुंवद्भावस्तत्रैवात्त्वम् । अष्टाकपालमिति । अष्टसु कपालेषु संस्कृतमिति तद्धितार्थे समासः, संस्कृतं भक्षाः इत्यण्, तस्य द्विगोः इति लुक् । अष्टकपालमिति । समाहारे द्विगुः । पात्रादित्वात् स्त्रीत्वाभावः ।
अष्टागवेनेति । अष्टौ गावो युक्ता अस्मिन्निति त्रिपदो बहुव्रीहिः, पूर्वयोर्द्वयोरुत्तरपदे द्विगौ गोरतद्धितलुकि इति टच्समासान्तः । तत्र दीर्घत्वेन युक्तार्थसम्प्रत्ययाद्युक्तशब्दस्य निवृत्तिः । समाहारद्विगोर्वा साहचर्यादभेदौपचाराद्युक्तार्थे वृत्तिः ।
कषकरणं विस्पष्टार्थमिति । न भिन्नकालानां निवृत्त्यर्थम्, अनण्त्वात्, नापि गुणभिन्नानां तत्कालानां ग्रहणम् अभदकत्वाद् गुणानाम् । आनङ्प्रकरण एवास्मिन्वक्तव्येऽत्र आत् इति वचनं योगविभागार्थम् । तेनाष्टाकपालदावात्त्‌वसिद्धिः । एवं चैकादशेऽन्यत्राप्यात्त्वं भवति, तथा च प्रागेकादशभ्योऽच्छन्दसि इति प्रयोगः ।।
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ।। 6 - 3 - 47 ।।
अत्र संख्यातानुदेशो न भवति । यदि स्याद्, अष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयर्थ्यम् । प्रतिषिद्धेऽप्यात्त्वे सवर्णदीर्घत्वेन भवितव्यम् । द्वादश, द्वाविशतिरित्यादौ समाहारे द्वन्द्वः । स नपुंसक्म् इत्येत्त्ु न भवति लोकाश्रयत्वाल्लिङ्गस्य ।
द्वित्रा इति । द्वौ वा त्रयो वेति वार्थे संख्ययाव्ययासन्न इति समासः, बहुव्रीहौ संख्येये डच् । द्विर्दश द्विदशाः । सुजर्थे समासः ।।
त्रेस्त्रयः ।। 6 - 3 - 48 ।।
सन्धिवेलादिषु त्रयोदशशब्दस्य पाठात्सकारन्तोऽयमादेशः ।।
विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ।। 6 - 3 - 49 ।।
सर्वेषाग्रहणमित्यादि । असति हि तस्मिन् अनन्तरस्य त्रेस्त्रयः इत्यस्यैव विकल्पः स्यात् ।।
हृदस्य हृल्लेखयदण्लासेषु ।। 6 - 3 - 50 ।।
अणन्तस्य ग्रहणमिष्यत इति । व्याख्यानात् । अत्र व्यावर्त्यं दर्शयति - घञि त्विति । यदा चाणन्तस्य ग्रहणं न धञन्तस्य, तदा लेखग्रहणस्य ज्ञापकत्वमुपद्यते ।।
वा शोकष्यञ्रोगेषु ।। 6 - 3 - 51 ।।
हृदयशब्देनेत्यादि । यदुक्ततं तन्नानुमन्यन्ते, अत एव विकल्पविधानात्, पद्दन्नोमास्हृत् इत्यत्र हृददेशविधानाच्च ।।
पादस्य पदज्यातिगोपहतेषु ।। 6 - 3 - 52 ।।
आकारान्तोऽयमादेशोऽविभक्तिकः । अज्यतिभ्यामिति । अज गतिक्षेपथणयोः, अत सातत्यगमने । पदग इति । डप्रकरणेऽन्यत्रापि दृश्यते इति डः । अपदेश एवेति । समसनक्रियानन्तरमेव प्रागेव समासस्य प्राप्तस्वरादित्यर्थः । अन्तोदात्तो निपात्यत इति । अन्यथाऽऽन्तर्यत आद्युदात्तः स्यात् । तेनेत्यादिना अन्तोदात्तनिपातनस्य प्रयोजनमाह । पदाजिरित्यादिनोपदेशग्रहणस्य । यदि वृत्स्वरे कृते सत्युत्तरकाले पदशब्दोऽन्तोदात्त आदेशः स्यात्, तदा सतिशिष्टत्वात्तेन कृत्स्वरो बाध्येत । उपदेश एव त्वान्तोदात्तादेशे कृत्वस्वर एव सतिशिष्टो भवति । न चान्तोदात्तनिपात्नस्य वैयर्थ्यम, पदोपहत इत्यत्र श्रूसमाणत्वादिति पिण्डार्थः ।।
पद्यत्यतदर्थे ।। 6 - 3 - 53 ।।
इके चरताविति । चरत्यर्थे इक् प्रत्ययः कृत्प्रत्ययस्तत्रेत्यर्थः । एतद्वार्त्तिकादर्शनात्पर्पादिषु पादः पच्च इति पठितम् ।
शरीरावयवस्येति । व्याख्यानमत्र शरणम् । अपर आह - पूर्वज्ञ तावच्छरीरावयवस्य ग्रहणम्, तस्यैवाज्यादिषु करणत्वसम्भवता् इहापि स एवानुवर्तते । ऋचः शे इत्यत्र ऋग्विषये शरिरावयवस्यासम्भवाच्छतुर्थभागवचनस्य ग्रहणमिति । तेनेत्यादि । पणपादमाषशतात् इत्यत्र हि परिमाणवचनैः पणादिभिः साहचर्यात्परिमाणस्य ग्रहणम्, न शरीरावयवस्य । द्विपाद्यमिति । तेन क्रीतम् इत्यत्रार्थे यत्प्रत्ययः । इदमप्यत्र शक्यं वक्तुम् - पादेन यद्विशेष्यते, पादस्य यो यत्, कश्च पादस्य यत् यस्ततो
विहितः, द्विपाद्यमित्यत्र तु पादशब्दान्ताद् द्विगोर्यद्विहित इति ।।
हिमकाषिहतिषु च ।। 6 - 3 - 54 ।।
पादस्य हिमं शीतं पद्धिमम् । पादौ कषन्तीति पत्काषिणः - पादचारिणः । सुप्यजातौ इति णिनिः । पादाभ्यां हन्यत इति पद्धतिः ।।
ऋचः शे ।। 6 - 3 - 55 ।।
शे इति शस्प्रत्ययस्येदमेकदेशानुकरणम्, अन्यस्य शशब्दस्या सम्भवात् । ननु च सम्भवत्ययम्, पादे शेते अधिकरणे शेतेः इत्यच् पादश इति । नास्त्यस्य सम्भवः, न हि ऋक्पादे कश्चिच्छेते । यच्च लोमादिभ्यः
शः, तस्याप्यसम्भव तएव लोमादिषु पादशब्दस्याभावात् ।।
वा घोषमिश्रशब्देषु ।। 6 - 3 - 56 ।।
पन्निष्क इति । निष्कशब्दः सुवर्णजातिवचनः, पादशब्दः परिमाणवचनः, कर्मधारयः समासः ।।
उदकस्योदः संज्ञायाम् ।। 6 - 3 - 57 ।।
उदमेघ इति । षष्ठीसमासः, सादृश्यात्पुरुषस्य संज्ञा, पितुरप्रसिद्धत्वात्पुत्रेण व्यपदेशः। उदकं वहतीति
कर्मण्यण् - उदवाहः ।
क्षीरोद इति बहुव्रीहिः । अत्र केचिदाहुः - उदकशब्देन समानार्थ उदशब्दोऽस्ति, तथा च संज्ञायामपि प्रयुज्यते - अप्रसन्नोद इति । इदं वचनं संज्ञायामुदकशब्दस्य प्रयोगनिवृत्त्यर्थमिति । एवं तु वक्ष्यमाणो विकल्पोऽनर्थकः स्यात् ।।
पेषंवासवाहनधिषु च ।। 6 - 3 - 58 ।।
असंज्ञार्यमिदम् । उदधिरिति । कर्मण्यधिकरणे च च इति किप्रत्ययः । घटादिरत्रोदधिः, समुद्रे पूर्वेणैव सिद्धेः ।।
एकहलादौ पूरयितव्येऽन्यतरस्याम् ।। 6 - 3 - 59 ।।
एकोऽसहाय इति । यद्ययमेकशब्दः संख्यावचनः स्यात्, तर्ह्येकेत्यनर्थकं स्यात्, न हि द्वौ च बहवौ वा आदिभूताः क्वचित्सम्भवन्ति, तस्मादसहायवचन एकशब्दः । नन्वेवमप्यस्य व्यावर्त्त्य न सम्भवति, कथम् एकैकवर्णवशवर्तित्वाद्वाचः, यदि ह्यनेकस्य वर्णस्य युगपदुच्चारणं स्यात्त्दा स्थालीशब्दोऽनेकहलादिः, यदि वा क्रमेणोच्चारिता अपि वर्णा अवतिष्ठेरन्, तदापि युगापद्वर्णयोरुपलम्भादादित्वं स्यात्, यत्स्तु नोञ्चारणे युगपदुलब्धौ वा वर्णानां यौगपद्यम्, तस्मादेकस्यैवादित्वमिति न किञ्चिदेकग्रहणेन शक्यं व्यवच्छेत्तुम् एवं तर्ह्येकग्रहणसामर्थ्याद्विशिष्टमसहायत्वामाश्रीयते । किं पुनस्तत् आनन्तर्यम् । तदेतदाह - तुल्यजातीयेनानन्तरेणेति । हल्ल्वेन तुल्यजातीयत्वेन तुल्यास्थानादिभिर्भिन्नजातीय् व्यवहिते च सद्दायत्वाप्रसिद्धरेवमुक्तम् ।।
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ।। 6 - 3 - 60 ।।
