काशिकाविवरणपञ्जिका/सप्तमोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिकाविवरणपञ्जिका तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथ सप्तमोऽध्यायः
तृतीयः पादः
1. देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्। (7.3.1)
`तद्धितेष्वचामादेः' (7.2.117) इत्यान्तरतम्यादैकारे वृद्धौ प्राप्तायां देविकादीनामाकारो विधीयते। `अत्र पक्षत्रयं सम्भाव्यते--1. प्रकृतेनाङ्गेन देविकादयो विशिष्यन्ते--देविकादीनामङ्गानामिति; 2. तैर्वाङ्गम्--`देविकाद्यन्तस्याङ्गस्येति, अथ वा--3. तैराद्योऽच्---देविकदीनां सम्बन्धिनामचां मध्ये य आदिरजिति। तत्र यद्याद्यः पक्ष आश्रीयेत, तदा देविकाकूले भवाः शालयो दाविकाकूलाः शालय इति न सिध्येत्, न ह्यतर देविकाशब्दोऽङ्गम्, किं तर्हि? देविकाकूलशब्दः। ननु चाङ्गस्येत्यवयवषष्ठी, तत्रैवं विशेषणविशेष्यभावः करिष्यते--अङ्गस्य ये देविकादयोऽवयवभूता इति, भवति चेहावयवोऽङ्गस्य देविकाशब्दः, ततोऽयमोदोष इति चेत्? सत्यमेतत् किन्त्वतिप्रसङ्गः स्यात्, सुदेविकायां भवः सौदेविकः--इत्यत्रापि स्यात्। अथ द्वितीयपक्ष आश्रीयेत, एवमपि दाविकाकूलाः शालय इति न सिध्येत्। देविकादिभिः प्रकृतेऽङ्गे विशेष्यमाणे विशेषणे च तदन्तविधिरिति देविकाद्यन्तस्याङ्गस्येति भवितव्यम्, न तदादेः। तस्मात् तदादेरपि यथा स्थादिति यत्नान्तरमास्थेयमिति। तृतीये तु पक्ष आश्रीयमाणे, विनापि यत्नान्तरेण केवलस्य तदादेस्तदन्तस्य भवति। सर्वत्राचामादेरचो देविकादिसम्बन्धित्वात्। अतस्तमेवाश्रित्याह--`देविकाशिंशपादित्यवाड्दीर्घसत्त्रश्रेयस इत्येतेषाम्' इत्यादि। एषां देविकादीनामचां मध्य आदिभूतो योऽज् वृद्धेरैकारस्य प्रसङ्गे तस्याकारो विधीयते।
`पूर्वशांशप' इति। पूर्ववदुत्तरपदस्य वृद्धिः। साप्याकार एव भवतीत्युत्तरपदाधिकारे देविकादीनामनुवृत्तेर्लभ्यते।
`वहीनरस्येद्वचनं कर्त्तव्यम्' इति। अकारस्य या वृद्धिः प्राप्नोति तद्वाधनार्थमेत्। इकारे कृते या वृद्धिः प्राप्नोति सा तु भवत्येव। `केचित्तु' इत्यादि। कुणडवाडवादयः। विहीनो नरः कामक्रोधाभ्यामिति पृषोदरादित्वान्नलोपः, विहीनरस्यापत्यं वैहीनरिः--`अत इञ्' (4.1.95)।।
2. केकयमित्रयुप्रलयानां यादेरियः। (7.3.2)
केकयमित्रयुप्रलयानामिति याद्यपेक्षयाऽवयवषष्ठी। यादेरित्येषापीत्यादेशापेक्षया स्थानषष्ठी-य आदिर्यस्य स यादिः। अकारसहितो यकार उकारसहितश्च। केकयादीनां योऽवयवो यादिस्तस्येयादेशो भवति। ननु च मित्रयुशब्दः परमप्रकृतिः, न गोत्रम्; `अपत्यं पोत्रप्रभृति गोत्रम्' (4.1.162) इत्यपत्यविशेषस्य गोत्रसंज्ञाविधानात्, तत्कथं गोत्रादुच्यमानः प्रत्ययः परमपरकृतेर्भवति? इत्यत आह--`लौकिकं हि' इत्यादि। किं पुनर्लौकिकं गोत्रम्? इत्यत आह--`लोके च' इत्यादि। इह लौकिकं गोत्रं गृह्यते। लोके च ऋषिशब्दः `गोत्रम्' इत्यभिधीयते। मित्रयुशब्दश्चायमुषिवचनः, तस्मात् ततोऽपि गोत्रादुच्यमानः प्रत्ययो भवतीति।
`प्रालेयम्' इति। `अत आगतः' (4.3.74) इत्यण्।।
3. न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्। (7.3.3)
`तद्धितेष्वचामादेः' (7.2.117) इत्यादिना ञ्णिदादौ तद्धिते वृद्धौ प्राप्तायां प्रतिषेधोऽयमुच्यते, तत्सन्नियोगेनैजागमौ भवतः। `यकारादैकारः' इत्यादिना यतासंख्येन सम्बन्धं दर्शयति। `वैयसनम्' इति। `असु क्षेपणे' (धा.पा.1209)। विपूर्वाद्विशेषेणास्यते क्षिप्यते येनेति करणे ल्युट्, प्रादिसमासः, यणादेशः, तत, `तत्र भवः' (4.3.53) इत्यण्। तत्र यकारात् पदान्तात् परस्याकारस्य वृद्धिर्न भवति, तस्मात् पूर्वमैजागमः। `वैयाकरणः' इति। विशेषेणाक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति करणे ल्युट्, व्याकरणमिति, प्रादिसमासः, ततः `तदधीते तद्वेव' (4.2.59) इत्यण्, तत्र पर्जन्यवल्लक्षणप्रवृत्त्या पदान्ताद्यकारात् परसय या वृद्धिः प्राप्नोति सा न भवति, तस्मात् पूर्वमैजागमः। `सौवश्वः' इति। शोभनोऽश्वः स्वश्वः, पूर्ववत् समासः, ततोऽपत्यर्थे शिवाद्यण् (4.1.112)। अत्र वकारात् पदान्तात् परस्य वृद्धिर्न भवति, तस्मात् पूर्वमैजागमो भवति। `आर्थिः' इति। ना अर्थो यस्य स अर्थः, तस्यापत्यम् `उत इञ्' (4.1.95)। `याष्टकः' इति। `शक्तियष्ट्योरीकक्' (4.4.59)। `याताः' इति। इणः परस्य लटः शत्रादेशः, `इणो यण्' (6.4.81) इति यण्, ततः `तस्येदम्' (4.3.120) इत्यण्। तत्रोभयत्रापि यकारस्य पदान्तता भविष्यतः, यथा--`ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्याय' इति दधिदानस्य तक्रदानां बाधकम्। अथापि बाधगौ न स्याताम्, तथापि नित्यत्वादैचोः कृतयो पश्चाद्वृर्भवन्ती तयोरेव भविष्यतीति। न चात्र शब्दान्तरप्राप्त्या तयोरप्यैचोरनित्यत्वमाशङ्कनीयम्, न हि तौ शब्दान्तरसय विधीयेते, अपि त्वभकतावेव य्वाभ्यां पूर्वौ।
यद्यपि शब्दातन्तरस्य प्राप्तिः स्यात्, तथापि द्वयोरनित्ययोः परत्वादैचोः कृतयोः सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव' (व्या.प.40) इति पुनर्वृद्धिर्न भवति। यद्यपि पुनःप्रसङ्गविज्ञानाद्वृद्धिः स्यात्; तथापीष्टसिद्धिः स्यादेव; विशेषाभावादित्यत आह--`प्रतिषेधवचनम्' इत्यादि। प्रक्लृतिः=प्रकल्पनम्, व्यवस्येत्यर्थः। यत्र य्वाभ्यां परस्य वृद्धेः प्रतिषेधः स एवैचोर्विषयः कथन्नाम प्रकल्पेत?व्यवतिष्ठेतेत्येवमर्थः। प्रतिषेध उच्यते, किमर्थं पुनरै चोर्विषयपरक्लृप्तिः क्रियते? इत्यत आह--`इह मा भत्' इति। यदि प्रतषेधवचनेनैचोर्विषयन्यवस्था न क्रियेत, तदा दाध्यश्विः, माध्वश्विरित्यत्रापि स्यात्। अतो मा भूदेष दोष इति प्रतिषेधवचनेनैचोर्विषयन्यवसथा क्रियते। दधिप्रियोऽश्वो दध्यश्वः मधुप्रियोऽश्वो मध्यश्वः। `सामानाधिकरणाधिकारे शापकपार्थिवादीनां समास उत्तरपदलोपश्च' (वा.83) इति मध्यमपदलोपौ समासः। अथ क्रियमाणे प्रतिषेधवचने कस्मादेवात्र न भवति, यावता य्वाभ्यां परस्य वृद्धिर्नास्ति? इत्यत आह--`न ह्यत्र' इत्यादि। प्रसङ्गे हि सति वृद्धेः प्रतिषेधो भवति, नासति; न चात्र य्वाभ्यां परस्य वृद्धेः प्रसङ्गोऽस्ति, अतः प्रतेषेधो नास्त्येवेत्यभिप्रायः। ननु च `अचामादेः' (7.2.117) इत्यनुवर्त्तते, तेन य्वौ विशिष्येते--अचामादेरचः स्थाने यौ य्वादिति। न च दध्यश्विरित्यादावेवंविधौ तौ स्त इति। न चात्रैचो भविष्यतः, अतो नार्थः? नैतदस्ति; एवं हयचामादिग्रहणम्, तेन यदि य्वौ विशिष्येते तदा वृद्धिरविशेषिता स्यात्। ततश्चेहापि वृद्धेः प्रतिषेधः स्यात्--द्वे अशीती भृतो भृतो भावी वा `प्राग्वतेष्ठञ्' (5.1.18) द्व्याशौतिक इति। अथ वृद्धिर्विशिष्यते--अचामादेरित्येवं वा वृद्धिः, ततो न भवत्येष दोषः। न ह्यत्राचामादेरित्येवं वृद्धिः, किं तर्हि? `संख्याया संवत्सरसंख्यस्य च' (7.3.15) इत्येवम्। किं तर्हि य्वौ न विशेषितौ स्याताम्? ततश्च दाध्यश्विरित्यादावैचौ स्यातामेव। तस्मात् तयोर्विषयव्यवस्थार्थं नेति वक्तव्यम्।
`उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते' इति। स चोत्तरपदाधिकारेऽस्यानुवर्त्तमानत्वाल्लभ्यते। `पूर्वत्रैयलिन्दे' इति। अत्र `विशोऽमद्राणाम्' (7.3.13) इत्युत्तरपदवृद्धौ प्राप्तायां प्रतिषेधः। यद्युत्तरपदवृद्धेरप्ययं प्रतिषेधः, तदा द्व्याशीतिक इत्यत्रापि `संख्यायाः संवत्सरसंख्यस्य च' (7.3.15) इति या वृद्धिरुत्तरपदस्य आप्तेत्यस्या अपि प्रतिषेधः स्यादित्यत आह--`यत्र तु' इत्यादि। कथं पुनरिष्यमाणोऽप्यत्र प्रतिषेधो न भवति? उत्तरपदस्याचामाद्येनाचा हि य्वोर्विशेषणत्वात्। उत्तरपदसम्बन्दी योऽचामादिरच् तस्य स्थाने यो य्वौ ताभ्यामुत्तरपदस्य वृद्धिर्न भवति। न च द्व्याशीतिक इत्यत्रोत्तरपदस्याचामादेरचः स्थाने यकार इति नात्र वृद्धेः प्रतिषेधो भवतीति।।
4. द्वारादीनाञ्च। (7.3.4)
`दौवारिकः' इति। `तत्र नियुक्तः' (4.4.69) इति ठक्। `द्वारपालस्येदं दौवारपालम्' इति। `तस्येदम्' (4.3.120) इत्यण्। प्रायेण तु पुस्तकेषु `द्वारपालस्येवं दौवारपालिकम्' इति। पाठः, स चायुक्तः; न हि तस्यैद(4.3.120)मित्यत्रार्थे द्वारपालशब्दात् लक्षणेन केनचिट्ठग्विहितः।
क्वचित् पुनः `द्वारपालस्यापत्यं दौवारपालिकः' इति पाठः, तत्र `रेवत्यादिभ्यष्ठक् (4.1.146) इति ठक्। ननु। तत्र द्वारपालीशब्दः पठ्यते, न तु द्वारपालशब्दः? एवं तर्हि मन्यते--द्वारपालशब्दस्तत्र पठितव्यः, स द्वारपालीशब्दमपि ग्राहयिष्यति; `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (व्या.प.29) इति। न्यायात्। ये तु तत्र द्वारपालशब्दं न पठन्ति, तेऽपत्यार्थे दौवारपालिरितीञन्तमुदहरन्ति। कथं पुनर्द्वारस्य गणे द्वारपालस्य भवति? अत्रापि द्वारादिभिराद्यचो विशेषणत्--द्वारादीनां शब्दानामचां मध्ये य आदिरजिति। वक्ष्यमाणाद्वा तदादिविधेज्ञपिकात्। `सौवरः' इति। स्वरमधिकृत्य कृतो ग्रन्थ इति `अथिकृत्य कृते ग्रन्थे' (4.3.87) इत्यण्। `सौवर्य्यः' इति। `टिड्ढाणञ्' (4.1.1.5) इति ङीप्। `वैयल्कशः' इति। `तत्र भवः' (4.3.53) इत्यण्। `सौवस्तिकः' इति। `तदाहेति माशब्दादिभ्य उपसंख्यानंम्' (वा.482) इति ठक्। `सोवर्गमनिकः' [`सौवर्गमिकः'--काशिका] इति। `आहौ प्रभूतादिभ्य उपसंख्यानम्' (वा.483) इति ठक्।
`पूर्वेणैव सिद्धम्' इति। वकारस्य पदान्तत्वात् तत्रैतत् स्यात्। यद्येवं व्युत्पत्तिः क्रियते--स्वोऽध्यायः स्वाध्यायः, तदाऽपदान्तत्वान्न प्राप्नोति, तस्यां व्युत्पत्तावर्थवान् स्वध्यायशब्दस्य पाठः? इत्यत आह--`अथाप्येवम्' इत्यादि।
कथं पुनः स्वशब्दात् स्वाध्यायशब्दस्य सिध्यति? इत्याह--`तदादावपि हि' इत्यादि। `स्फैयकृतः'[स्फैकृतः--काशिका] इति। `ऋष्यन्धकवृष्णिकुरुभ्यश्च' (4.1.114) इत्यण्। `सौवादुमृदवः'[सोवादुमृदवम्--काशिका] इति। अत्रापि `तस्यैदम्' (4.3.120) इत्यण्।
एवं `शौवनम्' इत्यत्रापि। `शौवम्' इति। `नस्तद्धिते' (6.4.144) इति टिलोपः। `शौवादंष्ट्रः' इति। `अन्येषामपि' (6.3.137) इति दीर्घः।।
5. न्यग्रोधस्य च केवलस्य। (7.3.5)
`नैयग्रोधः' इति। `तस्य विकारः' (4.3.134) इत्यण्।
`न्यग रोहतीति न्यग्रोधः' इति। न्यञ्चतीति ऋत्वि(3.2.59)गादिनाऽञ्चतेः क्विन्, `क्विन्प्रत्ययस्य कुः' (8.2.62) इति कुत्वम्--ककारः, नेर्यणादेशः। न्यक्पूर्वाद्रूहेः पचाद्यच्। तत्र `न्यङ्क्वादीनाञ्च' (7.3.53) इति हकारस्य धकारः, `झलां जशोऽन्ते' (8.2.39) इति ककारस्य गकारः, लघूपधगुणः--एवं यदा न्यग्रोधशब्दो व्युत्पाद्यते तदा पदान्तत्वाद्यकारस्य `न य्वाभ्याम्' (7.3.3) इत्यादिनैव सिद्धे नियमार्थंमेतत्--केवलस्यैव यथा स्यात्, तदादेर्मा भूदिति। `अव्युत्पत्तिपक्षे विध्यर्थमेतत्' इति। अपदान्तत्वाद्यकारस्य।।
6. न कर्मव्यतिहारे। (7.3.6)
`यदुक्तम्' इति। वृद्धिप्रतिषेधः, ऐजागमश्च। `व्यावक्रोशो' [`व्याक्रोशी' इति मु. पाठः] इत्यादि। `क्रुश आह्वाने' [`आह्वाने रोदने च'--धा.पा.] (धा.पा.856), `लिख अक्षरविन्यासे' (दा.पा.1365), `चर्च अध्ययने' (धा.पा.1712) चुरादिः, `हसे हसने' (धा.पा.721)--एभ्यो व्यवपूर्वेभ्यो णच्, तदन्तादञ्। अत्र यथोक्ते कार्ये प्रतिषिद्धे वृद्धिरेव भवति, द्वौ प्रतिषेधो प्रकृत्यर्थं गमयत इति कृत्वा। `टिड्ढाणञ्' (4.1.15) इति ङीप्।।
7. स्वागतादीनाञ्च। (7.3.7)
`स्वागतिकः' इति। शोभनमागतं स्वागतम्। `तदाहेत्यादौ प्रभूतादिब्य उपसंख्यानम्' (वा.483) इति ठक्। `स्वाध्वरिकः' इति। अत्रापि `चरति' (4.4.8) इति ठक्। शोभनोऽध्वरः स्वध्वरः। `स्वाङ्गिः' इत्यादि। `स्वाङ्गिर्ण्याडिः' इति। `अत इङ्' (4.1.95)। शोभनान्यङ्गान्यस्य स्वङ्गः, विगतान्यङ्गान्यस्य व्यङ्गः, विगतोऽडोऽस्य व्यङः। व्यवहरणं व्यवहारः, भावे घञ्। ननु च व्यवहारशब्दोऽयं क्रमव्यतीहारे वर्त्तते, तत्र `न कर्मव्यतीहारे' (7.3.6) इति प्रतिषेधः सिद्धः, तत् कस्मादिह पठ्यते? इत्याह--`व्यवहारशब्दोऽयम्' इति। किं पुनर्लौकिकम्? लौकिकं पुनर्वृत्तं येनाचारेण व्यवहाराल्लोके व्यावहारिक इत्युच्यते तद्वेदितव्यम्। `स्वापतेयम्' इति। `पथ्यतिथिवसतिस्वपतेढैञ्' (4.4.104)। कथं पुनरत्र प्राप्तिः, यावता नास्य वकारः पदन्तः? इत्याह--`द्बारादिषु स्वशब्दपाठादस्य प्राप्तिः' इति। तदादिविधिनेत्यभिप्रायः। यता तदादिविधिर्भवति तथा तत्रैवोक्तम्।।
8. श्वादेरिञि। (7.3.8)
`श्वाभास्त्रिः श्वादंष्ट्रिः' इति। श्वेव भस्त्रा यसय, शुन इव दंष्ट्रा यस्येति बहुव्रीहिः, उपसर्जनह्रस्वत्वम्। केन पुनः श्वादेर्वृद्धिप्रतिषेधः प्राप्नोति; यतोऽयं प्रतिषेध उच्यते, न ह्यस्य वकारः पदानतः? इत्यत आह--`श्वशब्दो द्रारादिषु पठ्यते' इति। ननु च केवलः श्वशब्दो द्वारादिषु पठ्यते, तत्र कः प्रसङ्गौ यतस्तदादेः स्यात्! `यस्मिन् विधिस्तदादावल्ग्रहणे' (व्या.प.127) इत् तददिविधिर्ति चेत्? नैतदस्ति; सप्तमीनिर्दिष्टै हल्ग्रहणे च सति तदादिविधिर्भवति, न चात्रैतदुभयमस्तीत्यत आह--`तत्र च' इत्यादि। यदि तत्र तदादिविधिर्न स्यात्, तदैतत् प्रतिषेधवचनमनर्थकं स्यात्; प्राप्त्वभावादित्यभिप्रायः। ज्ञापकसय प्रयोजनम्--शौवादंष्ट्रो मणिरित्यादौ वृद्धिप्रतिषेधः।
`इकारादिग्रहणं कर्त्तव्यम्' इति। इकारादितद्धितो गृह्यते, येन तदिकारादिग्रहणं व्याख्यानं कर्त्तव्यमित्यर्थः। किमर्थमित्याह--`श्वागणिकाद्यर्थम्' इति। श्वागणिकादीनामर्थः=प्रयोजनं यस्मिंस्तत् तथोक्तम्। अर्थस्तु तेषामादिवृद्धिरेव। तत्रैवं व्याख्यानम्--इञ्ग्रहणमिहेकारादेस्तद्धितस्योपलक्षणार्थम्, तेनान्यत्रापि तद्धिते प्रतिषेधो भवतीति।
`तदन्तस्य' इति। इञन्तस्यान्यन्नायीति। कथं पुनरिष्यमाणोऽन्यत्र लभ्यते, यावताऽन्यत्रापि तद्धित उत्पन्न इञः `यस्येति च' (6.4.148) इति लोपेन भवितव्यम्? नैष दोषः; इञीति नेयं निमित्तसप्तमी, किं तर्हि? परसप्तमी। निमित्तसप्तम्यामण्निमित्ताय वृद्धेः प्रतिषेधस्य प्रतिषेधो न स्यात्। परसप्तम्यां तु यद्यपि लोपः क्रियते, तथापि स्थानिवद्भावात् प्रतिषेधः सिध्यति। `श्वाभस्त्रम्' इति। `इञश्च' (4.2.112) इत्यण्।।
9. पदान्तस्यान्यतरस्याम्। (7.3.9)
पूर्वेण नित्ये प्राप्ते प्रतिषेधे विकल्प उच्यते। `पदान्तस्य' इति। पदशब्दान्तस्येत्यर्थः। `श्वापदम्' इति। शुन इव पदमस्येति श्वपदः, तस्येदं श्वापदम्। `शौवापदम्' इति। `अन्येषामपि दृश्यते' (6.3.137) इति दीर्घः।।
10. उत्तरपदस्य। (7.3.10)
अङ्गस्यचामादेरचो वृद्धौ प्राप्तायामिदमुच्यते। ननु च `अवयवादृतौः' (7.3.11) इत्यदौ पञ्चमीनिर्देशादन्तरेणाप्युत्तरपदाधिकारं `तस्मादित्युत्तरस्य' (1.1.67) इत्युत्तरपदस्यैव भविष्यति, तत् किमुत्तरपदाधिकारेण? इतयत आह--`यत्र'--इत्यादि। आदिशब्देन `हृद्भगसिन्ध्वन्ते पूर्वपदस्य' (7.3.19), `अनुन्नतिकादीनाञ्च' (7.3.20), `देवताद्वन्द्वे च' (7.3.21)--इत्येवमादयो गृह्यन्ते। एषु पञ्चमीनिर्देशाभावादसत्युत्तरपदाधिकारोऽङ्गसयाचामादेरच एव वृद्धिः स्यात्, नोत्तरपदस्य। तस्मात् तदर्थमुत्तरपदाधिकारः क्रियते।
यद्येवम्, इह `अवयवादृतोः' (7.3.11) इत्येतन्नोपन्यसनीयम्, अत्र पञ्चमीनिर्देशस्य विद्यमानत्वात्? इति चोद्यमाशङ्क्यान्यार्थं क्रियमाणस्य यत्रापि पञ्चमीनिर्देशोऽस्ति, तत्रापि प्रासङ्किकं कार्यंमाह--`पञ्चमीनिर्देशेष्वपि' इत्यादि। प्रयोजनान्तरमपर्याह--`वृद्धेश्च' इत्यादि। उत्तरपदाधिकारे या विहिता वृद्धिरित्येष व्यपदेशो वृद्धेर्यथा स्यादित्यवमक्छञ्चोत्तरपदाधिकारः क्रियते। किं पुनः कारणमेवं वृद्धेरव्यपदेशः प्रार्थ्यते? इत्याह--`उत्तरपदवृद्धौ' इत्यादि। उत्तरपदाधिकारे विहिते वृद्धिमत्युत्तरपदे पूर्वपदस्यान्तोदात्तत्वं यथा स्यादित्येवमर्थम्। `उत्तरपदवृद्धौ सर्वञ्च' (6.2.105) इत्यत्रोत्तरपदाधिकारे या विहिता वृद्धिरित्येवं विधायते। एतत्कथं शक्यते विज्ञातुम्? यदि व्यपदेशार्थ उत्तरपदाधिकारः क्रियते, नान्यथा। तस्माद्व्यपदेशार्थश्चोत्तरपदाधिकारः कर्त्तव्यः।।
11. अवयवादृतोः। (7.3.11)
`ऋतोः' [नास्ति--मु. पुस्तके] इति। नेदं स्वरूपग्रहणम्, किं तर्हि? अर्थग्रहठणम्। तथा ह्यवययवादित्युच्यते, ऋतोश्चायं एवावयधी भवति। अवयविथ्येनतौ। विज्ञयमानेऽर्थनिर्देशोऽयं विज्ञायते, ततश्चावयववाचिनः पूर्वपदादुत्तरस्यर्त्तुवाचिनः कार्यं विज्ञायत इत्याह--`अवयववाचिनः' इत्यादि। `एकदेशिसमासः' इति। पूर्वापरादिसूत्रेण (2.2.1)। ननु ग्रहठणवता प्राप्तिपधेकेन तदन्तविधिः (व्या.प.89) प्रतिषिध्यते, तत्कथं वर्षाहेमन्ताभ्यां प्रत्ययो विधीयमानस्तदन्ताभ्यां लक्ष्यते? इत्याह--`तत्र ऋती वृद्धिमद्विधाववयवानाम्' इति।
`पौर्ववर्षिकः' [पौर्ववार्षिकम्--काशिका] इति। पूर्वाश्च ता वर्षाश्चेति विशेषणसमासं कृत्वा भवार्थे तद्धितो विधेयः। पूर्वशब्दोऽत्र कालवाची, न त्ववयववाचीत्यङ्गस्यादिवृद्धिरेव भवतोति। अथात्रापि तदन्तविधिना ठक् कस्मान्न भवपति? इत्याह--`अवयवपूर्वस्यैव हि' इत्यादि।।
12. सुसर्वार्धाज्जनपदस्य। (7.3.12)
`जनपदस्य' इति। नेवं स्वरूपग्रहणम्, उत्तरसूत्रे `अमद्राणाम्' (7.3.13) इति निषेधात्। उत्तरसूत्रेहीदमेव जनपदग्रहणमनुवर्त्तते, ततोऽत्र यदि स्वरूपग्रहणं स्यात्, मद्राणां प्रतिषेधोऽनर्थकः स्यात्, तस्मादर्थस्येदं ग्रहणम्, तेन जनपदवचिनः कार्यं विज्ञायत इत्याह--`सुसर्वार्धं इत्येतेब्य उत्तरस्य जनपदवाचिनः' इत्यादि। `सुपाञ्चालकः' इति। शोभनाः पञ्चाला इति प्रादिसमासः। `सर्वपाञ्चालकः' इति। `पूर्वकालैक' (2.1.49) इत्यादिना कर्मधारयः। `अर्धपाञ्चालकः' इति। `अर्ध नपुंसकम्' (2.2.2) इत्यर्धशब्देन तत्पुरुषः। सर्वत्र शैषिके जातादावर्थे तद्धितः। कथं जनपदात् `जनपदतदवद्योश्च' (4.2.124) इत्युच्यमानः प्रत्ययस्तदन्ताद्भवति? इत्याह--`सुसर्वार्धदिक्शब्देभ्यः' इत्यादि।।
13. दिशोऽमद्राणाम्। (7.3.13)
`पूर्वपाञ्चालकः' इति। पूर्वेषु पाञ्चालेषु भवति इति तद्धितार्थे समासः, ततो वृञ्। दिश इति किम्? पूर्वं पाञ्चालानां पूर्वापाञ्चालः। पूर्वापरादि (2.2.1) सूत्रेणैकादेशिसमासः, तत्र भवः पौर्वपाञ्चालः। दिशि यो वर्त्तते स इह दिक्शब्दोऽभिप्रेतः। न चायं पूर्वशब्दो दिशि वर्त्तते, किं तर्हि? अवयवे। तेन पूर्वपदवृद्धिरेव भवति। योगविभाग उत्तरार्थः। प्राचां ग्रामनगराणां दिश एवोत्तरपदस्य यथा स्यात्, सुसर्वार्धान्मा भूदिति।।
14. प्राचां ग्रामनगराणाम्। (7.3.14)
`जनपदस्य' (7.3.12) इत्यनुवर्त्तते, तेन प्राचामित्येतद्देशग्रहणं विज्ञायते न त्वाचार्यग्रहणमिति मात्वाऽऽह--`प्राचां देशे ग्रामाणाम्' इत्यादि। `पुर्वेषुकामशमः' इति। पूर्वा चासाविषुकामशमी चेति `दिक्संख्ये संज्ञायाम्' (2.1.50) इति समासः, ततो भवार्थे `दिक्पूर्वपदादसंज्ञायां ञः' (4.2.107) इति। `पूर्वपाटलिपुत्रकः' इति। पूर्वस्मिन् पाटलिपुत्रे भव इति पूर्ववत् तद्धितार्थे समासः। `रोपधेतोः' (4.2.123) इति वुञ्।
