काशिकाविवरणपञ्जिका/सप्तमोऽध्यायः/द्वितीयः पादः
← प्रथमः पादः | काशिकाविवरणपञ्जिका द्वितीयः पादः [[लेखकः :|]] |
तृतीयः पादः → |
अथ सप्तमाध्यायः
द्वितीयः पादः
1. सिचि वृद्धिः परस्मैपदेषु। (7.2.1)
`सार्वधातुकार्धधातुकयोः' (7.3.84) इति गुणे प्राप्ते वचनमिदमारभ्यते। सिचीति, परस्मैपदेष्विति च द्वे अप्येति परसप्तम्यौ; तत्र सिचोऽङ्गापेक्षं परत्वं, परस्मैपदानां तु सिजपेक्षम्। `परस्मैपदपरे' इति। परस्मैपदं परं यस्मात् स तथोक्तः। `इगन्तस्य' इति। `इको गुणबृद्धी' (1.1.3) इत्यस्योपस्थाने सतीकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह--`इगन्तस्याङ्गस्य वृद्धिर्भवति' इति। `अचैषीत्, अनैषीत्' इति। `चिञ् चयने' (धा.पा.1251), `णोञ् प्रापणे' (धा.पा.91), भूते लुङ्, `च्लेः सिच्' (3.1.44), `एकाचः' (7.2.10) इत्यादिनेट्प्रतिषेधः, अडागमः, `नित्यं ङितः' (3.4.99) इत्यनुवर्त्तमाने `इतश्च' (3.4.100) इतीकारलोपः, `अस्तिसिचोऽपुक्ते' (7.3.96) इतीट्, `इष्कोः' (8.3.57) इत्यनुवर्त्तमाने `आदेशप्रत्यययोः' (8.3.59) इति षत्वम्। `अलावीत् अपावीत्' इति। `पूर्ववल्लुङ, `आर्धधातुकस्येङ्वलादेः' (7.2.35) इतीट् पूर्ववदीट्, `इट ईटि' (8.2.28) इति सिचो लोपः। `अकार्षात्' इति। उदाहरणं सुबोधम्। ननु चात्रान्तरङ्गत्वाद्गुणेन भवितव्यम्, अन्तरङ्गत्वं पुनस्तस्यार्धधातुकापेक्षात्वात्; वृद्धेस्त्वाद्गुणविशेषं परस्मैपदपरं सिचमपेक्ष्य बहिरङ्गत्वम्? अत आह--`अन्तरङ्गमपि' इत्यादि। यद्यन्तरङ्गत्वाद्णः स्यात्, तदैतद्वचनमनर्थकं स्यात्। तस्माद्वचनसामर्थ्याद्वहिरङ्गापि वृद्धिर्गुणं बाधते। यद्येवम्, तर्हि यथा वचन सामर्थ्याद्वृद्धिरन्तरङ्गमपि गुणं बाधते, तथोवङादेशमपि बाधेत ततश्च न्यनुवीत्, न्यधुवीदिति न सिध्येत्? इत्यत आह--`व्यनुवीन्न्यधुवीत्' इत्यादि। यत्र हि वृद्धेः प्रतिषेधो नास्ति, तत्र वचनसामर्थ्याद्विध्यन्तरं बाधित्वाऽसौ प्रवर्त्तते। इह तु ङित्त्वे सति `क्ङिति च' (1.1.5) इति वृद्धिः प्रतिषिध्यते, प्रतिषिद्धा च सतो नोत्सहत उपङादेशं बाधितुम्। तेन तस्यां प्रतिषिद्धायां `अचि श्नुधातु' (6.4.77) इत्यादिनोवङादेशः क्रियते। ङित्त्वं पुनरत्र `णू स्तवने' (धा.पा.1397), `धू विधूनने' (धा.पा.1398) इत्येतयोः कुटादिषु पाठाद्गाङकुटादिसूत्रेण (1.2.1) यथा सामर्थ्याद्वृद्ध्या गुणो बाध्यते, तथा प्रतिषेधोऽपि बाध्येत एव? नैतदस्ति; गुणे हि नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे तु प्राप्ते चाप्राप्ते च। तत्र येन नाप्राप्ति नान्येन (व्या.प.49) गुणस्यैव बाधा युक्ता, न प्रतिषेधस्य।
`अच्योष्ट, अप्लोष्ट' इति। `च्युङ् छ्युङ् ज्युङ् (न स्तः--धातुपाठे) इयुङ् प्रुङ् प्लुङ् गतौ' (धा.पा.955,956,957)
2. अतो ल्रान्तस्य। (7.2.2)
अन्तशब्दोऽयमस्त्यवयववचनः, यथा वस्त्रान्तः, वसनान्त इति। अस्ति च समीपवाची, यथा--उदकान्तं प्रियं प्रोथमनुव्रजेदिति। उदकसमोपमित्यर्थः। अत्रावयववाचिनोऽन्तशब्दस्य ग्रहणे इहान्तग्रहणमनर्थकं स्यात्? तस्य ह्युपादनस्यैतत् प्रयोजनम्--रेफलकारान्तस्य यथा स्यादिति। एतच्च `येन विधिस्तदन्तस्य' (1.1.72) इत्यनेनैव सिध्यति। तस्मात् समीपवाचिन एव ग्रहणमिति मत्वाऽऽह--`रेफलकारो यावतोऽन्तौ= समीपी' इति। यदि तर्हि ल्रावन्तौ यसय समीपावत इत्यनेन निर्दिश्यते वृद्धिभाग् न निर्दिष्टः स्यात्। एवञ्च `अलोऽन्त्यस्य' (1.1.52) इत्यन्त्यस्य स्यात्; अकारसमीपभूतस्य ल्रान्तस्यान्त्यस्य वृद्धिभाज इकोऽभावादित्यत आह--`अत एव स्थाने' इति। एवं मन्यते--अकारस्य श्रुतत्वादकारस्यैव स्थाने वृद्धिर्विज्ञायत इति। `अक्षारीत्' इत्यादि। `क्षर सञ्चलने' (धा.पा.851), `त्सर छद्मगतौ' (धा.पा.554), `ज्वल दीप्तौ' (धा.पा.804), `ह्वल ह्यल चलने' (धा.पा.805,806) इत्येतेषां रूपाणि। `अतो हलादेर्लघोरित्यस्य विकल्पस्यायमपवादः' इति। एतेन नियमार्थतामस्य योगस्य दर्शयति।
`न्यखोरीत्, न्यमीलीत्' इत्यादि। `खुर छेदने' (वा.यां.1342), `मील श्मील स्मील श्मील निमेषणे' (धा.पा.517-520)। `मा भवानटीत्, मा भवानशीत्' इति। `अट पट गतौ' (धा.पा.295,296), `अशभोजने' (धा.पा.1523) `न माङ्योगे' (6.4.74) इत्याट्प्रतिषेधार्थो माङ्योगः। `भवान्' इति। अयं सन्देहनिरासार्थः; अतोऽन्यत्र विशेषाभावात्।
`अवभ्रीत्' इति। `अभ्र वभ्र मभ्र चर गत्यर्थाः' (धा.पा.556-559)। `अश्वल्लीत्' इति। `श्वलश्वल्ल आशुगमने' (धा.पा.549,550)। `न तावतः समीपौ' इति। भकारलकाराभ्यां व्यवधानादिति।।
3. वदव्रजहलन्तस्याचः। (7.2.3)
अनिगन्तार्थोऽयमारम्भः। अथ वदिव्रज्योर्ग्रहणं किमर्थम्, यावता हलन्तत्वादेव वृद्धिः सिध्यति? इत्यत आह--`विकलपबाधनार्थम्' इत्यादि। `अतो हलादेः' (7.2.7) विकल्पं वक्ष्यति, तस्य बाधो यथा स्यात्। `अपाक्षीत्' इति। `डुपचष् पाके' (धा.पा.996), `चोः कुः' (8.2.30) इति कुत्वम्। `अभैस्तीत्' इति। `भिदिर् विदारणे (धा.पा.1439), `खरि च' (8.4.55) इति चर्त्वम्--दकारस्य तकारः। `अरौत्सीत्' इति। `रुधिर आवरणे' (धा.पा.1438)।
`अत्र' इत्यादि। `वदिव्रज्योः इत्येको योगः, `अचः' इति द्वितीयः; एवं योगविभागे सति हलन्तग्रहणमन्तरेणापीष्टं सिध्यत्येव। `कथम्' इति। असम्भावयतः प्रश्नः। `वदिव्रव्योः' इत्यादिना यथा योगविभागे सति सिध्यति तथा दर्शयति। तत्र प्रथमयोगे पूर्वसूत्रात् `अतः' इति स्थान्यनुवर्त्तते। तेनावादीत्, अव्राजीदित्येतावत्सिध्यति। ततो यदच इति द्वितीयं सूत्रम्, तत्र विशेषणविशेष्यभावयोर्यथेष्टत्वात् प्रकृतेनाङ्गेनाजिविशिध्यते--अङ्गस्य योऽजिति। तेनाङ्गस्याचो यत्र तत्रावस्थितस्य सिचि परतो वृद्धिर्भवति। अपाक्षीदित्याद्यपि सिध्यति। यद्येवम्, योगविभाग एव कर्त्तव्यः, किं हल्ग्रहणेन? इत्यत आह--`तदेतत्' इत्यादि। हल्समुदयपरिग्रहः किमर्थो यतसतदर्थोऽयं यत्नः क्रियते? इत्याह--`इहापि' इत्यादि। `अराङ्क्षीत्' इति। `रञ्ज रागे' (धा.पा.1167)। `असाङ्क्षीत्' इति। `षन्ज सङ्गे' (धा.पा.987)। ननु चाङ्गस्य योऽच् तस्य सिचि परतो वृद्धिरुच्यते, न चात्राङ्गसम्बन्धिनोऽचोनन्तरः परः सिच् सम्भवति यस्यानेन वृद्धिर्विधीयते। तथा ह्यकारान्तस्याङ्गस्य तावत् `अतो लोपः' (6.4.48) इति लोपेन भवितव्यम्। न च वचनादतो लोपं वृद्धिर्बाधिष्यत इति शक्यते वक्तुम्; यदि ह्यकारान्तस्यैव वृद्धिः स्यात् प्रत्याहारग्रहणमनर्थकं स्यात्, `अतः' इत्येवं ब्रूयात्। अथ वा--तदपि सम्भवति। अकारान्तस्य तु कामं संभवति यावाप्रभृतेः। न तु तस्यास्ति विशेषः सत्यां वा वृद्धावसत्यां वा। इगन्तस्य पुनः `सिचि वृद्धिः' (7.2.1) इत्यादिनैव वृद्धिर्विहिता। सन्ध्यक्षराणां च नास्त्येव; `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वविधानात्। उदवोढाम्, उदवोढमित्यत्रास्तीति चेत्? न; ढलोपस्यासिद्धत्वात्। तदयं न क्यचिदचोऽनन्तरः परस्मैपदपरः सिच् सम्भवति। उच्यते चेदं वचनम्; ततो `येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.प.46) यथाऽपाक्षीदित्यादौ वृद्धिर्भवति, तथाऽराङ्क्षीदित्यादावपि वृद्धिर्भविष्यति, ततो नार्थो हल्ग्रहणेन? इत्यत आह--`अन्यथा हि' इत्यादि। एकेन वर्णेन सर्वत्र व्यवधानमस्ति। हल्समुदायेन क्यचिदेवाराङ्क्षीदित्यादौ। अपाक्षीदित्यदौ नास्ति, तत्रसति हलग्रहणेऽनन्तरोक्तया नीत्या यत्रैकेन वर्णेन व्यवधानमस्ति--अपाक्षीदित्यादौ, तत्रैव स्यात्, यत्र त्वर्नेकवर्णेन व्यवधानमस्ति--अराङ्क्षीदित्यादौ, तत्र न स्यात्, यथाऽपिपठिषीदित्यादौ आदययोरचोर्व्यवधानान्न भवति। हल्ग्रहणे तु सति हल्समुदायेन व्यवधानेऽपि भवति; हल्ग्रहणसामर्थ्यात््।
उदवोढाम्, उदवोढमित्यत्र वहेर्वृद्धिः कस्मान्न भवति, ढलोपे कृतेऽहलन्तादिति चेत्? न; ढलोपस्यासिद्धत्वादिति यश्चोदयेत्, तं प्रत्याह--क्रियते एवात्र वृद्धिः। तस्यास्त्वोत्त्वं विधीयत इति दर्शयितुमाह--`उदवोढाम्' इत्यादि। आदिशब्देन धात्वादयो गृह्यन्ते। वहेरुत्पूर्वाल्लुङ्, तस्थसौ, तयोः `तस्थस्थमिपाम्' (3.4.101) इत्यादिना तान्तमादेशौ यथाक्रमम्, हलन्तलक्षणा वृद्धिः, `हो ढः' (8.2.31) इति ढत्वम्, `झलो झलि' (8.2.26) इति सिचो लोपः, `झषस्तथोर्घोऽधः' (8.2.40) इति षत्वम्, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्। `सहिवहेरोदवर्णस्य' (6.3.112) इत्योत्त्वम्। तत्र ह्योत्त्वे पुनर्वृद्धिः कस्मान्न भवति? इत्याह--`तत्र कृते पुनः' इत्यादि। एकं ह्यत्र वृद्धिशास्त्रम्, तेन च प्रागेव कृता वृद्धिरिति कृतकार्यत्वाद्वृद्धिशास्त्रस्य, पुनस्तन्न व्याप्रियत इति न भवति पुनर्वृद्धिः।
सौढामित्रिरित्यत्र तर्हि कथमोत्त्वे कृते वृद्धिर्भवति? इत्याह--`यत्र तु' इत्यादि। यत्र प्राग्वृद्धिः कृता तत्र कृतार्थत्वाद्वृद्धिशास्त्रस्य पुनर्न व्याप्रियत इति न भवति वृद्धिः, सोढामित्रिरित्यत्र तु न कृता वृद्धिः। तस्मादकृतार्थत्वाद्वृद्धिशास्त्रं व्याप्रियत इति भवत्येव वृद्धिः। सा च भव्त्योकारस्य भवति, नाकरस्य वृद्धिरिति; वृद्धिविधानकाल ओकारस्यैव वृद्धिभाजः सन्निहितत्वात्। सहेर्निष्ठा, तत्र ढत्वादिषु कृतेषु सोढ इति भवति, सोढोऽमित्रोऽनेनेति सोढामित्रः, तस्यापत्यमिति `अत इञ्' (4.1.95), `तद्धितेष्वचामाने' (7.2.117) वृद्धिः। `येन विधिस्तदन्तस्य' (1.1.72) इत्येव सिद्धे तदन्तत्वेऽन्तग्रहणमसन्देहार्थम्। `हलोऽचः' इत्युच्यमाने सन्देहः स्यात्--किमजन्तस्याङ्गस्य हलो वृद्धिर्भवति? उत हलन्तस्याच इति?।।
4. नेटि। (7.2.4)
हलन्तस्याच इति या वृद्धिः प्राप्ता सा हलन्तलक्षणा वृद्धिरनेन प्रतिषिध्यते `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति कृत्वा। `अदेवीत्, असेवीत्' इति। `दिवु क्रीडादो' (धा.पा.1107), `सिवु तन्तुसन्तानेट [`षिवु'--दा.पा.] (धा.पा.1108)। वृद्धौ प्रतिषिद्धायां `पुगन्तलघूपधस्य' (7.3.86) इति गुणः। `अकोषीदमोषीत्' इति। `कुष निष्कर्णे' (धा.पा.1518), `मुष स्तेये' (धा.पा.1530)। `नन्वत्रैतदन्तरङ्गत्वात्'[नन्वत्रैतदप्यन्तरङ्गत्वात्--कीशिका] इति चोद्यम्। `नैतदेवम्' इति परिहारः। उभयञ्चैतद्गतार्थम्।।
5. ह्य्यन्तक्षणश्वसजागृणिश्व्येदिताम्। (7.2.5)
`अग्रहीत्' इति। ग्रह उपादाने' (धा.पा. 1533)। `अस्यमीत्' इति। `स्थमु स्वन ध्वन शब्दे'(धा.पा.826)-828) `अवमीत्' इति। `टु वम उद्गिरणे' (धा.पा.849)। `अद्यतीत्' इति। `व्ययवित्तसमुत्सर्गे' (धा.पा.1932) `अक्षणीत्' इति। `क्षणु हिंसायाम्' (धा.पा.1465) अश्वसीदिति। `श्वसप्राणने' (दा.पा.1069)। `अजागरीत्' इति। `जागृ निद्राक्षये' (धा.पा.1072)। `औनयीत् ऐलयीत्' `ऊन परिहाणे' (धा.पा.1888), [परिहरणे--धा.पा.] `ईल प्रेरणे' (धा.पा.1660), [`इल'--धा.पा.] चुरादिणिच्। `नोनयति' (3.1.51) इत्यादिना चङि प्रतिषिद्धे सिजेव भवति, `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः। `अश्वयीत्' इति। `टु ओश्यि गतिवृद्द्योः' (धा.पा.1010)। `अरगीत्, अलगीत् इति। `रगे लगे सङ्गे [रगे शंकायाम्--धा.पा.] (धा.पा.785,786)। `अस्थागीत्' इति। `स्थगे संवरणे' (धा.पा.790) [`ष्टगे'--धा.पा.] `अकखीत्' इति। `कखे हसने' (धा.पा.784)।
`सा च नेटीति न प्रतिषिध्यते' इति। अनन्तराया हलन्तक्षणाया वृद्धेः प्रतिषेधः, न पूर्वस्याः। अथ किमर्थं णिश्विग्रहणम्, यावतान्तरङ्गत्वादेवात्र गुणेन भवितव्यम्, कृते गुणेऽयादेशेन, ततश्च यकारान्तत्वादेव तथोः प्रतिषेधो भविष्यति? इत्याह--`न च' इत्यादि। इदमन्तरङ्गत्वं सिच्यभ्युपेत्योक्तम्। इदानीमन्तरङ्गत्वमेव सिचि नास्तीति दर्शयितमाह--`यदि' इत्यादि। किं कारणं णिश्विग्रहणमनर्थकं स्यात्? इत्यात आह--`गुणायादेशयोः' इति। यदि तर्हि सिच्यन्तरङ्गत्वं नास्ति, यदुक्तं `अन्तरङ्गमपि गुणमेषा वृद्धिर्वचनाद्वाधते' इति तद्विरुध्यते? नास्ति विरोधः, अध्यारोप्यो तथाभिधानात्।
`अथ' इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। अथ जागृग्रहणं किमर्थमिति पृष्टस्य किं कारणं जागृग्रहणं न कर्त्तव्यमिति प्रश्नावसरे येनाभिप्रायेण पृष्टवांस्तमाविष्कर्त्तुमाह--`जाग्रोऽविचिण्' इत्यादि। यथा जागरयतीत्यादौ `अचो ञ्णिति' (7.2.115) इति प्राप्तां वृद्धिं जागर्त्तर्गुणो बाधते तथा सिचिवृद्धिमपि बाधिध्यते, वृद्ध्यपवादत्वाद्गुणशास्त्रसय। `गृणे कत' इत्यादि। अकृते हि गणे या सिचि वृद्धिः प्राप्नोति सापवादत्वाद्गुणेन बाध्यते; अकृतार्थत्वाद्गुणशास्त्रस्य। न च साऽनेन वचनेन बाधिष्यते; किं तर्हि? गुणे कृते रपरत्वे च `अतो ल्रान्तस्य' (7.2.2) इत्युत्तरकालं या वृद्धि प्राप्नोति तस्याः प्रतिषेधो विधीयते, न च शक्या गुणेन बाधितुं सा। न हि `जाग्रोऽविचिण्णल्ङित्सु' (7.3.85) इति शास्त्रं पुनः प्रवर्त्तितुमुत्सहते; कृतार्थत्वात्। न चान्यद्गुणलक्षणमस्त्युत्तरकालवृद्धेर्बाधकम्। तत्र यदि जागग्रहणं न क्रियते, `अतो ल्रान्तस्य' (7.2.2) इति वृद्धि स्यात्।
`अथ' इत्यादि चोदकः। यदि गुणेऽपि कृते पुनर्वृद्धिः स्यात्, वृद्धिविषये गुणविधानमनर्थकं स्यात्। तस्मात् गुणविधानसामर्थ्याद्यापि गुणे कृते रपरत्वे च पश्चात् `अतो ल्रान्तस्य' (7.2.2) इति वृद्धिः प्राप्नोति सा प्रतिषिध्यते, यथा--जागरयतीत्यत्र। गुणे कृते रपरत्वे च या प्राप्नोति `अत उपधायाः' (7.2.116) इत्युत्तरकालभादिनी वृद्धिः, साऽपि न भवति; गुणेन बाधितत्वात्। `तथा च' इत्यादि। गुणाविधानसामर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गूणे कृते रपरत्वे च `अत उपधायाः' (7.1.116) इत्युत्तरकालभाविनी वृद्धिः, साऽपि न भवति; गणेन बाधितत्वात्। `तथा च' इत्यादि। गुणविधानसामर्थ्यादुतरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति, तदेव द्रढयति। एवञ्च चिण्णलोः प्रतिषेधोऽर्थवान् भवति यद्युत्तरकालभाविन्यपि वृद्धिर्बाध्यते; अन्यथा हि गुणे कृते रपरत्वे च `अत उपधायाः' (7.2.116) इति वृद्ध्या भवितव्यम्। चिण्णलोर्यः प्रतिषेधः क्रियते सोऽनर्थकः स्यात्। तस्मादुत्तरकालभाविन्यपि वृद्धिर्गुणेन बाध्यत इति स्थिमेतत्। ततश्च शक्यमेव जागृग्रहणमकर्त्तम्। एवं प्रत्याख्याते जागृग्रहणे, इतर आह--`तत् क्रियते' इत्यादि। य एवं प्रतिपत्तुं न शक्तः, तं प्रति विस्पष्टार्थं जागृग्रहणं क्रियते।।
6. ऊर्णोतेर्विभाषा। (7.2.6)
नित्यं वृद्धिप्रसङ्गे प्राप्ते विकल्पार्थं वचनम्।।
7. अतो हलादेर्लघोः। (7.2,7)
`नेटि' (7.2.4) इति प्रतिषेधे प्राप्ते विकल्पार्थमिदमारभ्यते। `अकणीत्, अकाणीत्' इति। `अण रण वण कण भण क्वण' (धा.पा.444-446,449,447,450) इति भ्वादौ पठ्यते। `अरणीत् अराणीत्' इति। रणिरपि तत्रैव।
`न्यकुटीत्' इति। `कुट कौटिल्ये (धा.पा.1366)। `न्यपुटीत्' इति। `पुट संश्लेषणे' (धा.पा.1367) ननु चात्र कुटादित्वान्ङित्त्वे सति `क्ङिति च' (1.1.5) इति प्रतिषेधो भविष्यति, ततो नैतन्नियुयर्थम् `अतः इत्येतत् कर्त्तव्यम्? इत्यत आह--`अत इत्येतस्मिन्नसति' इत्यादि। यदि `अतः' इति नोच्येत, ततोऽवश्यम् `वदव्रजहलन्तस्याचः' (7.2.3) इत्यनुवर्त्तयितव्यम्; अन्यथा ह्यनिर्दिष्टस्थानिकत्वादिक एव लघोर्विकल्पेन वृद्धिः स्यात्--अदेवीदित्यादौ, अकाणीदित्यादौ त्वकारस्य न स्यात््। अज्ग्रहणानुवृत्तौ तु सत्यामज्लक्षमेयं वृद्धिः स्यात्, नेग्लक्षणा; निर्द्दिष्टस्थानिकत्वात्। यत्र हि स्थानी न निर्द्दिश्यते स इग्लक्षणाया वृद्धेर्विषयः, न तु यत्र स्थानो निर्दिश्यते सोऽपि, ततश्च `क्ङिति च' (1.1.5) इति प्रतिषेधो न स्यात्; तत्र `इकः' इत्यधिकारात्। तस्मान्न्यकुटीत्, न्यपुटीदित्यत्र विकल्पेन वृद्धिर्मा भूदित्येवमर्थमत इति वक्तव्यम्।
`अतक्षीत्, अरक्षीत्' इति। `तक्षू त्वक्षू तनूकरणे' (धा.पा.655,656), `रक्ष पालने' (धा.पा.658)। इह सिच आनन्तर्येऽकारस्य वृद्धिरुच्यते, न क्वचिदनन्तरः सिच् सम्भवति। तत्र `येन नाव्यवचानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.प.46) इति व्यवधानेऽपि वृद्ध्या भवितव्यम्।
एवं यथा अकाणीदित्यत्र लघोरकारस्य भवति, तथा अचकासीदित्यत्रापि लघोरकारस्य वृद्ध्या भदितव्यमेव? इत्यनेनाभिप्रायेणाह--`अथेह कस्मान्न भवत्यचकासीत्' इति। `चकासृ दीप्तौ' (धा.पा.1074)। `येन' इत्यादि परीहारः। `हला व्यवधानमाश्रितम्' इति। हलन्तस्येत्यनुवृत्तेरित्यभिप्रायः।
लघोरिति किमिति येनैवं पृष्टम्, स एवं लघुग्रहणं प्रत्याचिख्यासुराह--`अथ पुनः' इत्यादि। यद्येवं परिकल्प्यते, वचनप्रामाण्यद्धला व्यवधानमाश्रीयते, न त्वचा, `अतो लघोः' इति वक्तव्यम्, अन्यथा ह्यतक्षीदित्यादावपि स्यात्? अत्र हि हला व्यवधानम्, नाचा। अथ पुनरिवं परिकल्प्यते--`येन नाव्यवधानं तेन व्यवहतेऽपि वचनप्रामाण्यात' (व्या.प.46) इत्येकेन वर्णेन व्यवधानमाश्रीयते, न पुनरनेकेनेति नार्थो लघोरित्यनेनेति, न ह्येवं परिकल्प्यमानेऽतक्षीदित्यादौ प्राप्नोति यद्यनेकेन वर्णेन व्यवधानम्? इत्यत आह--`तत् क्रियते' इत्यादि।।
8. नेड्वशि कृति। (7.2.8)
`आर्धधातुकस्येड्वलादेः (7.2.35) इतीटं वक्ष्यति, तस्य यत्र प्रकृतिलक्षणः परतिषेधो नास्ति तत्रानेन प्रतिषेधः क्रियते। पुरस्तात् प्रतिषेधकाण्डस्य प्रयोजनं क्रादिनियमसूत्रे (7.2.13) वक्ष्यति। `ईशिता' इत्यादि प्रत्ययान्तरे त्विटो भावेन `एकाच उपदेशेऽनुदात्तात्' (7.2.10) इति यः प्रकृतिनिमित्तकः प्रतिषेधस्तदभावमेवाचष्टे। `ईश्वरः' इति। `ईश ऐश्वर्ये' (धा.पा.1020), `स्थेशभास' (3.2.175) इत्यादिना वरच्। `दीप्रः' इति। `दीपी दीप्तौ' (धा.पा.1150), `नमिकम्यि' (3.2.167) इत्यादिना रः। `भस्म' इति। `भस भर्सनदीप्त्योः' (धा.पा.1100)। `आतो मनिन्क्वनिब्वनिपश्च' (3.2.74) इत्यादौ `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति मनिन्। `याच्ञा' इति। `टु याचृ याच्ञायाम्' (धा.पा.863)। `यजयाच' (7.3.66) इत्यादिना नङ्।
`वरमनादौ प्रयोजनम्' इति यदुक्तं तत्र प्ररिगणनत्वमवधार्य य एवं चोदयेत्--यदि वरमनादाविति परिगणनं क्रियते तदा `षणु दाने' (धा.पा.1464), `ञमन्ताड्डः' (पं.उ.1.104)--षण्डः, `शमः खः' (पं.उ.1.113)--शङ्ख इत्यादौ प्रतिषेधो न प्राप्नोतीति--तं प्रति नेदं परिगणनमिति दर्शयितुमाह--`वरमनादावित्युदाहरणम्' इति। `अथ तत्र' इत्यादि। तत्रौणादिके डप्रत्यये समाधीयेतेति परिगणनपक्षभादि चोद्यं परिह्रियत इत्यर्थः। `सम्बवोदाहरणप्रदर्शनार्थमेतत्' इति। अत्रापि न परिगणनमेतदिति सम्बध्यते। प्रतिषेधस्य सम्भव उदाह्रियते। यत्र कृति प्रतिषेधः सम्भवति तस्य प्रदर्शनार्थमेतदुक्तं भवति। यत्र वसादौ कृतीद्प्रतिषेधः सम्भवति, तस्य प्रदर्शनार्थं वरमनादावित्युक्तम्, न पुनरेतत् परिगणनमिति। `रुरुदिव, रुरुदिम' इति। अत्र कृद्ग्रहणादार्धधातुकस्येटो न भवति प्रतिषेधः।।
9. तितुत्रतथसिसुसरकसेषु च। (7.1.9)
अवशाद्यर्थोऽयमारम्भः। `तन्तिः' इति। `ननु विस्तारे' (धा.पा.1463) `क्तिच्क्तौ च संज्ञायाम्' (3.3.174) इति क्तिच्। `अनुदात्तोपदेशवनतिततोति' (6.4.37) इत्यादिनाऽनुनासिकलोपः प्राप्नोति, `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घश्च, तदुभयमपि `न क्तिचि दीर्घश्च' (6.4.39) इति प्रतिषेधान्न भवति।
`दोप्तिः' इति। `क्तिन्नाबदिभ्यश्च' (वा.307) इति क्तिन्। रोदिति स्वपितीत्यत्र प्रतिषेधो न भवति; कृतीत्यनुवृत्तेः।
`सक्तुः' इति। `सच समवाये' [`षच'--धा.पा.] (धा.पा.997)।
`पत्रम्' इति। `पत्लृ गतौ' (धा.पा.845)। `तनु विस्तारे' (धा.पा.1486)।
`हस्तः' इति। `हस हसने' (धा.पा.721)[`हसे'--धा.पा.] `लोतः' इति। `लूञ् छदने' (धा.पा.1483)।
`औणादिकस्य' इत्यादि। `ऊर्णेतेर्विभाषा' (7.2.6) इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेनौणादिक एव तशब्दे प्रतिषेधेन भवितव्यम्, नान्यत्र। यत्र प्रतिषेधेन भवितव्यम् तस्यैव ग्रहणं युक्तमित्यौणादिकतशब्दस्य ह्पबणमिष्यते, न तु क्तस्य। तेन हसितमित्यत्रेडागमो भवत्येव।
`कुष्ठम्' इति। `कुव निष्कषे' (धा.पा.1518)। `काष्ठम्' इति। `काशृ दीप्तौ' (धा.पा.647)। शकारस्य व्रश्चादिसूत्रेण (8.2.36) षत्वम्, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्।
`कुक्षिः' इति। कुषेः `षढोः कः सि' (8.2.41) इति कत्वम्, `इण्कोः' (8.3.57) इति षत्वम्।
`इक्षुः' इति। `इषु इच्छायाम्' (धा.पा.1351)[`इष'--धा.पा.] पूर्ववत्कत्वषत्वे।
`अक्षरम्' इति। `अशू व्वाप्तौ' (धा.पा.1264) [व्याप्तौ संघाते च--धा.पा.] व्रश्चादिसूत्रेण (8.2.36) षत्वम्, पूर्ववत्कत्वम्। `शल्कम्' इति `शल गतौ' (धा.पा.843)। `वत्सः' इति। `बद व्यक्तायां वाचि' (धा.पा.1009), चर्त्वम्--तकारः।
`तितुत्रथेष्वग्रहादीनां वक्तव्यम्' इति। `तितुत्रथ' (7.2.9) इत्यादिसूत्रमुपलक्षयति। तितुत्रतथेत्यैदौ ग्रहादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--इहापि `विभाषा' (7.2.6) इत्यनुवर्त्तते, स च व्यवसथितदिभाषा, तेन ग्रहादीनां प्रतिषेधो न भवति। `प्रहादयो ग्रहप्रकाराः' इति। अनेनादिशपब्दस्य प्रकारार्थतामाचष्टे। के पुनर्ग्रहप्रकाराः? इत्याह--`येषाम्' इत्यादि। `निगृहीतिः' इति। `स्त्रियां क्तिन्' (3.3.94), `ग्रहोऽलिटि दीर्घः' (7.2.37) इति दीर्घः, ग्रह्यादीना सूत्रेण (6.1.16) सम्प्रसरणम्। `उपस्निहितिः' इति। `ष्णिह प्रीतौ' (धा.पा.1200)। `निकुचितिः' इति। `कुच सङ्कोचे' [`सङ्कोचने'--धा.पा.] (धा.पा.1368)।
अत्र त्वौणादिकानां ग्रहणं शक्यमकर्त्तुम्; यथैव हि `उणादयो बहुलम्' (3.3.1) इति बहुलवचनात् `ञमन्ताङ्ङः' (पं.उ.1.104) इत्येवमादाविण्व भवति, तथा तेष्वति न भवितव्यम्? प्रपञ्चापर्थ तेषां ग्रहणं वेदितव्यम्।।
10. एकाच उपदेशेऽनुदात्तात्। (7.2.10)
`अनुदात्तात्' इति। बहुव्रीहिरयम्--नास्योदात्तोऽस्तीत्यनुदात्तः। अन्वर्थशब्दोऽयमनुदात्तशब्दः। शास्त्रीये ह्यनुदात्ते गृह्यमाण एकवर्णा एव धातवो गृह्येरन्। तथा चान्येवां धातूनामनुदात्तप्रतिज्ञानमनर्थकं स्यात्। इह चेकाज्ग्रहममुपदेशविशेषणम्।
`उपदेशे' इति। प्रकृतिपाठ इत्यर्थः। `अनुदात्तश्च' इति। उपदेश इत्यपेक्षते; तेनोपदेशग्रहणमुभयविशेषणमिति दर्शयति। तस्य प्रयोजनं प्रत्युदाहरणेष्वाविष्करिष्यति। `ये तथा गणे पठ्यन्ते' इति। एतेन गणपाठादेव ते वेदितव्या इति दर्शयति। `त एव' इत्यादिना द्वितीयं परिज्ञानहेतुमाह। काः पुनस्ता अनिट्कारिकाः? इत्याह--`अनिट्स्वरान्तः' इत्यादि। यावातन् कश्चित् स्वरान्तोऽजन्तो धातुः स सर्वोऽनिङ्भवतोत्येतददृश्यताम्, अवगम्यताम्। अनिडिति बहुव्रीहिः--नास्मादिडस्तीति। `अनिट् स्वरान्तः' इत्यस्योत्सर्गस्यापवादमाह--`इमांस्तु' इत्यादि। इमांस्त्वदन्तादीन् वक्ष्यमाणान् सेटः प्रवदन्ति। इटा सह वर्त्तन्त इति सेटः। के वदन्ति? तद्विदः सेडनिड्विद इत्यर्थः। `अदन्तम्' इति बहुव्रीहिः--अकारस्तपरोऽन्तो यसय स तथोक्तः। तपरकरणं दीर्घनिवृत्त्यर्थम्। `ॠदन्तम्' इति। अयमपि बहुव्रीहिः। तपरकरणमसन्देहार्थम्। रन्तमित्युच्यमाने, किमयं रेफस्य निर्देशः? उत्त ॠकारस्य? इति सन्देह--स्यात्। `ॠतां च' इति। ॠतामिति निर्धारणे षष्ठी। ऋकारान्तानां मध्ये वृङवृञो सेटौ प्रवदन्ति। तपरकरणं पादपरणार्थम्। पूर्वमृकारान्तग्रहणागेन हि ह्रस्वस्य ग्रहणमिहावसीयते। `श्विडीङिवर्णेषु' इति। निर्घारणे सप्तमी। इवर्णान्तेषु, मध्ये श्विडीङौ सेटौ प्रवदन्त। `टु ओश्वि गतिवृद्ध्योः' (धा.पा.1010), `डीङ् विहायसागतौ' (धा.पा.968)। `अथ शीङ्श्रिञावपि' इति। `अथेत्यानन्तर्ये। अनयोः पूर्वक्तयोरनन्तरं शीङ्श्रिञावपि सेटौ प्रवदन्ति। `घीङ् स्वप्ने' (धा.पा.1032), `श्रिञ् सेवायाम्' (धा.पा.897)।
`गणस्थम्' इति। स्वरूपख्यानमेतत्, न तु विशेषणम्--गणनिवृत्त्यर्थमिति; तस्यासम्भवात्। `ऊन्तम्' इति। `लूञ् छेदने' (दा.पा.1483), `पूञ् पवने' (धा.पा.1482) इत्येवमादयः। `उत्ताञ्च' इति। निर्धारणषष्ठी। `रु शब्दे' (धा.पा.1034), `स्नु प्रस्रवणे'[ष्णु--धा.पा.] (धा.पा.1038)। `क्षुवं तथोर्णोतिम्' इत्यादि। `टु क्षु शब्दे' (धा.पा.1036), `ऊर्णुञ् आच्छादने' (धा.पा.1039), `यु मिश्रण' (धा.पा.1033), [मिश्रणेऽमिश्रणे च--धा.पा.] `णु स्तुतौ' (धा.पा.1035), `क्ष्णु तेजने' (धा.पा.1037)। `आवधिष्ट' इति। आङ्पूर्वाद्धन्तेर्लुङ्, `आङोयमहनः' (1.3.28) इत्यात्मनेपदम्; `आत्मनेपदेष्वन्यतरस्याम्' (2.4.44) इति वधादेशः। स चावधीदित्यत्र वृद्धिर्मा भूदित्येवमर्थमदन्तः पठ्यते। इट्, `अतो लोपः' (6.4.48) इत्यकारलोपः।
अथ किमर्थमूर्णोतिरुदात्त उपदिश्यते? इट्प्रतिषेधो मा भूदिति चेत्? नैतदस्ति; एकाचो हीट्प्रतिषेध उच्यते, न चास्यैकाचत्वमस्ति? इत्यत आह--`वाच्य ऊर्णोर्णुवद्भावः' इति। `एकाच्त्वम्' इति। पदान्तस्यापि कुत्वाभावः, कुत्वस्यानित्यत्वात्। अनित्यत्वं तु `बह्वच्पूर्वपदात्' (4.4.64), `अल्पाच्तरम्' (2.2.34) इति निर्देशाद्वेदितव्यम्। `इति' इत्येवमर्थः। `निपुणम्' इति। सम्यगविपरीतमित्यर्थः। क्रियाविशेषणञ्चैतत्। `समुच्चिताः' इति। उदात्तानुदात्तसङ्कीर्णाद्धातुराशेः पृथग्व्यवस्थिता इत्यर्थः।
`ततः' इति। स्वरान्तधातुसमुच्चयनादुत्तरकालम्। `हलन्तानपि निबोधत', अवगच्छतेत्यर्थः। `शकिस्तु' इत्यादि। `शक्लृ शक्तौ' (धा.पा.1261)। `घसिश्च' इत्यादि। ननु चादिं हदिमित्यादेः स्वरूपग्रहणे सति तस्य स्थाने `लुङ्सनोर्थस्लृ' (2.4.37) इति विहितस्य घस्लादेशस्यापि स्यानिवद्भावेनानिट्त्वं सिध्यत्येव, तत्किमर्थं घसिः पृथगुपादीयते? इत्याह--`घसिः प्रकृत्यन्तरमस्ति' इति। अन्यदेव हीदं धात्वन्तरं `घस्लु अदने' (धा.पा.715) इत्यदादौ पठ्यते, तस्येदं ग्रहणम्, न त्वादेशस्य। `प्रसारणी' इति। प्रसारणम्=सम्प्रसारणम्, तदस्यास्तीति प्रसारणी। `वसिता' इति। `वस आच्छादने' (धा.पा.1023)। `वस निवासे' इत्यस्य सम्प्रसारणं विहितम्' इति। वाच्यादिसूत्रेण (6.1.15)। एतेन निवासार्थो वसिः प्रसारणी, न त्वाच्छादनार्थं इति दर्शयति।
`रभिश्च' इत्यादि। `रभ राभस्ये' (धा.पा.974) `यभ मैथुने (धा.पा.980) `डु लभष् प्राप्तो' (धा.पा.975)।
