काशिका (पदमञ्जरीव्याख्यासहिता)/षष्ठोऽध्यायः/चतुर्थः पादः
← तृतीयः पादः | काशिका (पदमञ्जरीव्याख्यासहिता) चतुर्थः पादः [[लेखकः :|]] |
अथ षष्ठाध्याये चतुर्थः पादः
अङ्गस्य ।। 6 - 4 - 1 ।।
अधिकारोऽयमिति । स्वरितत्वात् । इह केचिन्मन्यन्ते - प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः । एवं हि गुणो यङ़्लुकोः इत्यत्र लुग्प्रहणं न कर्त्तव्यं भवति, कथम् प्रत्ययलक्षणेनैव सिद्धम् । यदि त्वभ्यासविकारेऽप्ययमधिकारः स्यात्, ततोऽङ्गाधिकारविहितमिति न लुमताङ्गस्य इति प्रतिषेधः स्यादिति । वृत्तिकारस्तु मन्यते - यदि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः, वव्रश्चेति वृश्चतेर्लिटि लिट्यभ्यासस्योभयेषाम् इति रेफस्य सम्प्रसारणे उरदत्वे हलादिशेर्षे च कृते वकारस्यापि सम्प्रसारणं प्राप्नोति, तस्य न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेध इष्यते, स न प्राप्नोति उरदत्वस्यासम्प्रसारणत्वात् । न च तस्य स्थानिवत्त्वम्, अपरनिमित्तत्वात् । आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सत्युरदत्वं परिनिमित्तकं भवति, अङ्गेन स्वनिमित्तस्य प्रत्ययस्याक्षेपात् । यदष्युक्तम् - लुग्ग्रहणं न कर्त्तव्यं भवतीति, तदपि न न हि तत्राङ्गाधिकारविहितस्यैव प्रतिषेधः, कस्य तर्हि लुमता लुप्ते प्रत्यये वस्तुतो यदङ्गं तस्य पारप्तं यत्कार्यमाङ्गमनाङ्ग वा तस्य सर्वस्य प्रतिषेधः । तस्मादासप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारो युक्त इति । हूत इत्यादौ यजादित्वात्सम्प्रसारणम् । जीन इति । ग्रहिज्या इति सूत्रेण सम्प्रसारणम्, ल्वादिभ्यः िति निष्ठानत्वम् ।
निरुतम्, तुरुतमिति । घेञ् तन्तुसन्ताने, यजादिः, अत्राङ्गेऽनन्तर्भूतयोर्निर्दुरोरवयवौ यौ हलौ तदाश्रयं दीर्घत्वं न भवति । क्रिमिणामिति । क्रिमिपामन्शब्दाभ्यां मत्वर्थे पामादिभ्यो नः, पामनो नलोपः, स्त्रियां टाप्, द्वितीयैकवचनम् । अत्र नामिति समुदायस्याप्रत्ययत्वान्न तदपेक्षं पूर्वस्याङ्गत्वमिति नप्रत्ययापेक्षयाऽङ्गत्वेऽपि दीर्घत्वं न भवति, पामनामित्यत्र नलोपे कृतेऽजन्तत्वाद् दीर्घप्रसङ्गः । न च नलोपस्यासिद्धत्वम्, असुब्विधित्वात् । न ह्यस्यां दशायां दीर्घत्वं सुब्विधिर्भवति । अस्तु वाऽसिद्धत्वम्, नोपधायाः इति दीर्घत्वप्रसङ्गः ।
भिस्मा - ओदनः भिस्सदा- दिधि । ननु क्रिमिणामित्यत्र प्रत्ययस्यार्थवत्त्वेऽपि समुदायोऽनर्थकः, परस्परासम्बन्धात्, एवं भिस्साभिस्सदयोर्भिस्शब्दः, ततश्च अर्थवद्ग्रहणे नानर्थकस्य इत्येव न भविष्यति तत्राह - अङ्गा धिकार इत्यादि । सन्सम्प्रसारणदीर्घत्वैत्वतातङियङवङनुट्ह्रस्वत्वत्वे चाङ्गस्येत्यधिकारे प्रयोजनम् । सनि दीर्घः प्रयोजनम् - दधि सनोतीति दधिसेत्यत्र मा भूत् । सम्प्रसारणदीर्घत्वम् - निरुतम्, दुरुतभित्यत्र मा भूत् । एत्वम एर्लिङि वान्यस्य संयोगादेः निर्यायात्, निर्वायादित्यत्र मा भूत् । तातङ् - निपात्स्य तोर्मा भूत्, जीव तु त्वम् । इवङुवदृ - शयर्थम्, वर्थम् इत्यत्र मा भूत् । नुट् - ह्रस्वनद्यापो नुट्, कुमारी आमित्याहेत्यत्र मा भूत् । ह्रस्वत्वम् - केऽणः, कुमारी कस्मै स्पृहयति, कुमार्याः कं सुखं कुमारीकमित्यत्र मा भूत् । तत्वम् - अपो फिः अब्भार इत्यत्र मा भूदित्येवमर्थं कर्तव्योऽङ्गाधिकारः । सोऽन्यार्थः कृतो नामीत्यत्रापि दीर्घत्वं व्यवस्थापयति - अभिमते विषये नियमयति । अर्थवद्ग्रहणपरिभाषयेति । उपलक्षणमेतत् । अनने मुक्, प्राण इत्यत्र मा भूत्। अकृत्सार्वधातुकयोदीर्घः दधि यातमित्यत्र मा भूत् - इत्येवमर्थं लक्षणप्रतिपदोक्तपरिभाषा, नञिवयुक्तन्यायश्च नाश्रयितव्यो भवति ।
षष्ठी स्थानेयोगा इति वचनादङ्गस्येति स्थानषष्ठीयम्, ततश्च अतो भिस ऐस् इत्यत्रात इति पञ्चम्यन्तमङ्गस्येत्यस्य षष्ठ्यन्तस्य सामानाधिकरण्येन विशेषणं नोपपद्यते इत्यकारमात्रस्य ग्रहणात् ब्राह्मणभिस्सेत्यादावपि प्रसङ्गः । अवयवषष्ठ्यादीनां चाप्रसिद्धिः, ततश्च ऊदुपधायां गोहः अङ्गस्य इति स्थानषष्ठ्या अन्त्येऽल्युपसंहाराद् गोहश्चान्त्यस्य स्यात्, उपधायाश्च इति वचनादुपधामात्रस्य च । एवं शास इदङ्हलोः इत्यादावपीत्याशङ्कायामाह - अङ्गस्येति सम्बन्धसामान्ये षष्ठीति । अयमभिप्रायः - अधिकारोऽयम्, स च परर्थः, षष्ठीस्थाने योगा इत्यपि परिभाषा परार्था, न च परार्थयोः परस्परं सम्बन्धोऽस्ति, यश्रोक्तम् - गुणानां च परार्थत्वादसम्बन्धः समात्वात्स्यात् इति, ततश्चाङ्गस्येति षष्ठी स्वभावप्रयुक्तं सम्बन्धसामान्यमेवार्थमभिधत्त इति । यथायोगमिति । यस्मिन्योगे यस्य सम्बन्धविशेषस्याभिव्यञ्जकमस्ति तस्मिन्योगे तत्रैव विशेषे पर्यवस्यतीत्यर्थः ।
तद्यथा हन्तेर्जः ित्यादौ स्थानषष्ठी, ऊदुपधाया गोहः इत्यवयवषष्ठी, युवोरनाकौ इत्यादौ निमित्तनिमित्तिसम्बन्ध षष्ठी, लोकवत्, तद्यथा - लोके देवदत्तस्येत्यभेदेन प्रकृत्ता षष्ठी- पुत्रः पाणिः कम्बल इति प्रतिसम्बन्धवशात्तत्रतत्र विशेषे पर्यवस्यति ।
अथ वेत्यादि । पूर्व विवक्षितोऽपि षष्ठ्यर्थः सामान्यरुप इत्युक्तम्, इदानी तु प्रयोगासाधुत्वायैव षष्ठ्युच्चार्यते, न त्वर्थविवक्षयेत्युच्यते । अवश्यं च यया कयाचन विभक्तया निर्द्देष्टव्यम् । षष्ठ्यनुरोधस्तु बाहुल्येन तदर्थस्योपयोक्ष्यमाणत्वात् । यथायोगं विभक्तिषु विपरिणम्यत इति । लोकवदेव । तद्यया - उच्चानि देवदत्तस्य गृहाणि, आढ्यो वैधवेयो देवदत्तः, आमन्त्रयस्वैनं देवदत्तम्, किमनेन कृत्यं देवदत्तेनेति, तेन अतो भिस ऐस् इत्यत्र पञ्चम्या विपरिणामे सति अकारान्तदङ्गदित्ययमर्थे भवति । आदिशब्देन युष्मदस्मद्भ्यां ङसोऽश् इत्येवमादिर्गृह्यते । अपिशब्देनैतद्दर्शयति - न केवलं षष्ठ्यर्थ एव सस विशेषः सिध्यति, अपि तु पञ्चम्यर्थेऽपिति । पूर्वत्र तु पक्षे अतो भिस ऐस् इत्यत्र निमित्तनिमित्तिसम्बन्धे षष्ठी - अङ्गस्य निमित्तं यो भिस् । कश्चाङ्गस्य निमित्तम् यस्मिन्नङ्गमित्येतद्भवति । कस्मिंश्चैतद्भवति प्रत्यये ।।
हलः ।। 6 - 4 - 2 ।।
हल इति किमिति । केनेदानीमुदाहरणेषु दीर्घसिद्धः एषं मन्यते - यथा शेषे इति लक्षणं चाधिकारश्च, तथाङ्गस्येत्येतदपि, ततश्चाभिमते विषये दीर्घो भविष्यतीति । अतिप्रसङ्ग इति तूत्तरम् । विद्धः, विचित इति । व्यधताडने, व्यच व्याजीकरणे, ग्रहिज्या इत्यादिना सम्प्रसारणम् ।
अण इत्येवेति । ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यतः । न च तस्य इकः काशे इतिग्ग्रहणेन विच्छेदः । तत्र हि विरोधाभावादिग्ग्रहणेनाणेव विशेष्यते - इकोऽण इति । अथेदानीम् चौ इत्यारभ्याण इत्येवानुवर्तिष्यते, नेक इति । तृतियेति वा निपातनादिति । मा नामाण इत्येतदनुवृतत्, द्वितीयतृतीयचतुर्थेति योऽयं निर्द्देशस्तस्मादेव निपातनादनणो दीर्घत्वं न भविष्यतीत्यर्थः ।
नन्वेकमङ्गग्रहणं प्रकृतं तद्धलो यदि ।
विशेषणं स्यात्कार्यित्वमङ्गस्येह न लभ्यते ।।
ततश्च विद्धमित्यादावपि दीर्घः प्रसड्यते ।
अथ निर्दिश्यते कार्थी नाहलः स्याद्विशेषणम् ।।
ततो निरुतमित्यादावपि दीर्घत्वमापतेत् ।
सकृच्छुतस्य चैकस्य युज्यते नोभयार्थता ।।
अत आह - अङ्गग्रहणमित्यादि ।
आवर्त्तमानं वस्वेकमप्यनेकस्य शेषताम् ।
भजते भाजनं यद्वन्नृणामसहभोजने ।।
नामि ।। 6 - 4 - 3 ।।
नामित्येतस्य शास्त्रे क्वचिदप्यविहितत्वात्तत्परिज्ञानार्थमाह - नामिति षष्ठीबहुवचनमित्यादि । नामीति दीर्घपाठस्तु न समाचीनः । आगतनुट्कमिति । गत्यर्थत्वाद्रमेः कमणि कर्तरि वा क्तः । आगतो नुड्येन आगतो वा नुड्यं तदा गतनुट्कम् । अग्नीनामित्यादि । अकारन्तस्य तु सुपि च इति दीर्घः सिद्धः ।
कर्तणामिति । नन्वण इति वर्त्तते तत्राह - अण इत्येतदिति । न तिसृचतसृ इति प्रतिषेधादिति भावः ।
उत्तरार्थमिति । नोपधायाः इति दीर्घत्वं सनुट्के आमि यथा स्यात् - पञ्चानाम्, सप्तानाम्, षट्चतुभ्यश्च इति नुट् चर्मणामित्यादावनुट्के मा भूत् । कृते च नुटि दीर्घत्वप्रतिपत्त्यर्थमिति । आगतनुट्कस्य ग्रहणमित्यनुषङ्गः । अन्यथा हीत्यादि । यद्यागतनुट्कस्य ग्रहणं न क्रियते, ततः अग्नि - आम् इति स्थिते दीर्घत्वं च प्राप्नोति, नुट् च परो नुट्, नित्यं दीर्घत्वम्, कृतेऽपि नुटिप्राप्रोत्यकृतेऽपि, ततो दीर्घे कृतेऽह्रस्वत्वान्नुडेव न स्यात्, योऽयं सिद्धान्ते निमित्तत्वेनोपादानादयत्नेन सिद्धो नुट्, स एव न स्यादित्येवशब्दस्यार्थः । ननु चाह चायं ह्रस्वान्तान्नुडिति , न च नित्यत्वाद्दीर्घे कृते क्वचिदपि ह्रस्वान्तमस्ति, तत एवं विज्ञास्यामः - भूतपूर्व यद् ह्रस्वान्तमिति, ननु चेदं सम्प्रति ह्रस्वान्तमस्ति, न तिसृचतसृ तिसृणाम्,
चतसृणाम् नैतदस्ति इह तावच्चतसृणामिति षट्चतुर्भ्यश्च इति नुट् सिद्धः तिसृणामित्यत्रापि ह्रस्वनद्यापो नुट् इत्यत्र त्रेस्त्रयः इत्यतस्त्रेरित्यनुवृत्तेरेव नुट् सिद्धः । यदा तर्हि नृ च इति दीर्घत्व प्रतिषधस्तदास्त्यवकाशः न चैकमुदारहणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात् नृनद्यापो नुट् इत्येव ब्रूयात्, ह्रस्वग्रहणात्तु भूतपूर्वगतिविंज्ञायते । यद्येवम्, अस्थ्नाम्, दध्नाम्, अस्थिदधिसक्थ्यक्ष्णाम् ित्यनङि कृतेऽपि भूतपूर्वमेतद् ह्रस्वान्तमिति नुट् प्राप्नोति, ततश्च नोपधायाः इति दीर्घत्वे नलोपे च अस्थानामिति प्राप्नोति । यद्वा - यदा नुङ्विधौ भूतपूर्वगतिस्तदा नुण्नित्यो भवति, अनङ् त्वनित्य इति पूर्वं नुटि कृतिऽस्थीनामिति प्राप्नोति, द्विपदामित्यादौ पादस्य लोपे कृते नुट्प्रसङ्गः । एवम् पद्दन्नोमास् इत्यत्र ये ह्रस्वान्तस्यादेशास्तेष्वपि प्रसङ्गो योज्यः, तस्मान्न शक्यं भूतपूर्वगतिविज्ञानम् । यच्चोक्तम् - त्रेरित्यनुवृत्तेरेव तिसृणामित्यत्र नुट् सिद्ध इति तदप्यप्रमाणम्, न हि द्वयोरन्यतरस्य वाऽपेक्षायामसत्यां चकारे चासत्यनुवृत्तिः स्वध्यवसाना । तस्माद् - अन्यथा हि नुडेव न स्यादिति स्थितमेतत् ।
उक्त एवार्थे संग्रहश्लोकं पठिति । नामिदीर्घ इति । यदि नुटमकृत्वा आमीत्येव सूत्रं क्रियेतेत्यर्थः । वचनादिति । वचनसामर्थ्याद् भूतपूर्वगतिविज्ञायत इति भावः । यत्र तन्नास्तीति । तिसृणामित्यत्र यत्र दीर्घत्वं नास्ति स वचनस्यावकाश इत्यर्थः । नोपधायाश्चेति । चशब्दः समुच्चये ।।
न तिसृचतसृ ।। 6 - 4 - 4 ।।
सूत्रे षष्ठीद्ववचनस्य लुका निर्द्देशः । तिसृणाम्, चतसृणामिति । कथं पुनरत्र दीर्घप्रसङ्गः, यावताऽजन्तस्य दीर्घो नामीति, न चात्राजन्तता सम्भवति, कथम् तिसृ - आम् इति स्थिते नुट् प्राप्नोति, अचि र ऋतः इति रादेशाश्च, परत्वाद्रादेशः तत्राह - इदमेवेति ।।
छन्दस्युभयथा ।। 6 - 3 - 5 ।।
तिसृ चतसृ इत्येतयोरिति । अविशेषेण तु विकल्पो दृश्यते अयं पितृणामग्निः, धाता धातृणामिति तैत्तिरीके ह्रस्वः, वह्वृचे दीर्घः ।।
नृ च ।। 6 - 4 - 6 ।।
केचिदत्रेति । छन्दस्युभयथा इत्यतः । येत्वनुवर्त्तयन्ति ते पूर्वसूत्रे तिसृचतसृग्रहणमनुवर्त्तयन्ति ।।
नोपधायाः ।। 6 - 3 - 7 ।।
अनजन्तार्थ आरम्भः, न इति षष्ठ्येकवचनान्तम् । सौत्रत्वान्निर्द्देशः, अकारश्चोच्चारणार्थ इति । पञ्चानामित्यादौ सुब्विधौ नलोपस्यासिद्धत्वान्नान्तत्वम् । उपधाग्रहणमाद्यचो मा भूत् । नैतदस्ति प्रयोजनम् - दीर्घश्रुत्योपस्थापितमचं नाम्परतया विशेषयिष्यामः , उत्तरत्र च सर्वनामस्थानपरतया, तत्र येन नाव्यवधानमित्येकेन वर्णेन व्यवधाने भविष्यति उत्तरार्थ तु इन्हन्पूर्षार्यम्णां शौ इत्यत्र दीर्घविधेरुपधानियमात् इति वक्ष्यति, तदार्थमुपधाग्रहणम् ।।
सर्वनामस्थाने चासम्बुद्धी ।। 6 - 4 - 8 ।।
राजनीति । विभाषा ङिश्योः इत्यल्लोपाभावपक्षे दीर्घत्पप्रसङ्गः । एवं चर्मणामित्यादावपि प्रसङ्गः ।।
वा षपूर्वस्य निगमे ।। 6 - 4 - 9 ।।
अत्र दीर्घश्रुत्योपस्थापितस्याचो विशेषेणमुपधाग्रहणम् । षपूर्वस्य इत्येतदपि तस्यैव विषेषणम्, तेन पुंल्लिङ्गस्याविरोध िति मन्यमान आह - षपूर्वस्याच इति । ऋभुक्षणमिति । ऋभुक्षिशब्द उणआदिषु निपातितः , इत्योऽत्सर्वनामस्याने इत्यकारः ।।
सान्तमहतस्संयोगस्य ।। 6 - 4 - 10 ।।
सकारेऽकार उच्चारणार्थः, सोऽन्तो यस्य स सान्तः । सान्तेति पृथक्पदं लुप्तषष्ठीकं संयोगस्य विशेषणम्, तद्विशिष्टसंयोगो नकारस्य विशेषणम्, महच्छब्दोऽपि तस्यैव विषेषण्, सर्वनामस्थाने इत्यनेनानुवृत्तेन सान्तः संयोगो महच्छब्दश्च विशेष्यते, तेन हंसः, हंसावित्यत्र दीर्घाभावः । महतश्चेति । यो नकार इत्यपेक्ष्यते । तस्येति नकारस्य, कः पुनर्नकारस्योपधायाश्च सम्बन्धः, यावता यस्मिन्समुदाये योऽन्त्यादलः पूर्वः स तं प्रत्युपधा सत्यम् इह तु गत्यभावात् सामीप्यलक्षणः सम्बन्धः,
नकारसमीपवर्त्तिन्यास्तमेव नकारान्तं समुदायं प्रत्युपधाया इत्यर्थः । कल्पसूत्रेषु च प्रौढोऽयं व्यवहारः तद्यथा - विसर्जनीयोऽनत्यक्षरोपधो रिषित इति । श्रेयानिति । प्रशस्यस्य श्रः , उगिदचाम् इति नुम् । श्रेयांसीति । जश्शसोः शिः, नपुंकस्य झलचः इति नुम् । महानिति । बृहन्महच्छतृवच्च इति वचनाद् उगिदचाम् इति नुम् ।।
अप्तृन्तृच्स्वसृनप्तृनेष्ट़ृत्वष्ट़ृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ।। 6 - 4 - 11 ।।
आप इति । अप्शब्दस्य नित्यं बहुवचनान्तत्वाद् द्विवचनैकवचनयोरसम्भवः । बह्वाम्पीति । बहुव्रीहिः । अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति तदन्तविधिरभ्युपगतः । किं पुनरत्रेष्टव्यम्, न तावद् ऋक्पूरब्धूः इति प्राप्तस्य समासान्तस्याभावः इत्याह - तत्रेति । यत्पुनरेष्टव्यं तद्दर्शयति - नित्यमपीति । कृताकृतप्रसङ्गित्वान्नित्यो नुम् ।
जनापवादानिति । न लोकाव्यय इत्यादिना तृन्योगे षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति । एतच्च तृन्नन्तत्वाभिव्यक्तये प्रयुक्तम् , एतेन कटस्येतिव्याख्यातम् । तुरिष्ठेमेयस्सु, तुश्छन्दसि इतिवत् सामान्यनिर्द्देशे कर्त्तव्ये, तृन्तृचोर्नेदेनोपादाने प्रयोजनं चिन्त्यम् ।
अव्युत्पत्तिपक्षे इति । नावश्यं व्युत्पत्तिकार्यं भवतीत्येतद् अतः कृकमिकंस इत्यत्र कंसग्रहणाल्लभ्यते, ज्ञापकादिति भावः । व्युत्पत्तिपक्ष इति । नमेस्तृचि मकारस्य पकारः - नप्ता, नयतेस्तृनि षुक् गुणश्च - नेष्टा, त्विषेरच्चोपधायाः - त्वाष्टा क्षदेस्तृन्यनिट्त्वम् - क्षत्ता होता, पोता - तृनेव प्रपूर्वाच्छासेस्तृच्, अनिट्त्वं च - प्रशास्ता । एवम्भूतानामिति । एवम्भूतानामिति । अस्यैव विवरणम् - संज्ञाशब्दानामिति ।।
इन्हन्पूषार्यम्णां शौ ।। 6 - 4 - 12 ।।
अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति इति इन्ग्रहणेन तदन्तं गृह्यते । इतरेभ्योऽपि केवलेभ्यः शिर्न सम्भवति, कथम् इन्निति हन्तेः क्विबन्तस्य ग्रहणम्, ब्रहणम्, ब्रह्मद्युपदाच्च हन्तेः क्विब्विहितः, इतरौ च पुंल्लिङ्गौ, तस्मात्सवैरेव तदन्तविधिविंज्ञायते, इत्याह - इन्हन्पूषन्नर्यमन्नित्येवमन्तानामिति । बहुदण्डीनीति ।
बैषम्यपरिहारार्थमाद्ययोर्बहुपूर्वयोः ।
उपन्यासो बहुत्वं च पूषादौ कालभेदतः ।। इति ।
इह दण्डीनि ब्राह्मणकुलानि, ब्रह्महाणि ब्राह्मणकुलानि - इत्यन्तरेणापि बहुशब्दभाद्ययोरिन्हन्नित्येतयोरुदाहरणत्वेनोपन्यासः सम्भावतीति चोद्यम्, वैषम्यपरिहारार्थं तु बहुपूर्वयोरुपन्यास इत्युत्तरम् । वृत्रहा इन्द्रः, स एकः , एवं पूषार्यमणौ, तेषां कथं बहुत्वं विषेषणमिति चोद्यम्, मन्वन्तरादिकालभदेनेन्द्रादयो भिद्यन्ते इत्युत्त्रम् । यद्वा - बहुषु यज्ञेष्वाहूता इन्द्रादयो यैर्ब्राह्मणकुलैस्तानि तथोच्यन्ते ।
ननु च सर्वनामस्थाने चासम्बुद्धौ इति दीर्घत्वं सिद्धम्, तत्किमर्थोऽयमारम्भः इत्याह - सिद्धे सत्यारम्भ इति । इन्नादीनामुपधायाः शावेवेति । विपरीतस्तु नियमो न भवति - इन्नादीनामेव शाविति सर्वनामानि तायेकवचनद्विवचनबहुवचनान्येकशः इति निर्देशात् । वृत्रहणाविति । नन्वत्रास्तु सर्वनामस्थाने चासम्बुद्धौ थइति प्राप्तो दीर्घः कस्मान्न भवति, न ह्यसौ तस्य नियमः अप्रकृतत्वादसंशब्दितत्वाच्च सत्यम् नियमविधानसामर्थ्यात्तु तस्याप्यनेन निवृत्तिः ।
अस्त्वेवं सर्वनामस्थाने, विभक्त्यन्तरे तु सर्वत्रानुनासिकललक्षणो दीर्घः प्राप्नोति अत आह - दीर्घविधिरिति । य इह शास्त्रे इन्नादीनां दीर्घविधिस्तं विनियम्य - तस्य नियमं कृत्वा, क्व सुटि सर्वनामस्थाने । उपलक्षणमेतत् । तेन शसादेशोऽपि शिर्गृह्यते । इतिशब्दो हेतौ, स च भिन्नक्रमः श्लोकन्ते द्रष्टव्यः ।
ततः किं कुर्यात् शौ नियमं पुनविंदध्यात् । एवकारो भिन्नक्रमो नेत्यस्यानन्तरं द्रष्टव्यः । एकस्मन्योगे नियमद्वयस्य कर्तुमशक्यात्वाद्योगविभागः कर्त्तव्य इत्यर्थादुक्तं भवति । इन्हन्पूषार्यम्णाम् इत्येको योगः, सर्वनामस्थाने इति च वर्तते, इन्नादीनां च सर्वनामस्थान एव दीर्घो भवतीत्यर्थः । अत्र हन्व्यतिरिक्तानां ग्रहणमुत्तरार्थम् । ततः शौ इति द्वितीयो योगः, सर्वनामस्थानेऽपि शावेव न सर्वत्र । ततः सौ च इति सूत्रं
विध्यर्थम् । एवं च योगद्वयं क्रियमाणे च सति यदिष्टं सम्पद्यते तद्दर्शयति - भ्रूणहनीति तथास्य न दुष्येदिति । तथेति योगाद्वये सतीत्यर्थः । अस्येति आचार्यस्य । भ्रूणहनीति सप्तम्येकवचने विभाषा ङिश्योः इत्यल्लोपाभावक्षेऽनुनासिकलक्षणो दीर्घो न भवतीत्यर्थः । सप्तम्येकवचनमुपलक्षणम् सर्वत्र दीर्घप्रसङ्गस्योक्तत्वात् ।
एवं योगविभागेन चोद्यं परिहृत्यैकस्मिन्योगे परिहर्त्तुमाह - शास्मीति । शास्मि - उपदिशामि तं प्रकारम्, येनैकयोगेऽपि दोषाभावः । अत्रापि सुडिति सर्वनामस्थानं लक्ष्यते सर्वनामस्थानग्रहणं निवर्त्त्य अनाश्रितसर्वनामस्थानत्वविशेषे प्रत्ययत्वमात्राश्रयेण । शौ नियमं कुरु वा । एवं वा कुरु, पूर्वोक्तं वा प्रकारमित्यर्थः । एवं च विशेषमनपेक्ष्य शौ नियमः क्रियमाणः प्रत्ययत्वेन तुल्यजातीये सर्वत्र प्रत्ययान्तरे निवृत्तिं करोति ।
यद्येवम्, वृत्रहेवाचरति वृत्रहायते इति क्यङि अकृत्सार्वधातुकयोः इत्यपि दीर्घो न स्यात् अत आह - दीर्घविधेरिति । निर्द्धारणे एषा षष्ठी, जातावेकवचनम् । उपधाशब्देन उपधालक्षणं दीर्घत्वमुच्यते । दीर्घविधानमध्ये उपधालक्षणस्य दीर्घस्य नियमादित्यर्थः । एतच्चोपधाग्रहणानुवृत्तेर्लक्ष्यते । हन्तेर्यो हन्तियः, तस्मिन्यो दीर्घविधिस्तत्र न दोष इत्यर्थः । क्वचित्तु - हन्तेति निपातोऽभिमुखीकरणार्थः पठ्यते । अत्रापि यिग्रहणमुपलक्षणम्, दण्डीभूतइत्यत्र च्वौ च इत्यपि दीर्घो भवत्येव ।
इदानीमसत्यपि योगविभागे सर्वनामस्थानापेक्षायां सत्यामपि न दोष इत्याह - सुट्यपीति । अपिशब्दः अप्रकृतिप्रतिषेधे इत्यनेन सम्बन्धनीयः । वाशब्दः पक्षान्तरं द्योतयति । अत्रापि सुडिति सर्वनामस्थानोपलक्षणम्, तदयमर्थः - अथ वा - सुटि सर्वनामस्थाने प्रकृते प्रकरणादपेक्ष्यमाणे । एतेन लौकिकमधिकारमभ्युपगच्छति, शास्त्रीयस्तु नैवाभ्युपगम्यते । अनवकाश इति । हेतुगर्भमिदं विशेषणम् । यतोऽनवकाशः शौ नियमोऽतोऽप्रकृतस्याप्यनुनासिकदीर्घस्य प्रतिषेधे व्यावृत्तौ कर्त्तव्यायामपि प्रवर्त्तते ।
कथमनवकाशत्वम् अत आह - यस्य हीति । द्विविधं सर्वनामस्थानम् - शिः सुट् च, तत्र शिर्नपुंसकस्य सम्बन्धी, तत एतस्य विधानात्, सुट् तु स्त्रीपुंसयोः सुडनंपुसकस्य इति वचनात् । ततश्च यस्य नपुंसकस्य सम्बन्धिनि शौ नियमः क्रियते सुटि सर्वनामस्थानसंज्ञके नैतन्नपुंसके सम्भवति अनपुंसकस्येति वचनात् । हिशब्दो हेतौ, यस्मादेवं तेन कारणेन तत्र सर्वनामस्थाने सुटि नियन्तव्यं व्यावर्त्त्य दीर्घत्वं सम्भवतीति सामर्थ्यादविशेषेण नियम आश्रीयते । एतदुक्तं भवति - यदि प्रकारणाप्राप्तं सर्वनामस्थानत्वं शेराश्रीयते, तदा नपुंसकसम्बन्धित्वमप्याश्रयणीयम् । उभयथाश्रयणे वायमर्थो भवति - इन्नादीनां नपुंसकानां शावेव सर्वनाम स्थाने दीर्घत्वमिति । एवंविधस्य नियमस्य किं तुल्यजातीयं व्यावत्तेनीयम् नपुंसकानामेवैषां सर्वनामस्थानान्तरं न च तदस्तीति नियमविधानसामर्थ्यात्प्रकरणप्राप्तं सर्वनामस्थानत्वं सामर्थ्यप्राप्तं च नपुंसकत्वमुभयमप्यविशेषात्परित्यज्य प्रत्ययमात्रे स्त्रीपुंससम्बन्धिनि दीर्घत्वं व्यावर्त्यत इति ।
