सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/द्वितीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः काशिकाविवरणपञ्जिका
तृतीयः पादः
[[लेखकः :|]]
चतुर्थः पादः →

अथ द्वितीयाध्यायस्य
तृतीयः पादः
1. अनभिहिते। (2.3.1)
दधातेर्हिनोतेर्वाऽनभिहित इत्यस्य रूपम्; समानत्वात्, अनेकार्थत्वाच्च धातूनाम्। न ज्ञायते किमर्थस्यानभिहितशब्दस्य ग्रहणमिति सन्देहः स्यात्, अतस्तं निराकर्त्तुमाह-- `अनभिहितेऽनुक्ते' इत्यादि। यद्यनभिहिते कर्मादौ द्वितीयादयो विभक्तयो भवन्तीति सामान्येनोच्येत; ततो यथा `कृतः कटः' इत्यत्र क्तप्रत्ययेन कर्मणोऽभिहितत्वात् कटशब्दाद्‌द्वितीया न भवति, तथा `कटं करोति', `भीष्ममूदारं शोभनं दर्शनीयम्' इत्यत्र कटशब्दादुत्पद्यमानया द्वितीयया भीष्मादिगतस्य कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोति। तस्मात् कश्चिद्विशेषोऽत्राभिमत इति मत्वा तं विशेषं पृच्छति-- `केनानभिहितते'? इति। इतरो विदिताभिप्राय आह-- `तिङकृत्तद्धितसमासैः' इत्यादि। क्रियत इति कर्मणि लकारः। `सार्वधातुके यक्' (3.1.67)। `रिङ शयग्लिङशु' (7.4.28) इति रिङादेशः। `शत्यः, शतिकः' इति। `शताच्च ठन्यतावशते' (5.1.21) इति ठन्यतौ भवतः।
`बहुषु बहुवचनम्' इत्येवमादि। तत्रेदमुक्तम्- कर्मादयोऽव्यपरे विभक्तीनां वाच्याः, अत स्तदीये बहुत्वे बहुवचनं भवतीति। एवञ्च ब्रुवता वृत्तिकृता कर्माद्याश्रितायां संख्यायां द्वितीयादयो विभक्तयो भवन्तीत्येतदुक्तं भवति। न च तत्र कश्चिद्विशेष उपात्तः। सन्ति च कर्मादयोऽभिहिताः, अनभिहिताश्च। तत्र विशेषानुपादान्त, यथा अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो विभक्तयो भवन्ति, तथाऽभिहितकर्माद्याश्रयेष्वपि स्युः। अतोऽनभिहिता ये कर्मादयस्तदाश्रयेष्वेकत्वादिषु यथा विभक्तयः स्युरन्यत्र मा भूवन्नित्यनभिहित इत्येतद्विशेषणमारभ्यते। `अनभिहितकर्माद्याश्रयेषु' इति। अनभिहिताः कर्मादय आश्रया येषामिति बहुव्रीहिः। एतेन `बहुषु बहुवचनम्' (1.4.21) इत्यादेः शास्त्रस्य, अनभिहित इत्येतस्य च `कर्मणि द्वितीया' (2.3.2) इत्येवनमादिभिः सहैकवाक्यतां दर्शयति-- अनभिहिते कर्मणि द्वितीया बहुषु बहुवचनमिति। एवमन्यत्राप्येकवाक्यता वेदितव्या। एकवाक्यता च गुणप्रधानभावमन्तरेण न सम्भवतीत्येकस्य गुणभावेन भवितव्यम्, अपरस्य प्रधानभावेन। तत्र विशेषणत्वादनभिहित इत्यस्य कर्माद्येपेक्षया गुणबावः, कर्मादीनां तु विशेष्यत्वात् प्राधान्यम्, एकत्वाद्यपेक्षया कर्मादीनान्तु विशेषणत्वादप्राधान्यम्। एकत्वादीनां विशेष्यत्वात् प्रधानभावः। अथ कथं कटशब्दादुत्पद्यमाना द्वितीया मीष्मादिपदानुगतं कर्माभिदधाति, यथा-- निष्ठेति चेत् ? स्याददत्-- `यथा कटः कृतो भीष्म उदारः शोभनो दर्शनीय इत्यत्र करोतेः कर्मण्युत्पद्यमाना निष्ठा सर्व भीष्मादिकमपि कर्माभिदधाति,तथा कटशब्दादुत्पद्यमाना द्वितीया' इति, वार्त्तमेतत्; कृत इति क्रियाकारकसम्बन्धनिमित्तकभिधानम्। क्रिया चोत्पद्यमाना सामर्थ्यात् सर्वाणि कारकद्रव्याण्याक्षिपति। ततः कृञ उत्पद्यमानः क्तः साधारणतया यावत् करोतेरुयाति कर्मतां तावत् सर्वमेवाभिदधातीति युक्तम्। भीष्मादिगताया अपि कर्मतायाः क्तप्रत्ययेनाभिधानम्। कटस्तु विशिष्टद्रव्यवचनः, तत उत्पद्यमाना द्वितीया तद्गतमेव कर्म शक्नोत्यभिधातुम्, नान्यगतं किञ्चित्, तत्कथं तया भीष्मादिगतमपि कर्माभिधीयते ? तथा च निरर्थकं परिगणनम्। तस्मात् तिङकृत्तद्धितसमासैरेवाभिधानं सम्भवतीति सम्भवदुदाहरणप्रदर्शनमपरमेतत् परिसंख्यानं वेदितव्यम्, न परिगणनम्।।