द्रवद्रव्यसंयुक्ताः सक्तवः - मन्थः । उदकेन मन्थ इति । तृतीयेति योगविभागात्समासः । अथ प्रथ्यत इति क्रियाशब्दः, तदा कर्तृकरणे कृता बहुलम् इत् समासः, सक्त्वौदनाभ्याम् अन्नेन व्यञ्चनम् इति, बिन्दुवज्रवीवधैः षष्ठीति भारहारगाहैः कर्मण्यणन्तैः उपपदमतिङ् इति समासः, उदकस्य वज्रं क्रूरम्, यदपां क्रूरमिति दर्शनात् । अन्येऽपि यथासम्भवं समासा भवन्त्येव उदकं वज्रमिव भिन्दानो दृदयमसाहिनोदवज्रः ।।
इको ह्रस्वोऽङ्यो गालवस्य ।। 6 - 3 - 61 ।।
ग्रामणिपुत्र इति । सत्सूद्विष इत्यादिना क्विप्, अग्रग्रमाभ्यान्नयतेः इति णत्वम् । गार्गीपुत्र इति । गार्ग्यशब्दाद् यञश्च इति ङीप् यस्येति च, हलस्तद्धितस्य ।
कारीषगन्धीपुत्र इति । ष्यङः संप्रसारणम् संप्रसारथणस्यः इति दीर्घः । काण्डीभूतमिति । ऊर्यादिज्विडाश्च इति निपातसंज्ञायामव्ययत्वम् । स्त्रीवेषधारी नर्तकः पुस्षः भ्रुकुंसः ।
इहालाबुकर्कन्धुजम्बुफलमिति फलशब्द उत्तरपदे जम्ब्वा ह्रस्वत्वम्, द्वन्द्वे जम्ब्वामुत्तरपदे कर्कन्ध्वा ह्रस्वत्वम्, अलाब्वास्तु न प्राप्नोति, कर्कन्ध्व अनुत्तरपदत्वात् एवं तर्ह्येवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च अलाबुकर्कन्धवौ, ते च जम्बूश्च अलाबुकर्कन्धुजम्ब्वः, तासां फलमलाबुकर्कन्धुजम्बुफलमिति, एवमपि जम्ब्वाः पूर्वनिपातः प्राप्नोति । एवं कर्कन्धुजम्ब्वोरपि द्वन्द्वे द्रष्टव्यम् । जम्बुशब्दो जम्बुशब्दो राजदन्तादिषु द्रष्टव्यः ।।
एक तद्धिते च ।। 6 - 3 - 62 ।।
एक इत्यविभक्तिको निर्देशः, समानाधिकरणे हि स्त्रियाः पुंवद्भावेनैव सिद्धत्वात् । व्यधिकरणार्थमिदम् । एकत्वमिति । असहायादिवचनोऽयमेकशब्दः । संख्यावचनस्य तु त्वतलोर्गुणवचनस्य इति पुंवद्भावेनैव सिद्धम् । किं पुनः कारणं स्त्रीलिङ्ग एवोदाह्रियते, न पुनर्यथाश्रुतः पुंल्लिङ्गो नपुंसकलिङ्गो वेति तत्राह - लिङ्गविशिष्टस्यति । स्त्रीलिङ्गस्यैव ह्रस्वविधानमर्थवद् भवति, नेतरस्य, तस्य स्वत एव ह्रस्वान्तत्वात् । ननु चारस्तु स्वत एवान्तो ह्रस्वः, यस्तवसावादिरेकारः, तदर्थमितरस्यापि ग्रहणमर्थवत् अत आह - अचेति । स्यादेतदेवम्, यदि गृह्यमाणेनैकशब्देन अचश्च इत्युपस्थापितोऽज्विशेष्येत - एकशब्दस्य योऽच् यत्र कुत्र स्थित इति, इह तूपस्थापितेनाचा गृह्यमाण एकशब्दो विशेष्यते एकस्य ह्रस्वो भवति । किंविशिष्टस्य अचः अजन्तस्येति । तत्र अलोन्त्यस्य इत्यन्त्यस्य ह्रस्वेन भाव्यम्, तच्च टाबन्तस्यैवार्थवत्, नेतरस्य । इतिकरणो
हेतौ ।।
ङ्यापोः संज्ञाछन्दसोर्बहुलम् ।। 6 - 3 - 63 ।।
बहुलग्रहणात्कवचिटुत्तरपदेऽपि भवति - अनुगायन्ति नयो गभिणय इति । एवं कृत्वा फाल्गुनीपौर्णमासीति प्रत्युदादाहरणोपपत्तिः, कर्मधारये पुंवद्भावः प्राप्नोति ।
ऊर्णम्रदा इति । ऊर्णावन् म्रदीयसीति यावत्, छान्दस ईयसीशब्दस्यारारः । तैतिरीयास्तु दीर्घमधीयते - ऊर्णाम्रदसं चास्तृणामीति ।।
इष्टकेषीकामालानां चिततूलभारिषु ।। 6 - 3 - 65 ।।
इष्टकचितमिति । कर्तृकरणे कृता बहुलम् इति समासः । इषीकतूलमिति । षष्ठीसमासः । मालाम्बिभर्तीते मालभारिणी, सुप्यजातौ इति णिनिः । प्रायेण तु हरतिमधीयते, प्रयोगस्तु बिभर्तेः, गाल्लिका मालभारिण्य इति ।
इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवतीति । यथा तु भवति, तथा अलुक्प्रकरण एवोक्तम् ।।
खित्यनव्ययस्य ।। 6 - 3 - 66 ।।
इकह ह्रस्वश्रुत्या अचः इत्युपस्थाप्यते । तत्र यदि पूर्वपदेनाज्विशेष्येत पूर्वपदस्याचो ह्रस्वो भवति यत्र स्थितस्येति, ततो वाड्मन्य इत्यादावपि प्राप्नोति, तस्मादचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । तत्र कालिम्मन्येत्यादावपि मुमि कृतेऽजन्तत्वाभावाद् ह्रस्वाभाव इत्यत तआह - मुमा ह्रस्वो न बाध्यत इति । कुतः इत्यत आह - अन्यथा हीति । उच्यते चेदम् - अजन्तस्य ह्रस्व इति, यदि पूर्वं मुम् स्याद्वचनमिदमनर्थकं स्यात् । तस्मान्मुमा ह्रस्वो न बाध्यते । कथं पुनर्मुमा ह्रस्वबाधः शाङ्कितः, यावता स्तनन्धयादौ चरितार्थस्य मुमः कालिम्मन्यत्यादौ ह्रस्वेनैव बाधः शङ्कनीयः तस्मादयमस्यार्थः - यथा पूर्वं मुमा ह्रस्वो न बाध्यते, तथा सूत्रस्यार्थो वर्णनीयः - अजन्तस्य ह्रस्वो विधेयः, न तु पूर्वपदसम्बन्धिनोऽचो ह्रस्व इति । तस्मिन्पक्षे मुमि कृतेऽपि ह्रस्वप्रवृत्तिसम्भवादनवकाशत्वाभावात् मुमि कृते पश्चाद्‌ध्रस्वः स्यात्, पूर्वं तु मुमा बाध्येतेति । यत्पुनरुक्कम् - मुम एव ह्रस्वेन बाधः शङ्कनीय इति अत्र परिहारमुत्तरसूत्रे वक्ष्यति ।
कथं पुनरत्र खिदन्तस्य ग्रहणम्, यावता ज्ञापितमेतदुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवति तत्राह - अन्वययस्येत्येतदेवेति । धातोरेव खितो विधानान्नाव्ययात्परः खित्प्रत्ययः सम्भवति । तस्मादव्ययप्रतिषेधादत्र तदान्तग्रहणमित्यर्थः ।।
अरुर्द्विषदजन्तस्य मुम् ।। 6 - 3 - 67 ।।
अरुन्तुद इति । विध्वरुषोस्तुदः इति खश्, तुदादित्वाच्छः, सकारात्पूर्वं मुमि कृते सकारस्य संयोगान्तलोपः । द्विषन्तप इति । द्विषत्परयोस्तापे इति खच्, खचि ह्रस्वः, मुमादि पूर्ववत् । विद्वन्मन्य इति । वसुस्रंसुध्वंसु इति दत्वम्, यरोऽनुनासिकेऽनुनासिको वा ।
अन्तग्रहणमनर्थकम्, वर्णग्रहणे सर्वत्र तदन्तविधेर्भावादित्यत आह अन्तग्रहणमित्यादि । समीपवचनोऽन्तशब्दः, अच्चासावन्तश्चेति अजन्तः, निपातनाद्विशेषणस्य परनिपातः । कः पुनरसौ पूर्वसूत्रे विहितो ह्रस्वः, तेन पूर्वपदस्य तदन्तविधिः एतदुक्तं भवति - योऽयमस्य सूत्रस्य समीपभूतो यः पूर्वसूत्रे विहितो ह्रस्वस्तदन्तस्य मुम् इति, यतो ह्रस्वे कृते मुम् भवतीति । एतेनैदपि निरस्तम् - मुम एव ह्रस्वेन बाधप्रसङ्ग इति । कथं तन्निमित्तकत्वान्मुमः ह्रस्वनिमित्तको ह्येष मुम् भवति । यद्येवम्, स्तन्धयादौ यत्र ह्रस्वो न क्रियते तत्र मुम् न प्राप्नोति किं पुनः कारणमत्र ह्रस्वो न क्रियते प्रयोजनाभावात् । अस्ति प्रयोजनम्, किम् मुम् यथा स्यादिति । इदानीमेव ह्युक्तम् - ह्रस्वनिमित्तको मुमिति ।।
इच इकाचोऽम्प्रत्ययवच्च ।। 6 - 3 - 68 ।।