`यमिञंमन्तेषु' इत्यादि। `ञम्' इति ञकारादारभ्य अमो मकारेण प्रत्याहरग्रहणम्। `यम उपरमे' (धा.पा.984), `रमु क्रीडायाम्' (धा.पा.853), `मन ज्ञाने' (धा.पा.1176), `णम प्रह्वत्वे शब्दे च' (धा.पा.981), `हन हिंसागत्योः' (धा.पा.1012), `गम्लृ सृप्लृ गतौ' (धा.पा.982,983)। `श्यनिपठ्यते' इति। श्यन्ग्रहणेन साहचर्यात् दिवादिर्लक्ष्यते। दिवादौ पठ्यत इत्यर्थः। `प्रतिषेधदाचिनाम्' इति। प्रतिषेधं वक्तुं शीलं येषां ते तथोक्ताः धातव एव ह्यनुदात्तलिङ्गानुषक्ताः प्रतिषेधं प्रतिपादयन्तति प्रतिषेधवाचिन उच्यन्ते। अथ वा--इट्प्रतिषेधमात्मविषयमाचार्येण वाचयन्त्यभिधापयन्तीति प्रतिषेधवाचिन इत्युच्यन्ते। एवञ्चात्र सम्बन्धः कर्त्तव्यः--ञमन्तेषु मध्ये ये परतिषेधवाचिनो धातवस्तेषां मध्ये यमिरनिडिष्यते। `रमिश्च' इत्यादि। अथ वा--प्रतिषेधवाचिनामित्यत्र मतेनेत्यध्याहार्यम्। तत्रैवं सम्बन्ध कर्त्तव्यः--इट्प्रतिषेधवाचिनामाचार्याणां मतेन यमिर्ञमन्तेष्वनिडेक इष्यत इति।
`मनुतेः' इति। `मनु अवबोधने' (धा.पा.1471) इत्येतस्य तानादिकस्य।
`दिहिः' इत्यादि। `दिह उपचये' (धा.पा.1015), `दुह प्रपूरणे' (धा.पा.1014), `मिह सेचने' (धा.पा.992) `रुह जन्मनि प्रादुर्भावे' (दा.पा.859), `वह प्रापणे' (धा.पा.1004), `णह बन्धने' (धा.पा.1166), `दह भस्मीकरणे' (धा.पा.991), `लिह आस्वादने' (धा.पा.1016)। `मुक्तसंशयाः' इति। मुक्तः= त्यक्तः संशयो येषु यैर्वा ते तथोक्ताः। `प्रविभज्य कीर्त्तिताः' इति। सेडनिङ्विभागेन व्यवस्थाप्य कीर्त्तिता इत्यर्थः।
`देग्धा, दोग्धा' इति। `दादेर्धातोर्धः' (8.2.32) इति धत्वम्, `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वम्, `झलां जश् झशि' (8.4.53) इति जश्त्वमित्येते विधयः कर्त्तव्याः। `मेढा, `आरोढा' इति। `हो ढः' (8.2.31) इति ढत्वम्, पूर्ववद्धत्वम्, `ष्टुन ष्टुः' (8.4.41) ष्टुत्वम्, `ढो ढे लोपः' (8.3.13) इति डलोपः। `वोढा' इति। पूर्ववड्ढत्वादि; `सहिवबोरोदवर्णस्य' (6.3.112) इत्योत्त्वम्। `नद्धा' इति। `नहो धः' (8.2.34) इति धत्वम्, पूर्ववज्जश्तवम्। `तन्नान्तरे' इति। आपिशले व्याकरणे। `सहेर्विकल्पस्तकरादौ' इति। `तीषसह' (7.2.48) इत्यादिना तकारादौ सहेर्विकल्प उक्तः। `मुहिरपि रधादौ पठ्यते' इति। एतेन मुहेरपि `रधादिभ्यश्च' (7.2.45) इति विकल्पं दर्शयति। `तेन तौ ससंशयौ सविकल्पौ' इति। एतेन विकल्पात्मकेन संशयेन तौ ससंशयौ न तु सन्देहात्मकेनेति दर्शयति। `इतरौ' इति। रिहिलुही। `कैश्चिदभ्युपगम्येते' इति। आपिशलिप्रभृतिभिः। `स्वरूपेणैव ससंशयौ' इति। स्वरूपेणेति स्वभावेन। ससंशयौ=ससन्देहौ। संशयो ह्यतर सन्देहे वर्त्तते। सन्देहस्तु--धातुष्वपाठात्। अथ च कैश्चिदभ्युपगमाच्च। तयोश्चैको हिंसायां वर्त्तमानोऽब्युपगम्यते, अपरस्तु गार्ध्ये।
`दिशिं दृशिम्' इत्यादि। `दिश अतिसर्जने' (धा.पा.1283) `दृशिर् प्रेक्षणे' (धा.पा.988), `दन्श दशने' (धा.पा.981) `अथो शब्दः पादपूरणे। मृश आमर्द्दने' (धा.पा.1425),[`आमर्शने'--धा.पा.] `स्पृश संस्पर्शे'[`संस्पर्शने'--धा.पा.] (धा.पा.1422) `रुश रिश हिंसायाम्' (धा.पा.1419,1420), `क्रूश आह्वानेग रोदने च' (धा.पा.856), `विश प्रवेशने' (धा.पा.1424), `लिश अल्पीभावे' (धा.पा.1179)। `पुराणगाः' इति। पुराणम्=व्याकरणम्, चिरन्तनत्वात्ष तदगायन्त्यधीयते येते पुराणगाः। `पाठेषु' इति अनिट्कारिकापाठेषु, धातुपाठेषु वा। `नेतरान्' इति। `स्पश बाधनस्पर्शनयोः' (धा.पा.887) इत्येमादीनिति।
`देष्टा' इति। व्रश्चादिसूत्रे (8.2.36) षत्वम्। `अनुदात्तस्य' (6.1.59) इत्यादिना मृशिप्रभृतीनामनुदात्तेट्प्रतिषेधादधिकं कथं दर्शयति।
`रुधिः सराधिः' इत्यादि। सह राधिना वर्त्तत इति सराधिः। `रुधिर् आवरणे' (धा.पा.1438), `राध साध संसिद्धौ' (धा.पा.1162,1163)। `राधोऽकर्मकाद्वृद्धौ' इति। द्वयोरपि ग्रहणमिष्यते, विशेषाभावात्। `युध सम्प्रहारे' (धा.पा.1190), `शुध शौचे' (दा.पा.1191), `बुध अवगमने' (धा.पा.1172), `व्यध ताडने' (धा.पा.1181), `सिधु संराद्धौ'[`षिधु'--धा.पा.] (धा.पा.1192)। `नेतरे' इति। इन्धिप्रभृतयः। `न्याय्यविकरणयोः' इति शब्विकरणयोरित्यर्थः. `बुध बोधने' (धा.पा.875), [`बुधिर्'--धा.पा.] `षिधु गत्याम्' (धा.पा.47)[`विध'--धा.पा.] इत्येतयोः। `निष्ठायामपि' इत्यादि। अथ कतं बुधेर्भौवादिकस्य प्रति,ेध आशङ्कितः? सिधेरुदित्त्वेन प्रतिषिद्धत्वात्। `उदित्तो वा' (7.2.56) इति कत्वाप्रत्यये विकल्पविधानात् `यस्य विभाषा' (7.2.15) इति निष्ठायां प्रतिषेधेन भवितव्यमिति युक्ता प्रतिषेधाशङ्का। बुधेस्तु न किञ्चिन्निष्ठायां प्रतिषेधाशङ्काकारणमस्ति। तस्याप्यस्ति--इह भौवादिकदैवादिकयोर्बुध्योरर्थरूपे समाने, अतश्चार्थरूपसाम्यादुपजातभ्रान्तिः प्रतिपत्ता; एक एवायं धातुः, विकरणद्वयार्थमुभयोर्गणयोः पाठः, तस्य चार्द्धधातुक इडप्युक्तः, अनेन सूत्रेणेट्प्रतिषेधोऽपीत्येकविषयत्वाद्विधिप्रतिषेधयोः पर्यायप्रतिपत्तो विभाषेट्त्वम्, अतः `यस्य विभाषा' (7.2.15) इति निष्ठायां प्रतिषेधे न भवितव्यमिति कैश्चिन्मन्यते। तस्मात् तन्मतमाशङ्क्येदमुक्तम्--निष्ठायामपीत्यादि। एवं मन्यते--अन्य एव भौदादिको बुधिर्यस्येङविधिः, अन्यश्च वैवादिको यस्येट्प्रतिषेधः; तस्मात् भिन्नविषयत्वाद्विधिप्रतिषेधयोर्विभाषेट्त्वं नोपपद्यत इति। अथ सिषेर्निष्ठाया प्रतिषेधाभावः कथमुक्तः, यावतीदिस्वात् तस्य `उदितो वा' (7.2.56) इति विभाषेट्त्वात् `यस्य विभाषा' (7.2.15) इति निष्ठायां भवितव्यमेव प्रतिषेधेन? एवं मन्यते--सिधेरुदित्त्वमनार्षमेव, यद तस्योदित्त्वं स्यात्, भ्वादौ पाठोऽनर्थकः स्यात्; यदनेन साध्यं रूपं तस्य `षिधू शात्रे' (धा.पा.48) [`शास्त्रे माङ्गल्ये च'--धा.पा] इत्यनेनैव सिद्धत्वात्। अनुदित्त्वे तु तस्य सिधितमित्येतत्सिद्धयेऽर्थवान् पाठो भवति। न ह्येतत् `षिधू शास्त्रे' इत्यतेन सिध्यतीति। ऊदित्त्वेनास्य `स्वरितसूति' (7.2.44) इत्यादिना विभाषितेटः `यस्य विभाषा' (7.2.15) इति निष्ठायामिट्प्रतिषेधात्। तस्माद् भ्वादिपाठादेव सिद्धे सिधेरुदित्त्वमनार्षमेव।
`शिर्षि पिषिम्' इत्यादि। `शिष्लृ विशरणे' (धा.पा.1451), [`विशेषणे'--धा.पा.] `पिष्लृ सञ्चूर्णने' (धा.पा.1452), `शुष शोषणे' (धा.पा.1183), `पुष पुष्टौ' (धा.पा.1182), `त्विष दीप्तौ' (धा.पा.1001)। `जिषु विषु मिषु सेचने' (धा.पा.697,698,699), `श्रिषु श्लिषु प्रषु प्लुषु दाहे' (धा.पा.701-704)--द्वयोरपि ग्रहणम्। `तुष तुष्टौ' (धा.पा.1184), [`प्रीतौ'--धा.पा.(तूष तुष्टो--धा.पा.674)] `दुष वैकृत्ये' (धा.पा.1185), `द्विष अप्रीतौ' (धा.पा.1013), `कृष विलेखने' (धा.पा.1286)--भौवादिकतौदादिकौ। `पुष्यति' इति। श्यना निर्देशो भौवादिककैयादिकयोर्निवृत्त्यर्थः। शुष्यतिप्रभृतीनां तु वृत्तभङ्गपरिहारार्थः। `क्रष्टा, कर्ष्टा' इति। पूर्ववद्विकल्पेनामागमः।
`तपिं तिपिम्' इत्यादि। `तप सन्तापे' (धा.पा.985), `तप ऐश्यर्ये' [दाहे ऐश्वर्ये वा---धा.पा.] (धा.पा.984)--द्वयोरपि ग्रहणम्। `तिपृ तेपृ ष्टेपृ क्षरणार्थाः, (धा.पा.362,363,365), `आप्लृ व्याप्तौ' (धा.पा.1260), `टु वपबीजतन्तुसन्ताने' (धापा.1003),[डु वप बीजतन्तुसन्ताने, छेदनेऽपि--धा.पा.] `ञि ष्वप् शये' [`ष्वप'--धा.पा.] (धा.पा.1068), `लिप उपदाहे' (धा.पा.1433), `लुप्लू छेदने' (धा.पा.1431), `तृप पीणने' (धा.पा.1195), `हप हर्णणमोचनयोः' (धा.पा.1196), [`हर्षमोहनयो-धा.पा.] `गम्लृ सृप्लृ गतौ' (धा.पा.982,983)। `स्वरेण नीचेन' इति। अनुदात्तेनेत्यर्थः। `शप आक्रोशे' (धा.पा.1000), `शप उपालम्भे' [`आक्रोशे'--धा.पा.] (धा.पा.1168)--उभयोरपि ग्रहणम्। `छुप स्पर्शे' (धा.पा.1418), `क्षिप प्रेरणे' (धा.पा.1285)। तृप्यति दृप्यत्योरनुदात्तेत्त्वममागमार्थम्, `अनुदात्तस्य' (6.1.59) इत्यादिना पक्षेऽमागमो यथा स्यात्। इद्प्रतिषेधार्थं कस्मान्न भवति? इत्याह--`इट् त्वनयोः' इत्यादि। `तुदादिषु यौ तृपिदृपी' इति। `तृप तृम्प तृप्तौ'[`तृन्फ'--धा.पा.] (धा.पा.1307,1308), दृप उपक्लेशे'[`उल्लकेशे--धा.पा.] (धा.पा.1313) इत्येतौ।
`अदिं हदिम्' इत्यादि। `अद भक्षणे' (धा.पा.1011),`हद पुरोषोत्सर्गे' (धा.पा.977), `स्कन्दिर्गतिशोषणयोः' (धा.पा.959), `भिदिर् विदारणे' (धा.पा.1439), `छिदिर् द्वैधीकरणे' (धा.श.1440), `क्षुदिर् सम्पेषणे' (धा.पा.1443), `शद्लु शातने' (धा.पा.855), `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.854), `ञि ष्विदा गात्रप्रक्षरणे' (धा.पा.1188), `पद गतौ' (धा.पा.1169)। `खिद दैन्ये' (धा.पा.1170), `खिद परिद्याते' (धा.पा.1282), `विद सत्तायाम्' (धा.पा.1188), `पद गतौ' (धा.पा.1169), `विद विचारणे' (धा.पा.1450)। `ञिष्विदेत्यस्य ग्रहणं मा भूत्' इति। `ञिष्विदा स्नेहमोचनयोः (धा.पा.744) [`स्नेहनमोचनयोः--धा.पा.] इत्यस्य। `अन्यविकरणनिवृत्त्यर्थः' इति। `विद ज्ञाने' (धा.पा.1064) इति लग्विकरणस्य, `विद्लृ लाभे' (धा.पा.1432) इत्यस्य शविकरणस्य च निवृत्त्यर्थः। `विद वेदनाख्यानविवासेषु' (धा.पा.1708) [`चेतनाख्यानविवासेषु'--धा.पा.] इत्यस्य चौरादिकस्यानेकाच्त्वा देवाप्रसङ्गः।
`पचिं वचिम्' इत्यादि। `डु पचष् पाके' (धा.पा.996)। `वच परिभाषणे' (धा.पा.1063), `व्रुवो वचिः' (2.4.53) इति च द्वयोरपि ग्रहणम्। सौत्रोऽप्युपदेशो भवत्येव। `विचिर् पृथग्भावे' (धा.पा.1442), `विचिर् विवेचने' (धा.1094), [`विजिर् पृथग्भावे'--धा.पा.] `रन्ज रागे' (धा.पा.999), `प्रच्छ ज्ञीप्सायाम्' (धा.पा.1413), `णिजिर् शौचपोषणयोः' (धा.पा.1093), `षिचिर् क्षरणे' (धा.पा.1434),[`षिच'--धा.पा.] `मुच्लृमोक्षणे' (धा.पा.1430), `भज सेवायाम्' (धा.पा.998), `भन्जो आमर्दने' (धा.पा.1453), `भ्रस्ज पाके' (धा.पा.1444), `युज समाधौ' (धा.पा.1177)--द्वयोरपि ग्रहणम्। `रुजो भङ्गे' (धा.पा.1416), `षन्ज सङ्गे' (धा.पा.987), `टु मस्जो शुद्धौ' (धा.पा.1415)। `भुज पालनाभ्यवहारयोः' (धा.पा.1454), `भुजो कौटिल्य' (धा.पा.1417)--द्वरोरपि ग्रहणम्। `ष्वञ्ज परिष्वङ्गे' (धा.पा.976)। कृतानुनासिकलोपस्य निर्देशो वृत्तभङ्गपरीहारार्थः। `सृज विसर्गे' (धा.पा.1414)। `मृजू शुद्धौ' (धा.पा.1066) आदादिकः। `मृज शौचालङ्कारयोः' (धा.पा.1848) [`मृजू'--धा.पा.] इति चौरादिकोप्यस्ति, सोऽपि यदा `आ धुषाद्वा' (धा.पा.1805) अनन्तरम्) इति णिजनास्ति, तदा शक्य एव ग्रहीतुम्। यदा त्वस्ति, तदाऽनेकाच्त्वादेवेट्प्रतिषेधाप्रसङ्गः।
`मृजिरयम्' इत्यादिनप्रतिषेधार्थतां मृजेरिह निरस्यति। `अमागमोऽप्यस्य' इत्यादि। अनेनामागमार्थताम्। `तदिह' इत्यादि। यत एव हि प्रयोजनद्वयं न सम्भवति, तत्समादिहास्य पाठे प्रयोजनं चिन्त्यम्। तत्र केचिदाहुः--यद्यप्यमागमो न दृश्यते, तथाप्यसौ कर्त्तव्य एव अन्यथा ह्यस्य पाठोऽनर्थकः स्यात्। न हि यन्न दृश्यते तेन न भवितव्यमेव, अन्यता हि `यथालक्षणमप्रयुक्तेषु' इत्येतद्वचनमप्रयुज्यमानं स्यात्। अन्ये तु वर्णयन्ति--मृजेनिरुपपदात्, क्विबन्ताद्विकारावयवविवक्षायां माजं इति `अनुदात्तादेरञ्' (4.2.44) इत्यञ् यथा स्यात्--इत्येतत् प्रयोजनमिति; एतच्चायुक्तम्; एकाच्त्वाद्धि नित्यं मयटा भवितव्यम्। तथा हि--`नित्यं वृद्धञरादिभ्यः' (4.3.144) इत्यत्र नित्यग्रहणं किमर्थम्, यावताऽऽरम्भसामर्थ्यादेव नित्यं भविष्यति? इति चोदेते, इदमुक्तम्--`एकाचो नित्यं मयटमिच्छन्तीति तदर्थमेतत् क्रियते--त्वङ्मयं वाङ्मयम्' इति। `केचित्' इत्यादि। केचित् प्रयोजनमपश्यन्तो मृजेः स्थाने विजिं पठन्ति। किं करणमित्याह--`निजादिषु हि' इत्यादि। `विजिर् प्रथग्भावे' (धा.पा.1094) इति निजादिषु विजिः पठ्यते, स यस्मादनिडिष्यते तस्मान्भृजिमपनीय तस्य स्थाने विजिं पठन्ति। कथं ज्ञायतेऽसावनिडिष्यते? इत्याह--`तथा च' इत्यादि। `तन्त्रान्तरे'[`ग्रन्थान्तरे--इति पाठान्तरम्] इति। आपिशलिष्याकरणे। अथ `सुजिविजी' इत्यस्मिन् पाठे `ओविजी भयचलनयोः' (धा.पा.1289) इत्यस्य ग्रहणं कस्मान्न भवति? ईदित्त्वात्। तद्ध्येवमर्थं क्रियते--`श्वोदितो निष्ठायाम्' (7.2.14) इतीट्प्रतिषेधो यथा स्यात्। यदि च तस्यापीह ग्रहणं स्यादनेनैव सिद्धत्वादीदित्त्वमनर्थकं स्यात्।
`अवधीत्' इति। `लुङि च' (2.4.43) इति वाधादेशोऽदन्तः। स चानुदत्तस्यादेशः स्थानिवद्भावेनैव भवति। उपदेशेऽनुदात्त एकाच उपदेशो न भवतीति न भवति प्रतिषेधः। कथं पुनरयमेकाज्भवति? इत्याह--`वृद्धिनिवृत्त्यर्थम्' इत्यादि। यदि ह्यदन्तो वधिर्नोपदिश्येत, `अतो हलादेर्लघोः' (7.2.5) इति विकल्पेन वृद्धिः स्यात्। अदन्ते तु सति न भवति, तत्र `येन च्यवधानमाश्रियम्। अदन्तत्वे तु सति वधेरकारलोपस्य पुर्वविधौ स्थानिवद्भावेनापि व्यवधानं भवति, न केवलं हलैव। याऽपि हलन्तलक्षणा वृद्धिः, साऽप्यदन्तत्वे सति न भवत्येव;अकारलोपस्य स्थानिवद्भावादहलन्तत्वात्। तस्माद्वृत्त्यर्थमदन्तो वधिरुपदिश्यते। ननु यद्यप्यदन्त उपदिश्यते, तथापि स्थानिवद्भावेनैकाजिति व्यपदेशे सति भवितव्यमेव प्रतिषेधेन? "नतदस्ति; एवं ह्येकाज्ग्रहणमनर्थकं स्यात्। तथा हि--जागृदरद्राचकात्प्रभृतीनामुदात्तत्वात् नैकाज्ग्रहणं ते प्रयोजयन्ति। सनाद्यन्तानां धातूनामुपदेशत्वं नास्ति; लाक्षणिकत्वात्समुदायसय। न चान्योऽनेकाज् धातुरूपदेशेऽनुदात्तोऽस्ति य एकाज्ग्रहणं प्रयोजयति। न चास्मिन् व्यपदेशे कर्त्तव्ये स्थानिवद्भावेऽस्ति; अल्विधित्वात्।
`इह च यता स्यात्' इति। असत्युपदेशग्रहणे' एकाचो धातोरनुदात्तादिडागमो न भवतीत्येव सूत्रार्थः; एवञ्च लविष्यति, पविष्यतीत्यत्रेडागमो न स्यात्। भवत्यत्र प्रत्ययस्वरे कृते शेषानुदात्तत्वे धातुरनुदात्तः। तथा च--कर्त्ता कटान्, कर्त्तुमिच्छतीत्यत्र त्विडागमः स्यादेव; तृनि तुमुनि च कृते नित्स्वरेण धातोरुदात्तत्वात्। उपदोशग्रहणे तु सति तेनाद्यावस्था विशेष्यत इति न भवत्येव दोषप्रसङ्गः। यद्यप्युत्तरकालं लुनातिपुनाती अनुदात्तौ, तथाप्युपदेशावस्थायामुदात्तावेव। तथा यद्यप्यत्तरकालं करोतिरुदात्तः, तथाप्युपदेशवस्थायामनुदात्त एव। अथ बिभिच्छब्दस्य प्रकृतेपाठो नास्ति, नाप्येकाच्त्वम्; तथापि भिदेस्तूभयमिदमस्ति। `द्विष्प्रयोगो द्विर्वचनम्' इत्ययमपि तत्र पक्ष आश्रितः, तेन भिदिरेव तत्र द्विरुच्यते, तस्य चोभयविशेषणविशिष्टत्वात् सिध्यत्येव प्रतिषेधः।।
11. श्रयुकः किति। (7.2.11)
उदात्तार्थं आरम्भः। `लूनः' इति। `ल्वादिभ्यश्च' (8.2.44) इति नत्वम्। `तीर्णः' इति। अत्रापि `रदाभ्याम्' (8.2.42) इति।
`केचित्' इत्यादि `ग्लाजिस्थस्च क्स्नुः' (3.2.139) इति `भुवश्चेति वक्तव्यम्' (3.2.138) [`भुवश्च'--इति सूत्रम्] इत्यत्र भवतेः क्स्नुप्रत्यये गिति कृते सति विधीयमानस्वाद् गितीट्प्रतिषेधो न प्राप्नोति, ततश्च भूष्णुरिति न सिध्येत्। तस्माद् भूष्णुरित्यत्रेट्प्रतिषेधार्थं केचित् श्वभूति--व्याङिप्रभृतयः `श्रयुकः किति' इत्यत्र द्विककारनिर्देशेव हेतुना चर्त्वभूतो गकारः प्रश्लिष्ट इत्येवमाचक्षते। यदि चर्त्वभूतो गकारः प्रश्लिष्टः, एवं सति `ससजुषो रुः' (8.2.66) इति रुत्वे कृते चर्त्वस्यासिद्धत्वात् `हशि च' (6.1.114) इति रोरुत्वेन भवितव्यम् न तु विसर्जनीयेन, ततश्च `श्रयुकः किति' इति निर्देशो न युज्यते? इत्येतच्चोद्यं निराकर्त्तुमाह--`सौत्रत्वान्निर्देशस्य' इत्यादि। चर्त्वभूतस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृत इति वर्णयन्ति। किमर्थं पुनस्ते क्स्नुप्रत्येय गित्त्वं प्रतिजानते, यस्मिन् सतीदं व्याख्यानं कर्त्तव्यं जायते? स्थास्नुशब्दस्य सिद्ध्यर्थम्। एवं हि ते मन्यन्ते--क्स्नोः कित्त्वे सति `धुमास्थागादि' (6.4.66) सूत्रेण तिष्ठतेरीत्त्वं स्यात्, ततश्च स्थास्नुरिति न सिद्ध्येदिति। `ग्लाजिस्थश्च क्स्नु इत्यत्र' इत्यादि। गित्त्वे हि सति क्स्नोरट्प्रतिषेधार्थमेवं व्याख्यायते, न च तस्य गित्त्वम्। किं तर्हि? कित्त्वमेव। न च कित्त्वे सतीत्त्वं प्रसज्यते, यस्मात् `ग्लाजिस्थश्च क्स्नुः' (3.2.139) इत्यत्र स्था+आ इत्यकारप्रश्लेषः कृतः। तिष्ठतेः क्स्नुप्रत्ययान्तस्याकारान्तस्याकारान्ततैव यथा स्यातद्, ईकारान्तता मा भूदित्येवमर्थः। आकाराप्रश्लेषे हि सतीत्त्वापवादस्तिष्ठतेराकारादेशो भवति, अतस्तेन बाधित्वादीत्त्वं न प्रवर्त्तते। तदेवं कित्त्वे सत्यकरप्रश्लेषात् स्थास्नुशब्दस्य सिद्धत्वात् न किञ्चिदेतत्। एतद्व्यास्यानमसारमित्यर्थः। `तीर्णम्' इत्यत्रापि किं पुनः कारणमसत्युपदेशग्रहणेऽत्रि न स्यात्, यावता तरतिरयमुगन्तः पठ्यते? इत्याह--`इत्त्वे हि' इत्यादि। `ऋत् इद्धातोः' (7.1.100) इतीत्त्वे च कृत उगन्तता विहतेत्यसत्युपदेशग्रहणे न स्यात्, तस्मिंस्तु सति भवति। यद्यप्युत्तरकालं तरतिरुगन्तो न भवति, तथाप्युपदेश एव। `मा भूदेवम्' इत्यादि। चोदकः। `कस्य पुनः' इत्यादोतरः। `ॠतः'[`कृतः' इति मुद्रितः पाठः] इति चोदकः। `यद्येवम्' इत्यादीतरः। `स्थानिवद्भावात्' इति। अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात्। `तस्मात्' इति। आह--यस्मादेदमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न प्राप्नोति, तस्मादुपदेश इत्यनुवर्त्तनीयम्। `तथा च सति' इत्यादि। उपदेशेऽनुवर्त्तमाने सतीत्यर्थः। `जागरित इत्यत्रापि प्राप्नोति' इति। जागर्त्तेरुपदेशावस्थायामुगन्तत्वात्। `तदर्थम्' इति। जागरित इत्यादाविट्प्रतिषेधप्राप्तिनिवृत्त्यर्थम्; अर्थशब्दस्य निवृत्तिवाचित्वात्। यदि तर्हि `एकाचः' (7.2.10) इत्यनुवर्त्तते, प्रोर्णुतः, प्रोर्णुतवनित्यत्रेट्प्रतिषेधो न प्राप्नोति; ऊरणोतेरनेकाण्त्वात्? इत्यत आह--`वाच्य ऊर्णोर्णुवत्' इत्यादि। अस्याः कारिकायाः पूर्वमेवार्थो व्याख्यात इति न पुनर्व्याख्यायते।।
12. सनि ग्रहगुहोश्च। (7.2.12)
ग्रहेः सनि चित्यमिटि प्राप्ते गुहेरप्यूदित्त्वात् `स्वरति' (7.2.44) इत्यादिसूत्रेण विकल्पे प्राप्तेऽस्यारम्भः। चकारः `उकः' (7.2.11) इत्यनुकर्षणार्थः। ननु च `इको झल्' (1.2.9) इत्युगन्तानां किदेव सन् तत्र पूर्वेणैव प्रतिषेधः सिद्धः किमुक इत्यनुकर्षणार्थेन चकारेण? नैतदस्ति; न हीट्प्रतिषेधमन्तरेण सनो झलादित्वमुपपद्यते, कुतः कित्त्वम्! अनेन त्विटि प्रतिषिद्धे झलादित्वं सनो जायते, पश्चाद्गुणप्रतिषेधार्थं कित्त्वमिति क्रमः। `जिघृश्रति' इति। `रुदविद' (1.2.8) इत्यादिना सनः कित्त्वे सति ग्रह्यादि (6.1.16) सूत्रेण सम्प्रसारणम्, `हो ढः' (8.2.31) इति ढत्वम्, `षढोः कः सि' (8.2.41) इति कत्वम्, `इण्कोः' (8.2.57) इति षत्वम्, `एकाचो वशो भष्' (8.2.37) इत्यादिना भष्भावेन गकारस्य घकारः, द्विर्वचनम्, अभ्यासकार्यम्। `जुधुक्षति' इति। `रुदविद' (1.2.8) इत्यादिना सनः कित्त्वे सति ग्रह्यादि (6.1.16) सूत्रेण सम्प्रसरणम्, `हो ढः' (8.2.31) इति ढत्वम्, `षढोः कः सि' (8.2.41) इति कत्वम्, द्विर्वचनम्, अभ्यासकार्यम्। `जुघुक्षते' [`जुधुक्षति'--काशिका, पदमञ्जरी च] इति। `गुहू संवरणे' (धा.पा.896), `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। `रुरूषति' इति। `अज्झनगमां सनि' (6.4.16) इति दीर्घः। अथ चकारेण यथेगन्तमनुकृष्यते, तथा चैकयोगनिर्दिष्टः श्रयतिरप्यनुकृष्येत? इत्यत आह--`श्रिस्वृयूर्णुरभज्ञपि' इत्यादि। श्रयतेः `सनीदन्तर्घ' (7.2.49) इतीटो विकल्पं विधास्यतीत्यतस्तस्येहानुवत्तिरपार्थिकेति नानुकृष्यते।
13. कृसृभृवृस्तुद्रुस्रुश्रुवपो लिटि। (7.2.13)
`सकृव, चकृम' इति। `परस्मैपदानाम्' (3.4.82) इत्यादिना वस्मसोर्वमादेशौ। `क्रादय एव' इति। नियमस्य स्वरूपं दर्शयति। `लिट्येव क्रादयोऽनिटः' इत्येष तु विपरीतनियमो नाशङ्कनीयः; `कृतलब्धक्रीतकुशलाः' (4.3.38) इति `तमधिष्टो भृतो भूतो भावी वा' (5.1.80) इत्यादिनिर्देशात्।
केन पुनस्तेषामिट्प्रतिषेधः सिद्धः, यतः सिद्धे सत्यारम्भो नियमार्थ उच्यते? इत्यत आह--`अनुदात्तोपदेशानाम्' इत्यादि। अनुदात्तोपदेशा वृङ्वृञ्भ्यामन्ये करोत्यादयः, तेषामेव `अचः' (7.2.10) इत्यादिना प्रकृत्याश्रयः प्रतिषेधः सिद्धः। वृङ्वृञोस्तु `श्रयुकः किति' (7.2.11) इति प्रत्ययाश्रयः, न तु प्रकृत्याश्रयः; तयोरुदात्तत्वात्। `तत्' इत्यादि। यत एव तेषां यथायोगं प्रकृत्याश्रयः प्रत्ययाश्रयश्च प्रतिषेधः सिद्धः, तस्मादुभयस्यापि प्रतिषेधस्य प्रयुक्तस्यायं नियम इत्यर्थः। धात्वन्तरेभ्यो व्यवच्छिद्य करोत्यादीनां प्रतिषेधस्थेह नियमो वेदितव्यः।
`कथं पुनरेतद्वृञं प्रति थलि नियमार्थमुपपद्यते? सति हि प्रतिषेधे नियमो भवति। वृञस्थलीट्प्रतिषधः। तस्य हि नात्र प्रकृत्याश्रयः प्रतिषेधः सिद्धः; उदात्तत्वात्। नापि प्रत्ययाश्रयः; थलः कित्त्वाभावात्। तस्मात् वृञं प्रति थलीट्प्रतिषेधार्थतैव युक्ता, न नियमार्थता? इत्यत आह--`वृञो हि' इत्यादि। व्यवस्था=नियमः। `बभूथाततन्थजगृम्भववर्थेति निगमे' (7.2.64) इति निपातनाट्वृञो निगम एव थलीट्प्रतिषेधेन भवितव्यम्, न भाषायाम्। यत एवं व्यवस्था तस्मान्नायं वृञस्थलीट्प्रतिषेधः; अन्यथा ववर्थेति निपातनस्य वैयर्थ्यं स्यात्। तस्मात् प्रतिषेधाभावात् वृञोऽप्येतत् सूत्रं नियमार्थमेव विज्ञायत इत्येकान्त एषः।
`स्तुद्रुस्रुश्रुवां तु' इत्यादि। अपिशब्दः आर्धधातुकलक्षणोऽपि य इट् प्राप्नोति सोऽपि नेष्यत इति दर्शनार्थः। कथं पुनरिष्यमाणोऽपि लभ्यते, पुरस्तात्, प्रतिषेधकाण्डस्य बलीयस्त्वात्। इह च `न वृद्भ्याश्चतुर्भ्यः' (7.2.59) इत्यस्यानन्तरमिदं प्रतिषेधकाण्डं कर्त्तुं युक्तम्। एवं द्विष्प्रतिषेधाश्रयणं न कर्त्तव्यं स्यात्। यदयं पुरस्तात् प्रतिषेधं करोति, तस्यैतत् प्रयोजनम्--इष्मात्रस्यानाश्रितविशेषविधानस्य प्रतिषेधो विज्ञायते, पुरस्तात् प्रतिषेधे क्रियमाणे सति विशेषमनाश्रित्येण्मात्रस्यायमपवादो भवति। तेन यावानिट् प्राप्तस्तस्य सर्वस्य प्रतिषेधो भवति सिद्धः। अन्यस्त्वाह--`नेटि' (7.2.4) इत्यनुवर्त्तमाने पुनरिङ्ग्रहणसामर्थ्यात्, पुनः प्रतिषेधसामर्थ्याच्च इण्मान्नस्य प्रतिषेधो विज्ञायते।
`कुञोऽसुट्कस्येति वक्तव्यम्' इति। करोतेरविद्यमानसुटः षतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? ससुट्कस्येडागमो यथा स्यात्। तत्रेदं व्याख्यानम्--`द्वन्द्वे घि' (2.2.32) इत्यनेन स्तुप्रभृतीनामन्यतमस्य घिसंज्ञकस्य पूर्वनिपातमकृत्वैतत् सूचितम्--यतेह पूर्वनिपातलक्षणं व्यभिचरति स्वविषये न प्रवर्त्तते, तथेदमपीति। तेन यदा करोतिः ससुट्कः, तत्र न प्रवर्त्तत इति। `सञ्चस्करिव, सञ्चस्करिम' इति। `सम्पर्युपेभ्यः करोतौ भूषणे' (6.1.137) इति सुडित्यनुवर्त्तमाने `अडब्यासव्यवायेऽपि' (6.1.136) इति सुट् क्रियते।
`ऋतो भारद्वाजस्य (7.2.63) इत्येतदप्यसुयट्कस्यैवेष्यते' इति। `कृञः' इति सम्बध्यते। कथं पुनरसुट्कस्यैव भवतीति लभ्यते? यथा लभ्यते तच्च श्रूयताम्--तत्र हि `उदितो वा' (7.2.56) इत्यतो वेत्यनुवर्त्तते मण्डूकल्पुतिन्यायेन, सा च व्यवस्थितविभाषा, तेनासुट्कस्यैव भवतीति।।
14. श्वीदितो निष्ठायाम्। (7.2.14)
`शूनः' इति। वच्यादि (6.1.15) सूत्रेण सम्प्रसारणम्, `हलः' (6.4.2) इति दीर्घः। `लग्नः' इति। नत्वस्यासिद्धत्वात् `चोः कुः' (8.2.30) इति कुत्वम्। `उड्डीनः' इति। `ङिङ् विहायसा गतौ' (धा.पा.1135)।
`ननु ङीङ उदात्तत्वान्निष्ठायामिट् प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः; हि उड्डयित इत्यनिष्टं रूपं स्यादिति यो मन्येत, तं प्रत्याह--`ङीङः' इत्यादि। `ओदिताम्' इति। स्वादीनामित्यर्थः। `स्वादय ओदितः' इति वचनात। स्वादयः `षूङ् प्राणिगर्भविमोचने' (धा.पा.1031) इत्यादयः। कथं कृत्वा ज्ञापकः? इत्याह--`स हि' इत्यादि। स्वदीनां ह्योदितां मध्ये तस्यैवमर्थः पाठः--निष्ठातकारस्यौदित उत्तरस्य नत्वं यथा स्यात्। स्यादेतत्--इट्यपि कृते नत्वं भविष्यति? इत्याह--`नतवं च' इत्यादि। `तस्मादित्युत्तरस्य' (1.1.67) इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थस्यानुवृत्तेरोदितो धातोरनन्तरस्य निष्ठातकारस्य नत्वं विधीयते। तत्र यदि ङीङ परस्या निष्ठाया इट् स्यात्, तदा सत्यप्योदित्त्वे इटा व्यवहितत्वान्नत्वेन न भवितव्यम्। नित्योदितां मध्ये तस्य पाठोऽनर्थकत्वान्न कृतः स्यात्, स चास्ति; तस्मात् स एव पाठो ज्ञापकः? नैतदस्ति; एवं ह्यानन्तर्यपरिभाषा बाधिता भवति, शास्त्रं चानिष्टं स्यात्, एतच्चायुक्तम्; न ह्यनिष्टार्था शास्त्रे प्रक्लृप्ति(भो प.सू.107) रस्ति। तस्माद्यथानन्तर्यपरिभाषा न बाध्यते शास्त्रञ्च नानिष्टं भवति, ओदितां मध्ये ङीङ पाठश्च सफलो भवति--स प्रकरोऽभ्युपगन्तव्यः। ततश्चौदितां मध्ये ङीङः पाटो ज्ञापक एव। अपरः प्रकारः--`ओदितश्च' (8.2.45) इत्यत्रौदित इत्येतद्द्विरावर्त्तयिष्यते `तस्मादित्युत्तरस्य' (1.1.67) इत्यस्याः परिभाषाया द्विरुपस्थानार्थम्, तत्रास्या यद्द्वितौयमुपस्थानं तस्यैतत् प्रयोजनम्--ङीङोऽप्यनन्तरस्यैव निष्ठातकारस्य नत्वं यथा स्यादिति। यदि च ङीङो निष्ठायामिट् स्यात् इटा व्यवहितत्वान्नत्वं न स्यात्। न च शक्यते वक्तुम्--व्यवधानेऽपि पाठसामर्थ्याद्भविष्यतीति। एवं हि परिभाषाया द्विरुपस्थानमनर्थकं स्यात् एतच्चायुक्तम्; तस्मादोदितां मध्ये ङीङः पाठो ज्ञापक एव।
श्विग्रहणं शक्यमकर्तुम्, ओदित्करणादेव निष्ठायामिण्न भविष्यति, ओदित्त्वं हि नत्वार्थं क्रियते, नत्वं च निष्ठातोऽनन्तरस्य विधीयते; यदि च ततः परस्या निष्ठाया इट् स्यात् ओदित्त्वमनर्थकं स्यात्? वैचित्र्यार्थं श्विग्रहणं वेदितव्यम्।।
15. यस्य विभाषा। (7.2.15)
`विधूतः' इति। `धूञ् कम्पने' (धा.पा.1836) `गूढः' इति। `गूहू संवरणे' (धा.पा.986)। ढत्वादिषु कृतेषु `ढ्रलोपे' (6.3.111) इत्यादिना दीर्घः।
अतेह कस्मात् प्रतिषेधो न भवति--पतित--पतित इति, भवति हि पतिर्विभाषितेट् `सनीवन्तर्घ' (7.2.49) इत्यत्र `तनिपतिदरद्राणामुपसंख्यानम्' इति विकप्लेनोपसंख्यानात्? इत्यत आह--`द्वितीयाश्रित' इत्यादि।।
16. आदितश्च। (7.2.16)