विनियम्यम् - साधु नियम्यम् ।
हन्तेरनुनासिकस्येत्यादिना प्रथमश्लोकं व्याचष्टे ।
सर्वनामस्थान इत्यादिना द्वितीयस्य पूर्वार्द्धम् यस्त्वित्यादिना पश्चार्द्धम् ।
अथ वेत्यादिना तृतीयश्लोकम् । अनुवर्त्तमानेऽपीति । लौकक्यत्रानुवृत्तिर्विवक्षिता, न शास्त्रीया स्वरितत्वनिबन्धना । तथा हि सति सामर्थ्यप्राप्तस्य नपुंकत्वस्यैव परित्यागः स्यात्, न वचननप्राप्तस्य सर्वनास्थानत्वस्य । सामर्थ्यप्राप्तस्य नंपुकत्वस्येव परित्यागः स्यात्, न वचनप्राप्तस्य सर्वनास्थानत्वस्य । समार्थ्यादित्युक्तम्, तदेव दर्शयति - शिशब्दो हीति । अविशेषेणोति । नंपुसकत्वं सर्वनामस्थानत्वं च विशेषमनाश्रित्येत्यर्थः । पूर्व नपुंसकत्वाप्रसञ्जनेन केवलसर्वनामस्थानत्वाश्रयेण नियमो दोषप्रसङ्गात्तथा नाश्रीयत इत्याद्ययोः श्लोकयोरुक्तम् ।
वृत्तिकारस्तु सर्वनामस्थानत्वपरित्यागेन केवलनपुंसकत्वाश्रयणमपि दोषप्रसङ्गादेव सर्वथा न कार्यमित्याह - तत्र त्विति । तुशब्दोऽपिशब्दोऽपिशब्दस्यार्थे भिन्नक्रमश्चैतत् इत्यस्यानन्तरं द्रष्टव्यः । तत्रैतस्मिन्नियमे क्रियमाणे नपुंसकस्येत्येतदपि विशेषणं नाश्रीयत इत्यर्थः । किमेवं सति सिद्धं भवति तद्दर्शयति
- तेनेति । तदाश्रयणे ह्ययमर्थः स्यात् - इन्नादीनां नपुंसकानां शावेव दीर्घत्वमिति, ततश्च भ्रूणहनि ब्राह्मणकुले इत्यादावेव दीर्घत्वं न स्यात्, न लिङ्गान्तरे । तस्मान्नपुंसकत्वमपि विशेषणं नाश्रयणीयमिति भावः ।
कथं पुनरप्रकृतस्यासंशब्दितस्य नपुंसकत्वस्याश्रयणप्रसङ्गः इत्यह सर्वनामस्थानविधाने त्विति । सर्वनामस्थानमिति तटस्थमुपलक्षणम्, यदिदं सर्वनामस्थानं शिशब्दस्तस्य यद्विधानं जश्शयोरित्येतत्, तत्रेत्यर्थः । सर्वनामस्थानसंज्ञाविधाने त्विति पाठे योऽयं सर्वनामस्थानसंज्ञः पाठः, न तत्र समीचीनमर्थः पश्यामः । तथा हि - शि सर्वनामस्थानम् इत्येतत्संज्ञाविधानम्, तत्र नपुंसकग्रहणमस्ति । अथ शिशब्दस्य नपुंसकत्वाव्यभिचारादार्थान्नपुंसकस्याश्रयणम् तदत्रैव सूत्रे शक्यते वक्तुम्, किमुच्यते - संज्ञाविज्ञाने त्विति । अथावश्यमयमेव पाठो योज्यस्तदाड़ः प्रश्लेषः स च धात्वर्थानुवादी, सर्वनामस्थानसंज्ञस्याविधानं सर्वनामस्थानसंज्ञाविधानम्, तत्रेति, स एवार्थो यं पूर्वमवोचाम। तुशब्दो हेतौ, अपि स्यादिति सम्भावनायाम् । यस्मान्नपुंसकादेव शेर्विधानं तस्मात्तत्र शिशब्दे क्रियमाणस्य नियमस्य नपुंसकविषयता सम्भाव्यते इत्यर्थः ।।
अत्वसन्तस्य चाधातोः ।। अत्रेत्यदि । ननु च परत्वान्नित्यत्वाच्च नुमेव पूर्व प्राप्नोति तत्राह - यदि हीति । इह दीर्घश्रुत्याचः स्थानित्वम्, तच्च न स्वरुपेण, किं तर्हि उपधायाः इत्यनुवृत्तेरुपधात्वनिबन्धनम्, अत एवाजन्तस्य दीर्घाभावः । तस्मात्सथानिन्येवात्र निमित्तशब्दः प्रयुक्तः ।
पिण्डग्रश्चर्मव इति । ग्रसु ग्लसु अदने, वस आच्छादने क्विप् । ननु चानर्थकत्वादेवात्र न भविष्यति, मूलोदाहरणेषु त्वसुन्प्रत्ययस्यार्थवत्त्वात्सिद्धम् अत आह - अनर्थकोऽपीति । अत्रैव हेतुमाह - अनिनस्मिन्ग्रहणानीति । अयमेव धातुप्रतिषेधो ज्ञापयति - अस्तीयं परिभाषेति । नैतदस्ति ज्ञापकम्, अस्यर्थमेतत्स्यात् - शत्रनस्यात्, शत्रूनस्यतीति शत्रूव इति, तस्माद्वचनमेवेदम् । अतुग्रहणे त्वर्थवतोऽतुशब्दस्याभावादेवानर्थकस्य ग्रहणम् ।
अन्तग्रहणमनर्थकम्, केवलयोरत्वसोरभावादेव सिद्धम् अत आह अन्तग्रहणमित्यादि । अपदेशः - लक्षणवाक्यानि गणपाठश्च, प्रयुज्यत इति प्रयोगः, उपदेशे प्रयोग उपदेशप्रयोगः । उपदेशे यत्प्रयुज्यते शब्दंरुपं तदेकदेशस्याप्यत्वसन्तस्य परिग्रहार्थमित्यर्थः । असति पुनरन्तग्रहणे कस्य ग्रहणं न स्यात् इत्यत आह - इतरथा हीति । मतुब्ग्रहणमुपलत्रणम् । कुमुदनडवेतसेभ्यो डमतुप् इत्यस्यापि ग्रहणं न स्यात् । किं कारणमित्यत आह - उपदेश इति । रुपनिर्ग्रहः - रुपनिश्चयः । स यद्यपि लौकिते प्रयेगे भवति, अनुबन्धयुक्तं तु रुपमुपदेश एव निश्चीयत इत्युपदेश इत्युक्तम् । नायमत्वन्त इति । यद्यपि तावतोऽवधेरतुरन्तः, तथापि न तत्पर उपदेशः, यत्परश्चोपदेशो न सोऽत्वन्तः, पकारान्तत्वात् । ततश्च तस्य ग्रहणं न स्यात्, अन्तग्रहणसामर्थ्यात्तु तावतोऽप्यवधेरत्वन्तस्य ग्रहणम् ।।
अनुनासिकस्य क्विझलोः क्ङिति ।। 6 - 4 - 15 ।।
अङ्गाक्षिप्तस्य झला विशेषणात्तदादिविधिः । कितीत्येतत्सम्भवव्यभिचाराभ्यां झलादेरेव विशेषणम् । प्रतानित्यादि । तमु काड़्क्षायाम्, शमु उपशमे, दमु ग्लानौ - एतेभ्यः क्विप, मो नो धातोः इति नत्वम् । यङलुगन्तात्तसिति । स्य सार्वधातुकमपित् इति ङित्त्वम् । वस्तुकथनं चैतत्, न त्वनेन निष्ठाशङ्का वार्यते ङिति खल्वपि इत्युपक्रमात् । किञ्च निष्ठायामिटा भवितव्यम्, न चोदित्त्वाद् यस्य विभाषा इति प्रतिषेधः, एकाच इति तत्रानुवृत्तेः ।।
अज्झनगमां सनि ।। 6 -4 - 16 ।।
अत्र यद्यपधाया इत्यनुवर्त्तेत, अजन्तेषु व्यञ्जनस्य दीर्घप्रसङ्गः । तस्मान्निवृत्तम् । यद्येवम्, हनिगम्योरलोऽन्त्यस्य दीर्घप्रसङ्गः तन्न, अचश्च इत्युपस्थानात् । न चैवमभ्यासस्य प्रसङ्गः, हन् स इति स्थिते परत्वाद्दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम् । अस्तु वाऽभ्यासस्यापि दीर्घः, ह्रस्वः इति भविष्यति । जिघांसतीति । अभ्यासाच्च इति कुत्वम् । अधिजिगांसत इति । इङश्च इति गमिरादेशः ।
इह बहवो गमयः - गम्लृ स़ृप्लृ गतौ इति धातुः, णौ गमिरबोधने, सनि चेतीणादेशः, इण्वदिक इति वक्तव्यम् इतीक आदेशः, इङश्च इतीङादेशश्चेति तत्राविशेषात्सर्वत्र प्रसङ्गे सत्याह - गमेरिङादेशस्येति वक्तव्यमिति । इण इक इङश्चैक एवादेशः स इहोपलक्ष्यते, अतो धातुमेकं वर्जयित्वा त्रयाणामादेशस्य
ग्रहणम्, तथा च वक्ष्यति - अजादेशस्य गमेरिति । एवं चेणिकोरादेशस्यापि गमेर्भावकर्मणोरात्मनेपद इडभावे झलादौ सनि अज्झन इति दीर्घो भवत्येव सञ्जिगांस्यते इति । सञ्जिगंसत इति । गमेः समो गम्यृच्छि इत्यात्मनेपदं विहितम्, तत्र च अकर्मकात् इति वर्तते, तेन सनन्तादपि पूर्ववत्सनः इत्यात्मनेपदमकर्मकादेव भवति, ततश्च मातरमित्यपफाठः, । मात्रेति तृतीयान्तं पठितव्यम् । सञ्चिगांसदिति । सम्पूर्वाद् गमेः सन्, सकर्मकत्वात् परस्मैपदम्, छान्दसत्वादिडभावः, बहुलं छन्दस्यमाङ्योगेऽपि इत्यडभावः । प्रायेण तु वृत्तौ साट्कं कठ्यते ।
इहेत्यादिना गमेरिङादेशस्येति वक्तव्यम् इत्येतत्प्रत्याचष्टे । कथं पुनः सनि दीर्घः इत्येतावति सूत्रे क्रियमाणऽजन्तस्यैव दीर्घत्वं लभ्यते अत आह - तत्राचेत्यादि । सनि दीर्घः इति सूत्रे क्रियमाणएऽङ्गस्येति वर्त्तते, दीर्घश्रुत्या वा अचश्च इत्युपतिष्ठते, तत्र विशेषणविषेष्यभावं प्रति कामचारादुत्तरत्र हनिगम्योदीर्घविधानाद् गृह्यमाणमङ्गमचा विशेष्यते, तेन त्वचाङ्गम, विशेषणेन तदन्तविधिर्भवतीति सिद्धमजन्तस्य दीर्घत्वम्, यथा अकृत्सार्वधातुकयोः इत्यत्र । तस्मादिहाज्ग्रहणं न कर्त्तव्यम् । किमर्थ तर्हि क्रियते इत्याह - तत्क्रियत इति । प्रवृत्तिभेदेन - व्यापारभेदेन । तमेव दर्शयति - अजन्तस्येति । एवं च अज्ग्रहणं सामर्थ्यादावर्तते इत्युक्तं भवति ।।
तनोतेर्विभाषा ।। 6 - 4 - 17।।
उपसंख्यानेनेति । तनिपतिदरिद्राणामुपसंख्यानम् इत्यनेन ।
क्रमश्च क्त्वि ।। 6 - 4 - 18 ।।
अनुनासिकस्य क्विझलोः क्ङिति इति नित्यस्य दीर्घस्यापवादोऽयं विकल्पः । उपधाया इति । यद्यप्युपधाग्रहणं पूर्वमेव निवृत्तम्, तथापि अचश्च इत्युपस्थानाद्, अन्यस्य चाचोऽसम्भावदेवमुक्तम् ।
क्रमित्वेति । उदितो वा इति पक्षे इट् । बहिरङ्गोऽपि ल्यबादेश इति । एतच्च अदो अग्धिर्ल्यप्ति किति इत्यत्र ल्यब्ग्रहणेन ज्ञापितम् ।।
च्छ्रवोः शूडनुनासिके च ।। 6 - 4 - 19 ।।
यद्यत्र केवलस्य छस्य ग्रहणं स्यात्, तदा पृच्छेरुप देशानन्तरं तुकि कृते क्तप्रत्यये परतश्छकारमात्रस्य शादेशे षत्वे तुकः ष्टुत्वे षृट्ष्ट इत्यनिष्टं रुपं स्यात् । न च निमित्ताभावे नैमित्तिकस्याप्यभावः इति तुको निवृत्तिः, न हीदं वचनं नापि न्यायः, न हि कृतस्य निवृत्तौ कश्चिन्न्यायः । कथं तर्हि स्थातेत्यत्र सत्वे कृते ष्टुत्वस्य निवृत्तिः, नात्र कृतमेव ष्टुत्वं निवर्त्तते, किं तहि तस्यासिद्धत्वात्पूर्वमेव सत्वम्, तत्र ष्टुतवस्य प्राप्त्यभावः तदेवं वितुक्कस्य ग्रहणे दोषं दृष्ट्वाऽऽह - छ इत्येतस्य सतुक्कस्येति । कथं पुनर्ज्ञायते - छेत्यस्य सतुक्कस्य ग्रहणमिति यजयाच इति नङो ङित्करणात् । तद्धि विश्न इत्यत्र गुणो मा भूदिति, सतुक्कस्यैव शादेशे लघूपधत्वाद् गुणप्रसङ्गः । वितुक्कस्य तु शादेशे तकार उपधा, नेकारः, संयोगे गुरु इति गुरुसंज्ञश्च । पृच्छेस्तु क्ङिति सम्प्रसारणार्थ नङो ङित्त्वं न भवति प्रश्ने चासन्नकाले इति निपातनात् । तस्मात्सतुक्कस्य ग्रहणम् । एवं च कृत्वा षृष्टप्रतिवचने इति निर्द्देशोपपत्तिः । ननु सतुक्कस्य ग्रहणेऽपि अलोऽन्त्यस्य इति छमात्रस्य प्रसङ्गः न ह्यनर्थकेऽलोन्त्यविधिरस्ति । अथ सतुक्केन च्छेनाङ्गस्य विशेषणात्तदन्तस्याङ्गस्यालोऽन्त्यस्य प्रसङ्गः तदापि निर्द्दिश्यमानस्यादेशा भवन्ति इति सह तुका भविष्यति ।
अन्तरङ्गत्वादिति । उपदेशान्तरं प्रसङ्गादन्तरङ्गत्वम्, शस्तु बहिरङ्गः, कथम् उत्पन्ने प्रत्ययेऽङ्गसंज्ञा, अङ्गस्य च शादेशः । न च वार्णादाङ्गं बलीयः, भिन्नकालत्वात् ।
औणादिके नप्रत्यय इति । साक्षात्सिवेरविहितोऽपि बाहुलकान्नप्रत्ययः । पुगन्तलघूपधगुणात्पूर्वमूठ् क्रियते इति । अन्तरङ्गत्वादिति वक्ष्यमाणो हेतुरिहाव्यपक्रष्टव्यः, गुणो हि बह्वहेक्षो बहिर्भूतप्रत्ययाप्रेक्षश्च, ऊठ् तु विपर्ययादन्तरङ्गः, तेन स एव पूर्व क्रियते । तत्र कृतेऽन्तरङ्गत्वाद्यणादेश इति । अन्तर्भूताजपेक्षत्वाद्यणोऽन्तरङ्गत्वम्, गुणस्तु पूर्ववदेव बहिरङ्गः । नानाश्रयत्वाच्चेति । यत्रैकमेव निमित्तीकृत्याङ्गवर्णयोर्युगपत्प्राप्तिस्तत्र वार्णादाङ्गं बलीयः, तथा अचो ञ्णिति इति वृद्धेरवकाशः - गौरिति, यणोऽवकाशः - दध्यत्रेति चकारेत्यत्र कृ - अ इति स्थिते उभयप्रसङ्गे परामपि वृद्धिं बाधित्वान्तरङ्गत्वाद्यणि
प्राप्ते वार्णादाङ्गं बलीयः इति वृद्धिर्भवति ।
शब्दप्राडिति । व्रश्चादिषत्वम्, जश्त्वजत्वे । गोविडिति । विच्छ गतौ, गां विच्छायतीति विगृह्य आयादय आर्धधातुके वा इत्यायप्रत्ययाभावपक्षे क्विप् । अक्षद्यूः, हिरण्यष्ठ्यूरिति । दिविष्ठिविभ्यां क्विप्, सुब्धातुष्ठिबुष्वष्कतीतनां प्रतिषेधः इति सत्वाभावः । ननु चान्तरङ्गे यणि बहिरङ्गस्योठोऽसिद्धत्वाद्यणादेशेन नात्र भवितव्यम् अत आह - असिद्धं बहिरङ्गमन्तरङ्ग इति । नाजान्तर्य इति । अस्यायमर्थः - यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्यमाश्रीयते तत्र बहिरङ्गपरिभाषा न प्रवर्त्तत इति । एतच्च षत्वतुकोरसिद्धः इत्यत्र ज्ञापितम् । द्युम्यामिति । ऊठोऽवकाशः द्यूतः, द्यूतवान्, उत्वस्यावकाशः - अहर्विमलद्युः द्युभ्यामित्यादावुभयप्रसङ्गः । तस्मात् क्ङितीत्यत्रानुवर्त्तयितव्यमिति भावः ।
केचिदित्यादि ।तेषां मते हि दिविप्रभृतीनां यङ्लुगन्तानां तिप्सिपोरीडभावपक्षे ऊठि सति देदिवीति देद्योति, देदिवीषि, देद्योषीति । पूर्वत्र तु पक्षे वलिलोपे- देदेति, देदेवीति ।
कथं द्युभ्यां द्युभिरिति ऊठि कृत इति । क्ङितीत्यास्याननुवृत्तत्वात् अत्रापि परत्वादूठा भाव्यम्, ऊठि च कृते द्यूभ्यां द्यूभिरिति भवितव्यमिति प्रश्नः । दिव उदिति तपरकरणादित्यादि । अत्र हि तपरकरणं न कर्त्तव्यम्, यतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्राकालो ह्रस्व एव सिद्धः, तत्क्रियते लक्षणान्तरेणापि दीर्घो मा भूदिति । तेन परमप्यूठं बाधित्वा दिव उत् इत्यनेन मात्राकालो भविष्यतीत्यर्थः ।
अथ वा - ऊठि कृते इत्यस्य परेण परिहरग्रन्थेन सम्बन्धः । तत्रायमर्थः - क्रियतां सामान्येन क्ङिति चान्यत्र च ऊठ्, कृते तु तस्मिन्नेकदेशविकृतस्यानन्यत्वात्तस्यैवोठः स्थाने तपरत्वान्मात्राकालो भविष्यति । तेषामित्यादि । क्ङिद्ग्रहणे हि निवृत्ते सति तृजादावपि शास्यानेन विधानाद् व्रश्चादिसूत्रे छग्रहणं न कर्त्तव्यम्, शकारस्य षत्वविधानेनैव सर्वस्य सिद्धत्वात् । ये तु क्ङिद्ग्रहणमनुवर्तयन्ति, तेषां तृजादौ शत्वस्याभावाच्छस्येव षत्वं विधातव्यम् । तत्रापि सतुक्कस्य ग्रहणम् ।
ऊडयं यदि दित्स्याद् आद्यन्तौ टकितौ इत्यादिः प्रसज्येत, अस्तु वकारस्य, वलि लोपे सति अक्षद्यूरित्यादि सिद्धम् । न च नाप्राप्ते वलिलोपे आरभ्यमाण ऊङ्वलोपस्य बाधकः स्यादिति शङ्कनीयम्, भिन्नजानीयत्वात् - ऊडागमः, लोप आदेशः, न च भिन्नजातीयं बाधकं भवति । न हि दधि ब्राह्मणेभ्यो दीयतां कम्बलः कौण्डिन्यायेति दध्नः कम्बलो बाधको भवति सत्यम्, उत्तरसूत्रे त्वागमिभेदाद् द्वावूठौ स्याताम् - एको वकारात्पूर्वः, अपर उपधायाः, तस्मादूठष्टित्वमवश्याङ्गीकर्त्तव्यमिति मन्यमानस्तदङ्गीकरणे प्रयोजनमाह - ऊठष्ठित्करणमिति । एवं ब्रुवता एत्येधत्यूठसु इति ठकारस्य चर्त्त्वेन निर्द्देश इत्युक्तं भवति । यत्र ठकारो न क्रियते ततो वृद्धिविधावपि नोपादीयेत, ततश्च प्र - ऊहते पोहत इत्यत्रापि स्यात् । वाह ऊडित्ययमपि ठिदेवेति । अन्यथा तस्य वृद्धिविधौ ग्रहणं न स्यात्, अत्रापि ठकारस्याश्रवणं जश्चत्वचर्त्वाभ्याम् ।।
ज्वरत्वरस्रिव्यविमवामुपधायाश्च ।। 6 - 4 - 20 ।।
ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ।।
राल्लोपः ।। 6 - 4 - 21 ।।
मुर्छेति । मुर्छा मोहसमुच्छ्राययोः । हुर्छेति । हुर्छा कौटिल्ये । ननु च पूर्वत्र सतुक्कस्य छकारस्य ग्रहणं वितुक्कश्चायम्, तत्कथमत्र लोपः इत्याह - राल्लोप इत्यादि । ननु यदि नाम रेफात्परः सतुक्कशछकारो न सम्भवति, किमेतावताऽप्रकृतस्यासंस्थितस्य केवलस्य छस्य ग्रहणं भवति तस्मादेवं व्याख्येयम् - पूर्वत्र द्विच्छकारो निर्द्देशः, तत्रैकः सतुक्कः, अपरस्तु केवलो गृहीतः, त त्र च राल्लोप सतुक्कस्य छस्यासम्भाव्तकेवलो गृह्यत इति । यदि द्विच्छकारकः पूर्वत्र निर्द्देशः, च्छ्वोरिति निर्द्देशो नोपपद्यते, कथम् समाहारद्वन्द्वे एकवचनप्रसङ्गः नैष दोषः पूर्वं द्वयोरछकारयोः समाहारद्वन्द्वं कृत्वा पश्चाद्वकारेणेतरेतरयोग द्वन्द्वः करिष्यते । एवमपि द्वन्द्वाच्चुदषहान्तात्समहारे इति समासान्तः प्राप्नोति तर्हि छकारवकारयोः समाहारद्वन्द्वं कृत्वा तेन सह सतुक्कस्य छस्येतरेतरयोगे द्वन्द्वो भविष्यति । यदि पूर्वत्र वितुक्को गृह्यते, वाञ्छतेः क्विपि शत्वं प्राप्नोति इष्टमेवैतत्संगृहीतम् - वांशौ, वांश इत्येव भवितव्यम् ।।
असिद्धवदत्रा भात् ।। 6 - 4 - 22 ।।
आ भादितिनिर्द्दशः आ कडारात् इत्यनेन व्याख्यातः । सिद्धशब्दो निष्पन्नवचनः, न सिद्धोऽसिद्धः - यः पुनः सिद्धोऽपि सिद्धकार्य न करोति, स तेन तुल्यं वर्त्तत इति असिद्धवत् । किं पुनस्तत् प्राधान्यात्कार्य मिति प्राप्तम्, शास्त्रं हि कार्यार्थत्वादप्रधानम् । कार्यस्य चासिद्धत्वे आदेशलक्षणप्रतिषेध एव सिध्द्येत् - आगहि, जहीति न तूत्सगलक्षणस्य भावः - एधि, शाधीति । कार्यस्यासिद्धत्वे ह्ययमर्थः - आ भाच्छास्त्रीयं कार्य प्रवृत्तमपि प्रवृत्तकार्यं न क्रोतीति, अतः प्रवृत्तकार्यनिबन्धनस्यैव कार्यस्य प्रतिषेधः स्यात् । न च एधि, शाधीत्यत्र एत्वशाभावनिबन्धनं किञ्चित्कार्य प्राप्तं यस्य प्रतिषेधो विज्ञायेत । आभीयं तु शास्त्रं स्वकार्य कुर्यादेव । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोः प्रवर्त्तितयोः स्थानिनोरभावात्तन्निबन्धनं धित्वं न स्यादेव । शास्त्रासिद्धत्वे त्वयमर्थः - आभीयं शास्त्रं निष्पन्नमपि स्वकार्य न करोतीति । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोरप्रवृत्तत्वादनिवर्त्तितत्वाच्चैत्वधिभावशास्त्रस्य स्थानिबुद्धिरेव वर्त्तते इति तन्निबन्धनं कार्यसिध्यति । अतो व्यापकत्वाच्छास्त्रस्यैवासिद्धत्वम्, आ भादिति शास्त्रस्यैव विषयत्वेन निर्द्देशाच्च ।
यद्ययं स्वतन्त्रविधिः स्यात्, तदा भाद्ग्रहणं विषयनिर्द्देशार्य वा स्यात् - आ भाच्छास्त्रे।थ़त्र कर्त्तव्येऽसिद्धवदिति, असिद्धवद्भवतो वा निर्द्देशार्थम्, अत्रग्रहणं तु विषयार्थम् - आ भाद्यच्छास्त्रं तदसिद्धवद्भवति अत्रैवाभीये शास्त्रे कर्त्तव्य इति तत्राद्ये पक्षे असिद्धवद्भवतो निर्द्देशाभावाद्यत्किञ्चनाष्टाध्याय्यां कार्य तत्सर्वमाभीये कर्तव्ये असिद्धवत्, ततश्च चधिन्विकृण्व्योर च इत्यस्यासिद्धत्वद्धिनुते, कृणुत ित्येतो लोपो न स्य्त । अत्रग्रहणं चानर्थकं स्यात्, अपरिपूर्णत्वादध्याहारेणौवा भाद्यत्तत्र कर्त्तव्य इत्यर्थलाभात् । द्धितीये तु पक्षे समानाश्रयत्वं विशेषो न लभ्येत, ततश्च प्रशमय्येति मितो ह्रस्वस्यासिद्धत्वाल्लघुपूर्वो मकारो न भवतीति ल्यपि लघुपूर्ात् इत्ययादेशो न स्यात् प्रबेभिदय्येति, भिदर्यङन्ताद् णचि यस्य हलः इति यलोपस्यासिद्धत्वाल्लघुपूर्वादुत्तरो णज्न भवति, यकारेण व्यवधानादित्ययादेशो न स्यात् प्रस्तन्य्येति, अदन्तात्स्तनशब्द इत्यस्माद् णिच्यल्लोपस्यासिद्धत्वाल्लघोरेव परो णिच्, न तु लघुपूर्वादित्ययादेशाप्रप्तिः, पशुं सनोतीति जनसनखन इति विट्, विड्वनोः इत्यात्वम्, सनोतेरेनः इति शत्वम् - पशुषाः, ततः शसि पशुषो नवाजानित्यादावात्वस्यसिद्धत्वात् आतो धातोः इत्यालोपो न स्यात् चाखायितेति, खनेर्यङि द्विर्वचनात्परत्वात् ये विभाषा इत्यात्वे द्विर्वचने तृचि आत्वस्यासिद्धत्वात् यस्य हलः इति यलोपः स्यात् पपुष इत्यादौ च दोषो वक्ष्यते ।
अधिकारे आ भाद्ग्रहणं चानर्थकं स्यात्, थअधिकारादेव तदर्थलाभात् । तथा हि - शनान्नलोपः इत्यत्रास्मिन्नुपस्थिते सति श्नादुत्तरस्य नकारस्य लोपो भवति स चासिद्धवद्भवतीत्ययमर्थो भवति । एवम् अनुदात्तोपदेश इत्यादावपि, तत्किमसिद्धवद्भवतो निर्द्देशार्थेनाभाद्ग्रहणेन । न चासिद्धवद्भवत इत्यत्तावधारणार्थमाभाद्ग्रहणम्, अधिकारे ह्यस्मिन्नवध्यनिर्द्देशाद् युवोरनाकौ इत्यादीनामपि असिद्धत्वं स्यादिति वाच्यम्, ङ्याप्प्रतिपदिकात् इतिवदन्तरेणाप्यवधिनिर्द्देशमधिकारपरिमाणावगतेः । नन्वसत्याभाद्ग्रहणेऽधिकारेऽस्मिन् सति यत्रैतदधिकृतं तदेव सूत्रं तद्धिहितं वा कार्यमत्रग्रहणेन परमृश्येत, अन्यस्य सन्निहितस्याभावात्, ततश्च श्नान्नलोपः इत्यस्यायमर्थः स्यात् - श्नादुत्तरस्य नकारस्य लोपो भवति, स चासिद्धवद्भवत्यत्रैव श्नान्नलोपे कर्त्तव्य इति । एवं सर्वत्र । ततश्च चिणो लुक् इत्यत्रैवेष्टं सिध्येत् - अकारितरामिति , गतः, गतवानित्यादावन्यस्मिन्नाभीयेऽन्यस्याभीयस्यासिद्धत्वानापादनादतो लोपादि स्यादेव । आ भाद्ग्रहणं तु कृत्वा विधावाश्रीयमाणे तस्यैव सन्निहितस्यात्रग्रहणेन परामर्शादाभीयमाभीयेऽसिद्धवत्स्वस्मिन्नन्यस्मिन्बेत्ययमर्थो लभ्यते उच्यते, अधिकारेऽप्यस्मिन्सति अनुदात्तोपदेश इत्यादौ तत्रैव कर्त्तव्ये तस्यैवासिद्धवचने न किञ्चित्प्रयोजनमस्तीति तत्कार्यविशेषरुपपरित्यागेन इदमसिद्धवद्भवति । अत्र कर्त्तव्ये इत्येवं सामान्यरुपेण परामर्शादन्यस्मिन्नप्यन्यस्यासिद्धत्वं भविष्यति, तदेवमा भाद्ग्रणमतिरिच्यमानं विषयार्थ विज्ञायते । अधिकाराच्चासिद्धवद्भवतोऽवगतिः ।
अत्रग्रहणं तु समानाश्रयत्वप्रतिपत्त्यर्थम्, यद्युभे अप्याभीये एकमेव निमित्तमाश्रित्य प्राप्नुतः, एवमन्योऽन्यस्मिन्नसिद्धवद्भवति, किमत्रग्रहणमतिरिच्यते इत्यतः समानाश्रयत्वप्रतिपत्तिः नेत्याह अक्षरार्थ
एवायम् तथा हि - अनुदात्तोपदेश इत्यत्रास्मिन्नुपस्थिते सत्ययमर्थो भवति - अनुदात्तोपदेशानां लोपो भवति झलादौ क्ङिति परतः, स चासिद्धवद्भवति । कुत्र कर्त्तव्ये अत्र यदा भात्तत्रेति । कोऽर्थः क्ङित्यनुनासिकलोपो भवतीत्युक्तम्, अत्रैव क्ङितिनिमित्ते सति यदाभीयं प्राप्नोति तत्र कर्त्तव्य इति । एवं सर्वत्र । एवं च विस्पष्टमक्षरैरेव समानाश्रयत्वं प्रतिपादितं भवति ।