अमागमो भवतीति । कथमस्यागमत्वम् मित्त्वात् । यद्येवम्, मकार इत्संज्ञकः प्रयोगे श्रवणं न प्राप्नोति - श्रियम्मन्यः, भ्रुवम्मन्य इति नैवास्य मकारस्य श्रवणम्, किं तर्हि मुमः । ननु च नाप्राप्ते मुम्यारभ्यमाणोऽयमागमस्तं बाधेत न बाधेत उक्तं तत्र -अन्तग्रहणं कृताजन्तकार्यप्रतिपत्त्यर्थमिति, तेनास्मिन्नपि प्रकृते भविष्यति । वयन्तु ब्रूमः - नेवायमित्संज्ञको मकारः, अम्प्रत्ययवद्भावेन न विभक्तौ तुस्माः इति
प्रतिषधात् । यद्यवम्, आदेशः प्राप्नोति अम्प्रत्ययवद्भावात्परो भविष्यति । आगमव्यपदेशास्तु यौगिकः समीप आगच्छतीति, यथा न य्वाभ्यां पदान्ताभ्याम् इत्यत्रैचः । द्वितीयोऽपि वा मकारः संयोगान्तलोपेन लुप्तनिर्दिष्टो द्रष्टव्यः ।
यद्यत्र प्रत्ययवच्चेत्येतावदुच्येत गाम्मन्य इत्यत्र औतोऽम्शसोः इत्याकारो न स्यात्, शसा सहचरितस्यामस्तत्र ग्रहणात् । इह च स्त्रीम्मन्य इति अमि पूर्वः इति पूर्वरुपं न स्यात् प्रथमयोः इति तत्रानुवृत्तेः । इह च नरम्मन्य इति ऋतो ङिसर्वनामस्थानयोः इति गुणो न स्यात् सामान्यतिदेशे विशेषानतिदेशात् । यत्र हि सामान्यशब्देनातिदेशस्तत्र विषेषाणामशब्दार्थत्वात्सामान्यनिबन्धनमेव कार्यं प्राप्यते यथा - ब्राह्मणवदस्मिन् क्षत्त्रिये वर्तितव्यमिति ब्राह्मणमात्रप्रयुक्तं कार्यमतिदिश्यते, न माठरादिर्विशेषप्रयुक्तम्, तद्वदत्रापि प्रत्ययमात्रप्रयुक्तयोरियङुवङोरेवातिदेशः स्यत्, न त्वाकारदेरिति मत्वाऽऽह - अम् प्रत्ययवच्चेचि । एतदेव विवृणोति - द्वितीयैकवचनवच्चेति । ननु चात्रैकमम्ग्रहणं यदि तेनागमो निर्दिष्टः प्रत्ययो न विशेषितः स्यात् अथ प्रत्ययो विशेष्यते, आगमो न निर्दिष्टः स्यात् इत्यत आह - अमिति हीत्यादि । नन्वत्रापि पक्षे अम्प्रत्ययप्रयुक्तयोरात्वपूर्वत्वयोरेवातिदेशः स्यात्, न गुणस्य सर्वनामस्थानमात्रनिमित्तस्य, नतरामियङुवङोः प्रत्ययमात्रनिमित्तयोः स्यादेतदेवम्, यद्यमित्येतदाहत्य विहितं तस्यैवातिदेशः स्यात् । वयं तु - आमि यद् दृष्टं सामान्यनिबन्धनं विशेषनबन्धनं वा तत्सर्वमतिदिशामः ।
त्वङ्मन्य इति । अत्र त्वचंमन्य इति प्राप्नोति, येषामेको मकारः प्रत्ययवद्भावात्त्ु परोऽयमिति पक्षः । येषामपि द्वितीयस्तेषामचः परोऽम् प्राप्नोति, येषां त्वित्संज्ञको मकारस्तेषामक्षापि को दोष इति चिन्त्यम् । नन्वज्ग्रहणानुवृत्तेरेवात्र न भविष्यति, उपसमस्तस्य पृथगनुवृत्तिर्दुर्ज्ञानेति मन्यते । लेखाभ्रुमन्य इति । पूर्ववद् ह्रस्वत्वं मुमागमश्च ।
अथहेत्यादि । भाष्ये अथेह कथमित्यारभ्यश्रिमन्यमितिभवितव्यमिति स्थितम्, स्थापितमित्यर्थः । तेन भिन्नकर्तृकत्वं नाशङ्कनीयम् । ननु च स्त्रीलिङ्गः श्रीशब्दस्तत्कथं श्रिमन्यमिति रुपमित्याशङ्क्योपपादयति - तच्चेदमिति । अर्थान्तरे हि वर्तमानाः शब्दाः केचित्स्वलिङ्गत्यागेन वर्तन्ते, यथा - यष्ट्यादयः शब्दाः पुंयोगात्स्त्रियां वर्तमानाः यष्टी, प्रचरी, गणिकेति । केचित्तु स्वलिङ्गोपादानेन यष्टीः पुरुषान् प्रवेशयेति । तत्रेह प्रथमा विधा भाष्यकारस्याभिप्रेता, तेन स्वमोर्नपुंसकात् इत्यमोलुकि कृते श्रिमन्यमिति भवति । यद्येवम्, सुपो धातुप्रातिपदिकयोः इत्यस्यापि लुकोऽतिदेशः प्राप्नोति, तस्याप्यमि दृष्टत्वात्, अथाम्विधानसामर्थ्यदस्य लुको नातिदेशः, खमोर्नपुंसकात् तित्यस्यापि न स्यात् उच्यते, येन नाप्राप्ते इति वा, मध्येऽपवादाः इति वा सुपो धातुप्रतिपदिकयोः इत्यस्यैव लुको विधानसामर्थ्याद्वाधः न स्वमोर्नपुंसकात् इत्यस्य । एवमप्येकपदाश्रयत्वाल्लुगन्तरङ्गो विपर्ययादागमो बहिरङ्ग तइत्यन्तरङ्गे लुकि कर्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत्कुतो लुक् नात्र बहिरङ्गपरिभाषा शख्याऽऽश्रयितुम् । अनुस्वारोऽपि हि न स्याद् - अरुन्तुदः, द्विषन्तप इति । तस्मादत्र लुकि सति श्रिमन्यमिति भवति, येषां त्वमो मकार इत्संज्ञकः प्रयोगे तु मुमः श्रवणम्, तेषामकारमात्रस्य लुकि सति मुमः शेवणप्रसङ्गः ।।
वाचंयमपुरन्दरौ च ।। 6 - 3 - 69 ।।
वाचंयम इति । वाचि यमो व्रते इति खच् । पुरंदर इति । पूःसर्वयोर्दारिसहोः इति खचि ह्रस्वः । उभयस्यापि पूर्वपदस्यामन्तत्वं निपात्यते ।।
कारे सत्यागदस्य ।। 6 - 3 - 70 ।।
सत्यङ्कारः - समयकरणम् । अशपथऽपि परत्वाद् डाचं बाधित्वा कारे मुमेव भवति, तआगदङ्कारः - विषप्रतिपक्षद्रव्यविषेषकरणम् ।
मक्षङ्कारः - यागविशेषे द्रव्यभक्षण्स्य करणम् । भक्षङ्करेतीति वा भक्षङ्कारः, कर्मण्यण् ।
धेनुम्भव्येति । भविष्यन्ती धेनुरुच्यते, भव्यगेय इति यत्कर्त्तरि ।
लोकमपृणेति । पृणोतिः पूरणकर्मा, मूलविभुजादित्वात्कः ।
अनभ्याशामित्य इति । एतिस्तुशासु इत्यादिना क्यप् - एतव्यम्, थइत्यम् । अनभ्याशम् - दूरम्,
तअनभ्याशामित्यः , दूरतः परिहर्तव्य उच्यते ।
भ्राष्ट्रमिन्धः, अग्निमिन्ध इति । कर्मण्यण्, घञन्तेन वा षष्ठीसमासः ।
तिमिङ्गिल इति । मत्स्यविशेषः । तिमिङ्गिलतीति पूर्ववत्कः, इत्वम् । अचि विभाषा इति लत्वम् । तिमिङ्गिलगिलः । अयमपि मत्स्यविशेष एव ।
गिलगिले चेति । यदा गिलं गिलतीति गिलगिलः तिमिङ्गिलगिल इति व्युत्पत्तिस्तदेदमुपसंख्यानम् । यदा हि तिमिङ्गिलं गिलतीति तिमिङ्गिलगिल इति व्युत्पाद्यते, तदा नार्थ एतेन । उष्णङ्करणम्, भद्रङ्करणमिति । षष्ठीसमासौ ।
पुत्रड्वेति । दकारो ङीबर्थः ।
केचित्त्वित्यादि । तेषां पक्ष उपसंख्यानमिदं नारब्धव्यम् ।
अन्यत्रापि हीत्यादिना शार्ङ्गरवादिपाठमेव द्रढयति । अन्ये तु शार्ङ्गरवादिपाठं नेच्छन्ति ।।
श्येनतिलस्य पाते ञे ।। 6 - 3 - 71 ।।
श्येनपातोऽस्यां क्रियायामिति । यद्यपि घञः सास्यां क्रियेति ञः इत्यतः क्रियाग्रहणं प्रकृत्यर्थविशेषणम्, न प्रत्ययार्थः, श्येनपातोऽस्यां तिथौ श्येनपाता तिथिरिति तत्रोदाहृतत्वात् , तथाप्यस्यामिति स्त्रीलिङ्गमात्रस्य प्रत्ययार्थत्वात्कियाया अपि प्रत्ययार्थत्वामविरुद्धम् । श्यैनम्पातेति । पतनं पातः श्येनस्य पातः, कर्तरि षष्ठ्या समासः, ततः घञः सास्याम् इति ञः ।।
रात्रेः कृति विभाषा ।। 6 - 3 - 72 ।।