भावादिकर्मणोरनन्तरं विभाषां वक्ष्यति, ततोऽन्यत्र कर्त्तरि कर्मणि चायं प्रतिषेधो विज्ञायते। `आश्वस्तः' इत। `श्वास प्राणने' (धा.पा.1069) । `वान्तः' इति। `टु वम अद्गिरणे' (धा.पा.849)। `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घः। `योगविभागकरणं किमर्थम्' इति। पृष्टस्य `आदितश्च विभाषा भावादिकर्मणोः' इति। यद्येकयोगः क्रियते, ततो भावादिकर्मभ्यामन्यत्र प्रतिषेधो न स्यादिति प्रतिवचनमात्रङ्क्याह--`आदितश्च' इत्यादि। `आदितश्च विभाषा भावादिकर्मणोः' इत्येकयोगे भावादकर्मणोर्विभाषायां विहितायां ततोऽन्यत्र कर्त्रादौ `यस्य विभाषा' (7.2.15) इति प्रतिषेधो भविष्यति, तस्मादपार्थक योगविभागकरणम्। `ज्ञापनार्थम्' इत्यादिनाऽपार्थकत्वं परिहरति। `यदुपाधेर्विभाषा तदुपाधेः' इति। उभयत्रापि बहुव्रीहिः। उपाधिः=विशेषणम्। स चैतदर्थं उपाधिर्विर्ज्ञेयः। यदि यदुपाधार्विभाषा तदस्योपाधेरपि प्रतिषेधः स्यात्, तदा योगविभागां न कुर्यात्। एकयोगेनापि भावादिकर्मणोर्विहिते विकल्पे ततोऽन्यत्र `यस्य विभाषा' (7.2.15) इति प्रतिषेधो लभ्यत एव, कृतश्च योगविभागः, तस्मादेतेन योगविभागकरणेन सूचितम्--यदुपाधेर्विभाषा तदुपाधेर्निषेध इति। `तेन' इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। अत्र विदेर्लाभार्थस्य विभाषेति विशिना तौदादिकेन साहचर्चाल्लाभार्थस्य तौदादीकस्य ग्रहणम्। `यस्य विभाषा' (7.2.15) इति च तस्यैव प्रतिषेधो भवति, नान्यस्य। यदि यदुपाधेर्विभाषा तदुपाधेर्निषेध इति ज्ञाप्यते, `जृव्रश्चोः क्त्विः' (7.2.55), `उदितो वा' (7.2.56) इति क्त्वाप्रत्यये भावविषये विभाषिते `यस्य विभाषा' (7.2.15) इति भावविषय एव निष्ठायामिट्प्रतिषेधः स्यात्, न कर्त्तृकर्मणोः? नैष दोषः; आश्रीयमाणो हि धर्मो भेदको भवति। न च क्त्वाप्रत्यये निष्ठायां वा भिन्नमभिधेयं निमित्तत्वेनाश्रितम्। तस्माद्भवत्येवात्र प्रतिषेधः। अत्र लिङ्गम्--`तेन निर्वृत्तम्' (4.2.68) इति निर्द्दशः।।
17. विभाषा भावादिकर्मणोः। (7.2.17)
`मिन्नमनेन' इति। `नपुंसके भावे क्तः' (3.3.114)। `मेदितम्' इति। `निष्ठा शीङ' (1.2.19) इत्यादिना कित्त्वप्रतिषेधे गुणः। `प्रमिन्नः' इति। प्रशब्द आदिकर्म द्योतयति। `आदिकर्म' इति। आदिभूतक्रियाक्षण इति। तस्मिन् भूतत्वेन विवक्षिते यः क्तः स पुनः `आदिकर्मणि क्तः कर्त्तरि च' (3.4.71) इत्यनेन कर्त्तरि कारके भवति। शक्तो घटः कर्त्तुम्, शकिको घटः कर्त्तुमित्यस्य सिद्धये विभावेति योगविभागोऽत्र कर्त्तव्यः। तत्र `आदितः' (7.2.16) इति नानुवरत्तनीयम्। `भावादिकर्मणोः' इत्यत्र द्वितीये योगेऽनुवर्त्तमीयमेव।।
18. क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु। (7.2.18)
`क्षुब्धः' इति। `क्षुभ सञ्चलने' (धा.पा.1239) इत्यस्येडभावो निपात्यते। `मन्थाभिधानं चेत्' इति। समुदायेन चेन्मन्थोऽभिधीयते। मन्थ इति द्रवद्रव्यसम्पृक्ताः सक्तव उच्यन्ते। `क्षुग्धो मन्थः' इति। चलितो मन्थ इत्यर्थः। `क्षुभितं मन्तेन' इति। नात्र मन्थोऽभीधीयते, किं तर्हि? तत्साधनं चलनम्। अथ मन्थाभिधाने क्षुब्धशब्दो निपात्यते, क्षुब्धा गिरिनटी, क्षुब्धा सेना, क्षुब्धः समुद्रः--इत्यादि। नोपपद्यते? इत्यत आह--`क्षुब्धा गिरिनदी' इत्तयादि। चलितमन्थसाधर्म्याद्गिरिनद्यादिषु तथा व्यवपेश इति दर्शयति। यथा क्षुब्धत्वं मन्थस्य चलनं प्रति साधनभावः, तथा गिरिनद्यादेरर्थस्य चलनं प्रति साधनभावः क्षुब्धमन्थसाधर्म्यात् क्षुब्धशब्देन व्यपदिश्यते, यथा गोसाधर्म्याद्गोशब्देन वाहीक उच्यते।
`स्वान्तम्, ध्वान्तम्' इति। `स्वन ध्वन शब्दे' (धा.पा.827,828)। इडभावो निपात्यते। एवमुत्तरेष्वप्युदाहरणेषु वेदितव्यम्। बाह्येषु विषयेष्वविक्षिप्तमनाकुलं मनः=स्वःन्तमुच्यते। `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घः। `स्वनितं मनसा' इति। मनः कर्त्तृकं स्वननमुच्यते, न तु मनः। `ध्वनितं तमसा' इति। अत्रापि तमःकर्त्तृकं ध्वननमुच्यते, न तमः।
`लग्नः' इति। `रगे लगे सङ्गे' (धा.पा.785,786)[`रगे शङ्कायाम्'--धा.पा.] निष्ठानत्वं निपात्यते। `स्वरश्चेत्' इति। स्वरशपब्दोऽत्र ध्वनौ वर्त्तते।
`फाष्टम्' इति। `फण गतौ' (धा.पा.821)। पूर्ववद्दीर्घः ष्टुत्वञ्च। कः पुनरयमनायासो नाम? इत्याह--`यदश्रृतम्' इत्यादि। अश्रृतमित्यपक्वम्। अपिष्टमित्यचूर्णितम्। उदकसम्पर्कः उदकसंयोगः। मात्रशब्देन निष्पीडनादेर्व्यवच्छेदः। `विभक्तरसम्' इति। पृथग्भूतरसमित्यर्थः। ईषदुष्णं कोष्णम्। `तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते' इति। आयासः प्रयत्नाधिक्यम्, तद्यस्मिन्न विद्यते सोऽल्पप्रयत्नासाध्योऽनायासः। तेनेह यदशृतत्वादिविशिष्टं वस्तु तदल्पप्रयत्नासाध्यत्वादनायासेन लक्ष्यते। तदनेनानायासोपलक्षतो यो वस्तुविशेषस्तत्र फाष्टमिति निपात्यते, न त्वनायास एव। नान्यत्रापि सर्वत्रानायसोपलक्षित इति दर्शयति। अयं चार्थो निपातनसामर्थ्याल्लभ्यते। यथैव ह्यन्यत् किञ्चिदिडभावादिकं निपतनसामर्थ्याल्लभ्यते तथाऽर्थविशेषेऽपि।
`बाढम्' इति। अत्र पूर्वदद् ढत्वादिकार्यम्।।
19. घृषिशसी वेयात्ये। (7.2.19)
`वियातस्य भावो वैयात्यम्' इति। यातम्=यातिः, प्राप्तिः विरूपं यातं यस्यासन्मार्गविषयत्वात् स वियातः=अविनीत इत्युच्यते; तद्भावो वैयात्यम्। ब्राह्मणादित्वात् (5.1.124) ष्यञ्। `षुष्टः' इति। `ञि धृषा प्रगल्भ्ये' (धा.पा.1269)। `विश्तः' इति। `शसु हिंसायाम्' (धा.पा.727), शसेरपि `उदतो वा' (7.2.56) इति विकल्पविधानात् `यस्य विभाषा' (7.2.15) इतीट्प्रतिषेधः सिद्ध एवेति सम्बध्यते। यदि तर्हि सिद्ध एव प्रतिषेधः तत् किमर्थं वचनम्? इत्याह--`नियमार्थम्' इत्यादि। वैयात्य एव वर्त्तमानोर्यथा स्यात्, अन्यत्र मा भूत्। अथ धृषेः `विभाषा भादिवादिकर्मणोः' (7.2.17) इति विकल्पे प्राप्ते नित्यार्थ वचनमिति कस्मान्न भवति? इत्याह--`भावादिकर्णणोरप , इत्यादि। अत्र चाभित्रानशक्तिस्वाभाव्यं हेतः। `धार्षितः' इति। `धर्षितः इति। पूर्ववत् कित्त्वे प्रतिषिद्दे गूणः।।
20. दृढः स्थूलबलयोः। (7.2.20)
`बलवति' इति मतुबन्तनिर्द्दशेनार्शआदित्वात् सूत्रे मत्वर्थीयाकारान्तो बलशब्दो निर्द्दिष्ट इति दर्शयति। `दृंहेः' इति। `दृहि वृद्धौ' (धा.पा.834) इत्यस्य। `अथ वा-- दृहिः प्रकृत्यन्तरमस्ति' इति। `दृह दृहि दृद्धौ' (धा.पा.733,734), इति कैश्चित् पाठात्। `नकारस्याभावात्' इति। नकारस्योपदेशाभावादनिदित्त्वाच्च नकारस्योपदेशाभावादनिदित्त्वाच्च नकारस्याभावादिति।
अथ हकारलोपः किमर्थं निपात्यते? नाढकार एव निपात्यताम्, परस्य च धत्वे ष्टुत्वे कृते, ढो ढे लोपे च कृते सिद्धं दृढ इति। अत्राप्ययमर्थः--परस्य ढत्वं निपातयितव्यं न भवति, ष्टुनैव सिद्धत्वात्? इत्यत आह--`हलोपनिपातनम्' इत्यादि। यदि हकारस्य ढकारो निपात्यते तदा `ढो ढे लोपः' (8.3.13), तस्य `पूर्वत्रासिद्धम्' (8.2.1) इत्यसिद्धत्वं स्यात्, सिद्धश्चासाविष्यते। तस्मात् पूर्वत्रासिद्धत्वनिवृत्तये हलोपो निपात्यते, न ढकार इति। कः पुनरसिद्धत्वे दोषो यत्परिहाराय पूर्वत्रासिद्धत्वनिवृत्त्यर्थं हकारलोपो निपात्यते, न ढकारः? इत्यत आह--`ढलोपे' इत्यादि। यदि हि ढकारो निपात्यते, तदा `ढो ढे लोपः' (8.3.13) कर्त्तव्यः, तस्मिंस्तु सति लोपे द्रढिमेत्यादौ `र ऋतो हलादेर्लघोः' (6.4.161) इति रोफो न स्यात्; ढलोपस्यासिद्धत्वे `संयोगे गुरु' (1.4.11) इति गुरुसंज्ञायामुपजातायां लघुसंज्ञाया बाधितत्वात्। `द्रढिमा' इति। `वर्णद्ढादिभ्यः ष्यञ्च' (5.1.123) इतीमनिच्, `तुरिष्ठेयाःसु' (6.4.154) इति टिलोपः। `द्रढीयान्' इति। `द्विवचनविभज्योपपरदे तरबीयसुनौ' (5.3.57) इतीयसुन्प्रत्ययः। `द्रढयति' इति। द्रढमाचष्ट इति `तत्करोति तदाचष्टे' (धा.पा.ग.सू.187) इति णिच्, `णाविष्ठवत् कार्यं प्रातिपदिकस्य' (दा.813) इतीष्ठवद्भावेन रेफटिलोपौ। `परिद्रढय्य गतः' इति। दृढमाचष्टे इति णिच्। रभावे कृते ण्यन्तस्य परिणा योगः, ततः क्त्वा, प्रादिसमासः, `समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37) इति ल्यप्। `पारिद्रढी कन्या' इति। परिद्रढशब्दादिञ्, `इतो मनुष्यजातेः' (4.1.65) इति ङीष्। `ष्यङ् प्रसज्येत' इति। `अणिञोरनार्षयोर्गुरूपोत्तमयोः' (4.1.78) इत्यादिना।
`दृंहितम्' इति। दृंहेः प्रत्युदाहरणम्। `दृहितम्' इति दृहेः।।
21. प्रभौ परिवृढः। (7.2.21)
`पूर्वेण समानम्' इति। निपातनस्येडभावादेस्तुल्यत्वात्। यथैव हि पूर्वस्मिन् सूत्रे क्तप्रत्यये कृते हकारनकारस्योर्लोप इडभावश्च परस्य ढत्वं निपातितम्, तथेहापि तत्सर्व निपात्यते। `वृंहेर्निपातनम्' इति। `वृहि वृद्धौ' [`बृहि'--धा.पा.] (धा.पा.736) इत्यस्य। `वृहिश्च यदि प्रकृत्यन्तरमस्ति ततस्तस्यापि' इति। निपातनमेतदिति कृतेन सम्बन्धः। प्रकृत्यन्तरास्तित्वं तु `वृह वृद्धौ'[`बृह'--धा.पा.] (धा.पा.735) इति कैश्चिदुक्तम्। `तदेव प्रयोजनम्' इति। पूर्वत्रासिद्धत्वनिवृत्तिः। `परिव्रझयति' इति। अत्र ढलोपे सति पूर्ववद्रेफो न स्यात्। `परिव्रढय्य गतः' इति। हलोपनिपातने तु भवन्त्येते दोषाः।
`परिव्रढमाचष्टे' इत्यादि। कथं पुनः परिवृढशब्देन विग्रहे कृते णिचो वृ शब्दादेवोत्पततिर्लभ्यते? इत्याह--`संग्रामयतेः' इत्यादि। `प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' (धा.पा.ग.सू.186) इत्यनेनैव णिचि सिद्धे `संग्रामे' इत्यस्य सोपसर्गस्य गणे यः पाठः स नियमार्थः--संग्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिर्यथा स्यात्, अन्यत्र मा भूदिति। तदेवं संग्रामयतेरेव यस्मात् सोपसर्गाण्णिजुत्पत्तिरिष्यते, नान्यस्मात्। तस्माद् यद्यपि `परिवृढमाचष्टे' इति विग्रहः क्रियते, तथापि वृढशब्दाण्णिजुत्पत्तौ सत्यां लकारो भवन्नयं णिज् यतो विहितस्तदादेरेव भवति प्रत्ययग्रहणपरिभाषया; `सनाद्यन्ता धातवः' (3.1.32) इति तदादेरेव धातुसंज्ञाविधानात्। तेन परेस्तिङन्तग्रहणेनाग्रहणात् ततोऽतङन्तात् पदात् परस्य तिङन्तस्य पदस्य परिव्रढयतीत्यत्र `तिङ्ङतिङः' (8.1.28) इति निघातस्वरः सिद्धो भवति। यदि पुनः परिवृढशब्दाण्णिजत्पद्यते तदा लकारोऽपि निघातो न स्यात्। किञ्च--यदा वृढशब्दाण्णिजुत्पद्यते न परिवृढशब्दात्, तदा क्त्वाप्रत्ययोऽपि वृढशब्दाण्णिजन्ताद्भवति। तेन परिशब्दस्य क्तान्तेन सम्रथेन शब्दान्तरेण `कुगतिप्रादयः' (2.2.18) इति समासे कृते परिव्रढय्येत्यत्र ल्यबादेशः सिद्धो भवति। परिवृढशब्दाण्णिजुत्पत्तौ क्त्वाप्रत्ययोऽपि परिवृढशब्दादेव णिजन्तादुत्पद्यते, ततः समासो न स्यात्; कुगतिप्रादयः समर्थेन शब्दान्तरेण समस्यन्ते, न चात्र परेः परं क्तान्तं शब्दान्तरमस्ति। एकमेव हीदं क्तान्तं परिणा सह शब्दरूपम्; तत्रैव परिशब्दस्यान्तर्भावात्। असति च समासे `समासेऽनञ्पूर्वे' (7.3.17) इत्यादिना ल्यबादेशो न स्यात्। `परिवृंहितम्' इति। वृंहेः प्रत्युदाहरणम्। `परिवृहितम्' इति। वृहेः।।
22. कृच्छ्रगहनयोः कषः। (7.2.22)
`कष्टः' इति। कषिशिषीत्यादिहिंसार्थधातुवर्गे कषिः पठ्यते। किं पुनः कृच्छ्रं नाम? इत्याह--`कृच्छ्रं दुःखम्' इति। यद्येवम्, दुःखे प्राणिधर्मे प्रतिषेध उच्यमानोऽग्न्यादौ न सिध्यते? इत्याह--`तत्कारणमप्यग्न्यादिकं कृच्छ्रमुच्यते' इति। कारणे कार्योपचारात्, यथा--नङ्वलोदकं पादरोग इति। चिन्त्यं पुनरेतत् किं मुख्ये सति गौणस्य ग्रहणं युक्तम्? उत नेति? यदि तु कृच्छ्रशब्दाण्णिजन्तात् पचाद्यचमुत्वाद्य कृच्छ्रयतीति कृच्छ्र इत्येवं व्युत्पाद्यते, तदा कृच्छ्रशब्दोऽपि मुख्येऽगन्यादावपीति न किञ्चिच्चिन्त्यम्; न चास्यां व्युत्पत्तौ तत्कारणमप्यगन्यादिकं कृच्छ्रमित्युच्यत इत्येतद्विरुध्यते। यद्धि कृच्छ्रयति तन्नियोगत एव दुःखस्य कारणं भवति।।
23. घुषिरविशब्दने। (7.2.23)
`विशब्दनं प्रतिज्ञानम्' इति। स्वाभिप्रायस्य शब्देनाविष्करणमित्यर्थः। `सामान्येन ग्रहणम्' इति। विशेषानुपादानात्। यदि `घुषिरविशब्देने' (धा.पा.1726) [`घुषिर् विशब्देने--धा.पा.]इति चुरादौ पठ्यते एवं सति णिचा भवितव्यम्, न च णिजन्तस्येटि सत्यसति वा कश्चिद्विशेषोऽस्ति। तथा हि--इटि सति `निष्ठायां सेटि' (6.4.52) इति णिलोपे कृते घोषितमिति यद्रूपं भवत्यसत्यपीटि णिलोपाभावात् तदेव। न च तदन्ताविट्प्रतिषेधस्य प्रप्तिरस्ति; `एकाचः' (7.2.10) इत्यधिकारात्। भौवादिकस्य (धा.पा.653) [`घुषिर् अविश्बदेन'--धा.पा.] घुषेर्विशब्दने वृत्तिरेव नास्ति; शब्दशक्तिस्वाभाव्यात्; तत्किं विशब्दनप्रतिषेधेन? इत्यत आह--`विशब्दनप्रतिषेधः' इत्यादि। यदि च नित्यो णिच् स्यात्, तदा यथोक्तया रीत्या प्रतिषेधोऽनर्थकः स्यात्, ततश्च न कर्त्तव्य एव स्यात्, कृतश्च, तस्मादयमेव प्रतिषेधो ज्ञापयित--चुरादिणिज्विशब्दनार्थस्यानित्य इति। `जुघुषुः' इति। अनित्यप्रतिज्ञाप्रयोजनम्। असति ह्यनित्यत्वे घोषयाञ्चक्रुरिति स्यात्।।
24. अर्देः सन्निविभ्यः। (7.2.24)
`अर्देः' इति। `अर्द गतौ याचने च' (धा.पा.55)।।
25. अभेश्चाविदूर्ये। (7.2.25)
`०विदूरं विप्रकृष्टम्' इति। विशेषेणातिशयेन दूरं विदूरमिति कृत्वा, ततोऽन्यदविदूरम्। तत् पुनर्यदासन्नं यच्चादूरं न त्वतिविप्रकृष्टं तदिति वेदितव्यम्। `तस्य भाव आदिदूर्यम्' इति। ब्राह्मणादित्वात् (5.1.124) ष्यञ्। ननु च `न नञ्पूर्वात् तत्पुरुषात्' (5.1.121) इत्युत्तरस्य भावप्रत्ययस्य प्रतिषिद्धत्वात् ष्यञा न भवितव्यम्? इत्यत आह--`एतस्मादेव' इत्यादि। उत्तरत्वं तु भावप्रत्ययस्य त्वतलापेक्षया वेदितव्यम्।।
26. णेरध्यायने वृत्तम्। (7.2.26)
`अध्ययनम्' इति। `कृत्यल्युटो बहूलम्' (3.3.113) इति ल्युट्। अधीयत इत्यध्ययनम्--कर्मसाधनोऽध्ययनशब्दः। भावसाधने हि वृत्तो गुणो देवदत्तेनेति न स्यात्, वृत्तं गुणस्य देवदत्तेनेति स्यात्। निष्ठाविशेषणञ्चैतत्। अध्येतव्याभिधायिन्यां निष्ठायामित्यर्थः। `णिलुक् च' इति। णिलुग्निपातनं प्रत्ययलक्षण प्रतिषेधार्थम्। लोपे हि प्रतययलक्षणेन गुणः स्यात्। लुकि सति `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिषेधाद्गुणो न स्यात्। `वृत्तो गुणः' इति। गुणः कश्चिदेवाध्ययनविशेष इहोच्यते।
`वृत्तिरयमकर्मकः' इति। दृतं गुणस्य, वृत्तं पारायणस्येति भावे निष्ठादर्शनात्। अकर्मकाणां हि भावे निष्ठा भवति, न सकर्मकाणाम्। `स ण्यर्थे' इत्यादि। सोऽन्तर्भावितण्यर्थो यदा भवति तदा प्रकृत्यन्तो ण्यर्थे वर्त्तमानः सकर्मको भवति, यथा--वर्द्धन्तु त्वां सुष्टुतय इत्यत्र वृधिः। कथमेतद्विज्ञायते? इत्याह--`तेन निर्वृत्तम्' इत्यादि। न चैतद्वक्तव्यम्--अकर्मका इति। `धातवः सोपसर्गाः सकर्मका भवन्ति' इति सोपसर्गत्वादिह वृत्तेः सकर्मकत्वम्। न तु ण्यर्थवृत्तित्वादिति कृतो ण्यर्थावगतिः? यदि सोपसर्गात्वादिह वृत्तेः सकर्मकत्वं स्यान्न ण्यर्थवृत्तित्वात्, ततो यथानुभूतः क्मबलो देवदत्तदेनेत्यत्र ण्यर्थो न गम्यते, तथा तेन निर्वृत्तः इत्यत्रापि न गम्येत; गम्यते च, तस्माण्णयर्थवृत्तित्वादेव वृत्तेः सकर्मकत्वम्। यदा च ण्यर्थवृत्तर्भवति तदा प्रयोजकव्यापारापेक्षयाऽस्य कर्त्ता कर्मभावभापद्यत इति। तेन प्रयोज्येन कर्मणा सकर्मको भवति। `तद्वदिहापि' इत्यादि। यस्मादेवाकर्मकोऽपि स न प्रकृत्यन्त एव ण्यर्थे वर्त्तमानः सकर्मको भवति तस्माद्वृत्तो गुणो देवदत्तेनेत्यत्रापि ण्यर्थवृत्तेरेव कर्मणि क्तप्रत्ययो भविष्यति। ततश्च निपातनमनर्थकं स्यात्। विनाऽपि तेन सिद्धत्वात्। कथमिति चेत्? वृत्तेः क्वाप्रत्यये `उदितो वा' (7.2.56) इतीङ्विकल्पे कृते निष्ठायाम्, `यस्य विभाषा' (7.2.15) इति प्रतिषेधात्। यद्येवम्, किमर्थं तदित्याह--`तत् क्रियते' इत्यादि। कदाचिण्ण्यर्थोऽन्तर्भावितण्यर्थतया प्रकृत्यैवाभिधीयते, तत्र यदि निपातनं न क्रियेत, तदाध्ययनेऽपि वर्त्तितमिति स्यात्। तस्मादेतन्निवृत्त्यर्थं तदित्येके प्रतिपन्नः। `अपरे तु' इत्यादि। अन्ये तु वत्तितो गुण इत्यपीच्छन्ति। ण्यन्तस्याण्यन्तस्य च--वृत्तो गुण इति। तन्मतेन निपातनं न कर्त्तव्यमेव। क्रियमाणं वैचित्र्यार्थं वेदितव्यम्।।
27. वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः। (7.2.27)
`दान्तः, शान्तः' इति। `शमु दमु उपशमे' (धा.पा.1201,1203)। हेतुमण्णिच्, णिलुगिट्प्रतिषेधयोः कृतयोः `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घः। ननु च णिलोपस्य स्थानिवद्भावाद्व्यवधाने सति न प्राप्नोति? नैतदस्ति; न हि निपातनेन लोपे सति तस्य परनिमित्तत्वव्यपदेशो विद्यते, तत् कुतः स्थानिवद्भावः! `न पदान्त' (1.1.58) इत्यादिना दीर्घविधौ स्थानिवद्भावप्रतिषेधाच्च। `दमितः, शमितः' इति। `मितां ह्रस्वः' (6.4.92) इति ह्रस्वत्वम्। `पूर्णः' इति। `पूरी आप्यायने' (धा.पा.1803)। दिवादिश्चुरादिश्च। `दस्तः' इति। `तसु उत्क्षेपे' (धा.पा.1212) [`उपक्षये'--धा.पा.] `दसु च' (धा.पा.1213)। अत्रोपधा ह्रस्वत्वमपि निपात्यते। `स्पष्टश्छन्नः' इति। `स्पश बाधनस्पर्शनयोः (धा.पा.887), `छद अपवारणे' (धा.पा. 1935)। अत्रापयुपधाह्रस्वत्वमपि निपात्यते। ज्ञप्त इति। `ज्ञप मारणतोषणनिशामनेषु' (धा.पा.1624)[`ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु--धा.पा.] इति चुरादिः, `मारणतोषणनिशामनेषु ज्ञा मिच्च' (धा.पा.811) इति घटादिश्च, ततो णिच्। `इट्प्रतिषेधो णिलुक्च' इति। चकारात् क्वचिदुपधाह्रस्वत्वमपि निपात्यते।।
28. रुष्यमत्वरसंघुषास्वनाम्। (7.2.28)
`रुष रोषे' (धा.पा.1670), `अम गत्यादिषु' (धा.पा.465)। `अम रोगे' (धा.पा.1720) इत्येतस्य चौरादिकस्य ग्रहणं न भविष्यति; एकाच (7.2.10) इत्यधिकारात्। `ञि त्वरा सम्भ्रमे' (धा.पा.775) सम्पूर्वः। पूर्वोक्तो धुषिः। आङ्पूर्वः पूर्वोक्त एव स्वनिः। `आस्वान्तः' इति। पूर्ववद्दीर्घः। `तूर्णः' इति। `ज्वरत्वरस्रव्यविमवामुपधायाः' (6.4.20) इत्यूठ्। `सम्पूर्व' इत्यादि। `घुषिर् अविशब्देने' (धा.पा.653) इत्यस्यावकाशोऽसम्पूर्वत्वे सत्यविशब्देन--घुष्टा रज्जुः, धुष्टौ पादाविति। अस्य च वचनस्यावकाशः सम्पूर्वत्वे सति विशब्दने--संघुषितं वाक्यमाह, संघुष्टं वाक्यमाहेति; सम्पूर्वत्वे सत्यविशब्दन उभयप्राप्तौ परत्वादनेन विक्लपो भवति--संघुष्टौ दन्तौ, संघुषितौ दन्ताविति। `आङ्पूर्वस्य' इत्यादि। `क्षुब्धस्वान्त' (7.2.18) इति स्वनरिट्प्रतिषेधस्यावकाशः। अनाङपूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सतयमनोऽभिधानम्। `आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः' इति। आङ्पूर्वत्वे सति मनोऽभिधाने स्वान्तं मन इत्यस्यावकाशः, आङ्पूर्वत्वे सत्यमनोऽभिधानम्। `आस्वन्तो देवदत्तः, आस्वनितो देवदत्तः' इति। आङ्पूर्वत्वे सति मोनऽभिधाने परत्वादयमेव विकलपो भवति--आस्वान्तं मनः, आस्वनितं मनः।।
29. हृषेर्लोमसु। (7.2.29)
`हृष्टानि लोमानि' इति। गत्यर्थामकर्मकादिना (3.4.72) अकर्मकत्वात् कर्त्तरि क्तः। `हृष्टं लोमभिः' इति। `नपुंसके भावे क्तः' (3.3.114) इति क्तः। निष्ठायामनिट्' इति। `उदितो वा' (7.2.56) इति क्त्वाप्रत्यय इटि विकल्पिते निष्ठायां `यस्य विभाषा' (7.2.15) इति प्रतिषेधात्। `अयं सेट्' इति। उदात्तत्वादिट्प्रतिषेधाभावात्। `उभयत्रविभाषेयम्' इति। प्राप्ते चाप्राप्ते च। आलीक्यार्थस्य प्रतिषेधे प्राप्ते विकल्पः, तुष्ट्यर्थस्य चाप्राप्ते; लोमशब्दस्याङ्गजतेष्वेव रूढत्वात्।
लोमस्वित्युच्यमानेङ्गजेष्वेव न केशेषु भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--`लोमानि' इत्यादि। कथम्? इत्याह--`यथा लोमनखम्' इत्यादि। अत्र हि सामान्येन ग्रहणं तेषाम्। तथा हि--केशानपि स्पृष्ट्वा शौचं क्रियत इति। कथं पुनः क्रियावचनसय धातोर्द्रव्येषु लोमसु वृत्तिरुपपद्यते? इत्याह--`तद्विषये' इत्यादि। तानि लोमानि विषयो यस्य स तथोक्तः। हृषेर्योऽर्थः स लोमत्साध्यत्वाल्लोमविषयः। तत्र वर्त्तमानो हृषिरप्यर्थद्वारेण लोमसु वर्त्तते इत्युच्यते। तदेवमर्थद्वारेण लोम्नां हृषिं प्रति विशेषणत्वं दर्शितं भवति।
`विस्मितप्रतिधातयोश्च' इति। निपातनमिति। विस्मिप्रतिधातयोर्निष्ठायामिण् न भनत्येवमर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--हृषेरिति योगविभागः क्रियते, ततो विस्मितप्रतिधातयोरपि भविष्यतीति। अथ वा--बहुवचननिर्देशोऽत्र क्रियते, आद्यर्थोऽयं विज्ञायते लोमादिषु लोमस्विति तेन विस्मतप्रतिधातयोरपि भविष्यति।।
30. अपचितश्च। (7.2.30)
`चायतेः' इति। चायृ पूजानिशामनयोः' (धा.पा.880) इति। अयं योगो यश्चिनोतेरपूर्वसय पूजायां वृत्तिं न प्रतिपद्यते तं प्रत्यारभ्यते। यस्तु प्रतिपद्यते तं प्रति नारब्धब्ध एव। तथा हि--चिनोतेरपचित इति भविष्यतीति, चायतेस्त्ववचायित इति।
`वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तेत्रेदं व्याख्यानम्--चकारोऽत्र क्रियते। स चानुक्तसमुच्चयार्थः। तेनापचितिरित्येतदपि निपात्यत इति। एतच्च निपातयता चायतेः क्तिनि नित्यं चिभावो वक्तव्यः।।
31. ह्रू ह्वरेश्छन्दसि। (7.2.31)
`ह्वृ कौटिल्ये' (धा.पा.931) इत्येतस्यानुदात्तत्वादिट्प्रतिषेधोऽस्त्येवेत्यादेशार्थ वचनम्।।
32. अपरिहूवृताश्च। (7.2.32)
"ह्रु' इत्येतस्यादेशस्याभावो निपात्यते' इति। पूर्वसूत्रेण प्राप्तस्य। बहुवचननिर्देशो बहवचन एव निपातनं यथा स्यात्। तेन क्चनान्तरे हि अपरिह्रुतः, अपरिह्रु, अपरिह्रुतावित्येव भवति।।
33. सोमे ह्वरित। (7.2.33)
`इडागमो गुणश्च निपात्यते' इति। चकारात् `ह्रु' इत्येतस्यादेशाभावश्च।।
34. ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्वलितिक्षरितिक्षमितिवमित्यमितीति च। (7.2.34)
`ग्रसु स्कन्भु स्तन्भु इत्येतेषाम्' इत्यादि। `ग्रसु ग्लसु अदने' (धा.पा.630,631), `स्कन्भु', `स्तन्भु' (3.1.82) इत्येतौ सौत्रौ धातू; `स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च' (3.1.82) इति सूत्रे पाठात्। `स्कभितम्, स्तभितम्' इति। `अनिदिताम्' (6.4.24) इत्यनुनासिकसलोपः। `स्कब्धभ्, स्तब्धम्' इति। `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वम्, `झलां जश् झशि' (8.4.56) इति जश्त्वम्। `उत्तभितम्' इति। `उदः स्थास्तम्भोःत पूर्वस्य' (8.4.61) इति पूर्वसवर्णः। `अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीति इति। यदि स्यात्, उत्पूर्वस्य निपातनमनर्थकं स्यात्।
`चतेः, कसेश्च' इति। `चते चदे याचने' (धा.पा.865,866), `कस गतौ' (धा.पा.860)। ननु सूत्रे विकस्तशब्दाद्वहुवचनं श्रूयते, ततश्च कथमसौ वृत्तादेकवचनान्त उदहृतः? इत्यत आह--`निपातनं बहुत्वापेक्षम्। विकस्ता इति बहुवचनम्' इति। सूत्रे ग्रसितादीनि निपातनानि कृतद्वन्द्वानि, अतस्तदपेक्षया बहुवचनं कृतम्। वृत्तौ त्वसमस्त एक एवायं विकस्तशब्दः। न चैतदर्थस्य बहुवचनं विवक्षिम्, अत एकवचनान्त एवोदाहृतः। `अपरेषु' इति। विशस्तृप्रभृतिषु। `प्रत्येकं विभक्तिनिर्देशः' इति। बहुत्वाभावाद्बहुवचनम्, तेन तत्र न कृतमित्यभिप्रायः।
शसेर्विपूर्वस्य शंसेः शासेश्चेति। `शसु हिसायाम्' (धा.पा.727), `शन्सु स्तुतौ' (धा.पा.728) `शासु अनुशिष्टौ' (धा.पा.1075)।
`तरीतारम् वरीतारम्' इति। `वृतो वा' (7.2.38) इति दीर्घः। `वरूत्रीः' इति। `ऋन्नेभ्यो ङीप्' (4.2.5) इति ङीप्, तदन्ताज्जस्, `वा छन्दसि' (6.1.106) इति पूर्वसवर्णदीर्घः। जसि पूर्वसवर्णोच्चारणम्' इत्यादि। ननु यणादेशे कृते वरूत्र्य इति भवितव्यम्, कथं `वरूत्रयः' इति भवति? इत्याह--`छान्दसम्' इत्यादि। छान्दसत्वेन हि ह्रस्वत्वे कृते `जसि च' (7.3.109) इति यणादेशापवदो गुणो विधीयते। `प्रपञ्चार्थम्' इति। विस्तरेणान्वाख्यानमित्यर्थः। तथा हि `पचिर्विस्तारवचने' (धा.पा.1651) इति तस्यैवाजन्तस्य प्रपञ्च इति भवति। प्रपञ्चस्तु विस्पष्टार्थः। विस्तरेण ह्यन्वाख्यानं स्पष्टं भवति। अथ वरूत्रीशब्दस्य सिध्यर्थ निपातनं कस्मान्न भवति? इत्याह--`वख्तृशब्दो हि' इत्यादि।
ज्वलतेरिति `ज्वल दीप्तौ' (धा.पा.831), `क्षर सञ्चलने' (धा.पा.851), `टु वम उद्गिरणे' (धा.पा.849) `अम गत्यादिषु (धा.पा.465)। `इतिकरणं प्रदर्शनार्थम्' इति एवम्प्रकारस्याम्यस्यापि प्रदर्शनार्थमितिकरणम्। तेन किं सिद्धं भवति? इत्याह--`तेन क्वचित्' इत्यादि। चकारस्श्छन्दसीत्यनुकर्षणार्थः। तेन चानुकृष्टत्वान्नोत्तरत्राभिसम्बध्यते। तेनोत्तरत्र विधानमविशेषेण भवति।।
35. आर्घधातुकस्येङूवलादेः। (7.2.35)
`आस्ते, शेते, वस्ते' इति। `आस उपवेशने' (धा.पा.1021), `शीङ् स्वप्ने' (धा.पा.1032), `दस आच्छादने' (धा.पा.1023)। अदादित्वाच्छपो लुक्, `शीङः सार्वधातुके गुणः' (7.4.21)। आर्धधातुकग्रहणादिह--सार्वधातुकस्येण्न भवतीति। ननु च `रुदादिभ्यः सार्वधातुके' (7.2.76) इत्येतन्नियमार्थ विज्ञायते--`रुदादिभ्य एव सार्वधातुकस्य नान्येभ्य' इति। `रुदादिभ्यः सार्वधातुकस्यैव' इत्येषा तु विपरीतनियमाशङ्का न कर्त्तव्या। यदि ह्येवंविधो नियमः स्यात्, तदा रुदादेः परस्य सन इडागमो न स्यात्; नियमेन व्यावर्त्तितत्वात्। ततश्च `रुदविद' (1.2.8) इत्यत्र रुदिग्रहणमनर्थकं स्यात्; `हलन्ताच्च' (1.2.10) इति कित्त्वस्य सिद्धत्वात्। तस्मान्नात्र विपरीतनियमाशङ्का। `रुदादिभ्य एव सार्वधातुकस्य, नान्येभ्यः' इत्येष नियमो भविष्यति, ततो नार्थः सार्वधातुकनिवृत्त्यर्थेनार्द्धधातुकग्रहणेन? इत्यत आह--`रुदादिभ्यः' इत्यादि। `रुदादिभ्यः सार्वधातुके' (7.2.76) इत्येतस्मिन्नियमार्थे विज्ञायमाने कश्चिन्मन्दबुद्धिः प्रतिपत्ता विपरीतनियमं सम्भावयेत्, तत्रानन्तरोक्तया नीत्याऽभिमतनियमे प्रतिपद्यमाने `प्रतिपत्तिगौरवं भवति' इति। इतिकरणो हेतौ। यत एव `रुदादिभ्यः सार्वधातुके' (7.2.76) इत्येतस्मिन्नियमार्थे विज्ञायमाने प्रतिपत्तिगौरवं भवति, अतो हेतोरार्धधातुकग्रहणं कस्मान्न भवति? नार्हतीत्येवमर्थं भवितुम्। यदि ह्यङ्गस्य स्यात्, `एकाच उपदेशेऽनुदात्तात्' (7.2.10) इति प्रत्ययस्येट्प्रतिषेधोऽनर्थकः स्यात्; प्राप्त्यभावा। `न क्त्वा सेट्' (1.2.18), `निष्ठा शीङ्' (1.2.19) इति वचनाच्च। न ह्यस्येडागमे सति क्त्वानिष्ठयोः सेट्त्वमुपपद्यते। इह तर्हि वृक्षात्वम्, वृक्षतेति प्रातिपदिकप्रत्ययस्य मा भूदित्येवमर्थं कस्मान्न भवति? एवमर्थमपि नार्हति भवितुम्, `ऋत इद्धातोः' (7.1.100) इत्यतः `धातोः' इत्यनुवर्त्तते। नन्वेवमपि लूभ्याम्, लूभिरित्यत्र प्राप्नोतीत्येव, न ह्यत्र प्रकृतेः प्रतिपदिकत्वेन धातुत्वं विहन्यते `क्विबन्ता धातुत्वं न जहति' (व्या.प.132) इति कृत्वा, तस्मादिह मा भूदित्येवमर्थमार्धधातुकग्रहणं युक्तम्? नैतदस्ति; `ॠत इद्धातोः' (7.1.100) इत्यत्र हि स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणम्। अत इहापि `धातो' रित्यनुवर्त्तमानं तथाभूतमेवानुवर्त्तते। तेन `धातोः' इत्येवंविहितस्येङ्विधानात् लूभ्याम्, लूभिरित्यत्रासत्यार्धधातुकग्रहण इटः प्रसङ्गो न भवति। तथा जुगुप्सत इत्येवमादावपि; न ह्यत्र धातोरित्येवं सन् विहितः, किं तर्हि? गुपादीन् धातून् स्वरूपेणोपादाय। तस्मादेतन्निवृत्त्यर्थमप्यार्धधातुकग्रहणं न भवतीति वेदितव्यम्। `ऋत इद्धातोः' (7.1.100) इत्यत्र स्वरूपपदात्मकस्य धातुशब्दस्य ग्रहणं स्यात्। तदा तस्यापि `ऋतः' इति विशेषणं न परिकल्प्येत। तस्य धातुशब्देऽसम्भवात् तदर्थस्य विशेषणं विज्ञायत इत्यदोवः।