2. कर्मणि द्वितीया। (2.3.2)
द्वितीया तिङविभक्तिरप्यस्तीति तस्या अप्यत्र ग्रहणमिति कस्यचिदाङ्का स्यात्, अतस्तन्निराकर्तुमाह-- `द्वितीयादयः शब्दाः' इत्यादि। कर्मशब्देनेह साधनं कर्म गृह्यते, न तु क्रियाकर्म। तथा हि - ये विभक्त्यर्था एकत्वादयस्तेषां विशेषणत्वेनैव कर्मादयोऽनुक्रंस्यन्ते। न च क्रियाकर्मणि द्वित्वबहुत्वे स्तः; साधनकर्मणि तु विद्येते, तस्मात् तस्यैव ग्रहणं युक्तम्, नेतरस्य।
`उभसर्वतसोः'इत्यादि। उभसर्वशब्दयोस्तसिप्रत्ययान्तयोः प्रयोगे द्वितीयाविभक्तिः कार्याः। शेषलक्षणायां षष्ठ्यां प्राप्तायामयमारम्भः। उभसर्वतसोरित्यत्र यद्युप्यभशब्दः पठितस्तथापि सामर्थ्यादुभयशब्दो गृह्यते; साधर्म्यात्। न ह्युभशब्दस्तसिप्रत्ययान्तोऽस्ति; तस्य नित्य्दविवचनटाब्विषयत्वात्। तथा चोक्तम्-- `अन्यभावो निे्त्यद्विवुचनटाब्विषयत्वादुभयोऽन्यत्र' (1.1.27-वा.8,9) इति। `उभयतः, सर्वतः' इति। `पञ्चम्यास्तसिल्' (5.3.7)। धिक्शब्दयोगेऽपि द्वितीया कार्या। तथोपर्यादिषु त्रिषु योगे द्वितीया कार्या। `आम्रेडितान्तेषु'इति। कृतद्विर्वचनेष्वित्यर्थः। `उपर्युयरि ग्रामम्' इत्यादौ `उपर्यध्यधसः सामीप्ये' (8.1.7) इति द्विर्वचनम्। `ततोऽन्यत्रापि दृश्यते' इति। यथोक्तादन्यत्रापि दृश्यते द्वितीयेति सम्बन्धः।
क्व चान्यत्र दृश्यत इत्यत आह-- `अभितः' इत्यादि। `प्रयभिभ्याञ्च' (5.3.9) इति तसिः। अपिशब्दो विकल्पार्थः। अपि दृश्यतेऽपि न दृश्यतेच। तेन हा तात हा मातरित्यादि सिध्यति।।

3. तृतीया च होश्छन्दसि। (2.3.3)
`यवाग्वाऽग्नहोत्रं जुहोति' इति। यद्यप्यत्र `सुपां सुपो भवन्ति' (वा.818) इति द्वितीयास्थाने तृतीयादेशविधानेऽप्येतत् सिध्यति; तथापि पयसा जुहोति, आज्येन जुहोतीत्येवमादि न सिध्यति। तथा हि-- स्थानिवद्भावात् `स्वमोर्नपुंसकात्' (7.1.23) इत्येकस्य लुक् प्राप्नोति। अपरस्य `अतोऽम्' (7.1.24) इत्यम्भावः।।

4.अन्तरान्तरेण युक्ते। (2.3.4)
`अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्गृह्येते' इति। अयमन्तराशब्दो यद्यपि स्त्रीप्रत्ययान्तोऽस्ति, तथाऽस्त्रीप्रत्ययान्तोऽपि;अन्तरेणशब्दस्त्वस्त्रीप्रत्ययान्तो गृह्यते। यश्चास्त्रीप्रत्ययान्तोऽन्तराशब्दः स निपात एवेत्यन्तराशब्दस्य तावन्निपातस्य ग्रहणम्। अतस्तेन निपातेन साहचर्यादन्तरेणशब्दस्यापि तस्यैव ग्रहणम्। तेनानिपातो यस्तृतीयान्तोऽन्तरेणशब्दः, यश्च टाबन्तोऽन्तराशब्दस्ताभ्यां योगे द्वितीया न भवति। किं ते बाभ्रावाणां शालङ्कायमानाञ्चान्तरेण गतेन ? ग्रामयोरन्तरायां पुरि वसतीत्यन्तरशब्दोऽत्र विशेषवचनः। गमिरपि ज्ञानवचनः। किं ते विशेषण ज्ञानेनेत्यर्थः। `षष्ठ्यपवादोऽयं योगः' इति।र शेषलक्षणायां षषठ्यां प्राप्तायामस्यारम्भात्। षष्ठ्यापवादत्वमस्य योगस्यान्तरान्तरेणशब्दार्थप्रदर्शनद्वारेण विस्पष्टीकर्त्तुमाह-- `तत्र' इत्यादि। मध्यं हि सम्बन्धिशब्दत्वादमध्यभूतं द्वितीयं सम्बन्धिनमपेक्ष्य भवति। तत्र यदपेक्षं मध्यत्वं ततो मध्येन व्यतिरेके समुपजनिते षष्ठी प्राप्नोति। विनार्थोऽपि शेष एव। अत्रापि षष्ठ्येव प्राप्नोति। `अन्तरा त्वाञ्च माञ्च कमण्डलुः' इति। तव मम मध्ये कमण्डलुरित्यर्थः। अथ कमण्डलुशब्दाद्द्वितीता कस्मान्न भवति ? सत्यप्यन्तरान्तरेणयोगे तस्य प्राधान्यात्। तथा हि-- कमण्डलोः स्वार्था प्रवृत्तिः , युष्मदस्मदोस्तु परार्था; कमण्डलुविशेषणत्वेन तयोः प्रवृत्तत्वात्। तत्र कमण्डलोः स्वार्थे वर्त्तमानात् प्राधान्येनावस्थित्वात् प्रातिपदिकार्थादप्रच्युतत्वात् परत्वात् प्रथमैव भवति। द्वितीयायास्त्वप्रधाने युष्मदस्मच्छब्देऽवकाश इति ताभ्यां तेनेव प्रथमान्तेन कमण्डलुनोपजनिते व्यतिरेके षष्ठ्यां प्राप्तायां द्वितीया विधीयते। `अन्तरेण पुरुषकारम्' इति। विना पुरुषकारेणेत्यर्थः।
`अन्तरा तक्षशिलां पाटलिपुत्रञ्च स्रुघ्‌नस्य प्राकारः' इति। अत्र स्रुघ्नः प्राकारविशेषणत्वेनोपक्षीणसामर्थ्य इति न भवति त्सयान्तराशब्देन योगः।।