कृदन्त उत्तरपद इति । यद्यप्याचारक्विबन्तस्य रात्रिशब्दस्यानन्तरस्तृजादिः कृत्सम्भवति, तथापि तस्य गौणार्थत्वादग्रहणमिति सामर्थ्यादुत्तरपदाधिकारेऽप्यत्र तदन्तविधिर्भवति । रात्रिष्चर इति । रात्रौ चरतीति चरेष्टः । राश्रिमट इति । अटतीत्यटः, पचाद्यच्, साधनं कृतेति समासः । अप्राप्तविमाषेयमिति ।
ननु चोभयत्रविभाषेयं युक्ता, रात्रिम्मन्येत्यार्दौ खिदन्ते प्राप्ते, अन्यत्राप्राप्ते इत्यत आह - खिति हि नित्यं मुम् भवतीति । पूर्वविप्रतिषेधेनेति भावः ।।
नलोपो नञः ।। 6 - 3 - 73 ।।
नञः सानुबन्धवस्य ग्रहणम्, पामादिभ्यो नः - पामनपुत्र इत्यादौ मा भूत् । अथ क्रियमाणेऽपि सानुबन्धकग्रहणे स्त्रैणपुत्र इत्यत्र कस्मान्न भवति प्रत्यञित्त्वस्य वृद्धिस्वरयोश्चरितार्थत्वात्, निपातञित्त्वस्य चाचरितार्थत्वात्, पूर्वपदेन वा नञ् विशेष्यत इति अपूर्वपदत्वान्न भविष्यति । एवं च कृत्वाऽनुबन्धोच्चारममपि न कर्त्तव्यम्, अपूर्वपदत्वादेव पामनपुत्रे न भविष्यति ।
अवक्षेपे तिङीति । अवक्षेपः - निन्दा । नञोऽशिति वा नञोऽनिति वा सिद्धे लोपवचनं साकच्कार्थमित्याहुः ।।
तस्मान्नुडचि ।। 6 - 3 0 74 ।।
नञ तएव हि स्यादिति । तस्मिन्नति निर्द्दिष्टे पूर्वस्य इति वचनात् । नञश्च नुटि सत्यनिष्टं रुपं स्यात्, नलोपविधानमनजाद्यर्थं स्यात् तस्माद्‌ग्रहणे तु सति पञ्चमीनिर्देशस्य बलीयस्त्वादुत्तरस्यैव भवति । ननु यदि तत्रैव स्यान्नाचीति नलोपमेव प्रतिषेधेत् । तद्वचनं तूत्त्रपदस्यैव भविष्यति । तस्मादेवं कक्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुट् तस्य बाधकः स्यात्, तस्माद्‌ग्रहणे तु सति निमित्तमेव नुटो नलोपो भवति ।
अय नुगिति पूर्वान्त एवायं कस्मान्न कृतः, एवं हि नञ एव स्यादित्यवमपि दोषो न भविष्यति, तत्रायमप्यर्थः - तदोः सः सौ इत्यत्र तदोः इत्यपनीय तोः इति वर्गग्रहणमेव कर्त्तव्यम् परादौ ह्यनेष करोतीत्यत्र नुटो नकारस्यापि प्रसङ्गादशक्यं वर्गग्रहणम् तत्राह - पूर्वान्ते हीति । ङमुट् प्राप्नोतीति । नलोपः प्रतिपदिकान्तस्य इति नलोपो विधानसामर्थ्यान्न भवतीति भावः । अत्रापि पक्षे इदं कर्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुक् तस्य बाधकः स्यादिति ।।
नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनकनाकेषु प्रकृत्या ।। 6 - 3 - 75 ।।
नभ्राडिति । भ्राजभास इत्यादिना क्विप्, व्रश्चादिषत्वम्, जश्त्वम् - डकारः, तस्य वावसाने इति पक्षे
चर्त्वम् - टकारः । पादिति शात्रन्तमिति । तनूनपादुच्यते, अपान्नपादित्यादावनपुंसकेऽपि दर्शनाद् उभे वनस्पत्यादिषु इत्यत्र पातेः क्विपि निपातनात्तुगित्यभिधानाच्चापाठोऽयम् ।पादिति क्विबन्तमिति पाठः । शत्रन्तमित्यस्य वानन्तर नरैर्न मन्तव्यमित्यध्याहार्यम् । औणादिकः किप्रत्यय इति । इगुपधात्किः इत्यनेन । कम् - सुखम्, अकम् - दुःखम्, तद्यत्र नास्ति स नाकः स्वर्गः ।
दुःखेन यन्न सम्भन्नं न च ग्रस्तमनन्तरम् ।
अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ।।
इति हि पठन्ति । अत्र नपुंसकादित्रये निपात्यमस्तीति ते तथैव ग्राह्याः । इतरेषु तूत्तरपदामात्राणि गृहित्वा नञ् प्रकृत्येत्येव बाच्यम् । एवं सिद्धे सति समुदायपाठः प्रसिद्ध्युपसंग्रहार्थः । तेन नासत्यावित्याश्विनोरेव भवति, तअन्यत्रानसत्या इत्येव । एवमन्यत्रापि यथासम्भवं दृष्टव्यम् ।
एकादिश्चैकस्य चादुक् ।। 6 - 3 - 76 ।।
एकादिरिति बहुव्रीहिः । आदिशब्दो व्यवस्था वचनः । एकान्नविशतिरिति । पूर्वं नञो विशत्यादिभिः समासं कृत्वा पश्चात् तृतीयासमासः कर्तव्यः ।
किमर्थं पुनः पूर्वान्तोऽयमादुक् क्रियते, न परदिरादुट् क्रियेत, एवमेकस्येत्यागमिनिर्देशार्थं न कर्तव्यं भवति, प्रकृतस्य नञ एवागमित्वात् इत्यत आह - पूर्वान्तश्चायमिति । यरोऽनुनासिकेऽनुनासिको वा इत्यत्र न पदान्ताट्टोरनाम् इत्यतः पदन्तग्रहणमनुवर्तते, अविध्नः, बध्नातीत्येवमादिषु मा भूदिति । परादौ सति दकारः पदान्तो न स्यादिति अनुनासिको न स्यात् । अथानुट् क्रियेत, एवमपि पत्रे दकारश्रवतणं न स्यात् तदिदमुक्तम् - अनुनासिको विकल्पेन यथा स्यादिति । किमर्थं पुरादुक् क्रियते, अदुगेव नोचज्येत, सवर्णदीर्घत्वे तावत् सिद्धम्, अतो गुणे इति पररुपत्वं चाकारोच्चारणसामर्थ्यादेव न भविष्यति, यदि स्याद् दुकमेव विदध्यात् । सवर्णदीर्घत्वं तु यं विधिं प्रत्युपदेशोऽनर्थकः इति न्यायाद्भविष्यति । वृत्तिकारेण तु प्रतिपत्तिलाघवार्थमादुगयं व्याख्यातः ।।
नगोऽप्राणिप्वन्यतरस्याम् ।। गमेर्हप्रत्यय इति । डप्रकरणे अन्यत्रापि दृश्यते इति ।।
सहस्य सः संज्ञायाम् ।। 6 - 3 - 78 ।।
सहयुध्वेति । युध्यतेः क्वनिप् राजनि युधि कृञः सहे च इति सादेशः ।
उदात्तो निपात्यत इति । अन्यथा तु किं स्यात् इत्यत आह - उदात्तानुदात्तावतोहीति । सहशब्दे निपाता आद्युदात्ताः इति सशब्द उदात्तः, शेषनिधाते हशब्दोऽनुदात्तः, तेनासावुदात्तानुदात्तवान् तस्य स्थाने भवत् सशब्द आन्तर्यतः स्वरितः स्यात्, तन्मा भूदेष देष इति उदात्तो निपात्यते । यद्येवम्, अव्ययीभावेऽपि तस्यैवोदात्तत्वं श्रूयेत तत्राद्द - स चेति । अयमभिप्रायः - समासे कृते समासस्वरश्च प्राप्नोति, अयं चादेशः, तत्र परत्वादस्मिन्नादेशे उदात्तेऽभिनिर्वृत्ते पुनः प्रसङ्गविज्ञानात् समासस्वरः, स च सतिशिष्ट इति तस्यैव श्रवणम् । उदात्तनिपातनस्य तु यत्र पूर्वपदप्रकृतिस्वरत्वं बहुव्रीहितत्पुरुषयोस्तत्रैव श्रवणमिति । सेष्टि, सपशुबन्धमिति । अन्तवचनेऽव्ययीभावः ।।
ग्रन्थान्ताधिके च ।। 6 - 3 - 79 ।।
सकलमिति । कला - कालविशेषः, तत्सहचरितो ग्रन्थोऽपि कला । एवं समुहूर्तमित्यत्रापि । ससंग्रहमिति । एतत्तु प्रमादाल्लिखितम्, अत्र हि अव्ययीभावे चाकाले इति वक्ष्यमाणेनैव सिद्धः सभावः । कालवाचिन्युत्तरपद इति । कालादयः शब्दा यद्यपि तत्सहचरितग्रन्थपराः, तथाप्यधीत इति पदान्तरप्रयोजनसमधिगम्यत्वाद् ग्रन्थपरत्वं बहिरङ्गमिति कालश्रयः प्रतिषेध एव स्यादिति मन्यते ।
सद्रोणेति । तेन सहेति तुल्ययोगे इति बहुव्रीहिरयम् । तेन वोपसर्जनस्य इति विकल्पे प्राप्ते नित्यार्थं वचनम् ।।
द्वितीये चानुपाख्ये ।। 6 - 3 - 80 ।।