यद्ययमधिकारस्ततो यत्रास्योपस्थानं तत एवारभ्य यदा भात्तत्रैव तस्यासिद्धत्वं स्यात्, न तु स्वस्मात्पुर्वेष्वितरेषु, यद्देशस्थेन हि वक्ता आङुच्चार्यते तत तएवारभ्य मर्यादाभिविधिप्रतिपत्तिः यथा - आ पाटलिपुत्राद्वृष्टो देव तइति, एवं च ध्वसोरेद्वौ इत्यस्यायमर्थो भवति - अस्तेहौ एकारः, स चेत आरभ्य यदा भात्तत्रासिद्धवदिति, ततश्च पूर्वत्र धित्वे नासिद्धवत्स्यात् स्वतन्त्रे तु विधौ अत्रैव प्रदेशे आङर्थ प्रतिपदायन् अत एवारभ्य यदा भात्तदसिद्धवद्भवत्यत्रैव कर्त्तव्य इति श्नान्नलोपः इत्यारभ्य ऋत्व्यवास्त्त्व्य इत्येवमान्तानां सर्वेषामेवान्योऽन्यस्मिन्नसिद्धत्वमापादयति उच्यते द्वौ पक्षौ - शब्दाधिकारश्चार्थाधिकारश्च, ततश्च शब्दाधिकारे स्यादेष दोषः, अर्थाधिकारे त्वस्मिन्नेव प्रदेशो आङर्थ प्रतिपादयन् पूर्ववत्प्रतिपादयति, स च प्रतिपादितार्थादुत्तरत्रोपतिष्ठते, उपस्थितश्च तत्रतत्रोपस्थितेनात्रग्रहणेन विशेष्यत इति सर्वमिष्टं सिद्धम् । तदनेन सूक्षेणायमर्थः सम्पादितः श्नान्नलोपः इत्यारभ्यापादपरिसमाप्तेर्यानि सूत्राणि तान्यन्योऽन्यस्मिन्नसिद्धवद्भवन्ति, तानि चेत्तुल्यनिमित्तानीति । तदेतत्सर्व वृत्तौ यथास्थानं योज्यम् । तदाश्रयमेव भवतीत्यत्रासिद्धवदिति वक्ष्यमाणमपक्रष्टव्यम् । विभिन्नाश्रयम् - व्याश्रयम्, विभिन्ननिमित्तमित्यर्थः ।
असिद्धवचनमित्यादि । उत्सृज्यते आदेशेन निवर्त्यत इत्युत्सर्गः - स्थानी, स लक्षणं निमित्तं यस्य तदुत्सर्गलक्षणम्, तस्य भावः - प्रवृत्तिर्यथा स्यात् । एतच्च शास्त्रासिद्धत्वाश्रयणाल्लभ्यत इत्युक्तम् । आगहीति । बहुलं छन्दसि इति शपो लुक् अनुदातोपदेश इत्यादिनानुनासिकलोपः । जहीति । हन्तर्जः ।
अभाजीति । भञ्जेश्च चिणि इत्यनुनासिकलोपः । राग इति । रञ्चेश्च घञि च भावकरणयोः इत्यनुनासिकलोपः ।
अत्रग्रहणं किमिति । यद्यपि समानाश्रयत्वप्रतिपत्त्यर्थमिति पूर्वमेवात्रग्रहणस्य प्रयोजनमुक्तम्, तथापि समानाश्रयत्वप्रतिपत्तेः कि फलमिति प्रश्नावसरोऽस्त्येव । पपुष इति । पा पाने, आतो लोप इटि च । चिच्युष इति । चिञ् चयन, एरनेकाचः इति यणादेशः । लुलुविष इति । लूञ् छेदने । कथं पुनरत्र व्याश्रयत्वम् इत्याह - आलोपादीनि हीति । नन्वेवमपि नैवात्रालोपादीनि सिध्यन्ति, अन्तरङ्गाणि हि तानि, तदन्तर्भूतसम्प्रसारणापेक्षत्वात् बहिरङ्गं सम्प्रसारणम्, बहिर्भूतविभक्त्यपेक्षत्वात्, ततः किम् असिद्धं बहिरङ्गमन्तरङ्गे तत्राह - असिद्धं बहिरङ्गमन्तरङ्गे इत्यादि । एतदिति वचनापेक्षं नपुंसकत्वम् । क्रिमिति न प्रवर्त्तते अत आह - एषा हीति । आ भाच्छास्त्रीयेति । वाह ऊठ इत्यत्र ज्ञापितत्वात् । ततः किम् इत्याह - तस्यामिति । अन्तरङ्गबहिरङ्गयोर्युगपत्सन्निधानं नास्तीति परिभाषया सह यौगपद्यमेष्टव्यम् । परिभाषासन्निधावन्तरङ्गबहिरङ्गयोरवस्थानाभावादित्यर्थः । वसुसम्प्रसारणं चैकं परिभाषाया आल्लोपादीनां चाश्रय इति समानाश्रयत्वमप्यस्ति । एतच्च नाजानन्तर्ये इत्यनाश्रित्योक्तम् । आल्लोपादयो हि अचोरानन्तर्यमाश्रित्य प्राप्नोवन्ति ।
वुग्युटाविति । तत्र युटा तावत्सिद्धत्वं न वक्तव्यम्, युड्विधानसामर्थ्यात् यण् न भविष्यति । तत्र यकारद्यश्रवणार्थ युड्विधानम् यणो मयो द्वे भवतः इति द्विर्वचनविधानात् । हलो यमां यमि लोपः िति पक्षे लोपविधानाच्च पक्षे यकारद्वयश्रवणस्य सिद्धत्वात् । वुकोऽपि सिद्धत्वं न वक्तव्यम्, कथम् नाप्राप्ते उवङ्यारभ्यमाणो वुक् तस्यापवादो भविष्यति । ननु च बाधकप्रवृत्तिवेलायां यद्विरुध्यते तद्वाधकेन निवर्त्तितं न प्रवर्त्तते, उवङ्निरवकाशे वुकि प्रवर्त्तमानेऽसिद्धत्वात्स्वमात्मानमदर्शयन्नशक्यो बाधितुमिति वुकि कृते तस्यासिद्धत्वात्स्यादेव एवं तर्हि वुग्न करिष्यते, भुवो लुङ्लिटोरुटुपधायाः इति सूत्रमस्तु, तत्र च ओः सुपि इत्यतः ओरित्यनुवत्तिष्यते, तेन भुवाऽङ्गस्योपधाया उकारस्य ऊद्भवतीत्याश्रयणे उवङि कृत ऊकारो भविष्यति । यद्येवम्, बभूव, बभूविथेति गुणवृद्ध्योरवावोश्च कृतयोरुवर्ण उपधां न भवतीत्यूत्वं न स्यात् तत्रापि इन्धिभवतिभ्यां च िति पितोऽपि लिटः कित्त्वाद् गुणवृद्ध्योरभावे उवङि ऊद्भविष्यति । यद्येवम्,
इन्धिश्छन्दोविषयत्वाद्भुषो वुको नित्यत्वादिति न्यायात्तन्न कर्त्तव्यं भवति अवश्यं च वुको नित्यत्वमाश्रित्य बभूवेति शाधयितव्यम् अन्यथा अचो ञ्णिति इत्यत्रेक इत्युनपस्थानादनिग्लक्षणा वृद्धिः स्यादेव एवं तर्हि नार्थो वुका, नापि कित्त्वेन, ओः सुपि इत्यत्रावर्णमपि प्रिश्लष्यते, अकारोकारयोराद्गुणे कृते ङसिङसोश्च इति पूर्वैकादेशेन निर्देशात् । तेन बभूवथेति गुणवृद्ध्योरवाधोश्च कृतयोरवर्णस्याप्युपधाया ऊद्भविष्यति, बभूवतुरित्यादावुवङि कृति उवर्णस्यापि । यद्येवम्, ओः सुपि इत्यवर्णस्यापि निर्देशात्कीलालपः पश्येत्यादावपि यण् स्यात् परत्वाद् आतो धातोः इति लोपो बाधको भविष्यति, लोपस्यावकाशः संयोगपूर्वाकारन्तो धातुः, अकारप्रश्लेषस्योत्तरत्रावकाशः - बभूव, बभूविथ, कीललपः पश्येत्यत्रोभयप्रसङ्गे परत्वादाकारलोपः, विप्रतिषेधे ह्यसिद्धत्वं नास्तीति ज्ञापयिष्यते । एवमपि कीलालपौ सर्वनामस्थाने भसंज्ञाया अभावादाकारलोपाप्रसङ्गाद्यण् स्यात् एवं तर्हि ओः सुपि इत्यत्र अचि श्नुधातु इत्यतः य्वोः इत्यनुवर्त्तिष्यते, ततश्चकारोकाक,मुजानिर्देशेऽपि य्वोः इत्यनेन विशेषणसामर्थ्यादुकारस्यैव यण् भविष्यति, न त्ववर्णस्येति सामर्थ्यादवर्णग्रहणमुत्तरार्थमेव सम्पद्यते । तदेवं सत्यप्यस्मिन्योगे वुग्युटोः सिद्धत्वं न वक्तव्यमिति भाष्ये स्थितम् ।
ये त्वाहुः - भुवो वुग्लुङलिटोः इत्यत्र ओः इत्यनुवर्तनीयम्, उवर्णान्तस्य भुवो वुग्यथा स्यात् - बोभाव, बोभविथेति यङ्लुकि पिति लिटि इन्धिभवतिभ्यां च इत्यत्र श्तिपा निदेशादेसति कित्त्वे गुणवृद्ध्योः कृतयोरनुवर्णान्तस्य मा भूदित्येवमर्थम् । एवं च बभूव, बभूविथत्यत्रापि गुणवृद्ध्योः कृतयोः वुकोऽप्रसङ्गादनित्यात्वात् इन्धिभवतिभ्यां च इति कित्त्वमारमभणीयम् । तत्र च ङिदित्यधिकारात्कित्त्वङित्त्वयोरुभयोरपि विधानद् बभूवेत्यनिग्लक्षणापि वृद्धिर्न भवति । एष तएव च कित्त्वे श्तिपा निर्देशं वुकि च तदभावं कुर्वतः सूत्रकारस्याभिप्राय इति तेषां वुकः सिद्धत्वं वक्तव्यमेव । न च वत्करणं स्वाश्रयमपि यथा स्यादिति वुकः सिद्धत्वं लभ्यते, सत्यसति वा वतावतिदेशेष्वातिदेशिकाविरुद्धस्याश्रयकार्याविवर्त्तनांत्सिद्धत्वासिद्धत्वयोस्तु विरोधात्कथं वतिना सिद्धत्वप्रापथणम् कथं वा विषयविभागो लभ्येत स्थानिवदित्यादौ तु वतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदेशार्थ सत् स्वाश्रयप्रतिपत्त्यर्थं वर्ण्यते एवं तर्हि श्नसोरल्लोपः इति तपरकरणाल्लिङ्गात् क्वचित्सिद्धत्वमनुमीयते, तद्धि आस्तामित्यादावाटो मा भूदिति । यदि चेदमसिद्धत्वं नित्यं स्यात्, आटोऽसिद्धत्वादेव लोपो न भविष्यतीति किं तपरकरणेन वत्करणं तु प्रतिपत्तिलाघवार्थमेव । तथा च षत्वतुकोरसिद्धः, गोतो णिद् इत्यादो वतिमन्तरेणापि परत्र परशब्दप्रयोगादेवातिदेश आश्रितः, तत्रापि चाविरुद्धं स्वाश्रयं भवत्येव ।
अत्राङ् मर्यादायां यदि स्याद्, भाधिकारीयस्यासिद्धत्वं न स्यात् । न चाभाद्ग्रहणं विषयार्थम्, असिद्धवद्भवतस्तु परिज्ञानमधिकारादेवेत्युक्तम् । अतो मर्यादार्थेऽप्याङि भाधिकारेऽप्यस्योपस्थानं न विहन्यते । तस्मादेवं वक्तव्यम् - भाधिकारीये कर्त्तव्ये भाधिकारीयस्य पूर्वस्यैव प्रकारणस्याप्यसिद्धत्वं नोक्तं स्यादिति सत्यम् अयमेव दोषः - तत्र सूर्येणैकदिगिति अणि कृते यस्येतिलोपः, ङीप्, पुनरणो यस्येतिलोपः, तअत्रेदानीम् सूर्यतिष्य इति यलोप इष्यते - सौरी बलाकेति, स न प्राप्नोति भाधिकारीये यलोपे यस्येति लोपस्यासिद्धत्वाभावाद्यकारस्यानुपधात्वात् । स्थानिवद्भावश्च यलोपविधिं प्रति निषिद्धः तमिमं मर्यादापत्रे दोषं दृष्ट्वाऽऽह - आ भादित्ययमभिविधावाङिति । भाधिकारेऽप्यसिद्धवद्भवतीति । भाधिकारेऽपि तदवस्थितम्, तत्रापि कर्त्तव्ये तत्र त्यमन्यच्चासिद्धवद्भवतीत्यर्थः । एवं व्याख्याता वृत्तिः ।
कानि पुनरस्य योगस्य प्रयोजनानि इह पादोऽस्यास्तीति अत इनिठनौ, पादिकः, तउदकं वहतीत्यण् संज्ञायामुदभावः, उदवाहस्यापत्यम् अत इञ् औदवाहिः, सारणशब्दाभ्यां ल्युहन्ताभ्यामत इञ्, सारणिः, वारणिः, शातनपातनशब्दाभ्यां टित्त्वान्ङीप्, शातनी, पातनी स्रंसेर्ध्वंसेर्ण्यन्ताद्यकि स्रंस्यते, ध्वंस्यते, अत्र यस्येतिलोपे णिलोपे च कृते पद्भावः, ऊठ, नस्तद्धिते अल्लोपोऽनः, अनिदिताम् इत्येते विधयः प्राप्नवन्ति, लोपस्यासिध्दत्वान्न भविन्ति तन्न, अचः परस्मिन् इति स्थानिवद्भावेनाप्येतानि सिद्धानि । शा हौ इत्यत्र शास् हौ इति पदच्छेदः, शासः शासित्ययमादेशो भवति, किमर्थमिदम् इत्वबाधनार्थम् ततः हुझल्भ्यः इति धित्वम्, धि च इति सलोपः शाधीति सिद्धम्, धि सकारे सिचो लोप इति नाश्रीयते, चकाधीत्येव भवितव्यमिति निर्णेष्यते ।
ध्वसोरेद्धावभ्यासलोपश्च इत्यत्रापि श्नसोरल्लोपः इत्यतो विषयार्थमल्लोप इत्यनुवृत्तेरल्लोपविषयत्वं भवदकारस्यैव भविष्यति, ततः पूर्ववद् ह्रस्वसलोपयोरेधीति सिद्धम् । इह च कुरु इति क- उहि इति स्थिते हिलुक्च प्राप्नोति गुणश्च, परत्वाद् गुणए कृते अत उत्सार्वधातुके इत्युत्वं च प्राप्नोति हिलुक्च, नित्यत्वाद्धिलुकि कृतेऽपि सार्वधातुकग्रहणसामर्थ्यादभूतपूर्वेऽपि तस्मिन्नुत्वं सिद्धिम् । लुङ्लङ्लृङ्क्ष्वडुदात्तः इत्यत्रोपदेश इत्यनुवृत्तेः द्विलकारकनिर्द्देशाश्रयणाद्वा लुङादिषु लावस्थायामेवाडाटो भवत इति अकारि, ऐक्षीत्यत्र चिणो लुक् इति नित्ये लुकि कृतेऽडाटौ सिद्धो । एवं चासन्नित्यत्रापि प्रागेव श्नसोरल्लोपादाटि कृते तपरकरणाल्लोपाभावः । एवं चायन्नित्यत्रापि इणो यण् इति यणादेशात्प्रगाटि सति सिद्धमिष्टम् । यद्येवम्, ऐज्यत, औप्यतेति लङो लावस्थायां यजिवप्योरनजादित्वादटि सति आटश्च इति वृद्धिर्न स्यात् अत्र परिहारम् आडजीदीनाम् इत्यत्र वत्र्यामः । अतो हेः इत्यत्र च उतश्च प्रत्ययात् इत्यतः प्रत्ययग्रहणआपकर्षणाज्जहीत्यत्र हन्तेर्जभावे लुग्न भविष्यति । अतो लोपः इत्यत्र च अनुदात्तोपदेश इत्यत उपदेशग्रहणानुवृत्तेः उपदेशे यदकारान्तं तस्य लोपः इति गतः, गतवानित्यत्रानुनासिकलोपे कृते सम्प्रत्यकारान्तत्वेऽपि तदभावः ।
इहापि तर्हि न स्यात् - धिन्विकृण्व्योर च, धिनुतः नोपदेशग्रहणेनाङ्गमभिसम्बध्यते - यदङ्गमुपदेशकालेऽकारान्तमिति , अपि तु आर्द्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तमिति । एतदुक्तं भवति - यदार्द्धधातुकमुत्पन्नं न मुहूर्त्तमात्रप्यनकारान्तात्परं तत्र तदन्तस्य लोप इति धिनुत इत्यत्र चोप्रत्ययसन्नियोगेनाकारविधानादुप्रत्यय उत्पन्नो न कदाचिदपि अनतः पर इति ।
इह च मधमस्यास्तीति छन्दसीवनिपौ च इति वनिबन्ताच्छस्, श्वयुवमधोनाम् इति सम्प्रसारणम्, मघ - उन् - अस् इति स्थिते सम्प्रसारणमाक्षित्य यस्येति लोपः प्रप्तस्तस्यासिद्धत्वान्न भवति नात्रासिद्धत्वं लभ्यते, व्याश्रयत्वात् - शसि सम्प्रसारणम्, सम्प्रसारणे यस्येति लोपः । तस्मान्मधवच्छब्दो व्युत्पन्नं प्रातिपदिकम्, ततश्च तद्धिताभावादेव लोपाभावः ।
इह च कंस्विद् गर्भ प्रथमं दघ्र आपि इति । दधातेर्लिटि धा - इरे इति स्थिते नित्यत्वात् इरयोरे इत् छान्दसोः रेभावः, लिट्, छन्दसि सार्वधातुकमपीति शुप्, शापः श्लुः , द्विर्वजनम्, ईहल्यधोः इति प्रतिषेधात्तु श्नाभ्यस्तोरातः इति सिद्धो लोपः, घुव्यतिरिक्तेषु माप्रभृतिषु छान्दसत्वाद्यथादर्शनं भविष्यति ।
इह तर्हि कुर्वः, कुर्मः, कुर्यादिति, कृउ - वस् , कृउ - मस्, कृउ - यात् इति स्थिते नित्यं करोतेः ये च इति लोपश्च प्राप्नोति करोतेर्गुणश्च, तत्रोभयोनिंत्ययोः परत्वाद् गुणे कृते अत तउत्सार्वधातुके इत्युत्त्वं बाधित्वा नित्यत्वादुकारलोपे कृते सार्वधातुकपर उप्रत्यये विधीयमानभुत्वं न स्यात् , न च सार्वधातुक एव परतः शक्यमुत्वं विधातुम्, तथा हि सति कुरुत इत्यादौ विकरणव्यवायेऽपि न स्यात्, क्व तर्हि स्यात् यत्र विकरणस्य लोपः कुर्यात्, कुर्म इत्यादौ यद्यप्यत्रापि स्थानिवद्भावाव्द्यवधानं तथापि वचनादीदृशं व्यवधानमाश्रीयते, तस्माद्भावतीदं प्रयोजनम् न प्रयोजनम् सत्यप्युकारलोपे तस्य स्थानिवद्भावात्प्रत्ययलक्षणेन वा अत उत् इत्यत्र म्वोर्य इत्यनुवृत्तेर्वा उत्वं भविष्यति ।
इह तर्हि करिष्यते इति चिण्वदिटोऽसिद्धत्वाण्णिलोपपो भवति, अन्यथा अनिटीति प्रतिषेधः स्यात् तत्र चिण्वदिट् चेति चकारः समुच्चये - इट् च यच्चान्यत्प्राप्नोति, किं चान्यत्प्रप्नोति णिलोपः, अवश्यं चकारेणैव णिलोपः समुच्चेतव्यः, अन्यथा चिण्वदिटोऽसिद्धत्वेऽपि वलादिलक्षणेनेटा सेड्बुद्धिरेव णिलोपशास्त्रस्यास्मिन्विषये वर्त्तत इति लोपो नैव स्यात्, चिणो लुग् इत्यत्र च अनुदात्तोपदेश इत्यतः क्ङिद्ग्रहणमनुवर्त्य तस्य चिणः इति पञ्चम्या षष्ठ्यां प्रकल्पितायां चिण उत्तरस्य क्ङितो लुग्विधीयते, तेनाकारितरामित्यादौ तरपो न भविष्यति ।
इह तर्हि शुन इति श्वयुवमघोनाम इति सम्प्रसारणे सु - अन् अस् सम्प्रसारणपूर्वत्वं बाधित्वा अल्लोपोऽनः इत्यकारलोपे सति विभक्तेरनुदात्तनिवृत्तिस्वरः प्राप्नोति, कृतेऽस्मिन्योगे सम्प्रसारणस्यासिद्धत्वात् न संयोगाद्वमन्तात् इति प्रतिषेधादल्लोपेऽसति सम्प्रसारणपूर्वत्वे सति एकादेश उदात्तेनोदात्तः इत्याद्युदात्तं पदं भवति । नात्राल्लोपे सत्युदात्तनिवृत्तिस्वरस्य प्रसङ्गः, न गोश्वन्साववर्ण इति प्रतिषेधात् । नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः , कस्य तर्हि तृतीयादिस्वरस्य । स च श्वभ्याम्, श्वभिरिति हलादौ
विभक्तावुदात्तलोपाभावे चरितार्थः एवं तर्हि न लक्षणप्रतिषेधं शिष्मः, किं तर्हि येन केनचित्प्रप्तसय तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिर्नास्ति - शुनः पश्येति, तत्रोदात्तनिवृत्तिस्वरः प्राप्नोति एवं तर्हि तृतीयादिग्रहणमपि निवर्त्तिष्यते, अविशेषेण विभक्तिस्वरमात्रस्य प्रतिषेधः । थज्ञापकाद्वा सिद्धम्, यदयं श्वन्शब्दं गौरादिषु पठति, तज्झापयति - नोदात्तनिवृत्तस्वरः शुन्यवतरतीति ।
एवमपि विद्यते विशेषः, अल्लोपेन वा निवृत्तौ सत्यां पूर्वत्वेन वा अल्लोपे सति, बहवः श्वानो यस्यामिति बहुव्रीहेरुपधालोपित्वाद् अन उपधालोपिनः इति ङीपा भाव्यम् - बहुशुनीति, तदभावे तु बहुश्वेति भवति । गौरादिङीषोऽप्यनुपसर्जनाधिकारादत्राप्रसङ्गः । किञ्च - ज्ञापकात्सामान्येन वा निषेधादुदत्तनिवृत्तिस्वराभावेऽपि कथमाद्युदात्तं पदं भवति, न ह्यल्लोपे सत्येकादेशास्वरोऽस्ति, ततश्च सर्वानुदात्तं पदं स्यात्, तदेतद्भवति प्रयोजनम् न प्रयोजनम्, अन्तरङ्गत्वात्पूर्वत्वं भवति । न च वार्णादाङ्गस्य बलीयस्त्वम् व्याश्रयत्वात् विभक्तिरल्लोपस्य निमित्तम्, पूर्वत्वस्य तु श्वन्शब्दाकारः ।
इह तहि भूयानिति भूबावस्यासिद्धत्वादोर्गुणो न भवेदिति । दीर्घोच्चारणसामर्थ्यान्न भविष्यति । अस्ति दीर्घोच्चारणे प्रयोजनम्, किम् भूम्नेत, निपातनादप्येतसिद्धम् उत्तरपदाभूम्नीति । इदं च सूर्येणैकदिक् सौरी बलाकेति द्वयोरकारयोर्यस्येति लोपेऽपि वचनसामर्थ्याद् भूतपूर्वंगत्योपधाश्रयणाल्लोपो भविष्यति ।
तदेवं न सन्ति प्रयोजनानि, प्रतिपत्तिगौरवपरिहारार्थ सूत्रमारब्धम् ।।
शनान्नलोपः ।। 6 - 4 - 23 ।।
पृथक्पदं लुप्तषष्ठीकम्, तेनोत्तरत्रोपधाग्रहणेन नकारो विशेष्यते । श्नमयमुत्सृष्टमकारो गृह्यत इति । अन्यस्य श्नस्यासम्भावत् । अनक्तीति । अञ्जू व्यक्तिम्रक्षणक्रान्तिगतिषु, भञ्जो आमर्द्दने, हिसि हिंसायाम् ।
शकारवतो ग्रहणं किम् इह मा भूत्, नन्दिता - नन्दकः । एवं वक्ष्यामि नान्नलोपऽनिदिताम् तइति, ततः हल उपधायाः क्ङिति इति अनिदिताम् इत्येव, इहापि न स्यात् - हिनस्तीति । पामादिभ्यो नः - अस्य च ग्रहणं स्यात् एवं तर्हि क्ङितीति वर्तते, सत्सप्तमी चैषा - क्ङिति सतीति, तेन हिनस्तीत्यत्र तिपः पित्तवादङित्वेऽपि श्नममेव ङितमाश्रित्य लोपो भविष्यति । इहापि तर्हि प्राप्नोति - नन्दमान इति, चानशो ङित्त्वात् एवं तर्हि नशब्दमेव क्ङित्त्वेन विषेषयिष्यामः - क्ङितो नश्बदादिति, तस्मात् नान्नलोपः इति वक्तव्यमिति पृच्छति - शकारवतो ग्रहणं किमिति । यज्ञानामति । यजयाच इत्यादिना नङ्, श्चनत्वम्, तस्यासिद्धत्वान्नशब्द एवायम् । ननु यद्यपि नामि दीर्घादयं लोपः परः, सुपि च इत्येतर्द्दर्घत्वमस्मात्परम्, तत्र कृते नादिति व्यपदेशाभावादेव लोपो न भविष्यति अत आह - सुपि चेत्यादि । स्थानिवद्भावादिति । पूर्वस्यादपि विधौ स्थानिवद्भावात् ।
अथ गृह्यमाणेऽपि शकारवतो ग्रहणे विश्नानाम्, प्रश्नानामित्यत्र कस्मान्न भवति, ननु सम्प्रति श्नरुपत्वादत्रैव प्राप्नोति अत आह - विश्नानामिति ।
अत्र संग्रहलोकः -
नान्नस्यायं विधेयो ननु लुबनिदितां नन्दिता चापि सिध्येद्
हिंसेर्न प्राप्तिरेवं क्ङिति सति तु तथा नन्दमानो न सिध्येत् ।
क्ङिन्नाच्चेच्चाथ यत्नाद्वहुवचनाबिधौ दुष्यति स्थानिवत्त्वाद्
विश्नानां लक्षणोक्तप्रतिपदवचनात्सिद्ध एवेत्यदोषः ।।
लोपनं लुप्, लोप इत्यर्थः । राल्लोपः इति प्रकृते लोपग्रहणं विस्पष्टार्थम् ।।
अनिदितां हर उपधायाः क्ङिति ।। 6 - 4 0 24 ।।
इकार इत्संज्ञको येषा ते इदितः ततोऽन्येऽनिदितः, तेषां विषेषणम् - हलः इति । व्यत्ययेन त्वेकवचनम् । सनीस्रंस्यत इति । नीग्वञ्चु इत्यादिनाऽभ्यासस्य नीगागमः । नानन्द्यत इति । टुणदि समृद्धौ, यङ्, दीर्घोऽकितः । नह्यत इति । कित्परत्वेन नकारो विशेष्यते । येन नाव्यावधानमित्येकेन व्यावधानमाश्रीयते - इत्येतत्तु दुर्ज्ञानमिति भावः ।
लङ्गिकम्प्योरिति । इदित्त्वाद्वचनम् । कृच्छ्रप्राप्तिरत्रोपतापः न रोगः, शरीरविकार इत्येव सिद्धत्वात् ।
शरीरविकारोऽत्र व्याधिरुच्यते, नस्वाभाविकः स्थौल्यादिः । विलगितः, विकपित इति । गत्यर्थाकर्मक इत्यादिना कर्त्तरि क्तः ।
मित्त्वादुपधाह्रस्वत्वमिति । एतदेव मित्त्ववचनं ज्ञापकम् - रञ्जेरक्ङित्यप्युपधालोपो भवतीति ।
रजकरजनरजः सूपसंख्यानमिति । कित्त्वात्सिद्धम् । कित एते औणादिकाः प्रत्ययाः, क्वुन् शिल्पिसंज्ञयोः - रजकः । पुंयोगान्ङीषु - रजकी । अपुंयोगे तु नैव ङीषा भवितव्यम् । रञ्जेः क्युन् - रजनः । स च बाहुलकाट्टित्, रजनी । श्रृरञ्जिभ्यां किच्च इत्यसुन्, शिरः रजः ।।
दंशसञ्जस्वञ्जां शपि ।। 6 - 4 - 25 ।।
परिष्वजत इति । ष्वञ्ज परिष्वङ्गे, अनुदात्तेत्, उपसर्गात्सुनोति इत्यादिना षत्वम् ।।
रञ्जेश्च ।। 6 - 4 - 26 ।।
पृथग्योगकरणमुत्तरार्थमिति । उत्तरत्र रञ्जेरेवानुवृत्तिर्यथा स्यात्, दंशिप्रभूतीनां मा भूत् ।।
घञि च भावकरणयोः ।। 6 - 4 - 27 ।।
राग इति । हरश्च इति करणाधिकरणयोर्घञ्, चजोः कु धिण्ण्यतोः इति कुत्वम् ।।
स्यदो जवे ।। 6 - 4 - 28 ।।
जवः - वेगः ।
गोस्यद इति । गोर्गतिविषयो वेग इत्यर्थः । तैलस्यन्द इति । तैलस्य स्रवणमित्यर्थः ।।
अवोदैधोद्मप्रश्रथहिमश्रथाः ।। 6 - 4 - 29 ।।
उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ।।
नाञ्चे पूजायाम् ।। 6 - 4 - 30 ।।
उदाहरणे मतिबुद्धिपूजार्थ इत्यादिना वर्त्तमाने क्तः, क्तस्य च वर्त्तमाने इति कर्त्तरि षष्ठी । अथ नाञ्चेरिटि इत्येव कस्मान्नोक्तम् नैवं शक्यं वक्तुम् इह हि न स्यात् - समञ्चते गुरुः, गुरुं समञ्च्यागत इति । इड्विधौ वृत्तिकारो वक्ष्यति - निष्ठायाम् अस्य विभाषा इति प्रतिषेधे प्राप्ते क्त्वायाम्, तथा उदितो वा इति विकल्पे प्राप्ते पूजायां नित्यमिड्विधीयते इति । तेन गुरुमङ्त्वेति पूजायामसाधुरेव ।।
क्त्वि स्कन्दिस्यन्दोः ।। 6 - 4 - 31 ।।
न क्त्वा सेडिति कित्त्वप्रतिषेधादेवेति । तेन सेटः त्तवाप्रत्ययस्योदाहरणं न प्रदर्शितमिति भावः ।।
जान्तनशां विभाषा ।। 6 - 4 - 32 ।।