ननु चैकमेव पाटलिपुत्रम्, तत्र पाटलिपुत्रान्तरस्य व्यवच्छेद्यस्याभावात्, तत्कथं पूर्वशब्देन पाटलिपुत्रशब्दो विशिष्यते? पाटलिपुत्रैकदेशे पाटलिपुत्रशब्दो वर्त्तत इत्यदोषः। अथ नगरग्रहणं किमर्थम्, न `ग्रामाणाम्' इत्येवं सिद्धम्, नगरमपि हि ग्रामो भवत्येव; जननिकायनिवासे ग्रामो रूढः, नगरञ्च जननिकायनिवास एव, अतश्च नगरमपि ग्रामः, यतो ये ग्रामे विधयो नेष्यन्ते, नगरेऽपि ते न क्रियन्ते। तथा हि--`अभक्ष्यो ग्राम्यकुक्कुटः', `अभक्ष्यो ग्राभ्यशूकरः'--इत्युक्ते नागरोऽपि न भक्ष्यते; `ग्रामे नाध्येतव्यम्' इत्युक्ते नगरेऽपि नाधीयते, तस्मान्नगरमपि ग्रामः। एवञ्च कृत्वा--`उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्', (4.2.109), `वाहीकग्रामेभ्यश्च' (4.2.117), `दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु' (6.2.103) इत्यत्र ग्रामग्रहणेन नगरग्रहणमपि भवतीत्याह--`ग्रामत्वादेव' इत्यादि। यदि तर्हि नगरमपि ग्रामः, तदा `विशिष्टलिङ्गो नदीदेशोऽग्रामाः' (2.4.7) इत्यत्र नगरग्रहणं प्राप्नोति? सत्यमेतत्, तत्र तु नगराणां प्रतिषेधो वक्तव्यः। स एव च सम्बन्धभेदः कुतो हेतोर्भवति, यस्य प्रतिपत्तथे ग्रामनगरयोर्भेदेनोपादानं क्रियते! इत्याह `दिक्पूर्वपदो हि' इत्यादि। यदि हि यथा दिक्पूर्वपदः पूर्वोत्तरसमुदायः पूर्वेषुकामशम्यादिर्ग्रामनामधेयम्, तथा नगरनामधेयमपि स्यात्, ततः सम्बन्धो न भिद्येत। यथा च पाटलिपुत्रादिशब्दरूपमुत्तरपदभूतमेव नगरसय वाचकम्, तथा यदि ग्रामनामधेयमपि ग्रामस्य स्यात्, एवमपि सम्बन्धो न भिद्येत? न चैवम्; अन्यादृश एव हि पूर्वोत्तरसमुदयातमको ग्रामवाची शब्दः, अन्यादृशश्चोततरपदात्मको नगरवाची शब्दः। तस्माद्ग्रामनगरयोर्भेदात् सम्बन्धभेदो भवति। एवं सम्बन्धभेदहेतुं दर्शयित्वा सम्बन्धभेदं दर्शयन्नाह--`तत्र' इत्यादि। `ग्रामवाचिनाम्' इति। पूर्वोषुकमशमीत्येवमादीनाम्। `अवयवस्य' इति। इषुकामशमी-कृष्णमृत्तिकेत्येवमादेः। `दिक्शब्दात्' इति। पुर्वादेः। `इतरत्र तु' इत्यादि। नगरेषु। `देश उत्तरेषां नगराणाम्' इति। अत्र वृद्धिर्भवतीत्यभिसम्बन्धः क्रियत इत्येतदपेक्ष्यते।।
पूर्वेषुकामशन इत्येवमादिषु पूर्वोत्तरपदयोरन्तरङ्गत्वाद्गुणे कृते दिक्शब्दोग्रामश्चोत्तरपदं नास्तीति वृद्धिर्न प्राप्नोति, वृद्धिर्हि तद्धिते कृते तदाश्रयेण भवन्ती बहिरङ्गा भवति। प्रागेव तद्धितोत्पत्तेर्गुणः प्राप्नुवन्नन्तरङ्गो भवति। न च वचनाद्वृद्धिर्भविष्यतीति शक्यते वक्तुम्, यत्र ह्येकादेशो नास्ति स च वचनस्यावकाशः--पूर्वकार्ष्णमृत्तिक इत्येवमादौ। न चान्ताविवद्भावोऽस्ति; `उभयत आश्रये नान्तादिवत्' (व्या.प.51) इति प्रतिषेधात्। अतोऽत्र पूर्वपदमुत्तरपदञ्चाश्रीयते? इति यश्चोदयेत्, तं प्रत्याह--`पुर्वेषुकामशम इत्येवमादिषु' इत्यादि। यथा `नेन्द्रस्य परस्य' (7.3.22) इति निर्देशनायमर्थो ज्ञापितः तथा `अदस औ सुलोपश्च' (7.2.107) इत्यत्र प्रतिपादितः। `ग्रामनगराणाम्' इति बहुवचनं स्वरूपविधिनिरासार्थम्।।
15. संख्यायाः संवत्सरसंख्यस्य च। (7.3.15)
`द्विसांवत्सरिकः' इति। पूर्ववत् तद्धितार्थे समासः। ततः प्राग्वतीयष्ठञ्।
`द्विषाष्टिकः, द्विसाप्ततिकः' इति। ननु च `तमधीष्टो भृतो भृतो भावी' (5.1.80) इत्यत्र कालादिति। (5.1.78) वर्त्तते, न द्विषष्ट्यादिः कालशब्दः, किं तर्हि? संख्याशब्दः, तत्कथं कालाधिकारविहितं प्रत्ययमुत्पादयति? इत्याह--`द्विषष्ट्यादिशब्दः' इत्यादि। कालवाचिशब्दस्तत्र कालग्रहणेन गृह्यते, द्विषष्ट्यादिशब्दो हि यदा वर्षेषु संख्येयेषु वर्त्तते, तदा कालवाचित्वात् कालश्ब्दो भवति। ततः कालाधिकारीयं प्रत्ययमुत्यादयति।
अथ संवत्सरग्रहणं किमर्थम्, यावतः `परिमाणान्तस्यासंज्ञाशाणयोः' (7.3.17) इत्यत्र परिमाणशब्देन परिच्छेदहेतुमात्र गृह्यते, न तु प्रस्थादिवदारोहपरिणाहपरिच्छेदहेतुः, अन्यथा हि शाणप्रतिषेधोऽनर्थकः स्यात्, न हि शाणः परिमाणमारोहपरणाहपरिच्छेदहेतुः, अतः कालोऽपि परिच्छेदहेतुर्भवति, ततश्च सोऽपि परिमाणमिति संवत्सरशब्दस्य `परिमाणस्यासंज्ञाशाणयोः' (7.3.17) इत्येव सिद्धम्? इति चोद्यनिरासायाह--`संवत्सरग्रहणम्' इत्यादि। परिमाणग्रहणेन कालपरिमाणस्य ग्रहणं मा भूदित्येवमर्थं संवत्सरग्रहणम्। संवत्सरग्रहणेनासावर्थो ज्ञाप्यते--`परिमाणग्रहणे कालपरिमाणग्रहणं न भवति' इति। ततश्च यत्र परिमाणग्रहणं तत्र कलपरिमाणं न गृह्यते। `तेन' इत्यादिना परिमाणग्रहणे कालपरिमाणस्याग्रहणे सति यदिष्टं सिध्यति तद्दर्शयति। `उत्तरपदवृद्धिरन भवति' इति। `परिमाणान्तस्य' (7.3.17) इत्यादिना। `द्विवर्षा' इति। द्वे वर्षे भृतो भूतो भावी वा, पूर्ववट्ठक्, तस्य `वर्षाल्लुक्' (5.1.88) इत्यनुवर्त्तमाने `चित्तवति नित्यम्' (5.1.89) इति लुक्। `पर्युदासो न भवति' इति। ङीप्प्रतिषेधे कर्त्तव्ये तेन प्रतिषेधः। प्रवर्त्तत एवेति `द्विगोः' (4.1.21) इति ङीब्न भवति।।
16. वर्षस्याभविष्यति। (7.3.16)
`द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतति दैवार्षिको मनुष्यः' इति। अत्राधीष्टभृतयोस्तद्धित उत्पन्ने भविष्यता प्रतीयते, तस्मात् तयोरपि प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह--`अधीष्टभृतयोः' इत्यादि। किं पुनः कारणं न भवति? इत्याह--`गम्यते हि' इत्यादि। तत्र यदि शब्दान्तरम् `द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति' इति प्रयुज्यते, ततो भविष्यत्ता गम्यते, नान्यथा। तस्मान्नासौ तद्धितार्थ इत्यधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। ननु च मनुष्येऽभिधेये `चित्तवति नित्यम्' (5.1.89) इति ठञो लुका भवितव्यम्, तत्कथं द्विवार्षिको मनुष्य इति सिध्यति? नैष दोषः; न ह्यसावदिशेषेण लुक्, किं तर्हि? विशिष्ट ेव विषये। कथम्? ततर नित्यग्रहणं कर्त्तव्यम्, पूर्वेणैव सिद्ध आरम्भसामर्थ्यादेव नित्यं लुग्भविष्यतीति, तत् कृतं विशिष्टे विषये भूते यथा स्यात्, अधोष्टादी मा भूदित्येवमर्थम्। तेनाधीष्टादौ `वर्षाल्लुक्' (5.1.88) इति विभाषैव लुग्भवति।।
17. परमाणान्तस्यासंज्ञाशाणयोः। (7.3.17)
संज्ञायाः परत्वं न सम्भवतीत्यतः संज्ञाशाणयोरिति विषयसप्तमीं दर्शयन्नाह--`संज्ञायां विषये' इत्यादि। `शाणे चोत्तरपदे' इति। विषय इत्यपेक्षते। यद्यप्युत्तरपदस्य[यद्युत्तरपदस्य--मुद्रित पाठः] शाणस्य परत्वमुपपद्यते, तथापि दुर्घटमेकस्याः सप्तम्या विषयसप्तमीत्वम्, परसप्तमीतवञ्चेति। तेन शाणशब्दमप्युत्तरपदं प्रति विषयसप्तम्येषा युक्ता। `द्विकौडविकम्' इति। `प्राग्वतेष्ठञ' (5.1.18)। अनार्हीयत्वाच्च प्रत्ययस्य `अध्यर्थपूर्वद्विगोः' (5.1.28) इति लुग्न भवति। `द्विसौवर्णिकः' [द्विसौवरणिकम्--काशिका] इति। स एव प्रत्ययः। कथं पुनरत्र वृद्धिः, यावता परिमाणान्तस्येत्युच्यते, सुवर्णञ्च गुरुत्वमानादुन्मानम्, न परिमाणमिति? नैव दोषः; आचार्यप्रवृत्तिर्ज्ञायति--`गुरुत्वपरिमाणमपीह परिच्छेदहेतुत्वात् पूरिमाणं गृह्यते' इति; यदयम् `असंज्ञाशाणयोः' इति शाणप्रतिषेधमारमते। अथ `अध्यर्धपूर्व' (5.1.28) इति लुक्कस्मान्न भवति? इत्याह--`विभावा' इत्यादि। `द्विनैष्किकम्' इति। `असमासे निष्कादिभ्यः' (5.120) इति ठक्।
`पाञ्चलोहितिकः' [पाञ्चलोहितिकम्--काशिका] इति। तस्मिन्नेव ठकि कृते `भस्याढे तद्धिते' (वा.731) इति पुंवद्भावेन `वर्णादनुदात्तात्, तोपधात् तो तः' (4.1.39) इत्यनेन विहितयोर्ङीब्नकारयोर्निवृत्ति।
`द्वैकुलिजिकम्' [द्वैकुलिजिकः--काशिका] इति। प्राग्वतीयष्ठञ्च।।
18. जे प्रोष्ठपदानाम्। (7.3.18)
`संख्यायाः' (7.3.15) इति निवृत्तम्। "`जे' इति जातार्थो निर्दिश्यते" इति। जातशब्दैकदेशस्य `जे' इति, तस्यायं प्रयोगः। भवति हि पदैकदेशस्यापि प्रयोगः, यथा--भोमो भीमसेनः, सत्यभामा भामेति। तस्माज्जातशब्दस्यैकदेशस्य प्रयोगेण जातार्थो निर्दिश्यत इति विज्ञेयम्।
`प्रोष्ठपदासु' इति। `लुपि युक्ततवद्व्यक्तिवचने' (1.2.51) इति युक्तवदभावः। `भद्रयादाः' इति। भद्रपदेन युक्तः काल इति अणादिकार्यं पूर्ववद्विधेयम्।।
19. हृद्भगसिन्ध्वन्ते पूर्वपदस्य च। (7.3.19)
`सौहार्दम्' इति। तस्येदम्' (4.3.120) इत्यण्। यदा सुहृदयशब्दादण्, तदा `हृदयस्य हृल्लेखयदण्लासेषु' (6.3.50) इति हृद्भावः। `सौहार्द्यंम्' इति। `गुणवचनब्राह्मणादिभ्यः' (5.1.124) इति ष्यञ्, `वा शोकष्यञ्रोगेषु' (6.3.51) इति हृद्भावः। `सौभागिनेयः, दीर्भागिनयः' इति। `कस्याण्यादीनामिनङ च' (4.1.126) इति ढकि कृत इनङादेशः।
`सक्तुसिन्धवः' इति। शापकपार्थिवादित्वान्मध्यमपदलोपो समासः। `साक्तुसैन्धवः' इति। ओर्देशे (4.2.119) ठञि प्राप्ते `कच्छादिभ्यश्च' (4.2.133) इत्यण्। ननु च केवलस्तत्र सिन्धुशब्दः पठ्यते, कथं तदन्ताद्भवति? इत्याह--`तेन' इत्यादि। कथं पुनस्तेन सिन्धुशब्देन तदन्तविधिर्लभ्यते, यावता `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति' (व्या.प.89) इति तदन्तविधिः प्रतिषिध्यते? नैष दोषः; चकारस्तत्रानुक्तसमुच्चयार्थः, तेन सिन्धुशब्दात् तदन्तादपि भवति।।
20.अनुशतिकादीनां च। (7.3.20)
`अनुशतिक' इति। शतेन क्रीतः--`शताच्च ठन्यतावशते' (5.1.21) इति ठन्--शतिकः, अनुगतः शतिकेनानुशतिकः, ततः `तस्येदम्' (4.3.120) इत्यण्। आनुशातिकम्, आनुहौडिकम्' इति। `चरति' (4.4.8) इति ठक्। `आनुसांवत्सरिकम्' इति। `तत्र च दीयते कार्यं भववत्' (5.1.96) इत्यतिदेशात् `बह्वचोऽन्तोदात्तात्' (4.3.67) इति ठञ्। `आङ्गारवैणवः' इति। `तस्यापत्यम्' (4.1.92) इत्यण्।
`आसिहात्यम्' इति। `तत्र भवः' (4.3.53) इत्यण्। `आस्यहात्यम्' इति। `विमुक्तादिभ्योऽण्' (5.2.61)। `आस्यहैतिकम्' इति पाठे `तदस्य प्रयोजनम्' (5.1.109) इति प्राग्वतीयष्ठञ्। ननु च प्रातिपदिकादिति वर्त्तते, अस्यहत्यास्यहेतिश्च पदसमुदायोऽयम्, न प्रातिपदिकम्, तत्कथमतः प्रत्ययः? सत्यपि वा प्रत्यये कथं विभक्तेरलुक्? इत्याह--`अत एव' इत्यादि।
`वाध्यौगः' इति। `अनुष्यानन्तर्ये बिदादिभ्योऽञ्' (4.1.104)। `पौष्करसादिरानुहारतिः' इति। `बाह्वादिभ्यश्च' (4.1.96) इतीण्। `कौरुकात्यम्' [कौरुकात्यः--काशिका] इति। गरगादित्वादयञ्। `कौरुपाञ्चालः' इति। `तत्र भवः' (4.3.53) इत्यण्। ननु च जनपदशब्दा `जनपदतदवध्योश्च' (4.2.124) इति वुञा भवितव्यम्! इत्यत आह--`जनपदसमुदायो जनपदग्रहणेन' इत्यादि। कुरुपञ्चालशब्दो हि जनपदमुदायवचनः, न च जनपदसमुदायो जनपदग्रहणेन गृह्यत इति कुतो वुञ्प्रसङ्गः? `औदकशौद्धिः' इति। `अत इञ्' (4.1.95)।
`ऐहलौकिकः, पारलौकिकः' इति। `लोकोत्तरपदस्य' [लोकोत्तरपदाच्च--इति वर्तिकम्](वा.459) इति ठञ्। एतत् `समानस्य तदादेश्च' इत्येवमादिकायां कारिकायामियमिष्टिरिति पठ्यते। `सार्वलौकिकः' इति। `लोकसर्वलोकाट्ठञ्' (5.1.44)। `सार्वपौरुषम्' इति। `तस्येदम्' (4.3.120) इत्यण्। `सार्वभौमः' इति। `सर्वभूमिपृथिवीभ्यामणञौ' (5.1.41) इत्यण, अञ्चा। `प्रायौगिकः' इति। अध्यात्मादित्वात् (वा.456) ठञ्। `पारस्त्रैणेयः' इति। `कुलटाया व' (4.1.127) इतीनङ्। तत्र `स्त्रीभ्यो ढक्' (4.1.120) `कल्याण्यादीनामिनङ् च' (4.1.146) इत्यनुवर्त्तते।
`राजपौरुष्यम्' इति। ब्राह्मणादित्वात् (5.1.124) ष्यञ्। `सौत्रनाडिः' इति। `अत इञ्' (4.1.95) `आभिगामिकः' इति। अभिगममर्हतीत्यार्हीयष्ठक् (5.1.63)।
`आधिदैविकम्, आधिभौतिकम्' इति। भवार्थेऽध्यात्मादित्वात् (वा.456) ठञ्। `चातुर्वेद्यम्' इति। ष्यञ्। स्वार्थिको वक्तव्यश्चातुर्वर्ण्यादिसिद्ध्यर्थमिति स्वार्थं एव ष्यञ्।।
21. देवताद्वन्द्वे च। (7.3.21)
`आग्निमारुतीम्' इति। अग्निश्च मरुच्चेति द्वन्द्वः, तौ देवते अस्याः--`सास्य देवता' (4.2.24) इत्यण्; ततः पूर्वोत्तरयोर्वृद्धिः, `इद्वृद्धौ' (6.3.28) इत्यग्निशब्दस्यानङ्विषय इकारादेशः, `टिड्ढाणञ्' (4.1.15) इति ङीप्।
`यो देवताद्वन्द्वः सूक्तसम्बन्धी इत्यादि। यः सूक्तं भजते स सूक्तसम्बन्धी, यस्मै हविर्निरूप्यते स हविः सम्बन्धीति। अर्थद्वारकं चेदं द्वन्द्वस्य विशेषणम्। `इह च न भवति' इत्यादि। कथं पनः सामान्योक्तो सत्यामयं विशेषो लभ्यते? एवं मन्यते--`नेन्द्रस्य परस्य' (7.3.22) इत्यतर नेति योगविभागः कर्त्तव्यः, तेन सूक्तसम्बन्धिनो हविःसम्बन्धिनश्चान्यत्र न भवतीति। `स्कान्दविशाखः' इति। `तस्येदम्' (4.3.120) इत्यण्। `ब्राह्मप्रजापत्यम्' इति। `दित्यदित्यादित्यपत्यत्तरपदाण्ण्यः' (4.1.85)।
22. नेन्द्रस्य परस्य। (7.3.22)
`सैमेन्द्रः, आग्नेन्द्रः' इति। `सास्य देवता' (4.2.24) इत्यण्, `देवताद्वन्द्वे च' (7.3.21) इत्यानङादेशः, पूर्वपदस्याद्गुणः। `ऐन्द्राग्नम्' इति। अत्रापि पूर्ववदणादिकार्यम्। `इन्द्रशब्दे द्वावचौ' इत्यादि। प्रागेवोक्तत्वात् सुबोधम्।।
23. दीर्घाच्च वरुणस्य। (7.3.23)
`ऐन्द्रावरुणम्, मैत्रावरुणम्' इति। `देवताद्वन्द्वे च' (7.3.21) इत्यानङि कृते दीर्घात् परो वरुणशब्दः।।
24. प्राचां नगरान्ते। (7.3.24)
यद्यत्र प्राचामित्यत्राचार्यग्रहणं स्यात्, ततश्चोत्तरसूत्रे (7.3.26) `विभाषितम्' इति न ब्रूयात्,एतदेव विकल्पार्थं प्राचांग्रहणं तत्रानुवर्त्तिष्यते। तस्माद्देशग्रहणं विज्ञायते इत्याह--`प्राचां देशे' इत्यादि। नगरग्रहणेनेह स्वरूपग्रहणम्; `स्वं रूपं शब्दस्य' (1.1.68) इति वचनात्।।
25. जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्। (7.3.25)
`उत्तरम्' इत्यनेनोत्तरपदं लक्ष्यते; तस्य चोत्तरपदस्य नित्यं सन्निधानात् विभाषितत्वं नोपपद्यते। तस्मात् तत्सम्बन्धिन्या वृद्धेर्विभाषितत्वात् `विभाषितम्' इत्युक्तम्। अत एवाह--`उत्तरपदस्य विभाषा भवति' इति। वृद्धिरिति प्रकृतेन सम्बन्धः।।
26. अर्धात् परिमाणस्य पूर्वस्य तु वा। (7.3.26)
`आर्धद्रौणिकम्' इति। `अर्थं नपुंसकम्' (2.2.2) इति समासः, `प्राग्वतेष्ठञ्' (5.1.18)। अथ वावचनं किमर्थम्, न विभाषितमिति (7.3.25)पूर्वसूत्रादनुवर्त्तष्यते, उत्तरमित्यनेन तत् सम्बद्धम्, अतस्तदनुवृत्तावृत्तरपदस्यैव विकल्पः स्यादिति चेत्? नैतदस्ति; उततरपदमित्येतन्न स्वरिष्यते, तुशब्दश्चेह क्रियते, स नियमर्थो भविष्यति--पूर्वस्यैव भवति, नोत्तरस्येति। एवं तर्ह्यकयोगे स्वरतत्वकरणाकरणाद्धि वावचनमेव लधीय इति पुनर्वावचनं क्रियते।।
27. नातः परस्य। (7.3.27)
पूर्वेण परिमाणस्य वृद्धिरुच्यमाना अकारस्याचमादेः प्राप्नोतीति प्रतिषिध्यते। पूर्वपदस्य तु विकल्पो भवत्येव; पूर्वस्य त्वित्यनुवृत्तेः। `आर्धप्रस्थिकः' इति। `अर्धं नपुंसकम्' (2.2.2) इति समासः, पूर्ववत् प्रत्ययः।
`किञ्च स्यात्' इति। एवं मन्यते--आकारो हि वृद्धिमानेव, ततर नास्ति विशेषः सत्यसति वा वृद्धिपरतिषेधे, तदेव रूपम्, अतोऽसत्यपि तपरकरणे नैव किञ्चिदनिष्टमापद्यत इति। `वृद्धिनिमित्तस्य' इत्यादि। यसति तपरकरणे तत्कालार्थे यदनिष्टमापद्यते तद्दर्शयति। किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात्? इत्यत आह--`यत्र हि' इत्यादि। वृद्धिं कुर्वन्नेव हि तद्धितो वृद्धिनिमित्तं भवति। तस्माद्यत्र तद्धिते वृद्धिप्रतिषेधः क्रियते स वृद्धेनिमित्तं न भवति। तेन वृद्धिनिमित्तस्य तद्धितस्य पुंवद्भावो न प्रतिषिध्यत इति पुंवद्भावः स्यात्। क्व? `यथा' इत्यादि। `वैयाकरणी भार्याऽस्य' इति। वृद्धिप्रतिषेधः पुनरत्र `न य्वाभ्याम्' (7.3.3) इत्यादिना। अथ परस्येति किमर्थं, पूर्वस्य मा भूदिति? नैतदस्ति; अत इति विशेषणोपादानसामर्थ्यात् पूर्वस्य न भविष्यति। न हि पूर्वस्यार्धशब्दस्यातोऽन्यो वृद्धिमाक् सम्भवति, `पूर्वस्य तु वा' (7.3.26) इति च विकल्पशासनमनर्थकं स्यात्, यदि तस्य प्रतिषेधः स्यात्। इदं तर्हि प्रयोजनम्--तदन्तविधिर्मा भूदिति? तदन्तदिधौ सतीहापि प्रतिषेधः स्यात्--अर्धद्रौणिकमिति। पूर्वस्तु विधिः--अर्धेन मुष्टिना क्रोतमर्धमौष्टिकम्, आर्धमौष्टिकमित्येवमर्थः स्यात्, परग्रहणे तु सति यदर्धात् परमनन्तरं तदेवाश्रितं भवतीति नास्ति तदन्तविधिप्रसङ्गः।।
28. प्रवाहणस्य ढे। (7.3.28)
प्रवाहणशब्दस्य ढे प्रत्यये परत उत्तरपदस्येति व्यधिकरणे षष्ठ्यौ। प्रवाहणशब्दसय यदुत्तरपदमवयवस्तस्येत्यर्थः। `प्रवाहणेयः' इति। वहेः प्रपूर्वाण्णिच्--प्रवाहयतीति प्रवाहणः। णिजन्तात् `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्त्तरि ल्युट्, प्रादिसमासः, `णेर्विभाषा' (8.4.30) इति णत्वम्, ततोऽपत्यार्थे ढक्। किमर्थं पुनरुत्तरपदस्य वृद्धिर्विधीयते, यावता वृद्धिमवेवैतत्? यदप्येवम्, तथापि वृद्धिरविधातव्या; तद्धितस्य वृद्धिनिमित्तत्वात्, `वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे' (6.3.39) इति पुंवद्भावप्रतषेधो यथा स्यात्। यदि ह्युत्तरपदवृद्धिर्न विधीयते, ततो यस्मिन् पक्षे पूर्वपदे वृद्धिर्न विधीयते तस्मिन् पक्षे प्रवाहणेयी भार्या अस्येति प्रवाहणेयीभायं इत्यत्र पुंवद्भावप्रतषेधो न स्यात्; वृद्धेरनिमित्तत्वात् तद्धितस्य। यथा--वैयाकरणभायं इत्यत्र। ननु चासत्यपि वृद्धिनिमित्तत्वे तद्धितस्य' `जातेश्च' (6.3.41) इति पुंवद्भावप्रतिषेधो भविष्यति, अस्ति ह्यत्रापि `गोत्रं च चरणैः सह' (म.भा.2.225) इति जातित्वम्? एवं तर्हि एतज्ज्ञापयति--अनित्योऽयं प्रतिषेध इति। तेन हस्तिनीनां समूहो हास्तिकमित्यत्र `भस्याढे तद्धिते' (वा.731) इत्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति।।
29. तत्प्रत्ययस्य च। (7.3.29)
`प्रावाहणेयिः' इति। `अत इञ्' (4.1.95)। `प्रावाहणेयकम्' इति। `गोत्रचरणादषुञ्' (4.3.126)।
अथ किमर्थमिदमुच्यते, यावता ढप्रत्ययन्तस्य प्रवाहणेयशब्दस्योत्तरपदं नित्यं वृद्धिमदेदेति, तदर्थस्तावदारम्भो न युक्तः; पूर्वपदस्य वृद्धेर्विकल्पो यथा स्यादित्येवमर्थोऽपि नैवास्यारम्भो युज्यते; इञादावपि तद्धिते तन्निमित्तां वृद्धिं बाधित्वा पूर्वसूत्रेण च निमित्त एव विकल्पो भविष्यति, न हीञादावुतपन्ने तद्धिते ढस्य परत्वमपैति? इत्याह--`बाह्यतद्धित' इत्यादि। बाह्यतद्धिनो निमित्तं यस्याः सा तथोक्ता। बाह्मत्वं पुनरित्रदेस्तद्धितस्य प्रावाहणेयशब्देऽनन्तर्भावात्। सैवं बाह्यं तद्धितं निमित्तमाश्रित्य भवन्ती बहिरङ्गा। प्रागेव तु ब्राह्मतद्धितोत्पत्तेर्ढाश्रयो विकल्पो भवन्नन्तरङ्गस्तां बाधितुं न शक्नोति। ततश्च यदीदं नारभ्येत तदा स्यादेव। तस्माद्विकल्पार्थमिदमारभ्यते।।
30. नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्। (7.3.30)
उदाहरणान्युत्तरत्र व्युत्पादयिष्यन्ते।