अथ वा--तत्र तन्त्रेण द्वे धादुग्रहण उपात्ते; तत्रैकमर्थपदात्मकम्, अपरं स्वरूपपदात्मकम्। तत्र यदर्थपदात्मकं तत्र तस्योपयोगः, अपरस्य त्वत्रेति न कश्चिद्दोषः। तस्मात् प्रतिपत्तिगौरवपरीहारार्थमेवार्धधातुकग्रहणम्।
अथेङ्ग्रहणं किमर्थम्, यावता `नेङ्वशि कृति' (7.2.28) इत्यत इङ्ग्रहणमनुवरत्तते? इत्याह--`इडिति वर्त्तमाने' इत्यादि। तद्धिड्ग्रहणं प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तन्निवृत्यर्थ पुनरिड्ग्रहणं क्रियते। ननु च प्राप्तौ सत्यां प्रतिषेधः स्यात्, न च वलादेरार्धधातुकस्य केनचिदिट्प्राप्नोति, अतः प्राप्त्यभावादेव विधिरयं विज्ञास्यते, न प्रतिषेधः? नैतदस्ति; एतस्मादेव प्रतिषेधवचनाद्विधिरप्यनुमीयते। नूनमार्धधातुकस्येङ्विधिरस्तीति येन वलादेः प्रतिषेधं शास्ति। पुनरिड्ग्रहणात् तु विधिरेष विज्ञास्यते।।
36. स्नुकरमोरनात्मनेपदनिमित्ते। (7.2.36)
`स्नु प्रस्रवणे' [`ष्णु'--धा.पा.] (धा.पा.1038), `क्रमु पादविक्षेपे' (धा.पा.473)--अनयोरुदात्तत्वादिटि सिद्धे नियमार्थं वचनम्--अनात्मनेपदविषय एवानयोर्यथा स्यात्, अन्यत्रा मा भूदिति। ननु च स्नोतेरुगन्तत्त्वात् किति सनि च प्रतिषेधविधानात् तस्य वचनं विद्यर्थमपि सम्भवति? नैतदस्ति; `आर्धधातुकस्येड्वलादेः' (7.2.35) इत्यनुवर्त्तते। तेनास्याः प्राप्तेर्विषये योगोऽयमिति विज्ञायते। न चास्याः प्राप्तेः सन्कितौ विषयौ; तयोरपवादविषयत्वात्। आत्मनेपदनिमित्ते इति प्रथमाद्विवचनान्तम्। स्नुक्रमोरेतद्विशेषणमिति दर्शयितुमाह--`न चेत्' इत्यादि। `क्व च तावात्मनेपदनिमित्ते' इति। किं यत्रात्मनेपदं प्रति योग्यतामात्रमपि तयोरस्ति तत्रापि तावात्मनेपदनिमित्ते? उत यत्र तदाश्रयमात्मनेपदं भवति तत्र? एवमर्थ पृच्छति--`यत्र' इत्यादि। अत्रैवं व्याख्यानम्--यत्र तदाश्रयमात्मनेपदं सम्भवति तत्र तावात्मनेपदनिमित्ते। किं पुनस्तद् यत्र तदाश्रयमात्मनेपदं भवति? इत्याह--`भावकर्मकर्त्तृकर्मकर्मव्यतीहारः, क्रमेश्च' इति। एषु हि स्तुक्रम्याश्रयमात्मनेपदं भवति। आदिशब्देन सर्गादिपरिग्रहः। निमित्तम्=कारणम्। न चाकुर्वत् कार्यं कारणं भवति। यत्र त्वकुर्वत्यपि कार्यं कुसूलस्य बीजादौ कारणमपि व्यपदेशः, तत्रासौ योग्यतयौपचारिकः। तस्माद्यत्र स्नुक्रमावाश्रित्यात्मनेपदं भवति, तत्रैव भावकर्मादौ तयोरात्मनेपदनिमित्तं मुख्यं विज्ञायते। `तेन' इत्यादि। यस्मादेवं यत्र तावाश्रित्यात्मनेपदं भवति तत्र तयोरात्मनेपदनिमित्तत्वम्। तेन सत्यात्मनेपदे प्रतिषेधोऽयं भवति, नासति। न ह्यसत्यात्मनेपदे तयोर्मुख्यमात्मनेपदनिमित्तत्वमुपपद्यते। ततश्च प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमित्यत्र यद्यप्यात्मनेपदयोग्यत्वात् स्नुक्रमावात्मनेपदस्य निमित्तव्यपदेशमासादयतः, तथापि प्रतिषेधो न भवति। न ह्यत्र मुख्यमात्मनेपदनिमित्तत्वम्; आत्मनेपदाभावात्।
`प्राप्नोषीष्टेति। आशिषि लिङ् सीयुट्, `भावकर्मणोः' (1.3.13) इत्यात्मनपदम्, `सुट्तिथोः' (3.4.107) इति सुट्, षत्वम्, ष्टुत्वम्। `प्रक्रंसीष्ट' इति। अत्र `प्रोपाभ्यां समर्थाभ्याम' (1.3.42) इति कर्त्तर्थात्मनेपदम्। `प्रस्नोष्यते' इति। `लृट् शेषे च' (3.3.13) इति लृट्। `प्रचिक्रंसते' [नास्तीदमुदाहरणं काशिकायाम्। `प्रचिक्रंसिष्यते' इत्येवास्ति] इति। सन्, `पूर्ववत्सनः' (1.3.62) इत्यात्मानेपदम्। `सर्वत्रैव' इत्यादि। युक्तं प्रक्रंसीष्ट, प्रस्नीषीष्टेत्यादौ स्नुक्रमोरात्मनेपदस्य निमित्तत्वम्, तस्मादात्मनेपदस्य विधानात्; प्रचिक्रंसत इत्यत्र तु कथं क्रमिरात्मनेपदस्य निमित्तम्, न ह्यत्र क्रमिमाश्रित्यात्मनेपदं भवति, किं तर्हि? सनन्तं धात्वन्तरम्? इत्याह--`सनन्तादपि' इत्यादि। सनन्तादपि हि यदात्मनेपदं विधीयते `पूर्ववत्सनः' (1.3.62) इत्यनेन। तेन तत्रापि पूर्ववदिति वचनात् पूर्व धातुस्वरूपमात्मनेपदस्य निमित्तमाश्रीयत इति। यद्यपि सनन्तादात्मनेपदं विधीयते तथापि क्रमेस्तत्र निमित्ताभावोऽस्त्येवेत्यभिप्रायः।
अथ निमित्तग्रहणं किमर्थमुपादीयते, न `आत्मनेपदे' इत्येवोच्यते? इत्यत आह--`निमित्तग्रहणम्' इत्यादि। सीयुट् आदिर्यस्य स सीयुडादिः, तदात्मनेपदे परं यस्मात् स तत्परः स्यप्रत्ययः, स परो यस्मात् स तत्परपरः सन्प्रत्ययः; तयोः प्रतिषेदो यथा स्यादित्यवमर्थं निमित्तग्रहणम्। तत्र सीयुडादेः प्रतिषेधार्थम्--प्रस्नोषीष्ट, प्रक्रंसीष्टेति; तत्परपरस्य च प्रतिषेधार्थम्--प्रचिक्रंसिष्यत इति; अत्र हि निमित्तग्रहणं न क्रियते, तदा `आत्मनेपदे' इत्येषा परसप्तमी विज्ञायेत। न च प्रस्नीषीष्ट, प्रक्रंसीष्टेत्यात्मनेपदे परत आर्धधातुकमस्ति तथा ह्यात्मनेपदस्यागमः सीयुट्, तदेकदेशात्वदात्मनेपदे परत उच्चार्थमाणः प्रतिषेधो न स्यात्। प्रचिक्रंसिष्यत इत्यत्र `आत्मनेपदे' इत्येतस्यां परसप्तम्यां विज्ञायमानायां `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात् स्येन व्यवधाने सति सन इट्प्रतिषेधो न स्यात् निमित्तग्रहणे तु सति भवति। अस्ति ह्यत्र सर्वत्र स्नुक्रमोर्यथायोगमात्मनेपदं प्रति निमित्तभावः। तस्मान्निमित्तग्रहणं कर्त्तव्यम्। प्रस्नवित्रीयत इत्यत स्नौतेरात्मनेपदं परं चोपलब्धम्; अतः स्नौतिरात्मनेपदसय निमित्तमिति प्रतिषेधेन भवितश्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह--इह प्रस्नवितेवाचरति' इत्यादि। क्वचित् `प्रस्नवितारमिवाचरति' इति पाठः, स तु नोपपद्यते। न हि कर्मणः क्यङ् विधीयते, किं तर्हि? सुबन्तात् कर्त्तुः। तस्मात् प्रमादकृतोऽयं पाठः। प्रस्नवितेवाचरतीति तॄजन्तात्, `कर्त्तुः क्यङ सलोपश्च' (3.1.11) इति क्यङ्, `रीङृतः' (7.4.27) इति रीङ्। क्यङन्तादातमनेपदं विधीयमानं ङित इत्येवं विधीयते। स च स्नौतिर्ङित् किं तर्हि? क्यङन्तः। तस्मात् क्यङन्तमेवात्मनेपदनिमित्तं न स्नौतिरिति न भवति प्रतिषेधः।
`क्रमेस्तु' इत्यादि। निमित्तग्रहणात् सत्येवात्मनेपदे प्रतिषेधेन भवितव्यम्, नासतीति। कर्त्तरि कृति प्रतिषेधो न प्राप्नोतीत्युपसंख्यायते। `प्रक्रान्ता, उपक्रान्ता' इति। `प्रोपाभ्यां समर्थाभ्याम्' (1.3.42) इति प्रोपाम्यामुपसुष्टात् क्रमेरात्मनेपदवषानादिह क्रमेरात्मनेपदस्य विषयः। `आत्मनेपदविषयः' [आत्मनेपदविषयात्--मूलम्] इति। आत्मनेपदं विषयो यस्य स आत्मनेपदविषयः। `प्रक्रमितव्यम्, उपक्रमितव्यम्' इति। `तयोरेव कृत्यक्तखलर्थाः' (3.4.70) इति भावे कर्मणि कृत्यः। `निष्क्रमिता' इति। `इदुदुपषस्य' (8.3.41) इति विसर्जनीयस्य षत्वम्। निष्फूर्वात् क्रमेरात्मनेपदस्याभावादिहात्मनेपदस्य वषयो न भवति। अथ प्रसुस्नूषति, प्रस्नुतः, प्रस्नुतवानित्यत्र कस्मान्न भवति, न ह्यत्र स्नौतिरात्मनेपदविषयः? इत्यात आह--`स्नौतेः' इत्यादि। ननु `श्रयुकः किति' (7.2.11), `सनि ग्रहगुहोश्च' (7.2.12) इतीट्प्रतिषेधस्य धात्वन्तरमुगन्तमवकाश इति परत्वादिदैवात्र भवितव्यम्, न प्रतिषेधेन? नैतदस्ति; उक्तं हि पुरस्तात् प्रतिषेधकाण्जस्य बलीयस्त्वात् प्रयोजनमिण्मात्रस्थानाश्रितविशेषविधानस्य प्रतिषेधो यथा स्यादिति।।
37. ग्रहोऽलिटि दीर्घः। (7.2.37)
`ग्रह उत्तरस्य' `ग्रह' इति पञ्चमीं दर्शयति। यद्येवम्, तदेङ्ग्रहणं कर्त्तव्यम्? न कर्त्तव्यम्; प्रकृतमेव तदनुवर्त्तते। तद्धि प्रथमान्तनिर्दिष्टम्, षीष्ठीनिर्देशेन चेहार्थः? नैष दोषखः; `ग्रहः' इत्येषा पञ्चमीति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति; `तस्मादित्युत्तरस्य' (1.1.67) इति वचनात्। `जगृहिव, जगृहिम्' इति। ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्।
तथा ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह--`प्रकृतस्यैव' इत्यादि। आर्धधातुकस्येति यः प्रकृत इट् तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात्। चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते। तत्सहचरित इट् चिण्वदित्युच्यते। `ग्राहित' इति। `अनद्यतने लुट्' (3.3.35), `स्यतासी लृलुटोः' (3.1.33) इति तासिः, भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्, `लुट प्रथमस्य' (2.4.85) इत्यादिना डादेशः, टिलोपः, `स्यसिच्सीयुट्तासिषु' (6.4.62) इत्यादिनेट् चिण्वद्भावाद्वृद्धिः। अथ जरीगृहिता, जरीगृहीतुमित्यत्र यङन्तात् तृनि तुमुनि च यलोपाल्लोपयोः कृतयोर्दीर्घः कस्मान्न भवति? उत्तरसूत्रे वाग्रहणस्योभयोरपि योगयोः शेषभूतत्वाद्व्यवस्थिविभाषाविज्ञानात्। अथ वा--विहितविशेषणपक्षोऽत्र व्याख्यायते। ग्रहेर्थो विहित इट् तस्य दीर्घो भवति। न चात्र ग्रहेर्विहित इट् कुतस्तर्हि? यङ्न्तात्। तस्मान्नेह दीर्घस्य प्रसङ्गः। अथ `ग्रह ईडलिटि' इत्येवं कस्मान्नोक्तम्, किं दीर्घग्रहणेन? नैवं शक्याम्; एवं सतीट्कार्यमीटो न स्यात्, ततश्चाग्रहीदित्यत्र `इट ईटि' (8.2.28) इति सिचो लोपो न स्यात्, `नेटि' (7.2.4) इति प्रतिषेधश्च; इह चाग्रहीढ्वम्, अग्रहीध्वमित्यत्रेटः `विभाषेटः' (8.3.79) इति मूर्घन्यश्च; दीर्घ इट आदेशे सति तस्य स्थानिवद्भावदिट्कार्यमुपपद्यत इति दीर्घं एव विधीयते।।
38. वॄतो वा। (7.2.38)
1. `वॄ वरणे' (धा.पा.1490) इत्यस्येदं ग्रहणं वा स्यात्?, 2. अथ वा--अस्यान्येषाञ्च ऋकारान्तानाम्?, 3. उत्त तस्यान्येषाञ्च ऋकारान्तानाम्?, 4. आहोस्विद् वॄङवृञोश्चान्येषाञ्च ऋकारान्तानाम्? अथ वा--5. तयोश्च ऋकारान्तानाम्? तत्र यदि प्रथमः पक्ष आश्रितः स्यात् तदा यणादेशं कृत्वा `व्रः' इति निर्देशं कुर्यात्, यथा--`ग्रो यङि' (8.2.20) इति। अथ यदि द्वितीयः पक्षः, तदा `दृ' इत्येतस्य ग्रहणं न कुर्यात्; ऋकारान्तग्रहणेनैव तद्ग्रहणस्य सिद्धत्वात्। अथ तृतीयः पक्षः, `ऋतस्य संयोगादेः' (7.2.43) इत्यत्र ऋतशब्देन ह्रस्वस्य ग्रहणं न कुर्यात्, इदमेव हि तत्र ऋकारग्रहणमनुवर्त्तिध्यते। अथ चतुर्थः पक्षः, वृङ्वॄञो प्रथग्ग्रहणं न कुर्यात्; ऋकारान्तग्रहणेनैतद्ग्रहणस्य सिद्धत्वात्। तस्मात् पारिशेष्यात् पञ्चमोऽत्र पक्षोऽभिमत इति मत्वाऽऽह--`वृङ्वृञोः सामान्येन ग्रहणम्' इत्यादि। सामान्येन ग्रहणमिति विशेषानुपादानात्।
`वॄत इति किम्' इति। एवं मन्यते--`उर्षा' इत्येवं वक्तव्यम्, एवमप्युच्यमाने वृङ्वृञोॠकारान्तयोः सवर्णग्रहणादृकारान्तानाञ्च ग्रहणं भविष्यति। एवमप्युच्यमाने सत्यतिप्रसङ्गो भवतीति दर्शयन्नाह--`करिष्यति, हरिष्यति' इति। अत्र `ऋद्धनोस्ये' (7.2.70) इतीट्।।
39. न लिङि। (7.2.39)
`वरिषौष्टेत्यादौ [`विवरिषीष्ट'--इति काशिकायामुदाहरणम्]`लिङ्सिचोरात्मनेपदेषु' (7.2.42) इतीट्। `विस्तरिषीष्ट' इति। कर्मण्यात्मनेपदम्।।
40. सिचि च परस्मैपदेषु। (7.2.40)
`प्रावारिष्टाम्' इति। `तस्थस्थमिपां तान्तन्तामः' (3.4.101) इति तसस्ताम्, सामान्यविहित इट् सिचि वृद्धिः। `प्रावारिषुः' इति। `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्। वृङ उदाहरणं नोपन्यस्तम; तस्य परस्मैपदासम्भवात्। `प्रावरिष्ट, प्रावरीष्ट' इति। `लिङ्सिचोरात्मनेपदेषु' (7.2.42) इतीट्।।
41. इट् सनि वा। (7.2.41)
`वुवूर्षते' इति। `इको झल्' (1.2.9) इति सनः कित्त्वम्, `अज्झनगमां सनि' (6.4.16) इति दीर्घः, `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्वम्, रपरत्वम्। अतेह कस्मान्न भवति--चिकीर्षति, जिहीर्षतीति, अस्ति दीर्घत्वे कृते प्राप्तिः? इत्यत आह--`चिकीर्षति, जिहिर्षति' इति। गतार्थम्।।
42. लिङ्सिचोरात्मनेपदेषु। (7.2.42)
वॄत उदात्तत्वादिटि प्राप्ते विकल्पार्थ आरम्भः। `आत्मनेपदेषु' इति परसपतमीयम्। सिचश्चैतद्वि शेषणम्। यद्येवम्, लिङ् विशेषितो न स्यात्, ततश्च लिङ् परस्मैपदेष्वपि प्रसज्येत? नैतदस्ति; `वलादेः' (7.2.35) इत्यधिकारात्, लिङ्श्च परस्मैपदेषु यासुडादित्वाभावात्। `आत्मनेपदपरे' इति। आत्मनेपदं परं यस्मात् स तथोक्तः। एतच्च सिजित्यनेनैव सम्बध्यते, न लिङित्यनेम; सिचमेव प्रत्यात्मनेपदग्रहणस्य विशेषणभावात्। `वॄषीष्ट' इति। `उश्च' (1.2.12) इति कित्त्वाद्गुणाभावः। `आस्तीर्षीष्ट'इति। पूर्ववत् कित्त्वदीर्घत्वादिः। `अवृत' इति। `ह्रस्वादङ्गात्' (8.2.27) इति सिचो लोपः।।
43. ऋतश्च संयोगादेः। (7.2.43)
ऋकारान्तानामनुदात्तत्वात् प्रतिषेधे प्राप्ते विकल्पार्थ वचनम्। `ध्वृषीष्ट' इति। `ध्वृ हूर्च्छने' (धा.पा.139)। `भावकर्मणोः' (1.3.13) इत्यात्मनेपदम्। एवमन्यत्राप्यात्मनेपदं वेदितव्यम्। पूर्ववत् कित्त्वाद्गुणाभावः। `स्मृषीष्ट' इति। `स्मृ चिन्तायाम् (धा.पा.933)।
`च्योषीष्ट' इति। `च्युङ् छ्यङ् [नास्ति--धा.पा.] ज्युङित्यादि। (धा.पा.955,956)। अत्र ङित्त्वात् कर्त्तर्यात्मनेपदम्। `अकृषत' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः।
अथ संस्कृषीष्ट समस्कृतेत्यत्र कस्मान्न भवति, भवति हि करोतिरत्र `संपर्युपेभ्यः करोतौ भूषणे' (6.1.137) इति सुटि कृते संयोगादिः? इत्याह--`संस्कृषोष्ट' इत्यादि। `एकाच उपदेशेऽनुदात्तात्' (7.2.10) इत्यत उपदेशग्रहणमनुवर्त्तते, तेनोपदेशावस्थायां यः संयोगादिस्तत एवैतेन भवितव्यम्, न च करोतिरुपदेशावस्थायां संयोगादिः, किं तर्हि? तत उत्तरम्, अतो न भवति। `अभक्तत्वाच्च' इत्यादि। संस्कृषीष्टेत्यत्रायं परीहारः, न समस्कृतेत्यत्र। अम्र ह्यडागमः `तद्भक्तस्तद्ग्रहणेन गृह्यते' (व्या.प.20) इति अटोऽप्यङ्गग्रहणेन ग्रहणादिति `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' (व्या.प.21) इति सुटोऽप्यङ्गग्रहणेन ग्रहणात् करोतिरपि संयोगादिर्भवत्येव। अङ्गाधिकाराच्चाङ्गावयवोऽत्रि संयोगोऽपि गृह्यते; प्रत्यासत्तेः। न च संस्कृषीष्टेत्यत्राङ्गावयवः संयोगादिः, यश्चाङ्गावयवो नासौ संयोगे भवति, तदिह न भवतीट्प्रसङ्गः। अत्र `सम्पुकानां सत्वम्' (वा 936) इति वचनात् समो मकारस्य सकारः, पूर्वस्यानुनासिकः। समस्कृतेत्यत्र पूर्ववत् सिचो लोपः। चकार आत्मनेपदानुकर्षणार्थः, तेनोत्तरत्र विधिरविशेषेम भवति; चानुकृष्टस्योत्तरत्राननुवृत्तेः।।
44. स्वरतिसूतिसूयति घूञूदितो वा। (7.2.44)
`स्वृ शब्दोपतापयोः' (धा.पा.932), `षूङ् प्राणिगर्भविमोचने' (धा.पा.1031) इत्यादादिकः, `षूङ् प्राणिप्रसवे' (धा.पा.1132) इति दैवादिकः। `घूञ् कम्पने' (धा.पा.1255,1487,1385) इति स्वादिः, क्र्यादिः, चुरादिश्च। तत्र `एकाचः' (7.2.10) इत्यधिकारादाद्ययोर्ग्रहणम्, नेतरस्य। ऊदितः--`गाहू विलोडने (धा.पा.649), `गुपू रक्षणे' (धा.पा.395) इत्यादयः। एतेषां स्वरतेश्चानुदात्तत्वात् प्रतिषेधे प्राप्ते, इतरेषामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्। `विगाढा' इति। पूर्ववङ्ढत्वादि विधेयम्।
अथ वावचनं किमर्थम्? यावता `इट् सनि वा' (7.2.41) इत्यतो वाग्रहणमनुवर्त्तते? इत्याह--`वेत्यनुवर्त्तमाने' इत्यादि। तद्धि वाग्रहणं लिङ्सिज्भ्यां सम्बद्धमिति तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तस्मात् पूर्ववाग्रहणसम्बद्धयोर्लिङ्सिचोर्निवृत्त्यर्थमन्यदिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तिः स्यात्। तस्मात् पूर्ववग्रहणसम्बद्धयोरलिङ्सिचोर्निवृत्त्यर्थमन्दिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तौ स्वरतिग्रहण मनर्थकमापद्यते, पूर्वेणैव विकल्पस्य सिद्धत्वात्? नैतदस्ति; वचनप्रामाण्यात् स्वरतिग्रहणं नित्यार्थं विज्ञायते। अथ वा--स्वरितग्रहणात् `वा' इत्येतन्निवर्त्तते। अथ सूतिसूयत्योर्विकरण निर्देशः किमर्थः, न `सू' इत्येबोध्येत? इत्यत आह--`सूतिसूयत्योः' इत्यादि। `सू' इत्युच्यमाने `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति `सू प्रेरणे' (धा.पा.1408) [`षू प्रेरणे'--धा.पा.] इत्यस्यैव ग्रहणं स्यात्। अतस्तन्निवृत्त्यर्थो विकरण निर्देशः करणीयः। यद्येतत् प्रयोजनम्, सूङिति निर्देशः कर्त्तव्यः? नैवं शक्यम्; एवं हि सति निर्देशे क्रियमाणे `लुग्वकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' (व्या.प.50) इति सूयतेरेव ग्रहणं स्यात्, न सूतेः। अतस्तन्निवृत्तये विकरणनिर्देशः। अस्याः परिभाषाया अस्तित्वेऽयमेव निर्देशो ज्ञापकः। अस्यां ह्यसत्यां `सूङ्' इति निर्देशं कुर्यात्। अथ `धूञ्' इति सानुबन्धकस्य ग्रहणं न क्रियेत, ततो निरनुबन्धकपरिभाषया (व्या.पा.53) `षू विधूनने' (धा.पा.1398) इत्यस्यैव ग्रहणं स्यात्, एतच्चानिष्टम्। अतो विधूननार्थस्य निवृत्त्यर्थः सानुबन्धकनिर्देशः।
`स्वरतेः' इत्यादि। अस्य विकल्पस्यावकाशः--स्वरिता, स्वर्त्तेति; ऋद्धनीः स्ये' (7.2.70) इत्यस्यावकाशः--करिष्यति, हरिष्यतीति; स्वरतेरस्योभयप्रसङ्गे `ऋद्धनोः स्ये' (7.2.70) इत्येतद्भवति विप्रतिषेधेन--स्वरिष्यति इति।
`किति तु प्रत्यये' इत्यादि। `श्रयुकः किति' (7.2.11) इत्यस्यावकाशः--सूतः, सूतदानि, अस्य विकल्पस्यावकाशः--स्वर्त्ता, स्वरितेति; सोता सविता; धोता, धवितेति; इहोमयप्रसङ्गे `श्रयुकः किति' (7.2.11) इति नित्यं [नित्यः--काशिका] प्रतिषेधो भवति पूर्वविप्रतिषेधेन--स्वृत्वा, सूत्वा, धूत्वा'। एतच्च पुरस्तात् प्रतिषेधकाण्डविधानादेव सिद्धम्। उक्तं हि प्राक् पुरस्तात् प्रतिषेधविधानस्य प्रयोजनम्--इण्मात्रस्यानाधितदिधानविशेषस्य प्रतिषेधो यथा स्यादिति। तदेतत् पुरस्तात् प्रतिषेधविधानं पूर्वदिप्रतिषेधेन समानफलकत्वादिह पूर्वविप्रतिषेधशब्देनोक्तम्।।
45. रधादिभ्यश्च। (7.2.45)
`रथ हिंसासंराद्ध्योः' (धा.पा.1193), `णश अदर्शने' (धा.पा.1194,) `तृप प्रीणने' (धा.पा.1195), `दृप हर्षणमोहनयोः' (धा.1196),[`हर्षमोहनयो'--धा.पा.] `द्रुह जिघांसायाम्' (धा.पा.1197), `मुह वैचित्त्ये' (धा.पा.1198), `ण्णुह द्धद्गिरणे' (धा.पा.1199) ष्णिह प्रीतौ' (धा.पा.1200)--इत्येते रधादयः। एषु तृप्यतिदृप्यत्योरनुदात्तत्वादिट्प्रतिषेधे प्राप्ते शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्। `नंष्टा' इति। `मस्जिनशोझंलि' (7.1.60) इति नुम्। व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। `त्रप्तः' इति। `अनुदात्तस्य चर्दुपधस्यान्यतस्याम्' (6.1.59) इत्यम्, यणादेशः। `तर्पिता' इति। लघूपधगुणः। द्रोग्क्षा, मेग्धा, स्नोध्या, स्नेग्धेतीडभावपक्षे `वा द्रुहमुहण्णुहण्णिहाम्' (8.2.33) इति घत्वम्, `झषस्तथोर्षोऽधः' (8.2.40) इति धत्वम्, `झलां जश् झशि' (8.4.53) इति जश्त्वं गकारः। `द्रोढा, ञोढा, स्नोढा स्नेढा' इति। पूर्ववङ्ढत्वादि विधेयम्।
`क्रादिनियमाल्लिटि रधादिभ्यः परत्वाद्विकल्पं केचिदिच्छन्ति' इति। पक्षे ररध्व, ररध्मेत्याद्यपि यथा स्यात्। `अपरे पुनः' इत्यादि। एतदेव हि पूर्वविधेरिट्प्रतिषेधविधानस्य प्रयोजनम्--प्रतिषेधस्य बलीयस्त्वं यथा स्यादिति। तस्मात् प्रतिषेधनिययमस्या बलीयस्त्वान्नित्यमिटा भवितव्यम्। तत्र पूर्वेषामयमभिप्रायः--पूर्वविधेरिट्प्रतिषेधविधानसामार्थ्यात् प्रतिषेधस्य बलीयस्त्वं भवति, न तु प्रतिषेधनियमस्येति। इतरेषामयमभिप्रायः--प्रतिषेधस्य बलीयस्त्वात् तद्धर्मस्य नियमस्यापि बलीयस्त्वं भवति, न तु प्रतिषेधस्यैवेति तस्य बलीयस्त्वे सति तत्प्राप्तिः, तेन नित्यमिटा भवितुं युक्तमिति। प्रतिषेधनियमस्तु स एव क्रादिनियमः। `ररन्धिव, ररन्धिम' इति। `रधिजभोरचि' (7.1.61) इति नुम्।।
46. निरः कुषः। (7.2.56)
`कुष निष्कर्षे' (धा.पा.1518)। अस्योदात्तत्वान्नित्यामिटि प्राप्ते विकल्पार्थं वचनम्। `निष्कोष्टा' इति। `शर्परे विसर्जनीयः' (8.3.35) इत्यस्यानुवृत्तेः `इदुदुपधस्य चाप्रत्ययस्य' (8.3.41) इति विसर्जनीयस्य षत्वम्।
ननु च सकारान्तोऽयमुपसर्गः, तथा प्रादिषु निसिति पठ्यते, न तु निरिति, तस्मात् `निसः' इति वक्तुं युक्तम्, न निर इति; यथा--निसस्तपतावनासेवने' (8.3.102) इति, तत् किमर्थं तिर इति निर्देशः? इत्याह--`निसः' इति। `वक्तव्ये' इत्यादिना रेफान्तस्यास्तित्वज्ञापने प्रयोजनमाह। `तेन' इत्यादि। स्यादेतत्। निस इति रुत्वे कृते लत्वं भविष्यतीत्याह--`निसो हि' इत्यादि। `निलयनम्' इति। अयतेर्ल्युटि रूपम्।।
47. इण्निष्ठायाम्। (7.2.47)
किमर्थमिडिति वर्त्तमाने पुनरिङ्ग्रहणं क्रियते? इत्याह--`इड्ग्रहणं नित्यार्थम्' इति। असतीङ्ग्रहणे हि विकल्पस्य प्रकृतत्वात् पाक्षिक इडविधिः स्यात्। तस्मान्नित्यर्थमिङ्ग्रहणं कर्त्तव्यम्। ननु च सिद्धा विभावा पूर्वसूत्रेण, आरंभसामर्थ्यादेव नित्योऽयं विधिर्भवतिष्यति? इत्याह--`आरम्भो हि' इत्यादि। पूर्वसूत्रेणेटो विकल्पितत्वान्निष्ठायां, `यस्य विभाषा' (7.2.15) इति प्रतिषेधे प्राप्ते नित्योऽयमारम्भः। तत्र यदीङ्ग्रहणं न क्रियेत, तदा तस्यैव प्रतिषेधस्यायमारम्बो बाधकः स्यात्, ततश्च विकल्प एव स्यात्, न नित्यो विधिः। तस्मान्नित्यार्थमिङ्ग्रहणं कर्त्तव्यम्। यदि हि नित्यार्थमिङ्ग्रहणं क्रियेत तदा तेन विकल्पस्य निवर्त्तितत्वादुत्तरत्रापि नित्य एव विधिः स्यादित्यत आह--`तत्रेव' इत्यादि। न चानेनेङ्ग्रहणेन विकल्पः शक्यते निवर्त्तयितुम्; तस्य स्वरितत्वादिङ्ग्रहणसामर्थ्यात्। अनुवर्त्तमानेऽपि वाग्रहणे नित्योऽयं विधिर्भवति। या तु तस्यैव विकल्पस्यानुवृत्तिः, सोत्तरार्था। तेनोत्तरत्र विकल्प एव।।
48. तीषसहलुभरुषरिषः। (7.2.48)
`इषु इच्छायाम्' (धा.पा.1351),[`इष'--धा.पा.] `षह मर्षणे' (धा.पा.852); `लुभ गार्द्ध्ये (धा.पा.1238), `लुभ विमोहने' (धा.पा.1305)--द्वयोरपि ग्रहणम्; विशेषानुपादनात्। `रुष रोषे' (धा.पा.1670), `रुष रिष हिंसायाम्' धा.पा.1230,1231)। सर्व एषैत उदात्ता इति नित्यामिटि प्राप्ते विकल्पार्थोऽयमारम्भः।
`तदर्थम्' इति। इच्छार्थस्यैव विकल्पो यथा स्यादितरयोर्म भूदित्येवमर्थम्। ये तूदितं न पठन्ति, ते `वा' इति प्रकृतस्य व्यवस्थितविभाषाविज्ञानात् सहिना भौवादिकेन साहचर्याद्वा इच्छार्थस्यैव विकल्पेन भविष्यति, नेतरयोरिति वर्णयन्ति। `सोढा' इति। ढत्वष्टुत्वढलोपेषु कृतेषु `सहिवहोरोदवर्णस्य' (6.3.112)
49. सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्। (7.2.49)
इवन्तानामिति। `दिवु' (धा.पा.1107), `सिवु' (धा.पा.1108) इत्येवमादीनाम्। `ऋधु वृद्धौ' (धा.पा.1245 `भ्रस्ज पाके' (धा.पा.1284), `दम्भे' [`दम्भने'--धा.पा.] (धा.पा.1270), `श्रिञ्सेवायाम्' (धा.पा.897), `स्वृ शब्दोपतापयोः' (धा.पा.932), `यू मिश्रणे' [`मिश्रणेऽमिश्रणे च'--धा.पा.] (धा.पा.1033), `ऊर्णु आच्छादने' (धा.पा.1039), `श्रिञ् भरणे' (?), मारणतीषणनिशामनेषु ज्ञपिर्ण्यन्तः। `षणु दाने' (धा.पा.1464), `वन षण सम्भक्तौ' (धा.पा.463,444)--द्वयोरपि ग्रहणम्; विशेषानुपादानात्। अत्र भ्रस्जेरनुदात्तत्वात्, ल्वुयुर्णुभृञां चोगन्तत्वात् `सनि ग्रहगुहीश्च' (7.2.12) इति प्रतिषेधे प्राप्ते, शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पोऽयमारभ्यते। `दुद्यूषति' इति। दिवेः सन्, `हलान्तच्च' (1.2.10) इति सनः कित्त्वम्, `च्छ्वो शूडनुनासिके' (6.4.19) इत्यूठि यणादेशः, द्विर्वचनम्--`द्यूष' इत्येतस्य, `हलादिः शेषः' (7.4.60) इति चर्त्वम्--धकारस्य दकारः।
`विभ्रज्जिषति' इति। `झलां जश् झशि' (8.4.53) इति सकारस्य दकारः, `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वम्--दकारस्य जकारः। `बिभर्क्षति' इति। भ्रस्जो रोपधाया रमन्यतरस्याम्' (6.4.47) इत्यकारात् परो रमागमः `रोपधयोः' इति षष्ठीनिर्देशाद्रेफस्योपधायाश्च सकारस्य निवर्त्तकः, `चोः कुः' (8.2.30) इति कुत्वम्, `इण्कोः' (8.3.57) इति`आदेशप्रत्यययोः' (8.3.59) इति षत्वम्।
`घिप्सति, घीप्सति' इति। `दम्भ इच्च' (7.4.56) इतीत्त्वमीत्त्वञ्च, `खरि च' (8.4.55) इति चर्त्वम्, भकारस्य पकारः, पूर्ववदभ्यासलोपः, `हलान्ताच्च' (1.2.10) इति कित्त्वादनुनासिकलोपः।
`उच्छिश्रीषति' इति। `इको झल्' (1.2.9) इति कित्त्वम्, `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वम्, द्विर्वचनमभ्यासकार्यम्। `आदेशप्रत्ययोः' (8.3.59) इति षत्वम्, दकारस्य चुत्वम्--चकारः। `शश्छोऽटि' (8.4.63) इति शकारस्य च्छकारः।
`सिस्वरिषति' इति। द्विर्वचनम् `स्वृ' इत्येतस्य, `उरत्' (7.4.66) इत्यत्त्वम्, रपरत्वञ्च। `सुस्वूर्षति' इति। पर्ववद्दीर्घः, `उदोष्ठ्यपूर्वस्य (7.1.102) इत्युत्त्वम्, रपरत्वम्, `हलि च' (8.2.70) इति दीर्घः, द्विर्वचनम्--`स्वूर्ष' इत्येतस्य, अभ्यासकार्यम्, `आदेशपरत्ययोः' (8.3.59) इति षत्वम्।
`यियिविषति' इति। `ओः पुयण्ज्यपरे' (7.4.80) इत्यभ्यासस्येत्त्वम्। `प्रोर्णुनूषति' इति। `अजादेद्वितीयस्य' (6.1.2) इति वचनाद्द्वितीयस्यैकाचः `नुस' इत्येतस्य द्विरुक्तिः, रेफस्य पूर्वन्न द्विर्वचनम्।
`प्रोर्णुनविषति' इति। इट, पक्षे `विभाषोर्णोः' (1.2.3) इति यदा ङित्त्वं तदोवङ्, अन्यदा तु गुणः.