मक्त्वा, मङ्त्वा, नष्ट्वा, नंष्ट्वा । मस्जिनशोर्झलि इति तुम् । अन्तग्रहणं विस्पष्टार्थम् वर्णग्रहणादेव तदन्तविधिलाभात् ।।
शास इदङहलोः ।। 6 - 4 - 34 ।।
अङ्गाक्षिप्तस्य प्रत्ययस्य हला विशेषणात्तदादिविधिरित्याह - हलादौ च क्ङितीति ।
क्वौ च शास इति । नित्यात्वात्क्विपो लोपे हलादेरभावाद्वचनम् । प्रत्ययलक्षणेन तु सिद्धम्, यत्र कार्ये वर्णरुपमेव निमित्तत्वे नाश्रीयते तद्वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति, यथा - रायः कुलं रैकुलमित्यायादेशः । यत्तु वर्णविशिष्टप्रत्ययनिमित्तं तद्भवत्येव, यथा - अतृणेडिति, हलादौ पिति सार्वधातुके विधीयमानस्तृणह इमागमः, इदमपीत्वं हलादौ क्ङिति प्रत्यये विधीयमानं लोपेऽपि भवति । आर्यशीरिति । सकारस्य रुत्वे र्वोरुपधायाः इति दीर्घः ।
अथाऽऽशास्ते, आशास्यामान इत्यत्र कस्मान्न भवति इत्याह - यस्माच्छासेरिति । अङ्विधौ तावत्परस्मैपदिभ्यामर्तिसर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेर्ग्रहणम्, इहाप्यङ्संसर्गाद्विशिष्टस्य शासेर्ग्रहणं संसर्गस्य विशेषावगतिहेतुत्वात् । यथा - सवत्सा धेनुरानीयतां सकलभा सकिशोरेति गवादिर्घेनुः प्रतीयते । ननु च नात्राङ् केवलो निमित्तम्, अपि तु हलादिरपि, स चात्मनेपदिनोऽपि सम्भवति, तत्कुतः संसर्गाद्विशिष्टस्य प्रतीतिः नैष दोषः साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सम्बन्धी सन्निहितस्तस्यैव ग्रहणं भवति, यथा वृद्धानां किशोरीणां च मध्ये धेनवो बध्यन्ते इत्युक्ते बडवा धनवो बध्यन्ते ।
तस्मादङ्हलोर्द्वयोरप्युपादाने यस्माच्छासेरङ् विहितस्तस्यैव ग्रहणम् । शासिवसिघसीतनां च इति षत्वविधौ शासिमात्रस्य ग्रहणं द्रष्टव्यम् आशिषिलिङ्लोटौ इत्यादिनिर्देशात् ।।
शा हौ ।। 6 - 4 - 35 ।।
उपधाया इति निवृत्तमिति । तद्धि उपधाग्रहणं क्ङितीत्यनेन सम्बद्धम्, तइह च क्ङिद्ग्रहणं निवृत्तम् इति वक्ष्यति, तेन तत्सम्बद्धमुपधाग्रहणं च निवृत्तम् । स्थानेयोगा षष्ठी भवतीति । एतच्च शब्दाधिकारपक्षस्याश्रयणाल्लभ्यते, अर्थाधिकारे त्विहाप्यवयवसम्बन्धान्न सर्वस्य स्यात् ।
क्ङितीत्यपि निवृत्तमिति । उत्तरत्र पुनः क्ङिद्ग्रहणात् । तेनेति । अन्यथा सार्वधातुकमपित् इति वचनात्पित्त्वपक्षे ङित्तवाभावाच्छाभावो न स्यात् । मा भूत्पित्त्वपक्षे, दृश्यमानस्तु प्रयोगोऽपित्त्वपक्षेऽप्युपपद्यते अत आह - शाधीत्याद्युदात्तमपीति । यदि तु पिति शाभावो न स्यात्, तदा शाधीत्येतत्सतिशिष्टेन प्रत्यस्वरेणान्तोदात्त एव स्यात् । आद्युदात्तमपि दृश्यते, तस्मात्पित्त्यपि शाभाव एव द्रष्टव्यः ।
इह आ हौ वक्तव्यम्, उपधाया इत्येव, आकारस्याकारवचनमित्त्ववाधानार्थम्, ततः हुढल्भ्यो हेर्धिः िति धित्वम्, धि च इति सकारलोपः । येषां तु धि सकारे सिचो लोपः इति पक्षः, तेषां शाभाव एव विधेय अन्यथा उपधायाः ित्यस्य निवृत्तावपि सकारस्याकारे तस्यासिद्धत्वाद्यद्यपि धित्वं लभ्यते, उपधायास्तु पूर्वेणेत्वमाशङ्क्येत, अविरोधात् ।।
हन्तेर्जः ।। 6 - 4 - 36 ।।
श्तिपा निर्देशो यङलुग्निवृत्त्यर्थः ।
अनुदात्तेपदेशावनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ।। उपदिश्यन्ते इत्युपदेशाः, अनुदात्ताश्च ते उपदेशाश्च अनुदात्तोपदेशाः । उपदिश्यमानावस्थायामनुदात्ता इत्यर्थः । अनुनासिकेति पृथक्पदं लुप्तषष्ठीकमनुदात्तोपदेशानां विशेषणम्, तेन तदन्तविधिः ।
यमिरमीत्यादि । यमिर्यमन्तेषु इति श्लोको वक्ष्यते । वनतेरिति । वन षण सम्भक्तौ ।
सनोतेरात्वं वक्ष्यतीति । जनसनखनां सञ्झलोः इत्यनेन । अतत, अतथा इति । तनादिभ्यस्तथासोः इति सिचो लुक् ।
इह च यथा स्यादिति । अन्यथा क्तिनि नित्स्वरेण सम्प्रत्युदात्तत्वान्न स्यात् । इह च मा भूदिति । अन्यथा प्रत्ययस्वरे कृते शेषनिधाते सम्प्रत्यनुदात्तत्वाच्छान्त इत्यादावपि स्यात् ।।
गमः क्वौ ।। 6 - 4 - 40 ।।
अध्वगत इति । अध्वनो गन्तार इत्यर्थः । अनुनासिकलोपे कृते ह्रस्वस्य तुक् ।
संयदिति । सम्पूर्वाद्यमेः क्विप् । परीतदिति । तनोतेः क्पिप्, नहिवृतिवृधि इत्यादिना पूर्वपदस्य दीर्घः।
ऊचेति । चकारादनुनासिकलोपश्च । अग्रेगूरिति । अनुनासिकलोपे कृते अकारस्य ऊकारः । क्वचिद् ऊङिति ङकारः पठ्यते, न त्सय प्रयोजनमस्ति । ओः सुपि इति यणादेशो धातुत्वाद्भवति - अग्रेग्वौ, अग्रेग्व। अग्रेभ्रूरिति । एवं, च कृत्वा अचिं श्नुधातु इत्यत्र भ्रूग्रहणं न कर्त्तव्यं धातुत्वादेव सिद्धम् ।।
विड्वनोरनुनासिकस्यात् ।। 6 - 4 - 41 ।।
अग्रेगा इत्यादि । यद्यप्यकारविधानेऽपि सवर्णदीर्घेण सिद्ध्यति, अतो गुणे इति पररुपत्वे हि अतोलोपमेव विदध्यात् । ये त्वकारोपधा न भवन्ति, तदर्थ दीर्घोच्चारमम् - घुण घूर्ण भ्रमणे, अन्यभ्योऽपि दृश्यन्ते इति वनिप्, ध्वावा, धूरावा । क्षिणु - क्षावा, ऋणु - रावा, ओणृ - अवावा ।।
जनसनखनां सञ्झलोः ।। 6 - 4 - 42 ।।
झल्शब्देनात्र झलादिर्गृह्यते अङ्गेनाक्षिप्तस्य प्रत्ययस्य झला विशेषणात् । क्ङिद्ग्रहणं तस्य विशेषणम् । प्रकृतं तु झल्ग्रहणं सनो विशेषणम् ।
तदिहेति । वाक्योपन्यासे । विप्रतिषेधादिति । सनोतेस्तनोत्यादिपाठस्यावकाशोऽन्यत्तनादि कार्यम् - तनादिकृञ्भ्य उः, तनादिभ्यस्तथासोः इति, इह त्वात्त्वविधौ सन्ग्रहणस्यावकाशः सन्, शिषासति, स्यतः, सातवानित्यत्रोभयप्रसङ्गे परत्वादात्वं भवति ।
ननु चासिद्धकाण्डे वक्ष्यति - पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्येति, यत्र किलैकस्याप्यांसद्धत्वे विप्रषेधाभावस्तत्र का कथा द्वयोरप्यसिद्धत्वे इत्यत आह - घुमास्थागापाजहातीत्यादि । विप्रतिषेधो भवतीति । विप्रतिषेधेन व्यवस्थायां क्रियमाणायामासद्धत्वं न भवतीत्यथेः । कथं कृत्वा ज्ञापकम् हर्गर्हणस्यैतत्प्रयोजनम् - हलादौ यथा स्यात्, इह मा भूत् - गौदः, कम्बलद इति । यदि चात्र विप्रतिषेषो न स्याद्धल्ग्रहणमनर्थकं स्यात् । अस्त्वत्रेत्वम्, तस्यासिद्धत्वादियङादेशो असत्याल्लोपे तत्सिद्धं स्यात्, सति विप्रतिषेधे आल्लोप स्यावकाशः - पाण्णित्रम्, अङ्गुलित्रमिति, ईत्वस्य - दीयते, मीयते गोद इत्यादावसति हल्ग्रहणे परत्वादीत्वं स्यादिति हल्ग्रहणमर्थवद्भवति नैतदस्ति ज्ञापकम् व्यवस्थार्थमेतत्स्यात् । असति हि तस्मिन्नीत्वस्यासिद्धत्वादालोपः, तस्यासिद्धत्वादीत्वमिति चक्रकमव्यवस्था प्राप्नोति नास्ति चक्रकप्रसङ्गः,न ह्यव्ययस्थाकारिणा शास्त्रेण भवितव्यम्, शास्त्रतो नाम व्यवस्था । तत्र पूर्वमीत्वम्, तस्यासिद्धत्वादाल्लोपः, लोपेनावस्थानं भविष्यति । एवमपि कुत एतत् - ईत्वास्यासिद्धत्वादाल्लापः, लोपेनावास्थानमिति, न पुनर्विपर्यंयः स्यात् -पूर्वमाल्लोपः, तस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानमिति एवं तर्हि यदि व्यवस्थार्थमेतत्स्यात्, नैवायं हल्ग्रहणं कुर्वीत, अविशेषेणायमीत्वं कृत्वा तस्याजादौ लोपमवादं विदधीत, कथम् इदमस्ति आतो लोप इटि च, ततो धुमास्थानगापाजहातिसां लोपो भवति - इटि चाजादौ च क्ङितीति, किमर्थ पुनरिदमीत्त्वम् वक्ष्यति - तस्य बाधनार्थं तत्, ईद्भवति ध्वाधीनाम्, ततः एलिङि, वान्यस्य संयोगादेः, न ल्यपि, मयतेरिदन्यतरस्याम्, ततः यति च, यति च ईद्भवति आतः इत्येव सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यति यद्धल्ग्रहणं करोति तद् गरियांसं यत्नमारभते, तज्ज्ञापयत्याचार्यः - भवतीह विप्रतिषेध इति ।
इह झल्ग्रहणं शक्यमकर्त्तुम् । कथम् योगविभागः कर्त्तव्यः - जनसनखनामनुनासिकस्याकारादेशो भवि, झलि क्ङिति ततः सनि च, जनसनखनामाकारादेशो भवति झलीत्येव ।।
ये विभाषा ।। 6 - 4 - 43 ।।
जायत इति । यक् । नित्यं जादेशो भवतीति । तस्यानवकाशत्वात् । तेन श्यनि जायते इत्येव भवति, न तु कदाचित् जन्यत इति ।।
सनः क्तिचि लोपश्चास्चान्यतरस्याम् ।। 6 - 4 - 45 ।।
अस्यग्रहणमनन्तरस्य क्तिचो मा भूद्, व्यवहितस्यापि धातोरेव यथा स्यात् । क्रियमाणे हि तस्मिन्कायित्वेन प्राधान्यव्द्यवहितस्यापि धातोरेव परामर्शो भवति ।
अन्यतरस्यांग्रहणमनर्थकम्, विभाषा इति प्रकृतत्वाद् अत आह - अन्यतरस्यांग्रहणमिति । ननु नैतद्विस्पष्टनीयं प्रकृतमनुवर्त्तत िति तदाह ये संबद्धं हीति ।।
आर्धधातुके ।। 6 - 4 - 46 ।।
चिकीर्षितेति । सनन्तात्तृच् भवतीति सर्वत्रातो लोपे कृते अतो दीर्घो यञि इत्यस्य कोऽवकाशः, वचनात्पचाव ित्यादौ लोपं बाधित्वा दीर्घोऽस्तु । तत्र चरितार्थम् अदुपदेशाल्लसर्वधातुकानुदात्तत्वम् इति तदपि न ज्ञापकं सार्वधातुकेऽतो लोपाभावस्य यत्तर्ह्यदिप्रभृतिभ्यः शपो लुकं शास्ति तज्ज्ञापयति - न शपोऽतो लोप इति तत्राह - अदिप्रमृतिभ्यः शप इति । ये तर्हि न गुणवृद्धिभाजोऽदिप्रभृतयस्तेषामदादिषु पाठोनर्थकः सत्यम् वृक्षत्वम्, वृक्षतेत्यादावतो लोपे आर्दधधातुकाधिकारस्य प्रयोजनम् - बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति । यङो यकारोपशस्तु हलन्तेषु चरितार्थः ।
कारवतीति । णिज्विधानं प्रत्ययलक्षणार्थमियङ्थ च स्यात् ।
यान्तीति । ननु श्नाभ्यस्तयोरात्ः इत्येन्नियमार्थ भविष्यत् - सार्वधातुके श्नाभ्यस्तयोरेवेति नैतदस्ति विपरीतोऽपि नोयमः स्यात् - श्नाभ्यस्तयोः सार्वधातुक एवेति, तदा च ययतुरित्यादौ न स्यात् । श्नाग्रहणं तूत्तरार्थ स्यात् ।
अदातामिति । लुङ्, गातिस्थाघु इत्यादिना सिचो लुक् ।
चिण्वद्भावे सति वृद्धिः स्यादिति । नन्वतो लोपो वृद्धेः पूर्वविप्रतिषेधे, तद्यथा - चिकीर्षक इति, अदिहनिमावाप्रभृतिभ्यः शपो लुग्विधानेन सार्वधातुकेऽतोलोपाभावस्य ज्ञापितत्वात्स्वाश्रयोऽतो लापो मा
भूच्चिण्वद्भावात्तु चिणि तस्य दर्शनात्स्यादेव । वृत्तिकारेण तु प्राप्तिमात्रमाश्रित्य वृद्धिः स्यात् - इत्युक्तम् । दोषोपलक्षणं वृद्धग्रहणम्, लोपेऽपि रुपासिद्धरेव ।
ततो युक् प्रसज्येतेति । आद्गुणः, इति तु वार्णत्वान्न लभ्यते, इट्प्रसङ्गस्तु विशेषाभावान्नोक्तः ।
प्रयोजनसंग्रहश्र्लोको गतार्थः । भ्रस्जो रोपधयोरमन्यतरस्याम्, दीङो युडचि क्ङिति इत्यत्र तु नास्य प्रयोजनम्, कथम् भृज्जतेः सार्वधातुके तुदादित्वाच्छः, तत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । दीङोऽपि दिवादित्वान् श्यना भाव्यमित्युक्तान्येव प्रयोजनानि ।
असिद्धत्वनिवृत्त्यर्थं द्वितीयाध्यायगोचरोः ।
आदेशा नेह विहिता वुगाल्लोपौ प्रयोजनम् ।।
अन्यथा - अस्त्यादेशस्य भवतेरसिद्धत्वान्न वुग्भवेत् ।
न चाचख्यतुरित्यादावाल्लोपः ख्याञसिद्धितः ।।
भ्रास्जो रोपधयो रमन्यतरस्याम् ।। 6 - 4 - 47 ।।
रमित्ययं रोपधयोर्यदि स्थाने भवति मित्त्वमस्यानर्थकं स्यात्, अथाचोऽन्त्यात्पर आगमो रोपधयोः श्रवणं प्राप्नोति तत्राऽऽह - रोपधयोः प्रसङ्गे रम् प्रयुज्यते, रोपधे न प्रयुज्येते इत्यर्थः । प्रयुज्यमानश्च रम् मित्त्वादन्त्यादचः परः प्रयुज्यते । यस्य तु देशान्तरे विधानं नास्ति स स्थानिदेश एव भवति, तत्प्रसङ्गे हि तस्य विधानम्, विशिष्टदेशश्च स्थानिनः प्रसङ्गः । इह तु मित्त्वेनायं न्यायो बाध्यते स्थानषष्ठीनिर्देशसामर्थ्यात्तु सनः क्तिचि इत्यतो लोपग्रहणमनुवर्त्त्य रोपधयोर्लोपं रमागमं चान्यतरस्यां विदधति । भ्रज्जनमिति । ल्युटि सकारस्य जश्त्वम् - दकारः, तस्य चुत्वम् - जकारः ।
पूर्वविप्रतिषेधेनेति । रमोऽवकाशः - भ्रष्टा, भ्रष्टुम्, सम्प्रसारणस्यावकाशः - भृज्जति, सार्वधातुकत्वादत्र रमोऽप्रसङ्गः, भृष्टः भृष्टवानित्यत्र पूर्वविप्रतिषेधः । अथैवं कस्मान्नोक्तम् - भ्रस्जो रस ऋदन्यतरस्याम् इति भ्रस्जेः सम्बन्धी रमिति योऽयं सङ्घातस्तस्य ऋ इत्ययमादेशो भवतीत्यर्थः । तस्याक्ङिति गुणे कृते भर्जनमित्यादि रुपं भवति, ऋकाराभावपक्षे तु भ्रज्जनमिति क्ङिति ऋकारपक्षे भृष्टमिति, तदभावपक्षे तु, ग्रहिज्यादिसूत्रेण सम्प्रसारणे सति तदेव रुपं भवतीति पूर्वविप्रतिषेधो न वक्तव्यो भवति उपदेशग्रहणमपि नानुवर्त्यम् न ह्यत्र पक्षे रीकः प्रसङ्गेऽस्ति अत्रापि पत्रे पूर्वविप्रतिषेधो वक्तव्यः क्व सिचि वृद्धौ अभार्क्षीदिति अन्यथा ऋकारविकल्पं बाधित्वा परत्वाद्धलन्तलक्षणा वृद्धर्नित्यं प्राप्नोति । रम्भावे तु क्रियमाणे परत्वाद्वृद्धौ कृतायामपि पुनऋ प्रसङ्गविज्ञानमिति सिद्धम् - अभार्क्षीदिति । न चान्तरङ्गत्वात्पर्वमृकारः, न सिच्यन्तरङ्गमस्तीति वक्ष्यमाणत्वात् । एवं तर्हि नित्यत्वाद्ृभावः, स हि कृतायामपि वृद्धौ प्राप्नोत्यकृतायामपि एकदेशविकृतस्यानन्यत्वात् शब्दान्तरप्राप्तिरपि नास्ति, वृद्धिस्तु कृते ऋभावे ऋकारस्याकृते त्वकारस्येति शब्दान्तरप्राप्तेरनित्या, तस्मादृकार एव विधेयः तथा तु न कृतमित्येव । भ्रस्जेर्भृज्जिरित्युच्यमाने यङ्लुकि दोषः, साभ्यासे भृज्जिभावः प्राप्नोति, इष्यते तु तत्रापि रोपधयोरेव निवृत्ती, रम्भावश्च ।
बरीभृज्यत इति । यङि सम्प्रसारण रीगृत्वत इति वक्तव्यम् इति रीक्, तस्य तन्मध्यपतितस्य तद्ग्रहणात्प्रसङ्गः ।।
अतो लोपः ।। 6 - 4 - 48 ।।
धिनुतः, कृणुत इति । इवि दिवि धिवि प्रीणनार्थाः, कृवि हींसाकरणयोः, लट्, तस्य तस्, धिन्विकृण्व्योर च इति उप्रत्ययः, अकारोऽन्तादेशश्च, तस्य चोप्रत्ययेऽतो लोपः । एकवचने त्वान्तरेणातो लोपमुप्रत्ययस्य गुणे कृते अतो गुणे इति पररुपेणापि सिद्धिः ।
चेता, स्तोतेति । तपरकरणस्य पृथग्व्यावर्त्त्यस्य दर्शयिष्यमाणत्वात्तद्रहितस्याकाररमात्रस्येदं प्रत्युदाहरणम्, एवं च गुणवृद्ध्योर्दीर्घेषु चरितार्थत्वाद् ह्रस्वेषु लोपप्रसङ्गः । ननु च परत्वाद् गुणो भविष्यति, तस्मात्कृटादिषु गु पुरीषोत्सर्गे, ध्रुव गतिस्थैर्ययोः इत्यत्र लोपप्रसङ्ग उदाहार्यः । याता, वाता तइति । असति तकारेऽत्रापि लोपप्रसङ्गः आतो लोप इटि च इत्येतन्नियमार्थं भविष्यति - आत इट्येवाजादौ च क्ङिति, नान्यत्रेति नैतदस्ति विपरीतोऽपि नियमः स्यात् - आत एवेटि, नान्यस्येति । था च चिकीर्षितेत्यत्र न स्यात् ।
वृद्धदीर्घाभ्यामिति । अचो ञ्णिति इति वद्धेरेवकाशः नौरितिस अतो लोपस्यावकाशः चिकीर्षितेति, चिकीर्षकः - इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः । वृद्धौ तु युकि - चिकीर्षायक िति स्यात् । अकृत्सार्वधातुकयोः इत्यस्य दीर्घस्यावकाशः चीयते, अतो लोपस्यावकाशः स एवः चिकीर्ष्यते - इत्यत्रोभयप्रसङ्गे पूर्वपिप्रतिषेधः ।।
यस्य हलः ।। 6 - 4 - 49 ।।
यस्येति यद्यागन्तुकोऽकारः, ततो वर्णग्रहणम्, अन्यथा तु सङ्घातग्रहणमिति पक्षद्वयसम्भवादाह - यस्येति सङ्घातग्रहणमिति । श्रुतस्याकारस्याविवक्षायां कारणाभावादिति भावः अतो लोप इत्यनेनैव सिद्धत्वादिति । अस्तु तर्हि नियमः यस्य हल एव नान्यतः, लोलूयितका, पोपूयिता, कैमर्थ्याद्धि नियमो भवति निधेयं नास्तीति कृत्वा इह चास्ति विधेयम्, किम् अन्त्यस्य लोपः प्राप्तः सर्वस्य विधेयः । तत्रापूर्वो विधिरस्तु, नियमो वेति अपूर्वो विधिरेव भविष्यति ।
एवमपि क्यस्य विभाषायां दोषः - समिधमिच्छति समिध्यति, समिध्यतेस्तृच, इट् , समिधिता, यदा लोपस्तदा सर्वस्य लोपः, यदा त्वलोपपक्षस्तदा सर्वस्यालोपः प्राप्नोति, सङ्घतग्रहणे हि यस्य हलः इत्यनेन येननाप्राप्तिन्यायेन अतो लोपो बाध्यः, यलोपोऽपि क्यस्य विभाषा इति विकल्पेन बाध्यः, ततश्च पक्षे सङ्घातस्यैव श्रवणं स्यात्, यलोपवदाल्लोपस्यापि विकल्पेन बाधनात् इत्यत आह - हल इति वेत्यादि । एवं च क्यस्य विभाषा इति यकारस्यैव विकल्पेन लोपः, अकारस्य तु अतो लोपः इत्यनेन नित्यमिति सिद्धिमष्टम्, अवश्यं चातो लोप एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ अत उपधायाः इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति । तस्मात्सङ्ङघातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् ।
मव्यितेति । मव्यतिः संयोगान्तोऽस्ति, ज्वरत्वारादिसूत्रे तु वकारान्त उदादृतः ।।
क्यस्य विभाषा ।। 6 - 4 - 50 ।।
क्यस्य इति क्यच्क्यङोः सामान्येन ग्रहणम्, क्यषस्तु हलन्तादसम्भवः । समिधमिवात्मानमाचरतीति । अपपाठोऽयम्, एवं हि क्यङो वाक्यं न प्रदर्शितं स्यात्, क्यचश्च द्वितीयं वाक्यामनर्थकं स्यात् । विधिभेदान्नानर्थकमिति चेत् यद्येवम्, अधिकरणाच्चेति वक्तव्यम् इत्यस्यापि प्रदर्शनीयं स्यात् । तस्मात्समिदिवाचरतीति पाठः । अत्र केचित्कण्ड्वादियकोऽपि ग्रहणमिच्छन्ति, क्यस्य इति कतो यकारस्य ग्रहणे तात्पर्यम्, तआदित्वं ककारस्याविवक्षितं वदन्ति, नेति वयम् आदित्वाविक्षायं प्रमाणाभावात् ।।
णेरनिटि ।। 6 - 4 - 51 ।।
इयङादिभिरेव सर्वस्य विषयस्यावष्टब्धत्वादनवकाशो णिलोपस्तेषां बाधक इत्याह - इयङ्यणित्यादि ।
ननु पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्युदारहिष्यति, ण्यासश्रन्थो युच् इति युचि प्राप्ते क्तिन्नजादिभ्यः इति क्तिन्प्रत्ययः क्तिज्वा पुनरयं द्रष्टव्यः, तत्कथमनवकाशः उच्यते, यद्येतावत् प्रयोजनं स्यात्, अनिटीति न वक्तव्यंस्यत्, अतोऽनिटीति वचनादीर्घधातुकमात्रविषयतास्यावसीयते, ततश्च युक्तमियङादीन्प्रत्यपवादत्वम् । वार्तिककारेण तु पूर्वविप्रतिषेधः पठितः - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति । अततक्षदिति । अत्र चङो ङित्त्वाद् गुणस्याप्रसङ्गः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ
एवायं विषयः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ एवायं विषयः, अत्रेयङि सति पुनः प्रसङ्गविज्ञानात् भवन्नपि लोपोऽन्त्त्यस्य स्यात् । । आशिशदिति । एरनेकाचः इति यणोऽत्र प्रसङ्गः । अत्र सत्यपि यणि असिद्धत्वात्पुनःप्रसङगविज्ञानेन वा णिलोपे सति सिद्धमिष्टम् । एवं गुणवृद्धिदीर्घविषयेऽपि द्रष्टव्यम् । च न गुणवृद्ध्योरयादेशप्रसङ्गः, वार्णादाङ्गं बलीयः इति णिलोपः । ज्ञीप्सतीति । आप्ज्ञप्यृधामीत् अज्झनगमां सनि इति दीर्घप्रसङ्गः ।
अनिटीति शक्यमकर्त्तुम् । कथं कारयिता निष्ठायां सेटि इत्येतन्नियमार्थं भविष्यति - सेटि यदि भवति निष्ठायामेवेति । विपरीतस्तु नियमो न भवति - निष्ठायां सेट्येवेति अनिटो निष्ठाया असम्भवात् । असम्भावश्चोत्तरसूत्रे वक्ष्यते । अथ वा - अयामन्ताल्वाय्येन्विष्णुषु इत्यत्र णेरिति योगविभागः क्रियते, सेट्यार्द्धधातुके णेरयादेशो भवति लोपस्यापवादः ।।
निष्ठायां सेटि ।। 6 - 4 - 52 ।।
सेटीति किमिति । अनिटि पूर्वेण सिद्धत्वात्सेडर्थमेवेदं सूत्रं भविष्यतीति प्रश्नः । सामर्थ्यात्पूर्वसूत्रप्राप्तेरेव व्यावृत्तिरित्युत्तरम् ।
संज्ञापित इति । वा दान्तशान्तपूर्ण इत्यत्र ज्ञपेर्निपातनमाश्रीयते - ज्ञप्तः, ज्ञपित इति । अथ पुनरिति । प्रतिपत्तृविप्रतिपत्त्या सन्दिग्धाभिधानम् ।
कालावधारणार्थमिति । सेड्ग्रहणे क्रियमाणे यदा निष्ठा सेड्भवति तदा लोपो भवति न प्रागिति कालाबधारणं लभ्यते । किं पुनः स्याद्यद्येवमर्थं सेड्ग्रहणं न क्रियेत तत्राह - अकृते हीति । णिलोपे सतीति । नित्यत्वात् । स हि कृतेऽपीटि प्राप्नोत्यकृतेऽपि, इट्पुनरनित्यः, णिलोपे सत्येकाच इति प्रतिषेधात् ।यस्य च निमित्तं लक्षणान्तरेण विहन्यते न तदनित्यम्, न हि बालिसुग्रीवयोर्युध्यमानयोर्भगवता रामेण बालिनि हते सुग्रीवापेक्षया बालिनो दौर्बल्यं मन्यन्ते शूरमानिनः सत्यम् कार्यगतभावाभावविवक्षायां तु तत्राश्रीयते । इट्प्रतिषेधः प्रसज्येतेति । एकदेशविकृतस्यानन्यत्वात् । एतच्च पूर्वस्मादपि विधौ स्थानिवद्भावमनाश्रित्योक्तम्।
भाष्ये तु सूत्रमिदं प्रत्याख्यातम् । सप्तमे णेरध्ययने वृत्तम् इत्ययं योगस्त्रेधा विभक्तव्यः, क्रमविपर्ययश्चाश्रयणीयः - णेः इत्येको योगः, तत्र निष्ठायां नेडिति वर्तते - ण्यन्तादुत्तरस्य निष्ठाया इण्न भवति ततः वृत्तम् - वुत्तमिति निपात्यते, णिलोपः । किमर्थमिदम् नियमार्थम् - अत्रैव निष्ठायां णेर्लोपो भवति, नान्यत्रेति । क्व मा भूत् कारितम्, हारितम्, कैमर्थक्यान्नियमो भवति, विधेयं नास्तीति कृत्वा । इह चास्ति विधेयम्, किम् गुणाभावः । एवं तर्हि तन्त्रावृत्त्येकशेषाणामन्यतमाश्रयणादेकस्य नियमार्थत्वमपरस्य गुणनिषेधार्थत्वं भवति, ततोऽध्ययने, वर्तेरध्ययन एव णिलोप इति ।।