`अत्र केचदहुः' इत्यादि। ग्रहणकवाक्यम्। अस्य `न नञ्पूर्वात् तत्पुरुषात्' इति विवरणम्। `न नञ्पूर्वात् तत्पुरुषात्' (5.1.121) इति त्वतल्भ्यामन्यो भावप्रत्ययः प्रतिषेध्यते, तत्रोत्तरं भावप्रत्ययमिच्छता शूच्यादिभ्य एव, न तु नञ्समासेभ्य उत्तरो भावप्रत्ययः कर्त्तव्यः। तस्मिन् कृते पश्चान्नञ्समासः, ततश्चाङ्गस्यामादेरचो विधीयमाना वृद्धिर्न प्राप्नोति। न हि पूर्वं भावप्रत्यये कृते पश्चान्नञ्समासे नञ् अङ्गसयाचामादिर्भवति, उत्तरपदस्यैवाङ्गत्वात्; उच्यते चेदं वचनम्, तत्र वचनसामर्थ्यादङ्गस्यापि वृद्धिर्भवति।
`तदपरे' इत्यादि। यदुक्तमियं पूर्वपदस्य वृद्धिरप्राप्तैव विभाष विधीयत इति, तदपर आचार्या न क्षमन्ते। किं कारणम्? इत्याह--`भाववचनादन्योऽपि हि' इत्यादि। एवकारो भिन्नक्रमो विद्यत इत्यस्यानन्तरं द्रष्टव्यः। यदि नञ्समासादपत्यादिष्वर्थेषु वृद्धिनिमित्तं भाववचनादपरस्तद्धितो न विद्येत, एवं बहुव्रीहेश्च नञ्समासाद्भाववचनादन्योऽपि न विद्येत; ततो युज्यतेऽशुच्चादिशब्दानामनङ्गत्वादङ्गाधिकारोपमर्दनेन वृद्धिवचनस्याकृतार्थत्वात्। न त्वेतदेवम्; विद्यत एव ह्यन्योऽपत्यादिव्वर्थेषु नञ्समासाद्वृद्धिनिमित्तस्यद्धितः--अकुशलस्यापत्यमाकौशलिः, अकुशलस्येदमाकौशलमिति। बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यत एव--नास्य शुचयो विदयन्त इत्यशुचिः, तस्य भावः, `इगन्ताच्च लघुपूर्वात्' (5.1.131) इत्यण्--आशौचम्। यत एवमन्योऽपि भाववचनात् तद्धितो नञ्समासाद्धिद्यते, वृद्धिनिमित्तको बहुव्रीहेश्च नञ्समासाद्भाववचनोऽपि विद्यते; तस्मात् तत्र कृतार्थत्वाद्वचनस्याङ्गाधिकारबाधनं च युच्यते।
यदप्युक्तम्--`न नञ्पूर्वात् तत्पुरुषादित्यृत्तरो भावप्रत्ययः एव'(इति), तदप्ययुक्तमिति दर्शयन्नाह--`अक्षेत्रज्ञोऽनीश्वरः'[`अक्षेत्रज्ञानीश्वरौ'--काशिका] इत्यादि। एतौ हि द्वौ शब्दौ बाह्मणादिषु तत्पुरुषावेव पठ्येते, तेनाभ्यां तत्पुरुषाभ्यामेव ष्यञ् भवति, अन्यथा हि ब्राह्मणादिष्वनयोः पाठस्य वैयर्थ्यं स्यात्। तस्मादङ्गस्यैवेयं वृद्धिर्नित्यं प्राप्ता सती भावप्रत्यये, अन्यत्र च तद्धिते विकल्पेन विधीयते यथायोगम्। ततराशौचमिति यदि तत्पुरुषः क्रियते--न शुचिरशुतचिः, तदा `तस्येदम्' (4.3.120) इत्यणि कृते वृद्धिः; अथ बहुव्रीहिः--नास्ति शुचिरस्येन्यशुचिः, ततो यदि भावार्थो विवक्ष्यते तदा `इगन्ताचच लघुपूर्वात्' (5.1.131) इत्यण्; अथ `तस्येदम्' (4.3.120) इत्यर्थो विवक्ष्यते, तदा `प्राग्दीवयतोऽण्' (4.1.83) इत्यण्--आनैश्वर्य्यम्, आक्षैत्रज्ञ्यमिति। तत्पुरुषाभ्यां ब्राह्मणादित्वात् व्यञि कृते वृद्धिः। आकीशलमानैपुणमिति यदि बहुव्रीहिरयापि तत्पुरुषः, उभयथापि `तस्येदम्' (4.3.120) इत्यणेव। यद्यपि कुशलनिपुणशब्दौ ब्राह्मणादिषु युधादिषु च पठ्येते तथापि तदन्तात् तत्पुरुषाद्वहुव्रीहेरपि भावप्रत्ययो नोपपद्यते; तदन्तविधेरभावात्।
31.यथातथयथापुरयोः पर्यायेण। (7.3.31)
`ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्यौ' इति। तेन नञ्समासाभ्यां ष्यञ् भवतीति भावः। `एतौ' इति। यथातथा--यथापुरशब्दौ। "`यथाऽसावृश्यते' इत्यव्ययीभावसमासौ" इति। ननु च `असादृश्य' (2.1.7) इति प्रतिषेधः प्राप्नोति? नैष दोषः; न ह्यत्र सादृश्यं गम्यते। तथा हि--यथातथमिति सत्यमुच्यते, यथा--पुरमिति पुरातनम्। कथं पुनर्ज्ञायतेऽवययीभावसमासौ? इत्याह--`तथा हि' इत्यादि। अत्र हि `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति नपुंसकाश्रय ह्रस्वत्वं कृतम्। नपुंसकत्वं चाव्ययीभावस्य विहितम्, तस्मादव्ययीभावसमासाविति ज्ञायते। `भाष्ये तु' इत्यादि। अयथातथाभाव इति ह्रस्वत्वमकृत्वा वाक्यं यथा दर्शितां तथा `सुप्सुपा' (2.1.4) इति समासो लक्ष्यते नाव्ययीभावः। अव्ययीभावे हि नपुंसकाश्रयं ह्रस्वत्वं स्यात्। अस्मिंस्तु पक्षे सौत्रत्वान्निर्देशस्य--`छन्दोवत्सूत्राणि भवन्ति' (म.भा.) इति वर्णव्यत्ययेन दीर्घस्य स्थाने ह्रस्वो वेदितव्यः।।
32. हनस्तोऽचिण्णलोः। (7.3.32)
`तद्धितेष्विति निवृत्तम्' इति। अस्वरितत्वात्। `तत्सम्बद्धं कितीत्यपि' इति। निवृत्तमित्यपेक्षते। तत्सम्बद्धत्वं पुनस्तस्य `किति च' (7.2.118) इत्यत्र `तद्धितेषु' (7.2.117) इत्यनुवृत्तेः। यदि पुनः कितीत्यनुवर्त्तत, ततो लक्षणे `जायापत्योष्टक्' (3.2.52) `अमनुष्यकर्त्तृके च' (3.2.53) इति टकि कृते--जायाध्नस्तिलकालक इत्यत्रापि स्यात्। ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्। अतः `तद्धितेषु' (7.2.117) इत्येतस्मिन् निवृत्तेऽपि तदनुवर्त्तत एव। `घातयति' इति। हेतुमण्णिच्। `हौ हन्तेर्ञ्णिन्नेषु' (7.3.54) इति कृत्वम्। `घातकः' इति। ण्दुल। `साधुघाती' इति। `सुप्यजातौ णिनिस्ताच्छील्ये' (3.2.78) इति णिनिः। `घातंघातम्' इति। `आभीक्ष्ण्ये णमुल् च' (3.4.22), `आभीक्ष्ण्ये द्वे भवतः' (वा.887) इति द्विर्वचनम्। `घातः' इति। भादे घञ् (3.3.18)।
`अधानि' इति। लुङ्, `चिण् भावकर्मणोः' (3.1.66) इति चिणादेशश्च; `भावकर्मणोः (1.3.13) इत्यात्मनेपदम्, `चिणो लुक्' (6.4.104) इति तकारस्य लुक्। `जघान' इति। लिट्, तिप्, तस्य णल्, `अभ्यासाच्च' (7.3.55) इति कुत्वम्-घकारः। अथेह कस्मान्न भवति--वृत्रं हतवानिति। `ब्रह्मभ्रूणवृत्रेषु क्विप्' (3.2.87), तदन्तात् `तस्येदम्' (4.3.120) इत्यण्, `षपूर्वहन्धृतराज्ञामणि' (6.4.135) इत्यल्लोपः--वार्त्रध्नः, भ्रौणध्नः? इत्याह--`धातोः' इत्यादि। धातोरित्येवमुच्यार्य यो विहितः प्रत्ययः स धातुप्रत्ययः। धातौः कार्यमुच्यमानं तत्रैव धातुप्रत्यये भवति। एतच्च भौणहत्यमिति निपातनेन (6.4.174) ज्ञापितम्। तेन वार्त्रध्नः, भ्रौणध्न इत्यादौ न भवति। न ह्यत्र धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातपदिकादित्त्येवम्।।
33. आतो युक्चिण्कृतोः। (7.3.33)
`चिणि कृति च' [`च' नास्ति--काशिका] इति। चिण्ग्रहणमकृदर्थम्। अकृत्त्वं तु तस्य द्वितीयधात्वधिकारेऽविहितत्वात्। `अदायि, अधायि' इति। ददातिदधात्योः पूर्ववल्लुङादिकार्यम्। `दायः, धायः' इति। धञ्। `दायकः, धायकः' इति। ष्वुल्।
`ददौ, दधौ' इति। `आत औ णलः' (7.1.34) इत्यौत्वम्। `चौङिः, बालाकिः' इति। चूडाबलाकाभ्यां बाह्वादीञ्। अचामादेरित्यनुवृत्तेरत्र न भविष्यतीति यो मन्येत, तं प्रत्युदाहरणान्तरमाह--`ज्ञा देवता अस्येति ज्ञः' (इति)। `सास्य देवता' (4.2.24) इत्यण्। अत्र व्यपदेशिवदभावेनाचामादिराकारो भवति। अत्रासति चिण्कृद्ग्रहणे सत्यामप्यचामादेरित्यनुवृत्तौ स्यादेवात्र युक्। `व्यपदेशिवदभावोऽप्रातिपदिकेन' (शाक.प.65) इत्येतच्च प्रत्ययवधिविषय एव ह्युक्तम्।।
34. नोदात्तोपदेशस्य मान्तस्यानाचमेः। (7.3.34)
`अशमि, अतमि, अदमि' इति। `शमु उपशमे' (धा.पा.1201), `तमु काङक्षायाम्' (धा.पा.1202), `दमु उपशमे' (धा.पा.1203), लुङादि पूर्ववत्। `शमकः' इत्यादौ ण्वुल्। `शमः' इत्यादौ घञ्। `यामकः, रामकः' इति। `यम उपरमे' (धा.पा.984), `रमु क्रीडायाम्' (धा.पा.856)। अनुदात्तोपदेशावेतौ।
अथ कथमुद्यमोपरमौ? इत्याह--`उद्यमोपरमौ' इत्यादि। `अनुगन्तश्यौ' इत्यादि। साधुत्वेनेति शेषः। निपातनादेतो साधुत्वेन वेदितव्यावित्यर्थः।
`शमी, तमी, दमीत्यत्र यथा स्यात्' इति। शमादिभ्यः `शमित्यष्टाभ्यो धिनुण्' (3.2.141)। असत्युपदेशग्रहणेऽत्र न स्यात्; प्रत्ययस्वरे कृते धातोरनुदात्तत्वात्। उपदेशग्रहणे तु सति तेनाद्यवस्था लक्ष्य इति यद्यप्युततरकालमनुदात्तत्वं भवति, तथापि भवत्येव प्रतिषेधः; उपदेशावस्थायामुदात्तत्वात्। `इह' इत्यादि। यद्युपदेशग्रहर्ण न क्रियते, ततो यामकः, रामक इत्यत्रापि स्यात्; `लिति' (6.1.193) इति प्रत्ययात् पूर्वस्योदात्तत्वविधानात्। उपदेशग्रहणे तु न भवति; उपदेशेऽनुदात्तत्वात्।
`अनाचमिकमिवमीनामिति वक्तव्यम्' इति। `कमु कान्तौ' (धा.पा.443), `टुवम उद्गिरर्णे' (धा.पा.849), `चम छमु, चमु, झमु अदने' (धा.पा.469,470,471,472) एषां त्रयाणां धातुनां प्रतिषेधो न भवतोत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--चमेस्तावदनाचमेरिति सूत्र एवोपादानात् प्रतिषेधो न भवतीति। इतरयोस्तु `धामदेवाङ् ड्यडड्यौ' (4.2.9), `धनहिरण्यात् कामे' (5.2.65) इति निपतनादिति। अथ कथमामः? इत्याह--`आम ति चौरादिकस्य' इत्यादि। `अम रोगे' (धा.पा.1720) इत्यस्य चौरादिकस्य णिचि वृद्धौ, `एरच्' (3.3.56) इत्यचि कृते-आम इति। न हि णिच्यपि वृद्धेः प्रतिषेधो भवति; तस्याचिण्कृत्त्वात्। अकृत्त्वं तु पूर्ववद्वेदितव्यम्। ननु `जनीजॄष्क्ससुरञ्जोऽमन्ताश्च' (धा.पा.817 अनन्तरम् ग.सू.) इति मित्संज्ञायां सत्याम् `मितां ह्रस्वः' (6.4.92) इत्यनेनेह णौ भवितव्यम्? इत्यत आह--`अत्र हि भित्त्वं नास्ति' इति। कथं नास्ति? इत्याह--`नान्ये' इत्यादि। यस्तु भ्वादिः `अम गत्यादिषु' (धा.पा.465) पठ्यते, अम इत्येवं तस्य भवितव्यम्। अथ कथं विश्राम इति, न चायमसाधुरिति शक्यते वक्तुम्, यतः `सूर्यविश्रामा भूमिः' इति प्रयोगो दृश्यते? इत्याह--`एवमादिकं प्रयोगम्' इत्यादि।।
35. जनिवध्योश्च। (7.3.35)
वधिरयं हनादेशोऽस्ति, तस्यैदं ग्रहणमिति कस्यचिदाशङ्का स्यात्, अतस्तां निराकर्त्तुमाह--`वधिः प्रकृत्यन्तरम्' इत्यादि। प्रकृत्यन्तरमपि भवन् यदयकारान्तः स्यात्, अनर्थकः प्रतिषेधः स्यात्, धोपधत्वादेव न वृद्धिर्भवतीति मत्वाऽऽह--`व्यञ्जनान्तस्य' इति। कुतः पुनर्विधिः प्रकृत्यन्तरमस्तीत्येतदवसितम्? इत्याह--`भक्षकश्च' इत्यादि। अथ हनादेशस्यैव वधेरयं प्रतिषेधः कस्मान्न भवति? इत्याह--`हनादेशस्य' इत्यादि।
`जजान गर्भम्' इत्यादि। छान्दसः प्रयोगः।।
36. अर्त्तिह्वीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ। (7.3.36)
अर्त्तीति श्तिता निर्देशः। ऋकारान्तस्य ग्रहणं मा विज्ञायीति, यथा--`ऋदृशोऽङि गुणः' (7.4.16) इति। `अर्पयति' इति। हेतुमण्णिच्, `पुगन्तलघूपधस्य' (7.3.86) इति गुणः। `ह्रेपयति, व्लेपयति' इति। `ह्री लज्जायाम्' (धा.पा.1085) `व्लो वरणे (धा.पा.1502)। `क्नोपयति, क्ष्मापयति' इति। `क्नूयो शब्दे' (धा.पा.4.85), `क्ष्मायी विधूनने' (धा.पा.486)। `लोपो व्योर्वलि' (6.1.66) इति यकारलोपः। `द्वयोरपि धात्वोर्ग्रहणम्' इति। विसेषाभावात्।
रोत्येतस्यापि `री गतिशोषणयोः' (धा.पा.1500), `रोङ् श्रवणे' (धा.प.1138)--इति द्वयोरपि ग्रहणमित्यपेक्ष्यते। ननु च `निरनुबन्धकग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति रीङो ग्रहणं न प्राप्नोति? नैष दोषः; अत्र ह्यल्पाच्तरत्वात् ह्रोव्ल्यातामन्यतमस्य पूर्वनिपाते कर्त्तव्ये `अल्पाच्तरम्' (2.2.34) इत्येतदनपेक्ष्यार्त्तिशब्दस्य पूर्वं निपातं कुर्वताऽन्यदपि किञ्चिदिह शास्त्रवचनं नापेक्ष्यत इत्येतत् सूचितम्। तेन निरनुबन्धकपरिभाषा नापेक्ष्यत इति रीङोऽपि ग्रहणं भवति।
अथ किमर्थं पुनः पुक् पूर्वान्तः क्रियते, न परादिरेव पुङ् विधीयताम्; पुटि सति गुणविधौ पुगन्तग्रहणं न कर्त्तव्यं भवति, `सार्वधातुकार्धधातुकयोः' (7.3.84) इत्येवं सिद्धत्वात् पुटि; अवश्यं पुड्ग्रहणं कर्त्तव्यम्, अन्यथा हि `अचो ञ्णिति' (7.2.115) इति वृद्धिः स्यादिति चेत्? नैतदस्ति; नाप्राप्ते णिचो वृर्द्धि प्रति निमित्तत्वे पुटं प्रत्यागमित्वमुच्यत इत्युत्तरस्य बाधकं भविष्यतीति नास्ति वृद्धेः प्रसङ्गः। अयं तर्हि परादौ दोषः--दाप्यते, दाप्यत इति--अत्र णेर्लोपेनापहृतत्वात् पकारस्य श्रवणं न स्यादिति? एषोऽप्यदोष-; न हि णिलोपः सर्वापहारी भवति, येन णेर्निवृत्तौ पुडागमोऽपि निवर्त्तत। प्रत्ययलश्रणञ्चास्तीति निवृत्तेऽपि णौ पुटः श्रवणं भविष्यतीत्याह--`पुकः पूर्वान्तकरणम्' इत्यादि। दापयतेर्लुङ्, च्लिः, तस्य `णिश्रिद्रु स्रुभ्यः कर्त्तर' (3.1.48) इति चङि णिलोपः, `णौ चङ्युपधाया ह्रस्वः' (7.4.1) इति ह्रस्वत्वम्, `चङि' (6.1.11) इति द्विर्वचनम्, `सन्वल्लघुनि चङ्परे' (7.4.93) इतीत्त्वम्, `दीर्घो लघोः' (7.4.94) इति दीर्घत्वम्--अदीदपत्। अत्र यदि पुट् क्रियते तदा ह्रस्वत्वं न स्यात्; अनुपधात्वात्। पुकि तु सति भवति। अतो ह्रस्वार्थं पुकः पूर्वान्तकरणम्।।
37. शाच्छासाह्वाव्यावेपां युक्। (7.3.37)
`शो तनूकरणे' (धा.पा.1145), `छो छेदने' (धा.पा.1146), `षोऽन्तकर्मणि' (धा.पा.1147), `ह्वेञ् स्पर्धायाम्' (धा.पा.1008), `व्येञ् संवरणे' (धा.पा.1007), `वेञ् तन्तुसन्ताने' (धा.पा.1006), `पा पाने' (धा.पा.925), `पै ओवै शोषणे' (धा.पा.920,921)-इति द्वयोरपि। एषामाकारान्तत्वात् पुकि प्राप्ते युको विधानम्। `निशाययति' इत्यादि। `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्। `पाग्रणे' `पै ओवै शोषणे' इत्येतस्यापि ग्रहणमिज्छन्ति' इति। यत्र ह्यस्य ग्रहणं नेष्यते, तत्र पिबतेरित्याह; यथा--`लोपः पिबतेरीच्च' (7.4.4) इति भावः। अथ `पा रक्षणे' (धा.पा.1056) इत्यस्यापि ग्रहणं कस्मान्न भवति? इत्याह--`पा रक्षण इत्यस्य तु' इत्यादि।
`लुगागमस्तु तस्य वक्तव्यः' इति। ननु च `पाल रक्षणे' (धा.पा.1609) इति चुरादौ पठ्यते, तस्य पालयतीति भविष्यति? सत्यमेतत; पुकस्तु निवृत्त्यर्थो लुगागम उपसंख्यायते, अन्यथा हि पातेः पाययतीति स्यात्।
`धूञ्प्रीञोर्नुग्वक्तव्यः' इति। `धूञ् कम्पने' (धा.पा.1835), `प्रीञ् तर्पणे' (धा.पा.1836) इति--एतयोर्नुग्वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--धूञ् विधूनने' (धा.पा.1398), `तृप प्रीणने' (धा.पा.1195) इति निपातनादेतयोर्लुग्भविष्यतीति।
`एतेऽपि' इति। युगादयः। निशाययतीत्यादिषु `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्त्वम्। न्यशीशयदित्यादीनि अदीदपदित्यनेन तुल्यानि, पूर्ववल्लुङादीनि विधाय व्युत्पाद्यानि। `अदूधनत्' इति। अनकारान्तत्वादिह सन्वद्भावोऽभ्यासस्य नास्तीति। `अपिप्रिणत्' इत्यत्राप्यलघुत्वाद्दीर्घत्वं नास्ति।
ननु च शाच्छासाह्वाव्याः--इत्येत एजन्ता गणे पठ्यन्ते, तत्कथमेषां कृतात्त्वानां ग्रहणम्? इत्याह--`शाच्छासाह्वा'[`शाह्वेत्यादि'---मुद्रितपाठः] इत्यादि। कथं पनः कृतात्त्वानां ग्रहणेन पुकः प्राप्तिराख्यायते? आकारान्तानां पुग्विधानात्। `अध्यापयति' इत्यादिना ज्ञापस्य प्रयोजनं दर्शयति। अध्यापयतीति `क्रोङ्जीनां णौ' (6.1.48) इत्वात्त्वम्। आदिशब्देन जापयतीत्यादीनां ग्रहणम्। यदु पुकः प्राप्तिमाख्यातुं शाप्रभृतीनां कृतात्त्वानां गरहणं कृतम्, तदा वेञोऽपि कृतात्त्वस्यैव ग्रहणं युक्तम्? नैवं शक्यम्, वेत्युच्यमाने `पै ओवै शोषणे' (धा.पा.920,921) इत्यस्यापि ग्रहणं स्यात्। तस्मादकृतात्त्वस्यैव वेञो ग्रहणं युक्तम्।।
38. वो विधूनने जुक्। (7.3.38)
पुकि प्राप्ति जुग्विधीयते। `वा हत्येतस्य' इति। `वा गतिगन्धनयोः' (धा.पा.1050) इत्येतस्य। `विधूननेऽर्थे' इति। कम्पन इत्यर्थः।
ननु `वज व्रज गतौ' (धा.पा.252,253) इत्यस्य धातोर्ण्यन्तस्योपवाजयतीति सिद्धम्, तत्किमर्थमेतत्? वातेः पुग्मा भूदित्येवमर्थं जुको विधानम्। `पै ओर्व शोषण इत्येतस्यैतद्रूपम्' इति। ननु च लाक्षणिकस्याकारान्तत्वाम्, अतो जुका न भवितव्यम्? नैतदस्ति; इदानोमेव ह्युक्तम्--एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीति।।
39. लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने। (7.3.39)
`स्नेहविपातनेऽर्थे' इति। किमिदं स्नेहविपातनं नाम? विगच्छतः स्नेहसय पातनं व्यापारणम्। तथा हि--पातेर्व्यन्तस्य भावे ल्युटि कृते वपीतनमिति। `विलीनयति' इति। गुणायादेशौ।
अथ `विभाषा लीयतेः' (6.1.51) इत्यत्त्वे कृत एकदेशविकृतस्यानन्यत्वाद्विलापयतीत्यत्र कस्मान्नुग्भवति? इत्याह--`ली' इत्यादि। ली+ई इति ईकारोऽत्र प्रश्लिष्यते--ईकारान्तस्यैव यथा स्यात् कृतात्त्वस्य न भवति।
`ली इति लीलीङोर्ग्रहणम्' इति। ननु च निरनुबन्धकपरिभाषया `ली श्लेषणे' (धा.पा.1501) इत्येतस्यैव क्रैयादिकस्य ग्रहणं युक्तम्, न तु `लीङ् श्लेषणे' (धा.पा.1139) इत्येतस्य दैवादिकस्य? एवं मन्यते--एक एवायं धातुर्विकरणद्वयर्थमात्मनेपदार्थञ्च द्विरुपदिश्यते। एवञ्च कृत्वा `लियः सम्माननशलिनोकरणयोश्च' (1.3.70) इत्युभाभ्यामात्मनेपदं भवतीति। `ला इति लातेः, कृतात्वस्य च लोयतेः' इति। ग्रहणमिति प्रकृतेन सम्बन्धः।।
40. भियो हेतुभये षुक्। (7.3.40)
हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः। विभेत्यस्मादिति भयः, हेतुश्चासौ भयश्चेति हेतुभयः, तस्मिन् हेतुभये। `ञिभी भये' (धा.पा.1084) इत्यस्य वृद्धौ प्राप्तायां `बिभेतेर्हेतुभये' (6.1.56) इत्यात्त्वे च प्राप्ते पक्षे णौ धुग्विधीयते। `मुण्डो भीषयते' इति। `भीस्म्योर्हेतुभये' (1.3.78) इत्यात्मनेपदम्।
अथात्त्वे कृते मुण्डो भापयत इत्यत्र कस्मान्न भवति? इत्याह--`अत्रापि' इत्यादि।।
41. स्फायो वः। (7.3.41)
`स्फावयति' इति। `स्फायो, ओ प्यायी वृद्धौ' (धा.पा.487,488)।।
42. शदेरगतौ तः। (7.3.42)
किमर्थं पुनरिदमुच्यते, यावता `शद्लृ शातने' (धा.पा.1428) इत्यस्मादेव निपातनात् तकारो भविष्यतीति? गतेरन्यत्र यथा स्यात् गतौ मा भूदिति चेत्? न; शातनशब्दो हि गतेरन्यमर्थमाचष्टे। एवं तर्हि एतज्ज्ञापयति---`अबाधकान्यपि निपातनानि भवन्ति' (पु.ल.प.वृ.99) इति। तेन पुराशब्दात् `सायञ्चिरम्' (4.3.23) इत्यादिना विधीयमानयोष्ट्युट्युलोः `पुराणप्रोक्तेषु' (4.3.105) इति निपातनेन तुदो बाधनं न भवतीतित। तेन पुरातनमित्यपि सिद्धं भवति।।
43. रुहः पोऽन्यतरस्याम्। (7.3.43)
`रोपयति' इति। `रुह जन्मनि प्रादुर्भावे च' (धा.पा.859)। किमर्थं पुनरिदमुच्यते, यावता दिवादिषु `रुप लुप विमोहने' (धा.पा.1236,1237) इति रुपिः पठ्यते, तस्य रोपयतीति भविष्यती, रुहेस्तु रोहयतीति? जन्मार्थेऽपि रोपयतीति प्रयोगो यथा स्यात्; अन्यथा हि विमोहनार्थस्यैव स्यात्। अनेकार्थत्वाद्धातूनां रुपिर्जन्मनि वर्त्तिष्यत इति चेत्? नैतदस्ति; अनेकार्था हि धातवः, न तु सर्वार्थाः। न हि रुप्यतीत्युक्ते अन्मार्थः प्रातीयते, किं तर्हि? विमोहनार्थ एव।।
44. प्रत्ययस्थात्कात्पूर्वस्यात इदापयसुपः। (7.3.44)
`सुपः परो न भवति' इति। सुबन्तात्परो न भवतीत्यर्थः। एवं चार्थः प्रत्ययग्रहणपरिभाषया वेदितव्यः। `जटिलिका, मुण्डिका' इति। अज्ञातादिष्वर्थेषु `प्रागिवात् कः' (5.3.70)। `कारिका, हारिका' इति। ण्वुल्। `एतिका' इति। एतदः `अव्ययसर्वनाम्नाम्' (5.3.71) इत्यकच्, त्यादाद्यत्वम्, `अतो गुणे' (6.1.97) पररूपत्वम्, टाप्, अकः सवर्णे दीर्घत्वम् (6.1.101)। `शका' इति। पचाद्यच्, टाप्।