अप्रधानो यः सः द्वितीय इति । तत्रैव लोके द्वितीयशब्दस्य प्रयोगात्, स्वामिभृत्ययोहि स्वामिनं प्रति भृत्यो द्वितीय इत्युच्यते, न विपर्ययेण । उपाख्यायते इत्यस्य विवरणम् - प्रत्यक्षेणीपलभ्यत इति । घञर्थे
कविधानम् इति कः कर्मणि । साग्निरिति । पूर्ववद्धहुव्रीहिः, इदमपि नित्यार्थं वचनम् । अग्न्यादयः ित्यादिना अनुपाख्यत्वं दर्शयति, कपोतश्चेदगारमुपहन्यात्ततश्च कपोतेनाग्निरनुमीयते । विद्युद्वात्ययोश्च रक्षः पिशाचं वर्तत इति वार्त्ता ।।
अव्ययीभावे चाकाले ।। 6 - 3 - 81 ।।
अकालवाचिनीति । स्वरुपग्रहणं न भवति , ग्रन्थान्ताधिके च इत्यत्र ग्रन्थग्रहणात्, तद्धि समुहूर्तमित्यादौ यथा स्यादित्येवमर्थम् । यदि यात्र स्वरुपग्रहणं भवति, तदा मुहूर्त्तादौ निषेधाभावादनेनैव सिद्धत्वादनर्थकं तत्स्यात् । सचक्रमिति । यौगपद्येऽव्ययीभावः । सपुरमिति । ऋक्पूरब्धूः इत्यकारः समासान्तः । सहपूर्वाह्वमिति । साकल्येऽव्ययीभावः ।।
वोपसर्जनस्य ।। 6 - 3 - 82 ।।
उपसर्जनस्येत्यस्य सहशब्दे विशेष्ये सहयुध्वा, सहकृत्तवेत्यत्रापि स्यात्, अनर्थकञ्च विशेषणं स्यात्, सहशब्दस्य चासत्त्ववाचित्वाद् द्वन्द्वो न सम्भवति, समासान्तरे च सह उपसर्जनमेव तस्मादुत्तरपदेन सन्निधापितस्य समासस्यैवेदं विशेषणं विज्ञायते । तत्राप्यवयवद्वारा । समासस्योपर्जनसंज्ञायां अभावात् सर्वत्र च समासे कश्चिदवयव उपसर्जनमेव । उच्यते चेदमुपसर्जनस्येति, ततश्च सर्वावयवद्वारा विज्ञायते, तदिदमुक्तम् - उपसर्जनसर्वक्यव इति । तदवयवस्येति । उपसर्जनस्य इत्यवयवयोगो षष्ठीति दर्शयति । सहकृत्वप्रिय इति । वा प्रियस्य इति पूर्वनिपात्विकल्पः । इह बहुव्रीहौ यदुत्तरपदमिति । उत्तरपदाधिकारात्, सर्वोपसर्जनस्य बहुव्रीहेराश्रयणाच्च तत्सम्बन्धिन्येवोत्तरपदे उत्तरपदाधिकारात्, सर्वोपसर्जनस्य बहुव्रीहेराश्रयणाच्च तत्सम्बन्धिन्येवोत्तरपदे सहशब्दस्यानन्तरे सभावेन भाव्यमिति भावः । तत्परः सहशब्दो न भवतीति । पूर्वत्र तावन्न भवति, कृत्वशब्देन व्यवधानात्, उत्तरत्रापि सहकृत्वेत्येतदुत्तरपदम्, न कृत्वशब्दः ।।
प्रकृत्याशिष्यगोवत्सहलेषु ।। 6 - 3 - 83 ।।
प्रकृत्याशिषि इत्येतावत्सूत्रम्, परिशिष्टं भाष्यवार्त्तिकदर्शनात् सूत्ररुपेण पठितम् । न इति वक्तव्ये प्रकृतिवचनं वैचित्र्यार्थम् ।।
समानस्य छन्दस्यमूर्घप्रभृत्युदर्केषु ।। 6 - 3 - 84 ।।
समानस्येति योगविभाग इति । अपर आह - सहशब्दः सदृशवचनोऽस्ति, यथा - सदृशः सख्या ससखीति, तस्यायमस्वपदिविग्रहो बहुव्रीहिः - समानो धर्मोऽस्य, समानः पक्षोऽस्य, समाना जातिरस्य वोपसर्जनस्य इति सभावः । समानशब्दस्य तु समानजातीय इत्यादि भवति । योगविभागे तु तस्य नित्यत्वान्नैतत्सिध्यति । अत । व भाप्यवार्त्तिकयोर्योगविभागस्य नोपन्यास इति ।।
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररुपस्थानवर्णवयोवचनबन्धुषु ।। 6 - 3 - 85 ।।
सज्यातिरिति । समानं ज्योतिरस्येति बहुव्रीहिः, यस्मिञ्ज्योतिष आदित्ये नक्षत्रे वा उपनिपतितमानस्यास्तमयादनुवर्तमानमाशौचं सज्योतिरित्युच्यते, सरुपाणामेकशेषः, स्थानान्ताद्विभाषा, सस्थानेन इति निर्धेशाद्बहुव्रीहावप्ययं सभावो भवति, न तु पूर्वोपरप्रथमचरमजघन्यसमान इति प्रतिपदोक्त एव तत्पुरुषे ।।
चरणे ब्रह्मचारिणि ।। 6 - 3 - 86 ।।
चरणशब्दः कठकलापादं शाखाविशेषे मुख्यः, तदध्यायिषु पुरुषेषु गौणः, तदिह मुख्यो गृह्यते - समानो
ब्रह्मचारी सब्रह्मचारीति, तच्चरति तदनुतिष्ठतीत्यर्थः । ब्रह्मचारीति । व्रते इति णिनिः । एवं ब्रह्मचारिशब्दं निरुप्य सब्रह्मचारीशब्दं निर्वक्तुकामः समानशब्दस्यार्थमाह - पमानस्तस्यैव ब्रह्मणः सणानत्वादिति । तस्यैवेति । पूर्वमुक्तस्य । इतिकरणो हेतौ, यस्माद् ब्रह्मचारिणां समानत्वं तद्विवक्षितं तस्मादयं वक्ष्यमाणस्सब्रह्मचारिशब्दस्यार्थो भवति । तमेव दर्शयतदि - समाने ब्रह्मणीति । समाने साधारण इत्यर्थः । एकस्मिन्काले एकेन ब्रह्मणा एकशाखाध्ययनार्थं ययोर्व्रतमादिष्टं तावन्योऽन्यं सब्रह्मचारिणावित्यर्थः । एतच्च चरणग्रहणाल्लभ्यते, तद्धिचरणे समाने यथा स्यादाकारादौ मा भूदित्येवमर्थं कृतम् । एवं चरणे गम्यमाने इत्यस्यापि चरणे समानत्वेन गम्यमान इत्ययमर्थो द्रष्टव्यः ।।
तीर्थे ये ।। 6 - 3 - 87 ।।
विभाषोदरे ।। यप्रत्ययान्त इति । पूर्वसूत्रे ये इति यकारादेः प्रत्ययस्य ग्रहणं यप्रत्ययोऽन्ते समीपे यस्य स तथोक्तः । तत्र यदा सभावः, तदा सोदराद्यः, यदा तु न तदा समानोदरे शयितः इति यत् ।।
दृग्दृशवतुषु ।। 6 - 3 - 89 ।।
वतुग्रहणमुत्तरार्थमिति । समानशब्देऽसम्भवात् ।
दृक्षे चेति । छान्दसमेतदिति केचित् । माष्ये सदृक्षम् ित्यनुदाहृतत्वात्तस्मिन्पक्षे क्सप्रत्ययोऽपि छन्दस्येव ।।
इदं किमोरिश्की ।। 6 - 3 - 90 ।।
इयान्कियानिति । घस्येयादेशे कृते यस्येति च इतीकारलोपः । किमिदम्म्यां वो घ इति वतुबीति । नासतो वतुपो वकारस्य घकारः शक्यो विधातुमिति वतुपोऽप्यनेनैव विधानमिति भावः ।।
आ सर्वनाम्नः ।। 6 - 3 - 91 ।।
अकारोच्चारणमतो गुणो पररुपत्वं मा भूत् । अकारविधानं त्वन्तस्य निवृत्त्यर्थं स्यात्, लोपविधौ तु गौरवं भवति ।।
विष्वग्देवयोश्च देरद्र्यञ्चतौ वप्रत्यये ।। 6 - 3 - 92 ।।
व प्रत्ययो यस्मात्स वप्रत्ययः । विष्वद्र्यङिति । अञ्चतेः क्विनि लोपे उगिदचाम् इति नुम्, संयोगान्तलोपः, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङकारः । अद्रिसध्र्योरिति । वार्तिकस्य साधारणत्वादिह सध्रशब्देपादानम्, अश्वमञ्चतीति अश्वाची, अञ्चतेश्चोप संख्यानम् इति ङीप् अचः इत्यकारलोपः, चौ इति दीर्घत्वम् । विष्वग्युनक्तीति विष्वग्युक, सत्मद्विष इत्यादिना क्विप् । विष्वगञ्चनमिति । ल्युट् ।
कथं पुरत्र प्रसङ्गः, यावता उत्तरपदे इत्युच्यते, न चात्राञ्चतिरुत्तरपदम्, किं तर्हि ल्युडन्तम्, न च तदादिविधिरस्ति, अल्ग्रहण एव तदादिविधिः इत्यत आह वप्रत्ययग्रहणमिति । यदि धातुग्रहणे तदादिविधिर्न स्याद्वप्रत्ययग्रहणमकर्तव्यं स्यात्, कृतं तु तदादिविधिं ज्ञापयति । अत्र प्रयोजनमाह तेनेति । अपस्कृतमिति । असति तु ज्ञापने अयस्कृदित्यादौ यत्र करोतिमात्रमुत्तरपदं तत्रैव स्यात् ।