5. कालाध्वनोरत्यन्तसंयोगे। (2.3.5)
कालाध्वनोरित्यर्थग्रहणम्। अत आह-- `कालशब्देभ्योऽध्वशब्देभ्यश्च' इत्यादि। `मासस्य द्विरधीते। क्रोशस्यैकदेशे पर्वतः। योजनस्यैकदेशे पर्वतः' इति। नात्र `कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया भवति।।

6. अपवर्गे तृतीया। (2.3.6)
`अपवर्गः'इति। अत्यन्तसंयोगस्य फलरूपमेतद्विशेषणमुपात्तम्। तच्च क्रियात्यन्तसंयोगस्यैव सम्भवति, नान्यस्यति सामर्थ्यादत्र क्रियात्यन्तसंयोग एव गृह्यते। सर्वस्याश्च क्रियायाः परिसमाप्तिरस्ति; तस्माद्विशेषणोपादानसामर्थ्यात् फलप्राप्तौ सत्यां क्रियायाः परिसमाप्तिरिहापवर्गो विज्ञायत इत्यत आह-- `फलप्राप्तौ' इत्यादि। `कर्त्तृव्यावृतौ' इति। न हि मासमधीतोऽनुवाको न चानेन गृहीत इत्युक्तेऽपवर्गो गम्यते, किं तर्हि ? कर्त्तुरशक्तिमात्रम्। न च तत्रापवर्गव्यपदेशः।।

7. सप्तमीपञ्चम्यौ कारकमध्ये। (2.3.7)
`अद्य भुक्त्वा देवदत्तो द्व्यहे भोक्ता, द्व्यहाद्भोक्ता' इति। ननु चात्र एक एव कर्त्ता, कारकभेदे सति तन्निबन्धनो मध्यव्ययपदेशो भवति, तत् कथमसति कारकभेदे कारकयोर्मध्ये कालो भवतीत्यत आह-- `कर्त्तृशक्त्योः'इत्यादि। न हि द्रव्यं कारकम्, किं तर्हि ? शक्तिः, सा चेह भिद्यते। तथा हि-- देवदत्ते द्वे शक्ती व्यवस्थिते; एकाद्य भुजेः साधनम्, अपरा द्व्यहेऽतीति इति कर्त्तृशक्तिभेदे सति युक्तो मध्यव्यपदेशः। `कर्त्तृकर्मणोः' इत्यादि। इष्वासः कर्त्ता, लक्ष्यं कर्म। `कर्मापादानयोः' इति. कर्म तदेव। अपादानं यतः परो निर्याति। `कर्माधिकरणयोर्वा' इति। इहेत्यनेन यन्निर्दिश्यतेतदधिकरम्। कर्म च तदेव। `तयोर्मध्ये क्रोशः' इति। क्रोशस्येहापादानाधिकरमत्वाभावात् सप्तमीप़ञ्चम्यौ न भवतिः। न हि क्रोशाच्छरोऽपैति, किं तर्हि ? तदेकदेशात्। नापि क्रोशे व्यवस्थितं लक्ष्यम्, किं तर्हि ? तदेकदेश एव। तस्मात् क्रोशस्य शेषत्वात् षष्ठ्यां प्राप्तायां सप्तमीपञ्चम्यौ विधीयेते। अथात्र संख्यातानुदेशः कस्मान्न भवति ? यावता कालाध्वनौ हि द्वौ, सप्तमीपञ्चम्यावपि द्व, अत एव सामात् संख्यातनुदेशेन भवितव्यम्- कालात् सप्तमी, अध्वनः पञ्चमीत्यत आह-- `संख्यातानुदेशः' इत्यादि। `स्वरितेनाधिकारः' (1.3.11) इत्यत्र स्वरितेनेति योगविभागः कृतः, तत पूर्वेणापि सम्बध्यते. यत्र स्वरितत्वं प्रतिज्ञायते तत्र यथासंख्यं यथा स्यात्। इह तु स्वरितत्वं नास्ति, अतो न भवति संख्यातानुदेशः।।

8. कर्मप्रवचनीययुक्ते द्वितीया। (2.3.8)
`शाकल्यस्य संहितामनु प्रावर्षत्' इति। `अनुर्लक्षणे' (1.4.84) इति कर्मप्रवचनयीसंज्ञा।

9. यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी। (2.3.9)
`उपखार्यां द्रोणः' इति। खार्या अधिको द्रोण इत्यर्थः। `उपोऽधिके च' (1.4.87) इत्युपशब्दस्य कर्मप्रवचनीयसंज्ञा। `यस्य चेश्वरवचनम्' इति। यस्य चेश्वरव्यपदेश इत्यर्थः। ईश्वरव्यदेशस्तु स्वामिन एव सम्भवति। तत्रैव सप्तम्या भवितव्यमिति कस्यचिद्भ्रान्ति स्यात्, अतस्तान्निराकर्त्तुमाह-- `यस्य चेश्वरवचनम्' इत्यादि। यस्य चेश्वरवचनमित्यनेन द्वयोरपि = स्वस्वामिनोः पर्यायेण सप्तमी भवतीति। कथम्, यावता `अधिरीश्वरे' (1.4.97) इत्यनेनाधिकशब्दस्य कर्मप्रवचनीयसंज्ञा विहिता, ईश्वरस्तु स्वमी, स च स्वमपेक्ष्य भवति ? स्वस्वामिसम्बन्धेऽधिशब्दः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामी कर्मप्रवचनीयविभक्तया युज्यते, कदाचित् स्वमित्येतत् प्रतिपादितं प्रागेव। कथं पुनर्यस्य चेश्वरवचनमित्युच्यमाने स्वमपि कर्मप्रवचनीयविभक्त्या युज्यते, न हि तस्येश्वरव्यपदेशोऽस्ति ? एवं तर्हि अनुक्तसमुच्चयार्थश्चकारः क्रियते, तेन यस्येश्वरव्यपदेशो नास्ति तत्रापि सप्तमी विज्ञायत इत्यदोषः।।

10. पञ्चम्यापाङपिरभिः। (2.3.10)
अपपरिशब्दयोः `अपपरी वर्जने' (1.4.88) इत्यनेन कर्मप्रवचनीयसंज्ञा विहिता, आङश्च `आङमर्यादावचने' (1.4.89) इत्यनेन। `वृक्षं परि विद्योतते' इति। परिः `लक्षणेत्यम्भूतख्यान'(1.4.90) इत्यादिना।।

11. प्रतिनिधिप्रतिदाने च यस्मात्। (2.3.11)
`मुख्यसदृशः प्रतिनिधिः' इति। मुख्यो यः कश्चित् कार्ये रूढः = समर्थः, प्रसिद्धः = प्रधानभूतस्तेन सदृशो यस्तदभावे तस्य कार्यस्य सिद्ध्यर्थमुपादीयते स प्रतिनिधिः। `अभिमन्युरर्जुनतः प्रति' इति। मुख्यादर्जुनादभिमन्युः प्रतिनिधिस्ततः पञ्चमीविभक्तिर्भवति। प्रतियोगे पञ्चम्यास्तसिः। `माषानस्मै तिलेभ्यः प्रतियच्छति' इति। ये तिलाः पूर्वं दत्तास्तेभ्यो माषाणां प्रतिदानम्। तिलेभ्य इति पञ्चमी भवति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः।
ननु च `प्रतिः प्रतिनिधिप्रतिदानयोः' (1.4.92) इति प्रतेः प्रतिनिधिप्रतिदानरोरेवार्थयोः कर्मप्रवचनीयसंज्ञा, तयोरेव प्रतिना योग उपपद्यते, न तु यतस्ते तस्येति मन्यमान आह-- `ननु च' इत्यादि। `सम्बन्धसम्बन्धात्' इति। सम्बध्यत इति सम्बन्धः=प्रतिनिधिः, प्रतिदानञ्च, तदुभयमयि कर्मप्रवचनीयेन प्रतिना युज्यते। तेन सम्बन्धेन यः सम्बन्धः स सम्बन्धसम्बन्धः। कस्यपुनस्तेन सम्बन्धः ? यतः प्रतिनिधिः प्रतिपादनञ्च तस्य। सम्बन्धिशब्दौ हि प्रतिनिधिप्रतिदानशब्दौ। तौ च नासति पूर्वविज्ञाते मुख्ये पूर्वदत्ते च भवति इति प्रतिनिधिप्रतिदानाभ्यां यस्य सम्बन्धस्तस्य ताभ्यां सम्बन्धोऽस्तीति ते अपि कर्मप्रवचनीयैर्युक्ते भवत इति। क्वचित् `सम्बन्धिसम्बन्धात्' इति पाठः। तत्रापि प्रतिनिधिः हूतिदानञ्च सम्बन्धिशब्देनोच्यते; तदुभयस्यापि कर्मप्रवचनीयेन सम्बन्धात्। तेन सम्बन्धिना यः सम्बन्धः स सम्बन्धिसम्बन्ध इति स एवार्थः।।

12. गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि। (2.3.12)
यदि क्रियामात्रमिह चेष्टाशब्देनोच्यते तदा चेष्टाग्रहणमपार्थकम्। सर्वो हि धातुः क्रियावचनः। तस्माद्विशेषणं पादानसामर्थ्यात् परिस्पन्दवचनोऽयं चेष्टाशब्दो विज्ञायते, इत्याह-- `परिस्पन्दक्रियाणाम्' इति। परिस्पन्दः = शरीरव्यापारः, सा क्रिया येषां ते तथोक्ताः।
`अध्वनीत्यर्थग्रहणम्' इति। अर्थप्रधानत्वन्निर्देशस्य, सप्तमीनिर्देशाच्च। यदीह स्वरूपग्रहणं स्यात् `अनध्वनः' इति कुर्यात्। `आस्थितप्रतिषेधश्चायं {विज्ञेयः- काशिका।} विज्ञायते इति। येन देशविशेषेण प्राप्यं ग्रामादिकं प्राप्यते स देशविशेषो लोकेऽध्वेति रूढः। केन च प्राप्यं प्राप्यते ? यः पन्था आक्रान्तस्तेन। तस्मात् तस्यैवायं प्रतिषेधः। यदा तु स एवोत्पथेन प्राप्यते तदा तस्य पथोऽध्वव्यपदेशो न भवतीति भवत्येव तत्र चतुर्थी। `द्वितीयाग्रहणं किम्' इति। कर्मणि कारके चतुर्थ्यां विकल्पितायां पक्षे न्यायप्राप्तैव द्वितीयेति भावः। तत् क्रियते बाधकबाधनार्थम्। `अपवादविषयेऽपि यथा स्यात्' इति। अथार्थग्रहणं किमर्थम्, न गतिकर्मणीत्येवोच्येत, यावता गतिरर्थ एव ? नैतदस्ति; या गतिर्गमिनैव शब्दान्तरसन्निधानाद्यनपेक्षतयोच्यते तत्र यथा स्यात्। पादविहरणात्मिका च या गतिः प्रधानभूता तस्या एवग्रहणं यथा स्यादित्येवमर्थम्। तेनेह न भवति-- स्त्रियं गच्छति, अजां ग्रामं नयति। अत्र हि गमेमँथुनमथः स्त्रीशब्दसन्निधानाद्गम्यते, न तु गमेः केवलात्। नयतेश्च प्रापणमेवार्थः प्रदानभूतः, तद्विशेषणन्तु प्रादविहणमप्रधानम्। यद्येवम्,ग्रामं गमयति ग्रामाय गमयतीति णन्ते गुणभूतत्वाद्गमर्न सिध्यति, गमेरत्र प्रेषणाध्येषणादिको ह्यर्थः प्राधान्यमनुगच्छति, नैष दोषः ; न ह्यत्र ग्रामो ण्यन्तस्य कर्म, किं तर्हि ? गमेरेव।।