`स्थग्रहण विस्पुष्टार्थम्' इति। अत्र यत्र ककारमात्रं हि प्रतययसतत्र मा भूदित्येवमर्थं कस्मान्न भवति? इत्याह--`ककारमात्रं हि' इत्यादि। कादिति वर्णग्रहणम्। अकारस्तूच्चारणार्थः। न तु केवलः ककारः प्रत्ययोऽस्ति यन्निवृत्त्यर्थं स्थग्रहणं स्यात्। `कात् प्रत्ययात्' इत्युच्यमाने प्रत्ययावयवे प्रत्ययशब्दो वर्त्तिष्यते, अतोऽन्तरेणापि स्थग्रहणं प्रत्ययस्थस्य ककारस्य ग्रहणं शक्यते विज्ञातुम्। तस्माद्वस्पष्टार्थं स्थग्रहणम्। `मण्डना, रमणा' इति। नन्द्यादभ्यो लयुः (3.1.134। `पटुक' मृदुका, गोका, नौका' इति। पूर्ववत् कः। `राका, धाका' इति। `रालाऽदाने' (धा.पा.1057,1058) इत्यस्माद्दषातेश्च `कृदाधारार्चिकलिभ्यः कः' (द.उ.3.18) इत्यौणादिकः कप्रत्ययः।
`अथ' इत्यादि। चोदतः। `ककारः' इतीतरः। ककरस्य श्रुतत्वात् तस्यैवापीति विशेषणं युक्तमित्यभिप्रायः। येनाभिप्रायेण चोदकः पृष्टवांस्तमाविष्कर्तुमाह--`यद्येवम्' इत्यादि। यद्यपीत्यनेन ककारो विशिष्यते--आपि परतो यः ककार इति। एवं सति करिकेत्यत्र न प्राप्नोति; ककारस्याकारेणायो व्यवहितत्वात्। `एकादेशे कृते' इत्यादीतरः। व्यवसर्गे हि सति व्यवधानं भवति। न चैकादेशे कृते व्यवसर्गोऽस्तीत्यतो नास्ति व्यवधानम्। `एकादेशः पूर्व' इत्यादि। चोदकः। स्थानिवद्भावस्तु `अचः परस्मिन् पूर्वविधौ' (1.1.57) इत्यनेन। `वचनात्' इतीतरः। उच्यते चेदं वचनम्, न चाप्यनन्तरं ककारः सकम्भवतीति तत्र वचनसामर्थ्यात् स्थानिवद्भावे कृते नैकेन वर्णेन सर्वत्र व्यवधानमाश्रीयते। यद तर्हि वचनसामर्थ्यात् कारिकेत्यादौ व्यवधानेऽपि भवति, तदारथकट्या, पुत्रकाम्येत्यत्रापि स्यात्? इत्यत आह--`रथकट्यादिषु' इत्यादि। रथानां समूहः `इनित्रकट्यचश्च' (4.2.51) इति कट्यच्, ततष्टाप्। पुत्रमिच्छतीति `कम्यच्च' (3.1.9) इति काम्यच्प्रत्ययः। `अ प्रत्ययात्' (3.3.102) ततष्टाप्। तत्र श्रुतिकृतमनेकेन वर्णेन व्यवधानमितीत्त्वं न भवति। `येन नावयवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्' (व्या.प.46) इत्येकेन वर्णेन व्यवधानमाश्रीयते। येन नावयवधानमपि तु सर्वत्र व्यवधानम्, तेनैकेन वर्णेन व्यवहिते भवित्तुं युक्तम्। स्थानिवद्भवकृतमेकेन वर्णेन सर्वत्र वयवधानमस्ति, सङ्घातेन त्वस्ति नास्ति च। तस्मात् तदिह नाश्रीयते।
`सुबन्तादयम्' इति। परिव्राजकशब्दात् पर आबिति प्रतययलक्षणे सुबन्तता वेदितव्या। `प्रसज्यप्रतिषेधश्चायम्' इति। न चेत्सुबन्तादाप् परो भवति। कः पुनः परयुदासे दोषो यतः स साश्रोयते? इत्याह--`पर्युदासे हि' इत्यादि। यद्ययं पर्युदासः स्यात् सुपोऽन्योऽसप्, ततश्चोदाप् परो भवतीति; ततो बहुपरिब्राजकेत्यत्रापि स्यादेवेत्त्वम्, असुबन्तात् पूर्वोत्तरपदसमुदायात् पर आबिति कृत्वा। असुबन्ततवं पुनः समुदायस्य, तस्मात् सुदनुत्पत्तेः; अवयवाद्धि परिव्राजकशब्दादत्र सुबुत्पत्तिः, न तु समुदायात्। `अविद्यमानः सुब् यस्मिन् सोऽयमसुबित्ययमपि नाश्रीयते' इति। बहुव्रीहिरपि नाश्रीयत इत्यर्थः। कः पुनस्तदाश्रयणे दोषो यतः स नाश्रीयते? इत्याह--तथा हि' इत्यादि। एवं तर्हीत्यर्थः। बहुव्रीहौ पूर्वोत्तरपदयोः प्रत्ययलक्षणेन सुबन्तव्यपदेशोऽस्तीति नासावसुप, अपि तु विद्यमानसुबेव। तेन बहुचर्मिकेत्यत्र नासुपः पर आबितीत्त्वं न स्यात्। बहूनि चर्माण्यस्यां विद्यन्त इति बहुव्रीहिः। `शेषाद्विभाषा' (5.4.154) इति कप्, टाप्।
`मामिका' इति। ममेयमिति `तस्येदम्' (4.3.120) इत्यण् `तवकममकौ' (4.3.3) इति ममकादेशः। नन्वणन्तान्ममकशब्दात् `टिड्ढाणञ्' (4.1.15) इति ङीपा भवितव्यम्, तत् कथं टाब्भवति? `केवलमामकेति नियमात्' इत्यादि। `नरिका' इति। `कै गे शब्दे' (धा.पा.916,917)। `आदेच उपदेशेऽशिति' (6.1.45) इत्यत्त्वम्, `आतोऽनुपसर्गे कः' (3.2.3), ततष्टाप्।
`दाक्षिणात्यिका, इहत्यिका' इति। दक्षिणस्यां दिशि भवेत `दक्षिणापश्चात्पुरसस्त्यक्' (4.2.98) इति त्यक्। इह भवेति `अव्ययात्यप्' (4.2.104)। उभयत्राज्ञातादिष्वर्थेषु `प्रागिवात्कः' (5.3.70)।
उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेवं प्रतिपादनम्--`उदीचामातः, स्थाने' (7.3.46) इत्यत्र व्यवस्थितविभाषाविज्ञानात् त्यक्त्ययोर्नित्यं भविष्यतीति।।
45. न यासयोः। (7.3.45)
येतयेतस्य `उदीचामातः स्थाने' (7.3.46) इत्यादिना विकल्पे प्राप्ते, सेत्यस्य पूर्वेण नित्ये प्राप्ते प्रतिषेधोऽयमारभ्यते; प्राप्तिपूर्वकत्वात् प्रतिषेधस्य। यदा तयोरकज्भवति तदाऽयं प्रतिषेधो विज्ञायते। `यका', `सका' इति। यत्तदोः पूर्ववदकच्, सुः, त्यदाद्यत्वञ्च। `यासेति निर्देशोऽतन्त्रम्' इति। अप्रधानमित्यर्थः। किं कारणम्? इत्याह--`यत्तदोरुपलक्षणार्थमेतत्' इति। किं कारणमेवं व्याख्यायते? इत्याह--`इहापि' इत्यादि। यासेति प्रथमैकवचनान्तरूपम्। ततर यद्ययं निर्देशस्तन्त्रं स्यात्, प्रथमैकवचनन्तयोर्ग्रहणाद्विभक्त्यन्तरे यकाम्, तकामित्यत्र न स्यात्, इष्यते च तत्रापि। तस्मादतन्त्रमयं निर्देशो यत्तदोः प्रातिपदिकयोरुपलक्षणार्थमेतत्--इत्युच्यते।
`यासयोरित्त्वप्रतिषेधे' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तदेतदुक्तं भवति--यत्तदोः प्रतिषेध इत्यस्मिन् क्रियमाणे त्यकन्प्रत्ययान्तस्य त्यकन्प्रत्ययान्तस्य प्रतिषेधप्रतिपादनं कर्त्तव्यमिति। तत्रेदं प्रतिपादनम्--नेति योगविभागोऽत्र क्रियते, तेन त्यकन्प्रत्ययान्तस्य प्रतिषेधो भविष्यतीति। एवमुत्तरत्राप्युपसंखघ्यानशब्दस्य प्रतिपादनार्थो वेदितव्यः। प्रतिपादनमप्येतदेव योगविबागकरणमाश्रितय कर्त्तव्यम्। `उपत्यका, अधत्यका' इति। `उपाधिभ्यां त्यकन्नासन्नारूढयोः (5.2.34) इति त्यकन्। `पावका' इति। ण्वुल्। `अलोमका' इति। नास्या लोमानि सन्तीति बहुव्रीहिः। `शेषाद्विभाषा' (5.4.154) इति कप्।
`जीवका, नन्दका' ति। `आशिषि च' (3.1.150) इति वुन्। `देवका, यज्ञका' इति। देवदत्तयज्ञदत्तशब्दाभ्यां `अनुकम्पायां कन्' (5.3.76) इति कनि कृते `अनजादौ च विभाषा लोपो वक्तव्यः' (वा. 614) इत्युत्तरपदलोपः।
`क्षिपका, ध्रुवका' इति। `क्षिप प्रेरणे' (धा.पा.1285), `ध्रुव स्थैर्ये' (धा.पा.943), `इगुपधज्ञाप्रीकिरः कः' (3.1.135)। तदन्तादज्ञाताद्यर्थे `प्रागवात्कः' (5.3.70)।
`तारका' इति। तरतेर्ण्वुल्।
`वर्णका' तान्तवः' इति। तन्तूनां विकार इति `ओरञ्' (4.3.139), `ओर्गुणः' (6.4.146)। तान्तवः=प्रावरणविशेषः। तत्र वर्णकेत्युपसंख्यातव्या। `वर्ण वर्णक्रियाधिस्तारगुणवचनेषु'[`वर्णं'--नास्ति मुद्रितन्यसपाठे] (धा.पा.1938) इति चौरादिको धातुः, ततो ण्वुल्--`वर्णिका' इति। व्याख्यत्रीत्यर्थः।
`वर्त्तका' इति। `वृतु वर्त्तने' (धा.पा.758), ण्वुल्। `वर्त्तिका' इति। अध्येत्रीत्यर्थः। `अष्टका पितृदैवत्ये' इति। पितृदैवत्यम्=वैदिककरमविशेषः, तत्राष्टकेत्युपसंख्यायते। `अशू व्याप्तौ' (धा.पा.1264) इत्यस्मात् `इष्यसिभ्यां तकन्' (द.उ.3-30) इति तकन्प्रत्ययः, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, ष्टुत्वम्। `अष्टका' इति। अष्टौ परिमाणमस्या इति `तदस्य परिमाणम्' (5.1.67) इति `संख्याया अतिशदन्तायाः कम्' (5.1.22)।
`वा सूतका' इत्यादि। उपसंख्यातशब्दसय प्रतिपादनमर्थः। तत्रैदं प्रतिपादनम्--सूतका, सूतिका--इत्यादयः शब्दा पॄषोदरान्तःपातिनः, तेन पृषोदरादित्वादेवायं विकल्पः सिद्धः।।
46. उदिचामातः स्थाने यकपूर्वायाः। (7.3.46)
पूर्वेण नित्यमित्त्वे प्राप्ते विकल्पार्थं वचनम्। यकौ पूर्वे। यस्याः सा यकपूर्वा। कोऽन्यपदार्थः? समुदायः। तथा हि, पूर्वशब्दोऽवयवे वर्त्तते। स चावयवः समुदायस्य भवति, नावयवान्तरस्य। न हि वर्णो वर्णस्यावयवो भवति। अवयवान्तरापेक्षस्तु तस्य पूर्वत्वव्यपदेशः। तत् पुनरवयान्तरं प्रकृतत्वात् स्थान्यकार एव विज्ञायते। स्त्रीलिङ्गनिर्देशस्तु तस्य[तस्येत्यारभ्य `तु' इति पर्यन्तं मुद्रितन्यासे नोपलक्ष्यते] समुदायस्यार्थधर्मेण स्त्रीत्वेन वेदितव्यः। प्रयोजनं तु तस्य वक्ष्यते। `आतः स्थाने' इति। योऽकार इति व्यवहितेन सम्बन्धः। `इभ्यिका' इत्यादि। इभ्यादिशब्देभ्यः `प्रागिवात् कः' (5.3.70), `केऽणः' (7.4.13) इति ह्रस्वः।
`सांकाश्यिका' इति। `धन्वयोपधाद्वुञ्' (4.2.121)। नात्रातः स्थानेऽकार इति नित्यमेवेत्त्वम्।
अथ स्थानग्रहणं किमर्थम्, यावतात् इत्येषैव षष्ठी स्थानेयोगं प्रतिपादयिष्यति, `षष्ठी स्थानेयोगा' (1.1.49) इति वचनात्? इत्यत आह--`स्थानग्रहणम्' इत्यादि। । अकारस्य स्थाने लक्षणान्तरेण दिहितस्याकारस्य संकीर्त्तनम्=अनुवादः। अत्रापि स्थाने सम्बन्धप्रतिपत्तिर्यथा स्यात्--इत्येवमर्थं स्थानग्रहणम्। किं पुनः कारणम्--असति स्थानग्रहणेऽनुवादे सम्बन्धप्रतिपत्तिर्न स्यात्? इत्याह--`आत इत्यनेन' इत्यादि। आदेशविधौ `अस्तेर्भूः' (2.4.52) इत्येवमादौ `षष्ठी स्थानेयोगा' (1.1.49) इत्येषा परिभाषोपतिष्ठते, न त्वनुवादे; विधिवाक्यशेषभूतत्वादस्याः। न चात्राकारस्य स्थानेऽकारोऽनेन विधीयते, किं तर्हि? लक्षणान्तरेणाभिनिर्वृत्तोऽनेन विशिष्यते--आतः स्थाने योऽकार इति। तेन नात्र तस्याः परिभाषाया उपसथानमिति तत्र यदि स्थानग्रहणं न क्रियेत, तदातः समीपो योऽकार इति सामीप्पसम्बन्धप्रतिपत्तिः स्यात्। अथ वा पूर्ववत् प्रश्ने कृत इत्याह--`आत इत्यनेन' इत्यादि। इकारस्य यः स्थानित्वेनोपात्तोऽकारः स आत इत्यनेन विशिष्यते। एवञ्च विशेष्यत्वादकारस्य प्रधान्यम्; आकारस्य विशेषणत्वादप्राधान्यम्। तत्रासति स्थानग्रहमे यद्यपि सा परिभाषानुवाद उपतिष्ठेत तथापि प्रधाने कार्यसम्प्रत्ययादात इत्यस्या एव षष्ठ्याः स्थानसम्बन्धो विज्ञायेत, न त्वात इत्यस्याः। स्थानग्रहणे तु सत्यस्या अपि विज्ञायते--एतदर्थं स्थानग्रहणम्। `अश्विका' इति। पूर्ववत् कः, ह्रस्वत्वञ्च। अथ `यकपूर्वायाः' इति स्त्रीलिङ्गेन निर्देशः क्रिमर्थः? इत्याह--`स्त्रीलिङ्गेन निर्देशः। असति तस्मिन्नाकारमात्रस्थाने योऽकारस्तस्य स्थानित्वं विज्ञायेत, ततश्च यातेः शुभम्भद्रंशब्दयोरुपपदतः `विजुपे च्छब्दसि' (3.2.73) इति `आतो मनिब्क्वनिब्वनिपश्च' (3.2.74) इति विच्। तदन्तात् कप्रत्यये शुर्भयिका, भद्रंयिका इत्यत्रापि विकल्पः प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं स्त्रीलिङ्गनिर्देशः। शुभम्भद्रंशब्दौ मकारान्तौ निपातौ।
`यकपूर्वायाः' इत्यादि। ग्रहणवाक्याम्। तस्य `धात्वन्तयोर्यकारककारयोः' इत्यादि। विवरणम्। `वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--व्यवस्थितविभाषाविज्ञानाद्धात्वन्तयोरपि यकारवकारयोरनन्तरस्याकारस्येत्त्वप्रतिषेधः प्राप्नोति, स न भविष्यतीति। `सुनयिका, सुशयिका' इति। णीञ्शीङ्भ्यां `एरच्' (3.3.56) इत्यच्। शोभनो नयोऽस्याः, शोभनः शयोऽस्याः--सुनया, सुशया, ततः `प्रागिवात् कः'(5.3.70), `केऽणः' (7.4.13) इति ह्रस्वत्वम्। `सुपाकिका', `अशोकिका' इति। `डुपचष् पाके' (धा.पा.996), `शुच शोके' (धा.पा.183), भावे घञ्। शोभनः पाकोऽस्याः, अविद्यमानः शोकोऽस्या इति बहुव्रीहिः, `शेषाद्विभाषा' (5.4.154) इति कप्, `आपोऽन्यतरस्याम्' (7.4.15) इति ह्रस्वत्वम्।।
47. भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि। (7.3.47)
`भस्त्रका, भस्त्रिका' इति। पूर्ववत् कः। `अभस्त्रका, अभस्त्रिका' इति। पूर्ववत् कप्रत्ययः, बहुव्रीहिः, ततपुरुषो वा।
अथ कस्मादेषा--द्वे नञ्पूर्वे नोदाह्रियेते? इत्याह--`एषाद्वे नञ्पूर्वे न प्रयोजयतः' इति। प्रकृतत्वादित्त्वप्रतिषेधविकल्प इति विज्ञेयम्। `किं कारणम्' इति। अनेन नञ्पूर्वयोरप्रयोजकत्वे कारणं पृच्छति। `अत्र हि' इत्यादिना तत्करं दर्शयति। `सोऽन्तर्वर्तिन्या विभक्त्या' इति। याऽसौ समासार्था विभक्तिस्तया लुप्तयाऽपि प्रत्ययलक्षणेन स आप्सुबन्तादेवैतच्छब्दाद् द्विशब्दाच्च परः सम्पद्यते, तेनेत्त्वस्य प्राप्तिरेव नास्ति; `असुपः' (7.3.44) इति प्रतिषेधात्, तत्किं प्रतिषेधविकल्पेन? तस्मादेषाद्वे नञ्पूर्वे न प्रयोजयतः।
यद्येवम्, अनयैव युक्त्या स्वशपब्दोऽपि न प्रयोजयेत्? इत्यत आह--`स्वशब्दस्तु' इत्यादि। युक्तं यदेषाद्व नञ्पूर्वे न प्रयोजयतः, अत्र व्यवधानाभावात् सुबन्तात् पर आब् भवतीति कृत्वा, न हि प्राक् टेर्भवन्नकज् व्यवधायको भवितुमर्हति; स्वशब्दस्तु `स्वमज्ञाति धनाख्यायाम्' (1.1.35) इति वचनाज्ज्ञातिधनयोरसर्वनामसंज्ञकः, तेन तस्मात् कप्रत्ययेनैव भवितव्यम्, नाकचा, तत्र यदि नञ्समासं कृत्वा कप्रत्ययः क्रियते, तदन्ताच्च टाप्, तदासौ सुबन्तात् परो न भवति; कप्रत्ययेन व्यवधानादिति असर्वनामंज्ञकः स्वशब्दो नञ्पूर्वोऽपि विकल्पं प्रयोजयति।
`भस्त्रेत्ययमभाषितपुंस्कः' इति। स्त्रियामेव सर्वदा वृत्तेः। यद्येवम्, `अभाषितपुंस्काच्च' (7.3.48) इत्यनेनैव विकल्पः सिद्धः, तत्किमर्थमिहोपादीयते? इत्यत आह--`तस्य' इत्यादि। उपसर्जनमर्थः प्रयोजनं यस्य तत् तथोक्तम्। यदानुपसर्जनं भस्त्राशब्दो भवति, तदायमभाषितपुंस्क इति सत्यमुत्तरसूत्रेण सिद्धो विकल्पः; तत्रापि नञ्पूर्वाणामित्यनुषृत्तेः। यदा तूपसर्जनं भवति, तदा भाषितपुंस्कत्वं प्रतिपद्यत इति न सिध्यति। तस्मादुपसर्जनस्य भाषितपुंस्कस्यापि यथा स्यादित्येवमर्थमिह भस्त्राशब्दस्य ग्रहणम्। `अभस्त्रका, अभस्त्रिका' इति। `अल्पे' (5.3.85) इत्यर्थे `प्रागिवात् कः' (5.3.70) `अत्र' इति। उपन्यस्त उदाहरणे। `उपसर्जनह्रस्वत्वे कृते' इति। अविद्यमाना भस्त्राऽसया इति बहुव्रीहौ कृते `गोस्त्रियोरुपसर्जनस्य' (1.2.48) इत्यनेन। `पुनः' इत्यादि। अभस्त्रशब्दो हि बहुव्रीहिः, स पुंस्यपि वर्त्तत इति भाषितपुंस्को भवति। तस्माद्यदा टाप् स भाषितपुंस्कशब्दादुत्पदयते। तसय भाषितपुंस्कादुत्पन्नस्यापि टापो यः `केऽणः' (7.4.13) इति ह्रस्वो भवति, नासावभाषितपुंस्काद्विहितस्यातः स्थाने भवति। तस्मादभाषितपुंस्कादित्यनेन न सिध्यति--इत्यभिप्रायः।
`नञ्पूर्वाणामपीत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते' इति। तत्रोदाहरणमाह--`निर्भस्त्रिका' इत्यादि। निर्गता भस्त्रा यस्याः सा निर्भस्त्रिका। वह्व्यो भस्त्रा यस्याः सा बहुभस्त्रिका। आदिशब्देन सुभस्त्रका, सुभस्त्रिका; भस्त्रका, भस्त्रिका-इत्येवमादीनां ग्रहणम्। यदि तर्ह्यन्यपूर्वाणां केवलानां च विधिरिष्यते, तदा `नञ्पूर्वाणाम्' इति वचनमनर्थकं स्यात्। नञादिपूर्वाणां तदन्तविधिना भविष्यति, केवलनाञ्च व्यपदेशिवद्भावेन; `ग्रहणवता प्रतिपदिकेन तदन्तविधिर्न' (व्या.प.89) इति। `व्यपदेशिवद्भावोऽप्रातपदिकेन' (धा.प.पा.65) इति वचनान्न सिध्यतीत्येतच्च नाशङ्कनीयम्, उभे अपि ह्येते परिभाषे प्रत्ययविधिविषये एवेत्यत आह--`अत्र' इत्यादि। तदन्तवधिना व्यपदेशिवद्भावेनात्र सिद्धस्यैव प्रकरविधेर्नञ्पूर्वाणामपीति वचनानुवादः। किमर्थः? मन्दबुद्धिप्रतपत्त्यर्थः। नञ्पूर्वाणामपीति वचनमन्तरेण यः प्रतिपत्तुमनन्तरोक्तमर्थमसमर्थस्तस्यापि मन्दबुद्धेः प्रतिपत्तिर्यथा स्यादित्येवमर्थम्।।
48. अभाषितपुंस्काच्च। (7.3.48)
नञ्पूर्वाणामपीत्यनुकर्षणार्थश्चकारः। खट्वका, खट्विका' इति। पूर्ववत् कः। खट्वाशब्दोऽयमादिष्टलिङ्गो नित्यं स्त्रियामेव वर्त्तत इति भाषितपुंस्को न भवति। `अखटविका' इति। न खट्वा अखट्वेति नञ्समासः। `परमखट्विका' इत्यादि। `सन्महत्' (2.1.61) इत्यापिना समासः। सर्वत्र `कोऽणः' (7.4.13) इति ह्रस्वः।
बहुव्रीहेर्भाषितपुंस्कत्वादत्र न भवितव्यमनेन विकल्पेनेति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकरत्तुमाह--`बहुव्रीहौ' इत्यादि। कथं पुनरभाषितपुंस्कादित्युच्यमाने बहुव्रीहौ भाषितपुंस्कादपि भवति? इत्याह--`अत्राप्यभाषितपुंस्कात्' इत्यादि। इतिकरणो हेतौ। यद्यपि बहुव्रीहेर्भाषितपुंस्को भवति, तथापि यदा कपि `आपोऽन्यतरस्याम्' (7.4.15) इति ह्रस्वः क्रियते, तदाऽभाषितपुंस्कादेव विहितस्याकारस्य स्थाने यः स्यादकारस्तस्माद्भवत्येव विकल्पः। अविद्यमाना खट्वाऽस्या इति बहुव्रीहिः, `शेषाद्विभाधा' (5.4.154) इति कप्; ततो ह्रस्वः। स चाभाषितपुंस्कादेव विहितस्याकारस्य भवति। तेनाखट्वका, अखट्विकेति विकल्पो भवत्येव। `यदा तु' इत्यादि। अविद्यमाना खट्वाऽस्या इति बहुव्रीहौ कृत उपसर्डजनह्रस्वत्वम्; ततष्टाप्। अल्पा अखट्वेति `प्रागिवत् कः' (5.3.70)--`अखट्विका' इति। अत्र विकल्पो न भविष्यति; भाषितपुंस्कत्वाद्वहुव्रीहेविहितस्यातः स्थानेऽकारस्य विहितत्वात्। प्रादिसमासेऽपि न भवतीति दर्शयन्नाह--`तथा' इत्यादि। `अतिखट्विका' इति। अत्रापि प्रादिसमासे कृते, उपसर्जनह्रस्वत्वे च, पुनस्तत्पुरुषाद्भाषितपुंस्काद्विहितस्यातः स्थाने विहितोऽकार इति न प्रवर्त्तते विकल्पः।।
49. आदाचार्याणाम्। (7.3.49)
नञ्पूर्वाणामपीत निवृत्तम्; पूर्वसूत्रे चानुकृष्टत्वात्। इत्त्वापवादोऽयं योगः। `केऽणः' (7.4.13) इति ह्रस्वपवादश्च।
आचार्यग्रहणं नित्यार्थम्। असति हि तस्मिन्; `उदीचाम्' (7.3.46) इत्यधिकाराद्विकल्पः स्यात्। आचार्यग्रहणे तु सति तेन `उदीचाम्' इत्येतस्मिन्निवर्त्तिते, नित्य एष विधिर्भवतीति।।
50. ठस्येकः। (7.3.50)
अत्र यद्यविशेषेण ठस्य ग्रहणं स्यात्, पठिता, पठितुमित्यादौ धात्वन्तस्यापि स्यात्। अत एतद्दोषपरिजिहीर्षया प्रत्ययसय ठस्य ग्रहणम्, न तु ठमात्रस्येति दर्शयितुमाह--`अङ्गस्य निमित्तं यष्ठः' इति। अङ्गस्येति सम्बन्धलक्षणा षष्ठी। अतर यद्यपि धात्ववयवो ह्यङ्गस्य सम्बन्धी भवति, तथापि यदा यतो ह्यङ्गस्यात्मलाभो यस्मिन्नङ्गमित्येतद्भवति, स एव प्रत्यासत्तेरङ्गस्य निमित्तीभूतः सम्बन्धी गृह्यते, न त्वरयवोऽपि। `कश्चाङ्गस्य निमित्तं भवति' इति। एवं मन्यते--यदि सामान्येनाङ्गस्य निमित्तं यत्तदिह गृह्यते धात्वन्तस्य ठस्य स्यादेव, भवन्ति हि अवयवा अङ्गसयावयविनो निमित्तम्; तैस्तस्यारभ्यमाणत्वादित्याह--`प्रत्ययः' इति। अस्यायमभिप्रायः--सत्स्वप्यवयवेषु यावत्प्रत्ययो नोत्पद्यते तावत्तस्यावयविनोऽङ्गात्मलाभो न भवति, तस्मिंस्तूत्पन्ने सति भवति; तस्मात्प्रत्यय एवाङ्गस्य निमित्तम्, नावयव इति। `आक्षिकः, शालाकिकः' इति। अक्षैर्दीव्यति, [`अक्षैर्दीव्यतीत्यर्थे ठक्--मु. पाठः] शलाकाभिर्दीष्यतीत्यर्थे ठक्। `लावणिकः' इति। अत्रापि लवणं पण्यमस्येति `लवणाट्ठञ्' (4.4.52)।