`भुञित्येतस्य भौवादिकस्य ग्रहणम्' इति। अथ ङुभृञित्यस्य जौहोत्यादिकस्य ग्रहणं कस्मान्न भवति? इत्याह--`शपा निर्देशात्' इत्यादि। यदि जौहोत्यादिकस्य भृञो धारणपोषणार्थस्य ग्रहणमभिमतं स्यात्, तदा `भृ' इत्येवं निर्देशं कुर्यात्, न तु `भर' इति शपानिर्देशम्, कृतश्च शपा निर्देशः, तस्माद्भौवादिकस्य ग्रहणमिति गम्यते। `बुभूर्षति' इति। पूर्वदुत्त्वदीर्घत्वे।
`ज्ञीप्सति' इति। `ज्ञा' इत्येतस्माण्णिच्, `अर्त्तिह्रौ' इत्यादिना पुक्, पूर्वदीत्त्वाभ्यासलोपौ। `सिषासति' इति। `जनसनखनां सञ्झलोः' इत्यात्वम्।
`केचिदत्र' इत्यादि। केचिदिति वचनात् केचिन्न पठन्तीत्युक्तं भवति। ये तु न पठन्तितेऽत्र तनिपतिदरिद्राणामुपसंख्यानं कुर्वन्ति। `तितंसति, तितांसति' इति। `तेनोतेर्विभावा' (6.4.17) इति पक्षे दीर्घः। `पित्सति' इति। `सनिमीमा' (7.4.54) इत्यादिनेसादेशः, अभ्यासलोपः, `स्कोः' (8.2.29) इत्यादिना सलोपः। `दिदरिद्रिषति, दिदरिद्रासति' इति। `दरिद्रातेरार्धधातुके' (वा.789) इत्यादिना विकल्पेनाकारलोपः।।
50. क्लिशः क्त्वानिष्ठयोः। (7.2.50)
`क्लिष्ट्वा' इति। व्रश्चादिसूत्रेण (8.2.36) षत्वम्। `क्लिशित्वा' इति। `रलो व्युपधाद्धलादेः संश्च' (1.2.26) इति कित्त्वम्। `क्त्वाप्रत्यये विकल्पः सिद्ध एव' इति। ऊदित्वात् `स्वरति' (7.2.44) इत्यादिना यदि कत्वाप्रत्यये विकल्पः सिद्ध एव, तत्किमर्थं क्त्वाग्रहणम्? इत्याह--`क्लिश उपताप इत्यस्य तु' इत्यादि। `नित्यमिडागमः प्राप्नोति' इति। उपतापार्थस्य क्लिशेरुदात्तत्वात्। `तदर्थम्' इति। उपतापार्थो यः क्लिशिस्तदर्थम्। सोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। अथ वा--उपतापर्थस्य क्लिशेर्यो नित्यमिडागमः प्राप्नोति तदर्थम्, तन्निवृत्यर्थ मित्यर्थः; अर्थशब्दस्य निवृत्तिवचनत्वात्।।
51. पूङश्च। (7.2.51)
उगन्तत्वात् `श्रयुकः किति' (7.2.11) इतीट्प्रतीषेधे प्राप्ते कत्वानिष्ठयोः पक्षे प्राप्त्यर्थं वचनम्। `पवित्वा, पक्तिः, पवितवान्' इति। `पूङः क्त्वा च' (1.2.22) इति कित्त्वप्रतिषेधाद्गुणो भवत्येव। `पूङः' इति सानुबन्धकस्य ग्रहणं पूञो निवृत्त्यर्थम्।।।
52. वसतिक्षुधेरिद। (7.2.52)
`वस निवासे' (धा.पा.1005), `क्षुध बुभुक्षायाम्' (धा.पा.1190)--अनयोरनुदत्तत्वादिट्प्रतिषेधे प्राप्ते क्त्वानिष्ठयोरिङ्विधनार्थ वचनम्। `उषित्वा' इति। क्त्वा, इट्, `न क्त्वा सेट्' (1.2.18) इति कित्त्वप्रतिषेधे प्राप्ते `मुडमृव' (1.2.7) इत्यादिना कित्त्वम्, वच्यादिसूत्रेण (6.1.15) यजादित्वात् सम्प्रसारणम्, `शासिवसिचसीनां च' (8.3.60) इति षत्वम्। `क्षुधित्वा' इति। अत्रापि `रलो व्युपधाद्धलादेः संश्च' (1.2.26) इति पक्षे कित्त्वम्।
`वसतीति विकरणनिर्देशः' इत्यादि। `विकरणनिर्देशो धातुनिर्देशार्थे एव' इत्युक्तम्। अथ `वस आच्छादने' (धा.पा.1023) इत्यस्य निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चीदयेत्, तं प्रत्याह--`वस्तेः' इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? इति यश्चोदयेत्, तं प्रत्याह--`वस्तेः' इत्यादि। अथ वावस्तः, वावस्तवानित्यत्र यङ्लुङ्निवृत्त्यर्थः कस्मान्न विज्ञायते? विहितविशेषणपक्षविज्ञानादपि यङ्लुङ्निवृत्तिः शक्यते कर्त्तुमित्यभिप्रायः। अथेडित्यनुवर्त्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह--`पुनरिङ्ग्रहणं नित्यार्थम्' इति। पूर्वकमिङ्ग्रहणं विकल्पेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्। तस्मात्तन्निवृत्त्यर्थ पुनरिङ्ग्रहणं कृतम्।।
53. अञ्चेः पूजायाम्। (7.2.53)
`अञ्चिताः' इति। पूजिता इत्यर्थः। `मतिबुद्धिपूजार्थेभ्यश्च' (3.2.177) इति क्तप्रत्ययः। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपो न भवति; `नाञ्चेः पूजायाम्' (6.4.30) इति प्रतिषेधात्। `अस्य' इति। `क्तस्य च वर्त्तमाने' (2.3.67) इति षष्ठी।।
54. लुभो विमोहने। (7.2.54)
`लुभित्वा, लोभित्वा' इति। `रलो च्युपधात्' (1.2.26) इत्यादिना पक्षे कित्ताद्गुणाभावो भवत्येव।
`गार्धेये यथाप्राप्तमेव' इति। क्वाप्रत्यये विकल्पः। निष्ठायां `यस्य विभाषा' (7.2.15) इति नित्यः प्रतिषेध इति।।
55. जॄव्रश्च्योः क्त्वि। (7.2.55)
`जरीत्वा, जरित्वा' इति। `जॄ वयोहानौ' (धा.पा.1494) क्रैयादिकः। `वृतो वा' (7.2.38) इति पक्षे दीर्घः। यस्तु `जॄष वयोहानौ' (धा.पा.1130) इति विवादौ पठ्यते, तस्य सानुबन्धकत्वादिह ग्रहणं नास्तीति तस्य जौर्त्वेत्येवं भवति। `व्रश्चित्वा' इति। `ओ व्रश्चू छेदने' (धा.पा.1292)। `न क्त्वा सेट्' (1.2.28) इति प्रतिषेधाद् ग्रहिज्येत्यादिसूत्रेण (6.1.16) सम्प्रसारणं न भवति; किति तसय विधानात्।
अथ क्त्वाग्रहणं किमर्थम्, यावता `क्लिशः क्त्वानिष्ठयोः' (7.2.50) इत्यत एव कत्वाग्रहणमनुवर्त्तत एव? इत्याह--`क्त्वाग्रहणम्' इत्यादि। तद्धि क्त्वाग्रहणं निष्ठ्या सह सम्बद्धम्, अतस्तदनुवृत्तौ तस्या अध्यनुवृत्तिः स्यात्। एवं च सति निष्ठायामपि स्यात्। तस्मात् निष्ठानिवृत्त्यर्थमन्यदिह क्त्वाग्रहणं क्रियते।।
56. उदितो वा। (7.2.56)
`शान्त्वा' इति। `शमु उपशमे' (धा.पा.1201), `तमु काङ्क्षायाम्' (धा.पा.1202), `दमु उपशमे' (धा.पा.1203), `भ्रमु चलमे' (धा.पा.850), `क्रमु पादविक्षेपे' (धा.पा.473)। अनिट्पक्षे `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इति दीर्घः।
वाग्रहणं विस्पटार्थम्। उदितां ह्युदात्तत्वादिट् सिद्ध एव, तत्रारम्भसामर्थ्यादेव विकल्पेन विधिर्विज्ञास्यते। उत्तरार्थ चावश्यं वाग्रहणं कर्त्तव्यम्, तद्धिस्पष्टार्थमिहैव क्रियते।।
57. सकेऽसिचि कृतचृतच्छृदतृदनृतः। (7.2.57)
`कृती छेदने' (धा.पा.1435) इति तौदादिकः, `कृती वेष्टने' (धा.पा.1447) इति रौधादिकः--विशेषानुपादनाद्द्वयोरपि ग्रहणम्। `चृती हिंसासंग्रन्थयोः' [`हिंसाश्रन्थनयोः'--धा.पा.] (धा.पा.1324), उ छृदिर् दीप्तिदेवनयोः' (धा.पा.1445), `उ तृदिर् हिंसादानयोः' [`हिंसाऽनादरयोः'--धा.पा.] (धा.पा.1446)। उकारौ `उदितो वा' (7.2.56) इति विशेषणार्थो। इकाररेफावपि `इरितो वा' (3.1.57) इति विशेषणार्थादेव। `नृती गात्रविक्षेपे' (धा.पा.1116)। सर्वेवामेषानुदात्तत्वान्नित्यमिटि प्राप्ते सिचोऽन्यत्र सकारादौ विकल्पार्थं वचनम्। `से' इत्येतस्याकारोच्चारणमतन्त्रम्; अविवक्षितत्वात्। तेन स्येऽपरि विकल्पो भवति। अतन्त्रत्वं तु पुनरस्य `असिचि' इति सिचः प्रतिषेधाद्विज्ञेयम्। यदि ह्यतन्त्रमकारोच्चारणम्, एवं सति `स्वसिचि' इत्येवं कस्मान्नोक्तम्? सन्देहभयात्। एवं ह्युच्यमाने `स्ये सिचि च' इत्येषोऽप्यर्थ आशङ्क्येत। `सेऽसिचि' इत्युच्यमाने तु सप्तमीद्वयोरुपादानात् सिज्विर्जिते सकारादावित्यभिमतोऽर्थो विज्ञायते। नन्वत्रापि सन्देहः स्यात्--एवमुच्यमाने किमर्थं सिचि न वेति? यदि हि सिच्यपि स्यात् तदुपादानमनर्थकं स्यात्, सीत्येवं ब्रूयात्। `कत्स्यैति' इति लृट्। `अकर्त्स्यत्' इति । लुङ्। `चिकृत्सति' इति। सन्, `हलन्ताच्च' (1.2.10) इति कित्वाद्गुणाभावः।।
58. गमेरिट् परस्मैपदेषु। (7.2.58)
`गम्लृ गतौ' (धा.पा.982)। गमिरयमनुदात्तत्वादनिट्। योऽपि `सनि च' (2.4.47) इति `इण् गतौ' (धा.पा.1045) इत्यस्य गमिरादेशः, यश्च `इण्वदिक इति उक्तव्यम्' (वा.167) इति `इक् स्मरणे' (धा.पा.1047) इत्येतस्य, यश्च `इङश्च' (2.4.48) इति `इङ् अध्ययने' (धा.पा.1046) इत्येतस्य सोऽपि स्थानिवद्भावादनिडेव स्यात्। तेभ्यः परस्य सकारादेरार्धधातुकस्य सिज्वर्जितस्येडागमो यथा स्यादित्येवमर्थं वचनम्। `गमिष्यति, अगमिष्यत्' इति। अनादेशस्य गमेरुदाहरणम्। `जिगमिषति' इति। एतत् तस्येणादेशस्य, इगादेशस्य वा।
अथेडिते वर्त्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह--`इङ्ग्रहणं नित्यार्थम्' इति। तद्धि [`तद्धि पूर्वकमिङ्ग्रहण्। `उदितो वा' इति वाग्रहणेन प्रकृतमिङ्ग्रहणं सम्बद्धम्, अतस्तदनुवृत्तौ' इत्यादिः मुद्रितः पाठः] पूर्वकमिङ्ग्रहणं `उदितो वा' (7.2.56) इति वाग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, तथा च विकल्पेनेट् प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं पुनरिङ्ग्रहणं क्रियेत। `संगंसीष्ट' इति। सम्पूर्वाद्गमेराशिषि लिङ् सीयुट्, `समो गम्पृच्छि' (1.3.29) इत्यादिनाऽऽत्मनेपदम्, `सुट् तिथोः' (3.4.107) इति सुट्, धत्वम्, ष्टुत्वम्। `सञ्जिर्गसते' इति। `पूर्ववत्सनः' (1.3.62) इत्यात्मनेषदम्। `अधिजिगांसते' इति। गमेरिङादेशस्य प्रत्युदाहरणम्। अथ सञ्चिगंसत इत्यत्र `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वं कस्मान्न भवति? इत्याह--`गमेरिङादेशस्य' इत्यादि। तद्धि दीर्घत्वमिङादेशस्य गमेरिष्यते, नान्यस्य। तथा हि तत्रोक्तम्--गमेरिङादेशस्येति वक्तव्यमिति।
यदि परस्मैपदेष्वित्युच्यते, तदा कृति परस्मैपदलुकि च न प्राप्नोति? इत्याह--`आत्मनेपदेन' इत्यादि। `समानपदस्थस्य' इति। एकपदस्थस्येत्यर्थः। `अन्यत्र सर्वत्रैवेष्यते' इति। एतच्च `कृत्यपि हि' इत्यादिना विसपष्टीकरोति। `सञ्जिगमिषिता, अधिजिगमिषिता' इति। कृत्युदाहरणे द्वे। `जिगमिव त्वमिति' इति। एतत् परस्मैपदलुकि। सन्नन्तत्वाद्गमेर्लोट्, सिप्, `सेर्ह्यपिच्च' (3.4.87) इति सेहिंरादेशऱः, `अतो हेः' (6.4.105) इति लुक्। कथं पुनः परस्मैपदेष्वित्युच्यमाने कृति परस्मैपदलुकि च लभ्यते? एवं मन्यते--योगविभागः कर्त्तव्यः; `गमेरिट' इत्येको भागः, तत्र `से' इत्यनुवर्त्तते--सकारादावार्थधातुके गमेरिडागमो भवति। ततः `परस्मैपदेषु' इति द्वितीयो योगो नियमार्थः। स चायं नियमो यद्यविशेषेण स्यात् तदा पूर्वयोगोऽनर्थकः स्यात्। तस्मात् तुल्यजातीयापेक्षया नियमः, तुल्यजातीयश्च तिङ्---सिङ्विषये यदि भयति तदा परस्मैपदेष्वेव, नात्मनेपदेष्विति। ते कृति परस्मैपदलुकि च पूर्वयोगे न भवत्येव; नियमेनाव्यावर्त्तितत्वदिति।
`पदशेषकारस्य पनः' इत्यादि। पदशेषकारः पुनरेवं मन्यते---परस्मैपदेष्विति नेयं परसप्तमी, किं तर्हि? विषयसप्तमी, परस्मैपदविषये यो गमिरुपलक्षितः=उपलब्धस्तस्य सकारादावार्धधातुक इड् भवतीति। एवं च सति योगविभागमन्तरेणापि तन्मतेन परस्मैपदेषु यो गमिरुपलक्षितः, तस्मादसत्यपि परस्मैपदे सर्वत्र कृति परस्मैपदलुकि चेड् भवत्येव; परस्मैपदपरत्वेन सकारादेरार्धधातुकस्याविशेतत्वात्। तन्मतेन सञ्चिर्गसिता, अधिजिर्गसिता व्याकरणस्येति भवितव्यमिति; सम्पूर्वस्य, अधिपूर्वस्य च गमेः परस्मैपदेष्वनुपलक्षितत्वात्। तथा हि--सम्पूर्वाद्गमेः `समो गम्युच्छि' (1.3.29) इत्यादिनाऽऽत्मनेपदं विहितम्। अधिपूर्वादपि स्थानिवद्भावात् `अनुदात्तङितः' (1.3.12) इत्यनेनात्मनेपदमिति।।
59. न वृद्भ्यश्चतुर्भ्यः। (7.2.59)
`वृद्भ्यः' इति बहुवचननिर्देशादाद्यर्थो गम्यते। अत एवाह--`वृदादिभ्यः' इति। `वृतु वर्त्तने' (धा.पा.758), `वृधु वृधौ' (धा.पा.759), `शृधु शब्दकुत्सायम्' (दा.पा.760) `स्यन्दू स्रवणे' (धा.पा.761)--इत्येते वृदादयश्चत्वार उदात्तः। तत्राद्यानां त्रयाणां नित्यमिटि प्रप्ते, स्यन्देस्तूदित्त्वात् पाक्षिके प्राप्ते प्रतिषेधोऽयमुच्यते। `वर्त्स्यति' इति। `लृट् शेषे च' (3.3.13) इति लृट्, `वद्भ्याः स्यसनोः' (1.3.92) इति विकल्पेन परस्मैपदम्। `विवृत्सति' इति। `हलन्ताच्च' (1.2.10) इति सनः कित्वाद्गुणाभावः। वृधिश्रृध्योर्धकारस्य `खरि च' (8.4.55) इति चर्त्वम्--तकारः।
`चतुर्भ्य इति न वक्तव्यम्' इति। अत्र कारणमाह---`वृत्करणं हि' इत्यादि। तदेव यदि वृदादिपरिसमाप्त्यर्थमपि विज्ञायत इति तन्त्रेणानेकशक्तितो वा शब्दानां न किञ्चिदनिष्टं प्राप्नोति। एवमपि विशायमान इष्टस्यैव सिद्धेरत्यभिप्रायः। एवं प्रत्याख्याते चतुर्ग्रहणे, प्रयोजनमाह--`तत्क्रियते' इत्यादि। यदि चतुर्ग्रहणं न क्रियेत, तदा स्पन्देरूदिल्लक्षणोऽन्तरङ्गत्वाद्विकल्पः स्यात्। अन्तरङ्गत्वं तु तसय वलाद्यर्धधातुकमात्राश्रयत्वात्। अस्य तु प्रतिषेधस्यार्थधातुकविशेषाश्रयत्वाद्वहरङ्गत्वम्। तस्मादन्तरङ्गमपि स्यन्देरूदिल्लक्षणं विकल्पमयं प्रतिषेधो यथा बाधेतेत्येवमर्थञ्च चतुर्ग्रहणं क्रियते। कथं पुनः क्रियमाणेऽपि चतुर्ग्रहणे, अयमर्थो लभ्यते? इत्यत आह--`चतुर्ग्रहणे' इत्यादि। स स्यन्दिः परः प्रधानो यस्य तत् तत्परम्, तद्भावस्तात्पर्यम्, तेन तात्पर्येण तत्प्रधानतयेत्यर्थः। `सन्निधापितः' इति। उपस्थापित इत्यर्थः। तस्य चैवं सन्निधापितस्य विकल्पोऽनेन प्रतिषेधेन कथं नाम बाध्येतत्येतदेव प्रयोजनम्। ततश्चतुर्ग्रहणादन्तरङ्गमपि विक्लपं प्रतिषेधो बाधते। `अत्रपि' इत्यादि। कथं पुनः `परस्मैपदेषु' (7.2.58) इत्यनुवर्त्तमानेऽन्यत्र सर्वत्र प्रतिषेधो लभ्यते? एवं मन्यते--गमेरित्यनुवर्त्तते, तत्रैवमभिसम्बन्धः करिष्यते--गमेः सकारादौ येन प्रकारेण इट् तेनैव प्रकारेण वृदादिब्यो नेडिति। तेन यथा गमेरात्मनेपदवर्जनमन्यत्र सर्वत्रैवेङ् भवति, तथा वृदादिभ्योऽपि प्रतिषेध इति।।
60. तासि च क्लृपः। (7.2.60)
`कृपू सामर्थ्ये' (धा.पा.762)। तस्मादूदित्त्वाद्विकल्पेनेटि प्राप्ते प्रतिषेधोऽयमारब्यते। `कल्प्ता' इति। लुट्, `लुटि च क्लृपः' (1.3.93) इति परस्मैपदं विकल्पेन, `कृपो रो लः' (8.2.18) इति लत्वम्। `चिक्लृप्सति' इति। पूर्ववत्कित्त्वम्।
`क्लृपेरपि' इत्यादि। अयमर्थो वृदादीनामनुवृत्तर्लभ्यते, तदनुवत्तौ सत्यामेवाभिसम्बन्धः करिष्यते--यथा वृदादीना प्रतिषेधो भवति, तथाऽयमपि क्लृपेरिति। यदि तर्हि वृददीनां ग्रहणमिहानुवर्त्तते, तदा वृदादीनामपि तासौ प्रतिषेधः प्राप्नोति? योगविभागकरणसामर्थ्यान्न भविष्यति। यदि वृदादीनामपि तासौ स्यात्, तदा `न वृद्भ्यः पञ्चभ्यस्तासि च' इत्येकरणे कुर्यात्।।
61. अचस्तास्वत्थल्यनिटो नित्यम्। (7.2.61)
क्रादिनियमादिटि प्राप्तेज्जन्तानां तासौ नित्यानिटां थलि प्रतिषेधो विधीयते। `पाता' इत्यादि। लुडुपन्यासस्तासौ नित्यानिट्त्वप्रदर्शनार्थः'; अनिट्त्वं [`अनिट्प्रतिषेधात्'--इत्येव मुद्रितः पाठः] च `एकाचः' (7.2.10) इत्यादिनेट् प्रतषेधात्।
`लूत्वा, लुलविथ' इति। तास्वदिति वचनादिह न भवति प्रतिषेधः। तस्मिंस्वनुच्यमान[`तस्मिंसत्वनुच्यमान इहापि प्रतिषेध स्यात्--भवति, लुनाति। किति नित्यमनिटः `श्रयुकः किति' इति प्रतिषेधात्'---इति मुद्रितः पाठः] इहापि प्रतिषेधः स्यात्। भवति लुनातिः किति नित्यमनिट्। `श्रयुकः किति' (7.2.11) इति प्रतिषेधात् `पपिव, पपिम' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। `अनिङ्ग्रहणं नित्यमित्यनेन' इत्यादि। नित्यमित्यनेनानिट्त्वं धातोः कथं नाम विशेष्येतेत्येवमर्थमनिङ्ग्रहणमित्यर्थः। अथ सविता, लुलवथेति तासौ सेटस्थलौट्प्रतिषेधो मा भूदित्येवमर्थमनिड्ग्रहणं कस्मान्न भवति? नार्हत्येवमर्थं भवितुम्। तथा हि--तास्वत् थलीण्न भवतीत्युच्यते; न च यस्तासौ सेट् तस्य प्रतिषेधो भवंस्तास्वदिति व्यपदेष्टुं शक्यते, यो ह्यमिजभावस्थलि विधीयते तस्य तासाविडमावेनैव सादृश्यं वतिराचष्टे। एवं तु वतिग्रहणादेव तासौ सेटस्थलि प्रतिषेधो न भविष्यति; अन्यथा वतिना यत् सादृश्यं समाख्ययते तन्न स्यात्। तस्माद्युक्तमुक्तेमेवानिद्ग्रणस्य प्रयोजनम्। अथाक्रयमाणेऽनिङ्ग्रहणे नित्यमिति कस्य विशेषणं विज्ञायते? प्रतिषेधस्य। ननु च नित्य एव प्रतिषेधः प्रकृतः, तत्र यदि नित्यग्रहणे न प्रतिषेधो विशिष्येत, तदा नित्यग्रहणमनर्थकं स्यात्? नैतदस्ति; पूर्वसूत्रे प्रतिषेधस्यानित्यत्वं यथा स्यादित्येवमर्थं स्यात्। अवं च पूर्वसूत्रेण पक्ष इडागमः स्यादेव। तस्मात् पूर्वोक्तमेवानिड्ग्रहणस्य प्रयोजनम्। `तासौ विबाषितेट्' इति। स्वरत्यादिसूत्रेम (7.2.44) धूञ इङ् विकल्पितः। तस्य नित्यग्रहणाद्विभाषितेटस्थलि नित्यमिडागमो भवति। असति च नित्यग्रहणे प्रतिषेधः स्यादेव। पाक्षिकेणापीडभावेनानिङ्व्यपदेशो भवत्येव। तथा हि--गुहेर्विभाषितेटोऽपि `शल इगुपधादनिटः क्सः' (3.1.45) इति क्सो भवत्येव--अधुक्षदिति।
अथ वतिना निर्देशः किमर्थः, न तासावित्येवोच्येत? इत्यत आह--`तास्वत्' इत्यादि। असति वतिना निर्देशे योऽपि तासावसन् असत्त्वाच्च नित्यमनिट्, तस्यापि थलि प्रतिषेधः स्यात्। वतिना निर्देशे तु सति, वतेः सर्वसादृश्यार्थत्वाद्यथाभूतस्य तासाविण्न भवति तथाभूतस्यैव थल्पपीटा न भवितव्यमिति न भवत्येव दोषप्रसङ्गः। यदि हि यस्तासावसत् असत्त्वाच्च नित्यमनिट् तस्यापि थलि प्रतिषेधः स्यात्। एवं च सति तसावसत इडभावः, इतरत्र तु सत इति यथाभूतस्य तासादिडभावस्तथाभूतस्थापि थलि न स्यात्।
यो हि तासावसन्नसत्त्वाच्च नित्यमनिट्, तस्य थलि प्रतिषेदो न भवति--जघसिथेति--उत्तरसूत्रेणेत्यभिप्राय इत्यत आह--`उत्तरसूत्रेऽपि' इत्यादि। तदेवमुत्तरार्थो वतिना निर्देशोऽयं भवति। इह तु नार्थो वतिनिर्देशेन, अनजन्तत्वादेव घसेर्वयेश्च परतिषेधो न भवतीति। `जघसिथ' इति। `लिट्यन्यतरस्याम्' (2.4.4.0) इत्यदेर्घस्लादेशः। `उदयिथ' इति। `वेञो वयिः' (2.4.41) इति वयिरादेशः; `लिट्यभ्यासस्योभथेषाम्' (6.1.17) इति सम्प्रसरणम्। कस्मात् पूनर्घसेः, वयेश्च तासावसत्त्वान्नित्यानिट्त्वम्? इत्याह--`अदादेशो हि' इत्यादि। नास्तित्वं तयोः पुनस्तासावविधानाद्वेदितव्यम्।।
62. उपदेशेऽत्वतः। (7.2.62)
अनजन्तार्थोऽयमारम्भः। `इयष्ठ' [`इयष्ट' इति पदमञ्जरी] इति। पूर्ववदभ्यासस्य सम्प्रसारम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। `चकर्षिथ' इति। `कृष विलेखने' (धा.पा.990)। भवत्ययमकारवान्, न तूपदेशे, किं तर्हि? पश्चाद्गुणे कृते।
उपदेशग्रहमिह शक्यमकर्त्तुम्, शक्यत एव हि `एकाच उपदेशे' (7.2.10) इत्यत उपदेशग्रहणमनुवर्त्तयितुम्? तत् क्रियते विस्पष्टार्थम्। असति तस्मिन्, पूर्वसूत्रे तस्यानुपयोगान्निवृत्तिं मन्यमानः `तासावत्वतः' इत्येवमपि कश्चित् प्रतिपद्येत। `रराधिथ' इति। `राध साध संसिद्धौ' (धा.पा.1262,1263)। `जिघृक्षति' इति। `सनि ग्रहगुहोश्च' (7.2.12) इतीट्प्रतिषेधाद्भवति नित्यानिट्, न तु तासौ, किं तर्हि? सचि।
`आनाञ्जथ' इति। `अन्जू `व्यक्तिभ्रक्षणादिषु' [`व्यक्तिमरषणकान्तिगतिषु'--धा.पा.] (धा.पा.1458)। `अत आदेः' (7.4.70) इत्यभ्यासस्य दीर्घः, `तस्मान्नुङ् द्विहलः' (7.4.71) नुट्, भवत्ययं धातुरुपदेशेऽकारवान्, न तु तासौ नित्यानिट्; स्वरत्यादिसूत्रेण (7.2.44) विकल्पितेट्कत्वात्।।
63. ऋतो भारद्वाजस्य। (7.2.63)
`सस्मर्थ' इति। `स्मु चिन्तायाम्' (धा.पा.933) । `दध्वर्थ' इति। `ध्वृ हूर्छने' (धा.पा.939)।
ननु यद्यप्यकारान्तानां मद्ये वृङ्वृञावुदात्तौ तत्रापि वृङस्थल्न सम्भवत्येव, आत्मनेपदितत्वात्। वृञस्तु `ववर्थेति निगमे' (7.2.64) निपातनाद्भाषायामिटा भवितव्यमेव, तस्मात् तयोरिट्प्रतिषेधार्थमेतन्नोपपद्यते; ये त्वन्ये ऋकारान्ताः, तेषामनुदत्तत्वात् तासौ नित्यमनिट्त्वामिति `अचस्तास्वत् थल्यनिटो नित्यम्' (7.2.61) इतीट्प्रतिषेधः सिद्ध एव, परत्वाद्गुणे कृते रपरत्ये चानजन्तत्वान्न सिध्यतीत्येवमेतन्नाशङ्कनीयम्; उपदेशग्रहणस्य पुरस्तादनुकृष्टस्य `अचः' इत्यनेनाभिसम्भन्धात्; अथ वा--`अचः' इति विहितविशेषणा पञ्चमी, तत्रैवं विज्ञास्यामः--अजन्ताद्यो वहितस्थलिति, तस्मादचस्तास्वदित्यनेनैव ऋकारन्तेभ्यः प्रतिषेधः सिद्धः, तत्किमर्थोऽप्यमारम्भः? इत्याह--`सिद्धे सत्यारम्भो नियमार्थः' इति। `नान्येभ्यः' इति। के पुनस्ते? य ऋकारान्तादन्येऽजन्ताः, अनजन्ताश्चोपदेशेऽत्वन्तः। अथैवं कस्मान्नियमो न विज्ञायते--ऋतो भारद्वाज्यैव, नान्येषामाचार्याणामिति? एवं मन्यते--पूर्वसूत्रादयोऽत्वत इति चनुवर्त्तते, तदनुवृत्तेरेतदेव प्रयोजनम्--अनेन नियमेन सन्निधानात् तस्यैवाजन्तस्यानुवॄत्तस्यात्वतश्च प्रकृतस्य धातोः। तथा च तदनुवृत्तिरपार्थिका स्यात्। तस्मावृत एव भारद्वाजस्येत्ययमेव नियमो विज्ञायत इत्याह--`तत्' इत्यादि। तदिति हेतौ। यस्मादेवंविधोऽत्र नियमः--तस्मादृत एव भारद्वाजस्य प्रतिषेधो भवति, नान्येभ्यो धातुभ्य ति। तेन यद्यपि पूर्वयोगाभ्यां नित्यमिट्प्रतिषेधः कृतः, तथां च सामर्थ्थात् पूर्वयोगयोरयं विकल्पो भवति। यद्यपि तत्र वाग्रहणम्, आचर्यग्रहणं च क्रियते, तथाप्यर्थाल्लभ्यते।
अथ तपरकरणं किमर्थम्, न `उर्भारद्वाजस्य' इत्येवोच्येत? इत्याह--`तपरकरणम्' इत्यादि। यदि ह्युरित्येवोच्येत, ततोऽण् सवर्णान् गृह्णातीति ऋकारान्तानामपि ग्रहणं स्यात्। ततस्तन्निवृत्त्यर्थं तपरकरणम्। किं पुनः स्याद्यद्युकारान्तानां ग्रहणं न स्यात्? इत्यत आह--`तथा हि' इत्यादि। तथेत्येवमर्थे। हिशब्दो यस्मादर्ये। एवं यस्मात् तपरकरणमन्तरेणापि ऋकारानातानां ग्रहणे सति विध्यर्थमेतत् सम्भाव्येत। असति हि विधेये नियमो भवति। ऋकारान्तानां ग्रहणे सति तेषामेव प्रतिषेधो विधेयः स्यात्, न हि तेषां पूर्वेण प्रतिषेधः सिद्धः। सर्वेषामृकारान्तानां तासौ नित्यम्; सेट्त्वात् । तपरकरणे तु सति तकारेण दीर्घनिवृत्तौ कृतायां विधेयताभावान्नियमोऽयं सम्पद्यते।।
64. बभूथाततन्थजगृभ्मववर्थेति निगमे। (7.2.64)
बभूथेत्यादौ सर्वत्र क्रादिनियमादिटः प्राप्तस्याभावो निपात्यते। `बभूथ' इति। `भवतेरः' (7.4.73) इत्यभ्यासस्याकारस्यात्वम्। `बभूविथ' इति। `भुवो वुग्लुङ्लिटोः' (6.4.88) इति वुक्। `आततन्थ' इति। `तनु विस्तारे' (धा.पा.1463), आङ्पूर्वः। `अतेनिथ' इति। `थलि च सेटि' (6.4.121) इत्येत्त्वाभ्यासलोपौ। `जगृभ्म' इति। `भुवो वुग्लुङ्लिटोः' (6.488) इति वुक्। `आततन्थ' इति। `तनु विस्तारे' (धा.पा.1463), आङ्पूर्वः। `अतेनिथ' इति। `थलि च सेटि' (6.4.121) इत्येत्त्वाभ्यासलोपौ। `जगृभ्म' इति। ग्रहेर्लिट्, `परस्मैपदानाम्' (3.4.82) इत्यादिना मसो मादेशः, `ग्रहिज्या' (6.1.16) इति सूत्रेण सम्प्रसारणम्। `ववपर्थ' इति। `वृञ् वदणे' (धा.पा.1254)।।
65. विभाषा सृजिद्दशोः। (7.2.65)
`सुज विसर्गे' (धा.पा.1414), `दृशिर् प्रेक्षणे' (धा.पा.988)--अनयोः क्रादिनियमादिटि नित्यं प्राप्ते विकल्पार्थ वचनम्। `सस्रष्ठ, दद्रष्ठ' इति। व्रश्चादिना (8.2.36) षत्वम्, `सृजिदृशोर्झल्यमकिति' (6.1.58) इत्वम्।।
66. इडत्त्यर्त्तिव्ययतीनाम्। (7.2.66)
`आदिथ, आरिथ' इति। `अद भक्षणे' (धा.पा.1011), `ऋ गतो' (धा.पा.1098)। `अत आदेः' (7.4.70) इत्यभ्यासस्य दीर्घः। `विष्ययिथ' इति। `व्येञ् संवरणे' (धा.पा.1007), लिट्यभ्यासत्योभयेषाम्' (6.1.17) इति सम्प्रसारणम्। कस्मात् पुनरत्र व्येञः `आदेच उपदेशे' (6.1.45) इत्यात्त्वं न भवति? इत्याह--`व्येञो न व्यो लिटि इत्यादि। `अर्त्तेरपि नित्यं प्रतिषेधः' इति। `ऋतो भारद्वाजस्य' (7.2.63) इत्यनेन।
`अत्रेङ्ग्रणं विस्पष्टार्थम्' इति। ननु च नित्यमिडागमो यथा स्यादित्येवमर्थमिङ्ग्रहणं स्यात्, न हीङ्ग्रहणमन्तरेणायं शक्यत इङ्विधिर्नित्यो विज्ञातम्? इत्याह--`विकल्पवधाने हि' इत्यादि। अनेन हि विकल्पस्यानन्तरस्य वा विधानं क्रियते, पूर्वपरकृतस्य वा नित्यप्रतिषेधस्य? शक्यते ह्यसावपि मण्डूकप्लुतिन्यायेनानुवर्त्तयुतम्। तत्र यदि पूर्वको विकल्पस्तदाऽर्त्तिव्ययतिग्रहणमनर्थकं स्यात्; `उपदेशेऽत्वतः' (7.2.62) इत्यनेनैव विकल्पस्य सिद्धत्वात्। अथेतरः, एवं सत्यर्त्तिग्रहणमनर्थकं स्यात्; `ऋतो भारद्वाजस्यैव' (7.2.63) इत्यनेनैव प्रतिषेधस्य सिद्धत्वात्। यत एवं न विकल्पस्य विधानमुपपद्यते तेन नापि प्रतिषेधस्य। अस्मादन्तरेणापीङ्ग्रहणं नित्योऽयमिङ्विधिरिति शक्यते विज्ञातुम्। प्रतिपत्तिगौरवं पुनरेवं विज्ञायमाने स्यादिति विस्पष्टार्थमिङ्ग्रहणं क्रियते।।
67. वस्वेकाजाद्घसाम्। (7.2.67)