शमिता यज्ञे ।। 6 - 4 - 54 ।।
तृचि सम्बुद्ध्यन्तमेतादिति । उदाहृताभिप्रायमेतत् । सूत्रे तु शुद्धप्रथमैकवचनान्तम् । सर्वासु च विभक्तिषु निपातनम् प्रथमैकवचनस्थाविवक्षितत्वात् । तथा च सूत्रार्थकथनसमये इडादौ तृचि सामान्येनोक्तम् । प्रयोगोऽपि तथाविध एव - शामितारो यदत्र सुकृतमिति, शमितृभ्यश्चैवैनन्तन्निगृहीतृब्यश्चेति च । शामित्रमिति तद्धितेऽपि भवति । सूत्रे च सम्बुद्ध्यन्तं विवक्षितं चेच्छमितर्यज्ञ इति प्राप्नोति ।।
उयामन्ताल्वाय्येत्न्विष्णुषु ।। 6 - 4 - 55 ।।
गण्डयन्त इति । गडि सेचने घटादिः, मडि भूषायाम् - आभ्यामौणादिको झच्, झोऽन्तः । स्पृहयालुरिति । स्पृहिगृहि इत्यादिना आलुच् । स्पृहयाय्य इति । भृदक्षिस्पृहिभ्य आय्यः । स्तनयित्नुरिति । औणादिक इत्नुच् । पारयिष्णव इति । णेश्छन्दसि इति इष्णुच् ।।
नेति वक्तव्ये इति । णिलोपे हि प्रतिषिद्धे गुणे सत्ययादेशः सिद्धः, मात्रालाघवं च भवति । उत्तरार्थमिति । ल्यपि लघुपूर्वस्य इति षष्ठ्यन्तमध्यापिताः, अन्ये पञ्चम्यन्तम् तत्राद्यपक्षे प्रशमय्येत्यादौ व्यञ्जनान्ते न स्यात्, न ह्यत्र णिर्लघुपूर्वः, किं तर्हि व्यञ्जनपूर्वः । न चाव्यवहिते । क्व तर्हि स्यात् प्रगणय्य, प्रस्तनय्येत्यादौ यद्यप्यत्राल्लोपे कृते णिर्लघुपूर्वो न भवति, व्याश्रयत्वादल्लोपस्यासिद्धिरपि नास्ति, तथापि भूतपूर्वलघुपूर्वतामाश्रित्यात्रैव स्यात् । तथा प्रचिकीर्प्येत्यादावपि प्रसङ्गः, सम्प्रति गुरुपूर्वत्वेऽपि भूतपूर्वगत्या । तस्माद् द्वितीयं पक्षमाश्रित्य व्याचष्टे - लघुपूर्वाद्वर्णादिति ।
नन्वत्रापि पक्षे प्रशमय्येत्यादौ ह्रस्वादीनामसिद्धत्वादयादेशाप्रसङ्गः, क्व तर्हि स्यात् मृदमाचष्ट इति णिचि प्रकृत्यैकाच् इति प्रकृतिभावाट्टिलोपाभावे प्रमृदय्य गत इत्यादौ स्यादत आह - ह्रस्वयलोपाल्लोपानामिति ।।
विभाषाऽऽपः ।। 6 - 4 - 57 ।।
आप्लृ लम्भने चुरादिः, आप्लृ व्याप्तौ स्वादिः - द्वयोरपि ग्रहणम् । इह इङ् अध्ययने, णिच्, क्रीङ्जीनां णौ इत्यात्वम्, अत्तिह्री इत्यादिना पुक, अध्याप्य गत इत्यत्रापि प्राप्नोति, आप्रुपस्य भावात्, तस्मात् सानुबन्धको निर्द्दश्यः ।
आपुलिति पठितव्यम्, आप्लृशब्दान्ङासः, ऋकारलृकारयोः सवर्णत्वात् अत उत् इत्युत्वम् उरण्रपरः
इत्यत्र रप्रत्याहारग्रहणाल्लपरत्वम्, सकारस्य संयोगान्तलोपः, तत्तहि तथा पठितव्यम् नेत्याह -ङादेशस्येति ।।
निष्ठायामण्यदर्थे ।। 6 - 4 - 60 ।।
ण्यतः कृत्यस्यार्थो भावकर्मणी इति । यद्यपि भव्यगेयादावाप्लाव्यापात्यशब्दयोः कर्त्तापि पक्षे ण्यदन्तयोर्वाच्यः, तथापि क्षियः सन्निधानात्तदीयो ण्यदर्थ एव पर्युदस्यते ।
प्रक्षीणमिदं देवदत्तस्येति । अधिकरणवाचिनश्च इति कर्त्तरि षष्ठी । अधिकरण इति । क्तः प्रत्यय इत्यनुषङ्गः । एवमक्षितमिति भावे इत्यत्रापि ।।
वाऽऽक्रोशदैन्ययोः ।। 6 - 4 - 61 ।।
क्षितायुरिति । पूर्ववत्कर्त्तरि क्तः । क्षीणक इति । अनुकम्पायाम् इति कन् । प्राप्तविभाषेयम् । अण्यदर्थ इत्येव - क्षितं सर्वमस्य, क्षितमस्य तपस्विनः ।।
स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ।। 6 - 4 - 62 ।।
चिणीव चिण्वत्, तत्र तस्येव इति सप्तमीसमर्थाद्वतिः, स्यसिच्सीयुट्तासिषु इति प्रतियोगिनि सप्तमीनिर्द्देशात्, यथा - मथुरावत्पाटलिपुत्रे प्रासाद इति । भावकर्मविषयेष्विति । अनेन भावकर्मणोः िति वषयसप्तमीति दर्शयति । भावकर्मणोर्ये स्यादयो वर्त्तन्ते तेष्वति तु विज्ञायमाने सीयुडेको विशेषितः स्यात्, स्यादयो न विशेषिताः स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च विशेषितः स्यात्, स्यादयो न विशेषिताझ स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च तद्भक्तत्वात् । अथ यदाबावकर्माभिधायी प्रत्ययो भावकर्मशब्दाभ्यामभिधीयते, तदायमर्थः स्यात् - भावकर्मवाचिनि प्रत्यये परतो ये स्यादय इति । तदा स्यादयो विशेषिताः, सीयुडविशेषितः, न हि तद्भक्तस्य तेन सह पौर्वापर्यं सम्भवति । तस्मात्सर्वानुग्रहाय विषयसप्तम्येव युक्ता । यदा चिण्वत्तदेचडागमो भवतीति । चकारस्य सन्नियोगार्थत्वात् । कस्येति । षष्ठीनिद्दिष्टस्यागमो भवति, स्यादयश्च सप्तमीनिर्द्दिष्टाः, अज्झनग्रहदृशाम् इति षष्ठीनिर्द्दिष्टम्, अङ्गस्य इति च वर्तते, अतोऽजन्तादीनामङ्गानामेवागामित्वं युक्तमिति विपर्ययं मन्यमानस्य प्रश्नः । स्यसिच्सीयुट्तासीनामेवति । कथम् इत्याह ते हि प्रकृता इति । सन्निहिता इत्यर्थः । नन्वङ्गमपि प्रकृतं योग्यविभक्तिकं च तत्राह - अङ्गस्य त्विति । लक्ष्यविरोधादिति । यद्वा - सप्तमे योगविबागः क्रियते, आर्धधातुकस्येट्, परिभाषेयम्, यो यावान्कश्चिदिडागमः स सर्व आर्धधातुकस्यैव द्रष्टव्यः, तेनायमपॣडागमः स्यादीनामेव भवति, नाङ्गस्य ।
कानि पुनरिति । चिणि यदेवाहत्य विहितं तदेवातिदिश्यते, आहोस्वित् चिणि दृष्टमात्रमिति प्रश्नः । तत्र द्वितीयः पक्ष आश्रीयत इति श्लोकेन दर्शयति - चिण्वद्वद्धिरिति । यथा चिणि वृद्धिः तथा स्यादिष्वपीष्यते - घानिष्यते । एतदेकं प्रयोजनम्, एवमुत्तरत्रापि । प्रत्येकं सम्बन्धेन यथायोगमतिदेशो योज्यः। दायिष्यत िति, आतो युक् चिण् कृतोः इति युक्, एतच्चिण्याहत्य विहितम् । यच्च हो हन्तेर्ञ्णिन्नेषु िति कुत्वमघानीत्यत्र दृष्टम्, तदपि दीर्घविकल्पविधानं तदपि प्रयोजनम् । एतदपि चिण्याहत्य विहितम् - शमिष्यते,शामिष्यत इति शमेर्णिचि मितां ह्रस्वं लृटि स्ये चिण्वद्भावेन दीर्घविकल्पः, तणेरनिटि इति णिलोपः ।
नन्वनिटीत्युच्यते, सेट् चायम् अत आह - इट् चासिद्ध इति । आ भाच्छास्त्रीये णिलोपे कर्त्तव्ये आ भाच्छास्त्रीयश्चिण्वदिडसिद्धः, तेनानिडादित्वात्सिद्धो णिलोप इत्यर्थः । मे इति । सूत्रकारायमाण्सय् वचनम् । ननु चास्य चिण्वदिटोऽवकाशः येऽनिटः, येषु ऋद्धनोः स्ये इत्यादि प्रतिपदविधानं नास्ति आर्द्धधातुकस्येत्यस्यावकाशः सेह् योऽस्य विषयो न बवति यस्तु सेडस्य च सूत्रस्य विषयः, तत्र परत्वात् आर्धधातुकस्येड्वलादेः इत्ययमेव प्राप्नोति, तत्कथमसिद्धत्वम् अत आह - नित्यश्चायमिति । अयं चिण्वदिण्णिनत्यः, कृतेऽपि वलादिलक्षण इट् प्राप्नोति, अकृतेऽपि, न ह्ययं वलादित्वमबेक्षते । अस्मिंस्तु कृते वलादिलक्षण इण्न प्राप्नोति, तस्माद् वल्निमित्त इडनित्यः । विधातः - निमित्ताभावादप्रवृत्तिः, सोऽस्यास्तीति वधाती । तदेवं नित्यत्वात्सेड्भ्योऽप्यनेनैवैड् भवति, अयं चासिद्धइति न भवति णिलोपाभावदोषः । अवश्यं चानेनैव सेड्भ्योऽपीडेष्टव्यः अन्यथा एतदिट्सन्नियुक्तश्चिण्वद्भावोऽपि न स्यात् । न च शब्दान्तरप्राप्तेरस्याप्यनित्यत्वम् आकृतिपक्षे शब्दान्तरत्वाभावात् ।
प्रकृतस्येटो दीर्घत्वमिति । वलादिलक्षणस्य प्रकृतत्वात् ।
गुणे कृत इति । परत्वान्नित्यत्वाच्च । उपदेशग्रहणाद् भवतीति । यद्यपि करोतिरुत्तरकालमनजन्तः, उपदेशे त्वजन्त एव ।
यदि चिणि दृष्टमात्रस्यातिदेशः, हनिणिङादेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वात् अत आह - अङ्गाध्कारविहितमिति । अङ्गस्येति प्रकृत्य यद्धिहितं चिणि दृष्टं तदेवातिदिश्यते, सन्निहतत्वात् । न च हनिणिङामादेशा एवंविधा इति तेषामनतिदेशः । अत्र वात्तिकम् - वधाभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन इति । वधभावस्यावकाशः - वध्यात्, वध्यास्ताम्, वध्यासुः, चिण्वद्भावे हन्ग्रहणस्यावकाशः - धानिष्यते, अधानिष्यत, अधानिषाताम्, अघानिषत, घानिषीष्टेत्यत्रोभयप्रसङ्गे चिण्वद्भावो भवति विप्रतिषेधेन । अथेदानीं चिण्वद्भावे पुनः प्रसङ्गविज्ञानाद् वधादेशः कस्मान्न भवति सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितं तद्वाधितमेवेति । ननु द्वितीयाध्याये, तत्र आर्धधातुके इति वष्यसप्तमी, ततः किमन्तरङ्गो वधभावः नैतदस्ति लिङीति विशेषनिर्द्देशात्परसाप्तमी । यत्र तु विशेषनिर्देशाभावः - अस्तेर्भूः इत्यादौ, तत्रैव विषयसप्तमी भव्यादिसिद्धये ।।
दीङो युडचि क्ङिति ।। 6 - 4 - 63 ।।
दीङ इति पञ्चमीनिर्देशादिति । षष्ठ्यां त्वास्यां दीङ एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ्यां प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूत्तरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थइति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मये द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् ।
उपदानमिति । मीनातिमिनोतिदीङां ल्यपि च ित्यात्वम्, दीङः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ।।
आतो लोप इटि च ।। 6 - 4 - 64 ।।
इह अचि क्ङिति, आर्द्धधातुके इति त्रयाणं प्रकृत्वाद्विशेषणविशेष्यभावे च कामचारात्तेषामन्यतमेनानुभूतान्यतरविशेषणेन, अनुभूतोभयविशेषणेन, अननुभूतविशेषणेन वा इटः समुच्चयसम्भावद् द्वादश पक्षाः सम्भवन्ति । तत्र यदि तावद्विशेषणसम्बन्धात् प्रगेवाचा इटः समुच्चयः, अङ्गाक्षिप्तश्च प्रत्ययो वा विशेष्यते, इट्यजादौ च प्रत्यये इति विज्ञायते, तदेड्ग्रहणमनजाद्यर्यं भवति अजादेरिटोऽजादिना प्रत्ययेन समुच्चयासम्भवात् । तदा च ङिदार्धधातुकेअजादेरेव विशेषणे व्यवतिष्ठेते, नेटः हलादेरिटः क्ङित्त्वासम्भावत्, आर्धधातुकत्वाद्, व्यभिचाराच्च । ततश्च दासीयेत्यादौ लोपप्रसङ्गः । अथ किद्विशिब्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोप्रसङ्गः । अथ किद्विशिष्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोऽक्ङिर्थमनजाद्यर्थं चेड्ग्रहणं भवति - पपिथ, दासीयेति, अथार्द्धधातुकविशिष्टेनाचा समुच्चयः, ततोऽक्ङिदर्थमनजाद्यर्थमनार्धातुकार्थं चेडग्रहणम् - पपिथ, दासीय, व्यत्यरे - इतीण्मात्रे लोपप्रसङ्गः, तदेवमचा समुच्चये चत्वारः पक्षाः । एवमार्धधातुकेन एवं क्ङितेति द्वादश पक्षाः । तयोरप्युफयविशिष्टयोस्त एव दोषाः, यांस्त्ववोचाम ।
अथविशेषितेनार्धधातुकेन समुच्चयस्तदा नार्धधातुकार्थमिडग्रहणमिति व्यत्यरे इत्यत्रैव प्रसङ्गः अथ क्ङिद्विशिष्टेनार्धधातुकेन समुच्चयस्तदाऽक्ङिदर्थमनार्धधातुकार्थमिड्ग्रहणम् - पपिथ, व्यत्यरे अथाज्विशिष्टेनाधधातुकेन समुच्चयः, अनजाद्यर्थमनार्धधातुकार्थं चेड्ग्रहणम् - दासीय, व्यत्यरे अथाज्विशिष्टेन क्ङिता समुच्चयः, ततोऽनजाद्यर्थमाक्डिदर्थं चेड्ग्रहणम् - दासीय, पपिथ । अथार्धधातुकविशिष्टेन क्ङिता समुच्चयः, तदानार्धधातुकार्थमक्ङिदर्थं चे़ड्ग्रहणम् - व्यत्यरे, पपिथ । तदेवमेकादशपक्षा दुष्टाः । द्वादशः पक्षः शिष्यते - अविशिष्टेन क्ङिता समुच्चय इति, अत्र च पक्षे अच्यार्धधातुके इति विशेषणद्वयमविशेषाद् द्वावपि क्ङिदिटावुपनिपततीति अक्ङिदर्थमेवड्ग्रहणं भवति । तेन पपिथेत्यादावाल्लोपो भवति दासीय, व्यत्यरे -
इत्यनजादावनार्धधातुके च न भवति । स एष निर्दोषः पक्ष, तमिममाश्रयति - इट्यजादावार्धधातुक इति । क्ङिति चेति । अजादावार्धधातुके इत्यनुषङ्गः । दासीयेति । आशिषि लिङ्, उत्तमैकवचनमिट, इटोऽन् । अत्र सीयुट इड्भक्तत्वादिटोऽजादित्वाभावः ।।
ईद्याति ।। 6 - 4 - 65 ।।
दीर्घविधानमुत्तरार्थम् - अध्यगीष्ट । इह तु गुणेन भवितव्यमिति ह्रस्व एव विधेयः ।।
धुमास्थागापाजहातिसां हलि ।। 6 - 4 - 66।।
माग्रहणेन मेङ् प्रणिदाने, माङ् माने, मा माने इति सर्वेषां ग्रहणम् । एवं गा इत्यत्रापि गाङ्गतौ, गैशब्दे, गा स्तुतौ छन्दसि, इणो गा लुङि, इण्वदिक इति कक्तव्यम्, गाङ् लिटि इति सर्वेषां गारुपाणां ग्रहणम् गामादाग्रहणेष्वविशेषः इति वचनात् ।
जहतेरिति । ओहाक् त्यागे । जिहातेरिति । ओहाङ् गतौ इत्यस्य । भृञामित् इत्यभ्यासस्येत्वे सति जहातीति निर्देशो नोपपद्यते ।
कामं हागित्यपि निर्देशेन भवति जिहातेः प्रसङ्गः, तथा तु न कृतामित्येव ।
एतदेवत्यादि । यथा चैतज्ज्ञापकं तथा जनसनखनाम् इत्यत्रोक्तम् । ईत्वे वकारप्रतिषेधः, वकारस्य निमित्तभावेन प्रतिषेधो वकारप्रतिषेधः । वकारादावीत्यं न भवतीत्यर्थः । आतो मनिन्क्वनिब्वनिपश्च - घृतं पिबन्ति घृतपावानः, वसां पिबन्ति वसापावानः । क्वनिपीत्वं न भवति । धीवरी, पीवरीत्वत्र त्वौणादिकमीत्वं धायाप्योर्वा सम्प्रसारणम् तथा च स्थः क च इत्यत्र क्विपि ईत्वाभाव उदाहृतः ।।
वान्यस्य संयोगादेः ।। 6 - 4 - 68 ।।
स्थेयादिति । अन्यस्य ग्रहणेऽक्रियमाणे पूर्वयोगोऽन्येषु सावकाशः, अयमपि ग्लायादित्यादिषु स्थेयादित्यत्रोभयप्रसङ्गे परत्वादयमेव विधिः स्यादित्यन्यस्य ग्रहणम् ।।
न ल्यापि ।। 6 - 4 - 69 ।।
यदुक्तमिति । ईत्वम्, न त्वनन्तरमेत्वम्, प्राप्त्यभावात् ।।
मयतेरिदन्यतरस्याम् ।। अपमित्येति । उदीचां माङो व्यतीहारे इति त्तवाप्रत्ययः, इत्त्वे कृते तुक् ।।
आडजादीनाम् ।। 6 - 4 - 72 ।।
ऐज्यतेत्यादौ यजिवपिवहीनां हलादित्वादाणन प्राप्नोति, सम्प्रसारणे कृतेऽजादित्वाद्भविष्यति, परत्वाल्लादेशेभ्यः प्रागटा भवितव्यम्, ततो लादेशैः, ततो यका, ततः सम्प्रसारणेन, अत आह - इहेति । लादेशास्यान्तरङ्गत्वं लकारमात्रापेक्षित्वात् । अडागमस्तु लकारविशेषमङ्गं चापेक्षते इति बहिरङ्गः, कृताकृतप्रसङ्गत्वाद्वकरणस्य नित्यत्वम् । नन्वडागमोऽपि कृतेऽपि विकरणे प्राप्नोत्यकृतेऽपीति नित्य एव, ततश्च परत्वादडागम एव प्राप्नोति, तत्राह - शब्दान्तरप्राप्तोरिति । शब्दान्तरप्राप्तिमेव दर्शयति - कृते हीति । अङ्गस्याडागमः कृते विकरणोऽपि शब्दान्तरप्रप्तेरनित्यः तथा हि स कृतेऽडागमे तदादेर्धातोर्भवति, तथअकृते तु धातुमात्रात् अत आह - शब्दान्तरस्येति । षष्ठीनिर्द्देष्टस्य यद्विधीयते आगम आदेशो वा तत्रैषा परिभाषा, न पञ्चमीनिर्देश इत्यर्थः ।
नित्यत्वादेवेति । एवकारः पौनर्वचनिकः, नित्यत्वादडागमं बाधते इति पूर्वमुक्तम्, तत्रापि स एव हेतुरिति । अडागमस्तु सम्प्रसारणे कृते न प्राप्नोति, आटा बाधितत्वात् । यस्य निमित्तं लक्षणान्तरेण विहन्यते इति तु न सार्वत्रिकमिति भावः ।
अयं योगः शक्योऽकर्तुम्, अजादीनामपि पूर्वसूत्रेण अडेवास्तु । कथम् आटश्च इति वृद्धिः अटश्च इति वक्ष्यामि । इहापि तर्हि प्राप्नोति - अकार्षीत् अचीति वर्त्तते । एवमपि स्वपेर्लङ्, सिप्, अड् गार्ग्यगालवयोः इति सिपोऽट्, रुत्वम्, हशि च इत्युत्वम् - अस्वपो हसतीत्यत्र वृद्धप्रसङगः अजादौ धातौ वृद्धिं वक्ष्यामि । तर्हि धाताविति वक्तव्यम् न वक्तव्यम् यदेतद् उपसर्गादृति धातौ इति, तत्पूर्वत्रापकृष्यते, अटश्च इत्यत्र चकारस्तस्यैव विधेः समुच्चयार्थः - अटो विध्यन्तरं बाधित्वा वृद्धिरेव यथा स्यात् । तेनाटिटदित्यादौ परमप्यतो गुणे पररुपं बाधित्वा वृद्धिरेव भवति । यथा सिद्धान्तेऽपि, औसीयत् औङ्करीयत् उस्यपदान्तात्, ओमाङोश्च
इति पररुपं न भवति । उत्तरार्थं तर्ह्याड्वचनम् छन्दस्यपि दृश्यते - सुरुचो वेन आवः अट एवात्र छान्दसं दीर्घत्वं भविष्यति - पूरुषो नारक इति । यथा आसन्नित्यत्रापि लावस्थायामेवाटि कृते अ - अस् - ल् इति स्थिते अटश्च इति वृद्धिश्च प्राप्नोति, लादेशाश्च, तत्रान्तरङ्गत्वाल्लादेशः । वृद्धर्ह्यटमचं च निमित्तमपेक्षते, कृते लादेशे वृद्धिश्च प्राप्नोति, श्नसोरल्लोपः च, तत्रान्तरङ्गत्वाद्वृद्धिः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीयः इति नास्ति कृतायां वृद्धौ तपरकरणादाकारस्य लोपाभावः । इह च आयन्निति इणो लङि अटि अ - इ - अन्, अटश्च इति वृद्धिः प्राप्नोति, इणो यण् इति यणादेशश्च, तत्रान्तरङ्गत्वाद्वृद्धः, नानाश्रयत्वाच्चवार्णादाङ्गं बलीयः, इति नास्ति, इणो यण् एः इति योगविभागादिवर्णान्तस्येणो यण्विधानादेकारस्य तदभावादायादेशे सिद्धिमिष्टम् । अत्र श्लौकौ -
अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः ।
अस्वपो हलतीत्यत्र धातौ वृद्धिमटः स्मरेत् ।।
पररुपं गुणेनाट ओमाङोरुसि तत्समम् ।
छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ।। इति
न माङ्योगे ।। 6 - 4 - 74 ।।
यद्ययमनन्तरस्याट एव प्रतिषेधः स्यात्, तत्संयुक्तमेव प्रतिषेधं कुर्यात् - आडजादीनाममाङ्योगे इति, असंयुच्य तु प्रतिषेधात्सर्वस्य प्राकरणिकस्य प्रतिषेधा विज्ञायत इत्याह - लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवतीति । तत्र लुङ उदाहरणं न प्रदर्शितम् माङ्योगे तदासम्भवत् । ङिद्विशिष्टस्योपादानम् - असम्दादेशो यो माशब्दः त्वोमौ द्वितीयायः इति तद्योगे प्रतिषेधो मा भूत् - सुखिनं मा अकार्षीदिति । अथ कथम् - मा बालिपथमन्वगाः ।।
स्वच्छन्दमनुवर्त्तन्ते न शास्त्रमृषयः किल ।।
बहुलं छन्दस्यमाङ्योगेऽपि ।। 6 - 4 - 75 ।।
मा वः क्षेत्र इति । वः युष्माकं क्षेत्रे भार्यायां परबीजानि परेषां वीर्याणि मा वाप्सुः, उप्तानि मा भूवन् । वपेः कर्मणि लुङ्, व्यत्ययेन परस्मैपदम्, झेर्जुस्, सिच्, वदव्रज इति वृद्धिः । क्वचित्तु माङ्योगेऽपि भवति इति प्रकम्य अवाप्सुरिति पठ्यते, तथाध्ययनं तु न क्वचिद्दृष्टम् अभित्था इति । भिदेस्थास्, झलो झलि इति सिचो लोपः । आवरिति । पूर्वसूत्रे वृत्तावेव व्युत्पादितम् ।।
हरयो रे ।। 6 - 4 - 76 ।।
दघ्र इति । ननु चात्र परत्वाद्रेभावे कृते अनजादित्वादाल्लोपो न प्राप्नोति अत आह - घञो रेभावस्यासिद्धत्वादिति ।
नन्वेवमपि रेभावे कृते तस्यैवेडागमः प्राप्नोति, न च रेभावस्य वैयर्थ्यम् कृसृभृप्रभृतिष्वनिट्सु चरितार्थत्वात् इत्यत आह - अत्रेति । कथं पुनर्लाक्षणिकस्य तस्य थइरेशब्दस्य रेभावो भवति कथं वा स्वप्रवृत्तिमपेक्ष्य तस्मिन्निडागमे कृते पुनः स्वयं प्रवर्त्तमानस्यात्माश्रयदोषो न भवति तत्राह - तदर्थे चेति । द्विवचननिर्देशाद् दोषद्वयं न भवतीत्यर्थः ।।
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ।। 6 - 4 - 77 ।।
इश्च उश्च यू, तयोर्य्वोः । ह्रस्वयोरिदं ग्रहणम्, दीर्घयोरपि तु कार्यं भवति सवर्णग्रहणात् । य्वोरिति वर्णग्रहणात्ताभ्यां शन्वादीनां तदन्तविधिः । तत्र निर्द्दिश्यमानस्यादेशा भवन्ति इत्येवान्तस्य सिद्धेर्ङकारो विस्पष्टार्थः । आप्नुवन्तीत्यादि । यत्संयोगपूर्वमेकाच् तदिहोदाहरणम्, अन्यत्र हुश्नुवोः सार्वधातुके, एरनेकाचः इति यणा भाव्यम् । लुलुवतुरित्यादिकं तु भवत्येव ओः सुपिः इति वचनात् ।
इयङ्भ्यामिति । गुणवृद्ध्योरवकाशः - चेता, गौः, इयङुवङोरवकाशः - चिक्षियतुः लुलुवतुः, चयनम्, चायकः लवनम्, लावक इत्यत्रोभयप्रसंगे विप्रतिषेधः ।
तनुवमिति । अधातुत्वादप्राप्त उवङ् विधीयते । तन्वमिति । वा छन्दसि इत्यमि पूर्वत्वाभावे यण् । विष्वमिति । विषुव इति - सत्सूद्विष इति क्विप् । अत्र नित्यम् ओः सुपि इत्यनेन यण् प्राप्तः । स्वर्गादिषु
यजुर्वेदे - इयङुवङौ, बह्वृचे - यण् ।।
अभ्यासस्यासवर्णे ।। 6 - 4 - 78 ।।
पूर्वमङ्गस्याजादौ प्रत्यये विधानादिदमारभ्यते । इयेषेति । अत्र गुणस्य स्थानिवद्भावविषये यद्वक्तव्यं तद् द्विर्वचनेऽचि इत्यत्रोक्तम् ।।
स्त्रियाः ।। 6 - 4 - 79 ।।
स्त्री इत्येतस्येति । स्त्रीप्रत्ययान्तानं स्त्र्यर्थवृर्त्तर्वा शब्दस्य ग्रहणं न भवति आण्नद्या, कुमार्या वयसि इत्यादिनिर्देशात् । उत्तरार्थमिति । उत्तरत्र स्त्रियाः एवानुवृत्तिर्यर्था स्यात्, श्नुधातुभ्रुवां मा भूत् ।।
इणो यण् ।। 6 - 4 - 81 ।।
अत्र सूत्रार्थकथनानन्तरं क्वचित्पठ्यते - अन्तरङ्गत्वात् इको यणचि इति सिद्धे समानाश्रये वार्णादाङ्गं बलीयः इति ज्ञापनार्थ वचनम् इति, तदयुक्तम् इयङादेशापवादोऽयम् इति वक्ष्यति, तत्कथमियङ्विषये यण्प्रवर्त्तते । इयङादेशापवादोऽयमिति । इयङ्गादेशस्यैवापवाद इत्यर्थः । कुतः इत्याह मध्येऽपवादा इति । एवं सति यदिष्टं सिद्धम्, तद्दर्शयति - गुथणवृद्धिभ्यमिति । यदि तु नाप्राप्ते विध्यन्तरे आरम्भात्सर्वमेव विध्यन्तरं यण्बाधेत, गुणवृद्धिवषयेऽपि स्यत् । अथ इणो न इत्येव कस्मान्नोक्तम् इयङादेशे हि
प्रतिषिद्धे इको यणचि इत्येव यणभविष्यति अहो सूक्ष्मदर्शी देवानांपियः, यदिदमपि न दृष्टम् - ईयिव, ईयिम, कर्मणि ईयिरे, अत्रेयङि प्रतिषिद्धे सर्वर्णंदीर्घः स्यात् । तस्माद्यणेव विधेयः ।।