इह ठस्येति वर्णमात्रस्य ग्रहणं वा स्यात्? सङ्घातस्य वा? तत्र पूर्वस्मिन पक्षे ठस्येति निर्देशो नोपद्यते; इतरस्मिंस्त्वोणादिकेऽतिप्रसङ्गः--`कणेष्ठः' (द.उ.5-6) कण्ठ इत्यादौ। इह तु मथितं पण्यमस्येति माथितिक इति ठस्येकादेशे कृते प्रकृतेश्च `यस्येति च' (6.4.148) इत्यकारलोपे सति तान्ततायामुपजातायामिकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणात् `इसुसुक्तान्तात् कः' (7.3.51) इति कादेशः प्रसज्येतेति यश्चोदयेत्, तं प्रत्याह--`ठगादिषु' इत्यादि। आदिशब्देन ठञादीनां ग्रहणम्, यदि तेषु वर्णमात्रमनच्कप्रत्ययोऽकारस्तूच्चारणार्थः, तदा `ठस्येकः' (7.3.50) इत्यत्राप्यकार उच्चारणार्थः। एवं वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स वर्णमात्रं स्थानित्वेनोपादीयते। इहाप्यकार उच्चारणार्थ एवेति वर्णमात्रग्रहणेन यो दोषः परस्य चोदयिष्यतः स निराकृतः। सत्यपि वर्णमात्रस्य ग्रहणे, आगन्तुकेनोच्चारणार्थेनाकारेण ठस्येति निर्देशस्योपादानात्। `सङ्घातग्रहणे तु' इत्यादि। अथ ठगादिषु सङ्घातः साच्कष्ठशब्दः प्रत्ययः, एवं सत्यत्रापि सूत्रे सङ्घातस्येति स्थानित्वेन ग्रहणं युक्तम्। यस्त्वस्मिन् पक्षे प्रथमो दोषश्चोदयितुमिष्टः परस्य, तं जिहीर्षुराह--`तत्र' इत्यादि।
योऽप्यस्मिन् पक्षे द्वितीयो दोषस्तं `मथित पण्यमस्य' इत्यादिनाऽऽविष्कृत्य--`सन्निपातलक्षणो विधिः' इत्यादिना परिहरति। अजादिसन्निपातेन तकारान्ततोपजाता, सा नोत्सहतेऽजादित्वं विहन्तुमिति न भवति कादेशः। `यस्येति चेति लोपस्य स्थानिवद्भावाद्वावाद्वा' इति। न भवति कादेश इति प्रकृतेन सम्बन्धः; स्थानिवद्भावेन तकारान्ततया विहतत्वात्। स्थानिवद्भावः पुनः `अचः परस्मिन्' (1.1.57) इत्यादिना। पूर्वविधौ कर्त्तव्ये स्थानिवद्भवति, न चात्र पर्वस्य विधिः, किं तर्हि? पूर्वस्मादुत्तरस्य, तत्कुतः स्थानिवद्भावः? इत्याह--`पूर्वस्मादपि' इत्यादि। न केवलं पूर्वस्य विधिः पूर्वविधिरिति षष्ठसमासोऽभिमतः, अपि तु पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽपीत्यभिप्रायः।।
51. इसुसुक्तान्तात् कः। (7.3.51)
पूर्वेणेकादेशे प्राप्त इसाद्यन्तात् कादेश उच्यते। `सर्पिष्कः' इति। `तदस्य पच्यम्' (4.4.51) इति प्राग्वहतीयष्ठक्, रुत्वविसर्जनीयौ, विसर्जनीयस्य `इसुसोः सामर्थ्ये' (8.3.44) इति षत्वम्। `धानुष्कः' इति। `तदस्य ग्रहणम्' (4.4.57) इति ठक्। `याजुष्कः' इति। `तेन दीव्यति' (4.4.2) इति ठक्। `नैषादकर्षुकः, शाबरजम्बूकः' इति। निषादकर्ष्वां जातः, शाबरजम्बां जात इति `ओर्देशे ठञ्' (4.2.119), `केऽणः' (7.4.13) इति ह्रस्वः। `मातृकम्' पैतृकम्' इति। मातुरागतम्, पितुरागतमिति--`ऋतष्ठञ्' (4.3.78)। `औदश्वित्कः' इति। `उदश्विवतोऽन्यतरस्याम्' (4.2.19) इति ठक्। शाकृत्कः, याकृत्कः' इति। शकृता यकृता संसृष्टे (4.4.22) इति ठक्।
अथेह कस्मान्न भवति--आशिषा चरतीत्याशिषिकः, उषा चरतीत्यौषिकः? इत्याह--`इसुसोः' इत्यादि। `अर्चिसुचिहुसृपिछादिछर्दिभ्य इसिः' (द.उ.9.30), `जनेरुसिः' (द.उ.9.37), `अर्त्तिपॄवपियजितनिधनितपिभ्यो नित्' (द.उ.9.39) इत्यादिना प्रकरणेन यौ विहितौ तयोर्लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) प्रतिपदोक्तयोरिसुसोर्ग्रहणम्। तेनाशिषिकः, औषिक इत्यत्रापि न भवति; लाक्षणिकत्वादिसुसोः। तथा ह्याङपूर्वात् `शासु इच्छायाम्' (धा.पा.1022) इत्यस्मात्, `वस निवासे' (धा.पा.1005) इत्येतस्माच्च केवलात् क्विपि कृते `शास इदङ्हलोः' (6.1.15) सम्प्रसारणे परपूर्वत्वे च कृत इसुसति रूपं प्रतिपद्यते। `आशिषिकः, औषिकः' इति। `शासिवसिधसीनां च। (8.3.60) इति षत्वम्। तस्य त्वसिद्धत्वात् कादेश प्राप्तिराशङ्किता।
`दोष उपसंख्यानम्' इति। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्--`नञ्पूर्वाणामपि' (7.3.47) इत्यतोऽपगरहणमनुवर्त्तते; स चानुक्तसमुच्चयार्थः, तेन दोषोऽपि भविष्यति।।
52. चजोः कु घिण्ण्यतोः। (7.3.52)
`पाकः, त्यागः' इति। भावे घञ्। `पाक्यम्, वाक्यम्' इति। `ऋहलोर्ण्यत्' (3.1.124)। ननु चात्र धिण्ण्यतोः कार्यिणोश्चजोः साम्याद्यथासंख्यं प्राप्नोति--चकारस्य धिति, जकारस्य ण्यति, तत्कथं त्यागः, राग इति धिति जकारसय कुत्वं प्राप्नोति? नैतदस्ति; ज्ञापकादत्र यथासंख्यं न भवति। यत् `भुजन्युब्जौ पाण्युपतापयोः' (7.3.61), `प्रयाजानुयाजौ यज्ञाङ्गे' (7.3.62) इति घञि जकारस्य कुत्वाभावं निपातयति, `तेन रक्तं रागात्' (4.2.1) इति च निर्देशं करोति, तज्ज्ञापयति--यथासंख्यमिह न भवतति।।
53. न्युङ्क्वादीनां च। (7.3.53)
अधिण्ण्यदर्थोऽयमारम्भः। `नावञ्चतेरित्युप्रत्ययः' इति। तत्र `भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः' (द.उ.1.92) इत्यनुवृत्तेः। `मद्गुः' इति। `टुमस्जो शुद्धौ' (धा.पा.1415), `झलां जश् झशि' (8.4.53) इति सकारस्य दकारः। `मिमस्जिभ्य उः' इति। अनेन `भृमृशीतॄचरि' (द.उ.1.92) इत्यादिकमुपलक्षयति। `भृगुः' इति। `भ्रस्ज पाके' (धा.पा.1284)। `प्रथिभ्रदि' (द.उ.1.113) इत्यादिके सूत्रऽत एव सूत्रा(द.उ.1.92)दुप्रत्ययोऽनुवर्त्तते।
`दूरेपाकः'[`दूरेपाकाः'--मु.पाठ] इति। कर्मकर्त्तरि पचाद्यच्। `उकारान्तावपेर' इति। अधीयत इत्यपेक्ष्यते।
`तञ्चतेः' इति। `तन्चु त्वन्चु गतौ' (धा.पा.191,192) इति, `वन्चु प्रलम्भने' (धा.पा.1703) `स्फायितञ्चिवञ्चि' इति सूत्रैकदेशः `स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपिदृपितृपिवन्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिभिदिछिदिमन्दिचन्दिदहिदसिदम्भिवहवसिवाशिशीङ्हससिधिशुभिभ्यो रक्' (द.उ.8.31) इत्येतत् सूत्रमुपलक्षयति। `व्यतिषङ्गः' इति। `षन्ज सङ्गे' (धा.पा.987) `अवसर्गः' इति। `सृज विसर्गे' (धा.पा.1178) पचाद्यच।
`मेधः' इति। `मिह सेचने' (धा.पा.992)। अजेव। `श्वपाकः' इति। कर्मोपपदादण्प्रत्ययः `कर्मष्यण्' (3.2.1) इत्यनेन। `अर्हतेः' इति। `अर्ह पूजायाम्' (धा.पा.740)। `दहेः' इति। `दहभस्मीकरणे' (धा.पा.992)। `रुहेः' इति। `रुह बीजजन्मनि प्रादुर्भावे' (धा.पा.859)।
ननु च न्यङ्क्वादयः कृतकुत्वाः प्रातपदिकगणे पठ्यन्ते, तत्किमर्थमिदम्, यथैव हि कुत्वादन्यत् कार्यं भवति निपातनात् तथा कुत्वमपि भविष्यति? तस्यैव प्रातपदिकपाठस्याभ्यनुज्ञानार्थमितदमुच्यते। असति ह्यतस्मिन् प्रमादपाठो विज्ञायतेत।।
54. हो हन्तेर्ञ्णिन्नेषु। (7.3.54)
`धातयति' इत्याद्युदाहरणानि `हनस्तोऽचिण्णलोः' (7.3.32) इत्यत्र व्युत्पादितानि। `ध्नन्ति' इति। लट्, झेरन्तादेशः, `गमहन' (6.4.98) इत्यादिनोपधालोपः। `ध्नन्तु' इति। लोट्। `अध्वन्' इति। लङ्, `इतश्च' (3.4.100) इतीकारलोपः।
`प्रहारः, प्रहारकः' इति। हरतेर्घञ्णवुलौ।
इह णिन्नग्रहणं हन्तिविशेषणं वा स्यात्--ञ्णिन्नकारपरस्य हन्तेर्यो हकार इति, हकारविशेषणंवा--ञ्णिन्नकारपरसय हकारस्येति स चेद्धन्तेरिति? तत्र यदि पूर्वकः पक्ष आश्रीयेत, ध्नन्त्यादौ न स्यात्, न ह्यत्र नकारपरो हन्तिः; अवयवेन समुदायस्य पौर्वापर्यानुपपत्तेः, अन्यस्य नकारस्याभावात्। अथेतरः पक्ष आश्रीयेत, न क्वचित् स्यात्, न हि हकारस्य ञ्णिन्नकारपरता सम्भवति। असम्भवस्तु ध्नन्तत्यादावकारलोपस्य पूर्वविधौ स्थानिवद्भावे सत्यकारेण व्यवधानात्, घातयतीत्यादावपि हकारात् परेण हन्त्यवयवेनानशब्देन व्यवधानात्। अथ वचनसामर्थ्याद्व्यवधानेऽपि कृत्वं स्यात्, एवमपि हननमिच्छतीति `सुप आत्मनः क्यच' (3.1.8), `क्यचि च' (7.4.33) इतीत्त्वम्, क्यजन्ताण्णवुल्, `अतो लोपः' (6.4.48) इत्यकारलोपो हननीयक इत्यत्रापि स्यादिति यश्चोदयेत्, तं प्रति पक्षान्तरमाश्रित्याह--`ञ्णित्प्रत्ययोऽत्र हन्तेर्विशेषणम्' इत्याद। न हि सर्वेषां ञ्णिन्नकाराणां हन्तिं प्रति विशेषणत्वमुपपद्यते, नापि हकारं प्रति। तस्माद्यथासम्भवं किञ्चिदेव कस्यचिद्विशेषणम्। ञ्णित्प्रत्ययस्तु हन्तेः परतः उपपद्यते इति तस्यासौ विशेषणम्--ञ्णिति प्रत्यये परतोऽनन्तरस्य हन्तेरिति। नकारस्तु हन्तेर्विशेषणँ नोपपद्यते; पूर्वोक्तात् कारणात्। इकारस्य तूपपद्यत इति तस्यैव विशेषणम्--नकारे परतोनन्तरस्य हन्तिहकारस्यानन्तर इति। अयं तु `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति निर्दिष्टग्रहणस्यानन्तर्यार्थत्वाल्लभ्यते। आनन्तर्याश्रयणे तु--हन्ता, हन्तुमित्यत्राप्यतिप्रसङ्गो निरस्तः। ननु चानन्तर्यमेव हकारस्य णकारेण न सम्भवति, अकारलोपस्य स्थानिवद्भावे सत्यकारेण व्यवधानात्? इत्यत आह--`तच्च' इत्यादि। `सन्निपातकृतम्' इति। श्रुतिकृतमित्यर्थः। ननु चाश्रितेऽपि सन्निपातकृतानन्तर्ये स्थानिवद्भावशास्त्रेण यत् कृतमनानन्तर्यं तद्विहन्यादेव कुत्वम्? इत्यत आह--`स्थानिवद्भावशास्त्रकृतं तु' इत्यादि। किं कारणमविधातकम्? इत्याह--`वचनसामर्थ्यात्' इति। यदि स्थानिवद्भावशासतद्रकृतमनानन्तर्य व्यवधायकं बाधकं स्यान्नकारवचनमनर्थकं स्यात्; निरवकाशत्वात्। तस्माद्वचनसामर्थ्यान्न विघातकम्।
`यद्यपि' इत्यादिना यौ द्वौ पक्षावुपन्यस्तौ, तत्र द्वितीये पक्षे यो दोषस्तस्य परीहारः। तत्र नकारेण हकारे विशेष्यमाणे यो दोषः स पूर्वमेव परिहृतः। सम्प्रति तु ञ्णित्प्रत्ययेन हकारे विसेष्यमाणे यो दोषस्तं परिहरति। योऽयं हन्तेरवयवो हकारात् परोऽकारादिर्नकारान्तः, तेन सर्वत्र ञ्णित्प्रत्ययस्य व्यवधानम्। अननीयशब्देन तु च्यवधानं सम्भवति, न सम्भवति च तत्र `येन नाव्यवधानं तेन व्यवहितेऽति वचनप्रामाण्यात्' (व्या.प.46) इति घातयतीत्यादौ कुत्वं भवति। येन त्वननीयशब्देन व्यवधानं न सम्भवति, सम्भवति च तेन व्यवधाने हननीयक इत्यत्र न भविष्यति। आद्ये तु पक्षे यो दोष उक्तः, स तस्यानभ्युपगमादेवानवसरः। हन्तेः श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। तत्र हि `अभ्यासाच्च' (7.3.55) इति भवितव्यमेव कुत्वेन।।
55. अभ्यासाच्च। (7.3.55)
`जिघांसति' इति। सन्, `अज्झनगमां सनि' (6.4.16) इति दीर्घः, द्विर्वचनम्, `कुहोश्चुः' (7.4.62) इति चुत्वम्--झकारः; `अभ्यासे चर्च' (8.4.54) इति जश्त्वम्--जकारः, `सन्यतः' (7.4.79) इत्तीत्त्वम्। `जङ्घन्यते' इति। `नुगतोऽनुनासिकान्तस्य' (7.4.85) इति नुक्। जघान' इति। उत्तमपुरुषेणलि यदा णित्वं नास्ति तदेदमुदाहरणम्। णित्त्वपक्षे तु पूर्वेणैव सिद्धम्। अग्र हननशब्दात् क्यचि कृते तदन्तात् सनि जिहननीयिषतीत्यत्र कस्मान्न भवतीति, भवति ह्यवाभ्यासात् परो हन्तिहकरः? इत्याह--इहाभ्यासनिमित्तप्रत्यये' इत्यादि। इह `हन्तेः' (7.3.54) इत्यनुवर्त्तते, अङ्गस्येति च। अभ्यासेनाभ्यासनिमित्तं प्रत्ययः सन्निधापितः, तस्य प्रत्ययः विशेषनिमित्तत्वात्, तत्र तेनाभ्यासनिमित्तेन प्रत्ययेन हन्तेरङ्गं विशिष्यते।
`अभ्यासनिमित्ते[अभ्यासनिमित्ते प्रत्येये हन्तेरङ्गस्य--काशिका] प्रत्यये यदङ्गं हन्तिः' इति। तेनाप्येवंविधेन हन्तिनाभ्यासो विशिष्यते। यथोक्तविशेषणविशिष्टस्य हन्तेरङ्गस्य योऽभ्यासः--इत्येवं विशेषणविशेष्यभावे सत्यभ्यासनिमित्ते सनादौ प्रत्यये हन्तेरङ्गस्य योऽभ्यासस्तस्मादेव कुत्वेन भवितव्यम्। `तेनेह [`तेन' नास्ति--काशिका] न भवति--`जिहननीयिषति' इति। न ह्यतराभ्यासनिमित्ते प्रत्यये सनि हन्तिरङ्गम्, किं तर्हि? हननीयशब्दः। यस्मिंस्तु हन्तिरङ्गम्, ल्युटि स नाभ्यासनिमित्त्म्।।
56. हेरचङि। (7.3.56)
`प्रजिघीषति' इति। `हि गतौ' (धा.पा.1257) सन्, पूर्ववद्दीर्घत्वम्। `प्रजेधीयते' इति। `अकृत्सार्वधातुकयोः' (7.4.25) इति दीर्घः, द्विर्वचनम्, `गुणो यङ्लकोः' (7.4.72) इत्यभ्यासस्य गुणः। `प्रजिघाय' इति। णल्, वृद्ध्यायादेशो।
`प्राचीहयत्' इति। हेतुमण्णिच, `णिश्रि' (3.1.48) इत्यादिना चङादेशः, `णौ चङ्युपधायाः' (7.4.1) इति ह्रस्वः; `चङि' (6.1.11) इति द्विर्वचनम्। तच्च `णौ कृतं स्थानिवद्भवति' (चां.प.21) इति हिशब्दसय `दीर्घो लघोः' (7.4.94) इति दीर्घः।
`चङ्यम्यासनिमित्ते' इत्यादि। प्राजीहयदित्यत्र चङ्यभ्यासनिमित्ते परतो यो णिच् तस्मिन् हिनोतिरङ्गम्, न तु तस्मिन्नेव चङ्यभ्यासनिमित्ते; इह सूत्रेऽब्यासाधिकारात्। अभ्यासेनाक्षिप्तेऽऽभ्यासनिमित्ते प्रत्यये यदङ्गं हिनोतिरित्येवं विज्ञायते, एवञ्च विज्ञायमाने कः प्रसङ्गो यो व्यधिकस्य चङि स्यात्? नैवं प्राप्नोतीस्यतो नार्थोऽचङीति प्रतिषेधेन। एवं प्रत्याख्याय चङ्ग्रहणम्, तस्य प्रयोजनमाह--`तत्क्रियते' इत्यादि। किं पुनरनेन ज्ञाप्यते? इत्याह--`हेरचङि' इत्यादि। `हेरचङि' इत्यादि। `हेरचङि' इत्यनेन चङोऽन्यत्र सनादौ ण्यधिकस्यापि हिनोतेः कुत्वं भवतीत्येषोऽर्थो ज्ञाप्यते। `तेन' इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति। `प्रजिघाययिषति' इति। प्रहाययितुमिच्छतीति ण्यन्तात् सन्।।
57. सन्लिटोर्जेः। (7.3.57)
`जिगीषति जिगाय' इति। `आदेः परस्य' (1.1.54) इति परस्यादेर्जकारस्य कुत्वम्, `ज्या वयोहानौ' (धा.पा.1499) इत्यसय लिट्।
ग्रहिज्यादिसूत्रेण (6.1.16) सम्प्रसारणे कृते परपूर्वत्वे च जिरत्येष रपविशेषो भवति। अतस्तस्यापि कुत्वं प्राप्नोति, जिग्रहणेन ग्रहणात्। न च शक्यते वक्तुम्, `हलः' (6.4.2) इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति, एकदेशविकृतस्यानन्यत्वात्; (व्या.प.16) अन्यथा हि जिगीषतीत्यत्रापि `अज्झनगमां सनि' (6.4.16) इति दीर्घत्वे कृते जिग्रहणेन ग्रहणं न भविष्यति। अथ वा--प्रागेव दीर्घात् परत्वात् कुत्वेन भवितव्यमिति यश्चोदयेत्, तं प्रत्याह--`जिनातेः' इत्यादि। लक्षणप्रतिपदोक्तपरिभाषया (व्या.प.3) `जि जये' (धा.पा.561) इति यः पठ्यते, तस्यैवेदं प्रतिपदोक्तस्य ग्रहणम्, न जिनातेः। सम्प्रसारणे कृते यज्जीरूपं सम्पदयते, तस्य लाक्षणिकत्वात्। `जिज्यतुः, जिज्युः' इति। `लिट्, अतुस्, उस्, `एरनेकाचोऽसंयोगपूर्वस्य' (6.4.82) इति यणादेशः।।
58. विभाषा चेः। (7.3.58)
59. न क्वादेः। (7.3.59)
`चजोः कु घिण्ण्यतोः' (7.3.52) इति कुत्वे प्राप्ते प्रतिषेधोऽयमारभ्यते। `कूजः, खजः, गर्जः' इति। `कूज अव्यक्ते शब्दे' (धा.पा.223), `खर्ज व्यथने' (धा.पा.229) `गर्ज शब्दे' (धा.पा.226)।।
60. अजिव्रज्योश्च। (7.3.60)
`समाजः उदाजः' इति। `अज गतिक्षेपणयोः' (धा.पा.230)। `समुदोरजः पशुषु' (3.3.69) इति घञ्। `परिव्राजः, परिव्राज्यम्' इति। `वज व्रज गतौ' (धा.पा.252,253)।
अथाजेर्ण्यति कस्मादुदाहरणं नोपन्यस्तम्? इत्याह--`वीभावस्य' इत्यादि। तत्र `अजेर्व्यघञपोः' (2.4.56) इति वीभावस्य विधानमिति; तेन तस्योदाहरणं नोपपद्यते, ततो न दर्शितमित्यभिप्रायः। चकारोऽनुक्तसमुच्चयार्थः, तेन वजेरपि प्रतिषेधो भवति--वाजः, वाच्यमिति।।
61. भुजन्युब्जौ पाण्युपतापयोः। (7.3.61)
`भुजः' इति। `भुज पालनाभ्यवहारयोः' (धा.पा.1454), `हलश्च' (3.3.121) इति धञ्। अत्र `अवे तॄस्त्रोर्घञ्' (3.3.120) इत्यतो घञनुवर्त्तते। `न्युब्जः' इति। यदा दकारोपध उच्यते `उद्ज आर्जवे' इति तदा दकारस्य बकारो निपात्यते। अथ वा--`असिद्धेभ उद्जेः' [`इयवरट्' सूत्रस्थमेतत् वचनं महाभाष्ये] इत्यनयेष्ट्या दकारस्य भकारे कृते जश्त्वेन बकारो भवति। यदि तु बकारोपधः `उब्ज आर्जवे' इति तदा समुद्ग इतयतर बकारसय दकारो वक्तव्यः।।
62. प्रयाजानुयजौ यज्ञाङ्गे। (7.3.62)
`प्रयाजः, अनुयाजः' इति। प्रपूर्वादनुपूर्वाचच यजेः `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति घञ् तस्मिन्न कुत्वं निपात्यते।
`प्रदर्शनार्थम्' इति। अन्यस्याप्येवंप्रकारस्योपलक्षणार्थमित्यर्थः। तेनान्यत्रापि प्रयाजानुयाजप्रकारे यज्ञाङ्गे कुत्वं न भवति। प्रदर्शनार्थता पुनः प्रयाजानुयाजशब्दयोर्यज्ञाङ्गगरहणाद्वेदितव्या, तद्ध्येवमर्थं क्रियते। कथं नाम प्रयाजनृयाजगरहणस्योपलक्षणार्थता प्रतीयेत! [प्रतीयते--प्रा.मु. पाठः] अन्यथा हि निपातनसामर्थ्यादेव यज्ञाङ्गविषयता विज्ञायत इति तन्न कर्त्तव्यमेव स्यात्।।
63. वञ्चेर्गतौ। (7.3.63)
`वञ्चम्' इति। `वञ्चु चञ्चु तञ्चु त्वञ्च म्रुञ्चु म्लञ्चु भ्रुचु म्लुचु गत्यर्थाः (धा.पा.189-196)। कर्मणि घञ्। वञ्च्यं वञ्चन्ति गन्तव्यं गच्छन्तीत्यर्थः। `चङ्कम्' इति। `हलश्च' (3.3.121) इति घञ्।।
64. आक उचः के। (7.3.64)
`न्योकः' इति। निपूर्वात् `उच समवाये' (धा.पा.1223) इत्यस्मात् `इगुपधज्ञप्रीकिरः कः' (3.1.135)--न्युचतीति न्योकः, निवसतीत्यर्थः। न्युचन्त्यस्मिन्निति `घञर्थे कविधानम्' (वा.306) इति वा कः--न्योकः, निवसन्त्यस्मिन्नित्यर्थः।
`किमर्थं पुनः' इत्यादि। एवं मन्यते--रूढिशब्दोऽयम्, नात्र कश्चिदवयवार्थोऽस्ति, व्यत्पत्तिः केवलं कर्त्तव्या, सा च `हलश्च' (3.3.121) इति घञ्यपि कृते भवत्येव, ततो नार्थोऽनेन योगेनेति। `घञि सत्याद्युदात्तः स्यात्' इति। `ञ्नित्यादेर्नित्यम्' (6.1.197) इत्यनेन।
अथ दिवौकसः, जलौकस इत्यादौ कथं कुत्वम्ष यावता नात्र कप्रत्ययोऽस्ति, नापि धिण्ण्यतौ, किं तर्हि? असुन्निति? अत आह--`दिवौकसः' इत्यादि। गतार्थम्।।
65. ण्य आवश्यके। (7.3.65)
`अवश्यपच्यम्' इत्यादि। `डुपचष् पाके' (धा.पा.996), `वच परिभाषणे' (धा.पा.1842), `आवश्यकाधमर्ण्ययोर्णिनिः' (3.3.170) इत्यनुवृत्तौ `कृत्याश्च' (3.3.171) इत्यावश्यके ण्यत्। मयूरव्यंसकादित्वात् (2.1.72) समासः, `लुभ्येदवश्यमः कृत्ये तुम्काममनसोरपि' (काशिका 6.1.144) इत्यनयेष्ट्याऽवश्यमो मकारलोपः।।
66. यजयाचरुचप्रवचर्चश्च। (7.3.66)
`ण्ये' इत्येव। अनावश्यकार्थमिदम्। `याज्यम्' इत्यादि। `यज देवपूजादौ' (धा.पा.1002), `टुयाच् याच्ञायाम्' (धा.पा.863), `रुच दीप्तौ' (धा.पा.745), `वच परिभाषणे' (धा.पा.1842) प्रपूर्वः, `ऋच स्तुतौ' (धा.पा.1302)। कथं पुनॠचेर्ण्यत्, यावता `ऋदुपधाच्चाक्लॄपि चृतेः' (3.1.110) इति ण्यदपदादेव क्यपा भवितव्यम्? इत्याह--ऋदुपधात्' इत्यादि।
अथ प्रवचिग्रहणं किमर्थम्, यावता `वचोऽशब्दसंज्ञायाम्' (7.3.67) इत्यनेनैव प्रतिषेधो भविष्यति? इत्याह--`प्रवचिग्रहणं शब्दसंज्ञार्थम्' इति। स्यादेतत्। नास्त्येव कश्चिच्छब्दो यस्य वाच्यमिति नामधेयम्? इत्याह--`प्रवाच्यो नाम' इत्यादि।
`अपरे पुनः' इत्यादिना मतान्तरं दर्शयति। `एतत्तु' इति। अविवाक्यमेतद्रूपम्। कः पुनरसौ विशेषः? इत्याह--`दशरात्रस्य' इत्यादि। यस्मिन् याज्ञिका न विब्रुवते, तस्य दशरात्रस्य यद्दशमाहस्तत्रैवैतच्छशब्दरूपमिष्यते, नान्यत्र। यद्येवम्, अनर्थकं नियमार्थं प्रवचिग्रहणम्, अवश्यं तस्य विशिष्टविषये वुत्तिर्यथा स्यादित्यवमर्थो यत्नः कर्त्तव्यः, तत एव यत्नात् तत्र कुत्वमपि भविष्यति? नैतदस्ति; नियमाद्ध्यन्योपसर्गस्य कुत्वप्रतिषेधो निवर्त्तते। अभिधेयव्यवस्था तु प्रसिद्धिवशादेव विज्ञास्यते।
`ण्यति प्रतिषेधे' इत्यादि। ण्यति प्रतिषेधेऽस्मिन् क्रियमाणे `त्यज हानौ' (धा.पा.986) इत्यस्योपसंख्यानं कर्त्तव्यम्। उपसंख्यानशब्दसय प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्---चकारोऽनुक्तसमुच्चयार्थः, तेन त्यजेरपि प्रतिषेधो भविष्यतीति।।
67. वचोऽशब्दसंज्ञायाम्। (7.3.67)