`कृतद्विर्वचनानां धातूनामेकाचाम्' इति। कुत एतदवसितम्? एकाज्ग्रहणसामर्थ्यात्। न हि कश्चिदकृते द्विर्वचनेऽनेकाजस्ति, यन्निवृत्त्यर्थमेकान्ग्रहणं क्रियते। ननु च जागर्त्तिरस्ति, अतस्तन्निवृत्त्यर्थ तत् स्यात्? नैतदस्ति; न ह्येकमूदाहरणं प्रति योगारम्भं प्रयोजयति। यद्येतत् प्रयोजनं स्यात्, `जाग्रो न' इत्येवं ब्रूयात्। तदाप्ययमर्थः--प्रतिपत्तिगौरवं परिहृतं भवति। ननु चोर्णोतेर्निवृत्त्यर्थमपि स्यात्? नैतत्; उक्तं हि प्राक्--`वाच्यऊर्णोर्णुवद्भावः' (कारिका.7.2.11) इति। तस्माद्युक्तमुक्तम्--कृतद्विर्वचनानां धातूनामेकाचामिति। `आदिवान्,आशिवान्' इति। `अद भक्षणे' (धा.पा.1011), `अश भोजने' (धा.पा.1523)। लिटः `क्वसुश्च' (3.2.107) इति क्वसुः, द्विर्वचनम्, अभ्यासकार्थञ्च, `अत आदेः (7.4.70) इति दीर्घत्वम्। सवर्णदीर्घत्वम्, इट्, `उगिदचम्' (7.2.70) इति नुम्, `सान्तमहतः' (6.4.10) इत्यादिना दीर्घः, हल्ङ्यादि-(6.1.68)संयोगान्तलोपौ (8.2.23)। `पेचिवन्, शोकिवान्' इति। `अत एकहल्मध्ये' (6.4.120) इत्यादिनैत्त्वाभ्यासलोपौ। `धात्वभ्यासयोरेकादेशे कृते' इत्यादि। ननु च षाष्ठिके द्विर्षचनविधौ `द्विष्प्रयोगो द्विर्वचनम्' इत्येव पक्षो वृत्तिकारेणाश्रितः, एवं चाकृते दात्वभ्यासयोरेकदेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचना अप्येत एकाचो भवन्ति। स्थाने द्विर्वचने हि शब्दान्तरमनेकाजतिदिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगे द्विर्वचने; तत्र हि स एव धातुर्द्विरुच्यते, न चासौ शतकृत्वोऽप्युच्चार्यमाण एकाच्त्वं जहाति, किंपुनर्द्धिरुच्यमानः, तत् क्रिमुच्यते--धात्वभ्यासयोरेकादेश एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एत एकाचो भवन्तीति? आवृत्तिकृतमेकाचो बेदमाश्रित्यैवमुक्तमित्यदोषः। भवति हि धर्मभेदादपि धर्मिणो भेदव्यवहारः? तथा हि, वक्तारो वदन्ति--परुद्भावान् पटुरासीत्, पटुतरश्चैषमः, पटुतमः परारि, सोऽन्य एवासि संवृत्त इति। अथ वा--स्थाने द्विर्वचनपक्षोऽपि तत्राश्रितः, द्विष्प्रयोगश्च द्विर्वचनमिति कृत्वा। चकारात् स्थाने द्विर्वचनमपीति स्थाने द्विर्वचनपक्षस्यापि तत्र सूचनात्। ये तु तत्पक्षभाविनो दोषस्ते तत्र प्रतिविहिता एव। `तस्थिवान्' इति। `शर्पूर्वाः खथः' (7.4.61) इति ख्यः शेषः; `अतो लोप इटि च' (6.4.64) इत्याकारलोपः। `जक्षिवान्' इति। पूर्ववददेर्घस्लादेशः, इट् `गमहन' (6.4.98) इत्यादिनोपधालोपः, `कुहोश्चुः' (7.4.62) इति चुत्वम्--धकारस्य झकारः, `अभ्यासे चर्च्च' (8.4.54) इति झकारस्य जकारः। परस्य धकारस्य `खरि च' (8.4.55) इति चर्त्वम्--ककारः, `शासिवसि' (8.3.60) इत्यादिना षत्वम्।
ननु चात्र क्रादिनियमादिडागमः सिद्ध एव, तत् किमर्थोऽयमारम्भः? इत्याह--`सिद्धे' इत्यादि। `क्रादिनियमात् प्रसक्तः' इत्यादिना `सिद्धे सत्यारम्भो नियमार्थः' (कात.प.59) इत्येतदेव स्पष्टीकरोति। `प्रसक्तः' इति। प्राप्त इत्यर्थः। `नियम्यते' इति। धात्वन्तरेभ्यो व्यावर्त्त्येकाजादिष्वेव व्यवस्थाप्यत इत्यर्थः।
अथाद्ग्रहणं किमर्थम्, यावताऽकारान्ता अप्यतो लोपे कृते कृतद्विर्वचना एकाचो भवन्त्येव, तत्रैकाज्ग्रहणेनैव सिद्धम्? इत्याह--`आद्ग्रहणमनेकाज्ग्रहणार्थम्' इति। कथं पुनस्तेषामनेकाच्त्वम्? इत्यत आह--`द्विर्वचने' इत्यादि। इण्निमित्तत्वादाकारलोपस्येटि सति तेषामाकारलोपेन भवितव्यम्, नासति, अतो यावदिण्न क्रियते तावदाकारलोपाभावात् कृतद्विर्वचना एतेऽनेकाच इत्यसत्याद्ग्रहणे [`इत्यसत्यादिग्रहणे'--इति मुद्रितः पाठः] तेषां ग्रहणं न स्यात्। तस्मादनेकाजर्थमाद्ग्रहणं कर्त्तव्यम्।
यद्येवम्, दरिद्रातेरपीट् प्रसज्येत? इत्यत आह--`दरिद्रातेस्तु' इत्यादि। दरिद्रातेः क्वसो सम्भव एव नास्ति, यतः `कास्यनेकान्ग्रहणम्' (वा.305) इति वचनाद्दरिद्रातेरामा भवितव्यम्, तस्मिंश्च सति `आमः' (2.4.81) इति लेर्लुका भवितव्यम् तत्कुतोऽयमिट्प्रसङ्गः! `दरिद्राञ्चकर' इति। `कृञ्चानुप्रयुज्यते' (3.1.40) इति लिट्परस्य कृञोऽनुप्रयोगः। अभ्युपगम्यपि दरिद्रातेरामोऽभावं परीहारान्तरमाह--`अथाप्याम्न क्रियते' इत्यादि। आकारान्तानां धातूनामिहेङ्विधीयते। दरद्रातेरार्धधातुके `लोपः सिद्धश्च प्रत्ययविधौ' इति वचनात् प्रागेव प्रत्ययोत्पत्तेराकारो लुप्त इतीडागमोऽस्मान्निमित्ताभावान्न भवति।
क्रियतां नामाद्ग्रहणम्, घसिग्रहणं न कर्त्तव्यमिति, अस्य द्विर्वचने कृते `घसिभसोहंलि च' (6.4.100) इत्युपधालोपे कृते चैकाच इत्येवं सिद्ध इडागमः? इत्याह--`घसेरपि' इत्यादि। `अनच्कत्वात्' इति। द्विर्वचनाभावहेतुः। एकाचो द्विर्वचनमुच्यते; `एकाचः' (6.1.1) इत्यधिकारात्। तस्मादुपधालोपे कृतेऽनच्कत्वान्न द्विर्वचनं स्यात्, ततश्च जक्षिवानिति न सिध्यतीत्यभिप्रायः। अथ क्रियमाणेऽपि घसिग्रहणे कस्मादेव दोषो व भवति? इत्याह--`क्रियमाणे' [`नास्ति काशिकायाम्। पदमञ्जर्यां तु `क्रियमाणे तु' इति प्रतीकमुपलभ्यते] इत्यादि। सुबोधम्।।
68. विभाषा गमहनविदविशाम्। (7.2.68)
पूर्वस्मान्नियमाद्गमादीनामिङ् न भवतीति विभाषेयमारभ्यते। `जग्मिवान्' इति। परत्वादिट् ततः `गमहन' (6.4.98) इत्यादिनोपधालोपः, ततो द्विर्वचनम्। `जघन्वानिति, जध्निवान' इति। `अभ्यासाच्च' (7.3.55) इति कुत्वम्--हकारस्य घकारः। `लाभार्थस्य' इति। `विद्लृ लाभे' (धा.पा.1432) इत्यस्य। `न ज्ञानार्थस्य' इति। `विद ज्ञाने' (धा.पा.1064) इत्यस्य। `विद सत्तायाम्' (धा.पा.1171), `विद विचारणे' (धा.पा.1450)--इत्येतयोश्चात्मनेपदित्वादात्मनेपदेषु क्वसुर्न भवतीत्यनुपन्यासः।
`दृशेश्च' इत्यादि। `वृशिर् प्रेक्षणे' (धा.पा.988) इत्यस्माच्च परे क्वसोरिडागमो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--`विभाषा' इति योगविभागः क्रियते, तेन दृशेरपि भविष्यतीति। न चैवं सति `गमहनविदविशाम्' इत्यस्यानर्थक्यम्; पूर्वयोगस्यासर्ववषयत्वसूचनात्। एवं ह्यतिप्रसङ्गः परिहृतो भवति।।
69. सनिंससनिवांसम्। (7.2.69)
`सनोतेः' इति। `षणु दाने' (धा.पा.1464) इत्यस्य सनिंपूर्वस्य द्वितीयान्तस्योच्चारणेन नियता मानुपूर्वीमुपलक्षयति। यत्रैषानुपूर्वी नियता तत्रैव यथा स्यात्। इयं चानुपूर्वीं छन्दस्यैव नियतेति तद्विषयमेवैतन्निपानं विज्ञायते। अत एव वृत्तिकृता छान्दसः प्रयोगो दर्शितः। `सेनिवांसम्' इति। पूर्ववदेत्त्वाभ्याम्यासलोपौ। `वस्वेका जाद्धसाम्' (7.2.67) इतीट्।।
70. ऋद्धनोः स्ये। (7.2.70)
विभाषेति निवृत्तम्। ऋकारान्तानां हन्तेश्चानुदात्तत्वात् `एकाचः' (7.2.10) इत्यादिना प्रतिषिद्धस्येदः स्ये विधानार्थमेतत्। अथ स्वरतेः स्वरत्यादिसूत्रेण (7.2.44) पक्ष इट् अथानेन नित्यमित्याह--`स्वरतेः' स्ये विधानार्थमेतत्। अथ स्वरतेः स्वरत्यादिसूत्रेण (7.2.44) पक्ष इट्, अथानेन नित्यामित्याह--`स्वरतेः' इत्यादि। स्वरतेर्धातोर्यत् स्वरत्यादि(7.2.44)सूत्रेण वेट्त्वं विहितं तस्मादनेन स्ये ऋकारान्तेभ्यो विधीयमानं नित्येट्त्वं भवति विप्रतिषधेन। अञ्चार्थः स्वरत्यादिसूत्र उक्तेऽपि विस्मरणशीलानामनुग्रहाय पुनरिहोच्यते।
अथ तपरकरणं किमर्थम्? दीर्घाणां मा भूदिति चेत्? नैतदस्ति; उदात्तत्वाद्धि तेषां भवितव्यमेवेटा। एवं तर्ह्यसति तपरकरणे यथा `स्मिपूङ्रञ्ज्वशां सनि' (7.2.74) इत्यत्र स्वरत्यादिसाहचर्यात् `ऋः' इत्येतस्य धातोर्ग्रहणम्, तथेहापि हन्तिना साहचार्यात् `ऋ' इत्येतस्य धातोर्ग्रहणं स्यात्। तपरत्वे तु सति वर्णग्रहणमेतद्विज्ञायते। वर्णनिर्देशे हि तपरत्वं प्रसिद्धम्। वर्णग्रहणे च वर्णग्रहणानि सर्वत्र तदन्तविधिं प्रयोजयन्तीति ऋकारान्तानामिट सिद्धो भवति।।
71. अञ्जेः सिचि। (7.2.71)
`अन्जू व्यक्तिम्रक्षणकान्तिगतिषु' [`व्यक्तिमर्षणकान्तिगतिषु--धा.पा.] (धा.पा.1458)। ऊदित्त्वादत्र स्वरत्यादिसूत्रेण (7.2.44) विकल्पे प्राप्ते नित्यार्थ वचनम्। `आञ्जीत्' इति। `इतश्च' (3.4.1001) इतीकारलोपः, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट् `इट ईटि' (8.2.28) इति सिचो लोपः, `आडजादीनाम्' (6.4.72) इत्याट् `आटश्च' (6.1.90) इति वृद्धिः। `आञ्जिष्टाम्' इति। `तस्थस्थमिपाम्' (3.4.1010)इति झेर्जुस्।।
72. स्तुसुधूञ्भ्यः परस्मैपदेषु। (7.2.72)
`ष्टुञ् स्तुतौ' (धा.पा.1043), `षुञ् अभिषवे' (धा.पा.1247)--अनयोरनुदात्तत्वात् प्रतिषेधे प्राप्ते, धूञस्तु स्वरत्यादिसुत्रेण (7.2.44) विकल्पे प्राप्ते सतीदमारभ्यते।।
73. यमरमनमातं सक् च। (7.2.73)
`यम उपरमे' (धा.पा.984), `रमु क्रीडायाम्' (धा.पा.853), `णम प्रह्वत्वे शब्दे च' (धा.पा.981)। आकारान्ताः `या प्रापणे' (धा.पा.1049) इत्येवमादयः। सर्वेषामनुदत्तत्वादिट्प्रतिषेधे प्राप्तेऽयमारम्भः। अत्र षष्ठीनिर्देशाद्यमादीनां सग्भवति, इट् पुनरार्धधातुकाधिकारात् सिच एव। `व्यरंसीत्' इति। `व्याङ्परिभ्यो रमः' (1.3.83) इति परस्मैपदम्।
द्विवचनबहुवचनयोर्युक्तमुदाहरणम्; अस्ति हि तत्र सगिटोः श्रुतौ विशेषः; एकवचनस्य त्वयुक्तम्, विशेषाभावात्--इति यो वेशयेत्, तं प्रति तत्रापि वृद्धिप्रतिषेधो विशेषोऽस्तीति दर्शयितुमाह--`यमादीनाम्' इत्यादि। `आयंस्त' [`अयंस्त'--काशिका, पदमञ्जयमिपि--`आयंस्त' इत्येव प्रतीकीद्धारः] इति। `आङो यमहनः' (1.3.28) इत्यात्मनेपदम्। `अरंस्त' इति। अत्रापि `अनुदात्त' (1.3.12) इत्यादिना।।
74. स्मिपूङ्रञ्ज्वशां सनि। (7.2.74)
`ण्मिङ् ईषद्धसने' (धा.पा.948), `पूङ् पवने' (धा.पा.966)। अनुबन्धोच्चारणंपूञ्निवृत्त्यर्थम्। `ऋ गतिप्रापणयोः' (दा.पा.936) इति भ्वादिः, `ऋ गतौ' (धा.पा.1098) इति जुहोत्यादिः--उभयोरपि ग्रहणम्; विशेषानुपादनात्। ऋकारान्तानां त्वेतद्ग्रहणं न भवति; उत्तरत्र किरत्यादीनामिटो विधानात्। `अन्जू म्रक्षणे' [`व्यक्तिमर्षणकान्तिगतिषु--धा.पा.] (धा.पा.1458), `अशू व्याप्तौ'[`व्याप्तौ संधे च'--धा.पा.] (धा.पा.1264)। `अश भोजने' (धा.पा.1523) इत्यस्य ग्रहणं न भवति; उदात्तत्वादेवेट् सिद्ध इति। तत्राञ्जेरशेश्चोदित्त्वाद्विकल्पे प्राप्ते, शेषाणां तूगन्तत्वात् `सनिग्रहगुहोश्च' (7.2.12) इति प्रतिषेधे प्राप्त इदमारभ्यते। `सिस्मियिषते' इति। `पूर्ववत्सनः' (1.3.62) इत्यात्मनेपदम्। `पिपविषते' इति। `ओः पुयण्ज्यपरे' (7.4.80) इत्याभ्यासस्येत्त्वम्। `अरिरिषति' इति। इटि सति गुणे कृतेऽजादेर्द्वितीयस्यैकाचो द्विर्वचनम्। `अञ्जिजिषति इति `अशिशिषति' [`अशिशिषते'--काशिका। नास्ति--मुद्रितग्रन्थे] इति। अञ्जेर्नकारो न द्विरुच्यते; `न न्द्राः संयोगादयः' (6.1.3) इति निषेधात्।।
75. किरश्च पञ्चभ्यः। (7.2.75)
`कॄ विक्षेपे' (धा.पा.1409), `गॄ निगरणे' (धा.पा.1410), `दृङ् अनादरे' (धा.पा.1411), `धृङ् अनवस्थाने' [`अवस्थाने--धा.पा.](धा.पा.1412), `प्रच्छ ज्ञीपसायाम्' (धा.पा.1413)। अत्रान्त्यस्यानुदात्तत्वादिट्प्रतिषेधे प्राप्ते, दृङ्घृङोरुगन्तत्वात् `सनि ग्रहगुहोश्च' (7.2.12) इति निषेधे प्राप्ते, इतरयोस्तु वृत्तिकारप्रदर्शितविकल्पे प्राप्ते सतीदमारभ्यते। `पिपृच्छिषति' इति। `रुदविद' (1.2.8) इत्यादिना सनः कित्त्वम्, `ग्रहिज्या' (6.1.16) इत्यादिना सम्प्रसारणम्, `छे च' (6.1.73)। इति तुक्, `उरत्' (7.4.66) इत्यभ्यासस्यात्त्वम्, पूर्ववदित्त्वम्। `सिसृक्षति' इति। `सृज विसर्गे' (धा.पा.1178)। पञ्चग्रहणादस्येण्न भवति। सामान्यलक्षणोऽपीण्न भवत्येव; `एकाचः' (7.2.10) इति प्रतषेधात्। `हलन्ताच्च' (1.2.10) इति कित्त्वम्, `चोः कुः' (8.2.30) इति कुत्वम्, व्रश्चादिसूत्रेण (8.2.66) षत्वम्, `षढोः कः सि' (8.2.41) इति कत्वम्। `वृतो वेत्यस्य दीर्घत्वं नेच्छन्ति' इति। कथं पुनरिष्यमाणमपि न भवति? व्यवस्थिविभाषाविज्ञानात्। `अस्य' इति। एतत्सूत्रविहितस्येटः।।
76. रूदादिभ्यः सार्वधातुके। (7.2.76)
`रुदिर् अश्रुविमोचने' (धा.पा.1067), `ञि ष्वप् शये' (धा.पा.1068), `श्वस प्राणने' (धा.पा.1069), `अन च' (धा.पा.1070), `जक्ष अदने'[`भक्षहसनयोः--धा.पा.] (धा.पा.1071)। रुदादयोऽदादिषु पठ्यन्ते। `उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' (शाक.प.97) इति `रुदादिभ्यः' इत्येषा पञ्चमी `सार्वधातुके' इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयति। सप्तमीनिर्देशस्तदूत्तरार्थः। तेन सार्वधातुकस्य वलादेरिङ् विज्ञायत इत्यत आह--`रुदादिभ्यः पञ्चभ्यः' इत्यादि। `प्राणिति' इति। `अनितेः' (8.4.19) इति णत्वम्। `स्वप्ता' इति। सार्वधातुकग्रहणादार्धधातुकस्येण्न भवति। सामान्यलक्षण इण्न भवत्येव; `एकाचः' (7.2.10) इति प्रतिषेधात्। अन्येभ्यस्तु रुदादिभ्य उदात्तत्वादार्थधातुकस्यापीटा भवितव्यमेवेति स्वपेरेव प्रत्युदाहरणम्।।
77. ईशः से। (7.2.77)
`से' इति। `सुपां सुलुक्' (7.1.39) इति षष्ठ्या लकं कृत्वाऽविभक्तिकोऽयं निर्द्देशः। `ईशिषे' इति। `ईश ऐश्वर्ये' (धा.पा.1020), लट् अनुदात्तेत्वादात्मनेपदम्, `थासः सेट (3.4.80), अदादित्वाच्छपो लुक्। `ईशिष्व' इति। लोट्, से, `सवभ्यां वामौ' (3.4.91) इति वादेशे कृते `एकदेशविकृतमनन्य वद्भवति' (व्या.प.16) इतीहापि भवति।।
78. ईडजनोर्ध्वे च। (7.2.78)
`ध्वे' इति। पूर्ववदेवाविभक्तिकोऽयं निर्द्देशः। `ईडिध्वे' इति। `ईड स्तुतौ' (धा.पा.1019), पूर्ववदात्मनेपदम्, पूर्ववच्छपो लुक्। `ईडिध्वम्' इति। लोट्, `सवाभ्यां वामौ' (3.4.91) इत्यमादेशः। `जनिष्वम्' इति। पूर्वदातमनेपदम्। छान्दसत्वाच्छ्यनी लृक् `बहुलं छन्दसि' (3.2.88) इत्यनेन। `उपधालोपाभावश्च' इति। `गमहन' (6.4.98) इत्यादिनोपधालोपः प्राप्नोति, तदभावश्छाब्दसत्वादेव, `सर्वे विधयश्छन्दसि विकल्प्यन्ते' (पु.प.वृ.56) इति।
`जन जनन इत्यस्य' इत्यादि। ननु सानुबन्धकत्वादस्यैव[`चानुबन्धकत्वात्'--मुद्रितः पाठः।] ग्रहणेन भवितव्यम्, न पूर्वस्य, उच्चारणार्थोऽकारः, नानुबन्धः? नैष दोषः; इह हि लध्वक्षरत्वाज्जनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातो लक्षणव्यभिचाराय। तेन निरनुबन्धकपरिभाषाया (व्या.प.53) इहानुपस्थानादुभयोरपि ग्रहणं भवति। `व्यतिजज्ञिध्वम्' इति। `कर्त्तरि कर्मव्यतीहारे' (1.3.14) इति आत्मनेपदम्।
`तत्र' इत्यादि। तत्रैवं सूत्रपाठे `यस्मिन् विधिस्तदावावल्ग्रहणे' (व्या.प.127) इति सकारग्रहणे सकारादेः सेशब्दस्य ग्रहणम्। स च सकारादिशब्दः सार्वधातुकसंज्ञाकः सेशब्द एव सम्भवति; अन्यस्याऽसम्भवात्। ननु च स्वशब्दोऽपि सम्भवति? नैतदेवम्; एकदेशविकृतस्यानन्यत्वात् (व्या.प.16) सोऽपि सेशब्द एव, अतस्तद्ग्रहणेनापि भवितव्यम्।
`ये तु `ईडजनोर्ध्ये च' इति। सूत्रं पठन्ति, ते `ईशः स' (7.2.77) इत्यस्यैव योगस्यानुकर्वणार्थ चकारं कुर्वन्ति। तेनेशेरपि ध्वेशब्द इडागमो भवति। यदि तर्हीशेऱपि ध्व इडागम इष्यते, तदा `ईशीडजनां सेध्वयोः' इत्येकमेव सूत्रं कस्मान्न पठन्ति, एवं पृथग्विभक्तिर्नोच्चारयितव्या, चकारश्च न कर्त्तव्यो भवति? इत्याह--`विचित्रा सूत्रस्य' इत्यादि।
`ध्व इति कृतटेरेत्त्वस्य' इत्यादि। कृतटेरेत्त्वस्यैतदेव प्रयोजनम्--यत्र टेरेत्त्वं कृतं तत्रैव यथा स्यात्। न च लङि टेरेत्त्तवमसिति, अतस्तत्रेटा न भवितव्यम्। यद्येवम्, लोट्यपि न भवितव्यम्, अमादेशे कृते टेरेत्त्वस्याभावात्? इत्याह--`लोटि पुनः' इत्यादि।।
79. लिङः सलोपोऽनन्त्यस्य। (7.2.79)
`सार्वधातुके यो लिङ्' इति। `सार्वधातुके' (7.2.76) इत्येषात्र निर्धारणे सप्तमी, जातावेकवचनम्, यथा `कारके' (1.4.23) इति। अथ वा--सुब्व्यत्ययेन बहुवचनस्य परसङ्ग एकवचनम्। परसप्तमीत्येषा न न भवति--सार्वधातुके परतः; पूर्वस्य लिङोऽसम्भवात्। `कुर्यात्' इति। विध्यादिसूत्रेम (3.3.161) लिङ्, यासुट्, `इतश्च' (3.4.100) इतीकारलोपः, धातोर्गुणः, रपरत्वे `अत उत् सार्वधातुके' (6.4.110) (3.4.108), `उस्यपदान्तात्' (6.1.96) इति पररूपत्वम्। `कुर्वीत' इति। उकारस्य यणादेशः। `कुर्वीरन्' इति। `झस्य रन्' (3.4.105)।
`कुर्युः' कुर्याः' इति। अत्रानन्त्यग्रहणाज्जुसः सिपश्च न भवति।
`क्रियास्ताम्, क्रियासुः' इति। आशिषि लिङ् (3.3.173), `रिङ्शयग्लिङ्क्षु' (7.4.28) इति रिङादेशः। सार्वधातुकग्रहणादार्धधातुके न भवति। आर्धधातुकत्वं च `लिङाशिषि' (3.4.116) इत्यार्धधातुकसंज्ञाविधानात्। `कृषीष्ट, हृषीष्ट' इति। `उश्च' (1.2.12) इति कित्त्वम्, गुणाभावः।।
80. अतो येयः। (7.2.80)
सार्वधातुकं यत् प्रकृतं तदर्थादिह विभक्तिविपरिणामेन षष्ठ्यन्तं प्रतिपद्यते। अत एवाह--`अकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य' इति। `पचेत' [`पठेत्'--इति प्राचीनमुद्रितः पाठः] इति। इयादेशे कृतेऽकारेण सह `आद्गुणः' (6.1.87), `लोपो व्योर्वलि' (6.1.66) इति यकारलोपः। `चिनुयात्' इति। `स्वादिभ्यः श्नुः' (3.1.73) `यायात्' इति। अदादित्वाच्छपो लुक्। `चिकीर्ष्यात्' इति। सनन्तादाशिषि लिङ्।
`ननु चातो लोपेनात्र भवितव्यम्' इति। नार्थोऽनुवृत्तेन सार्वदातुकग्रहणेनेत्यभिप्रायः। `पचेदित्यत्रापि' इत्यादि। यद्यपि पचेदितोदमस्योदाहरणमभिमतम्, तत्रापि `अतो दीर्गो यञि' (7.2.101) इति दीर्घत्वेन भवितव्यमिति, ततश्च सर्वविषयस्य विध्यन्तरेणावष्टब्धत्वादनवकाशोऽयमियादेशः। तस्मादवश्यमनेन विध्यन्तरं बाधितव्यम्। एवञ्च यथा दीर्घस्यायं बाधकः, तथाऽतो लोपस्यापि स्यात्। तस्मात् सार्वधातुकग्रहणमनुवर्त्तयितन्यमिति भावः। `स्यादेतदेवम्' इत्यादि। यदि च दीर्घत्वं `तुरुस्तुन्नम्यमः सार्वधातुके' (7.3.95) इत्यतः सार्वधातुकग्रहणमनुवत्त्यं विधीयते, ततश्च स्यादेतदेवं यदुक्तवानसि; इयादेशस्यानवकाशत्वात्। अथ `भूसुवोस्तिङि' (7.3.88) इति तिङ्ग्रहणमनुवर्त्त्य विधीयते, तदा तिङ्मात्रमभावि दीर्घत्वमिति लिङ् विधीयमान इत्यादेशे नाप्राप्ते तस्मिन्नयमारभ्यते, ततश्च `येन नाप्राप्ति' (व्या.प.49) न्यायेन तस्यैव बाधको भवति, न त्वतो लोपस्य। इयोऽतो लोपे प्राप्ते चाप्राप्तेऽयमारभ्यते। आर्धधातुके हि प्राप्ते सार्वधातुके त्वप्राप्ते।
अथ येय इति कोऽयं निर्द्देशः, अत्र हि `या' इत्येष यः स्थानी तत्र षष्ठ्यां कृतायामतो या अस् इय इति स्थिते `आतो लोपः' (6.4.48) इति `आतः `धातोः' (6.4.140) इति योगविभागाद्वा आकारलोपे कृते `ससजुषोः' (8.2.66) इति षष्ठीसकारस्य रुत्वे कृते त्सय `भोभयोअघोअपूर्वस्य योऽशि' (8.3.17) इति यकारः। तस्यापि `लोपः शाकस्यस्य' (8.3.19) इति लोपे च `य इयः' इति निर्द्देशेन भवितव्यमिति, न तु यत इति। न ह्यत्राद्गुणो भवितुमुत्सहते; `पूर्वत्रासिद्धम्' (8.2.1) इति यलोपस्यासिद्धत्वात्? इत्यत आह--`येय इत्यविभक्तिकोऽयं निर्द्देशः' इति। येय इत्यस्मिन् स्थान्यादेशसमुदयेन `या' इति। योऽयं निर्द्देशः सोऽविभक्तिकः; `सुपां सुलुक्' (7.1.39) इति विभक्तेर्लुप्तत्वात्। अङ्गीकृत्य च सविभक्तिकत्वं निर्देशस्य परीहारान्तरमाह--`यः' इति। `वा' इत्यादि। कथं पुन लोपस्यासिद्धत्वं शक्यमनाश्रयितुम्? इत्यत्राह--`सौत्रोऽयं निर्देशः' इति। इतिकरणो हेतौ। यस्मात् `सर्वे विधयश्छन्दसि विकल्प्यन्ते' (पु.प.वु.56) इति `छन्दोवत् सूत्राणि भवन्ति' (म.भा) इति, तस्मात्, सौत्रत्वादस्य निर्द्देशस्यासिद्धत्वमनाश्रित्य `आद्गुणः' (6.1.87) कृतः। इत्यादेशेऽकार उच्चारणार्थः।।
81. आतो ङितः। (7.2.81)
`आतः', `ङितः' इति व्यधिकरणे षष्ठ्यौ। आत इयादेशापेक्षया स्थाने षष्ठीति। ङित इति आकारापेक्षयावयवषष्ठी' ङितो ह्यकारमात्रस्यासम्भवात्। ङित इत्येषोऽवचवयोगे षष्ठो विज्ञायते--ङिदवयस्येति ङकार इद्यस्य स ङित्, तस्यावयवो ङिदवयवः। `पचेते' पचेथे' इति। लट्, स्वरितेत्त्वादात्मनेपदम्, आतामथाम्, `सार्वधातुकमपित्' (1.2. 4) इति ङित्त्वम्। `पचोताम्, पचेथाम्' इति। लोट्, टेरेत्त्वे (3.4.79) कृते `आमेतः' (3.4.90) इत्याम्।
ननु च ङिदवयवोऽत्राकारो न भवति, यस्माद्गाङकुटादिसूत्रे (1.2.1) ङितीव ङिद्वदित्येवमर्वोऽङ्गौक्रियते, तथा `सार्वधातुकमपित्' (1.2.4) इत्यत्राप्ययमर्थः, तथा ह्यस्मिन्नपि योगे तदेव ङिद्ग्रहणमनुवर्त्तते, तस्मिंश्चार्थेऽङ्गीक्रियमाणे ङिति यत्कार्यं तदपि हि सार्वधातुके परतः पूर्वस्य लक्ष्यते, न तु तस्यैवापित्सार्वधातुकस्यङित्वम्? इत्याह--`सार्वधातुकमपिदित्यत्र' इत्यादि। `पूर्वसूत्र एव' इति। गाङ्कुटादिसूत्रे (1.2.1) यद्येवमङ्गीक्रियते--गाङ्कुटादिभ्यः परो योऽञ्णित्प्रत्ययोऽसौ ङिदवद्भवतीति, तदा कुटादिभ्यः परस्य सनो ङित्त्वं भवति, ङित्त्वे सति `अनुदात्तङितः' (1.3.12) इत्यादिनाऽऽत्मनेदपं स्यात्, ततश्चोच्चुकुटिपतीति न सिध्येत्। तस्मादेतत्सिध्यर्थं ङितीय ङिद्वदित्यङ्गीक्रियते। `सार्वधातुकमपित् (1.2.4) इत्यत्र तु तत् सार्वधातुकं ङिद्भवतीत्येषोऽर्थोऽङ्गीक्रियते। तस्माद्युक्तमेवाकारस्य ङिदवयवत्वम्। `पचन्ते, यजन्ते' इति। `भवत्यत्र [`भवत्यङिदवयवो'--मुद्रितपाठः] ङिदवयवोऽक्तादेशस्याकारः, तथाप्यात इति वचनात्र भवति। `पचावहै, पचामहै' इति। लोट् वहिमहिङौ। आडुत्तमस्य पिच्च' (3.4.92) इत्याट्, उत्तमश्च पिद्भवतीति। अत्र पित्त्वान्ङित्त्वं न भवतीति आतो ङिददयवाकारो न भवति।
`मिमाते, मिमाथे' इति। `माङ माने' [`माने शब्दे च'--धा.पा.] (धा.पा.1088), जुहोत्यादित्वाच्छपः श्लुः। `श्लौ' (6.1.10) इति द्विर्वचनम्, `भृञायित्' (7.4.76) इत्यभ्यासस्येत्त्वम्, `श्नाभ्यस्तयोरातः' (6.4.112) इत्याकारलोपः।।
82. आने मुक्। (7.2.82)
`अङ्गस्यातः' इति। व्याधिकरणे षष्ठ्यो--आङ्गस्य योऽत् तसय मुगगमो भवतीति। तदिहाद्ग्रहणं तर्हि क्रियताम्? न कर्त्तव्यम्; `अतो येयः' (7.2.80) इत्यतोऽत इत्यनुवर्त्तिष्यते। ननु च पञ्चमीनिर्दिष्टं तत्र, षष्ठीनिर्दिष्टेन चेहार्थः? नैतदस्ति; अत इत्येषा तु पञ्चमी तत्रेयादेशे चरितार्था, `आने' इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चमी तत्रेपादेशे चरतार्था, `आने इत्येषा तु सप्तम्यकृतार्था। तस्मादान इत्येषा सप्तम्यत इत्यस्याः पञ्चम्याः षष्ठीत्वं परिकल्पबयिष्यति, `तस्मिन्निति निर्द्दिष्टे पूर्वस्य' (1.1.66) इति नियमात्। ननु चाकारोवर्णो मकारोऽपि वर्ण एव, मुगयं त्वन्तलिङ्गः, अन्तश्चावयवः, न च वर्णो `वर्णस्यावयवो [`वर्णस्यावयवी--मुद्रित पाठः] युज्यते, तेनानारब्धत्वात्, तस्मादयुक्तमुक्तम्--अतो मुगागमो भवतति? नैष दोषः; सर्वत्रैव हि यस्यागमो विधीयते, यश्चागमो विधीयते तत्समुदायापेक्षयाऽऽदित्वमन्तत्वं वा विधीयते। तस्मादत्तो मुगागमो भवतीत्यस्यार्थोऽयं विवक्षितः--अकारादिरयं समुदायो सकारान्तश्च भवतीति। `पचमानः' इति। लट्, तस्य शानच्।
आने परतोऽह्गस्यातो मुगागमो भवतीत्युक्ते समानाधिकरणे एते षष्ठ्याविति मन्यमानोऽकारान्तस्य आने परतो मुगगगमो भवतीतीदं सूत्रार्थ गृहीत्वा य एवं देशयेत्--यद्यकारान्तमङ्गमागमि, पचमान इत्यत्र `अदुपदेशाल्लसार्वधातुकमनुदात्तम्' (6.1.186) इत्यनुदात्तत्वं न स्यात्; अकारस्य मुका व्यवहितत्वात्। अकारो य उपदेश इत्येवं हि ततर व्यवस्थितम्, न त्वकारान्तोऽयमुपदेश इति। न च शक्यते वक्तुम्--अङ्गभक्तोऽयं नुक्, अतो नास्ति व्यवदानमिति; अङ्गभक्तो ह्ययमङ्गमेव न व्यवदध्यात्, अकारं तु व्यवदधात्येव। अवयवो हि समुदायस्य व्यवधायको न भवति। अवयवान्तरस्य तु व्यवधायको भवत्येवेत्यत आह--`अकारमात्रभक्तो ह्ययम्' इत्यादि। मात्रशब्दोऽयमङ्गभक्तत्वव्यवच्छेदाय। अङ्गञ्चात्राकारविशेषणम्। अकार एवागमी, नाङ्गम्। तस्मात् तदभक्तत्वात् तदग्रहणेनैव मुग् गृहयत इति व्यवधानाभावाल्लसार्वधातुकमनुदत्तं भवति। ननु चाकारान्तभक्तेऽपि मुकि भवितव्यमेव `लसार्वधातुकमनुदात्तमहन्विङोः' (6.1.186) इत्यनुदात्तत्वेन, `स्वरविधौ व्यञ्जनमविद्यमानवत्' (व्या.प.37) इति मुकोऽविद्यमानवत्त्वाद्व्यवधानाभावात्? एवं मन्यते--नैषा परिभाषा भाष्यकारस्य सम्मता। तथा हि--तेनेमां परिबाषां प्रत्याख्यायेयमन्या परिभाषा गृहीता--`हलःस्वरप्राप्तौ [`हल्स्वरप्राप्तौ--नी.प.वृ] व्यञ्जनमविद्यमानवत्' (नी.पा.वृ.68), इति। न चात्र हलः स्वरप्रापतिरस्ति, किं तर्हि? अचः। `यद्येवम्' इत्यादि। यद्यकारभक्तोऽय मुकं तद्ग्रहहणेन गृह्य इत्येवं स्त्यव्यवधायकत्वादेव तस्य पचमान इत्यत्राकारादनन्तरस्यान इति, तस्य `आतो ङितः' (7.2.81) इतीयदेशः प्राप्नोतीत्यत आत--`तपरकरणनिर्देशान्न भवति' इति। अकारो ह्यत्र मात्राकालस्तपरो निरदिष्टो मुकि सतयर्धमात्रो भवति। अतः कालभेदान्न भविष्यति। अधिकमर्द्ध यस्याः साऽध्यर्द्धा, अध्यर्द्धा मात्रा यस्या सोऽद्यर्द्धमात्रः। लसार्वधातुकमनुदात्तमपि तर्हि न प्राप्नोतीति तद्विधावपि तपरनिर्देशात्। `उपदेशग्रहणम्' इत्यादि। उपदेशग्रहण तत्र क्रियते प्रागवस्थोपलश्रणार्थम्। तेन उपदेशावस्थायां मात्राकालस्तस्य यद्यप्युत्तरकालं मुकि कृते कालभेदोऽस्ति, तथापयुपदेशावस्थायां मात्राकालत्वाद्भवत्येवात्रानुदात्तत्वम्। `तथा च' इत्यादि। यतस्तत्रोपदेशादूर्ध्वं सत्यपि कालभेदेऽनुदात्तत्वेन भवितव्यम्, एवञ्च कृत्वा यत्रापि `अतो दीर्घो यञि' (7.3.101) इति दीर्घत्वे कृते कालभेदोऽस्ति--पचाव इत्यादौ, तत्रापि भवति।।