एरनेकाचोऽसंयोगपूर्वस्य ।। 6 - 4 - 82 ।।
तेन संयोगो विशेष्यते इति । यद्यप्यन्यपदार्थं प्रति गुणभूतः संयोगः, तथापि स एव विशेष्यते धातोः इत्यनुवृत्तस्य प्रयोजनान्तराभावात् । अस्तीदं प्रयोजनम् - इवर्ण विशेषयिष्यामीति नैतदस्ति यद्यधातोरिवर्णोऽसंयोगपूर्वः, भवितव्यमेव तस्य यणा इको यणचि इति, तद्यथा - कुमार्थौ, कुमार्य इति । ननु ग्रहमणीवदधातोः पूर्वसवर्णं बाधित्वा यण् मा भूदिति धातुनैवेवर्णो विशेषणीयः नेत्याहः इयङ्बाधनार्थो यण् । न च धातोरियङः प्रसङ्गोऽस्ति, तत्कथमधातुनिवृत्त्यर्था धात्वनुवृत्तिरुपद्यते, तस्मात्सुष्ठूक्तम् - गुणभूत एव संयोगो विशेष्यत इति ।
अङ्गविशेषणं मा भूदिति । अन्यथाधिकारेण सन्निहितस्य तस्यैव विशेषणं स्यादसंयोगपूर्वग्रहणम्, ततश्च यवक्रियौ, यषक्रियः - इत्यत्रापि प्रसध्येत, न ह्यत्राङ्गस्य संयोगः पूर्वोऽवयव इति । ननु च य्वोरिति प्रकृतम् , तत्र एरित्यनुच्यमाने ओरपि यण् स्यात् - लुलुवतुरित्यादौ, ततश्च तन्निवत्त्यर्थमपि स्यात् इत्यत आह
लुलुवलुर्ल्लवुरित्येतत्त्विति । इह एरित्यनुच्यमानेनैवौ रपिसिद्धत्वाद् ओः सुपि इत्येतन्नियमार्थं भवति - ओः सुप्येवेति । वपरीतस्तु नियमो न भवतिओरेव सुपीति न भूसुधीयोः इति यण्प्रतिषेधात् । ततश्चास्तमादेव नियमाल्लुलुवुरित्यादौ सिद्धत्वादेरित्येतदोर्मिवृत्त्यर्थं नोपपद्यते इति पूर्वोक्तमेव प्रयोजनम् । यदि त्वसंयोगपूर्वयोरिति द्विवचननिर्देशेन य्वोरेवैतद्विशेषणमुच्येत, तर्ह्योरिति शक्यमकर्तुम् । इहापि न स्यादिति । यदि धातुना संयोगो न स्यादिति । यदि धातुना संयोगो न विशेष्येतेति भावः । क्वचिद् इहापि यथा स्यादिति पाठः, तत्र प्रकृतत्वाद्यणादेश इत्यर्थः ।गतिकारकाभ्यामित्यादि । इष्टिरेवैषा । परमनियाविति । भावे कर्त्तरि वा क्विप् ।।
ओः सुपि ।। 6 - 4 - 83 ।।
सकृल्ल्वाविति । क्रियाविशेषणत्वात् सकृदित्यस्य कारकत्वम् ।
कटप्रुवाविति । क्विब्वचि इत्यादिना क्विप्, दीर्घश्च ।।
वर्षाभ्वश्च ।। 6 - 4 - 84 ।।
न भूसुधियोः इति प्रतिषेधे प्राप्ते वचनम् ।
पुनर्भ्वश्चेत्यादि । एवं च पुनर्वर्षारेषु भुवः इति सूत्रन्यासः ।
न भूसुधियोः ।। 6 - 4 - 85 ।।
भूशब्देन तदन्तस्य ग्रहणम् केवलस्य यण्प्राप्त्यभावात् ।
न चोवङः प्रतिषेधः, विच्छिन्नत्वात्, वर्षाभ्वश्च इत्यारम्भाच्च । सुधियाविति । ध्यायतेः क्विप, दृशग्रहणात्सम्प्रसारणम् ।।
हुश्नुवोः सार्वधातुक् ।। 6 - 4 - 87 ।।
अनेकाचः, असंयोगपूर्वस्य, ओरिति चानुवर्त्तते । यद्यपि हुश्नुवोरुवर्णान्तत्वमब्यभिचारि, तथाप्यसंयोगपूर्वग्रहणमोविशेषणं यथा स्यात्, हुश्नुवोर्मा भूदित्येवमर्थमनुवर्त्त्यमोरित्येतत् । हुश्नुवोर्विशेषणे हि तक्ष्णुवन्तीत्यादावेव प्रतिषेधादाप्नुवन्तीत्यादौ न स्यात्, तत्र श्नुप्रत्ययान्तस्यसंयोगापूर्वस्योति व्यधिकरणे षष्ठ्यौ । स्नुप्रत्ययान्तस्याङ्गस्यावयोवोऽसंयोगपूर्वो य उकारस्तस्वत्यर्थः । अनेकाचः इति त्वङ्गेन समानाधिकरणेमेव, सार्वधातुकग्रहणं जुहोत्यर्थम्, न शन्वर्थम् अव्यभिचारात् । जुह्वतीति । अदभ्यस्तात् । जुह्वदिति । नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः ।
योयुवति, रोरुवतीति । यु रु - इत्येताभ्यां यङ्लुगन्ताभ्यां लटि पूर्वत् झेरद्भावः ।
इदमेवेत्यादि । एतच्च यङोऽचि च चित्यत्र छन्दोऽनुवृत्तिमाश्रित्योक्तम् । अयादित्यस्तु तत्र छन्दोऽनवृत्तिं नाशिश्रियत् । कथं पुनरेतज्ज्ञापकम् इत्याह - छन्दसि हीति । छन्दसि यङ्लुगन्तनिवृत्तथ हुश्नुगर्हणं न भवति ततः परस्य तिङ आर्धधातुकत्वात् । यणादेशस्याप्रसङ्गादित्यर्थः । तथा चात्र वार्त्तिकम् - यङ्लुगर्थमिति चेदार्घघातुकत्वात्सिद्धम् इति । स्यादेतत् - यङ्लुगन्तादन्यव्द्यावर्त्य भविष्यति, अतो न ज्ञापकं हुश्नुगर्हणमिति अत आह - न चेति । असंयोगपूर्वमिति । असंयोगपूर्वोवर्णान्तमित्यर्थः । अत्र ओस्त्यिनुवृत्तेः - मिमते इत्यादौ न भविष्यति, अनेकाचः इत्यनुवृत्तेर्थुवन्तीत्यादौ । अयुवन्, थअरुवन्नित्यत्राप्यटोऽसिद्धत्वादेकाच्त्वमेव । असंयोगपूर्वस्येत्यनुवृत्तेः प्रोर्णुवन्तील्यत्र न भविष्यति । तन्वन्तीत्यादौ च भवितिव्यमेव यणा । तस्माद्यङ्लुगन्तादन्यद् व्यावर्त्त्यं न सम्भवति । आह च - हुश्नुग्रहणमनर्थकमन्यस्याभावादिति ।।
भुवो वुग्लुङ्लिटोः ।। 6 - 4 - 88 ।।
अभूवन्निति । गातिस्था इत्यादिना सिचो लुक् । अभूवमिति । मिपोऽमभावः । लुङ्लिटोरिति किम् भवति, भविष्यति - शप्स्ययोर्न भवति । यदी क्ङितीत्यनुवर्तिष्यते, अभूवमित्यत्रापि तर्हि न स्यात् एवं तर्ह्मारित्यनुवर्तिष्यते, गुणे कृते अनुवर्णान्तत्वान्न भविष्यति, अभूवमित्यत्र भूसुवोस्तिङि इति गुथणप्रतिषेधादुवर्णान्तत्वम् । नात्र शक्यमोरित्यनुवर्तयितुम् । एतच्च इन्धीभवतिभ्यां च इत्यत्र विश्तरेणोक्तम् ।।
ऊदुधाया गोहः ।। 6 - 4 - 89 ।।
उदाहरणेषु णिच्, ण्वुल्, तणनिः आभीक्ष्ण्ये णमुल्, घञ् - इत्येते प्रत्ययाः । सर्वत्र गुणे कृते ओकारस्य ऊकारः ।
उपधाया इति किमिति । ओः इत्युनुवृत्तेरेवोकारस्य भविष्यति, स चोपधैवेति प्रश्नः । ननु च ओरित्युच्यते, न चास्योपधोकारः सम्भवति ओरित्यनुवृत्तिसामर्थ्याद् गोहः थइति विषयोपलक्षणं भविष्यति, न तु
कृतगुणप्रतिपत्त्यर्थम् । तअन्त्तयस्य मा भूदिति । नोपलक्षणत्वे प्रमाणमस्ति, ततश्चासम्भावदोरित्यस्य निवृत्तरार्थमप्यवश्यमुपधागर्हणं कर्त्तव्यमिति भावः ।
विकृतग्रहणं विषयनियमार्थमिति । गुह थइत्युच्यमाने धातुनिर्देशोऽयं भवति, ततश्च क्ङिद्विषयेऽपि तत्स्वरुपप्रयुक्तमूत्वं स्यात् । तस्मादूत्वस्य विशिष्टो विषयो निर्दिष्टो यथा स्यादिति विकृतसाय कृतगुणस्य ग्रहणं कृतम् । वेषयार्थतां स्पष्टयति - यत्रेति । गुणविषये यथा स्यादित्यर्थः । अयादेशप्रतिवेधार्थ च केचिदिच्छन्तीत्यादि । पूर्वविषयावधारणे तातपर्यमित्युक्तम्, तच्चाक्ङितीत्युच्यमाने सिद्ध्यति । लाघवार्थ तु गह इत्युक्तम् , तच्च कालावधारणार्थमप्यर्थाद्भवति, गुणोत्तरकालमूत्वमिति । इदानीं तूभायत्रापि तात्पर्यमित्युक्तं भवति । गुणविषये भवति - तत्रापि कृते गुणे इति । यदि हि प्रगेवांगुणादूत्वं स्यात्, तदा ल्यपि लघुपूर्वात् इत्यादेशे तस्यासिद्ध्त्वाल्लघुपूर्वो हकार इत्ययादेशः स्यात । यदा तु गुणो कृते तस्य स्थाने ऊत्वम्, तदा तस्यासिद्धत्वेऽप्योकारस्य गुरुत्वादयादेशाभावः सिद्ध्यतीति । तदेतद् दूषयति - व्याश्रयत्वादिति
। कथं व्याश्रयत्वमित्याह - णावूत्वमिति ।
दोषो णौ ।। 6 - 4 - 90 ।।
किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दत्तोत्तरत्वात् । उक्तोत्तरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ।।
वा चित्तविरागे ।। 6 - 4 - 91 ।।
चित्तविरागः - चित्तस्याप्रीतता । प्राप्तविभाषेयम् ।
णावित्येव - चित्तस्य दोषः ।।
मितां ह्रस्वः ।। 6 - 4 - 92 ।।
रजयतीति । रञ्जोर्णौ मृगरमण उपसङ्ख्यानम् इत्युपधालोपः ।।
चिण्णमुलोर्दीर्धोऽन्यतरस्याम् ।। 6 - 4 - 93 ।।
न ह्रस्वविकल्प एव विधीयेतेति । एवमपि ह्रस्वपक्षे अशमीति सिध्यति, पक्षान्तरे अशामीति यथाप्राप्तं दीर्घ एवाषस्थास्यत इति भावः । शमयन्तं प्रयुंक्ते इति । यद्यपि चिण्विषये कर्म प्रदर्शनीयं भूतकालश्च, तथापि णिजुत्पत्तये हेतुव्यापारमात्रप्रदर्शनमत्र विवक्षितम्, न कर्त्ता नापि वर्त्तमानः काल तइति न दोषः ।
णिलोपस्य स्थानिवद्भावादिति । स्थानिवद्भावे हि सति यश्चिण्णमुल्परो णिः न तस्मिन्मिदङ्गम्, पूर्वेण णिचा व्यावधानात् यर्स्मिश्च मिदङ्गं न स चिण्णमुल्परः, परेण णिचा व्यावधानात् ततश्च ह्रस्वविकल्पो न स्यात्, पूर्वेथण नित्यमेव तु ह्रस्वः स्यात् । ननु दीर्घविकल्पेऽपि यावता स्थानिवद्भावः, कथमिवैतत् सिद्ध्यति तत्राह - दीर्घविधौ त्विति । न पदान्तद्विर्वचन इत्यादिना स्थानिवद्भावप्रतिषेधाद्दीर्घविकल्पस्यायं विषय एवेत्यर्थः । तथेत्यादि । अत्र दीर्घविधौ त्वजादेशो न स्थानिवद्भावतीत्यनुषङ्गः । शमेर्यङ्, द्विर्वचनम्, नुक्, णिच्यतो लोपः यस्य हल, तशंशमि इति स्थिते - यदा ततश्चिण्णमुलौ भवतः, तदा दीर्घविकल्पः सिध्यति अजादेशस्य स्थानिवत्त्वाभावादित्यर्थः ।
एतदेव स्पष्टयति - योऽसाविति । यश्च यङ्कार इति । णौ लुप्यत थइत्युनषङ्गः । एवं तावद्दीर्घविधौ त्वजादेशो न स्थानिव्ध्बवतीत्येत्तस्पष्टीकृतम् । णिलोपस्य स्थानिवद्भावाद् ह्रस्वविक्लपो न स्यात् िति यदुक्तम्, तत्समार्थयते - ह्रस्वविकल्पे त्विति । णेर्णिः णिणिः, सोऽन्तो यस्य स णिण्यन्तः । एतेन यड्ण्यन्ते इति व्याख्यातम् ।
असिद्धिरेवेति । कस्य प्रकृतत्वाद्दीर्घस्य, एवकारेण तुशब्देन चैतद्दर्शयति । णिचमाश्रित्य वृद्धिविधानादस्ति दीर्घस्य शङ्का, णिलोपस्य तु स्थानिवद्भावादयं विकल्पो न स्यादित्येव दोषः । यङ्ण्यन्ते तु भवतु नामायं विकल्पः, तथापि पक्षे दीर्घस्य श्रवणं न सिध्यति तणिचमपेक्ष्य वृद्धौ कर्त्तव्यायामतो लोपस्य स्थानिवद्भावाद्, दीर्घस्यानुन्मेषादिति ।
स्यादेत्त - दीर्घविकल्पे विधीयमाने यदि नाम स्थानिवद्भावो नास्ति, तथापि नैवात्र दीर्घः सिध्यति, असिद्धवदत्राभात् इति णियङोर्लोपस्यासिद्धत्वादिति अत थआह - व्याश्रयत्वादिति । व्याश्रयत्वमेव दर्शयति - णौ हीत्यादि । किञ्च - हेड वेष्टने घटादिः, तस्य ह्रस्वाभावपक्षे अहेडीति स्यात्, दीर्घे तु ह्रस्वस्य कृते - अहीडीति भवति । तस्मादतोऽपि हेतोर्दीर्घ एव विकल्पनीयः ।।
ह्लादो निष्ठायाम् ।। 6 - 4 - 95 ।।
ह्लादी सुखे च, ईदित्वान्निष्ठायामनिट् । क्वचित्पठ्यतेह्लाद इति योगविभागः क्रियते, क्तिन्यपि यथा स्यात् प्रल्हत्तिरिति । माष्ये तु नैतद्दृष्टम् ।।
छादेर्घेऽद्व्युपसर्गस्य ।। 6 - 4 - 96 ।।
उरश्छद इति । छद आवरणे, चुरादिणिच्, पुंसि संज्ञायाम् िति करणे घः, कर्मणि षष्ठ्या समासः । ननु चात्र घे परतो ण्यन्तमङ्गं तस्योपधादकारः, न च सं ह्रस्वभाविनी । न च शख्यं वक्तुम् - णिलोपे कृते
आकारो ह्रस्वभाविन्युपधेति णिलोपस्य असिद्धवदत्रा भात् तइत्यसिद्धत्वाद् अचः परस्मिन् इति स्थानिवद्भावाच्च । अत आह - णिलोपस्य चेति । अपर आह - णाविति वर्त्तते, धे परतो यो णिस्तत्र यदङ्गं तस्योपधाया ह्रस्वः । छादेः इति चेका निर्द्देशः, न णिचा इति ।
ननु यत्र त्रिप्रभृतयः सन्ति, द्वावपि तत्र स्तः, ततश्च अद्व्युपसर्गस्य इत्येव सिद्धम्, किं सूत्रशिक्षया अत आह - उत्तरा हीति । एतदेव लोकव्यवहारेथण द्रढयति - न हीति ।
इस्मन्त्रन्विवषु च ।। आर्चिशुचिहुसृपिच्छदिछर्दिभ्य इसिः इतीसिप्रत्ययः । मनिन् सर्वधातुभ्यः । ष्ट्रन् सर्वधातुभ्यः । योगविभागाद् द्विप्रभृत्युपसर्गादपि भवति - समुपच्छदिः ।।
गमहनजनखनधसां लोपः क्ङित्यनङि ।। 6 - 4 - 98 ।।
?B जध्नतिरिति । अभ्यासाच्च इति कुत्वम् । जज्ञतुरिति । जन जनने परस्मैपदी जौरोत्यादिकः, नकारस्य चुत्वम् । जज्ञ इति । जनी प्रदुर्भावे अनुदात्तेत् दैवादिकः । जक्षतुरिति । लिट्यन्यतरस्याम् इत्यदेर्घस्लादेशः, घकारस्य चर्त्वम्, शासिवसिघसीतनां च इति षत्वम् । अक्षन्निति । लुङ्सनोर्घस्लृ मन्त्रे घस इति च्लेलुक् ।
अचीत्येवेति । अचि श्नुधातु इत्यतः । तस्य तु दोषो णौ इत्यत आरभ्योपयोगो न प्रदर्शितः, क्वचिद्व्यभिचाराभावात्, क्वचिदसंभावात् । इह तूपयोगः तथा चोत्तरसूत्रे हलि च इति वक्ष्यति ।।
तनिपत्योश्छन्दसि ।। 6 - 4 - 99 ।।
वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ।।
घसिभसोर्हलि च ।। 6 - 4 - 100 ।।
सूत्रे चकारस्य पाठोऽनार्षः । तथा च वार्त्तिकम् - हल्ग्रहणमपरिभाष्यम्, अन्यत्रापि दर्शनात् इति ।
तथा न क्रियत िति । यदि क्रियेत, अनच्कत्वाद् द्विर्वचनं न स्यादिति भावः । पूर्वत्र अचीत्यधिकारादिह हलीत्युक्तम्, तदुपादानाद् - अचि न स्यादिति चकारेण समुच्चयः ।
यदि पूर्ववैवाचीत्यनुवर्त्तते, नैह इत्युच्येत, ततः हलि च इति शक्यमकर्त्तुम्, उत्तरार्थ तु तत्क्रतम् ।।
हुझल्भ्यो हेर्धिः ।। 6 - 4 - 101 ।।
हलादेरिति । हुझल्भ्यः इति पञ्चम्या हलीति सप्तम्याः षष्ठी प्रकल्प्यते इति भावः । यद्येवम्, यस्मिन्विधिः ित्यस्याभावात्तदादिविधिर्न स्यात् हलीत्यनुवृत्तिसामर्थ्याद्धलन्तत्वाभावाच्च भविष्यति । भिन्धीति । श्नसोरलोपः । प्रीणीहीति । ई हल्यधोः । लोटो लङ्वत् । जुहुतामिति । तसस्ताम् । रुदिहीति । शब्दान्तरप्रात्या द्वयोरप्यनित्ययोः परत्वादिटि कृते पुनर्द्वित्वप्रसङ्गः ।
इहेत्यादि । धित्वस्यावकारशोऽनाशिषि - जुहुधीति, तातङोऽवकाशो हुझल्भ्योऽन्यः - जीवतात्त्वमिति, आशिषि हुझल्भ्यस्तूभयप्रसङ्गे परत्वात्तातङ् । अथ कृतेऽपि तस्मिन् स्थानिवद्भावाद्धित्वं कस्मान्न भवति तत्राह - तत्र कुते इति । भिन्धकि, छिन्धकीत्यत्रापि तर्हि परत्वेन धित्वे कृते अकज्न स्यात् इत्यत आह - भिन्धीकिति । अपर आह - स्थान्यादेशयोर्द्वयोरपीकार उच्चारणार्थः, तहकारस्य धकार आदेशः, हलीत्यपि नानुवर्त्त्यमम्, न क्वाप्यनिष्टप्रसङ्गः इति ।।
श्रुश्रृणुपॄकृवृभ्यश्छन्दसि ।। 6 - 4 - 102 ।।
उरुकृदुरुणस्कृधीति । नश्च धातुस्थोरुषुभ्यः इति णत्वम्, कः करत् इति विसर्जनीयस्य सत्वम् ।
अन्यषामपि दृश्यत इति । दीर्घत्वमिति । न केवलं श्रृणुधी गिर इत्यत्र, श्रुधी हवम्, अपावृधीत्यत्राप्यनेनैव दीर्घत्वम् । अतोऽन्यत्रेति । श्रृणुधीत्यतोऽन्यषु सर्वोदाहरणेषु ।।
अङितश्च ।। 6 - 4 - 103 ।।
मलोपाभावस्त्विति । अनुदात्तोपदेश तइत्यादिना यो मलोपस्तस्याभावः । अङित्वादेवेति । नासौ यत्नसाध्य इत्येवश्बदार्थः । यमेः शपो लुगिति । वहुलं छन्दसि इत्येव । एवमुत्तरत्रापि ।।
चिणो लुक् ।। 6 - 4 - 104 ।।
चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् ।
ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत तआह - चिणो लुगित्येतदिति । अथ वा - क्ङिति इति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्यस्य लुग्विधीयमानस्तरपो न भविष्यति ।।
अतो हेः ।। 6 - 4 - 105 ।।
गच्छेति । इषुगमियमां छः । घावेति । घावु गातिशुध्योः, पाध्नादिसूत्रेण सर्त्तेर्धावादेशः ।
लुनीहीति । प्वादीनां ह्रस्वः ई हल्यघोः । ननु चात्रानवर्णान्तत्वादेष न भविष्यति, ईत्वमेव हि परत्वाद्भवति तत्राह - इत्वस्येति । नन्वेवमप्युत्तरसूत्रे उतः, प्रत्ययात् इति यदुपात्तमुपाधिद्वयं तस्मादेवात्र प्रत्युदाहरणद्वयेऽपि न भविष्यति । यदि च लुनीहीत्यत्र परत्वादीत्वं भवति, ततोऽसिद्धत्वं नास्ति, विप्रतिषेधविषये तदभावस्योक्तत्वात् । तस्मादत इत्यस्य इहि, अधीहीति प्रत्युदाहरणम्, तपरकरणस्य - याहि, वाहिति ।।
उतश्च प्रत्ययादसंयोगपूर्वात् ।। 6 - 4 - 106 ।।
उतः, प्रत्ययात् - इत्यनयोर्विशेषणविशेष्यभावे कामचारः । तत्र
उकारस्य विशेष्यत्वात् तेन नास्ति तदन्तता ।
न सम्भवति चोकारः प्रत्ययान्तो यदा पुनः ।।
विशेष्यते उकारेण प्रत्ययस्तत्तदन्तता ।
आश्रीयते प्रत्ययस्य तत्पक्षद्वयसम्भवः ।।
तत्राद्ये पक्षे तनु, कुरु - इत्यादावेव स्यात् सुन्, चिनु - इत्यादौ तु न स्यात् । तथा उकारस्य प्रत्ययस्चासंयोगपूर्वत्वादसंयोगपूर्वग्रहणमस्मिन्पक्षे अङ्गविशेषणं विज्ञायेत, ततश्च क्षिणु इत्यादौ न स्यात्, क्षिणु हिंसायाम् तानादिकः, अत्र धातोर्गुणो न भवतीत्याहुः । तस्मादुकारो विशेषणम्, तेन तदन्तविधिः । यद्येवम्, तनु, कुरु - अत्र न प्राप्नोति, इकार एवात्र प्रत्ययो न तदन्तः अत्रापि तदन्तः कथम् व्यपदेशिवद्भावात् । एवं स्थिते -
यद्यसंयोगपूर्वत्वमुकारान्तविशेषणम् ।
आप्नुहीत्यत्र हेर्लुक्स्यात्प्रतिषेधस्तु तक्ष्णुहि ।
तस्मादिविशेषाणमिदमुकारस्यैव गृह्यताम् ।।
ननु च येन विधिस्तदन्तस्य इति उकारस्तदन्तस्य संज्ञा, ततः किम्
संज्ञिप्रत्यायनपरा संज्ञा तस्या विशेषणम् ।
अयुक्तमिति चेदत्र समाधिरभिधीयते ।
विशेषणं तदन्तस्य संज्ञा, सत्यम्, तथापि तु ।
विशेषणत्वस्फुरथणात् प्रागेवोतो विशेषणम् ।
प्रत्ययस्येति, नैवेह किञ्चिदस्ति तिरोहितम् ।।
तदिदमुक्तम् - योऽयमुकारोऽसंयोगपूर्वस्तदन्तातप्रत्ययादिति । युहि, रुहीति । ननु जुहोतेः परस्य हेर्धित्वविधानादेव धातोः परस्य न भविष्यति सत्यम् विशिष्टविषयमेतज्ज्ञापकं स्यादिति प्रत्ययग्रहणम् । छन्दसि वेति च वक्तव्यमिति । एवं च कृत्वोत्तरसूत्रेऽन्यतरस्यांग्रहणं न कर्त्तव्यं भवति ।।
लोपश्चास्यान्यतरस्यां म्वोः ।। 6 - 4 - 107 ।।
अस्येत्यनेनोकारान्तः प्रत्ययः प्रत्यवमृश्यते । अस्येत्यनुच्यमाने म्वोः इति षष्ठ्याश्रयणे न म्वोरेव लोपो विज्ञायेत । एवं च उतश्च प्रत्ययादसंयोगपूर्वात् इति पञ्चमी न बाधिता भवति । लुगिति वर्त्तमाने इत्यादि । यदि हि प्रकृत एव लुक् क्रियेत, सर्वस्यैव प्रत्ययस्य स्यात् । लुगादयः सर्वादेशः िति संज्ञाविधाववोचाम् ।
सर्वस्य लोपे कृते सुन्वः, सुनुव इति न सिध्येत् । तस्मादन्त्यस्य लोपार्थं लोपग्रहणम् । किञ्च - कुर्वः , कुर्म इत्यत्र लुकि सति गुणो न स्यात् न लुमताङ्गस्य इति प्रतिषेधात् । लोपे तु सति भवति ।।
नित्यं करोतेः ।। 6 - 4 - 108 ।।
करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययाद् इत्यनुवृत्तेर्लभ्यते । उकारलोपस्येत्यादिना सोपपत्तिकां दीर्घप्रप्तिमनूद्य प्रतिषेधं दर्शयति ।
आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं विस्पष्टार्थम् ।।
अत उत्सार्वधातुके ।। 6 - 4 - 110 ।।
करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययात् इत्यनुवृत्तेर्लभ्यते ।
सार्वधातुक इति किमिति । सत्यपि सार्वधातुकग्रहखणे स्यतास्यान्तस्य प्रसङ्गकरिष्यावः, कर्त्ताराविति स्यातासिभ्यां व्यवधानान्न भविष्यति । कुरुते - ित्यत्रापि तर्ह्युप्रत्ययेन व्यवधानान्न स्यात् । स्मात्सार्वधातुके परतः करोतेरङ्गस्येत्यर्थसम्भावात्सार्वधातुके परतो यदङ्गं तदवयवस्य करोतेरित्याश्रयणीयम् । एवं च स्यतास्यन्तस्यापि प्रसङ्ग इति । उतश्च प्रत्ययात् इत्यवश्यमनुवर्त्त्यम्, उप्रत्ययान्तात्करोतेः परं क्ङित्सार्वधातुकमेवेति प्रशनः । भूतपूर्वेऽपीति । करु - हि इति स्थिते उत्वं च प्राप्नोति, हिलुक्च, नित्यत्वाद्धिलुकि कृते क्ङितः परस्याभावादुत्वं न स्यात् । प्रत्यात् । प्रत्ययलक्षणं च न लुमताङ्गस्य इति प्रतिषिद्धम् । तस्माद् भूतपूर्वेऽपि सार्वधातुके यथा स्यादिति सार्वधातुकग्रहणम् । आसिद्धो हिलुक्, तस्यासिद्धत्वादुत्वं भविष्यति । तस्माद्विस्पष्यार्थं सार्वधातुकग्रहणम् । यथा पुरस्योत्तरत्राप्युपयोगाभावः, तथा तत्र तत्र वक्ष्यते ।
इह यद्यपि भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति, तथाप्यान्तर्यतो मात्रिकस्यातो मात्रिक तउकार एव भविष्यति, नार्थस्तकारेण तत्राह - तपरकरथखणमिति । थअसति हि तस्मिन्नुप्रत्ययमाश्रित्योकारस्य लघूपधलक्षणो गुणः स्यात्, स मा भूदिति तपरकरणम् । तस्य हि प्रयोजनम् - लक्षणान्तरेणापि दीर्घो मा भूत् ।।
श्नसोरंल्लोप ।। 6 - 4 - 111 ।।
तपरकरणं किम् आटो मा भूत् - आस्ताम्, आसन्, असिद्ध आट् । एवं तर्ह्याभीभीयस्यासिद्धत्वमनित्यमिति ज्ञापनार्थं तपरकरणम् । अथात्र सार्वधातुकाधिकारस्योपयोगः नेत्याह । श्नः सार्वधातुक एव, अस्तेरप्यार्द्धधातुके भूभावेन भाव्यम् । नन्वनुप्रयोगे भूभावो नास्ति - ईहामासुः सत्यम् तत्र द्विर्वचने हलादिशेषे च कृते येननाप्राप्तिन्यायेन अतो गुणे इति पररुपं बाधित्वा अत आदेः इति दीर्घत्वे कृते परस्याकारस्य सण्पि लोपे सिद्धमिष्टम् ।।
श्नाभ्यस्तयोरातः ।। 6 - 4 - 112 ।।
लुनत इति । लट्, आत्मनेपदेष्पनतः इति झस्यादादेशः । लुनतामिति । लोटि आमेतः । अलुनतेति । लङ् । मिमते इत्यादौ भृञामित् इतीत्वम् ।
यान्ति, वान्तीति । असति हि श्नाभ्यस्तग्रहणे अतो गुणे इत्यत्र तपरकरण्सय यानमित्यादावक्ङिति चारितार्थत्वादिह लोप एव स्यादिति भावः ।