68. प्रयोज्यनियोज्यौ शक्यार्थो। (7.3.68)
प्रपूर्वस्य निपूर्वस्य च `युजिर् योगे' (धा.पा.1444) इत्यसय ष्यति कुत्वाभावो निपात्यते, स चेण्ण्यच्छक्यार्थे भवति। शक्यार्थे पुनर्ण्यत् `शकि लिङ् च' (3.3.172) इत्यनेन वेदितव्यः। तत्र हि `कृत्याश्च' (3.3.171) इत्यनुवर्त्तते। अथ किमर्थं पुनर्निपातनम्, यावता `ण्ये' (7.3.65) इत्यनुवर्त्तत एव? तत्र `प्रयुजनियुजोः शक्यर्थे' इति वक्तव्ये निपातनं रूढ्यर्थम्। अगुणभूता यत्र शक्यार्थता तत्र यथा स्यात्--प्रयोज्यो भृत्यः, नियोज्यो दास इति। स्वमिनि प्रयोज्यो नियोज्य इति न भवति। न हि तत्र प्रयोज्यनियोज्यशब्दौ रूढौ, किं तर्हि? गुणभूतादेव।।
69. भोज्यं भक्ष्ये। (7.3.69)
`भोज्यम्' इति। `भुज पालनाभ्यवहारयोः' (धा.पा.1454) इत्यस्य ण्यति भक्ष्येऽभिधेये कुत्वाभावो निपात्यते। `भोज्या यवागूः' इति। ननु च भक्षिरयं खरविशदेऽभ्यवहार्ये वर्त्तते, न तु द्रवद्रव्ये, यथा--`संस्कृतं भक्षाः' (4.2.16) इत्यत्र, तत्कथं `भक्ष्ये' इत्युच्यमाने यवाग्वां भवति? इत्याह--`इह भक्ष्यम्' इत्यादि। नावश्यं भक्षिः खरविरादे वर्त्तते। तथा हि--द्रवद्रव्येऽप्यस्य प्रयोगो द्रृश्यते। यथा--अबभक्षः, वायुभक्षः, वायुभक्ष इति। तस्मादभ्यवहार्यसामान्ये भक्षिर्वर्तत इति यवाग्वामपि भवति। `भुजो भक्ष्ये' इति वक्तव्ये निपातनं रूढ्यर्थम्। अभ्यवहार्ये भक्ष्ये कर्मणि यथा स्यात् परिपालनीये मा भूत्--भोग्या अपूपाः। पालनीया इत्यर्थः।।
70. घोर्लोपो लेटि वा। (7.3.70)
`ददन्' इति। `डुदाञ् दाने' (धा.पा.1091), लिङर्थे लेट् (3.4.97), झेरन्तादेशः, (7.1.3), `इतश्च लोपः परस्मैपदेषु' (3.4.97) इतीकारलोपः, `लेटोऽडाटौ' (3.4.94) इत्यट्, शप्, तस्य जुहोत्यादित्वात् श्लुः `श्लौ' (6.1.10) इति द्विर्वचनम्, संयोगान्तलोपः, (8.2.23) `ङमो ह्रस्वावचि ङमुण्णित्यम्' (8.3.32) इति ङ्मुडागमः। `सोमोददद्गन्धर्वाय' इति। ददातेस्पिप्, शेषं पुर्ववत्। `यदग्निरग्नये ददात्' इति। ददा+आदिति स्थितेऽकः सवर्णे दीर्घत्वम् (6.1.101) शेषं पूर्ववत्।
यद्याडागमे [`यद्यडागमे'--प्रा.मु.पाठः] कृते सत्यपि लोपे च ददादिति सिध्यति, किमर्थं तर्हि वेत्युच्यते? इत्याह--`तत्र' इत्यादि। स्यादेतत्--विस्ष्टार्थं तर्हि वाग्रहणणयुक्तम्; वदादित्यस्य रूपस्यासिद्धिं प्रत्याशङ्काया अभावात्? इत्यत आह--`एषा हि' इत्यादि। सुबोधम्।
71. ओतः श्यनि। (7.3.71)
`निश्यति' इत्यादि। `शो तनूकरणे' (धा.पा.1145), `छो छेदने'[`नास्त्ययं धातुः'--मुद्रितग्रन्थे] (धा.पा.1146) `दो अवखण्डने' (धा.पा.1148) `षो अन्तकर्मणि' (धा.पा.1147)। अथ किमर्थं इयनीत्युच्यते, न `शिति' इत्येवोच्येत, एवं ह्युच्यमाने श्यन्येव लोपो भविष्यति, न ह्योकारान्ताच्छ्यनोऽन्यच्छित् सम्भवति, लघु चैवं सूत्रं भवति, तत्रायमप्यर्थः--`ष्ठिवुक्लमुचमां शिति' (7.3.75) इत्यत्र शिद्ग्रहणं न कर्त्तव्यं भवतीत्येतदेव तत्रानुवर्त्तिष्यते? सत्यं सिध्यत्येव, किन्तु प्रतिपत्तिगौरवं स्यात्। तस्मात् प्रतिपत्तिगौरवपरीहारार्थं श्यनीत्युक्तम्।
`ओतः' इति। तपरकरणं मुखसुखार्थम्। न ह्यन्यदस्य निवर्त्त्यं विधेयं वा सम्भवति।।
72. क्सस्याचि। (7.3.72)
`अधुक्षाताम्, अधुक्षाथाम्' इति। दुहेर्लुङ्, च्लिः, `स्वरितञितः' (1.3.72) इत्यात्मनेपदम्, आतामाथाम्, `शाल इगुपधादनिटः क्सः' (3.1.45) इति क्सादेशश्च्लेः, तस्यानेन `अलोऽन्त्यस्य' (1.1.52) लोपः, `दादेर्घातोर्घः' (8.2.32) इति हकारस्य धकारः, `एकाचो वशो भष्' (8.2.37) इत्यादिना भष्--धकारः, `खरि च' (8.4.55) इति चर्त्वम्--धकारस्य ककारः `इण्कोः' (8.3.57) इति षत्वम्। `अधिक्षि' इति। उत्तमपुरुषैकवचनमिट्। `अधुक्षत्' इति। तिप्, `इतश्च' (3.4.100) इतीकारलोपः। `अधुक्षताम्' इति। `तस्थस्थमिपाम्' (3.4.101) इत्यादिना तसस्ताम्। ककारक्त उपादानम्, इह मा भूत्--हंसौ हंसाः, षत्सौ, वत्सा इति।।
73. लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये। (7.3.73)
`दुह प्रपूरणे' (धा.पा.1014), `दिह उपचये' (धा.पा.1015), `लिह आस्वादने' (धा.पा.1016), `गुहू संवरणे' (धा.पा.896)--सर्वं एते स्वरितेतः। स्वरितेत्त्वात् `स्वरितिञितः कर्त्रभिप्राये क्रियाफके' (1.3.72) इत्यामनेपदिनः। `अदुग्ध' इति। पूववद्धकरः, `झषस्तथोर्धोऽयः' (8.2.40) इति तकारस्य धकारः, `झलां जश् झशि' (8.4.53) इति धकारस्य गकारः। `अदुग्धाम्' इति। थास्, पूर्ववद् धत्वादि। `अदुग्ध्वम्' इति। ध्वम्। `अदुह्वहि' इति। वहिः। `अदिग्ध' इति। पूर्ववद् घत्वादि। `अलीढ' इति। हकारसय `हो ढः' (8.2.31) इति ढकारः पूर्ववत्, तकारस्य धत्वं ष्टुत्वञ्च, `ढो ढे लोपः' (8.3.13), `ढ्रलोपः पूरवस्य (6.3.111) इत्यादिना दीर्घः। `न्यगूढ' इति। एतदपि पूर्वेण तुल्यम्।
`व्यत्यपुक्षत' इति। `पुष पुष्टौ' (धा.पा.1182) व्यतिपूर्वः। `कर्त्तरि कर्मण्यतिहारे' (1.3.14) इत्यातमनेपदम्, `षढोः कः सि' (8.2.41) इति षकारस्य ककारः।
`अजुक्षामाहि' इति। महिङ।
अथ लुग्ग्रहणं किमर्थम्, यावता लोप इत्यनुवर्त्तत एव? इत्याह--`लोप इति वर्त्तमाने' इति। यदि लोपग्रहणमनुवर्त्त्य लोपो विधीयते तत् `अलोऽन्त्यस्य' (1.1.52) इत्यन्त्यस्य स्यात्। कि तु सर्वस्यैव भवति; प्रत्ययादर्शनस्य लुक्संज्ञाविधानात्। तस्मात् सर्वस्य क्सस्य लोपो यथा स्यादित्येवमर्थं लुग्ग्रहणं कृतम्। `वह्यर्थम्' इति। उत्तमपुरुषद्विवचनार्थमित्यर्थः। वहिरर्थः प्रयोजनं यस्य तत् तथोक्तम्। अथान्यार्थं कस्मान्न भवति? इत्याह--`अन्यत्र तु' इत्यादि। यदात्मनेपदं दन्त्यादि तत्सर्वं झलाद्येव। तत्रान्त्यस्यैवाकारस्य लोपे कृते `झलो झलि' (8.2.26) इति सकारसय लोपेनेष्टं सिध्यत्येव। स्यादेतत्--अन्यत्रापि लुका विना न सिध्यति; अकारलोपस्य सकारलोपे कर्त्तव्ये `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवदभावादिति? अत आह--`स्थानिवद्भावोऽप्यकारलोपस्य नास्ति' इति। कस्मान्नास्ति? इत्याह--`पूर्वत्रासिद्धे न स्थानिवत्' इति। तस्मान्नान्यार्थं लुग्ग्रहणम्, अपि तु वह्यर्थमेव। अत्र ह्यझलादित्वात् `झलो झलि' (8.2.26) इति सकारलोपो नास्तीति न सिध्यति।
`ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्त्यादित्वात्, न हि दन्त्यौष्ठ्यो वकारो दन्त्यग्रहणेन गुह्यते? इत्याह--`दन्त्यौष्ठ्योऽपि' इत्यादि। अत्रैव हेतुमाह--`यदि' इत्यादि। यदि दन्त्यौष्ठ्यौ दकारो दन्त्यग्रहणेन न गृह्येत्, तदा तावित्येवं ब्रूयात्, न दन्त्य इति। तावप्युच्यमाने सर्वमिष्टं सिध्यत्येव। न हि तदर्गादन्यद्दन्त्यमात्मनेपदस्यास्ति। तस्माद्दन्त्यौष्ठ्योऽपि वकारो दन्त्यग्रहणेन गृह्यते। तत्रेदं चोद्यते--यदुक्तम्--"अन्यत्र ह्यन्त्यस्यैव लोपे कृते `झलो झलि' (8.2.26) इति सकारलोपेनेष्टं सिद्ध्यत्येवेति, तदयुक्तम्; न हि `झलो झलि' (8.2.26) इत्यनेन सकारमात्रस्य लोपो विधियते, किं तर्हि? सिचः, तथा हि तत्रैव वक्ष्यति--`अयमप सिच एव लोपः'" इति? नैतदस्ति; सिज्ग्रहणस्य च्ल्यादेशस्योपलक्षणार्थत्वाच्च्लेर्थ आदेशस्तत्सम्बन्धिन एव सकारस्य लोपो भवतीत्ययं तत्रार्थो वेदितव्यः।।
74. शमामष्टानां दीर्घः श्यनि। (7.3.74)
बहुवचननिर्देशादष्टग्रहणाच्चाद्यर्थो गम्यत इत्याह--`शमादीनाम्' इत्यादि। `शमु उपशमे (धा.पा.1201), `तमु काङ्क्षायाम्' (धा.पा.1202), `दमु उपशमे' (धा.पा.1203), `श्रमु तपसि खेदे च' (धा.पा.1204) `क्षमु सहने' (धा.पा.1206), `भ्रमु अनवस्थाने' (धा.पा.1205), `क्लमु ग्लानौ' (धा.पा.1207), `मदी हर्षे' (धा.पा.1208)--इत्येतेऽष्टौ शमादयः।
`अस्यति' इति। `असु क्षेपणे' (धा.पा.1209)। अष्टाभ्यः परेणायं पठ्यते। `भ्रमति' इति। `वा भ्राश' (3.1.70) इत्यादिना श्यन् यस्मिन् पक्षे नास्ति तत्रेदं प्रत्युदाहरणम्।
श्यन्ग्रहणं स्पष्टार्थम्। शक्यते हि `ओतः श्यनि' (7.3.71) इति यत् प्रकृतं शन्ग्रहणं तल्लुग्ग्रणेव व्यवहितमपि मण्डूकप्लतिन्यायेनेहानुवर्त्तयितुम्।।
75. ष्ठिवुकलभ्याचमां शिति। (7.3.75)
`ष्ठिवु निरसने' (धा.पा.1110) `क्लमु ग्लागौ' (धा.पा.1207), `चमु छमु जमु झमु अदने' (धा.पा.469-472) आङ्पूर्वः। `क्लामति' इति `वा भ्राश' (3.1.70) इत्यादिना श्यनोऽभावे शप्। `क्लमिग्रहणं शवर्थम्' (इति। न तु श्यनर्थम्, तत्र पूर्वेणैव सिद्धत्वात्।
`चमेराङ्पूर्वस्य' इत्यादिना केवलस्यान्योपसर्गपूर्वस्य वा मा भूदित्येवमर्थं चमेराङ्पूर्वस्य ग्रहणमिति दर्शयति।।
76. क्रमः परस्मैपदेषु। (7.3.76)
`क्रामति' इति। `क्रमु पादविक्षेपे' (धा.पा.473)। `आक्रमते' इति। आङ्पूर्वः। `आङ उद्गमने' (1.3.40) इत्यात्मनेपदम्।
`इहोत्क्राम, सङ्क्राम' इत्यादिना चोद्यम्। उत्पूर्वात् सम्पूर्वाच्च क्रमेर्लोट `सेर्ह्यपिच्च' (3.4.87) इति हिरादेशः, तस्य `अतो हेः' (6.4.105) इति हेर्लुकि कृते `न लुमताङ्गस्य' (1.1.63) इति प्रत्ययलक्षणनिषेधात् उत्क्राम सङ्क्राम' इत्यत्र दीर्घत्वं न प्राप्नोति; न ह्यसति प्रत्ययलक्षणे हौ लुप्ते क्रमः परस्मैपदपरता सम्भवति। `नैष दोषः, इत्यादि परीहारः। स्यादेतत् लुमता लुप्ते क्रमः प्रत्यये हावेव करमिरत्राङ्गमित्याह--`न च क्रमिरङ्गम्' इति। शपा व्यवहितत्वात्। `किं तर्हि? `शपि' इति। शप एव ततो व्यवहितस्य विद्यमानत्वात्।।
77. इषुगमियमां छः। (7.3.77)
`इच्छति' इति। `तुदादिभ्यः शः' (3.1.77)। `गच्छति, यच्छति' इति। `कर्त्तरि शप्' (3.1.68)।
अथ किमर्थम्, `इषु इच्छायाम्' (धा.पा.1351) इत्येतस्योदितो ग्रहणम्? इत्याह--`इषेः' इत्यादि। `इष गतौ' (धा.पा.1127) इत्यसय दैवादिकस्येष्यतीत्यत्र मा भूत्। `इष आभीक्ष्ण्ये' (धा.पा.1525) इत्यस्य क्रैयादिकसय इष्णातीत्यत्र मा भूदित्येवमर्थमुकारानुबन्ध इषिरिह गृह्यते।
ये तर्हीषिमुदितमिह न पठन्ति, तेषामिष्यति, इष्णातीत्यत्रापि प्राप्नोति? इत्यत आह--`ये त्विषिमुदितम्' इत्याद। य इषिमुकारानुबन्धविशिष्टमिह न पठन्ति; त इष्यति, इष्णातीत्यत्र च्छत्वं मा भूदित्येवमर्थम्, `क्सस्याचि' (7.3.72) इत्यतोऽज्ग्रहणमनुवर्त्तयन्ति। अनुवर्त्तमानेऽप्यस्मिन् यदि तेन शितीत्येतद्विशिष्यते--शित च्छो भवति, किं विशिष्टे? अजादाविति, तदेष्णातेर्लोट्सिपो हीत्यादेशे कृते `हलः श्नः शानज्झौ' (3.1.83) इति श्नाप्रत्ययस्य शानजादेशे कृते सति इषणेत्यत्र `यस्मिन् विधिस्तदादावल्ग्रहणे' (व्या.प.127) इति तदादिविधिना छत्वं स्यादेवेति मन्यमान आह--`तच्च प्रधानमन्ग्रहणं शितीत्यनेन विशिष्यत इति वर्णयन्ति' इति। अचि च्छो भवति स चेच्छिद्भवति। प्राधान्पं पुनरज्ग्रहणस्य विशिष्यमाणत्वादेव। `तथा च सति' इत्यादि। एवमचीत्यस्मिन् प्रधाने शितीत्यनेन विशिष्यमाणे तदादिविधिर्न भवति। किं कारणम्? इत्याह--`यस्मिन् विधिः' इत्यादि। न केवलं `येन वधिस्तदन्तस्य' (1.1.72) इत्येतदेव तदन्तविधानं विशेषणेनेष्यते, अपि तु `यस्मिन्विधिस्तददावल्ग्रहणे' (व्या.प.127) इत्येतदेव तदादिविधानं विशेषणेनैवेष्यते। तेन च तदादिविधेरभावादषाणेत्यत्र छत्वं न भवति। असत्यपि तदादिविधौ शानजदेशस्य योऽयमादिराकारस्तत्र शिति परतश्छत्वं कस्मान्न भवति? इत्याह--`न ह्ययम्' इत्यादि। शकारः समुदायानुबन्धः, नाकारस्याचः। तस्मान्नाजेव शित्, अपि तु समुदाय एवेति न भवति च्छत्वम्।।
78. पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः। (7.3.78)
`पा पाने' (धा.पा.925), `घ्रा गन्धोपादाने' (धा.पा.926) `ध्मा शब्दाग्निसंयोगयोः' (धा.पा.927), `ष्ठा गतिनिवृत्तौ' (धा.पा.928), `म्ना अभ्यासे' (धा.पा.929), `दाण् दाने' (धा.पा.930), `दृशिर प्रेक्षणे' (धा.पा.988); `ऋ गतिप्रापणयोः, (धा.पा.936), `ऋ सृ गतौ च' (धा.पा.1298,1099); `शद्लृ शातने' (धा.पा.1428), `षद्लृ वशरणे' (धा.पा.1427) तौदादकः, `षद्लॄ विशरणगत्यवसादनेषु' (धा.पा.854) भौवादिकः--एषां धातूनां स्थाने यथासंक्यं पिबादय आदेशा भवन्ति। ननु च द्वौ सदी, तत्र वैषम्याद्यथासंख्यं न प्राप्नोति? नैष दोषः; एक एव हि सदिर्विकरणद्वयार्थ द्वियपदिश्यते। `शीयते' इति। `शदेः शितः' (1.3.60) इत्यात्मनेपदम्।
`अथ वा' इत्यादि। `पिबतेर्लघूपघगुणः प्राप्नोति' इत्यत्र परिहारान्तरम्। यद्याद्यदात्तो न निपात्येत, ततो धातुस्वरेणान्तोदात्तत्वे सति `एकादेश उदात्तेनोदात्तः' (8.2.5) इति शपा सहैकदेशे सति `अतो गुणे' (6.1.97) पररूपत्वे उदात्ते कृते पिबतीति मध्योदात्तं पदं स्यात्, आद्युदात्तञ्चेष्यते, तस्मादाद्युदात्तो निपात्यते। स निपातनस्वरो धातुस्वरसय बाधको यथा स्यात्। `सर्त्तः' इत्यादि। वेगः=जवः; स यस्यास्ति स वेगी, तस्य भावो वेगिता, तस्यां गतौ सर्त्तेर्धावादेशमिच्छन्ति। स च `लुग्वा दुहदिह' (7.3.73) इत्यादेः सूत्राद्वाग्रहणानुवृत्तेर्ष्यवस्थितविभाषात्वाल्लम्यत इति वेदितव्यम्। अर्त्तिसर्त्तीति शितपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्त्यर्थः। न हि यङलुकि शित्परः सम्भवति; अदादत्वत् ततो विहितस्य शपो लुग्वधानात्। `बहुलं छन्दसि' (2.4.73) इति शपो लग्न भविष्यतीति चेत्? न, छन्दस यथादृष्टानुविधानात्। अर्त्तिप्रभृतेश्छब्दसि यङ्लुकि शबन्तस्य प्रयोगादर्शनात्।।
79. ज्ञाजनोर्जा। (7.3.79)
`जनेर्देवादकसय ग्रहणम्' इति। द्वौ जनी--दैवादिकः `जनी प्रादुर्भावे' (धा.पा.1149), जौहोत्यादिकः `जन जनने' (धा.पा.1105) इति। तत्रैह दैवादिकस्य ग्रहणम्, नेतरस्य। न हि ततः परः शित् सम्भवति, श्लुविधानात्। दीर्घोच्चारणस्य प्रयोजनमुत्तरत्र वक्ष्यति।।
80. प्वादीनां ह्वस्वः। (7.3.80)
`व्ली गतौ वृदिति यावत् केचिदिच्छन्ति' इति। तेषां ततः परेण पठितयोः `व्री वरणे' (धा.पा.1504), `भ्री भये' (धा.पा.1505)--इत्येतयोर्ह्रस्वत्वेन न भवितव्यम्--व्रीणाति, भ्रीणातीति। ननु ल्वादीनां परिसमाप्त्यर्थं तद्वृत्करणम्, अन्यथा आ गणान्तात् तेभ्यो निष्ठानत्वं स्यात्, ल्वादिपरिसमाप्त्यर्थे च तस्मिन्नागणान्ताः प्वादयो युक्ताः? इत्यत आह--`वृत्करणम्' इत्यादि। न ह्युभयगणपरिसमाप्त्यर्थता केनचिद्विरुध्यत इत्यभिप्रायः।
`अपरे' इत्यादि। ल्वादेर्गणस्यानन्तरत्वात् तत्परिसमाप्त्यर्थतैव वृत्करणस्य युक्तेति भावः। तेषामेवमिच्छतां व्री वरणे, भ्रो भये--इत्येतयोरपि भवितव्यं ह्रसवत्वेन व्रिणाति, भ्रिणातोति; प्वादिषूभयोरन्तर्भावात्। `जानातीत्यत्र ह्रस्वः प्राप्नोति' इति। तल्याप प्वाद्यन्तर्भावादित्याह--`ज्ञाजनोर्जा' इत्यादि। यदि `जा' इत्यादेशे कृते ह्रसवः स्यात् तदा दीर्घोच्चारणमनर्थकं स्यात्, `ज' इत्येवं ब्रूयात्। तस्मात् दीर्घोच्चारणसामर्थ्यज्जानातीत्यत्र ह्रस्वो न भविष्यति। ननु च दीर्घोच्चारणं जन्यर्थं स्यात्, न हि जनेर्ज इत्यादेशे कृते जायत इति रूपं सिध्यति? इत्यत आह--`ज इत्यपि ह्यादेशे कृते' इत्यादि। येषान्तूभयगणपरिसमाप्त्यर्थं वृत्करणं तेषां किमर्थं जा इति दीर्घोच्चारणम्? जानातीत्यत्र दीर्घो यथा स्यात्? नैतदस्ति; `अतो दीर्घो यञि' (7.3.101) इति दीर्घो भविष्यति? ननु च `अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य' (व्या.प.38) इति न प्राप्नोति? नैतदस्ति; `निष्ठितस्य' इत्युच्यते, न च ज इत्यादेशे कृते निष्ठितमङ्गं भवति; अप्रयोगार्हत्वात्। प्रतिपत्तिलाघवार्थं दीर्घोच्चारणम्।।
81. मीनातेर्निगमे। (7.3.81)
`प्रमिणन्ति' इति। `हिनु मीना' (8.4.15) इति णत्वम्, `श्नाभ्यस्तयोरातः' (6.4.112) इत्याकारलोपः। मीनातेरिह विकरणनिर्देशः `मीञ् हिंसायाम्' (धा.पा.1476) इत्यस्य क्रैयादिकस्य ग्रहणं यथा सात्, `मीङ् हिंसायाम्' (धा.पा.1137) इत्यस्य दैवादिकसय ग्रहणं मा भूदित्येवमर्थम्। `मीञः' इति निर्देशो न कृतो वैचित्र्यार्थः।।
82. मिदेर्गुणः। (7.3.82)
`ञिमिदा स्नेहने' (धा.पा.743,1243) इति भौवादिको दैवादिकश्च, तत्र दिवादेरिह ग्रहणम्; इतरस्व ह्यङित्त्वाच्छपः `पुगन्तलघूपधस्य च' (7.3.86) इत्येवं गुणः सिद्धः। `मिद्यते' इति। `भावकर्मणोः' (1.2.13) इत्यात्मनेपदम्, `सार्वधातुके यक्' (3.1.67)।।
83. जुसि च। (7.3.83)
इकात्र सन्निहितेन प्रकृतमङ्गं विशिष्यते, विशेषणेन तदन्तविधिर्भवतीत्यत आह--`इगन्तस्य' इत्यादि। `अजुहवुः' इति। लङ्, `सिजभ्यस्तविदभ्यश्च' (3.4.109) इति झेर्जुस्, शपः श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्। `अबिभयुः' इति। `ञिभो भये' (धा.पा.1084)। `अबिभरुः' इति। `डु भृञ् धारणपोषणयोः' (धा.पा.1087), `भुञामित्' (7.4.76) इत्यभ्यासस्येत्त्वम्।
`चिनुयुः सुनुयुः' इति। लिङ्, यासुट् झेर्जुस्, `स्वादिभ्यः श्नुः' (3.1.73) `उस्यपदान्तात्' (6.1.96) इति पररूपत्वाम्। `तत्र नाप्राप्ते' इत्यादि। सार्वाधातुकमाश्रयो यस्यतत् सार्वधातुकाश्रयम्। ङित्त्वं निमित्तं यस्य प्रतिषेधस्य स तथोक्तः। स सर्वत्रैव जुसि प्राप्नोतीति तस्मिन्नाप्राप्तेऽयं गुण आरभ्यमाणस्तस्यैव बाधको भविष्यति; न तु यस्य यासुडाश्रयं ङित्त्वं निमित्तम्, तस्यापि। अत्र हि प्राप्ते चाप्राप्तेऽयमारभ्यते। चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते। चकारः समुच्चये। नान्यत् समुच्चेतव्यमस्तीत्यस्यैव लक्षणस्य पुनरावृत्तिमाचष्टे। तेन प्रकृतलक्षणस्यापि प्रतिषेधविषये भवति। `अदीधयुः' इति। `दीधीङ् दीप्तिदेवनयोः' (धा.पा.1076), लङ् व्यत्ययेन परस्मैपदम्, झिः, `जक्षित्यादयः षट्' (6.1.6) इत्यभ्यस्तसंज्ञा, `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्, अदादित्वाच्छपो लुक्। ततः `सार्वधातुकार्धधातुकयोः' (7.3.84) इति गुणः प्राप्तः, स `क्ङिति च' (1.1.5) इति प्रतिषिद्धः, सोऽप्यनेन पुनः प्राप्तौ `दीधीवेवीटाम्' (1.1.6) इति प्रतिषिद्धः समुच्चयार्थत्वाच्चकारस्य भवति।।
84. सार्वधातुकार्धधातुकयोः। (7.3.84)
`चेता, स्तेता' इति। तृच्। `ऋदुशनस्पुरोदंसोऽनेहसाञ्च' (7.1.94) इत्यनङ्, `सर्वनामस्थाने' (6.4.8) इत्यादिना दीर्घः।
`सार्वधातुकार्धधातुकयोरिति किम्'? इति। एवं मन्यते--प्रत्यय इति वक्तव्यम्, सङीति वा, एवं ह्युच्यमाने भवतीत्यादौ गुणः सिद्ध एव, सङीति प्रत्याहारग्रहणं सनः सकारादारभ्य महिङो ङकारेण। `अग्नित्वम्' इति। `तस्य भावस्त्वतलौ' (5.1.119) इति त्वप्रत्ययः। `अग्निकाम्यति' इति। `काम्यच्च' (3.1.9) इति काम्यच्। `यदि इत्यादि। यदि प्रत्यय इत्युच्येत, त्वाकाम्यचोरपि स्यात्। अथापि सङीत्युच्येत, काम्यचि स्यात्; तस्यापि प्रत्याहरेऽन्तर्भावात्।।
85. जाग्रोऽविचिण्णल्ङित्सु। (7.3.85)