83. ईदासः। (7.2.83)
`आसः' इति पञ्चम्यकृतार्था `आने' (7.2.82) इति पूर्वत्र कृतार्थायाः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति; `तस्मादित्युत्तरस्य' (1.1.67) इति वचनात्। तेनानस्यैवायमादेशो विधीयते, इत्याह--`आस उत्तरस्यानशब्दस्य' इति। `आसीनः' इति। `आस उपवेशने' (धा.पा.1021)। अनुदात्तेत्त्वादात्मनेपदम्; `आदेः परस्य' (1.1.54) इत्याकारस्येकारः। अदादित्वाच्छयो लुक्। तपरकरणं मुखसुखार्थम्।।
84. अष्टन आ विभक्तौ। (7.2.84)
`आ इति व्यक्तिनिर्देशोऽयम्' इति। शुद्धाया निरनुनासिकाया आकारस्य व्यक्तेरेव निर्देश इत्यर्थः। अथाकृतिनिर्देशे को दोषः स्यात्, यतस्तत्परीहारार्थो व्यक्तिनिर्देशोऽयमाश्रितः? इत्यत आह--`आकृतिनिर्देशे हि' इत्यादि। जातिरिहाकृतिर्विवक्षिता, न तु संस्थानम्। जातिनिर्देशे सति शुद्धाया जातेर्निर्देष्टुमशक्यत्वात् तदाधारभूतासु व्यक्तिषु कार्यं विज्ञायते। तत्र यदीह जातिनिर्देश आश्रीयेत, तदा सर्वास्वकारव्यक्तिषु जात्यावारत्वमुपगतासु `अलोऽन्त्यस्य' (1.1.52) इति नकारस्य विधोपमान आकार आन्तरतम्यादनुनासिकस्य स्थानेऽनुनासिक एव स्यात्। व्यक्तिनिर्देशे त्वेष दोषो न भवति; इत्यादि न सिध्यति, न ह्यत्र विकल्पाभिधायि वचनमस्ति, नपि प्रकृतम्? इत्यत आह--`विकल्पेन' इत्यादि। `अष्टनो दीर्घात्' (6.1.172) इत्यनेनाष्टनी दीर्घादसर्वनामस्थानाविभक्तेरुदात्तत्वं विधीयते। यदि च नित्यमात्त्वं स्यात्, दीर्घादिति विशेषणं निरर्थकं स्यात्। अष्टाभ्य औश्' (7.1.21)इत्यत्र च कृतात्त्वस्य निर्देशोऽनर्थकः स्यात्। व्यवच्छेद्याभावदष्टन इत्येवं ब्रूयात्। तस्माद्दीर्घग्रहेन कृतात्त्वनिर्देशेन विकल्पेनेदमात्त्वं भवतीति ज्ञापितम्। तेनाष्टभिरित्याद्यपि पक्षे उपात्तः; एकवचननिर्देशात्। अन्यथा हि बह्वर्थत्वादष्टानामित्येवं ब्रूयात्। तस्मात् स्वरूपधानोयम्। तत्राङ्गे प्रकृतेऽनेन विशेष्यमाणे तदन्तविधिर्लभ्यते। विशेषणेन हि तदन्तविधिर्भतीत्युक्तम्। `प्रियाष्टा' [नेदमदाहरणं मूले दृश्यते] इति। `सर्वनामस्थाने' (6.4.8) इत्यादिना दीर्घः।।
85. रायो हलि। (7.2.85)
86. युष्मदस्मदोरनादेशे। (7.2.86)
`युष्मत्, अस्मत्' इति। `पञ्चम्या अत्' (7.1.31) इति पञ्चमीभ्यसोऽदादेशः, `शेषे लोपः' (7.2.9) इत्यन्तलोपे कृते `अतो गुणे' (6.1.97) पररूपत्वम्।
यदि च हलीत्यधिकारादत्राप्यात्त्वं न स्यात्, तत् किमर्थमनादेशग्रहणम्? इत्याह--`उत्तरत्र तु' इत्यादि। उत्तरत्र `योऽचि' (7.2.89) इति सूत्रेऽनादेशस्य प्रयोजनमिति। यद्येवं तत्रैव कर्त्तव्यम्, इह किमर्थं क्रियते? विस्पष्टार्थमित्यभिप्रायः।।
87. द्वितीयायाञ्च। (7.2.87)
`त्वाम्, माम्' इति। `त्वमावेकवचने' (7.2.97) इति त्वमादेशौ। `युवाम्, आवाम्' इति। `यवावौ1 द्विवचने' (7.2.92) इति युवावादेशौ। सर्वत्र `ङे प्रथमपोरम्' (7.1.28) इत्यम्भावे विभक्तेः कृतोऽमि पूर्ववत्वम् (6.1.107)।।
88. प्रथमायाश्च द्विवचने भाषायाम्। (7.2.88)
इदमप्यादेशार्थं वचनम्। `युवयोः, आवयोः' इति। ननु च `योऽचि' (7.2.89) इति यत्वमत्र वाधकं भविष्यति? प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो (7.2.90) बाधकः स्यात्। तत्र यथा वचनसामर्थ्याच्छेषेलोपोऽनेन बाध्यते, तथा यत्वमपि बाध्येत। `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.9) इति यत्वमपि बाध्येत। तस्मात् `प्रथमायाः' इति वक्तव्यम्। `त्वम् अहम्' इति। `त्वाहौ सौ' (7.2.94) त्वाहावादेशौ। `औ' इति वक्तव्ये प्रथमाया द्विवचनं वैचित्र्यार्थम्।।
89. योऽचि। (7.2.89)
`युष्मदस्मोदारमादेश इत्यत्र' इत्यादि। `युष्मदस्मदोरनादेशे' (7.2.86) इत्यत्र यदि पूर्वसूत्राद् (7.2.85) हल्ग्रहणमनुवर्त्तते, तदाऽविशेषेम विधीयमानं यत्वमुत्सर्गो ज्ञाप्यते। आत्वं तु विभक्तिविशेषे हलादौ विधीयमानमस्याप्यपवादः। एवं चाप्यन्तरेणाप्यज्ग्रहणम्, यकारोऽजादावेवावतिष्ठते, तस्मदचीत्येच्छक्यमकर्त्तुम्? तत् क्रियते विस्पष्टार्थम्।
`स्वद् गच्छति, मद् गच्छति' इति। `एकवचनस्य च' (7.1.32) इति ङसेरदादेशः।।
90. शेषे लोपः। (7.2.90)
`यान्यद्विवचनानि' इति। एकवचनबहुवचनानीत्यर्थः। `अत्र' इति। पञ्चम्यादिषु विभक्तिषु। `तेषु लोपो विधीयते' इति। तेषामेव शेषत्वात्। `तुभ्यम्, मह्यम्' इति। `तुभ्यमह्यौ ङयि' (7.2.95) इति तुभ्यमह्यावादेशौ भवतः। `युष्मभ्यम्' अस्मभ्यम्' इति। `भ्यसो भ्यम्' (7.1.30) इति भ्यमादेशः। `तव, मम' इति। `तवममौ ङसि' (7.2.96) इति तवममादेशौ। `युष्माकम्, अस्माकम्' इति। `साम आकम्' (7.1.33) इति।
अथ शेषग्रहणं किमर्थम्, न `लोपः' इत्येवोच्येत, एवमुच्यमाने सत्यविशेषेण लोपः स्यादित्येतच्च नाशङ्कनीयम्, अविशेषेण हि लोपो विधीयमान उत्सर्गो भविष्यति, तस्यानादेशे विभक्तिविशेषे यकाराकारापवादौ, एवञ्चान्तरेणापि शेषग्रहणं शेष एव लोपोऽवस्थाप्यते? इत्यत आह--`शेषग्रहणं विस्पष्टार्थम्' इति। `शेषेलोपे कृते स्त्रियां टाप् कस्मान्न भवति' इति। अन्त्यलोपे कृते सत्यदन्तत्वात् `अजाद्यतष्टाप्' (4.1.4) इति टापा भवितव्यमिति भावः। `सन्निपात' इत्यादि। विभक्त्यानन्तर्ये हि सति युष्मदस्मदी अकारान्ते समुपजाते। तत्र यदि टापमुत्पादयेयाताम्, तदा विभक्तेरानन्तर्य ताभ्यां विहतं स्यात्। न च यो यत्सन्निपातलक्षणः स तद्विघातस्य निमित्तं भवतीति न भवति टाप्। यद्येवम्, त्यदादिभ्योऽपि न स्यात्? नैष दोषः; यदयम् `न यासयोः' (7.3.45) इति निर्देशं करोति, तज्ज्ञापयति--भवति त्यदादिभ्यष्टाविति। अयञ्च स्त्रीलिङ्गत्वं युष्मदस्मदोरभ्युपेत्य परीहार उक्तः। इदानीं स्त्रीलिङ्गाभावादेव टाब्न भवतीति दर्शयितुमाह--`अलिङ्गे' इत्यादि।
`केचित्तु शेषेलोपं टिलोपमिच्छन्ति' इति। त्वं ब्राह्यणी, अहं ब्राह्मणी--इत्यत्र टाब्मा भूदित्येवमर्थम्। युष्मभ्यम्, अस्मभ्यमित्यत्र भ्यमादेशे कृते `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वं मा भूदित्येवमर्थञ्च। `कथम्' इति। एवं मन्यते--यत्र विभक्तावाकारो यकारश्च न विहितः स शेषः, तत्र शेषेलोप उचयमानष्टिलोपो न लभ्यते। `अलोऽन्त्यस्य' (1.1.52) इति परिभाषयाऽन्त्यस्यैव प्राप्नोतीति वक्ष्यमाणादेशापेक्षया शेष इत्यस्यार्थं `ते च' इत्यादिना स्पष्टीकरोति। `मपर्यन्ताद्योऽन्यः स शेषः' इति। स पुनष्टिरेव। अत्रायं शेषोलोपष्टिलोपो भवतीति लोपं प्रति शेषस्याधिकरणविवक्षायां सप्तमी। किमर्थं पुनर्लोप इत्युच्यते, यावता त्यदाद्यत्वेनैव सिद्धम्? न सिध्यति; अत्यदादित्वात्। त्यदादित्वं हि द्वपर्यन्तास्त्यदादयः' इति। तत्र चैतदेव शेषेलोपवचनं ज्ञापकम्। तेन भवच्छब्दस्य त्यदाद्यत्वं न भवति--भवानिति।।
91. मपर्यन्तस्य। (7.2.91)
`युवकाम्, आवकाम्' इति। `अव्ययसर्वनाम्नामकच्प्राक्टेः' (5.3.71) इत्यकच। अत्र यदि मपर्यन्तस्येति नोच्यते, ततोऽवधेरनुपादानात् साकच्कस्यापि स्यादित्यत आह--`साकच्कस्य सर्वस्य मा भूत्' इति। असति मपर्यन्तग्रहणे, अवधेरनुपादनादनेकाल्वाच्चादेशस्य सर्वस्यैव स्यात्। कः पुनः सर्वादेशे दोषः स्यात्? इत्यत आह--`तथा च' इत्यादि। `अनिष्टं रूपं स्यात्' इति। अकारस्य `योऽचि' (7.2.89) इति यकारे कृते त्व्या, म्या इति स्यात्। मपर्यन्तग्रहणे तु सति युष्मदस्मदोर्मपर्यन्तस्य स्थानित्वेनाधिकृतत्वादस्यैव वक्ष्यमाणा आदेशा भवन्तीति न कश्चिद्दोष इति।
अथ परिग्रहणं किमर्थम्, न मान्तस्येत्येवोच्यतेत, एवमपि ह्युचयमानेऽन्तशब्दस्य समीपवचनत्वात् तद्गुणसंविज्ञानस्य बहुव्रीहेराश्रयणात् सिद्धमिष्टम्? इत्यत आह--`मान्तस्य' इत्यादि। एतस्मिन् साकच्कस्यादेशाभावे अथवैतस्मिन् युवकामावकामित्यादिके शब्दरूपे मान्तस्येत्येवं सिद्धं यत् परिग्रहणं कृतं तदवधिद्योतनार्थम्। युष्टदस्मदोरवयवसय स्थानिनोऽवधिद्योतनार्थम्। तस्मान्मान्ते युष्मच्छब्दे अस्मच्छब्दे च वक्ष्यमाणं कार्यं मा भूदित्येवमर्थम्। कदा? इत्यादि--`यदा ण्यन्तयोः' इत्यादि। तदाचष्ट इति युष्मदस्मद्भ्यां णिचि कृते `णाविष्ठवत् कार्यं प्रातपदिकस्य' (वा.813) इतीष्ठवद्भावाट्टिलोपः, ततः क्विप्, तत्र `णेरनिटि' (6.4.51) इति णिचो लोपे कृते यदा मान्तत्वं विद्यते युष्यदस्मदोस्तदा मा भूदिति। असत्यपि परिग्रहणे मान्स्येत्येन युष्मदस्मदोरित्ययवावस्थानं लभ्यते, ततश्च यत्र मान्ते युष्मदस्मदी, तत्रैव वक्ष्यमाणा आदेशा भवेयुः। परिग्रहणे त्ववधिद्योतनार्थे सति नियोगतो वर्ज्यमानेन भवितव्यम्; न हि तेन वनाऽवधिः सम्भवति। तत्र समुदायावयवस्थानीनिर्द्दिश्यते। यत्राच्छब्दो वर्जनीयोऽस्ति तत्रैव भविष्यति, न तु मान्तयोरयुष्मदस्मादोरेव। ननु च विभक्तिपरयोर्युष्मदस्मदोरादेशा विधास्यन्ते, न च मान्तवस्थायां विभक्तिपरतस्ति; णिलोपस्य स्थानिवद्भावात्, तत् किं मान्तस्य निवत्त्यर्थेन परिग्रहणेन? इत्याह--आह--`स्थानिवत्त्वं च' इत्यादि। `क्वौ लुप्ते न स्थानिवत्' (वा.1.1.58) इति वचनात् स्थानिवद्भावोऽत्र नास्ति। तस्माद्विद्यत एव विभक्तिपरत्वमित्यभिप्रायः।।
92. युवावौ द्विवचने। (7.2.92)
`द्विवचने' इति। यदीदं पारिभाषिकस्य दविवचनस्य ग्रहणं स्यात्, स्यात्, तदा तस्मिन् परत एव तावादेशो भवेताम्। तथा च यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वादेकवचनं बहुवचनं वा समासाद्भवति, तदा न स्यातामिति; यदा युष्मदस्मदी एकत्वे वा बहुत्वे वा वर्त्तेते समासार्थस्य द्वित्त्वे सति समासाद्द्ववचनं वति, तदा युवादौ स्यातामेव, एतच्चानिष्टम्' इति। द्वयोरर्थयर्वचनमुक्तिः=द्विवचनम्। `द्विवचने ये युष्मदस्मदी' इति। `द्विवचने' इति। विषयसपतमीयम्। तदेव विषयसप्मीत्वमस्या व्यक्तीकर्तुमाह--`द्व्यर्थाभिधानविषये' इति। `द्वयोरर्थयोरभिधानं द्व्यर्थाभिधानम्, तद्विषय ये युष्मदस्मदी ते तथोक्ते। `तयोः' इत्यादि। तयोर्युष्मदस्मदोर्मपर्यन्तावयवः स्थानी, तस्य युवावौ भवतः।
`यदा' इत्यादिनार्थग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। यदि तर्हि समासादेकवचनबहुवचनयोरुपजातयोर्द्व्यर्थाभिधानदिषयत्वाद्युष्मदस्मदोर्युवावौ भवतः, एवं सति `त्वाहौ सौ' (7.2.94), `यूयववौ जसि' (7.2.93), `तुभ्यमह्यौ ङपि' (7.2.95), `तदममौ ङसि' (7.2.96)--इत्येषामपि विषये स्याताम्? इत्यत आह--`यदि त्वाहौ सौ' इत्यादि। `अतियुवामत्यावाम्' इति। `आत्यादयः क्रान्ताद्यर्थे' (वा.91) इति प्रादिसमासः। तत्र योऽसौ युष्मदस्मदर्थञ्चातिक्रान्तः स एकसंख्यावच्छिन्नोऽर्थ इति तत्र यद्यप्येकवचनं भवति, तथापि द्व्यर्थाभिधानविषयत्वाद्युष्मदस्मदोर्युवावौ भवत एव। अत्र हि `द्वितीयायाञ्च' (7.2.87) इत्यात्त्वम्। `अतियुवान्, अत्यावान्' इति। `शसो न' (7.1.29) इति नत्वम्। `अत्यावया' इति। `योऽचि' (7.2.89) इति यत्वम्। `अतियुवाभिरत्यावाभिः' इति। `युष्मदस्मदोरनादेशे' (7.2.86) इत्यात्त्वम्। `अतियुवभ्यमत्यावभ्यम्' इति। `भ्यसो भ्यम्' (7.1.30)। `अतियुवदत्यावत्' इति। `एकवचनस्य च' (7.1.32) इति ङसेरदादेशः। बहुवचनस्य तु `पञ्चम्या अत्' (7.1.31) इत्यनेन। `अतियुदाकम्, अत्यावाकम्' इति। `साम आकम्' (7.1.30)। `अतियुवदत्यावत्' इति। `एकवचनस्य च' (7.1.32) इति ङसेरदादेशः। बहुवचनस्य तु `पञ्चम्या उत्' (7.1.31) इत्यनेन। `अतियुवाकम्, अत्यावाकम्' इति। `साम आकम्' (7.1.33) `अतियुवयि, अत्यादयि' इति। पूर्ववद्यत्वम्। `अतियुवासु अत्यावासु' इति। पूर्ववदात्त्वम्।
`त्वाहादीनां विषये' इत्यादिना यदुक्तं--`यदि त्वहौ (7.2.94) इत्यादिनाऽऽदेशान्तरेण न बाध्येते' इति, तद्धिस्पष्टीकरोति--`यदा तु' इत्यादिना। अर्थग्रहणे सति यदिष्टमुपपद्यते तद्दर्शयति--`अतित्वामतमाम्' इति। अत्र यो युष्मदस्मदर्थावतिक्रान्तौ तौ द्विसंख्यौ समासार्थाविति समासाद्यद्यमि द्विवचनं भवति, तथापि युष्मदस्मदोर्द्व्यर्थता नास्तीति युवावौ न भवतः। त्वमावेव भक्तः। `प्रथमायाश्च द्विवचने भाषायाम्' (7.2.88) इत्यात्त्वम्। अथ वा--द्वितीयाद्विवचनमेतत्, ततः `द्वितीयायाञ्च' (7.2.87) इति। `एवसुन्नेयम्' इति। वचनान्तरेष्वप्यादेशाभावं दर्शयति। युष्मानतिक्रान्तौ पश्य अतियुष्माम्, अत्यस्माम्। अतिक्रान्ताभ्यां त्वां कृतमतित्वाभ्याम्, अतिमाभ्याम्। अतिक्रान्ताभ्यां युष्मान् कृतमतियुष्माभ्यां कृतम्। त्वामतिक्रान्ताभ्यां देहि अतित्वाभ्यां देहि, अतिमाभ्यां देहि। अतिक्रान्ताभ्यां युष्मान् देहि अतियुष्माभ्यामत्यस्माभ्यां देहि। अतिक्रान्ताभ्यां त्वामागतोऽतिस्याभ्यामागतः, अतिमाभ्यामागतः। अतिक्रान्तभ्यां युष्मानागतोऽतियुष्माभ्यामागतः, अत्यस्माभ्यामागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्, अतिमयोः स्वम्। युष्मानतिक्रान्तयोः स्वमतयुष्मयोः स्वम्, अत्यस्मयोः स्वम्। अतिक्रान्तयोस्त्वां निधेहि अतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तयोर्युष्मान्निधेहि, अतियुष्मयोर्निधेहि, अत्यस्मयोर्निदेहि।।
93. यूयवयौ जसि। (7.2.93)
`परमयूयम्' इति। `अङ्गाधिकारे तस्य च तदुत्तरपदस्य च' (पु.प.वृ.85) इति वचनादुत्तरपदयोरपि भवतः। अथ वा--`जसि' इति परसप्तमीयम्, तेन समस्तयोरपि जसि परत इति भवतः। परमयूयमित्यादावपि युष्मदस्मद्भ्यां जसः परत्वमस्त्येव।।
94. त्वाहौ सौ। (7.2.94)
`त्वमावेकवचने' (7.2.97) इति वक्ष्यति, तस्यायमपवादः। अथ त्वग्रहणं किमर्थम्, `अहः सौ' इत्येवोच्येत, त्वादेशो हि `त्वमावेकवचने' (7.2.97) इत्येवं भविष्यति? अशक्यमेवं वक्तुम्; असति त्वग्रहणे युष्मदोऽप्यहादेशः स्यात्। अथ वा--अत्र `अस्मदोऽहः सौ' इतेयवोच्येत? एवमपि गौरवं स्यात्। तस्माद्यथान्या समेवास्तु।।
95. तुभ्यमह्यौ ङयि। (7.2.95)
96. तवममौ ङसि। (7.2.96)
अनन्तरं वक्ष्यमाणयोस्त्वमयोः प्राप्तयोरिवं वचनम्।।
97. त्वमावेकवचने। (7.2.97)
`एकवचन इत्यर्थेनिर्देशः' इति। एतेनार्थस्येवं ग्रहणम्, न तु पारिभाषिकस्यैकवचनस्येति दर्शयति। पारिभाषिकस्य तु ग्रहणे यो दोषः स `युवाधौ द्विवचने' (7.2.92) इत्यत्रोक्त इत्यभिप्रायः। अर्थग्रहणं त्विह वचनग्रहणाल्लभ्यते। यदीह प्रत्ययग्रहणमभिमतं स्यात्, `एकत्वे' इत्येवं ब्रूयात्। विभक्ताविति वर्त्तते, तत्रैवमभिसम्बन्धः करिष्यते--एकत्वे या विभक्तिरिति। अथ वा--एतदिति न ब्रूयात्; एकवचने हि `प्रत्ययोत्तरपदयोश्च' (7.2.98) इत्येनेनैवादेशयोः सिद्धत्वात्। `त्वाम्, माम्' इति। `द्वितीयायाञ्च' (7.2.87) इत्यात्त्वम्।
`यदा समास एकार्थे' इत्यादिनाऽर्थग्रहणं सति यदिष्टं सिध्यति तद्दर्शयति। यदापि समासात् संख्यान्तरयुक्ताद्द्विवचनं बहुवचनं वा भवति, तदाप्येकार्थयोर्युष्मदस्मदोरेतावादेशो भवतः। एवं सति `त्वाहौ सौ' (7.2.94), `यूय्वयौ जसि' (7.2.93), `तुभ्यमह्यौ ङयि' (7.2.95), `तवममौ ङसि' (7.2.96)--इत्येषामप्यादेशान्तराणां विषयं स्यातामित्यत आह--`आदेशान्तराणां तु' इत्यादि। पूर्वविप्रतिषेधस्येति वचनं परस्य विप्रतिषेधस्यासम्भवात्। असम्भवस्त्वनयोरेव परत्वात्। पूर्वविप्रतिषेधस्तु परशब्दस्येष्टवाचित्वाल्लभ्यते। तत्र `त्वाहौ सौ' (7.2.94) इत्यस्यावकाशो यत्रैकार्थे युष्मदस्मदी न भवतः--अतिक्रान्तो युष्मानित्यतित्वमत्यहमिति, त्वमावेकवचन(7.2.97)स्यावकाशो यत्रैकार्थाभ्यां विभक्त्यन्तरं भवति--त्वाम्, मामिति; अतिक्रान्तस्त्वामतित्वमतिक्रान्तो मामत्यहमित्यत्रोभयप्रसङ्गे प्राप्ते त्वहौ सौ भवतः पूर्वविप्रतिषेधेन। अन्या दिशाऽऽदेशान्तरेषु प्राप्तेषु पूर्वं विप्रतिषेधो वक्तव्यः। `अतिक्रान्तो त्वामतित्वाम्, अतिमाम्' इति। अत्र यद्यपि समासाद्द्विवचन भवति, तथाप्येकार्थे युष्मदस्मदी इति भवत एव त्वमादेशौ। पारिभाषिकस्य त्वेकवचनस्य ग्रहणे न स्याताम्; तस्येहाविद्यमानत्वात्। `एवमाद्युदाहर्त्तव्यम्' इति। अतिक्रान्तौ त्वां पश्यातित्वाम्, अतिमां पश्य। अतित्वाभिरतिमाभिः कृतम्। अतक्रान्ताभ्यां त्वां देह्यतित्वाभ्यामतिमाभ्यां देहि। अतिक्रान्तेभ्यस्त्वां देह्यतित्वभ्यमतिमभ्यं देहि। अतिक्रान्तयोस्त्वां त्वामागतोऽतित्वाभ्यामतिमाब्यामागतः। अतिक्रान्तेभ्यस्त्वामागतोऽतित्वदागतोऽतिमदागतः। अतिक्रान्तयोस्त्वां स्वमतित्वयोः स्वम्, अतिमयोः स्वम्। अतिक्रान्तानां त्वां स्वमतित्वाकं स्वम्, अतिमाकं स्वम्। अतिक्रान्तयोस्त्वां निधेह्यतित्वयोर्निधेहि, अतिमयोर्निधेहि। अतिक्रान्तेषु त्वां निधेह्यतित्वासु निधेहि, अतिमासु निधेहि।।
98. प्रत्ययोत्तरपदयोश्च। (7.2.98)
`एकवचने वर्त्तमानयोः' इति। एकार्थाभिधानविषयोयोरित्यर्थः। `त्वदीयः मदीयः' इति। `त्यदादीनि च' (1.1.74) इति वृद्धसंज्ञकत्वात् `वृद्धाच्छः' (4.2.114) इति च्छप्रत्ययः। `त्वत्तरः, मत्तरः' इति। `द्विवचनविभदज्योपपदे तरबीयसुनौ' (5.3.57) इति तरप्। `त्वद्यति, मद्यति' इति। `सुप आत्मनः क्यच्' (3.1.8)। `त्वद्यते, मद्यते' इति। `कर्त्तुः क्यङ सलोपश्च' (3.1.11) इति क्यङ।
ननु च पूर्वेणेवदेशौ सिद्धौ, तत् किमर्थोऽयमारम्बः? इत्यत आह--`विभक्तावित्यधिकारात्' इत्यादि।
`ननु च' इत्यादि देशकः। प्रकृतिप्रत्यययोः पूर्वोत्तरपदयोश्च या मर्ध्ये वर्त्तते साऽन्तर्वत्तिनी विभक्तिः। नैवं शक्यम्' इतीतरः। `लुका तस्य भवितव्यम्' इति, अश्यतायां हेतुः। `सुपो धातुप्रातिपदिकयोः' (2.4.71) इति प्रागेवादेशाभ्यां लुका भवितव्यमिति, ततश्च तन्निमित्तावादेशौ न स्यातामित्यभिप्रायः। `बहिरङ्गो लुक्' इत्यादि देशकः। विभक्तिमात्रं ह्यादेशयोराश्रयः लुकस्तु धातुत्वं प्रातिपदिकत्वञ्चापरम्। तदेवं धातुप्रतिपदिकत्वे यथायोगं बाह्यप्रत्ययापेक्षत्वात् समासापेक्षत्वाच्च बहिरङ्गे किं पुनस्तदपेक्षया लुको बहिरङ्गता? `असिद्धं बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यादेशावेव प्रथमं भविष्यतः। `एतदेवेत्यादि' इतरोऽपि। `अन्तरङ्गानपि विथीन् बहिरङ्गो लुग्न बाधते' इति पूर्वेणैव सिद्धत्वाददेशवचनं न कुर्यात्, कृतञ्च, तदेव ज्ञापयति--`अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते' (व्या.प.128) इति। किमेतस्य ज्ञापकस्य प्रयोजनम्? इत्यत आह--`तेन' इत्यादि। यद्ययमर्थो न ज्ञाप्यते, तदा गोमान् प्रियोऽस्येति गोमत्प्रिय इत्यन्तरङ्गत्वाल्लुकः प्राक् `उगिदचाम्' (7.1.70) इति नुम् स्यात्, `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घत्वम्, ततश्च संयोगान्तलोपे (8.2.23) कृते गोमान्प्रिय इत्यनिष्टं रूपं प्रसज्येत। अस्मिन् हयर्थे ज्ञापिते, अन्तरङ्गमपि नुमादिकं बहिरङ्गेण लुका बाध्यत इति न भवत्येष दोषप्रसङ्गः। एकेनादिशब्देन गोमन्तमिच्छति गोमत्यति, गोमानिवाचरति गोमत्यते--इत्यादेर्ग्रहणम्। द्वितीयेन दीर्घत्वस्य हल्ङ्यादिलोपस्य (6.1.66)। यद्यन्तरङ्गत्वाद् हल्ङ्यादिलोपः (6.1.66) स्यात्, प्रत्ययलक्षणेन नुमादिकं स्यात्, ततश्च तदेवानिष्टं रूपं स्यात्। लुकि च सति `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतषेधान्न भवति।
`एवं च' इत्यादि। यत एवं बहिरङ्गोऽपि लुगन्तरङ्गानपि विधीन् बाधने, एवञ्च कृत्वा, `त्वाहौ सौ' (7.2.94), `यूयवयौ जसि' (7.2.93), `तुम्यमह्यौ ङयि' (7.2.95) `तवममौ ङसि' (7.2.96)--इत्येत आदेशाः प्रत्यय उत्तरपदे च परतो न भवन्तीति।
`अथ' इत्यादि। असति प्रयोजने ज्ञापकं भवति, अस्ति चास्यत् प्रयोजनम्--एवां त्वहटीनामादेशान्तराणां बाधनम्। सत्येतस्मिन् प्रयोजने, एतदर्थमेवेदं युक्तं विज्ञातुम्, न तु ज्ञापनार्थमिति भावः। `लक्ष्यस्थित्यपेक्षया' इति। लक्ष्यस्य व्युत्पाद्यस्य स्थितिः=स्थानं लक्ष्यस्थितिः, तद्विषयेऽपेक्षा=लक्ष्यस्थित्यपेक्षा; तथा हेतु भूतया। नेदमादेशान्तराणां बाधनार्थं विज्ञायते। गोमत्प्रियो गोमत्यतीत्येवमादिकं लक्ष्यं लोके साधुभावेनादस्थितम्। आदेशान्तरबाधनार्थे ह्येतस्मिन्' विज्ञायमाने न संगृहतं सायत्। ज्ञापनार्थे त्वेतदपि संगृहीतं भवतत्येतद्दर्शयति---`ज्ञापनार्थे ह्येतस्मिन्' इत्यादि। कथं पुनः सत्येवं प्रयोजने सत्यामपि लक्ष्यस्थित्यपेक्षायां ज्ञापकार्थमेतत् शक्यं विज्ञातुम्? एवं मन्यते--प्रयोजनमेवैतन्न भवति; मपर्यन्तग्रहणस्य चकारेणानुकर्षणार्थत्वात्। तदनुकर्षणस्यैतदेव प्रयोजनम्--मपर्यन्तयोरादेशौ यथा स्यातामिति। यदि चादेशान्तराणां बाधनार्थमेतत् स्यात्, अनुकर्षणं तस्यापार्थकं स्यात्। यद्बाधनार्थमेत् सूत्रं प्रकल्प्यते तान्यादेशान्तराणि मपर्यन्तस्यैव प्रयुक्तानि, नान्यस्य। ततश्चान्तरेणापि मपर्यन्तग्रहणानुवृत्तिमुत्सर्गसमानदेशत्वादपवादानां मपर्यन्तस्यैव भविष्यत इति किं मपर्यन्तस्येत्यनुवर्त्तनेन! आदेशान्तरामबाधनार्थे ह्येतस्मिन् सर्वादेशिवृत्त्यर्थं मपर्यन्तग्रहणमनुवर्त्तयितुं युक्तम्। तस्मादेतस्मान्मपर्यन्तग्रहणानुवर्त्तनान्नादेशान्तरबाधनमस्य प्रयोजनम्। अतो ज्ञापकं विज्ञायते। ननु च किमर्थमेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायत इति परेण देशितम्। तस्यायमभिप्रायः--मपर्यन्तस्येतत्येतन्निवर्त्त्यादेशान्तरबाधनार्थमेतत् कस्मान्न भवतीति? तत्रायमर्थः--मपर्यन्तग्रहणस्यानुकर्षणार्थश्चकारो न कर्त्तव्यो भवति। मपर्यन्तग्रहणानुवृत्तावेतदादेशान्तरबाधनार्थं नोपपद्यते, तस्मिन्निवृत्तौ तूपपद्यत एव।।
99. त्रिचतुरीः स्त्रियां तुसृचतसृ। (7.2.99)
`त्रयः' इति। `जसि च' (7.3.109) इति गुणः। `चत्वारः' इति। `चतुरनडुहोरामुदात्तः' (7.1.98) इत्याम्।
`त्रीणि' इति। `जश्शसोः शिः' (7.1.20) इति शिभावः, `नपुंसकस्य झलचः' (7.1.72) नुम्, `नोपधायाः' (6.4.7), `सरवनामस्थाने चासम्बुद्धौ' (6.4.8) इति दीर्घः।
`स्त्रियामिति चैतत् त्रिचतुरोर्विशेषणम्' इति। तयोरेव श्रुतत्वात्। `नाङ्गस्य' इति। एवकारस्य व्यवच्छेद्यं दर्शयति--`तेन' इति। विशेषणविशेष्यभावेन। यदि हि स्त्रियामित्यनेनाङ्गमेव विशेष्यते,[`विशेष्येत'--मुद्रितपाठः] ततो यदा त्रिचतुशब्दौ पुंसि नपुंसके वा वर्त्तेते, अङ्गं [`अङ्गे'--मुद्रितपाठः] तु स्त्रियाम्, तदाप्येतावादेशौ स्याताम्। `त्रिचतुरोः स्त्रियाम्' इत्यनेन विशेष्यमाणयोर्न भवतः।
`प्रियत्रिः' इत्यादि। स्त्रिया अन्यपदार्थत्वादङ्गं स्त्रियां वर्त्तते, त्रिचतुःशब्दौ लिङ्गान्तरे। यदा त्वङ्गं पुंसि नपुंसके वा वर्त्तते, त्रिचतुःशब्दौ तु स्त्रियाम्, तदा भवत एव। प्रियास्तिस्रो बाह्यण्योऽस्येति प्रियतिसा, प्रियतिस्रौ, प्रियतिस्नः। प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणो, प्रियतिसृणि। प्रियचतसृ ब्राह्मणकुलम्, प्रियचतसृणी, प्रियचतसृणि।
`तिसृभावे' इत्यादि। त्रिशब्दात् संज्ञायां कन्' (5.3.87) इति कनि कृते विभक्त्यभावान्न प्राप्नोतीतीदमारभ्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतपादनम्--पूर्वसूत्रादिह चकारोऽनवर्त्तते, स चानुक्तसमुच्चयार्थः। तेन संज्ञायां कन्यपि भविष्यति। `तिसृका' इति। ग्रामस्यैषा संज्ञा।