13. चतुर्थी सम्प्रदाने। (2.3.13)
`देवदत्ताय रोचते' इति। `रुच्यर्थानां प्रीयमाणः' (1.4.33) इति संप्रदानसंज्ञा। `पुष्पेभ्यः स्पृह्यति' इति। अत्र `स्पृहेरीप्सितः' (1.4.36) इत्यनेन।
`तादर्थ्ये उपसंख्यानम्' इति। तच्छब्देन चतुर्थ्यन्तस्यार्थो निर्दिश्यते। तस्मा इदं तदर्थम्, तस्य भावस्तादर्थ्यम्। तत्र चतुर्थ्या उपसंख्यानम् = प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `चतुर्थी' इति योगविभागः क्रियते, तेन तादर्थ्ये चतुर्थी भवतीति। अथवा `चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः'(2.1.36) इति तादर्थ्ये चतुर्थ्याः समासवचनं ज्ञापकं भवति-- तादर्थ्येऽपि चतुर्थीति।
`क्लृपि सम्पद्यमाने' इत्यादि। क्लृप्त्यर्थानां धानूनां प्रयोगे सम्पद्यमाने कर्त्तरि संपादनक्रियाविशिष्टे चतुर्थी वक्तव्या, व्याख्येयेत्यर्थः। व्याख्यानं तु तमेव योगविभागमाश्रित्य। तथा `उत्पातेन ज्ञाप्यमाने' इत्यादावपि। `मूत्राय कल्पते यवागूः' इति। यवागूर्मूत्रविकाररूपेण भवतीत्यर्थः। विकाररूपापत्तौ चतुर्ती विज्ञेया। तेनेह न भवति-- देवदत्तस्य शालयः संपद्यन्त इति। यदा चाभेदविवक्षा तदा परत्वात् प्रथमैव भवति, न चतुर्थी-- मूत्रमिदं संपद्यते यवागूरिति, उच्चारोऽयं सम्पद्यते यवौदन इति। यदा तु `जनिकर्त्तृः प्रकृतिः' (1.4.30) इति प्रकृतेरपादानात्वं विवक्ष्यते तदा यवाग्वा इति पञ्चम्येव स्यात्-- मूत्रं सम्पद्यते यवाग्वा इति।
`वाताय कपिला विद्युत्' इति। अत्र कपिलाविद्युदुत्पातो वातस्य लक्षणम्। तेन ज्ञाप्यमाने वाते चतुर्थी भवति। `अरोचकिने' इति। `अत इनिठनौ' (5.2.115) इतीनिः।।

14. क्रियार्थोपपदस्य च कर्मणि स्थानिनः। (2.3.14)
`क्रियार्था क्रियोपपदं यस्य' इत्यादि। कथं पुनरयमर्थो लभ्यते, यावता नेह सूत्रे द्वितीयं क्रियाग्रहणमुपात्तमस्तीत्याह-- `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' (3.3.10) इत्यस्मिन् विषये क्रियार्थोपपदं सम्भवतीति यदत्र क्रियार्थोपपदं तत् क्रियैवेति गम्यते। `स्थानिनः'इति। शब्दास्तिष्ठन्त्यस्मिन्निति स्थानम्। तदस्यास्तीति स्थानि। एतदुक्तं भवति-- यस्यार्थः प्रतीयते, न तु प्रयोगोऽस्ति, स स्थानीत्युच्यत इति।
`एधेभ्यो व्रजति'इति। आङपूर्वो हरतिरत्र स्थानी, तत्कर्म त्वेधाः। एधानाहर्त्तु व्रजतीत्यर्थः। ननु चात्र तादर्थ्यमस्ति, अतस्तादर्थ्यं इत्येवं सिद्धा चतुर्थी, तत्किमर्थंमिदं वननम् ? नियमार्थम्- स्थानिनोऽप्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस् मा भूत्। `भक्षिरत्र स्थानी' इति। प्रविश गृहं पिण्डीं भक्षयेति गम्यमानत्वात्। प्रविश तर्पणमित्यत्रापि पिबतिः स्थानी। `न तु क्रियार्थोपपदः' इति। तुमुन्नादिविशिष्टप्रत्ययान्तो हि क्रियार्थोपपदो भवति। अयन्तु लोडन्तः। न च लोट् क्रियार्थोपपदे विधीयत इति न भवति भक्षिरत्र क्रियार्थोपपदः।।