`जागरयति' इति। णिच्। `जागरकः' इति। ण्वुल्। `साधुजागरी' इति। ताच्छील्ये णिनिः। `जागरञ्जागरम्' इति। `आभीक्ष्ण्ये णमुल्' (3.4.22), `आभीक्ष्ण्ये द्वे भवतः' (वा.887) इति द्विर्वचनम्। `जागरो वर्त्तते' इति। भावे धञ्। एतानि वृद्धिविषय उदाहरणानि। `जागरिता, जगरितवान्' इति प्रतिषेधविषये।
किं पूनः कारणं वृद्धिविषये प्रतिषेधविषये चैवोपन्यस्तान्युदाहरणानि? इत्यत आह--`वृद्धिविषये प्रतिषेधविषये च' इत्यादि। वृद्धिप्रतिषेधविषयादन्यत्र पूर्वसूत्रेण गुणः सिद्धो भवति। तस्मादवृद्धिप्रतिषेधविषयेऽयं गुण आरभ्यते, तेन तद्विषयाणामेवोदाहरणानासुपन्यासः। जागरयतीत्यादौ गुणे कृते रपरत्वे च `अत उपधायाः' (7.2.116) इति वृद्ध्या भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निरकर्त्तुमाह--`तस्मिन् कृते' इत्यादि। किं पुनः कारणं तस्मिन् कृते न भवति? इत्याह--`यदि हि' इत्यादि। यद्यस्मिन् कृतेऽपि गुणे `अत उपधायाः' (7.2.116) इति वृद्धिः स्यात्, जागरयतीत्यादिकं रूपं न स्यात्, तथा चानर्थको गुणः स्यात्; `अचो ञ्णिति' (7.2.115) इत्यनयैव वृद्ध्या सिद्धत्वात्। `चिण्णलोश्च' इत्यादि। चिण्णलोः प्रतिषेधस्येतत् प्रयोजनम्--वृद्धेः श्रवणं यथा स्यात्। यदि तु कृतेऽपि गुणे `अत उपधायाः' (7.2.116) इति स्यात्, चिण्णलोः प्रतिषेधोऽनर्थकः यात्; अस्त्वत्र गुणः, सत्यपि तस्मिन् पुनरुपधाया इति वृद्ध्या भवितव्यम्, ततश्च वृद्धेः श्रवत्रं भविष्यतीति।
`अजागारि' इति। लुङ्, च्लिः, `चिण्भावकर्मणोः' (3.1.66) इति च्लेश्चिण्, `चिणो लुक्' (6.4.104) इति तकारस्य लुक्। `जागृतः, जागृथः' इति। लट्, तस्थसौ, तयोः `सार्वधातुकमपित्' (1.2.4) इति ङित्त्वम्, अदादित्वाच्छयो लुक्।
`वीति केचिदिकारमुच्चारणार्थं वर्णयन्ति' इति। किं पुनरेवं सतीष्टं सिध्यति, यत एवं व्याचक्षते? आह--`क्वसावप' इत्यादि। यदि समुदायस्थ वेः प्रत्ययस्येवं ग्रहणं स्यात्, क्वासौ गुणप्रतिषेधो न स्यात्। यदि त्विकार उच्चारणार्थो वर्णमात्रस्यैवेदं ग्रहणम्, तदा `यस्मिन् विधिस्तदादावल्ग्रहणे' (व्या.प.127) इति तदादिविधिना क्वासावपि गुणप्रतिषेधः सिद्धो भवति। `जजागृवान्' इति। लिटः `क्वसुश्च' (3.2.107) इति क्वसुरादेशः, `उगिदचाम्' (7.1.70) इति नुम्, `जजागृवान्' इति। लिटः `क्वसुश्च' (3.2.107) इति क्वसुरादेशः, `उगिदचाम्' (7.1.70) इति नुम्, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ। `केचित्' इति वचनात्--अपर उच्चारणार्थं न वर्णयन्तीत्युक्तं भवति। त एवं मन्यन्ते--छान्दसः क्वसुः, लिट् च छन्दसि सार्वधातुकमपि भवति; `छन्दस्युभयथा' (3.4.117) इति वचनात् ततः `सार्वधातुकमपित्' (1.2.4) इति ङित्त्वादेव पर्युदासो भविष्यतीति। `अजागरुः' इत्यादि। एवं मन्यते--`अविचिण्णल्ङित्सु' (1.2.4) इति ङित्त्वादेव पर्युदासो भविष्यतीति। `अजागरुः' इत्यादि। एवं मन्यते--`अविचिण्णल्ङित्सु' इति प्रसज्यप्रतिषेधोऽयम्--विचिण्णल्ङितसु न भवतीति, ततश्चाजागरुरित्यत्रापि `जुसि च' (7.3.83) इत्यनेनापि प्राप्तस्य गुणस्या प्रतिषेधः प्राप्नोति। एवमहं जजागरेत्यत्र `णलुत्तमो वा' (7.1.91) इति वचनाण्णित्त्वं यदा नास्ति तदा `सार्वधातुकार्धधातुकायोः' (7.3.84) इति गुण इष्यते, सोऽस्मात् प्रतिषेधान्न प्राप्नोति। `न' अप्रतिषेधात्' इति परिहारः। नायं दोषः; कुतः? अप्रतिषेधात्। अप्रसज्यप्रतिषेधा दित्यर्थः। यदि प्रसज्यप्रतषेधो न भवति, कस्तर्ह्ययम्? इत्याह--`अविचिण्णाल्ङित्स्विति पर्युदासोऽयम्' इति। प्रसज्यप्रतिषेधे हि लक्षणान्तरेणापि प्रसक्तस्य प्रतिषेधः स्यात्, न पर्युदासे। तथा हि पर्युदासे विचिण्णल्ङिद्भ्योऽन्यत्र गुणो विधीयते, न तु तेषु विचिण्णलादिषु प्रतिषिध्यते। पर्युदासश्चायम्। तस्माज्जुसि णलि च गुणो भवत्येव।
अभ्युपेत्यापि प्रसज्यप्रतिषेधं परहारान्तरमाह--`अथ वा' इत्यादि। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या. प.19) इत्यानन्तर्यात् जाग्र इति या प्राप्तिस्तस्या अयं प्रतिषेधः, या तु `जुसि च' (7.3.83) इत्यादिना लक्षणान्तरेण प्राप्तिः सा न प्रतिषिध्यते। `अजागरुः' इति। लङ्, `जक्षित्यादयः षट्' (6.1.6) इत्यभ्यस्तसंज्ञा, `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्।।
86. पुगन्तलघूपघस्य च। (7.3.86)
पुगन्तस्याङ्गस्य, लघूपधस्य चेत्युभावपि बहुव्रीही--पुगन्तो यस्य तत् तथोक्तम्, लध्वी उपधा यस्य तल्लघूपधम्। `भेत्ता, छेत्ता' इति।
ननु च प्रत्ययादेर्हलोऽङ्गावयवस्य चानन्तर्ये सति `संयोगे गुरु' (1.4.11) इति गुरुसंज्ञया लघुसंज्ञायां वाधितायां गुणेनात्र न भवितव्यम्? इत्यत आह--`प्रत्ययादेः' इत्यादि। `त्रसिगृधिधृषिक्षिपेः क्नुः' (3.2.140), `हलन्ताच्च' (1.2.10) इति क्नुसनोः कित्करणस्यैतदेव प्रयोजनम्--गृध्नुः, विभत्सतीत्यादौ गुणो मा भूदिति। यदि प्रत्ययादेर्हलोऽङ्गावयवस्य चानक्तर्ये सति लघूपधगुणो न स्यात् तयोः कित्त्वं न कुर्यात्, कृतञ्च, तस्मात् क्नुसनो कित्त्वं कुर्वता--प्रत्ययाङ्गावयवयोर्हलोरानन्तर्येऽपि लघूपधगुणो न व्यावर्त्त्यत इति ज्ञापितमेतत्। ननु च सनः कित्त्वं सिसृक्षतीत्यत्रामागमो मा भूदित्येवमर्थं स्यात्? नैतदस्ति; यदि ह्येतत् प्रयोजनमभिमतं स्यात् तत्रैवं प्रतिषेधं कुर्यात्--सूजदृशोर्झल्यमकित्सनोरिति। तस्मात् सनः कित्करणं ज्ञापकमेव यद लघूपधल्यानेन गुणो विधीयते। एवं सति `इको गुणवृद्धी' (1.1.3) इत्यस्या उपस्थाने सति यत्र तत्र स्थितस्येको गुणः प्रसज्येत, ततश्चेहापि प्राप्नोति--भिनत्तीति, भवति ह्यतर लघूपधमङ्गम्। न च शक्यते वक्तुम्--`हलोऽनन्तराः संयोगः' (1.1.7) इति संयोगसंज्ञायां सत्यां लघूपधमेतन्न भवतीति गुणो न भविष्यतीति। यज्ज्ञापितमेतदिदाधीमेव--प्रत्ययादेरङ्गावयवसय च हलोरानन्तर्ये सति लघुपधगुणो न व्यावर्त्त्यत इति? अत आह--`उपधा चात्र' इत्यादि। इक्परिभाषया ह्यत्रकः सनिधापितत्वादिगेवोपधा गृह्यते, तेन भिनत्तीत्यत्र गुणो न भवति; न ह्यत्राङ्गस्येगुपधा, किं तर्हि? अकारः।
`अपरे तु' इत्यादिओ। सूत्रार्थ वर्मयन्ती त वक्ष्यमाणेन सम्बन्धः। पुकि अन्तः पुगन्तः--`सप्तमी' (2.1.40) इति योगविभागात् समासः। अन्तशब्दोऽयमवयववचनः, पुकि परतोऽवयव इत्यर्थः। कस्यावयवः? `अङ्गस्य' इत्यनुवृत्तेः पुगिति वचनात्पुगागमवतोऽङ्गस्य। न पुनः पुगन्त इक्परिभाषोपश्तानादिगेव वेदितव्यः। `लध्वी उपधा लघूपधा' इति। विशेषणसमासः। `पुगन्तलघूपधम्' इति। समाहारद्वन्द्वोऽयम्। `सूत्रार्थम्' इति। तूत्रार्थैकदेशे सूत्रार्थशब्दो वर्त्तते, न ह्येतावानेव सूत्रार्थः, अपरिसमाप्तत्वात्। अपरिसमाप्तिस्तु पुगन्तस्य तस्याश्च लघूपधाया गुणो भवतीत्यस्य सूत्रार्थस्यैकदेशस्यानभिधानात्। `वर्णयन्ति' इति। व्याचक्षत इति। भिनत्तीत्यत्र गुणो मा भूदित्येवमर्थम्। न ह्यत्र सूत्रार्थे भिनत्तीत्यत्र गुणः प्रसज्येत। बहुव्रीहौ ह्याश्रीयमाणेऽङ्गस्यान्यपदार्थस्य यो नाम कश्चिदिक् तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। बहुव्रीहौ हयश्रीयमाणोऽङ्गसयान्यपदार्थस्य यो नाम कश्चिदिक् तस्य यत्र तत्रावस्थितस्य गुणः प्रसज्येत। तत्पुरेषे तु नायं दोषः, तत्र हि लघूपधेग्भ्यामङ्गं विशिष्यते, अतस्तस्या एव गुणो विधीयते--अङ्गस्य या लघूपधा इक् तस्या गुणो भवतीति। भिनत्तीत्यत्रयाऽङ्गस्य लघूपधा नासाविक्, यश्चेक् स यद्यपि लघुर्भवति लघुर्भवति न त्वस्योपधा। तस्मात् तत्पुरुष आश्रीयमाणे नेह गुणस्य प्रसङ्गः।
सार्वधातुकार्धधातुकयोरित्येव--`अगनिचित्त्वम्, अग्निचितकाम्यति'। पुगन्तग्रहणं लघूपधार्थम्।।
87. नाभ्यस्तस्याचि पिति सार्वधातुके। (7.3.87)
`नेनिजानि, वेविजानि, परिवेविषाणि' इति'। `णिजिर् शौचपोवणयोः' (धा.पा.1093) `विजिर् पृथग्भावे' (धा.पा.1094) `विषु व्याप्तौ' (धा.पा.1095)-एभ्यो लोट्, मिप् `मेर्निः' (3.4.89), `आडुत्तमस्य पिच्च' (3.4.92) इत्यट्, `जुहोत्यादिभ्यः श्लुः' (2.4.75) इति शपः श्लुः, `शलौ' (6.1.10) इति द्विर्वचनम्, `निजां त्रयाणां गुणः श्लौ' (7.4.75) इत्याभ्यासस्य गुणः। `अनेनिजम्, अवेविजम्, पर्यवेषिषम्' इति। लङ्, `तस्थस्तमिपां तान्तन्तामः' तान्तन्तामः' (3.4.101) इति मिपोऽम्भावाः।
`वेदानि' इति। `विद ज्ञाने' (धा.पा.1064)। `पूर्ववल्लोडादि यथायोगम्, अदादितावाच्छपो लुक्।
`नेनेक्ति' इति। लट्, तिप्, `चोः कुः' (8.2.30) इति कुत्वम्।
अथ पिद्ग्रहणं किमर्थम्, यावताऽपिति सार्वधातुके `सार्वधातुकमपित्' (1.2.4) इति ङित्त्वे सति `क्ङिति च' (1.1.5) इति निषेधेन भवितव्यमिति, न चानयोः प्रतिषेधयोः कश्चिद्विशेषोऽस्ति? इत्यत आह--`पिद्ग्रहणम्' इति। `तृणह इम्' (7.3.92) इतीमं वक्ष्यति, स पिति यथा स्यात्, अपिति मा भूदित्येवमर्थं पिद्ग्रहणम्। `निनेज' इति। लिट्। स च `लिट् च' (3.4.115) इत्यार्धधातुकसंज्ञकः।
`जुहवानि इति। `हु दाने' (धा.पा.1083)। पूर्ववल्लोडादि। `अजुहवम्' इति। पूर्ववल्लङादि। अत्र `लघूपधस्य' (7.3.86) इत्यनुवृत्तेः `सर्वधातुकार्यधातुकयोः' (7.3.84) इतीगन्तस्य यो गुणो विहितस्तस्य प्रतिषेधो न भवति।
`बहुलं छन्दसीति वक्तव्यम्' इति। छन्दसि विषये बहुलं गुणप्रतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्--इहेदं सूत्रं विभज्य द्वौ योगौ क्रियेते, तत्र `न' इत्येको योगः; `अभ्यस्तस्याचि पिति सार्वधातुके' इति द्वितीयः, तत्र च नेत्यनुवर्त्तते, यञ्च योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः। तेन च्छब्दसि बहुलं प्रतिषेधो भविष्यति। `जुजोषत्' इति। `जुषी प्रतिसेवनयोः' (धा.पा.1288) लेट्, तिप्; `लेटोऽडाटौ' (3.4.94) इत्यट्, तुदादित्वाच्छः, तस्य `बहुलं छन्दसि' (2.4.73) इति श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्। लघूपधगुणः। यद्यभ्यस्तस्याचि पिति सार्वधातुके गुणप्रतिषेध इध्यते, पस्पशाते, चकाशीति, वावशीतित्यत्रोपधाह्रसवत्वमिष्यते, तन्न प्राप्नोति; तस्मादभ्यस्तानामुपधाह्रस्वत्वमेव वक्तव्यम्, न गुणप्रतिषेधः; ह्रस्वत्वे हि नेनिजानीत्येवमादि सिध्यति; पश्पशाते इत्यादि च? इति यश्चोदयेत्, तं प्रत्याह--`पस्पशाते' इत्यादि। हि नेनिजानीत्येवमादि सिध्यति; पस्पशाते इत्यादि च? इति यश्चोदयेत्, तं प्रत्याह--`पस्पशाते' इत्यादि। `स्पशिरिति [`स्पाशिरिति'--प्रा.मु.पाठः] गणपरिपठितो धात्वन्तरमस्त्येव, तस्माद्यङ्, तस्य `यङोऽचि च' (2.4.74) इति लुक्, द्विर्वचनम्, `शर्पूर्वाः खयः' (7.4.61) इति खयः शेषः; अभ्यासस्य ह्रस्वत्वे कृते `दीर्घोऽकितः' (7.4.83) इति दीर्घः, `व्यत्ययो बहुलम्' (3.1.85) इति वर्णव्यत्ययेनोपधाया अभ्यासस्य च ह्रस्वः, लेट्, व्यत्ययेनैवात्मनेपदम्, आट्। `चाकशीति' इति। `काशृ दीप्तौ' (धा.पा.1162), `कुहोश्चुः' (7.4.62) इत्यभ्यासस्य चुत्वम्, तिप्, `यङो वा' (7.3.94) इतीट्। `वावशीति' इति। `वाशृ शब्दे' (धा.पा.1163), शेषं यथायोगं पूर्ववत्। `पस्पशाते इत्यत्राभ्यासह्रस्वत्वं च' इति। चकारादुपधाह्रस्वत्वञ्च। इतरत्र तूपधाह्रस्वत्वमेव, नाभ्यासस्य ह्रस्वत्वम्।
`प्रकृत्यन्तराणां वा' इति। `स्पश बाधनस्पर्शनयोः' (धा.पा.887), `कश गनिशासनयोः' (धा.पा.1024), `वश कान्तौ' (धा.प.1080)--एतानि प्रकृत्यन्तराणि ह्रस्वोपधानि सन्तीति, अत एषामेवैतानि रूपाणि। तस्माद्यथान्यासमेवास्तु।।
88. भूसुवोस्तिङि। (7.3.88)
`अभूत्' इति। `लुङ्, `गातस्था' (2.4.77) इत्यादिना सिचो लुक्। `सुवावहै, सुवामहै' इति। `षूङ् प्राणिगर्भविमोचने' (धा.पा.1031), लोट् वहिमहिङौ, टेरेत्वम्, `एत ऐ' (3.4.93), आदित्वाच्छपो लुक्, `आडुत्तमस्य पिच्च' (3.4.92) इत्याट् `अचि श्नुधातु' (6.4.77) इत्यादिनोवङ्। अथ कस्मात् सूतेरादादिकस्योपन्यासः कृतः, न सुवतिसयत्योस्तौदादिकदैवादिकयोः? इत्यत आह--`सूतेर्लुग्विकरणस्य' इत्यादि।
ननु च लुग्विकरणपरिभाषया (व्या.प.50) `षू प्रेरणे' (धा.पा.1408) इत्येतस्य शविकरणस्य तौदादिकस्य, `षूङ् प्राणिप्रसवे' (धा.पा.1132)--इत्यस्य दैवादिकसय च ग्रहणं युक्तम्? इत्यत आह--`सुवतिसूयत्योः' इत्यादि। तिङीति सप्तमीनिर्देशादनन्तरे तिङि प्रतिषेधेन भवितव्यम्। न च सुवतिसूयतिभ्यामनन्तरस्तिङ् सम्भवति, विकरणेन व्यवधानात्। तस्मान्न तयोर्ग्रहणमिति सूतेरेव ग्रहणं युक्तमित्यभिप्रायः। स्यादेतत्--वचनप्राणाण्याद्विकरणेन व्यवधानेऽपि प्रतिषेधो भविष्यतीत्यतस्ययोरेव ग्रहणं युक्तमिति? अत आह--`विकरणस्यैव' इत्यादि। तयोर्हि `सार्वधातुकमपित्' (1.2.4) इति विकरणङित्त्वम्, तत्र `क्ङिति च' (1.1.5) इत्यनेनैव सिद्धः प्रतिषेध इति निरर्थकं तयोर्ग्रहणं स्यात्, अतो न ताविह गृह्यते। `भवति' इति। तिङीति वचनादिहातिङि शपि परतो निषेदो न भवति। `व्यतिभविषीष्ट' इति। आशिषि लिङ् (3.3.173)। स च `लिङाशिषि' (3.4.116) इत्यार्धधातुकसंज्ञकः, सीयुट्, `कर्त्तरि `कर्त्तरि कर्मण्यतिहारे' (1.3.14) इत्यात्मनेपदम्, सुट् षत्वम्, ष्टुत्वम्।
`अथ' इत्यादि। `प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति' (व्या.प.79) इति यङ्लुकोऽपि ग्रहणे सति तत्रापि प्रतिषेधेन भवितव्यमिति भावः। `बोभवीति' इति। `गुणो यङ्लुकोः' (7.4.82) इत्यभ्यासस्य गुणः। `ज्ञापकात्' इत्यादि। यदि यङ्लुक्यपि प्रतिषेधः स्यात्, गुणाभावार्थं निपातनं न कुर्यात्, कृतञ्च, तस्मादेव ज्ञापयति--यङलुक्ययं प्रतिषेधो न भवतीति।।
89.उतो वृद्धिर्लुकि हलि। (7.3.89)
गुणे प्राप्त उत्तो वृद्धिरारभ्यते। यौतीत्यादौ पूर्ववच्छपो लुक्।
`सुनोति' इति। श्नुः। `यवानि' इति। लोट्। उत्तमपुरुषै कवचनम्। `युतः, रुतः' इति। लट्, तस्। तपरकरणं सूतीत्यत्र मा भूदति।
अथ `अपि स्तुयाद्राजानञ्' इत्यत्र कस्मान्न भवति, अस्ति ह्यत्रापि यासुटस्तिङ्भक्तत्वात् तिङ्ग्रहणेन ग्रहणमिति प्राप्तिः, न च शक्यते वक्तुम्--`क्ङिति च' (1.1.5) इति प्रतिषेधो भविष्यतीति; यस्मादिग्लक्षणाया वृद्धेः प्रतिषेधोऽसौ, न चेयमिग्लक्षणा; साक्षान्निर्देष्टस्थानिकत्वात्, `यस्या हि वृद्धेः स्थानी न निर्दिश्यते सेग्लक्षणा' इत्युक्तम्? इत्याह--`अपि स्तुयात्' इत्यादि। अत्र हि `यासुट् परस्मैपदेषूदात्तौ ङिच्च' (3.4.103) इति सार्वधातुकं ङित; `ङिच्च पिन्न भवति' इति ङित्त्वेन पित्त्वस्य बाधितत्वात्। तस्मात् पित्युच्यमाना वृद्धिरिहापि न भवति। अथ `योयोति, रोरोति' इत्यत्र कस्मान्न भवति, लुकि सति भवति ह्येतदङ्गद्वयमुकारान्तम्? इत्याह--`नाभयस्तस्य' इत्यादि। गतार्थम्। आदिशब्देन नोनोतीत्येवमादीनां[`चोकोतीत्यादीनाम्'--प्रा.मु.पाठः] ग्रहणम्।।
90. ऊर्णोतेर्विभाषा। (7.3.90)
पूर्वेण नित्यायां वृद्धौ प्राप्तायां विकल्पार्थोऽयमुत्यते। `प्रोर्णोति' इति। पूर्ववच्छपो लुक्। `प्रोर्णवानि' इति। लोडुत्तमपुरुषैकवचनम।।
91. गुणोऽपृक्ते। (7.3.91)
विभाषेति निवृत्तम्। पूर्वेण प्राप्तायाः पाक्षिक्या वृद्धेरयमपवादः। ननु हलत्यनुवर्त्तत एव, तत्र सामर्थ्यादपृक्त एव भविष्यतीति न तदादी, न हि हलादिसमुदायो हल् भवति, तत्किमपृक्तग्रहणेन इत्यत आह--`हलीत्यनुवर्त्तमाने' इत्यादि। अपुक्तग्रहणं ह्येवमर्थं क्रियते--हलीत्यनुवृत्तेस्तदादौ मा भूदिति। यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणमनर्थकत्वान्न कुर्यात्। हल्युचयमानो गुणः कः प्रसङ्गो यस्तदादावपि स्यात्? नैव प्राप्नोति; तस्या हलात्मकत्वात्। कृतञ्चेदमपृक्तग्रहणम्, अतस्तोनास्तीयं परिभाषेति ज्ञाप्यते। अथ `नापृक्ते' इत्येवं कस्मान्नोक्तम्, किं गुणग्रहणेन, वृद्धौ प्रतिषिद्धायामुत्सर्गेण गुणेनैव सिध्यति? नैतदस्ति; अन्तरोक्ताया विभाषायाः प्रतिषेधो विज्ञायेत, तथा च नित्यं वृद्धिः स्यात्।।
92. तृणह इम्। (7.3.92)
`तृह हिंसायाम्' (धा.पा.1455) इति रुधादिः, `तृहू तृब्हू हिंसार्थाः (धा.पा.1348,1350) इति तुदादी--तयोराद्यस्येदं ग्रहणम्, नेतरस्य। तस्य विकरणेन व्यवधावादनन्तरो हल् न सम्भवतीति। `तृणेढि' इति। `हो ढः' (7.2.31), `झषस्तथोर्धोऽधः' (8.2.40) इति धत्वम्, `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्, `ढो ढे लोपः' (8.3.13), तस्येमागमः, `आद्गुणः' (6.1.87)। `तृणेक्षि' इति। `धढोः कः सि' (8.2.41) इति कत्वम्। `अतृणेट्' इति। लङ्, तिप्, हल्ङ्यादिलोपः (6.1.68), ढत्वे कृते `झलां जशोऽन्ते' (8.2.39) इति जश्त्वम्--ढकारस्य डकारः, तस्य `वावसाने' (8.4.56) इति चर्त्वम्--टकारः।
ननु चात्र लुप्तत्वात् सार्वधातुकस्येमागमेन न भवितव्यम्, लुप्तोऽपि तत्र प्रत्ययलक्षणेन भविष्यतीति चेत्? न; वर्णाश्रये प्रत्ययलक्षणं नास्तीत्यत आह--`वर्णाश्रये' इत्यादि। एवं मन्यते--`वर्णाश्रये नास्ति प्रत्ययलक्षणम्' (व्या.प.96) इति नानेन सर्वधा वर्णाश्रयस्य प्रत्ययलक्षणस्य प्रतिषेधः क्रियते, किं तर्हि? `प्रत्ययलोपे प्रत्ययलक्षणम्' (1.1.62) इत्यत्र प्रतययग्रहणस्य प्रयोजनं व्याख्यायते। प्रत्यये लुप्ते द्विविधं कार्यं विज्ञायते--प्रत्ययनिमित्तम्, अप्रत्ययनिमित्तञ्च। तत्र यत् प्रत्ययनिमित्तं तत् प्रत्ययलोपे यथा स्यात्, इतरन्मा भूदित्येवमर्थम्। तेन गवे हितं गोहितमित्यत्र लुप्तायां विभक्ताववादेशो न भवति। अवादेशस्य ह्यचीत्यधिकाराद्वर्णो निमित्तम्, न प्रतयय एव। इह त्वङ्गाधकारात् प्रत्यय एव हलादिराश्रीयत इतीमागमस्य प्रत्ययनिमित्तता। तेनासौ प्रत्ययलक्षणेन भवत्येव। यदि ह्यसौ प्रत्ययनिमित्तस्तत्कथं वर्णाश्रयेऽपयत्रेतयुक्तम्? अतृणेडित्यत्रोदाहरणे त्ययस्य वर्णमात्रत्वात् प्रत्ययविशेषणत्वेन वी वर्णस्याश्रयणादेवमुक्तम्, न त्वप्रत्ययनिमित्तत्वात्, वर्णस्यापि तकारस्य प्रत्ययत्वापरित्यागत्। `तृणहानि' इत्यत्र तदेव लोडुत्तपुरुषैकवचनम्। `तृण्ढः' इति। तस्, `श्नसोरन्लोपः' (6.4.111), पूर्ववड्ढत्वादि, `नश्चापदान्तस्य झलि' (8.3.24) इत्यनुस्वारः, `अनुस्वारस्य ययिपरसवर्णः' (8.4.58) इति परसवर्णो णकरः।
अथ किमर्थमिह तृहीरागतश्नम्को गृह्यते, न तृह इत्येवोच्येत? इत्याह आह--`तृणह' इत्यादि। यद्यागतश्नम्कस्य ग्रहणं न क्रियेत, ततो नाप्राप्ते श्नम्ययमारभ्यते, देशहेतुकश्च तयोर्विरोधोऽस्तीति श्नम णमा बाधा स्यात्। असत्यामपि बाधायामनिष्टा व्यवस्था स्यात्--पूर्वमिम्, पश्चात् श्नम्; ततश्चानिष्टं रूपं स्यात्। आगतश्नम्कस्य ग्रहणे सश्नम्कस्य तृहेरिमि विधीयमाने समावेशस्तयोर्भवति, इष्टा च व्यवश्था सम्पद्यते--पूर्व श्नम्, पश्चादिम्; तस्मात् श्नमि कृते सतीमागमो भवेदित्येवमर्थमागतश्नम्कस्तृहिर्ग्रृह्यते।।
93. ब्रुव ईट्। (7.3.93)