विश्वाची च धृताची चेति । वेदपाठोऽयं प्रदशितः, न तु पृताजीत्युदाहरणम् प्राप्त्यभावात् । उपसंख्याने
स्त्रियाम् इत्येतेन नार्यः, पुंस्यपि हि क्वचिदद्र्यादेशो न दृश्यते । तस्माद्विप्वञ्चौ प्राथणापानाविति । कव्रीचीति । किंशब्दस्य टेरद्र्यादेशः, पूर्ववन्ङीब्लोपदीर्घत्वादि ।।
तिरसः तिर्यलोपे ।। 6 - 3 - 95 ।।
यदाऽस्य लोपो न भवीति । अकारस्य लोपे सतीत्ययं त्वर्थो न भवति व्याख्यानात् ।।
सध मादस्थयोश्छन्दसि ।। 6 - 3 - 96 ।।
सधमादो द्युम्नि इति केचिदाहुः । अस्मिन्मन्त्रेद्युम्निरित्यादिकमपां विशेषणम्, सधमाद इत्यपि तत्समानाधिकरणं शसन्तम्, मादयतेः क्विबन्तस्य रुपम्। मादः छन्दसि सधादेशो दृश्यते बहुलम् - आ त्वा वृहन्तो हरयो युजानाः, अर्वागिन्द्रसघमादो वहन्तु इत्यादावपीति । अपर आह - मदनं मादः, मदोऽनुपसर्गे इत्यपि प्राप्ते छान्दसो घञ्, तेन सह वर्तत इति सधमाद इति । रेवतीस्थः सधमादः इत्यादौ तु सधमादौ यज्ञः, सह माद्यन्ति देवा अस्मिन्निति कृत्वा ।।
द्व्यन्तरुपसर्गेभ्योऽप ईत् ।। 6 - 3 - 97 ।।
उदाहरणेषु द्विर्गता आपोऽस्मिन्नित्यादिविग्रहः, ऋक्पूब्धूः इत्यकारः समासान्तः ।
समापं नामेति । ईत्वे प्रतिषिद्वे अन्येषामपि दृश्यते इत्यकारस्य दीर्घः । अपर आह - समशब्दस्यात्र प्रयोगः, समा आपोऽस्मिन्निति समाप इति ।
अप्शब्दं प्रतीत्यादि । इह यत्क्रिंयायुक्ताः प्रादयस्तं तेषामुपसर्गत्वम्, अप्शब्दश्च न क्रियावचनः, तस्माद्यस्य प्रादेरन्यत्रोपसर्गत्वं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते ।।
ऊदनोर्देशे ।। 6 - 3 - 98 ।।
अवग्रहार्थमिति । यत्र समासावयवानां रुपाणि प्रदर्श्यन्ते पदकारैः सः - अवग्रहः ।।
अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थस्थितोत्सुकोतिकारकरागच्छेषु ।। 6 - 3 - 99 ।।
उदारहणेषु विशेषणसमासः । गहादिष्वन्यशब्दो द्रष्टव्य इति । तेपामवृत्कृतत्वात् ।
दुगागमोऽविशेषेणेत्यादि । छप्रत्यये परतोऽविशेषेण सामान्येन दुक्कर्तव्यः, कीदृशे छे सकारके, कारकशब्दसहिते कारकशब्दे चेत्यर्थः । कारकच्छयोरिति पाठे पूर्वनिपातलक्षणस्यानित्यात्वात्तस्य परनिपात्ः । अन्येष्वाशीरादिषु सप्तसु षष्टीतृतीययोर्नेष्टस्तेष्वेव प्रतिपेध इत्यर्थः ।
कथमेतल्लभ्यते इत्याह - अस्य चेति । अषष्ठीतृतीयास्थस्य इत्येव सिद्धे द्विर्नञ उपादानं प्रतिषेधास्यानित्यत्वज्ञापनार्थम्, व्याख्यानप्रकारश्चायम् । शक्यं हि वक्तुं द्विर्नञ उपादानं दार्ढ्यार्थमिति ।
कोः कत्तत्परुषेऽचि ।। 6 - 3 - 101 ।।
उदारहणेषु कुगतिप्रादयः इति समासः । कूष्ट्र इति । एतदेव तत्पुरुषग्रहणं ज्ञापकम् अस्मिनप्रकरणेऽप्रतिपदोक्तोऽपि समासो गृह्यत इति, तेन ज्योतिर्जनपद इति सभावो बहुव्रीहावपि भवति ।
त्रावुपसंख्यानमिति । कत्र्यादिभ्यः इति वचनात्सिद्धम् ।।
का पथ्यक्षयोः ।। 6 - 3 - 104 ।।
अनीषदर्थ आरम्भः । कुत्सितः पन्थाः कापथः । पूर्ववत्समासान्तः । काक्ष इति । अक्षशब्देन तत्पुरुषः, अक्षिशब्देन बहुव्रीहिर्वा, बहुव्रीहौ सक्थ्यक्ष्णोः इति षच् ।।
ईषदर्थे ।। 6 - 3 - 105 ।।
कामधुरमिति । कुगति इति समासः । कुः पापार्थः इत्येतत्तु प्रायिकम् । काम्लमिति । ननु चात्र कोः कत्तत्पुरुषेऽचि इति कद्भावः प्राप्नोति, अस्य त्वनजादिरवकाशः तत्राह - अजादावपीति ।।
विभाषा पुरुषे ।। 6 - 3 - 106 ।।
अप्राप्तविभाषेयमिति । ईषदर्थे इत्यस्य निवृत्तत्वात् ।
नन्वेवं सत्युभयत्रविभाषेयं युक्ता, ईषदर्थे प्राप्तत्वात्, अन्यत्र चाप्राप्तत्वाद् अत आह - ईषदर्थे त्विति । ईषदर्थे च इत्यस्यावकाशः - कामधुरमिति, विभाषा पुरुषे इत्यस्यावकाशः - कुत्सितः पुरुषः कापुरुषः ईषत्पुरुष इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः ।।
कवञ्चोष्णो ।। 6 - 3 - 107 ।।
छन्दस्यन्यत्रापि दृश्यते - न कवादिभ्यो न हि ते पृणन्तीति, कवाशब्दोऽपि दृश्यते केवलः - कवातिर्यंदि वोपतिष्ठेतेति, ईषत्तिर्थङित्यर्थः ।।
पृषोदरादीनि यथोपदिष्टम् ।। 6 - 3 - 109 ।।
निरुक्तादिशास्त्रसिद्धानामसमासपदानाम् उणादयो बहुलम् इति सद्धिरुक्ता, अनेन तु समासपदानां जीमूतवलाहकादीनां सिद्धिरुच्यते । प्रकारवचनोऽयमादिशब्द इति दर्शयति पृषोदरप्रकाराणीति । व्यवस्थार्थे तावदिशब्दे यथोपदिष्टमित्यनर्थकमिति भावः । प्रकारमाह - येष्विति । यथोयदिष्टमिति । वीप्सायामयमव्ययीभाव इत्याह - यानियानीति । दिशिरुच्चारणक्रियः, उच्चार्य हि वर्णानाह - उपदिष्टा इमे वर्णाः इति, कैः पुनरुपदिष्टानि शिष्टेः । शिष्टाः पुनरकामात्मानो यथार्थवेदिनो यथाविहितभाषिणश्च किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारगाः, यानधिकृत्येदमुच्यते ।
आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ।।
अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्पण चक्षुषा ।
ये भावान्वचनं तेषां नानुमानेन बाध्यते ।। इति ।
यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याथ्या क्रियते शिष्टपरिज्ञानार्थाष्टाध्यायी । कथम् अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानम्, ये चानुविहितास्तान् प्रयुञ्जानम् । स पश्यति - नूनमस्य
दैवानुग्रहः स्वभावो वा यदसौ नाष्टाध्यायीमधीते, अथ चात्र तु विहिताः शब्दास्तान्प्रयुङ्क्ते, नूनमन्यानपि अयं जानाति । सैषा शिष्टपरिज्ञानार्थाष्टाध्यायी ।
जीवनस्य जलस्य मूतो भाचनं जीमूतः, यथा कुसूलो धान्यानाम्, खम् - बिलम् । पिशितम् - मांसम् । बृसी - तृणमयमासनम् । एवमन्येऽपीत्यादि । कप्यश्वमहीशब्देपूपपदेषु सुपि स्थः, सकारस्य तकारः, महीशब्दस्य ह्रस्वः ।
दक्षिणतारमिति । विशेषणसमासः । वाग्वाद इति । कर्मण्यण् । षोडन्निति । वयसि दन्तस्य दतृ, उगित्त्वान्नुम् ।
घासु नेति । उत्वस्यायं विकल्पः । उत्वपक्षे तु ष्टुत्वं नित्यमेव भवति, अत्रोत्तरपदशब्देन धाप्रत्ययोऽभिधीयते । पद्यते गम्यतेऽनेनार्थ इति पदम्, उत्तरं च तत्पदं च उत्तरपदम् । षड्‌धेति । न पदान्ताट्टोरनाम् इति ष्टुत्वप्रतिषेधः । नानाधिकरणवाचिन इति । अर्थगतं बहुत्वं शब्दे समारोप्य धास्विति बहुवचननिर्देशः, तेन अधिकरणविचाले च इति वहितस्य धाप्रत्ययस्येदं ग्रहणम् । षड्‌धेति । आतोऽनुपसर्गे कः स्त्रियां टाप्प्रत्ययः । लाक्षणिकत्वादस्याग्रहणमिति चेत् एवमपि क्वबन्ते प्रसङ्गः ।