15. तुमर्थाच्च भाववचनात्। (2.3.15)
`तुमुना समानार्थः' इति। वृत्तौ गम्यमानत्वात् समानशब्दो न प्रयुक्तः। `तुमर्थभाववचनप्रत्ययान्तात्' इति। तुमर्थो भाववचनप्रत्ययोऽन्तो यस्य स तथोक्तः। `भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम्' इति। स एव हि तुमर्थो भाववचनः सम्भवति, नान्यः। `पाकाय व्रजति' इति। यद्यप्यत्र तादर्थ्यं गम्यते तथापि चतुर्थी न भवति; तस्मिन्नेव तादर्थ्यं विहितेन भावप्रत्ययेन तस्योक्तत्वात्,यथा-- पाचको व्रजतीत्यत्र न भवति। तेन चतुर्थीविधानार्थमिदमारब्धम्। अथ वा-- भाववचनादेव यथा स्यात्, इह मा भूत्-- पाचको व्रजतीति नियमार्थंमेतत्। `पाकः, त्यागः, रागः' इति भावे घञ्। ननु च क्रियार्थोपपदग्रहणमनुवर्तिष्यते, तदर्थाद्विभक्तेर्विपरिणामं कृत्वैवमभिसम्बन्धः करिष्यते-- क्रियार्थोपपदाद्भाववचनादिति। यस्तु क्रियार्थोपपदो भाववचनः स तुमर्थ एवेति किं तुमर्थग्रहणेन ? नैतदस्ति; न हि क्रियार्थोपपदग्रहणं भाववचनस्य विशेषणं सम्भवति। किं तर्हि ? धातोरेव। तस्मात् तुमर्थग्रहणं कर्त्तव्यमेव। `कारको व्रजति'इति-- `तुमुन्ण्वुलौ' (3.3.10) इति ण्वुल्। भवत्ययं तुमर्थो न तु भाववचनः, किं तर्हि ? कर्त्तृवचनः, तेन तदन्तान्न भवति।।

16. नमःस्वस्तिस्वाहास्वधालंवषड्यागाच्च। (2.3.16)
`अलमिति पर्याप्त्यर्थस्य ग्रहणम्' इति. `तस्मै प्रभवति सन्तापादिभ्यः' (5.1.101) इत्यलंशब्दसमानार्थेन प्रभवतिशब्देन योगे चतुर्थीनिर्देशाल्लिङ्गात्। ननु चास्माल्लिङ्गादर्थस्येदं ग्रहणम्, न तु शब्दस्येत्येषोऽर्थः प्रतीयते; न तु पर्याप्त्यर्थस्येत्येषोऽर्थः। तथा च भूषणप्रतिषेदयोरपि ग्रहणं स्यात्। एवञ्च कन्यामलंकुरुते, अलं बाले रोदनेनेत्यादावपि चतुर्थी स्यात्; नैष दोषः; सामर्थ्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यति, कथम् ? कन्यामलङकुरुते इत्यत्र `उपपदविभक्तेः कारकविभक्तिर्बलीयसी' (चां.प.69) इति `कर्मणि द्वितीया' (2.3.2) इति द्वितीययैव भवितव्यम्। `अलं बाले रोदनेन' इत्यत्राप्यत एव हेतोः करणे तृतीययैव। अत्र हि रोदनं करणभावमापन्नमेव प्रतिषेधेन सम्बध्यत इति सामर्थ्यात् पर्याप्त्यर्थस्य ग्रहणं सम्पद्यते। `चकारः पुनरस्यैव समुच्चयार्थः' इति। यदेतन्नमःप्रभृतियोगे चतुर्थीविधानं तत्समुच्चयार्थश्चकारः। तेन पुनर्विध्नात् `चतुर्थी चाशिष्यायुष्य' (2.3.73) इत्यादिनाशीर्विवक्षायां पक्षे या षष्ठी विधीयते तामपि बाधित्वा चतुर्थ्येव भवति। यद्यवम्, कारकविभक्तिमपि बाधित्वा `कन्यामलङ्कुरुते' इत्यादौ चतुर्थ्येव स्यात्, ततश्च यदुक्तम्- सामर्थ्यात् पर्याप्त्यर्थस्यैव ग्रहणं भविष्यतीति, तन्नोपपद्यते ? नैष दोषः; कारकविभक्तेर्बलीयस्त्वात्, पुनर्विधानस्य चान्यत्र चरितार्थत्वात्। अथ वा-- वक्ष्यमाणा विभाषा सिंहावलोकितन्यायेनेहाप्युपतिष्ठते। तेन `कन्यामलङ्कुरुते इत्यादौ चतुर्ती न भवति।।

17.मन्यकर्मण्यनादरे विभाषाऽप्राणिषु। (2.3.17)
`अनादरस्तिरस्कारः' इति। अत्रैवानादरशब्दस्य रूढत्वात्। तिरस्कारः = परिभवः, अवज्ञानमित्यर्थः। ` न त्वा तृणाय मन्ये' इति। तृणादपि निकृष्टतरं त्वामहं इत्यर्थः। ` विकरणनिर्देशः किमर्थः' इति। `मनिकर्मणि' इति कस्मान्नोक्तम् ? एव हि लघु सूत्रं भवतीति ? `मन ज्ञाने' (धा.पा.1176) इत्यस्य दैवादिकस्य ग्रहणं यथा स्यात्, `मनु बोधने' (धा.पा.1471) इत्यस्य तानादिकस्य ग्रहणं मा भूदित्येवमर्थो विकरणनिर्देश इति दर्शयितुमाह- `न त्वां तृणं मन्वे' इति।
`अश्मानं दृषदं मन्ये' इत्यादौ यथाव्यवस्थितस्य वस्तुनः स्वरूपमाविष्क्रियत इत्यत्रानादरो न गम्यते।
`येदतदप्राणिष्विति तदनावादिष्विति वक्तव्यम्' इति। अप्राणिग्रहणपनीयनावादिग्रहणं कर्त्तव्यमित्यर्थः। यथान्यासे हि न त्वा नावं मन्य इत्यत्र चतुर्थी स्यात्। न त्वा शुने मन्य इत्यत्र चतुर्थी न स्यादित्यभिप्रायः।।