अलुनादिति । अत्तरसूत्रे क्ङितीत्यस्य सम्बन्धः स्थित एवेति नायमीत्वस्य विषयः । इकहाकारणाभ्यस्तविषेषणादाकारान्तस्य लोपो जाग्रतीत्यत्र न भवति । तत्र निर्द्दिश्यमानस्यादेशाः इति वा अलोऽन्त्यस्य िति वा आकारस्यैव लोप इत्यादि मत्वा व्याख्यातम् - श्न इत्येतस्याभ्यस्तानां चाकारस्यैति । आकारान्तानाम् इति तु व्याख्येयम् । अत्रापि आ सार्वधातुक एव सम्भवति । एवमभ्यस्तमप्याकारान्तम् । ववतुरित्यादौ भवत्येव लोपः ।।
ई हल्यधोः ।। 6 - 4 - 113 ।।
लुनन्तीति । असति हल्ग्रहणे ईत्वलोपयोः पर्यायः स्यात् एकविषयत्वात् । घुसंज्ञकेष्वेव वा लोपः स्यात् । अत्रापि पूर्ववत् सार्वधातुकमेव सम्भवति ।।
इद्दरिद्रस्य ।। 6 - 4 - 114 ।।
इदमपि सार्वधातुक एव अन्यत्र लोपविधानात् । सिद्धस्चति । यथा प्रत्ययविधौ प्रत्ययविधानकाल थएव सिद्धो भवति, तथा लोपः कर्त्तव्यः, आर्धधातुके तइति वष्यसप्तम्याश्रयणीयेति भावः ।
आकारान्तलक्षण इति । आर्धधातुके इति परसप्तम्यां तस्योत्पर्त्ति प्रतौक्ष्य लोपः कर्त्तव्यः, ततश्च स्याव्द्यय ित्याकारान्तलक्षणो णप्रत्ययः स्यात्, तत्र कृतेऽनेन लोपश्च प्राप्नोति युक्च, तत्र लोपस्य शब्दान्तरप्राप्त्याऽनित्यत्वम् , युकस्तु लोपे कृतेऽप्राप्तिः, ततश्च उभयोरप्यनित्ययोः परत्वाद्युक् स्यात् । अथापि
लोपः स्यात्, एवमपि अदरिद्र तइत्यत्र अच्कावशक्तौ इत्येव स्वरो न स्यात् । ईषद्दरिद्रमित्यत्र च आचो युच् इति युच् स्यात् ।
दरिद्रायक् इति । ण्वुलि, युक् । दरिद्राण इति । ल्युट् । दिदरिद्रासतीति । तनिपतिदरिद्राणामुपसंख्यानम् इति व्यवस्थितविभाषा, तेन लोपपक्षे इट् । अन्यत्रेडभावः ।
अद्यतन्यामिति । लुङ एषा पूर्वाचार्यसंज्ञा । अदरिद्रासीदिति । यमरमनमातां सक्च इति । एकाचः इति तत्रानुवर्त्तत इत्येकीयं मतम् । चिणि - अदरितिद्रि, तअदरिद्रायि । णलि - ददरिद्रौ । छान्दस ह्रस्वत्वमिति । अन्यथा आतो धातोः इति लोपे दरिद्र इति निर्द्देशः स्यात ।।
भियोऽन्यतरस्यम् ।। 6 - 4 - 115 ।।
हलादौ क्ङिति सार्वधातुक इति । नैतेषामत्रोपयोगः, तथा च प्रत्युदाहरणं न प्रदर्शितम् । थथा हि - उजादावप्यस्तु बिभ्यतीति, एरनेकाचः इति ह्रस्वस्यापि यण् भविष्यति । न चेत्वविधेर्वैयर्थ्यम् हलादौचरितार्थत्वात् । तथा विभेतीति अक्ङित्यपि भवतु गुणो भविष्यति । इत्वविधिश्च क्ङिति चचरितार्थः । तथा थअभ्यस्तस्य इत्यनुवृत्तेर्भीत इत्यादावार्धधातुके न भविष्यति । क्वसावपि तर्हि प्राप्नोति छान्दसः क्वसुः, दृष्टानुविधिश्छन्दसि ।।
जहातेश्च ।। 6 - 4 - 116 ।।
अत्रापि न सार्वधातुके ित्यस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृत्तेरार्धधातुके न भविष्यति, लिडजादिः ।।
आ च हौ ।। 6 - 4 - 117 ।।
सार्वधातुकमेव हि ।।
लोपो यि ।। 6 - 4 - 118 ।।
देहि, धेहीति । दाञ्धाञो रुपे । दोदाण्धेटां तु विकरणेन हिर्व्यवहितः । देङात्मनेपदी । शिदयमिति । न सूत्रे श्रूयमाणश्शकारो विभक्तिसकारस्य श्चुत्वेनागतः, किं तर्हि औत्पत्तिको लोपशब्दसम्बन्धी । विभक्तेषु हल्ङ्यादिलोप इति भावः । संज्ञाशब्दे च कृतोऽनुबन्धः संज्ञिनः कार्यं सम्पादयति, यथा - ङमुटष्टत्वम् । एचच्च नानर्थकेऽलोन्त्यविधिः इत्यनाश्रित्योक्तम् ।।
अत एकहलमध्येऽनादेशादेर्लिटि ।। 6 - 4 - 120 ।।
एकशब्दोऽसहायवचनः न सङ्ख्यावचनः मध्याभावात् । द्विवचनान्तस्य च समासः, द्वयोरेव मध्यसम्भाव्त, अत्र लिटीति यदि विधीयमानयोरेत्वाभ्यासलोपयोर्निमित्तनिर्द्देशः स्यात्, आदेशो न विशेषितः स्यात्, ततश्च नेमतुः, नेमुः, सेहे, सेहाते, सेहिरे - अत्रापि प्रतिषेधः स्यात्, न त्वसत्वयोः कृतयोरङ्गस्यादेशादित्वात् । तस्माद् गुणभूतस्याप्यादेशस्यायं निमित्तनिर्द्देश इति दर्शयति - लिटि परत इति । लिटि परत्रावस्थिते य आदेशो विधीयते स आदिर्यस्याङ्गस्य नास्तीत्यर्थः ।
ररक्षतुरिति । अयुक्तमिदमादेशादित्वात् । क्वचित्तु ततक्षुरिति पठ्यते, तदप्ययुक्तम् संयोगान्तत्वेन लिटः कित्त्वाभावात् । तस्मात्तत्सरतुः, तत्सरुरिति प्रत्युदाहरणम् । त्सर छद्भगतौ । चकणतुरिति । कणतिः शब्दार्थधातुवर्गे भूवादौ पठ्यते । जगणतुरिति । गण संख्याने, चुरादित्वात्तत्र णिच् प्राप्नोति । यदिनेष्यते, अनित्यण्यन्ताश्नुरादयः । एतच्च धुषिरविशब्दने इत्यत्र वक्ष्यते । यद्यपि कृहौश्चुः इति चुत्वं लिट्याहत्य न विहितम्, तखअभायसनिमित्ते तु प्रत्यये विधानाल्लिण्निमित्तमपि भवति, सर्वथा लिट्युत्पन्ने पश्चाद्भवति ।
अनैमित्तिके नत्वसत्वे इति । ततश्च प्रागेव लिडुत्पत्तेस्ताभ्यां भवितव्यम्, तेन तदाद्यङ्गं लिटि य आदेशस्तदादि न भवति, यदि लिटा आदेशो विशेष्यते, एत्वमलिट्यपि प्राप्नोति - पक्वः, पक्ववानिति नैष दोषः, चकारः सभूच्चये, नान्वाचये तेन यत्राभ्यासलोपस्तत्रैवैत्वम् । इह तर्हि स्यात् - पिपठिषति क्ङितीति
वर्त्तते । एवमपि पापठ्यते - अत्रापि प्राप्नोति नैष दोषः, इह ह्यभ्यासकार्येषु ह्रस्वहलादिशेषावुत्सर्गौ, तयोरन्यऽपवादास्तत्रैह दीर्घोऽकितः इति दीर्घत्वं च प्राप्नोति अनेन लोपश्च, तत्र दीर्घस्यावकाशः - बाभाष्यते, अस्य विधेरवकाशः - पेचतुः, पेछु, पापच्यते - इत्यत्रोभयप्रसङ्गे अपवादविप्रतिषेधाद्दीर्षत्वेनायमभ्यासलोपो बाध्यते तत्सन्नियोगशिष्टत्वादेत्तवमपि न भविष्यति । अभ्यासविकारेषु उभयसमावेशो यत्र सर्वेषां प्रवृत्तिस्तत्र । इह तु यद्यपि दीर्घत्वे कृतेऽपि एत्वाभ्यासलोपयोः प्रसङ्गः, तयोश्च कृतयोन दीर्घस्य प्रसङ्ग इति न सर्वेषां प्रवृत्तिः ।
ननु च बभणतुः, बभणुरित्यादावभ्वासजश्त्वचर्त्वयोरसिद्धत्वादनादेशादित्वात् एत्वाभ्यासलोपाभ्यां भाव्यम्, विपिरतिषेधस्य तु जहसतुर्जहसुरित्यादौ यत्र कुहोश्चुः इति चुत्वं क्रियते सोऽवकाशः स्यात् अत आह - इहेति । अत्रैव थज्ञापकमाह - तथा चेति । रुपामेदे त्विति । यत्रादेशस्य स्थानिना सह रुपमैदो नास्ति तत्रेत्यर्थः । शसिदद्योरिति । अभ्यासे चर्च, इति सर्वत्र जश्चरोः प्राप्तयोरन्तरतमपिरभाषाव्यापारलब्धमिदं वक्ष्यते - प्रकृतिचरां प्रकृतिचरः, प्रकृतिजशां प्रकृतिजश इति । तेन शसेः शकारस्य शकारो ददेर्दकारस्य दकार इति, तावप्यादेशादी भवतः । यदि चाभिन्नरुपोऽप्यादेश कइहाश्रीयेत, तत आदेशादित्वादेव प्रतिषेधे सिद्धे न शसददवादिगुथणानाम् इति शसिदद्योः प्रतिषेधोऽनर्थकः स्यात्, कृतस्तु ज्ञापयति - रुपाभेदे य थआदेशः स इह नाश्रीयते इति । यदि पुनराश्रीयेत किं स्यात् इत्यत आह - अन्यथेति । प्रकृतिर्जश् प्रकृतिश्र्चर्च्चादिर्येषां तेषां न स्यात्, वचनं तु रेणुरित्यादौ चरितार्थम् । अहं पपचेति । उत्तमे णलि णित्त्वाभावपक्षे रुपम् । णत्त्वपक्षे तु परत्वाद्वृद्धौ कृतायां तपरकरणादकाराभावादेवा प्रसङ्गः ।
देभतुरिति । श्रन्थिग्रन्थि इत्यादिना लिटः कित्त्वे सति नलोपः ।
नशिमन्योरलिट्येत्त्वमिति । अलिटीति पादपूणार्थोऽनुवादः, श्लोकोह्योवं भाष्ये पठितः ।।
नशिमन्योरलिट्येत्वं छन्दस्यमिपचोरपि ।
अनेशन्मेनकेत्येतव्द्येमानं लिङि पेचिरन् ।। इति ।
अनेशन्निति । झोऽन्तादेशः । थअनेशन्नस्योषवः । अनेशमिति तु प्रायेण पाठः, तत्र मिपोऽम्भावः । क्षिपकादिष्विति । क्षिपकादिषु हि इत्वप्रतिषेधो वक्ष्यते, एतच्च न यासयोः इत्यत्र आशिषि चोपसङ्ख्यानम् इत्यनाश्रित्योक्तम्, छन्दसीतिवचनात् मेनकेति भाषायां न प्राप्नोति । यदीष्यते, पृषोदरादिषु द्रष्टव्यः । लुग्न क्रियत इति । छान्दसत्वात्, बहुलं छन्दसि इति वा शपो लुप्तत्वात् । पेचिरन्निति । पचेरन्निति प्राप्ते ।
क्वचित्पठ्यते - यजिवप्येश्च, आयोजे आवेवे, यजेर्वपेश्च लङि इति छन्दस्यपि दृश्यते इत्यनजादेरप्याडिति । अपर आह - लिटि तस्य एशादेशः, सम्प्रसारणपूर्वत्वे वा छन्दसि इत्यनुवृत्तेर्यणादेशः, एत्वाभ्यासलोपौ, उदात्तवता तिङेत्याङः समास इति । तथा चावगृह्णन्ति - यच्छञ्चयोश्च मनुरायजे पिता, आयेज इत्यायेजे इति ।।
थलि च सेटि ।। 6 - 4 - 121 ।।
पेचिथेति । क्रादिनियमात्प्राप्तस्येटः उपदेशेऽत्वतः इति प्रतिषेधे प्राप्ते ऋतो भारद्वाजस्य इति नियमात्पक्षे इट् । पपक्थेति । अन्येषां मतेन प्रतिषेधः ।
थल्ग्रहणमनर्थकम्, पेचिवेत्यादावन्यत्र सेटि कित्त्वात्पूर्वेण भवितव्यमेव अत आह - यल्ग्रहणं विस्पष्टार्थमिति । किमत्र विस्पष्टनीयम् तद्दर्शयति - अक्ङिदर्थमित्यादि । आरम्भसामर्थ्यादेवायं निश्चयः स्यात्
- यत्र पूर्वेण न सिद्ध्यति तदर्थमिति, बहवश्च विशेषाः प्रकृताः - अत एकहलमध्ये थइत्यादयः, तत्रासति थल्ग्रहणे सन्देहः स्यात् - किमनकारार्थं वचनम् - ददिविव, ररादिव इति अथानेकहल्मध्यार्थम् - तत्सरिवेति अथादेशार्थम् - बभणिवेति उतालिडर्थम् - पठित इति उताक्ङिदर्थमिति तत्र अत इत्यादेयो विशेषा अनुवर्त्तन्ते, क्ङितीत्येतत्तु निवर्तते - इति व्याख्यानमन्तरेण दुर्ज्ञानम् । तस्माद्विस्पष्टार्थं थल्ग्रहणं कृतम् ।।
तॄफलभजत्रपश्च ।। 6 - 4 - 122 ।।
फल निष्पत्तौ, ञिफला विशरणे - द्वयोरपि ग्रहणम् । गुणाथमिति । न शसददवादिगुणानाम् इति प्रतिषेधं बाधितुमित्यर्थः । श्रेथतुरिति । पूर्वषत्कित्त्वनलोपौ ।।
राधो हिंसायाम् ।। 6 - 4 - 123 ।।
अनेकार्थत्वाद्धातूनां राधो हिंसायां वृत्तिः ।
ननु च नात्रापूर्वमवर्णग्रहणमस्ति, प्रकृतश्च मात्रिकस्तपरकरणात्, तत्कथमवर्णस्थान एत्वं भवतीत्युक्तम् अत आह - अत इत्येतदिति । अतः इति तावत्स्वरितत्वादुपतिष्ठते, तत्तपरत्वकृतस्य कालविशेषस्य मात्रात्मकस्यासम्भवात् तमपास्यावर्णमात्रं प्रतिपादयति । अथ वेति । पूर्वत्र त्वत इति विरोध्युपादानादात् इत्यस्यानभिसम्बन्धः । एकहल्मध्ये चेति । अत्र एकहल्मध्ये इत्येव, अतः, आत इति च द्वयमपि नानुवृत्तम् । एकहल्मध्य इत्यनुवृत्तेर्यत्तच्छब्दाध्याहारेण स्थानी लभ्यत इत्यर्थः ।।
फणां च सप्तानाम् ।। 6 - 4 - 125 ।।
बहुवचनिर्देशादाद्यर्थो गम्यत इत्याह - फणादीनामिति । फण गतौ, राजृ दीप्तौ, टुभ्राश्रृ टुभ्राजृ टुभलाश्रृ दीप्तौ, स्यमुस्वनध्वन शब्दे, अन्त्यवर्जं फणादयः सप्त । अत्र राजप्रभृतीनामप्येत्वमवर्णस्य भवति । उक्तोऽत्र न्यायः राधो हिंसायाम् इत्यत्र ।।
न शसददवादिगुणानाम् ।। 6 - 126 ।।
अत्र वस्तुतो यो गुणसंज्ञकोऽकारस्तत्रैव यदि प्रितषेधस्तर्हि विधिप्रतिषेधयोरेकविषयत्वाद्विकल्पः स्यात्, ततश्च वा जभ्रमुत्रः, साम् इति यद्वाग्रहणं तदेवादितः पाठ्यं स्यात्, तस्माद् गुणग्रहणेन तच्छब्दरुषितस्य तद्भावि तस्य ग्रहणमित्याह - गुण इत्येवममिनिर्वृत्तस्य चेति । तस्य सम्बन्धी योऽकार इत्यर्थः । सम्बन्धित्वमपि तस्य तत्स्थानिकत्वात्तदवयवत्वाच्च यथायोगं वेदितव्यम् । शशसतुरिति । शसु हिंसायाम्, दद दाने, अनुदात्तेत्, टुवम् उद्गिरणे । विशशरतुरिति । शॄ हिंसायाम्, ऋच्छत्यॄताम् इति गुणः ।
यदुक्तम् - गुण इत्येवमभिनिर्वृत्तस्य इति, तदुदाहरणं दर्शयति - गुणशब्दाभिनिर्वृत्तस्येति । उरण् रपरः इत्यत्र सिद्धं तु प्रसङ्गे रपरत्वात् इति वचनाद्गुणो भवन्नेव रेफशिरस्कोऽभिनिर्वर्त्तते, एवमभिनिर्वृत्तस्यार्शब्दस्यावयवोऽकारः । लुलविथेत्यत्र तु अभिनिर्वृत्तस्योकारस्य स्थानेऽवादेशास्तदवयवोऽकारः । क्वचित्पठ्यते - गुणशब्देनात्र शसादीनां ग्रहणसामर्थ्यात्तद्भावितस्य ग्रहणमिति । अकारमात्रस्य हि ग्रहणे शशिदद्योर्वकारादीनां च ग्रहणमनर्थकं स्यादिति किल तस्यार्थः ।।
अर्वणस्त्रसावनञः ।। 6 - 4 - 127 ।।
ऋकार उगित्कार्यार्थः तेन सर्वनामस्थाने नुम् भवति । स च नञ उत्तरो न भवतीति । चेदित्यनुषङ्गः । अर्वतीति उगित्त्वान्नान्तत्वाद्वा ङीप् । आर्वतमिति । तद्धितेऽपि भवति, असाविति प्रसज्यप्रतिषेधो न पर्युदासः, तेन नञिवयुक्तन्यायाभावाद्विभक्तेरेव ग्रहणं न भवति, तथा च सुश्चेत्परो न भवतीति प्रथमैकवचनस्य चात्र ग्रहणम्, न सप्तमीबहुवचनस्य, व्याख्यानात् ।।
मघवा बहुलम् ।। 7 6 - 4 - 128 ।।
मघवेति । षष्ठ्यर्थे प्रथमा । मघोन इति । श्वयुवमधोनाम् इति सम्प्रसारणं पूर्वत्वम् आद्गुणः । ननु च मघमस्यास्तीति मघवान्, मघमिति धननाम्, छन्दसीवनिपौ वक्तव्यौ इति वनिप्, सम्प्रसारणे कृते पूर्वस्य भसंज्ञायां यस्येतिलोपप्रसङ्गः । व्याश्रयत्वादसिद्धत्वमपि नाशङ्कनीयम् शसि सम्प्रसारणे यस्येतिलोपः । य एवं तर्ह्यन्यदेवेदमव्युत्पन्नं भविष्यति, तथा चैतस्य भाषायां प्रयोग उपपद्यते । यथा तु भाष्यम्, तथा न केवलमस्यैव अर्वणोऽपि भाषायामसाधुः प्रयोगः । आह हि -
अर्वणस्तृ मघोनश्च न शिष्यंछान्दसं हि तत् ।
मतुब्वन्योर्विधानाच्च छन्दस्युभयदर्शनात् ।।
ऋधातोर्वनिपि गुणे च कृते अर्वन्निति रुपम् । तस्माद्विचि मतुपि अर्वन्तावित्यादि सिद्धं भवति, वनिप्यर्वणामित्यादि, मघशब्दादपि प्रत्ययद्वये सिद्धं भवति, नार्थः सूत्रद्वयेनेत्यर्थः । मघोन इत्यादौ तु
यस्येतिलोपाभावश्छान्दसत्वादेव । माघवनमिति । अन् इति प्रकृतिभावः ।।
पादः पत् ।। 6 - 4 - 130 ।।
पादिति पादशब्दो लुप्ताकारो गृह्यत इति । पादयतेः क्विबन्तस्याप्यत्र ग्रहणमिति येन विधिस्तदन्तस्य इत्यत्र भाष्यकारेणोक्तम् । तस्मादपिशब्दाध्याहारेणायं ग्रन्थो योज्यः । लुप्ताकारः पादशब्दोऽपि गृह्यते, पादयतिः क्विबन्तोऽपि । अङ्गाधिकारे तस्य च तदुत्तरपदस्य च िति वक्तव्यात्तदन्तस्याङ्गस्येत्यत्रापि तस्य चाङ्गस्येति द्रष्टव्यम् । तदन्ते तु वक्तव्यमस्तीति तसेयैव प्राधान्येनोपन्यासः, तद्दर्शयति - स चेति । यद्यपि पाच्छब्देन तदन्तः समुदायः प्रत्याय्यते, तथापि विशेषणत्वेन यो निर्द्दिश्यते तत्रापि यतः षष्ठी श्रूयते तस्यैवादेशः, न प्रतीयमानस्य समुदायस्येत्यर्थः । द्विपद इति । द्वौ पादावस्येति बहुव्रीहिः, संख्यासुपूर्वस्य इत्यन्तलोपः । द्विपदिकामिति । पादशतस्य संख्यादेः इति वुन्, लोपश्च । व्याघ्रपाच्छब्दो गर्गादिः ।।
वसोः सम्प्रसारणम् ।। 6 - 4 - 131 ।।
पेचुष इति । पक्षेः क्वसुः, एत्वाभ्यासलापौ ।
कथं पुनर्व्द्यनुबन्धकस्य क्वसोर्ग्रहणम् इत्याह - वसुग्रहण इति । एतच्च शात्रादेशास्य वसोरुकारानुबन्धकरणाल्लभ्यते, तस्य ह्येतदेव प्रयोजनम् - इह सामान्यग्रहणं यथा स्यादिति उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात् ।।
वाह ऊठ् ।। 6 - 4 - 132 ।।
वाह थइति वहेर्ण्विप्रत्ययान्तस्य ग्रहणम्, ण्विश्च सोपपदाद्विहित इति सामर्थ्यादत्र तदन्तविधिरत्याह - वाह इत्येवमन्तस्येति । सम्प्रसारणं भवतीति । सम्प्रसारतणग्रहणानुवृत्तिं दर्शयति । तेन वकारस्य स्थाने भवति, अन्यथान्त्त्यस्य स्यात् । उदाहरणेषु छन्दसि सहः वहश्च इति ण्विः ।
अथेत्यादि । वाह इत्येतावता प्रकृतं सम्प्रसारणमेव विधेयमिति प्रश्नः । का रुपसिद्धिः इत्याह - सम्प्रसारणे कृत इति । । गुणे चेति । कृत इत्यनुषङ्गः । ण्विप्रत्ययमपेक्ष्य प्रत्ययलक्षणेन गुणः । नन्वेवं शालीन्वहतीत्यादावनकारान्त उपपदे साल्यूह इति न सिध्यति तत्राह - अनकारान्ते चेति । चकारादकारान्त उपसर्गेऽपीति द्रष्टव्यम् । तेन प्रौह इत्यादावेङि पररुप्रसङ्ग इति न चोदनीयम् । ज्ञापानर्थमिति । कथमेतज्ज्ञापकम् ित्याह - तस्यां हि सत्यामिति । वहिरङ्गस्य वहिरड्गत्वं वहिर्भूताजादिप्रत्ययापेक्षत्वात्, अन्तर्भूताण्व्यपेक्षत्वाद् गुणोऽन्तरङ्गः ।।
श्वयुवमधोनामतद्धिते ।। 6 - 4 - 133 ।।
शौवमिति । नस्तद्धिते इति टिलोपः । यौवनमिति । यूनो भाव इति हायनान्तयुवादिभ्योऽण्, अन् इति प्रकृतिभावः । मघवा देवतास्य माघवनः ।
प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् युवतिशब्दस्यापि सम्प्रसारणप्रसङ्गः, तथा मघवत इत्यादौ मघवा बहुलम् इति त्रादेशो कृते थएकदेशविकृतस्यानन्यत्वात्प्रसङ्गः इत्याह - श्वादीनामित्यादि । कथमेतल्लभ्यते इत्याह - एतदथमिति । अन इत्युभयोः शेष इति । न त्वनन्तरस्यैव, योगविभागसामर्थ्यात् । न चैषमपि मघवतेत्यादावेकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, सामान्यातिदेशे विशेषानतिदेशात् ।।
अल्लोपोऽनः ।। 6 - 4 - 134 ।।
अदिति पृथक् पदं लुप्तविभक्तिकम्, तेन आतो धातोः इत्यादौ केवलस्य लोपशब्दस्व सम्बन्धः । राजकीयमिति । गर्त्तोत्तरपदाच्छः इत्यधिकारे राज्ञः कच इति छः, ककारश्चान्तादेशः । अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः ।।
षपूर्वहन्धृतराज्ञामपि ।। 6 - 4 - 135 ।।
किमिदं नियमार्थम्, आहोस्विद्विध्यर्थम् कथं चेदं नियमार्थम्, कथं वा विध्यर्थम् यद्यन्निति प्रकृतिभावोऽनन्तरस्यैव टिलोपस्य, तदाल्लोपस्य प्रकृतिभावेनानिवर्त्तितत्वात्पूर्वेणैव सिद्धे नियमार्थम्, अथाविशेषेणाल्लोपटिलोपयोर्द्वयोरपि प्रकृतिभावस्ततो विध्यर्थम् । तत्रापि नियमपक्षे यदि तावदेवं नियमः - षपूर्वदीनामेवाणीति भवेत्, इह न स्यात् - सामनः वैमनः, ताक्षण्य इत्यत्र तु प्रसङ्गः । अथाप्युभयनियमः
स्यात्, षपूर्वदीनामेवाणि, षपूर्वदीनामण्येवेति एवमपि सामनः वैमनः, ताक्षण्य इति सिद्धम् सामसु साधुः सामन्योऽत्र प्राप्नोति । तस्मादुभयोः प्रकृतिभाव इत्याश्रित्य विद्यर्थमिदमित्याह - तस्याकारस्य लोपो भवतीति । ताक्ष्ण इति । इदमर्थेऽण्, अपत्ये तु कारिलक्ष्णो ण्यो भवति । उभावपि न भवत इति ।
टिलोपमात्रव्यावृत्तिर्निषेधेनापि सिध्यति ।
तत्प्रकृत्येति वचनान्निवृत्तिरुभयोरपि ।।
विभाषा ङिश्योः ।। 6 - 4 - 136 ।।
जसः शी, औङ आपः, नपुंसकाच्च इति योऽयं शीशब्दस्तस्येह ग्रहणम्, न जश्ससोः शिः इत्यस्य ह्रस्वान्तस्य तत्र संज्ञाया अभावात् ।।
न संयोगाद्वमन्तात् ।। 6 - 4 - 137 ।।
स्याद्वकारमकाराभ्यां संयोगस्य विशेषणात् तदन्तविधिरत्रेति विस्पष्टार्थमन्तग्रहकण् ।।
अचः ।। 6 - 4 - 138 ।।
अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यत इति । प्रत्याहारग्रहणं तु न भवति, यदि स्याद्, अजन्तस्याङ्गस्य लोपो भवतीत्यर्थः स्यात्, ततश्च आतोधातोः इत्येतदनर्थकं स्यात् । यच्च द्युप्रागपागुदक्प्रतीचो यत् इति निर्द्दिशति, यच्च चौ इत्याह, ततो ज्ञायते - अञ्चतेरेवात्र ग्रहणमिति । एतेन पचाद्यचोऽप्यग्रहणम् ।।
आतो धातोः ।। 6 - 4 - 140 ।।
एवमादि सिद्धं भवतीति ।सूत्राद्वहिरस्मदादिप्रयोगेऽपीति भावः। सूत्रे तु सौत्रो निर्द्देश इत्येव सिद्धम् ।।
मन्त्रेष्वाङ्यादेरात्मनः ।। 6 - 4 - 141।।
आङिति पूर्वाचार्यप्रक्रियया तृतीयैकवचनस्य ग्रहणम् ।
आङोऽन्यत्रापि दृश्येत इति । तस्मादाङीति न वक्तव्यमित्यर्थः । आतः इत्यनुवृत्तेरादेरित्यपि शक्यमकर्त्तुम् । त्मन्येति । सप्तम्येकवचनस्य याशब्द आदेशः ।।
ति विंशतेडिंति ।। 6 - 4 - 142 ।।
तिग्रहणं किम् अन्त्यस्य मा भूत् । सिद्धोऽन्त्यस्य लोप उत्तरसूत्रेण सिद्धे सत्यारम्भो नियमार्थः स्यात् - डित्येव यथा स्यादन्यत्र यस्येतिलोपो मा भूदिति । अथापि विधिनियमसम्भवे विधेरेव ज्यायस्त्वम् एवमप्यारम्भसामर्थ्यात् अलोऽन्त्यस्य इत्येतस्मिन् बाधिते समुदायस्यैव षष्ठीनिर्द्दिष्टस्य लोपप्रसङ्गः, न त्वसंशब्दितस्य तिशब्दस्य लोपः सिध्यति । तिग्रहणे तु सति तत्सामर्थ्याद् अलोऽन्त्यस्य इत्यस्यानुपस्थानात्सर्वस्य तिशब्दस्य भवति । विंशम्, विंशकमित्यादौ तिलोपे कृते अतो गुणे पररुपत्वम् । यस्येतिलोपस्तु न भवति तिलोपस्यासिद्धत्वात् ।।
टेः ।। 6 - 4 - 143 ।।
डित्यभस्यापीति । श्रवंणार्थस्तु डकारो न भवति, ड्मतुपि तावद् देशे तन्नाम्नि इति वर्त्तते, न च डकारवता प्रत्ययेन तन्नामा गम्यते देशः । डेऽपि प्रावृट्शरत्कालदिवां जे िति निर्द्दिष्टत्वान्न (वणार्थो डकारः । मन्दुरज इति । ङ्यापोः संज्ञाछन्दसोर्बहुलम् इति ह्रस्वः ।।
नस्तद्धिते ।। 6 - 4 - 144 ।।
तेषामिति । अन् इति प्रकृतिभावः प्राप्त इत्यनुषङ्गः । पीठेन सर्पतीति पीठसर्पी । कलापिशब्दात्प्रोक्तार्थे कलापिनोऽण्, छन्दोब्राह्मणानि च तद्विषयाणि, तदधीते इत्यण्, प्रोक्ताल्लुक्, कालापाः । एवं कौर्थुमाः । किं पुनः कारणमुषचार आश्रीयते, न पुनर्मुख्यार्थवृत्तिभ्याम् तेन प्रोक्तम् इत्याद्यर्थेऽण् क्रियते इत्यत आह - शैषिकेष्विति । केचित्तितलिशब्दं पठन्ति - लिलानां तलं तिलम्, पृषोदरादिः, तदस्यास्तीति तितली । एवं लाङ्गला इति । उपचारादि सर्वमतिदिशति । उत्तरेषु त्रिष्विदमर्थेऽण् ।