नाश्यत इति । णश अदर्शने ण्यन्तः । दभ्यत इति । दम्भु दम्भे ।
स्वो रोहावेति । लोडुत्तमद्विवचने ।
वर्णागम इत्यादि । कौ जीर्यत इति वृञ्जर इत्यत्र नकारस्य वर्णस्यागमः । हिनस्तीति सिंह इत्याद्यन्तयोर्वर्णयोविपर्ययो व्यत्यासः । षोड इत्यत्र षकारस्योकाररुपापत्तिः वर्णाविकारः । पृषोदर इत्यादौ तकारादेर्वर्णस्य विनाशः । यस्य धातोर्थोऽर्थः प्रसिद्धः, तस्मादर्थान्तरेण योगस्तदर्थातिशयेन योग इति । एतत्पञ्चविधं निरुक्तम् - निर्वचनप्रकारः, शब्दानां तदन्तेन सूत्रेणोच्यत इति श्लोकार्थः ।।
संख्याविसायपूर्वस्याह्रस्याहनन्यतरस्यां ङौ ।। 6 - 3 - 110 ।।
द्व्यह्र इति । तद्धितार्थ इति समासः, कालाट्ठञ्, तस्य द्विगोर्लुगनपत्ये इति लुक्, राजाहः सखिभ्यष्टच्, अह्रोऽह्र एतेभ्यः इत्यह्रादेशः । द्व्यह्रीति । विभाषा ङिश्योः इत्यल्लोपविकल्पः । व्यह्र इति ।प्रादिसमासः, शेषं पूर्ववत् । सायाह्र इति । एकदेशिसमासः ।
ननु चायं पूर्वापरादिसूत्रे न पठ्यते, तत्कथमस्यैकदेशिसमासः तत्राह - एकदेशिसमास इत्यादि । अह्रोऽह्र एतेभ्यः इत्यत्र तत्पुरुषस्याङ्‌गुलेः संख्याव्ययादेः अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः इति पक्रान्ताः संख्यादयः परामृश्यन्त । यदि च पूर्वादय एवैकदेशिना समास्येरन्न । ततश्च तत्र पूर्वस्याह्रशब्दस्येह ग्रहणमनुपपन्नं स्यात् । तस्मात्सायशब्दस्य समासस्तावदनुमीयते । तत्र सिध्ययति, तद्दर्शयति - तेनेति । स्यतेरन्तकर्मणः सायशब्दो घञन्तोऽहरवसानवचनः । पूर्वाह्ण इति । समासादि पूर्ववत्, अह्रोऽदन्तात् इति णत्वम् ।
ढ्रलोपे पूर्वस् दीर्घोऽणः ।। 6 - 3 - 111 ।।
रेफे अकार उच्चारणार्थः । यद्ययं षष्ठीतत्पुरुषः स्यात्, तदाणः पूर्वत्वं नोपपद्यते, लोपस्याभावरुपत्वात् । अथापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते एवमपि करणीयमित्यादावप्यनीयरो रेफस्य लोपे परतः पूर्वस्य दीर्घप्रसङ्ग इति तत्पुरुषे एवं दोषं दृष्ट्वा कण्ठेकालवद्व्यधिकरणपदो बहुव्रीहिरित्याह - ढकाररेफयोर्लोपो यस्मिन्निति । अत्र लिङ्गम् - भव्यगेयप्रवचनीय इति निर्देशः । लीढमिति । लिह आस्वादने, निष्ठा, ढत्वधत्वष्टुत्वढलोपेषु रुपम्, मिह सेचने, गुह संवरणे, मुह नैचित्त्ये । पूर्वग्रहणमनर्थकम्, तस्मिन्निति निर्दिष्टे पूर्वस्य इति सिद्धेः इत्यत आह - पूर्वग्रहणमित्यादि । सति पूर्वग्रहणे यद्यपि ढलोपे वचनप्रामाण्यादनुत्तरपदेऽपि स्यात्, रलोपे त्वनुत्तरपदे न स्यात् नीरक्तमित्यादाबुत्तरपदस्यापि सम्भाव्त । आतृढमिति । तृहूहिंसायाम् यस्य विभाषा इतीट्‌प्रतिषेधः । क्वचिदादृढमिति पाठः, तदसत् ,सेट्‌त्वादस्य धातोः दृढः स्थूलबलयोः इति हलोपो निपात्यते । आवृढमिति वृहू उद्यमने ।।
सहिवहोरोदवर्णस्य ।। 6 - 3 - 112 ।।
ऊढ इति । अत्रासत्यावर्णग्रहणे वह् - त इति स्थिते न तावदोत्वं ढलोपनिमित्त्व्ात् । अत्र
पूर्वत्रासिद्धम् इति ढत्वादीनामसिद्धत्वात्पूर्वं यजादित्वात्सम्प्रसारणम्, तस्मिन्कृते पूर्वत्वे वोकारस्योत्वं प्राप्नोति ।
भाष्वे त्वावर्णग्रहणं प्रत्याख्यातम् । अन्तरङ्गणि ढत्वादीनि, वर्णाश्रयत्वात् बहिरङ्गं सम्प्रसारण्, प्रत्ययविशेषत्वात्तस्याप्यसिद्धत्वात् पूर्वत्रासिद्धम् इत्यस्यानुपस्थानम् । यद्वा - ढलोपस्यौत्वदीर्घविधौ निमित्तत्वेनाश्रयणादत्र विषये ढत्वादीनामसिद्धत्वं नास्ति, ततः प्रागेव सम्प्रसारणात्परत्वात् ढत्वादिषु कृतेषु वढ इति स्थिते सम्प्रसारणं च प्राप्नोति, ओत्त्वं च परत्वादोत्त्वम्, ततः सम्प्रसारणम् । पूर्वत्वं च न पुनरोत्त्वम्, तस्मन्नेव प्रयोगे कृतत्वात्तदभावे निमित्तसद्भावाद् दीर्घत्वं प्रवर्तिष्यत इति ।
वर्णग्रहणं किमिति । ओदस्येति वक्तव्यमिति प्रश्नः । कृतायामपीत्यादि । उत्पूर्वाद्वहेर्लुङि तामादिषु सिचि वृद्धौ सलोपढत्वादीनि । तत्रेदानीमसति वर्णग्रहणे मात्रिकस्योच्यमानो दीर्घस्य न स्यात । नन्ववर्णः सवर्णान् गृह्णातीत्याकारस्यापि ग्रहणं भवति तत्राह - तादपि परस्तपर इति । इदमेव वर्णग्रहणं लिङ्गं तपरस्तत्कालस्य इत्यत्र पञ्चमीसमासोऽप्याश्रीयत इति । तेनैतन्न चोदनीयम् - सहिवहोरस्यैत् इत्येवं कस्मान्न कृतमिति ।।
साढ्यै साढ्‌वा साढेति निगमे ।। 6 - 3 - 113 ।।
साढेति तृचि रुपमिति । अपपाठोऽयम्, आपाढोऽग्निर्बुहद्वयाः, आपाढमुग्रं सहमानम्, आषाढं युत्सु पृतनासु, आषाढाय सहमानाय इत्यादौ निष्ठायामात्वादर्शनात् । तस्मान्नष्ठायां रुपमिति पाठः । सूत्रवृत्तौ च साढेति ह्रस्वान्तं छेत्तव्यम् । यदि तृजन्तेऽपि क्वचिदात्वं दृश्यते, तदान्यतरत्सूत्रे इतिकरणस्य प्रकारार्थत्वात्साध्यम् ।।
संहितायाम् ।। 6 - 3 - 114 ।।
अनन्तरैर्यौगैरत्तरपदे कार्यं विधीयते, उत्तरपदं च समासे भवति । तत्र नित्यमेव संहितया भवितव्यम् संहितैकपदे नित्येति वचनात् । अवग्रहेऽपि क्वचित्कार्यं दृश्यते, क्वचिन्न, इकः काशे अनूकाशमित्यनु - कशमिति, अष्टनः संज्ञायाम्, अष्टाबन्धुरमित्यष्टा - बन्धुरमिति । अतो न तेष्ववश्यमस्योपयोग इति । यत्रानुत्तरपदे कार्यं विधीयते तदुदाहरति - वक्ष्यति द्व्यचोऽतस्तिङ इति । अत्र हि तिङन्तस्य समासासम्भवादुत्तरपद इति न सम्बध्यते । वद्मा हि त्वेति । विदेर्लट्, मस्, विदो लटो वा ।।
कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ।। 6 - 3 - 115 ।।
तदिह लक्षणं गृह्यत इति । तत्रैव लक्षणशब्दस्य प्रसिद्धत्वात् विष्टादिपर्युदासाच्च । दात्रादिशब्द उपमानात्तदाकारे चिह्रे वर्तते ।।
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ।। 6 - 3 - 116 ।।
उपनह्यते इत्युपानत्, सम्पदादित्वात्कर्मणि क्वप्, नहो धः । परीणदिति । उपसर्गादसमासेऽपि णत्वम् । नीवृदीति । नीवृदादौ कर्तरि क्विप्, व्यधेर्ग्रहिज्यादिसम्प्रसारणम् । ऋतीषाहमिति । पूर्वपदात् इति षत्वम् । परीतदिति । अनुदात्तेति लोपस्य क्ङिज्झल्निमित्तकत्वात् क्वौ च तदभावाद् गमादीनामितीत्यनुनासिकलोपे तुक् ।।