18. कर्त्तृकरणयोस्तृतीया। (2.3.18)
`तृतीयाविधाने {प्रकृतयादीनाम्'इतिवृत्तौ पाठः} प्रकृत्यादिभ्य उपसंख्यानम्' इति। किं पुनः कारणम् ? न सिद्ध्यति, कर्त्तृकरणयोरभावात्। तयोस्त्वभावः प्रकृत्याऽभिरूप इत्यादौ क्रियाया अविद्यमानत्वादित्यभिप्रायः। प्रातिपदिकेनात्र सम्बन्दमात्रं प्रतीयते, न तु काचन क्रिया। न च तया विना कर्त्तृकरणे सम्भवतः; तयोः क्रियापेक्षत्वात्। ततश्च सम्बन्धलक्षणा षष्ठी स्यात्-- प्रकृतेरभिरूपः, प्रायस्य याज्ञिकः, गोत्रस्य गार्ग्य इति। `समेन धावति, विषमेण धावति' इति। यद्यप्यत्र क्रियाऽप्यस्ति, तथाऽपि नात्र समविषमशब्दौ करणत्वेन विवक्षितौ, किं तर्हि ? कर्मत्वेन, ततश्च द्वितीया स्यात्। `द्विद्रोणेन धान्यं क्रीणाति' इत्यादावपि द्विद्रोणात्येषोऽर्थो विवक्षितः। `पञ्चकेन पशून् क्रीणाति' इति। पञ्च परिमाणमस्य पशुसंघस्य पञ्चकः सङ्घः। पञ्चकं सङ्घं कृत्वा पशून् क्रीणातीत्यर्थः। एवं `साहस्रेणाश्वान् क्रीणाति'इति साहस्रं सङ्घं कृत्वा। सहस्रं सहस्रं कृत्वेत्यर्थः। उपसंख्यानशब्दस्य प्रतिपादनार्थः। तत्रेदं प्रतिपादनम्-- प्रतीयमानाऽपि क्रिया कारकाणां निमित्तं भवत्येव। इह च प्रकृत्याऽभिरूप इत्यत्रापि करोत्यर्थो भवत्यर्थो वा गम्यते। गार्ग्योऽस्मि गोत्रेणेत्यत्रापि ज्ञाने भवने वा गम्यमाने गोत्रस्य करणत्वं प्रतीयते। समेन धावतीत्यदौ समेन विषमेण वा पथा करणेनेति गम्यते। द्विद्रोणेनेत्यत्रापि तृतीया न कर्मत्वं बोधयति। किं तर्हि ? करणत्वम्। अत्र हि द्विद्रोणाद्यर्थं हिरण्यादिकं मूल्यभूतं तादर्थ्याद्द्विद्रोणादिशब्देनोक्तम्। तस्यापि करणत्वमस्त्येवेति करण इत्येवं सर्वत्र तृतीया सिद्ध्यति।।

19. सहयुक्तेऽप्रधाने। (2.3.19)
क्रियागुणद्रव्यसम्बन्धे हि सति सहयोगो भवति। अतः `पुत्रेण सहागतः' इत्यादीनि क्रियादिसम्बन्धे यथाक्रमुदाहरणानि वृत्तिकृतोपन्यस्तानि। सर्वत्र च पुत्रस्यात्राप्रधान्यमिति ततस्तृतीया भवति। ननु चोभयोरपि पितापुत्रयोः क्रियादिसम्बन्धः प्रतीयते, तत्कुतः पुत्रस्याप्राधान्यमितरस्य प्रधानभाव इत्याह-- `पितुरत्र' इत्यादि। `यद्य्प्युभयगतः क्रियादिसम्बन्धः प्रतीयते, तथाऽप्युपात्तशब्दव्यापारापक्षया प्रधानाप्रधानव्यवस्थाः-- शब्देन यस्य क्रियादिसम्बन्धः प्रत्याय्यते तत् प्रधानमितरदप्रधानमिति। इह तु पितुरव क्रियादिसंबन्धः प्रत्याय्यते शब्देन, न तु पुत्रस्य । कुत एतत् ? शब्दशक्तस्वाभाव्यात्। तथाविधा हि शब्दशक्तिर्यतः पितुरेवात्र क्रियादिसम्बन्धं श्नोति प्रतिपादयितुम्, न पुत्रस्येति; एवञ्चागत इत्यादवेकवचनमुपपद्यते; अन्यथा हि द्वित्वाद्द्विवचनं स्यात्, यथा-- पिततापुत्रावागताविति। `पुत्रस्य तु प्रतीयमानत्वादप्राधान्यम्' इति। अर्थात्स पुनरर्थः सहार्थयोगः। स च भेदाधिष्ठानत्वात् पुत्रस्य क्रियादिसम्बन्धमन्तरेण न सम्भवतीति सम्बन्धस्य नान्तरीयकत्वात् पुत्रस्यापि क्रियादिसम्बन्धं प्रत्याययति। `सहार्थेन योगे तृतीयाविधानात्' इति। कुतः पुनरेतदवगतं सहार्थेन योगे तृतीयाविधानमिति ? युक्तग्रहणात्। तस्य चैतदेव प्रयोजनम्-- सहार्थेन योगे तृतीया यथा स्यात्, नान्यत्। `शिष्येण सहोपाध्यायस्य गौः' इति। अत्र द्रव्यसम्बन्धः षष्ठ्यैवोपाध्यायस्योच्यत इत्यस्य प्राधान्यात्। तत्रासत्यप्रधानग्रहणे प्रधानेऽप्युपाध्याये स्यात्। ननु च परत्वात् षष्ठी भविष्यति? न भविष्यति; अशेषत्वात्। सति त्वप्रधानग्रहणे शेषोऽयं सम्पद्यत इति षष्ठी।।