एवमाश्मा इत्यत्रापि । चार्म इत्यत्र विकारे । चार्मण इत्यत्रेदमर्थे विकारेऽपि कोशादन्यत्र ।
शौव इति । तस्येदमित्यण्, अत्र परत्वाद्वृद्धिप्राप्तौ द्वारादित्वात्तत्प्रतिषेधे ऐजागमे च कृते टिलोपः ।
शौवनोऽन्य इति । विकारावयवयोस्तु प्राणित्वादञिति प्रकृतिभावाभावात् शौव इत्येव भवति ।
के पुनरिति । प्रातिपदिकगणे पाठाभावात्प्रश्नः । आदिशब्दस्य प्रकारवचनत्वादाकृतिगणोऽयमित्युत्तरम् । सायम्प्रातिकमिति । यथाकथञ्चित्कालवृत्तेरपि भवति इत्युक्तत्वात्कालसमुदायेऽपि ठञ् एव भवति, येषां च विरोधः शाश्वतिकः इति निर्द्देशात् इसुसुक्तान्तात्कः इति कादेशाभावः । शाश्वतमिति । भाष्यकारवचनादण् प्रत्ययः ।।
अह्रष्टखोरेव ।। 6 - 4 - 145 ।।
द्व्यह इति । न सङ्ख्यादेः समाहारे इति अह्रादेशस्य प्रतिषेधः । द्व्यहीन इति । तद्धितार्थे द्विगुः, समायाः खः, द्विगोर्वा, रात्र्यहःसंवत्सराच्च इति खः ।
आह्रिकमिति । आर्हीयष्ठक् ।
एवकारकरणं विस्पष्टार्थमिति । विपरीतनियमनिरासार्थं तु न भवतीत्याह - अह्र एवेति । विपरीते हि नियमे अन्यस्य खे टिलोपप्रसङ्गाद् आत्माध्वानौ खे इति प्रकृतिभावविधानमनर्थकं स्यादिति भावः ।।
ओर्गुणः ।। 6 - 4 - 146 ।।
बाभ्रव्यादौ गोत्रे यञ् । शङ्कव्यादौ प्राक्क्रीतीयः उगवादिभ्यो यत् । औपगवादावपत्येऽण् ।
संज्ञापूर्वको विधिरित्यादि । भाष्येऽनुक्तमपि प्रयोगो बाहुल्यादुक्तम् । तद्धितइत्येव - वोतो गुणवचनात्, पट्वी ।।
ढे लोपोऽकद्रवाः ।। 6 - 4 - 147 ।।
मद्रबाहुशब्दाद् बाह्वन्तात्संज्ञायाम् इत्युङ्, कद्रुशब्दादपि कद्रुकमण्डल्वोश्छन्दसि संज्ञायाम् इत्यूड्, ताभ्यामपत्ये स्त्रीभ्यो ढक्, अन्यत्र चतुष्पाद्भ्यो ढञ्, कमण्डलुपद आदधीतेति बह्वृग्ब्राह्मणम् । श्रृगालः - जम्बुः, शिवा - जम्बूः । जम्बुरेव जम्बजम्बुकः ।।
यस्येति च ।। 6 - 4 - 148 ।।
इश्च अश्च यम्, समाहारद्वन्द्वे ध्यन्तादजाद्यदन्तं विप्रतिषेधेन इति अश्बदस्य पूर्वनिपातः सौत्रत्वान्न भवित । यशब्दस्य तु ग्रहणं न भवति, लिङ्गात, यदयं गर्गशब्दस्य यञि कुमारशब्दस्य तु ङीपि लोपं निर्द्दिशति - ओतो गार्ग्यस्य, कुमार्या वयसि इति । अत एव निर्द्देशादेकारे तावद्ह्रस्वस्य ग्रहणम्, तत्साहचर्यादिकारेऽपि । कार्यं तु दीर्घस्यापि भवति सवर्णग्रहणात् । दाक्षीति । इतो मनुष्यजातेः इति ङीष, सखिशब्दादपि सख्यशिश्वीति भाषायाम् इति । सर्वत्र सवर्णदीर्घत्वेन रुपं सिध्यति, किं लोपेन तत्राह - सवर्णदीर्घत्वे हीति । अतिसखेरिति । अतिक्रान्तः सखीमिति तत्पुरुषे लिङ्गविशिष्टपरिभाषया राजाहःसखिभ्यष्टच् इति टज्न भवति, तस्यानित्यत्वात् । तत उपसर्जजह्रस्वत्वम् । एकादेशतस्येति । ङीषा सह कृतस्य । असखीति प्रतिषेधः स्यादिति । कथं पुनः सखिशब्दस्योच्यमानोऽतिसखिशब्दस्य प्रतिषेधः स्यात् तदन्तविधिनाः ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति । एवं मन्यते - कार्यकालं संज्ञापरिभाषम् इति पक्षे घेङिति इत्यत्र घिसंज्ञाया उपस्थानाद् अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इत्यस्ति तदन्तविधिरिति । यद्वा - शेषस्येकारोकारमात्रस्य घिसंज्ञा, न तदन्तस्य, ततः किम् असखीत्यपि सखिशब्देकारस्य प्रतिषेधः, न सखिशब्दस्य । एकादेशे च सखिशब्देकार एवायमिति तदन्तेऽपि प्रतिषेधः स्यादेव ।लोपे तु सति यद्यप्युपसर्जनह्रस्वत्वे कृते रुपमविशिष्टम्, तथापि तस्य लाक्षणिकत्वान्न भवति प्रतिषेधः । दौलेयादौ इतश्चानिञः इति ढक् । बलाका - सुमित्राशब्दौ बाह्वादी । सौर्य इति । तेनैकदिक् इत्यण्, एतचच सूर्यागस्त्ययोश्छे च ङ्यां च इत्यनपेक्षयोदाहृतम् ।
इयङुवङ्भ्यामिति । इयङुवङोरवकाशः - श्रियौ, भ्रवौ, लोपस्यावकाशः - दौलेयः कामण्डलेयः ।
सूर्यतिष्यागस्तयमत्स्यानां य उपधायाः ।। 6 - 4 - 149 ।।
यद्यत्र भत्वेन सूर्यादयो विशेष्यन्ते - सूर्यादीनां भसंज्ञानामिति, ततः सूर्यस्य स्त्री सूरी, आगस्त्यस्य अगस्तीत्यादौ यत्र सूर्याद्येव भसंज्ञकं तत्रैव स्यात्, सौरी बलाकेत्यत्र तु न स्यात्, न ह्यत्र सूर्यशब्द ईति भसंज्ञकः, किं तर्हि अणन्तम् । तस्मादनाश्रितरुपस्य भमात्रस्य लोपेन सम्बन्धः । सूर्यादिभिर्यकारो विशेष्यते
इति दर्शयन्नाह - सूर्यतिष्यागस्त्यमत्स्येत्यतेषामिति । भसंज्ञकस्य यो यकार उपधा तस्य लोपो भवति, स चेत्सूर्यादीनां सम्बन्धीत्यर्थः । सौरीति । अत्र ईति परतो भसंज्ञकमङ्गमणन्तं तस्य यकार उपधा यथा भवति तथा दर्शयति - अणि यो यस्येति लोप इति । व्याश्रयत्वादिति । अणि यस्येति लोपः, ईति यलोप इति व्याश्रयत्वम् । ईकारे तु य इति । लोप इत्यपेक्षते । भस्याणन्तस्येति । भसंज्ञकस्याणन्तस्य यकार उपधा भवतीत्यर्थः । स्थानिवद्भावस्तु द्वयोरपि यस्येतिलोपयोर्यलोपविधिं प्रति प्रतिषिद्धः ।
मत्स्यचरीति । मत्सी भूतपूर्वेति चरन्, तसिलादिष्विति पुंवद्भावः , टित्त्वान्ङीप्, भवत्यत्र मत्स्यचरशब्द ईति भसंज्ञकः, मत्स्यसम्बन्धी च यकारः न त्वसौ भसंज्ञकस्योपधेति लोपाभावः ।
यग्रहणमुत्तरार्थमिति । इह तु सूर्यादिसम्बन्धी भसंज्ञकस्योपधायकार एव न वर्णान्तरमिति नार्थस्तेन ।
सौरीय इति । सौर्यशब्दाद्वृद्धच्छः । एवम् - आगस्तीयः । आगस्त्य इति । उपत्ये ऋष्यण् ।
तिष्यपुष्ययोरिति । तिष्यस्य सत्रेणैव प्राप्ते नक्षत्राणि नियमः, पुष्यस्याप्राप्ते विधिः । सूत्रे त्वर्थग्रहणे सिध्यत्यस्यापि प्रसङ्गः ।
अन्तिकस्येत्यादि । छन्दस्येतदिष्यते । ककारादेः शब्दस्येति । ककारस्याकारस्य चेत्यर्थः । आद्युदात्तञ्चेति । प्रत्ययस्वरस्यापवादः । अन्तित इति ।अपादाने चाहीयरुहोः इति तसिः । कादेश्चेति । कशब्दस्येत्यर्थः । अन्तिषदिति । मत्मृद्विप इत्यादिना क्विप् । बह्वचास्तु व्यस्तमधीयते ।
ये चेति । दृश्यत इत्यपेक्षते । अन्तिय इति । भवे छन्दसि इति यत् । कादिलोपस्यासिद्वत्वाद्यस्येनि लोपाभावः ।।
हलस्तद्धितस्य ।। 6 - 4 - 150 ।।
तद्धित इति निवृत्तमिति । उत्तरसूत्रे पुनस्तद्धितग्रहणात्, तेनायमीत्येय विधिः ।।
आपत्यस्य च तद्धितेऽनाति ।। 6 - 4 - 151 ।।
गार्गकमिति । गोत्रोक्षोष्ट्र इत्यादिना वुञ्, सङ्कशादिभ्यो ण्यः इति वुञ्छणादिसूत्रेण चातुरर्थिकः, ततः धन्वयोपधाद्वुञ् इति जातादावर्थे ।
तद्धितग्रहणमित्यादि । सोमो देवतास्येति सोमाट्ट्यण् टित्त्वान्ङीप्, तत्र परतोऽनापत्ययकारस्याप्यस्य हलस्तद्धितस्य इति लोपो यथा स्यादित्येवमर्थमिह तद्धितग्रहणं कृतम् अन्यथा हि प्रकृतं तद्धितग्रहणिहानुवर्त्तनीयम्, तस्मिंश्चानुवर्त्तमाने तत्सम्बद्धमीतीत्यपि सम्बध्येत, तच्चोभयमिह सम्बध्यमानं पूर्वसूत्रेऽपि सम्बध्येत, ततश्च पूर्वेणैव सिद्धे सत्युभयत्र तद्धित ईति चेति नियमोऽयं विज्ञायेत - आपत्यस्यैवानाकारादौ तद्धिते ईति चेति । ततो यथा तद्धितेऽनापत्यस्य न भवति - साङ्कश्यक इत्यादौ, तथा ईत्यपि न स्यात् - सौमी इष्टिरिति । तद्धितग्रहणे तु सति तेन पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यातेत्यापत्यानापत्ययोर्द्वयोरपि पूर्वेण ईति लोपो विधीयत इति सौमी इष्टिरित्यत्रापि यलोपः सिध्यतीत्यतस्तद्धितग्रहणम् । ननु च यद्युभयस्यायं नियमः स्याद्, योगविभागोऽनर्थकः स्याद्, हल आपत्यस्य तद्धितस्यानाति इत्येकमेव योगंकुर्यात्, ततो योगविभागादन्यतरस्यैवानुवृत्तिः, तत्रापि अनाति कइति वचनात्तस्यैव एवमपि दोषः, अनापत्यस्य तद्धितेऽपि प्राप्नोति, कथम् आपत्यस्य यदि भवति थअनाकारादावेवेति नियमसम्भावत्, साङ्काश्यकादौ लोपः स्यादेव । अनाकाराविति नियमः सम्भवति । अथ न सम्भवति तदा न कश्चिद्दोषः आपत्यस्यैव तद्धिते, तत्राप्यनाकारादेवेति नियमद्वयाश्रयणात् ।।
क्यच्व्योश्च ।। 6 - 4 - 152 ।।
गर्गीयतीति । क्यचि च इतीत्वम् । गार्गीयत इति । अकृत्सार्वधातुकयोर्दीर्घः , क्यषस्तवापत्यादसम्भवः । गार्गीभूत इ । अस्य च्वौ इतीत्वम् ।।
बिल्वकादिभ्यश्छस्य लुक् ।। 6 - 4 - 153 ।।
बिल्वकादीनामस्मिन्प्रदेशे प्रातिपदिकगणे पाठाभावात्तत्परिज्ञानार्थमाह - नडादिष्विति । नडादिषु बिल्वादयस्तावत्पठ्यन्ते, तत्र कुकि कृते यद्रूपं ककारान्तं तदिहानुकृतम् । बिल्वक् आदिर्येषामिति विगृह्य समासः । जश्त्वे तु क्रियमाणे रुपविनाशप्रसङ्गान्न कृतमित्यर्थः । तेन बिल्वक आदिर्येषामिति अज्ञातादिषु यः
कस्तदन्तानां ग्रहणं नाशङ्कनीयम् पाठाभावात् ।छग्रहणं किमिति । कृतकुगागमेभ्यः परस्तादन्यो न सम्भवतीति प्रश्नः कथं पुनः कुको निवृत्तिप्रसङ्गः इत्याह - अन्यथा हीति । इदमेव छग्रहणं ज्ञापकम् - अस्त्येषा परिभाषेति । यकारमात्रस्येति । उपधाया इत्यनुवृत्तेस्तस्यैव स्याद् । अथापि तन्निवृत्तम्, एवमपि, आदेः परस्य इति परस्य प्रसङ्गादनिष्टमेव ।।
तुरिष्ठेमेयस्सु ।। 6 - 4 - 154 ।।
दोहीयसीत्यत्र घत्वादीनामसिद्धत्वात्पूर्वं तृशब्दस्य लोपे कृते पश्चान्निमित्ताभावात्तेपामभावः । लोपो भवति इत्युक्त, तत्रन्त्यस्य प्राप्नात्यत आह - सर्वस्येति । कारणमाह - अन्त्यस्य हीति ।
नन्वेवमनन्तरो लुगेव विधेयः, एवं सुखमेव सर्वस्य निवृत्तिर्लभ्यते अत आह - लुगित्येतत्त्विति । कः पुनस्तदनुवृत्तौ दोषः स्याद् अत आह - तथा हीति । न च पूर्वमेव गुणो भवति अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनात् ।
इमनिज्ग्रहणमुत्तरार्थमिति । नेहार्थम्, तृशब्दात्तस्यासम्भावात् । न चेदमेव कल्पकं भवितुमर्हति, उत्तरार्थतयाप्युपपत्तेः । नन्वेवम् अजादी गुणवचनादेव इति नियमादिष्ठेयसुनोरपि न सम्भवः अत आह - इतरौ त्विति ।।
टेः ।। 6 - 4 - 155 ।।
णाविष्ठंवदिति । सप्तमीसप्तमर्थाद्वतिः, णाविति प्रतियोगिनि सप्तमीनिर्द्देशात् तेनेष्ठनि यत्कार्यं तदतिदिश्यते, न त्विष्ठनो यत्कार्यं तदपि । तेन बहूनाचष्टे बहयतित्यत्र इष्ठस्य यिट् च इति णेर्यिण् भवति, तदभावे तत्सन्नियोगशिष्टो भूभावोऽपि न भवति । केचित्तु भूभावमुदाहरन्ति - भावयतीति । एतयतीति । टिलोबातिदेशेनैव सन्नियोगशिष्टत्वान्नकारनिवृत्तावपि सिद्धायां पुंवद्वचनं सन्नियोगशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम्, तेन श्यैवेयः, ऐनेय इत्यादि सिद्धं भवति ।
अपर आह - इङविडमाचष्टे ऐडविडयति, दरदमाचष्टे दारदयतीत्येवमादौ पुंशब्दातिदेशार्थ पुंवद्वचनमिति । ननु चेडविडादीनामिष्ठनि पुंवद्भावो न दृष्टः, इष्ठन एव तत्रासम्भावात् । नेष्ठनि दृष्टस्यातिदेशः, किं तर्हि सम्भावितस्य अन्यथा अतिराजयतीत्यादौ टिलोपो न स्यात् ।
प्रातिपदिकग्रहणं प्रकृतिमात्रोपलक्षणम् । तेन द्रोणीमाचष्ठे इत्यादावपि टिलोपो भवति । नात्र पुंवद्भावोऽस्ति अभाषितपुंस्कात्वात् । लिङ्गविशिष्टपरिभाषया वा ङीबन्तस्य ग्रहणम् । उक्तं हि प्राक् - यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टं गृह्यते इति । स्थवयतीत्यादौ अत उपधायाः इति वृद्धिर्न भवति अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति वचनात् । अस्यार्थः - अङ्गधिकारविहिते कस्मिंश्चत्कार्थे वृत्ते पुनः कार्यान्तरस्य वृत्तौ प्राप्तायामविधिस्तस्य कार्यस्य, तच्चेदङ्गं निष्ठितं भवति - प्रयोगार्हं भवति । यत्र त्वनिष्ठितमङ्गं तत्र भवत्येव वृत्तिः - प्रापयति, स्थापयतीति । कर्तारमाचष्ट इत्यादौ तृशब्दस्य तुरिष्ठेमेयः सु इति लोपो भवति न वेति । चिन्त्तयम् ।।
स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ।। 6 - 4 - 156 ।।
यद्यपि प्रकृतो लोपशब्दो भवासाधनः, तथापीह कर्मसाधनोऽपि ज्ञायते, यणादि परं लोप इति सामानाधिकरण्येन निर्द्देशात् । तदाह - यणादिपरं लुप्यत इति । पूर्वग्रहणं विस्पष्टार्थमिति । इको गुणवृद्धी इति वचनाल्लुप्तावशिष्टस्य य इक् तस्य गुणो भविष्यतीति भावः । अत एव वचनादजादी प्रत्ययौ भवत इति । इमनिच तु पृथ्वादिष्वपठितेभ्यो न भवति, अनभिधानात् ।।
प्रयस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बेहिगर्वर्षित्रब्द्रधिवृन्दाः ।। 6 - 4 - 157 ।।
प्रियस्थिरोरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते, तेनैतेष्विमनिजनुवृत्तेश्चरितार्थत्वादित्तरेष्विमनिचः कल्पकमेतद्वचनं न भवति, तदाह - तेनान्यषामिति ।।
बहोर्लोपो भू च बहोः ।। 6 - 4 - 158 ।।
भूयानिति । आदेः परस्य इत्यादेर्लोपः । अन्यथा हीति । यदि पुनः बहोः इति नोच्येत, ततो यथा लोपः प्रत्ययानां भवति, तथा भूभावोऽपि तेषामेव स्यात् । पर्यायेण तत्र लोप आदेर्भूभावः सर्वस्य शक्यते
वक्तुम् पृथग्निर्द्देशात्प्रत्ययानां न भविष्यति, अन्यथा भूलोपौ बहोः इति व्रूयात् । एवं च कृत्वा उत्तरपदभूम्नि इति निर्द्देश उपपद्यत इति ।।
इष्ठस्य यिट् च ।। 6 - 4 - 159 ।।
लोपापवादो यिडागम इति । नाप्राप्ते तस्मिन्नारम्भात् । तस्मिन्निति । लोपापावदभूते । यदि तु लोपोऽप्यनुकृष्य विधीयते तदा इकारो नोच्चारणार्थः ।।
ज्यादादीयसः ।। 6 - 4 - 160 ।।
लोपस्येति । यदि लोपो यिटा न व्यवहितः स्यात्तेनैव ज्यायानिति सिध्यतीति कृत्वा आदिति न वक्तव्यं स्यादिति भावः । कथं पुरर्लोपे सिद्धिः इत्याह - लोपे हीति । अकृद्यकार इति । अत्र क्ङितीति नानुवर्त्तत इति भावः । उरुयेत्यादौ छान्दसत्वाद्दीर्घाभावः ।।
र ऋतो हलादेर्लघोः ।। 6 - 4 - 161 ।।
परिगणनं कर्त्तव्यमिति । एवं च हलादेर्लघोः इति न वक्तव्यम् । मातयतीति । उणादीनामव्युत्पन्नत्वात् तुरिष्ठेमेयःसु इति तृशब्दस्य लोपो न भवति, अत्र परत्वाट्टिलोपं बाधित्वा रभावः प्राप्नोति ।।
प्रकृत्यंकाच् ।। 6 - 4 - 163 ।।
इष्ठेमेयस्सु परत इति । यदि त्विष्ठादीनामिहानुवृत्तिर्न स्यात्, तदा श्रिये हितम् प्राक् क्रीताच्छः श्रीयम्, ज्ञा देवतास्य ज्ञः स्थालीपाक इत्यत्र यस्येतिलोपो न स्यात्, ततश्च श्रीयमित्यत्रेयङादेशः स्यात्, तस्मादनुवर्त्त्या इष्ठादयः । स्रजिष्ठ इति । थअथ प्रादयः किमित्युपेक्षिताः - प्रेष्ठः, प्रेयान्, स्थेष्ठः, स्थेयानिति असिद्धत्वात्प्रादीनां टिलोपो यस्येतिलोपश्च न भविष्यति । इह तर्हि श्रेष्ठः, श्रेयानिति अकारोच्चारणसामर्थ्याल्लोपो न भविष्यति । तस्माद्विन्मतोर्लुक्येवास्योदाहरणस्य सम्भवः । यद्येवम्, नाप्रप्ते टिलोपे आरभ्यमाणे विन्मतोर्लुक् लोपं बाधिष्यते सत्यम् विन्नन्तस्य मत्वन्तस्य च टिलोपः प्राप्तस्तं बाधते । यस्तु तयोलुकि कृते अवशिष्टस्य टिलोपः प्राप्नोति, तस्य कथं बाधकः स्यात् । न हि तस्मिन्नप्राप्ते विन्मतोर्लुगारभ्यते । अवश्यं चैतदेवं विज्ञेयम् - अविशिष्टस्य यष्टिलोपस्तं न बाधत इति अन्यथा यत्रावशिष्टमनेकाच् तत्रापि टिलोपो न स्यात्, ततश्च वसिष्ठः, वसीयानिति प्रत्युदाहरणं नोपपद्यते । एवं चातिशयेन ब्रह्मवान् ब्रह्मष्ठः, अवशिष्टस्य नस्तद्धिते इति टिलोपो भवति । बह्वच्ब्राह्मणं च - तस्माद्भाह्मणं ब्रह्मिष्ठं कुर्वीत इति, तथातिशयेन पयस्वी पयिष्ठ इति भवति, न तु पयसिष्ठ इति ।
अपर आह -
इष्ठेमेयस्स्वनेकाचोऽप्यवशिष्टस्य नेष्यते ।
टिलोपो भाष्यकारेण प्रवृत्ते विन्मतोर्लुकि ।। इति ।
प्रकृत्येत्यादि । राज्ञोऽपत्यं राजन्यः, राजश्वशुराद्यत्, मनोरपत्यं मनुष्यः, मनोर्जातावञ्यतो पुक्च, ताभ्यां समूहे गोक्षोक्षोष्ट्र इत्यादिना वुञ् । आपत्यस्य चेत्यादि । एतच्चानयोरपत्यवाचित्वमङ्गीकृत्योक्तम् । यदा तु जातिमात्रमुभयत्र शब्दार्थः, अपत्यार्थस्तु नास्त्येवेति पक्षः तदानापत्यत्वादेव लोपस्या प्रसङ्गान्नार्थः प्रकृतिभावेन ।।
इनण्यनपत्ये ।। 6 - 4 - 164 ।।
सांकूटिनमिति । कूट दाहे, दीर्घोपधः, अभिविधौ भावे इनुण्, अमिनुणः ।।
गाथिविदथिकेशिगणिपणिनश्च ।। 6 - 4 - 165 ।।
मत्वर्थीयेन्नन्ता एते । गाथाशब्दो व्रीह्मादिः । विदथः - यज्ञः ।।
संयोगादिश्च ।। 6 - 4 - 166 ।।
अयमपत्यार्थ आरम्भः ।।
अन् ।। 6 - 4 - 167 ।।
अनपत्ये इति निवृत्तम् । सामनः, वैमन इति । तस्येदम् इत्यण्, सुयजोङर्वनिप्, ह्रस्वस्य तुक् - सुत्वा, तस्यापत्यं सौत्वनः ।।
ब्राह्मोऽजातौ ।। 6 - 4 - 171 ।।
योगविभागोऽत्र क्रियते इति । यदि न क्रियते, तदापत्य इत्यनुवर्त्तते वा, न वा तत्रानुवृत्तावनन्तरसूत्रेण प्रकृतिभावप्रतिषेधात् नस्तद्धिते इत्येव टिलोपस्य सिद्धत्वान्नियमार्थमेतद्भवति - अजातावेवापत्ये इति, तत्रापत्ये सिद्धमिष्टम् - ब्राह्मो नारदः, ब्राह्मणजातिरिति । अनपत्ये तु जातावजातौ च न क्वचिट्टिलोपः स्याद् - ब्राह्मी ओषधिः, ब्राह्मं हविरिति । अननुवृत्तौ तु विधिनियमसम्भवे विधिरेव ज्यायानिति अनपत्ये अन् इति प्रकृतिभावे प्राप्ते अजातौ टिलोपार्थं विध्यर्थमेतद्भवति , तत्र ब्राह्मं हविरित्यादि सिद्धम्, ब्राह्मी ओषधिरिति न सिध्यति अजाताविति प्रतिषेधात्, ब्राह्मणी ओषधिरिति प्राप्नोति । अपत्ये च जातौ ब्राह्मण इति न सिध्यति, पूर्वसूत्रेण प्रकृतिभावे प्रतिषिद्धे टिलोपप्रसङ्गादिति भावः । विभक्तस्यार्थमाह - ब्राह्म इत्येतदिति । सामर्थ्यादिति । अपत्ये पूर्वेणैव टिलोपस्य सिद्धत्वाद्भाह्म इत्येतावता नियमस्य कर्त्तुमशक्यत्वाच्च, तत्रापत्येऽपि ब्राह्मो नारद िति परत्वादनेनैव टिलोपः । अपत्ये वेति । अन्यथा अनपत्ये वापत्ये च जातौ प्रतिषेधः स्यात्, प्रसज्यप्रतिषेश्चायमित्याह - अपत्ये जाताविति ।।
कार्मस्ताच्छील्यो ।। 6 - 4 - 172 ।।
यद्येवमिति । यदि तु णप्रत्ययोऽयमित्यर्थः । नस्तद्धित इति टिलपोः सिद्ध िति । अणि हि प्रकृतभावः । ज्ञापनार्थमिति । एवं च छत्त्रा दिभ्योऽण् इति लाघवाय कर्त्तव्यम् णवचने प्रयोजनाभावात् । ताच्छीलिक इति । लुल्यजीतीयविषवत्वाज्ज्ञापनस्यैतल्लभ्यते, तेन तदस्यां प्रहरणम्, प्रज्ञाश्रद्धार्चा इत्यादिके णे ङीब्न भवति ।।
दाण्डिनायनहास्तिनायनार्थर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।। 6 - 4 - 174 ।।
उपचारादिति । मुख्यस्याध्ययनासम्भव उपचारे हेतुः ।
भ्रौणहत्येति तु निपातनानर्थक्यम् , हनस्तोऽचिण्णलोः इति तकारस्य सिद्धत्वात् । न च नस्तद्धिते इति टिलोपप्रसङ्गः, उभयोरनित्ययोः परत्वात्तस्यैव भावादत आह - हनस्तोऽचिण्णलोरिति । धातुस्वरुपग्रहणे तत्प्रत्यये धातोरित्येवं विहितो यस्तत्रैव कार्यं विज्ञायते, न च ष्यञेवं विहितः, किं तर्हि प्रातिपदिकादित्येवम्, तेनात्र तो निपात्यते । कथं निपातनात् । एवं तर्हि कुत्वानिवृत्त्यर्थं निपातनम् मैवम् तथाहि - न क्वादेः इत्यत्र प्रकरणे भ्रूणघ्नः ष्यञि इत्यवक्ष्यत्, अतस्तत्त्वार्थमपि निपातनं सत् ज्ञापकमेव ।
ऐक्ष्वाकशब्दोऽयमाद्युदात्तोऽन्तोदात्तश्चष्यते, तत्रान्यतरस्य पाठे इतरस्योकारलौपो न सिद्ध्यति, तत्राह - स्वरसर्वनाम्नोति । उदात्तादीनामविभागेनावस्थानम् - एकश्रुतिः, सर्वनामवत्सर्वनाम । यथैव हि तस्यापत्यम् इत्यादौ उपगुप्रभृतीन्विशेषान्सर्वनाम प्रतिपादयति, तथैकश्रुतिरप्युदात्तादीन्स्वरविशेषानिति एकश्रुतेः सर्वनामत्वम् ।
इयादेशापवाद इति । केकयादिसूत्रेण प्राप्त इयादेशः ।
इह मित्रयुशब्दस्य चतुर्ग्रहणं क्रियते - गृष्ट्यादिषु प्रत्ययसिद्ध्यर्थम्, यस्कादिषु लुगर्थम्, केकयादिसूत्रे इत्यादेशार्थम्, इदं चतुर्थं युलोपार्थम् तत्र द्विर्ग्रहणमकर्त्तु शक्यमित्यभिप्रायेणाह - अथ किमर्थमिति । लुगर्थः पाठो न कर्त्तव्य इति । यञञोरित्येव सिद्धत्वात् । परिहरति - नैतदस्तीति । अण्प्राप्नोतीति । यदी तु सङ्घाङ्कलक्षणेषु इत्यस्यानन्तरं न मैत्रेयादित्युच्येत, तदा त्रीणि ग्रहणानि, नार्थो निपातनेन । यलोप इति । युशब्दस्य लोप इत्यर्थः ।।
ऋत्व्यवास्त्यवास्त्व्यमाध्वीहिरण्ययानि छन्दसि ।। 6 - 4 - 175 ।।
मलोपो निपात्यत इति । तस्यासिद्धत्वाद्यस्येतिलोपाभावः । एवमपि अकृत्सार्वधातुकयोर्दीर्घः इति दीर्धः प्राप्नोति, अङ्गवृत्तेः पुनर्वृत्तौ इति वचनान्न भविष्यति । क्वचित्तु मकारलोप इति पठन्ति । तत्र यस्येति लोपे कृते प्रत्ययाकारस्य श्रवणम् ।।
इति श्रीहरदत्तमिश्रविरचितायां पदमञ्जर्यां षष्ठास्याध्यायस्य चतुर्थः पादः