वनगिर्योः संज्ञायां कोटरकिशुलकादीनाम् ।। 6 - 3 - 117 ।।
कोटरावणमिति । वनं पुरगा इति णत्वम् ।।
वले ।। 6 - 3 - 118 ।।
वलच्प्रत्ययो गृह्यत इति । वक्ष्यमाणेन मतुपा साहर्यात् । तेन वल संवरणे इत्यतः पचाद्यचि यत्प्रातिपदिकं तत्र दीर्घो न भवति ।
अण इत्येव - भर्तुवलः ।।
मतौ वह्वचोऽनजिरादीनाम् ।। 6 - 3 - 119 ।।
संज्ञायामिति मतोर्वत्वमिति । यद्यप्युदाहृतेषु मादुपधायाः इति वत्वं सिद्धम्, तथापि संज्ञायामत्रापि परत्वादनेनैव वत्वं युक्तम् । प्रत्युदाहरणे च व्रीहिमतीत्यत्रापि नानेन वत्वमित्येतदुपन्यस्तम् । अजिरादिष्वबह्वचां पाठ उषसमस्तार्थः ।।
इको वहेऽपीलोः ।। 6 - 3 - 121 ।।
ऋषीवहादयः षष्ठीसमासः । वहशब्दः पचाद्यजन्तः ।।
उपसर्गस्य घञ्यनुष्ये बहुलम् ।। उपसर्गाद् घञोऽविधानादुत्तरपदाधिकारेऽप्यत्र तदन्तविधिर्विज्ञायत इत्याह - घञन्त उत्तरपदे इति । वीमार्ग इति । मृजेर्वृद्धिः ।
कृत्रिमम् - करणेन निर्वृत्तम् । पुरुषव्यापाराभिनिर्वृत्तमित्यर्थः ।
निषीदत्यस्मिन्पापमिति निषादः, हलश्च इति घञ् ।।
इकः काशे ।। 6 - 3 - 123 ।।
पचाद्यच्प्रत्ययान्तोऽयं काशशब्द इति । नघञन्तः, तत्र पूर्वेणैव सिद्धम् । यथा निगमे - प्राकाशावध्वर्यवे ददातीति । इको वहेऽपीलोः इत्यत्र पूर्वपदमात्रस्येष्यते, इह तूपसर्गस्य तेन द्विरिक इत्युक्तम् ।।
दस्ति ।। 6 - 3 - 124 ।।
दा इत्येतस्यादि । अत्र तकारादिशब्दः कर्मधारयः । तस्मिन्परत इति । यस्मिन्विधिस्तदादौ इति वचनात्तदादावुत्तरपदे परत इत्यर्थः । दा इत्येतस्य सम्बन्धी यस्तकारस्तदादावुत्तरपदे दीर्घ इत्येषोऽर्थो विवक्षितः । नीत्तमिति । ननु चात्र तकार आदिर्न भवति, यस्तावद् अच उपसर्गात्तः इति तकारः स अलोऽन्त्यस्य इत्यन्तस्य क्रियते, योऽपि दकारस्य खरि च इति तकारः, सोऽप्यस्मिन्दीर्घे कर्तव्येऽसिद्धः अत आह - अच उपसर्गात्त इत्यादि । उच्यते चेदं तकारादावुत्तरपद तइति । यदि चर्त्वमसिद्धं स्याद्, दीर्घविधिरनर्थकः स्यात्, अत आश्रयात्सिद्धं चर्त्वम् । तेन तकार आदिरुत्तरपदस्य सम्भवतीत्यर्थः । यद्यपीति । अनेनैतद्दर्शयति - द्वितकारपक्षस्याश्रयणे न किञ्चिद्वक्तव्यमिति । सुदत्तमिति ।।
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि ।
सुदत्तमनुदत्तं च निदत्तं चेति चेष्यते ।।
इत्यनयेष्ट्याऽत्र ददादेशः ।।
छन्दसि च ।। 126 ।।
अष्टाकपालमिति । आन्महतः इत्यत्राष्टनः कपाले हविषीति अष्टागवं शकटमिति च व्युत्पादितम्, इदं तु व्युत्वत्तिविकल्पप्रदर्शनार्थमात्वं वा, दीर्घो वेति ।।
विश्वस्य वसुराटोः ।। 6 - 3 - 128 ।।
विश्वाराढिति । विश्वस्मित्राजत इति सत्सूद्विष इत्यादिना क्विप् । यत्रास्यैतदिति । पदसंज्ञाविषयं इत्यर्थः ।।
ऋचि तुनुघमक्षुतङ्‌कृत्रोरुष्याणाम् ।। 6 - 3 - 133 ।।
मन्त्रे इति प्रकृति ऋग्ग्रहणं मन्त्रविशेषप्रतिपत्त्यर्थम् । घ इति स्वरुपग्रहणम्, न तरप्तमपोः, छन्दसि घशब्दस्यैव दीर्घदर्शनात् । उत वा घा स्यालादिति । भार्याया भ्राता स्यालः ततः पञ्चमी । तङिति थादेशस्य ङित्त्वपक्षे ग्रहणमिति । लोण्मध्यमपुरुषबहुवचनस्य थस्य लोटो लङ्‌वत् इत्यतिदेशेन यस्तादेशस्तस्य यदा ङित्त्वं तदा ग्रहणमित्यर्थः ।
श्रृणोत ग्रावाण इति । तप्तनप्तनथनाश्च इति तबादेशः । अत्र पित्त्वान्ङित्त्वं नास्ति । तङिति प्रत्याहारग्रहणमिति तु वृत्तौ न क्वापि पाठो दृश्यते । यच्च तत्रोक्तम् - लोण्मध्यमपुरुषबहुवचनादारभ्य आ महिङो ङकारत्प्रत्याहारः इति, तदाप्ययुक्तम् असन्निविष्टेन प्रत्याहारायोगात् । उरुष्या ण इति । रुष्यतिः कण्ड्‌वादियगन्तो रक्षतिकर्मा लोट्, सेर्हिः, अतो हेः इति लुक्, न इत्यस्य नश्च धातुस्थोरुषुभ्यः इति णत्वम् ।।
इकः सुञिः ।। 6 - 3 - 134 ।।
सुञिति निपातस्य ग्रहणम्, तस्य च ञकारोऽत्रैव विशेषणार्थः । ऊषुण इति । उकारस्य दीर्घः ।।
द्व्यचोऽतस्तिङः ।। 6 - 3 - 135 ।।
भवतेति । लोण्मध्यमपुरुषबहुवचनम् । वक्षि, यक्षीति । बहेर्यजेश्च लेड्‌, सिप् । सिब्बहुलं लेटि इत्ययं
तु विधिर्न भवति, बहुवचनात् । बहुलं छन्दसि इति शपो लुक्, वहेर्ढत्वम्, यजेः षत्वम्, षढोः कः सि द्वयोरपि । देवानावह यज च इत्यग्निं प्रति भरद्वाजस्य वचनम् ।।
निषातस्य च ।। 6 - 3 - 136 ।।
एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ।।
अन्येषामपि दृश्यते ।। 6 - 3 - 137 ।।
मन्त्रे इति निवृत्तम्। केशाकेशीति । तत्र तेनेदम् इत्यादिना बहुव्रीहिः, इच् कर्मव्यतिहारे । जलाषाडिति । छन्दसि सहः इति ण्विः, सहेः साडः सः इति षत्वम् । पूरुष इति । पुरुषशब्दस्याद्यचो दीर्घः ।
सुनोदन्तेत्यादि । तत्र श्वादंष्ट्‌ इति बहुव्रीहिः । अन्यत्र तत्पुरुषः, बहुव्रीहिर्वा । दंष्ट्रेति ह्रस्वान्तस्य ग्रहणाद्दीर्घन्ते नायं दीर्घो भवतीत्याहुः । अन्ये तु दीर्घान्तमेव पठन्तोऽविशेषेणेच्छन्ति ।।
चौ ।। 6 - 3 - 137 ।।
अञ्चतिर्गृह्यत इति । चवर्गस्य तु ग्रहणं न भवति व्याख्यानात् । दघीच इति । ननु चान्तरङ्गत्वाद्यणादेशेनैव प्राग्भवितव्यम्, अकारलोपो भस्य विधीयते, भसंज्ञा च यकारादावजादौ च सम्भवतीति बहिरङ्गः, दीर्घत्वं तु लोपमपेक्षत इति बहिरङ्गम् अत आह - अन्तरङगोऽपीति । एवं मन्यते - इह दीर्घश्रुत्या अचश्च इत्युपतिष्ठते, तत्राचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । यदि च यणआदेशः स्यान्न क्वाप्यजन्तपूर्वपदं स्यात् । प्राच इत्यादावपि पूर्वमेव सवर्णदीर्घत्वप्रसङ्गः, तस्मादन्तरङ्गोऽपि विधिर्बाध्यत इति । अत्र च लिङ्गं प्रतीच इति निर्देशः ।।
सम्प्रसारणस्य ।। 6 - 3 - 139 ।।
अकृत एवेत्यादि । कारीषगन्धिपुत्र इति स्थिते ह्रस्वत्वं च प्राप्नोति, अनेन दीर्घत्वं च तस्यावकाशः - ग्रामणि कुलम्, ह्रस्वाभावपक्षे दीर्घस्यावकाशः, पक्षान्तरे उभयप्रसङ्गः । यद्यपि ह्रस्वाभावपक्षे सावकाशं दीर्घत्वम्, तथापि तेन परत्वाद् ह्रस्वो बाध्यते ।
अथेदानीं दीर्घे कृते पुनः प्रसङ्गः कस्मान्न भवति तत्राह - पुनः प्रसङ्गविज्ञानं चेति ।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां षष्ठस्याध्यायस्य तृतीयः पादः