ब्रुवः' इत्येषा पञ्चम्यकृतार्था पूर्वत्र कृतार्थायाः `सार्वधातुके' इत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति तस्मादितयुत्तरस्य' (1.1.67) इति वचनात्। तेन हलादेः पितः सार्वधातुकस्यैवायमिड् विज्ञायत इत्यत आह--`ब्रू इत्येतस्मादुत्तरस्य हलादेः' इत्यादि। कथं पूनर्हल आगमित्वेन तदादिर्लभ्यते, `यस्मिने विधिस्तदादावल्ग्रहणे' (व्या.प.127) इत्युच्यते, न तु यस्य विधिरिति, असति हि तदादिविधावब्रवीदित्यादावेव स्यात्, ब्रवीतीत्यादौ न स्यात्? नैष दोषः; उत्तरत्र ह्यपृक्तग्रहणात् तदादिविधेः सम्भवो गम्यते, अन्यथा ह्यसति तदादिविधौ विनाप्यपृक्तग्रहणेनापृक्त एव भविष्यति, अपृक्तग्रहणमनर्थकं स्यात्। `ब्रवीति' इति। पूर्ववच्छपो लुक्। `ब्रवाणि' इति। तदेव लोडुत्तमपुरुषैकवचनम्। `ब्रूतः' इति। लट्, तस्।।
94. यङो वा। (7.3.94)
`लालपीति' इत्यादि। लपिवदिरौतिभ्यो यङ्; पूर्वयोः `दीर्घोऽकितः' (7.4.83) इत्यभ्यासस्य दीर्घः, रौतेस्तु `गुणो यङ्लुकोः' (7.4.82) इति गुणः, `यङोऽचि च' (2.4.74) इति यङो लुक्। `वर्वर्त्ति, चर्कत्ति' इति। वृञ्कृञोर्यङ्लुकि `ऋतश्च' (7.2.92) इत्यभ्यासस्य रुगागमः।
किं पुनः कारणं यङ्लुक्येवोदाह्रियते, न यङन्ते? इत्याह--`हलादेः' इत्यादि। यङन्ते हि ङित्त्वादात्मनेपदम्, न चात्मनेपदं हलादि पिदस्ति। हलादेः पितः परस्य सार्वधातुकस्याभावान्नेह यङन्तस्योदाहरणम्, किं तर्हि? यङ्लुगन्तस्य। तत्र हि हलादि पित् सार्वधातुकं सम्भवति, यङ्लुगन्तस्यादादौ `चर्करीतञ्च परस्मैभावम्' इति पाठे सति परस्मैपदित्वात्, तेन यङ्लृक्येवोदाह्रियते। चर्करीतमिति यङ्लुगन्तसय पूर्वाचारयसंज्ञा।।
95. तुरुस्तुशम्यमः सार्वधातुके। (7.3.95)
`तु' इति सौत्रो धातुर्वृद्ध्यर्थे इत्येके, हिंसार्थे इत्यपरे। अस्य च लुग्विकरणत्वं स्मर्यते, तच्च `बहुल छन्दसि' (2.4.73) इति बहुलग्रहणेन भाषायामपि लुकसम्पादनाल्लभ्यते। `शमीष्पम्' इति। लोट्। `अशमीध्वम्' इति। लङ्। `अभ्यमीति' इति। लोट्। `अशमीध्वम्' इति। लङ्। `अभ्यमीति' इति। `अम गत्यादिषु' (धा.पा.465) लट्, तिप्। कथं पुनः शम्यमिभ्यामनन्तरं हलादि सार्वधातुकं सम्भवति, यावता शमेर्व्यवधायकेनैव श्याना भवितव्यम्। अमेरपि शप् क्रियते? इत्याह--`शध्यमोः' इत्यादि। विकरणस्यात्र लुक् `बहुलं छन्दसि' (2.3.73) इत्यमेन।
`सार्वधातुकासु' इति। स्त्रीलिङ्गनिर्देशा। स्त्रीलिङ्गस्य सार्वधातुकाशब्दस्यापिशलिना संज्ञात्येन प्रचीतत्वात्।
अथ सार्वधातुकग्रहणं किमर्थम्, यावता `नाभ्यस्तस्याचि पिति सार्वधातुके' (7.3.87) इत्यतः सूत्रात् सार्वधातुकग्रहणमनुवर्तते? इत्याह--`सार्वधातुक इत्यनुवर्त्तमाने' इत्यादि। तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्। अतस्तदनुवृत्तौ पिद्ग्रहणमप्यमुवर्त्तेत तथा चापिति न स्यात्। तस्मादपित्यपि यथा स्यादियेवमर्थं त्सार्वधातुकग्रहणं क्रियते।।
96. असतिसिचोऽपृक्ते। (7.3.96)
`अपृक्ते' इति। सुब्वयत्ययेन षष्ठ्यर्थे सप्तदमी, तेनायमपृक्तस्यैवेट्। अस्तिग्रहणं लङर्थय्। `आसीत्' इति। `अस भुवि' (धा.पा.1065), लङ्, अदादित्वाच्छपो लुक्, `आडजादीनाम्' (6.4.72) इत्याट्। `आटश्च' (6.1.90) इति वृद्धिः। `अकार्षीत्' इति। सिचि वृद्धिः। `अलावीत्, अपाधीत्' इति। `इट ईटि' (8.2.28) इति सिचो लोपः। `आत्थ' इति। अत्र ब्रुष उत्तरस्य सिपः `ब्रुवः पञ्चानामदित आहोब्रुवः' (3.4.84) इति थलि कृते ब्रुवश्चाहादेशे कृते तस्य स्थानिवद्भावे सति ब्रूञ्ग्रहणेन ग्रहमात् थलोऽपि सार्वधातुकग्रहणेन ग्रहणादीट् प्राप्नोति। `अभूत्' इति। अस्तेः सिच्, `अस्तेर्भूः' (2.4.52) इति भूभावे तस्य स्थानिवद्भावे सत्यस्तिग्रहणेन ग्रहणादीट् प्राप्नोति, स कस्मान्न भवति? इत्याह--`आहिभुवोः' इत्यादि। `ईटि प्रतिषेधः' इति। आहेर्भुवश्चेटि कर्त्तव्ये स्थानिवद्बावस्य प्रतिषेधः। तेनेह न भवति--आत्व' इति। `आहस्थः'(8.2.35) इति हकारस्य थकारः, तस्य `खरि च' इति तकारः। `अभूत्' इति। `गातिस्था'(2.4,77) इति सिचो लुक्।।
97. बहुलं छन्दसि। (7.3.97)
`सर्वमाः' इति। अस्तेर्लङ्, पूर्ववदाट्, सियो हल्ङ्यादिलोपः (6.1.68), सकारस्य रुत्वविसर्जनीयो।
`गोभिरक्षाः प्रत्यञ्चमत्साः' इति। `क्षर स़ञ्चलने' (धा.पा.851), `त्सर च्छद्मगतो' (धा.पा.554) इन्ङ्यादिना (6.1.68) सिचो लोपः, `अतो ल्रान्तस्य' (7.2.2) इति वृद्धिः, पूर्ववद्धिसर्जनीयः। `अभैषीः' इति। `ञिभी भये' (धा.पा.1084), सिचि वृद्धिः।
अथाभैषीर्मा पुत्रकेत्यत्र कथमडागमः, यावता `न माङ्योगे' (6.4.74) इति प्रतिषिद्धोऽसौ, इह चाक्षाः, अत्सा इत्यत् सिच ईजागमः कस्मान्न भवति? इत्याह--`छाब्दसत्वात्' इत्यादि। अक्षाः, अतसा इत्यत्र चेडागमाभाव इति च्छान्दसत्वादिति प्रकृतेन सम्बन्धः।
`वा छन्दसि' इति वक्तव्ये बहुलग्रहमुत्तरार्थम्। उत्तरार्थतां चास्योत्तरत्र प्रतिपादपिष्यामः।।
98. रुदश्च पञ्चभ्यः। (7.3.98)
`रुदः' इति सुब्व्यत्ययेन बहुवचनस्यैकवचनम। एतचच `पञ्चभ्यः' इति बहुवचनाद्विज्ञायते। `रुदादिभ्यः सार्वधातुके' (7.2.76) इतीटि प्राप्ते तदपवाद ईडागमो विधीयते। `रुदिर् अश्रुविमोचने' (धा.प.1067), `ञिष्वप् शये' (धा.पा.1068), `श्वस प्राणने' (धा.पा.1069), `अन च' (धा.पा.1070), जक्ष भक्षहसनयोः' (धा.पा.1071)-इत्येते रुदादय आदादिकाः। `अरोदीत्' इति। लङ्। `प्राणीत्' इति। `अनितेः' (8.4.19) इति णत्वम्। `अजागर्भवान्' इति। `अजागर्भवान्' इति। जागर्त्तिः पञ्चभ्यः परेणायं पठ्यते। गुणे रपरत्वे च कृते हल्ङ्यादिलोपः (6.1.68)।।
99. अडू गार्ग्यगालवयोः। (7.3.99)
पूर्वेणेटि प्राप्तेऽडागमो विधीयते। गार्ग्यगालवग्रहणं पूजार्थम्, न तु विकल्पार्थम्। अडीटोरादिलिङ्गत्वादेकविषयत्वाच्च न सम्भवति; समुच्चय इत्यन्तरेणाप्याचार्यग्रहणं विकल्पस्य सिद्धत्वात्।।
100. अदः सर्वेषाम्। (7.3.100)
सर्वेषांग्रहणं पूजार्थम्, न तु नित्यार्थम्; गार्ग्यगालवग्रहस्याविकल्पार्थत्वात्।।
101. अतो दीर्घो यञि। (7.3.101)
तपरकरणमुत्तरार्थम्। खट्वाभिरित्यत्र `बहुवचने झल्येत्' (7.3.103) इत्येत्त्वं मा भूदित्येवमर्थम्।
`अङ्गना' इति। प्रशस्तान्यङ्गान्यस्याः सन्तीति लोमादिना (5.2.100) नप्रत्ययः। `केशवः' इति। केशा यस्य सन्तीति `केशाद् वोऽन्यतरस्याम्' (5.2.109) इति वप्रत्ययः।
`केचिदत्र तिङीत्यनुवर्त्तयन्ति' इति। `भूसुवोस्तिङि' (7.3.88) इत्यतः। तेषां भववानिति क्वसौ सार्वधातुके दीर्घत्वेन न भवितव्यमिति; क्वसोरतिङन्तत्वात्। `भगवान्' इति। भवतेर्लिट्, कवसुः, `छन्दस्युभयथा' (3.4.117) इति तस्य पक्षे सार्वधातुकत्वम्, तेन `कर्त्तरि शप्' (3.1.68) भवति, `सान्तमहतः संयोगस्य' (6.4.10) इति दीर्घः, हल्ङ्यादिसंयोगान्तलोपौ (6.1.68; 8.2.23)।
आदिति वक्तव्ये दीर्घग्रहणम्--दीर्घ एव यथा स्यात्, यदन्यत् प्राप्नोति, तन्मा भूदिति। किञ्चान्यत् प्राप्नोति? `विचार्यमाणानाम्' (8.2.97), `अनन्तरस्याप्येकैकस्य प्राचाम्' `प्रश्नाख्यानयोः' (8.2.105) इति प्लुतः। अथ प्रकृतोऽजागमः कस्मान्न विधीयते? तत्राप्यकः सवर्णे दीर्घत्वेन (6.1.101) वहीति `क्सस्याचि' (7.3.72) इति लोपः स्यात्, अतिजराभ्यामित्यत्राचीति जरस्भावः स्यात्; तन्निवृत्त्यर्थ दीर्घग्रहमं कृतम्। स चात्र प्लुतः प्रसज्येत।।
102. सुपि च। (7.3.102)
103. बहुवचने झल्येत्। (7.3.103)
ननु च वृक्षाणामित्यत्र `नामि' (6.4.3) इति दीर्घत्वं बाधकं भविष्यति, तत् किं तन्निवृत्त्यर्थेन झल्ग्रहणेन? नैतदस्ति; `नामि' (6.4.3) इति ह्यग्नीनामित्यत्र सावकाशम्, तत्रासति झल्ग्रहणे दीर्घत्वं बाधित्वा परत्वादेत्त्वमेव स्यात्।
`पचध्वम्, यजध्वम्' इति। लोट् टेरेत्त्वम्, `सवाभ्यां वामौ' (3.4.91) इत्यामादेशः।।
104. ओसि च। (7.3.104)
105. आङि चापः। (7.3.105)
`आङिति पूर्वाचार्यनिर्देशेन' इत्यादि। आचार्या हि पूर्व आङिति तृतीयैकवचननिर्देशं कुर्वन्ति स्म। तस्मात् तदीयेनाङिति निर्देशेन तृतीयैकवचनं गृह्यते। `खट्वया' इति टाबन्तस्योदाहरणम्। `बहुराजया' इति। जावन्तस्योदाहरणम्। `डाबुभाभ्यामन्यतरस्याम्' (4.1.13) इति डाप्। `कारीषगन्ध्यया' इति। चाबन्तस्य। करीषस्येव गन्धोऽस्य `उपमानाच्च' (5.4.137) इतीत्--करीषगन्धिः, `तस्यापत्यम्' (4.1.92) इत्यण्, तस्य `अणिञोरनार्षयोः' (4.1.78) इत्यादिना व्यङ्, तदन्तात् `यङश्चाप्' (4.1.74) इति चाप्।
`कीलालपा' इति। कीलालं पिबतीति `अतो मनिन्क्वनिब्वनिपश्च' (3.2.74) इति विच्, तदन्तात् तृतीयैकवचनम्, `आतो धातोः' (6.4.140) इत्यकारलोपः।
अथेह कस्मान्न भवति--खट्वामतिक्रान्तेनातिखट्वेनेति, उपसर्जनह्रस्वत्वे कृते स्थानिवद्भावात् तस्य प्राप्नोति? इत्याह--`ङ्याब्ग्रहणम्' इत्यादि। केचिदाहुः--ङ्याब्ग्रहणे दीर्घग्रहणमित्येतद्वचनं कर्त्तव्यम्, तेन ह्रस्वत्वे कृते न भवति अपरे त्वाहुः--`हल्ङ्याब्भ्यो दीर्घात्' (6.1.68) इति योगविभागः कर्त्तव्यः, यावच्छास्त्रे ङ्यापोः कार्य तत् सर्वं दीर्घयोर्यथा स्या ह्रस्वयोर्मा भूदिति; ततः `सुतिस्यपृक्तम् (6.1.68) इति द्वितीयो योगः, तत्र `हल्ङ्याग्भ्यः' इत्यनुवर्त्तत इति।
चकारः `ओप्ति च' (7.3.104) इत्यनुकर्षणार्थः।।
106. सम्बुद्धौ च। (7.3.106)
107. अम्बार्थनद्योर्ह्वस्वः। (7.3.107)
पूर्वस्यायमपवादः। अम्बार्थाः=मात्रर्थाः।
`डलकवतीनाम्' इत्यादि। डलाका यासां श्रुतीनां सन्तीति ता डलकवत्यः। असंयोगावयवभूता डलका इह गृह्यन्ते। अन्यथा हे अक्क, हे अल्ल--इत्यत्रापि स्यात्। वक्तव्यशब्दस्य व्याख्यय इत्येषोऽर्थः। उत्तरयोरपि वक्तव्यशब्दयोरयमेवार्थो वेदितव्यः। तत्रैदं व्याख्यानम्--`बहुलं छन्दसि' (7.3.97) इत्यतो बहुलग्रहणं मण्डूकप्लुतिन्यायेनानुवर्त्तते, तेन सर्वं प्रतिषेधादिकं कार्यमपि भविष्यतीति।
`अर्हते' इति। प्रशंसाभाजनभूतायेत्यर्थः। `गार्गोमाता' इति। यो गार्ग्या मात्रा ष्यपदेशेन प्रशंसामर्हति स एवमुच्यते।।
108. ह्रस्वस्य गुणः। (7.3.108)
ह्रस्वग्रहणं प्रकृताङ्गविशेषणम्, विशेषणेन च तदन्तविधिर्भवतीत्याह--`ह्स्वान्तस्य' इत्यादि। एवमुत्तरत्रापि तदन्तविधिर्वेदितव्यः।
अथ हे कुमारि, हे ब्रह्मबन्ध्वित्येवमादीनां कस्मान्न भवति? इत्याह--`हे कुमारि' इत्यादि। यदि ह्रस्वत्वे कृते गुणः स्यात्, ह्रस्वकरणमनर्थकं स्यात्। ननु च गुणार्थमेतत् स्यात्, असति हि तस्मिन् `ह्रस्वसय गुणः' (7.3.108) इति गुणो न स्यात्, अह्रस्वान्तत्वात्? इत्याह--`यदि' इत्यादि। एवं प्रक्रियागौरवं परिहृतं भवतीति भावः।।
109. जसि च। (7.3.109)
`जसादिषु' इत्यादि। आदिशब्दः प्रकारे। जस्प्रकारेषु प्रत्ययेष्वित्यर्थः। `इतः प्रकरणात्' इति। `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इत्येवमादिकात्। `छबदसीति वक्तव्यम्' इति। छन्दसि विषये वा कार्यं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु तदेव बहुलवचनमाश्रित्य कर्त्तव्यम्। `अम्बे' इत्यादि। `अम्बार्थनद्योर्ह्रस्वः' (7.3.107) इति ह्रस्वो न भवति। `दर्वी' इत्यत्र ह्रस्वस्य गुणः। `शतक्रत्वः' इत्यत्रापि `जसि च' (7.3.109) इति। `पश्वे' इति। `धेर्ङिति' (7.3.111) इति गुणः। `किकिदीव्या' इति। अत्र `आङो नास्त्रियाम्' (7.3.120) इति नाभावः।।
110. ऋतो ङिसर्वनामस्थानयोः। (7.3.110)
`तपरकरणं मुखसुखार्थम्' इति। न हि ङिसर्वनामस्थानयोर्दीर्घ ऋकारः सम्भवति यस्तपरेण निवर्त्त्येत।।
111. घेर्ङिति। (7.3.111)
`सख्ये, पत्ये' इति। सखिपतिशब्दौ घिसंज्ञकौ न भवतः; `शेषो ध्यसखि' (1.4.7) इति पर्युदासात्; `पतिः समास एव' (1.4.8) इति नियमाच्च। `पट्वी' इति। `वोतो गुणवचनात्' (4.1.44) ङीषु। अत्र गुणो न भवति; `सुपि च' (7.3.102) इत्यतः सुपीत्यनुवृत्ते `कुरुतः' इति। करोतेस्तस्, उप्रत्ययः, धातोर्गुणः, रपरत्वम्, `अत उत् सार्वधातुके' (6.4.110) इत्युत्त्वम्। अत्रापि सुपीत्यनुवृत्तेस्तसि परतो विकरणान्तसय न भवति गुणः।।
112. आण्नद्याः। (7.3.112)
`नद्याः' इति पञ्चमी, सा चाकृतार्था पूर्वत्र कृतार्थाया ङितीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। तेन ङित एवायमाडागमो विज्ञायते, इत्याह--`नद्यन्तादङ्गादुत्तरस्य' इत्यादि। `कुमार्यै' इत्येवमादौ `आटश्च' (6.1.90) इति वृद्धिः।
अथ दीर्घोच्चारणं किमर्थम्, न अडेवोच्येत, `वृद्धिरेचि' (6.1.88) इति वृद्ध्या सवर्णदीर्घत्वेन सिद्ध्यत्येव; कुमार्यै, कुमार्या इत्यत्र `अतो गुणे' (6.1.97) पररूपत्वं प्राप्नोतीत्येतच्च नाशङ्कनीयम्, पररूपत्वं ह्यत्र वचनसामर्थ्यान्न भविष्यति? नैष दोषः; अस्ति ह्यन्यदवचनस्य प्रयोजनम्। किं तत्? श्रियै, श्रिया इत्यत्र `सावेकाचस्तृतीयादिर्विभक्तिः' (6.1.168) इत्युदात्तत्वं मा भूत्। आगमा आद्युदात्ता भवन्तीत्यनुदात्तत्वं यथा स्यादिति। शक्यते ह्येकादेशोन्तादिवद्भावादागमग्रहणेन ग्रहीतुम्। आगमानुदात्तत्वञ्च यथा प्रत्ययस्वरम्--लविता, लवितुमित्यादौ बाधते, तथा विभक्तस्वरमपि बाधेत। तस्मात् `आटश्च' (6.1.90) इति वृद्ध्यर्थमेतत्।।
113. याडापः। (7.3.113)
`खट्वायाम्' इति। `वृद्धिरेचि' (6.1.88) इति वृद्धिः। खट्वाया इत्यत्राकः सवर्णे (6.1.101) दीर्घोच्चारणम्--वृद्धिसवर्णदीर्घत्वे यथा स्याताम्, पररूपत्वं मा भूदित्येवमर्थम्। अकारोच्चारणसामर्थ्यान्न भविष्यतीति चेत्? न; अस्ति ह्यन्यदकारोच्चारणस्य प्रयोजनम्। किं तत्? ज्ञायै, ज्ञाया इत्यत्र `सावेकाचस्तृतीयादिर्विभक्तिः' (6.1.168) इत्यनेनोदात्तत्वं मा भूत्, आगमनुदात्तत्वं यथा स्यादिति।
अथ खट्वामतिक्रान्तायातिखट्वायेत्यत्र कस्मान्न भवति, उपसर्जनह्रस्वत्वे कृते तस्य स्थानिवद्भावादाव्ग्रहणेन ग्रहणे सति प्राप्नोति? इत्यत आह--`अतिखट्वाय' इत्यादि। यदा तावत् `सुपि च' (7.3.102) इति दीर्घत्वं न क्रियते, तदा ङ्याव्ग्रहणेन दीर्घग्रहणमित्येतद्ववचनान्न भवति। यदा दीर्घत्वं तदा लाक्षणिकत्वान्न भवति; `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (व्या.प.3) इति वचनात्।।
114. सर्वनाम्नः स्याड्ढ्स्वश्च। (7.3.114)
याटोऽपवादः। आकारोच्चारणं सर्वस्या इत्यत्र यथा स्यात्, अन्यथा पररूपत्वं प्रसज्येत। अकारोच्चारणसामर्थ्यान्न प्रसज्येत--इत्येतच्च नाशङ्कनीयम्, तद्धि तस्यामित्यत्र `ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (6.1.171) इति विभक्त्युदात्तत्वं मा भूत्, आगमानुदत्तत्वं यथा स्यादित्येवमर्थम्।।
115. विभाषा द्वितीयातृतयाभ्याम्। (7.3.115)
असर्वनामार्थं वचनम्। ये तु `वाप्रकरणे तीयस्य ङित्सूपसंख्यानम्' (वा. 6) इति सर्वनामसंज्ञां तीयस्योपसञ्चक्षते त इदं सूत्रं प्रत्याचक्षते; तेनैव सिद्धत्वात्। तच्चोपसंख्यानमवश्यं कर्त्तव्यम्, स्मायादयो ङिति विकल्पेन यथा स्युरिति--द्वितीयस्मै, द्वितीयाय, द्वितीयस्मिन्, द्वितीय इति। अन्ये त्वनेनैव स्मायादयः सिध्यन्तीत्युपसंख्यानमेव प्रत्याचक्षते। कथम्? `सर्वनाम्नः' इत्येतदिहानुवर्त्तते, स्याडिति निवृत्तम्, तेनैवमभिसम्बन्धः क्रियते--सर्वनाम्नो ङिति यदुक्तं तद्विभाष द्वितीयातृतीयाभ्यां भवतीति। तेन स्यायादयोऽपयनेनैव भविष्यन्तीति नार्थ उपसंख्यानेन।।
116. ङेराम्नद्याम्नीभ्यः। (7.3.116)
`ङेः' इति सप्तम्येकवचनस्य ग्रहणम्। एतच्च `स्त्रियाम्' इत्येवमादिनिर्देशाद्विज्ञायते। `ग्रामण्याम्' इति। ग्रामं नयतीति `सत्सूद्विष' (3.2.61) इत्यादिना क्विप्, `अग्रग्रामाभ्याञ्च' इति णत्वम्। `एरनेकाचः' (6.4.72) इति यणादेशः। अथ कुमार्याम्, खट्वायाम्, सर्वस्यामिति कथं सिध्यति, आमि कृते `ह्रस्वनद्यापो नुट्' (7.1.54) इति नुडागमेन भवितव्यम्? नैष दोषः; नुटः परत्वादाट्--याट्--स्याटो भवन्ति। तेष कृतेषु नुटः प्राप्तिरेव नास्तीति, न हि द्वयोरादिलिङ्गयोः समुच्चय उपपद्यते।।
117. इदुद्भ्याम्। (7.3.117)
नदीग्रहणमिहनुवर्त्तते। तेन चेदुतौ विशिष्यतेते नदीसंककौ यादिदुताविति। यद्येवम्, अनर्थकमिदम्, पूर्वेणैव सिद्धत्वात्? नैतदस्ति; औकरो हि परत्वदुत्तरसूत्रेण स्यात्, अस्मिंश्च सत्यामेव भवति।।
118. औत्। (7.3.118)
नदीसंज्ञकात् परस्य ङेराम् पूर्वेण विहितः, घिसज्ञकादुत्तरेणात्त्वसन्नियुक्तमौकारं वक्ष्यति, तस्मात् पारिशेष्यात् ताभ्यां यदन्यदिकारोरान्तं तदिहोदाहरणं विज्ञायत इत्याह--`यग्न नदीसंज्ञम्' इत्यादि। अत्र च सखिपतिशब्दावस्त्र्याख्यात्वान्नदीसंज्ञकावपि न भवतः। घखिसंज्ञको यथा न भवतस्तथा पूर्वमेव प्रतिपादितम्।।
119. अच्च घेः। (7.3.119)
अथात्त्वे कृते `अजाद्यतष्टाप्' (4.1.4) इति--कृतौ, धेनादित्येवमादौ टाप् कस्मान्न भवति? इत्याह--`अदिति तपरकरम्' इत्यादि। यस्मात् तपरकरणं टाब्निवृत्त्तयर्थं क्रियते, तस्मात् कृतेऽप्यत्त्वे टाब्न भवतीति भावः। तपरकरणं हि तत्कालावधारणार्थम्। न चात्र भाव्यमानत्वादणो मात्रिकत्वाच्च स्थानिनो दीर्घत्वस्य प्राप्तिरस्ति। अतोऽन्येनापि हेतुना यद्दोर्घत्वमापद्यते तत्प्रतिषेधार्थमुपजायमानं तट्टापोऽभावमापादयति। टापि हि सत्यकः सवर्णे (6.1.101) दीर्घत्वं स्यात्। तथा चानर्थकं तपरकरणं स्यात्। तस्मान्मा भूदनर्थकमिति कृतेऽप्यत्त्वे टापा न भवितव्यमिति।
`औदच्च धेरिति येषाम्' इत्यादि। इह केचित् `औदच्च र्घेः' इत्येकं योगं कुर्वन्ति; तथा च सत्यौत्त्वात्त्वयोः सन्नियोगशिष्टत्वाद्यत्रात्त्वं तत्रैवोत्त्वेन भवितव्यम्। घेश्चात्त्वमिति सख्यौ, पत्यावित्यत्रात्त्वाभावादौत्त्वमपि न स्यात्। अतस्तस्य दोषस्य परीहाराय येषामेक एवायं योगस्ते प्रधानशिष्टमौत्त्वमाचक्षते। यथा `कर्त्तुः क्यङ् सलोपश्च' (3.1.11) इत्यत्र प्रधानशिष्टमाचक्षते क्यङम्, अक्षवाचयशिष्टं सलोपम्। यथा तत्रैव--तत्रासत्यपि सलोपे यथा क्यङ् भवति श्येनायते--इत्यादौ; एवमसत्यप्यत्त्वे सख्यौ, पत्यावित्यत्रौत्त्वं भवतीति तेषामभिप्रायः।।
120. आङो नाऽस्त्रियाम्। (7.3.120)
आङ इति स्थान्यन्तरनिर्देशादिहार्थाद्विभक्तिविपरिणामो भवतीति षष्ठ्यन्तं यद्घेरिति प्रकृतं तदिह पञ्चम्यन्तमुपजायत इत्याह--`घेरुत्तरस्य' इत्यादि। अथ किमरथम् `अस्त्रियाम्' इत्युच्यते, `आङो ना पुंसि' इत्येवोच्येत; एवमुच्यमाने त्रपुणा जतुनेत्येतन्न सिध्यतीत्येतच्च नाशङ्कनीयम्; `इकोऽचि विभक्तौ' (7.1.73) इति नुमैव सिद्धत्वात्? इति यो मन्येत, तं निराकर्त्तुम्--`अमुना ब्राह्मणकुलेन इत्यस्योपन्यासः। अत्र हि त्यदाद्यत्वे कृते `अदसोऽसेर्दादु दो मः' (8.2.80) इत्युत्त्वमत्वे च। तत्र यदि पुंसीत्युच्यते, ततोऽमुनेति नपुंसके न सिध्येत्; मुभावस्यासिद्धत्वात्। नुमोऽभावात् `अस्त्रियाम्' इत्युच्यमाने नपुंसकेऽपि नाभावो भवतीत्यमुनेति सिद्धं भवति। न हि नाभावे कर्त्तव्ये मुभावस्यासिद्धत्वम्; `न मु ने' (8.2.3) इति वचनादत्यभिप्रायः।।
इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां सप्तमाध्यायस्य
तृतीयः पादः
- - -