`चतसर्याद्युदात्तत्वनिपातनम्' इति। चतस्रः पश्येत्यत्र `चतुरः शसि' (6.1.167) इत्यन्तोदात्तत्वं प्राप्नोति, आद्युदात्तञ्चेष्यते, तदर्थमाद्युदात्तत्वनिपातनं कर्त्तव्यम्। निपातनस्वरेण बाधितत्वादन्तोदात्तत्वं मा भूदित्येवमर्थम्। यथैवं तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा `षट्त्रिचतुर्भ्यो हलादिः' (6.1.179) इत्यमेन यदविभक्तेराद्युदात्तत्वं विधीयते तदपि बाधेत, ततश्चतसृणामित्यत्राम उदात्तत्वं न स्यत्? इत्यत आह--`चतसृणामित्यत्र तु' इत्यादि। `हलादिग्रहणसामर्थ्यात्' इति। तत्रैवायं हेतुः। हलादिग्रहणं हि तत्राजादिनिवृत्त्यर्थ क्रियते। चतुःशब्दश्चायं हुवचनविषयः। सर्वाणि बहुवचानि प्रथमाद्वितीयाषष्ठीबहुवचनेभ्योऽन्यानि हलादीनि। तत्रामो नुमचिरतृज्वद्भावेभ्यो पूर्वविप्रतिषेधेन नुटि कृते भवितव्यमाद्युदात्तत्वेन; हलादितत्वात्। जसस्तु `अञ्जेश्छन्दस्यसर्वनामस्थानाम्' (6.1.170) इत्यतोऽसर्वनामस्थानग्रहणस्यानुवर्त्तमानत्वादाद्युदात्तत्वं [`ग्रहणानुवर्तमानत्वात्'--मुद्रितः पाठः] न भवति। तस्माच्छसो मा भूदित्येवमर्थं तत्र हलादिग्रहणं कृतम्। यदि च निपातनस्वरो न भविष्यति। तस्मान्मा भूद्धलादिग्रहणस्य वैयर्थ्यम्। इह हलादिग्रहमसमर्थ्याद्विभक्तिस्वरेण निपाततस्वरो बाध्यत इति, तेन चतसृणामित्यत्रान्तोदात्तत्वं भवति।।
100. अचि र ऋतः। (7.2.100)
किमर्थं पुनरचि रादेश उच्यते, न यणादेशेन सिद्धत्वात्? इत्यत आह--`पूर्वसवर्ण' इत्यादि। असति ह्येतस्मिन् सूत्रे शसि `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति पूर्वसवर्णः स्यात्, `ङसिङसोश्च' (6.1.110) `ऋत उत्' (6.1.111) इत्युत्त्वञ्च, सर्वनामस्थाने ङौ च `ऋतो ङिसर्वनामस्थानयोः' (7.3.110) गुणः। तस्मादेतेषामपवादोऽयं रेफादेश आरभ्यते। ननु युक्तः पूर्वसवर्णस्योत्त्वस्य चेहायमपवादो रेफादेशः, गुणस्य त्वयुक्तः; यस्मात्, `मध्येपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.10) इति? अत आह--`परमपि' इत्यादि। गुणस्यावकाशः--कर्त्तारौ, हर्त्तारौ, कर्त्तरीति; रेफस्यावकाशः--तिस्लः पश्येति, तिस्रस्तिष्ठन्तीति; प्रियतिस्रि निधेहीति। अत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन रेफो भवन् परमपि ङिसर्वनामस्थानगुणं बाधते।
`ऋत इति किम्' इति। एवं मन्यते--तिसृचतसृशब्दावहानुवर्त्तिष्येते। तौ च ऋकारान्तावेवेत्यलोऽन्त्यपरिभाषया (1.1.52) ऋत एव भविष्यति। तिसृचतस्लोः प्रतिपत्त्यर्थम्' इति। तिसृचतस--इत्येतयोरच्यपि परतस्त्रिचतुरोः स्थाने प्रतिपत्तिः=प्राप्तिर्यथा स्यादित्येवमर्थं `ऋतः' इत्युच्यम्। `अन्यथा हि' इत्यादि। यदि `ऋतः' इति नोच्येत, तदा तयोरेव तिसृचतस्रोरयमपवादो विज्ञायेत, ततश्चाजादौ तौ न स्याताम्।।
101. जराया जरसन्यतरस्याम्। (7.2.101)
`नुमो विधानाज्जरसदेशो भवति विप्रतषेधेन' इति। नुमोऽवकाशः--त्रपूणि जतूनि; जरसावेशस्यावकाशः--जरसौ; अतिजरांसि ब्राह्मणकुलानीतयत्रोभयप्रसह्गे विप्रतिषेधेन परो जरसादेशो भवति। यदि हि पूर्वं नुम् स्यात्, नुमा व्यवहितत्वाज्जरसादेशो न लभ्यते, तथापि विहितविशेषणपाश्रयणेन लभ्यते। एवमपि `निर्दिश्यमानस्यादेशा भवन्ति' (व्या.प.106) इति जराशब्दस्यादेशे कृते सकारत् परो नुम् श्रूयेत। [`श्रूयते' मुद्रित पाठः] अथापि समुस्कस्यादेशः स्यात्? एवमपि कृतकार्यत्वान्नुम्शास्त्रस्य पुनरप्रवृत्तेरादेशे कृते पुनर्नम्न स्यात्, तथानिष्टं रूपं प्रसज्येत।
अथेहातिजरसं ब्राह्मणकुलं पश्येति जरसादेशे कृते `स्वमोर्नपुंसकात्' (7.1.23) इति सुक्कस्मान्न भवति? इत्यत आह--`इह' इत्यादि। जरामतिक्रान्तमिति प्रादिसमासः, `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वः, द्वितीयैकवचनमम् इति स्थित एकदेशविकृतस्यानन्यत्वात्(व्या.पा.16)कृतेऽपि ह्रस्वत्वे लुक्, अम्भावः, जरस्भावः--इत्येतानि त्रीणि कार्यामि युगपत् प्राप्नुवन्ति, तत्र लुगपवादत्वात् `अतोऽम्'(7.1.24) इत्यम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन। अथ कृते जरसादेशे लुक् पुनः कस्मान्न भवति? इत्यत आह--`पुनर्लुक्शास्त्रम्' इत्यादि। न च लुक्शास्त्रं पुनः प्रवर्त्तते; भ्रष्टावसरत्वात्, तृतीयाबहुवचने किमतजरैर्ब्राह्मणकुलैरित्येवं भवितव्यम्; आहोसविदतिजरसम्, अतिजरसैरित्येवम्? इत्यत आह--`अतिजरसम्' इत्यादि। `गोनर्द्दीयमतेन' इति। तथा हि भाष्ये उक्तम्--`गोदर्दीय आह--`इषटमेषैतत् संगृहीतं भवतीति--अतिजरमतिजरैतिति भवितव्यम्' इति। का पुनरस्य युक्तिः? इत्यत आह--`सन्निपातलक्षण' इत्यादि। यद्यम्भावः, ऐस्भावश्च जरसादेशस्य निमित्तमात्रं स्यात्, अकारान्तताऽङ्गस्य ताभ्यां विहता स्यात्। एतच्चायुक्तम्; तस्मन्निपाते हि तावभिनिर्वृत्तौ नोत्सहेते सां विहन्तुम्।
`अन्ये' इति। सूत्रकारमतानुसारिणः। कस्मात् पुनस्त एवं मन्यन्ते? इत्यत आह--`अनित्यत्वादस्याः' इत्यादि। अनित्यत्वं पुनरस्याः--`अतो भिस ऐस्' (7.1.9) इत्यत्र प्रतिपादितम्।।
102. त्यदादीनामः। (7.2.102)
`स्यः' इति। `तदोः सः सावनन्त्ययोः' (7.2.106) इति तकारस्य सकारः। `त्यः' इति। `जसः सी' (7.1.17) इति शीभावः, `आद्गुणः' (6.1.87)। `इमौ' इति। `दश्च' (7.2.109) इति मत्वम्। `असौ' इति। `अदस औ सुलोपश्च' (7.2.107)। `अमू' इति। `अदसोऽसेर्दादु दो मः' 8.2.80) इति मत्वोत्वे, `प्रथमयोः पूर्वसवर्णः' (6.1.102) इति दीर्घः। `अमी' इति। `एत ईद्बहुवचने' (8.2.81) इतीत्त्वम्।
अथेह कस्मान्न भवति--भवानिति? अत आह--`द्विपर्यन्तानाम्' इत्यादि। एतच्च `शेषे लोपः' (7.2.90) इत्यत्र प्राग्वि ज्ञापितम्। `भवान््' इति। `उगिदचाम्' (7.1.70) इति नुम्, `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः।
अथेह संज्ञोपसर्जनीभूतानामपि कस्मान्न भवति त्याददौ--त्यद् अतिस्यद्, अतित्यदः? इत्यत आह--`संज्ञोपसरजनीभूताः' इत्यादि। सर्वाद्यन्तःपातिनस्त्यदादयः। सर्वादयश्चासंज्ञीभूता अनुपसर्जनीभूतश्च पठ्यन्ते। तथा हि--तेषां `सर्वनामानि' (1.1.27) इति महत्याः संज्ञायाः करणस्यैतत् प्रयोजनम्--सर्वेषां नामभूतानां संज्ञा यथा स्यात्। ये तु कस्याचिदेव संज्ञाभूता उपसर्जनीभूताश्च, तेषां मा भूदिति। तस्मात् संज्ञोपसर्जनीभूतास्त्यदादयः पाठादेव पर्युदस्ताः, त्यदादिभ्यो बहिष्कृता इत्यर्थः। तस्मादत्यदादित्वात् तेषां न भवति त्यदादिकार्यम्। `त्यदादिप्रधाने शब्दे तु भवत्येव' इति। त्यदादयः प्रधाना यस्मिन् शब्दे स त्यदादिप्रधानः, तत्र भवत्येवात्त्वम्; तस्य पाठापदर्युदस्तत्वात्। अपर्युदस्तत्वं तु सर्वनामसंज्ञायस्तदन्तविधेः सर्वादेरभ्युपगमात्।।
103. किमः कः। (7.2.103)
अथाकार एव किमः कस्मान्न विधीयते, एवं हि लघु सूत्रं भवति, अकारो हि प्रकृतोऽनुवर्त्तत इति, तत्रैवं सुत्रं कर्त्तव्यम्, `किमोऽत्' इति? अत आह--`साकच्कस्यादेशो भवति' इति। तेनाकारः किमो न विधीयते' इति। अयं ह्यादेशः `तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' (व्या.पा.21) अकचश्च किम्ग्रहणेन ग्रहणात् साकच्कस्यापि भवति; तेनाकार एव किमः स्थाने न विधीयते। यदि हि विधीयेत, तदाऽनकच्कस्यादेशे कृते यश्चादकचि कक इत्यनिष्टं रूपं स्यादित्यभिप्रायः। कथं पुनः किमोऽत्त्वे कृते क इति भवति, यावता मकारस्यात्त्वे कृते सतकारस्य यणादेशे कृते क्य इति स्यात्? नैष दोष; इकारस्यापि ह्यत्त्वं विधीयते, यदिह पूर्वसूत्रात् `अः' इत्यनुवर्त्तते। नालोऽन्त्यस्यात्वं भवति यत् पुनरिहाकारग्रहणं क्रियते। तेन `अनन्त्यविकारेऽन्त्यसदेशस्य' (व्या.प.63) इतीकारसय, तत्र द्वयोरकारयोः परपूर्वत्वे क इति सिद्धम्।
क्यचित् पाठः `इमः' इति। तत्रायं पूर्वपक्षः--अथाकार एवेमः कस्मान्न विधीयते? लघु ह्येवं सूत्रं भवति; प्रकृतस्याकारस्येहानुवृत्तेः, तत्रैवं तावत् सूत्रं कर्त्तव्यम्--`इमः' इति। न चैवं सति `तिम ष्टिम आद्रीभावे' (धा.पा.1123,1124) इत्यस्य क्विबन्तस्य तीन्, तिमौ, तिम इत्यत्रापि प्रसज्येत, त्यदादिभिरिमो विशेषणात्--त्यदादीनां य इमिति? न; `दश्च' (7.2.109) इति मत्वे कृत इदम इमौ इम इत्यत्रापि प्रसज्येत। लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) नापीम इत्युचयमाने `अलोऽन्त्यस्य'
(1.1.52) इति प्रसज्येतेत्याशङ्कनीयम्, यस्मान्नानर्थकेऽलोन्त्यविधिः (व्या.प.62)? इत्यत आह--`साकच्कस्यापि' इत्यादि। पूर्व एव पाठः साधुतरः। इतरत्र तु पाठ उत्तरसूत्रेण क्वादेश इमः कृते द्वयोः ककारयोश्च संयुक्तयोः श्रवणं प्रसज्येत, तच्चानिष्टम्।।
104. कु तिहोः। (7.2.104)
पूर्वस्यायमपवादः। तिशब्दस्य विभक्तेरभावादिकार उच्चारणार्थः। तकारस्यैव प्रयोजनम्। तत्र `यस्मिन्विधिस्तदादावल्ग्रहणे' (व्या.प.127) तकारादेशो विभक्तौ कार्यं विधीयते। अत आह--`तकारादौ' इत्यादि। `कुतः' इति। `पञ्चम्यास्तसिल्' (5.3.7)। `कुत्र' इति। `किमोऽत्' (5.3.12) इत्यत्र परसूत्राद्वाग्रहणं पुरस्तादपकृष्यते। तेन पक्षे `सप्तम्यास्त्रल्' (5.3.10) इति त्रल्यपि भवति। `कुह' इति। `वा ह च च्छब्दसि' (5.3.13) इति हः। एषाञ्च तसिलदीनां `प्राग्दिशो विभक्तिः' (5.3.1) इति विभक्तिसंज्ञा।।
105. क्वाति। (7.2.105)
कादेशस्यायमपवादः। `क्व' इति। `किमोऽत्' (5.3.12) इत्यत्।
अथ किमर्थमादेशान्तरं विधीयते, न प्रकृतः कु एव विधीयताम्, तत्रापि यणादेशो क्वेति सिध्यत्येव; योगविभागश्च न कर्त्तव्यो भवति, `कुतिहात्सु' इत्येको योगः करिष्यते? इत्यत आह--`आदेशान्तरवचनम्' इत्यादि। कुशब्दे ह्यादेशे सति यणादेशं बाधित्वा `ओर्गुणः' (6.4.146) इति गुणः स्यात्। तस्मात् तन्निवृत्त्यर्थं क्वादेश इत्युच्यते।
एवमपि प्रत्ययविधावेव `किमो ड्वत्' इति ड्वत्प्रत्ययो विधेयः, तत्रापि टिलोपे कृते क्वेति रूपं सिध्यत्येव। पदसंज्ञायां सत्यां `झलां जशोऽन्ते' (7.2.39) इति ककारस्य गकारः प्राप्नोतीत्यतो न सिध्यतीति चेत्? नैतदस्ति; `असिद्धं बहिरङ्गमन्तरङ्गे (व्या.प.42) इति टिलोपस्यासिद्धत्वाज्जश्त्वं न भवति। टिलोपो हि डिति विधीयते, तेन डितमपेक्षमाणो बहिरङ्गो भवति। जश्त्वं तु पदान्ते विधीयमानं नापरनिमित्तमपेक्षत इत्यन्तरङ्गमित्यत आह--`किमो ड्वदिति प्रत्ययान्तरम्' इत्यादि। यदि डवदिति प्रत्ययान्तरं विधीयेत, साकच्कस्य क्वेति रूपं न सिध्यति। असचि हि कृते ककिमिति स्थिते ड्वत्प्रत्यये परतष्टिलोपे सति कक्वेत्यनिष्टं रूपं स्यत्। अत्प्रत्यये तु क्वादेशो विधीयमानोऽनेकास्त्वात् साकच्कस्य सर्वादेश एव भवतीति न भवत्यनिष्टरूपप्रसङ्घः। तस्मात् साकच्कार्थं ड्वदिति न प्रत्ययान्तरं विधीयते। साकच्कोऽर्थः प्रयोजनं यस्य तत् साकच्कार्थम्।।
106. तदीः सः सावनन्त्ययोः। (7.2.106)
`सै' इति। किमिदं प्रथमैकवचनस्य ग्रहणम्? उत सप्तमीबहुवचनस्य? आहोस्विदुभयोरपि? तत्र प्रथमैकवचनस्य ग्रहणम्। तथा हि--द्वयोरपि सामान्येन ग्रहणं न भवति। यदि स्यात्, सीर्त्येवं ब्रूयात्। एवं हि सकारादौ कार्यं विधीयमानं तयोर्द्वयोरपि भविष्यति। तस्मादन्यतरस्य ग्रहणम्। तथा हि--`स्यश्छन्दसि बहुलम्' (6.1.133) `सोऽचि लोपे चेत्' (6.1.134) इत्येवमादेर्निर्देशात् प्रथमैकवचनस्यैव ग्रहण युक्तम्।
`हे स, सा' इति। हे शब्दो निपातसमुदायोऽवधारणार्थे वर्त्तते। ननु च त्यदाद्यत्वमत्र बाधकं भविष्यति? नैतदस्ति; अनवकाशा हि विधयो बधका भवन्ति। सावकाशं चात्वम्। कोवकाशः? द्विशब्दः-द्वाविति। सत्यपि तस्मिन्नवकाशे यद्यपि सकरस्याप्यनन्त्योवकाशः, तथाप्यन्तस्य परत्वात् सत्वं स्यात्। ततश्च हे स इत्यत्र `एङ् ह्रस्वात् सम्बुद्धेः' (6.1.69) इति सोर्लोपो न स्यात्। तत्र हल्ङ्यादिलोपे कृते रुत्वविसर्जनीययोः कृतयोरनिष्टं रूपं स्यात्। सेत्यत्र तु `अजाद्यतष्टाप्' (4.1.4) इति स्त्रियां टाब्न स्यात्। तस्मात् `अनन्त्ययोः' इति वक्तव्यम्।।
107. अदस औ सुलोपश्च। (7.2.107)
`सौ' इत्येव। त्यदाद्यत्वापवादोऽदस औत्वं विधीयते। `असौ' इति। पूर्वसूत्रेण दकारस्य सकारः, `वृद्धिरेचि' (6.1.88) इति वृद्धिः।
`यदा च' इत्यादि। `सादुत्वञ्च' इति। चकारः सन्नियोगार्थः। तेन यस्मिन् पक्षे औत्वप्रतिषेधः, तस्मिन्नेव पक्षे सादुत्तरस्याकारस्योत्त्वं विधीयते।
`उत्तरपदमभूतानाम्' इत्यादि। इह परमाहम्, परमानेनेति `त्वाहौ सौ' (7.2.94), `इदोऽय् पुंसि' (7.2.111), `अनाप्यकः' (7.2.112) इति समासाद् या विभक्तिः, तस्यामेत आदेशः भवन्तो बहिरङ्गा भवन्ति; प्रागेव तु विभक्त्युत्पत्तेः। अकः सवर्णे दीर्घत्वं प्राप्नुवदन्तरङ्गम्, तस्मात् पूर्वं तदेव स्यात्, पश्चादादेशाः स्युः; ततश्च परमहम्, परमयम्, परमनेनेत्यनिष्टानि रूपाणि रूपणि स्युः। तस्मादुत्तपदभूतानामकृतसवरसन्धीनां त्यदीदीनामादेशा वक्तव्याः=व्याख्येया इत्यर्थः। आचार्यप्रवृत्तिर्ज्ञापयति--पूर्वोत्तरयोः पदयोस्तावत् कार्यं प्रथमं भवति, पश्चादेकादेश ति। यदयं `नेन्द्रस्य परस्य' (7.3.22) इति प्रतिषेधं शास्ति। कथं कृत्वा ज्ञापकम्? इन्द्रे द्वावचौ, तत्रैकः--`यस्येति च' (6.4.148) इति लोपेनापह्नियते, अपरः--एकादेशेनेत्यनच्क इन्द्रशब्दः सम्पन्नः, तत्र को वृद्धिप्रसङ्गः! पश्यति त्वाचार्यः--पुर्वोत्तरयोः पदयोस्तावत् कार्यं भवति, पश्चादेकादेश इति; यतः `नेन्द्रस्य परस्य' (7.3.22) इति वृद्धिप्रतिषेधं शास्ति। तदेतस्माज्ज्ञापकादकृतस्वरसन्धीनामुत्तरपदभूतानां त्यदादीनामादेशा भवन्तीति।
`अवसः सोर्भवेदौत्वम्' इत्यादि। अवधारणमत्र द्रष्टव्यम्। अदःशब्दात् परस्य सोरेवौत्वं भवेत्। भवतु, मा वा भूत्। अदश्शब्दस्य त्यदाद्यत्वे कृते `वृद्धिरेचि' (6.1.88) इति वृद्धौ कृतायामसाविति सिध्यत्येव, तत् किमर्थं सुलोपे विधीयते? निरर्थकतवान्नैवं सोर्लोपो विधेयः, औत्वमेव विधेयम्। अत्र दोषमाह--`ह्रस्वाल्लुप्येत सम्बुद्धिः' इति। हेऽसावित्यत्र `एङ ह्रस्वात् सम्बुद्धेः' (6.1.69) इति सोर्लोपः प्रसज्येत, ततश्च सम्बुद्धौ हेऽसाविति न सिध्येत्? `न हलः प्रकृतं हि तत्' इति। नायं देषः; हलः सम्बुद्धेर्लोप औत्वे कृतेऽण् भवति, न हलिति, तत्कुतो लोपप्रसङ्गस्तत्र! तर्हि हल्ग्रहणं कर्त्तव्यम्? न कर्त्तव्यम्; यस्मात् प्रकृतं तत्। `हल्ङ्याब्भ्यः सुतिस्यपृक्तं हल्' (6.1.68) इत्यतो हल्ग्रहणं प्रकृतमेव। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्देशेन चेहार्थः, तथापि `एङ् ह्रस्वात्' (6.1.69) इति पञ्चमी हलित्यस्याः प्रथमायाः षष्ठीत्वं प्रकलप्यिष्यति; `तस्मादित्युत्तरस्य' (1.1.67) इति वचनात्।
अथं तर्हि दोषः--`आप एत्वं भवेत् तस्मिन्' इत्यादि। तस्मिन्नोकारे परतस्त्यदाद्यत्वे कृते स्त्रियां टापि--हे असौ ब्राह्मणीत्यतर `सम्बुद्धौ च' (7.3.106) इत्येत्वं स्यात्, यथा हि हे खट्वे इत्यत्र? `न ज्ञलीत्यनुवर्त्तनात्' इति। नायं दोषः; `सम्बुद्धो च' (7.3.106) इत्यत्र `बहुवचने झल्येत्' (7.3.103) इत्यनुवर्त्तते, तेन झलादौ सम्बुद्धावेत्येन भवितव्यम्। च चौकारे कृते झलादिः सम्बुद्धिर्भवति, किं तर्हि? अजादिः।
`प्रत्ययस्थाच्च कादित्त्वं शीभावश्च प्रसज्यते' [`प्रसज्येत'--प्रा. मुद्रितः पाठः] इति। पूर्वकश्चकारः तर्ह्यर्थे, इतरः समुच्चये। अयं तर्हि दोषः--असकौ ब्राह्मणीत्यत्राज्ञाताद्यर्थविवक्षायामकचि कृते टापि च `प्रत्ययस्थात् कात्' (7.3.44) इत्यादिना कात् पूर्वस्येत्वं प्राप्नोति? असौ ब्राह्मणी इत्यत्र `औङ आपः' (7.1.18) इत्यनेन शीभावोऽदसस्त्ववयव ओकारे कृते टाबेव नास्तीति नैतद्दोषद्वयं सम्भवति। शीभावदोषश्च पाक्षिको वेदितव्यः, यस्मिन् पक्षे सामान्यग्रहणार्थो ङकारः प्रत्ययस्यासज्यते। यदा तु पूर्वसूत्रनिर्देशस्तदा द्विवचनयोरेव शीभावः; तयोरेव पूर्वाचार्यैर्ङित्वस्य कृतत्वात्। अन्यस्य प्राप्तिरेव नास्ति; आङित्त्वात्।।
108. इदमो मः। (7.2.108)
अलोऽन्त्यपरिभाषया (1.1.52) मकारस्यैवानेन मकारेण भवितव्यम्, न च मकरसय मकारादेशे कृते विशेषोऽस्ति, तत्किमर्थं मकारस्य मकारः इत्युच्यते? --इत्येतच्चोद्यं निराकर्तुमाह--`मकारस्य' इत्यादि। गतार्थम्।।
109. दश्च। (7.2.109)
`इदमः' इति वर्त्तते, `सौ' इति निवृत्तम्; उत्तरसूत्रे पुनः `सौ' इति वचनात्। तेनायं विभक्तिमात्रे दाकारस्य मकारो भवति।।
110. यः सौ। (7.2.110)
उत्तरसूत्रे पुंसीति वचनात् स्त्रियामयं यकारः। अथ नपंसके कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्; नपुंसके हि `स्वमोर्नर्पुसकात्' (7.1.23) इति सोर्लुका भवितव्यम्। अत्र सावुच्यमानः कथं तस्मिंत्लुप्ते यकारः स्यात्; प्रत्ययलक्षमेनेति चेत्? न; `न लुमतङ्गस्य' (1.1.63) इति प्रत्ययलक्षणप्रतिधेधात्। तस्माद्युक्तमुक्तम्--`स्त्रियामयं यकारः' इति।।
111. इदोऽय् पुंसि। (7.2.111)
112. अनाप्यकः। (7.2.112)
`अनेन' इति। त्यदाद्यत्वे पररूपत्वे च कृत इद्रूपस्यानादेशः, `टाङसिङसामिनात्स्याः' (7.1.12) इतीनादेशः, `आद्गुणः' (6.1.87)। `अनयोः' इति। `ओसि च' (7.3.104) इत्येत्वम्, अनादेशः, सुलोपः।
`पकारेण' इति। अथ कपः पकारेण कस्मान्न भवति? प्रयोजनाभावात्। ननु चेहेत्यत्र प्राग्दिशीयायां विभक्तौ `हलि लोपः' (7.2.113) यथा स्यादितीदमस्ति प्रयोजनम्? `इदम इश्' (5.3.3) इतीशात्र बाधकेन भवितव्यम्। अत्र च `अमेहक्वतिसित्रेभ्यः' (कारिका 4.2.104) इत्यत्र इहेत्यकृतेद्रूपलोपस्य हकारान्तस्येदमो तिर्देशो लिङ्गम्।।
113. हलि लोपः। (7.2.113)
पूर्वेणानादेशे प्राप्ते हलादाविद्रूपस्य लोपो विधीयते। `आभ्याम्' इति। त्यदद्यत्वम्; अतो गुणे (6.1.97) पररूपत्वम्, `सुपि ;ट (7.3.102) इति दीर्घत्वञ्च।
अथालोऽन्त्यपरिभाषया(1.1.52)न्त्यस्यायं लोपः कस्मान्न भवति? इत्याह--`नानर्थके' इत्यादि। अभ्युपेत्यानर्थकेऽलोऽन्त्यविधिं परिहारान्तरमाह--`अथ वा' इत्यादि। न चाल्ग्रहणं कर्त्तव्यम्, यतस्तदनुवर्त्तते? इत्यत आह--`अनाप्यकः' इत्यादि। यद्यपि तत्र प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, तथापि हलीति सप्तमी अन्निति षष्ठीत्वं प्रकल्पयिष्यति; `तस्मिन्निति निर्द्दिष्टे पूर्वस्य' (1.1.66) इति वचनात्। एवं परिहारो भाष्यकारमतेन बोद्धव्यः; अस्याः परिभाषया अनङ्गीकरणात्। अत्र दर्शने तु त्रयाणामकराणां पररूपमेकादेशं कृत्वा दीर्घत्वादि विधेयम्।।
114. मृजेर्वृद्धिः। (7.2.114)
`मार्ष्टा' इति। `मृजू शृद्धौ' (धा.पा.1066) व्रश्चादिसूत्रेण (8.2.36) षत्वम्, `ष्टुत्वम्।
मृजेः क्विबन्ताद्विभक्तावुत्पन्नायां कंसपरिमृङ्भ्याम्, कंसपरिमृङ्भिरित्यत्र वृद्धिः प्राप्नोति, न च क्विबाश्रयः `क्ङिति च' (1.1.5) इति वृद्धिप्रतिषेधो भवितुमुत्सहते; यस्मात् क्ङितीति निंमित्तसप्तमी। न चात्र क्विब्निमित्ता वृद्धिः प्राप्नोति, किं तर्हि? विभक्तिनिम्त्ता। तस्मात् तस्याः प्रतिषेधो वक्तव्य इत्यत आह--`मुजरिति धातुग्रहणम्' इत्यादि। भ्रौणहत्य(6.4.174)मिति निपातनेन ज्ञापितोऽयमर्थः--धाताः कार्यमुच्यमानं धातुप्रत्यय एव भवतीति, तेन कंसमृङ्भ्यामित्यत्र न भवति। यो हि धातोरित्येवं विहितः स धातुप्रतययः। न च भ्यामादिकं धातोरित्येवं विहितम्, किं तर्हि? प्रातिपदिकादित्येवम्, तस्मान्नासो धातुप्रत्ययः। `कंसपरिमृङ्भ्याम्' इत्यादि। पूर्ववत् षत्वे कृत षकारस्य जश्त्वं डकारः।।
115. अचो ञ्णिति। (7.2.115)
`निश्चायनिष्पावौ' [`एकसतण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ'--काशिका] इति। निष्पूर्वाच्चिनीतेः, पुनातेश्च `परिमाणाख्यायां सर्वेभ्यः' (3.3.20) इति धञ्। `इदुपधस्य चाप्रत्ययस्य' (8.3.41) इति विसर्जनीयषत्वम्। `कारः, हारः' इति। कृञः हृञश्च भावे घञ्।
`गौः, गावो गावः' इति। `गोतो णित्' (7.1.90) इति सर्वनामस्थानस्य णित्त्वम्। `सखायौ, सखायः' इति। अत्रापि `सख्युरसम्बुद्धौ' (7.1.92) इति। `जयतेः, यौतेश्च' इति। `जि जये' (धा.पा.561), `यु मिश्रणे' [`मिश्रणेऽमिश्रणे च'--धा.पा.] (धा.पा.1033)। `च्यवतेः' इति। `च्युङ छ्युङ् ज्युङ् प्रुङ् प्लुङ् गतौ'[नास्ति--धा.पा.] (धा.पा.955-958)। अज्ग्रहणमनिकोऽपि यथा स्यात्--गोरिति। ननु णित्करणसामर्थ्यादेव तत्र भविष्यति? नैतदस्ति; अस्ति ह्यन्यत् णित्करणस्य प्रयोजनम्, किं तत्? गावौ, गाव इत्यवादेशे कृते `अत उपधायाः' (7.2.116) इति वृद्धिर्यथा स्यात्। यद्येवम्, गौरित्यत्रागुणविषये वृद्धिरियं कृतार्थेति कारयतीत्यादिषु परत्वाद्गुणेन बाध्येत? णित्करणसामर्थ्यान्न भविष्यतीति। एतच्चानुत्तरम्; `णेरनिटि' (6.4.51) इत्येवमादौ णित्करणस्य चरितार्थत्वात्? नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति--गुणविषयेऽपि वृद्धिरभवतीति; यदयं जागर्त्तर्वृद्धिविषये प्रतिषेधविषये च `जाग्रोऽविचिण्णल्ङित्सु' (7.3.85) इति पुनर्गुम आरभ्यते। यदि हि गुणविषये वृद्धर्न स्यात्, तदा जागरयतीत्यादिषु गुणोऽस्त्येवेति तद्विषये गुणारम्भोऽनर्थकः स्यात्। वृद्धिविषयता चारम्भस्य चिण्णलोः प्रतिषेधाद्विज्ञायते। अथ योगविभागः किमर्थः, न `ञ्णित्यत उपथायाः' इत्येदोच्येत? अशक्यमेवं वक्तुम्; एवं ह्युच्यमाने यद्यपि गावो, गाव इत्यत्रावादेशे कृते चायकः, लावक इत्यत्र गुणे कृतेऽयवादेशयोः कृतयोः सिध्यति--गौः, सखायौ; जैत्रमित्यादौ तु न सिध्यति; अयवादेशयोर्गुणस्य च यथायोगमसम्भवात् स्माद्यथायोगं योगविभागः कर्त्तव्यः।।
116. अत उपधायाः। (7.2.116)
पाक इत्यादौ भावे घञ्, `चजोः कु घिण्ण्यतोः' (7.3.52) इति कुत्वम्। `रागः' इति। `घञि च भावकरणयोः' (6.4.27) इत्यनुनासिकलोपः। `पाचयति' इति। `हेतुमति च' (3.1.26) इति णिच्। `चकासयति' इति। उपधाग्रहणादिह चकारादकारस्य न भवति।
तपरकरणं लाघवार्थम्। असति हि स्मिन्नस्योपधाया इत्युच्यमाने गौरवं स्यात्। दीर्घनिवृत्त्यर्थं तु तपरकरणं न भवति, न दीर्घस्य कृतायां वृद्धौ कश्चिद्विशेषोऽस्ति।।
117. तद्धितेष्वचामादेः। (7.2.117)
`अचाम्' इति निर्धारणे षष्ठी। `अचामादेरचः स्थाने' इति। ननु चेक्परिभावोपस्थानादिक एव स्थाने वृद्ध्या भवितव्यम्, तस्मादिकः स्थान इत्येवं वक्तव्यम्, न त्वचः स्थान इति? एवं मन्यते--`अचो ञ्णिति' (7.2.115) इत्यतः स्थानिनिर्देशार्थं द्वितीयमज्ग्रहणमनुवर्त्तते, तेन यथा `अचो ञ्णिति' (7.2.115) इत्यत्र स्थानिनिर्देशादिक्परिभाषा नोपतिष्ठते, तथेहापीत्यदोषः। `गार्ग्यः, वात्स्यः' इति। `गर्गादिभ्यो यञ्' (4.1.105)। `दाक्षिः, प्लाक्षिः' इति। `अत इञ्' (4.1.95)। `औपगवः, कापटवः' इति। प्राग्दीव्यतीयोऽण् (4.1.83)।
अथ त्वाष्ट्रः, जागत इत्यतर त्वष्टृजगद्भ्यां `तस्येवम्' (4.3.120) इत्यणि कृते यथाक्रमं `अचो ञ्णिति' (7.2.115) इत्यज्लक्षणा वृद्धिः प्राप्नोति, `अत उपधायाः' (7.2.116) इत्युपधालक्षणा वृद्धिः कस्मान्न भवति? इत्याह--`अचामादेर्वृद्धिरन्त्योपधावृर्द्धि बाधते' इति। कथं पुनरन्यस्योच्यमानाऽन्यस्य बाधिका स्यात्? ज्ञापकात्। यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति, तज्ज्ञापयति--यत्रादिवृद्धिस्तत्रान्या वृद्धिर्न भवतीति। तस्यानुशतिकादिषु पाठस्यैतत् प्रयोजनम्--उभयपदवृद्धिर्यथा स्यात्, पुष्करसदोऽपत्यं पौष्करसादिरिति। `बाहवादिभ्यश्च' (4.1.96) इतीञ्। यदि चादिवृद्धिरन्यस्या वृद्धेर्बाधिका न स्यात्, उपधालक्षणेनैव वृद्धेः सिद्धत्वात् पौष्करसादिशब्दस्य, पुष्करसच्छब्दोऽनुशतिकादिषु न पठ्येत। पश्यत्याचार्यः--यत्रादिपदवृद्धिस्तत्रान्या वृद्धिर्न भवतीति; यतोऽनुशतिकादिषु पुष्करसच्छब्दं पठति। ननु ठगर्थस्तत्र पठः, तत्र ह्युपधालक्षणा वृद्धिर्न प्राप्नोतीति ठकोऽञ्णित्त्वात्--पुष्करसदा चरतीति पौष्करसादिक इति? नैतदस्ति; यदि पुष्करसच्छब्दाच्चरत्यर्थे ठगुत्पद्यते। कस्मात् पुनर्नोत्पद्यते? अनभिधानात्। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। तस्माज्ज्ञापक एवानुशतिकादिषु पाठः पुष्करसच्छब्दस्य।।
118. किति च। (7.2.118)
यद्यपि `तद्धितेषु' (7.2.117) इति बहुवचनान्तं प्रकृतम्, तथापोहैकवचननिर्देशादेकवचनविषयो बहुवचनस्य विपरिणामेन विज्ञायते, इतयत आह--`किति च तद्धिते परतः' इति। `नाडायनः, जारायणः' इति। `नडादिभ्यः फक्' (4.1.99) इति फक्। `आक्षिकः, शालाकिकः ति। अक्षिशलाकाशब्दाभ्यां `तेन दीव्यत खनति जयति जितम्' (4.4.2) इति ठक्; `ठस्येकः' (7.3.50)।।
इकि बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्य
द्वितीयः पादः
- - -