20. येनाङ्गविकारः। (2.3.20)
अयमङ्गशब्दोऽवयवे प्रसिद्धः। स यदि तत्रैव वर्त्तमान इह गृह्यते तदाऽत्रैव स्यात्-- अक्षि काणमस्येति; अत्र ह्यक्ष्णः शरीरावयवस्य विकारः काणेन गुणेन द्योत्यत इति। इह तु न स्यात्-- अक्ष्णा काण इति। न ह्यत्रावयवस्याक्ष्णो विकारो लक्ष्यते, किं तर्हि ? अङ्गनः समुदायस्येत्यत आह-- `अङ्गशब्दोऽत्र'इत्यादि। अङ्गमस्यास्तीत्यङ्गः, अर्श आदित्वादच्प्रत्ययान्तोऽङ्गशब्द उपात्त इति दर्शयति; अङ्गिनोऽङ्गापेक्षत्वात्। यदपेक्षयाऽङ्गिनोऽङ्गित्वं तदेव येनेत्यनेन निर्दिश्यत इति दर्शयितुमाह-- `येन' इत्यादि। विकृतेनेति सामर्थ्याल्लब्धमर्थं दर्शयति। न ह्यविकृतेनाङ्गनिनोऽङ्गेन विकारो लक्ष्यते। `लक्ष्यते' इति। द्योत्यत इत्यर्थः। `अक्ष्णा काणः' इति। अत्राक्ष्णाऽवयवेन विकृतेनाङ्गिनो देवदत्तस्य विकारो लक्ष्यत इति तत्सतृतीया। विभक्तिर्भवति। कथं पुनरवयवेन विकृतेन समुदायस्तथा व्यपदिश्यत इत्याह-- `अवयवधर्मेण' इत्यादि। याथाऽढ्यमिदं नगरमित्यवयवधर्मेणाढ्यत्वेनात्र समुदायो व्यपदिश्यते, तथेहाप्यवयवेन विकृतन समुदायो व्यपदिश्यत इति। कथं पुनरत्राक्षिशब्दस्य प्रयोगः क्रियते, यावता विनाऽपि तेन काणत्वं गुणः समुदायस्य प्रतीयत एव ? सत्यमेतत्; लौकिके शब्दप्रयोगे गुरुलाघनं प्रत्यनादरात्। यस्तु तदाद्रियते सोऽक्षिशब्दं न प्रयुङ्क्त एव।
`अक्षि काणमस्य' इति। अत्रासत्यङ्गग्रहणे काणशब्दात् तृतीया स्यात्। लक्ष्यते हि काणत्वेन गुणेनाक्ष्णो विकारः समुदायस्यावयवस्य।।

21. इत्थम्भूतलक्षणे। (2.3.21)
कञ्चित् प्रकारमित्यनेन इत्यमित्यस्यार्थमाचष्टे। तथा हि प्रकारवचने `इदमस्थमुः' (5.3.24) इति थमुप्रत्यये विहिते इत्थमित्येद्रूपं भवति। सामान्यस्य भेदको विशेषः प्रकार उच्यते। आपन्न इत्यनेन भूतशब्द्सयार्थमाचष्टे। तथा हि-- `भू प्राप्तावात्मनेपदी' (धा.पा.1844) इत्यस्य चौरादिकस्य `आ धृषाद्वा' (धा.पा.805) इत्यस्यानन्तरम्) इति यदा णिज् नास्ति तदा क्तप्रत्यये `भूत' इति रूपं भवति। तस्येतीत्वम्भूतस्य । `लक्षणम्' इति। लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम् = चिह्नम्। `अपि भवान् कमण्डलुना छात्रमाद्राक्षीत्' इति। अत्र मनुष्यत्वं सामान्यम्, तस्य च्छात्रत्वं प्रकारःच; तं प्राप्तस्य च्छात्रस्य कमण्डलुर्लक्षणम्। `छात्रेणोपाध्यायम्' इति। मनुष्यत्वं सामान्यम्, तस्योपाध्यायत्वं प्रकारः; तं प्राप्तस्योपाध्यायस्य लक्षणं छात्रः। `शिखया परिव्राजकम्' इति। मनुष्यत्वं सामान्यम्, परिव्राजकत्वं प्रकारः। तं प्राप्तस्य परिव्राजकस्य लक्षणं शिखा।
`लक्षणस्य समासेऽन्तर्भूतत्वात्' इति। एकार्थीभावद् बहुव्रीह्यर्थेन लक्षणार्थस्यापृथग्भावादित्यर्थः। बहुव्रीहावेव वाच्यत्वेनान्तर्भावो लक्षणस्येति गतार्थत्वात् तृतीया न भवति। इत्थम्भूतलक्षण इति किम् ? वृक्षं परि विद्योतते विद्युत्। नात्र विद्योतनत्वप्राप्तस्य कस्यचिद्वृक्षेण लक्षणम्। किं तर्हि ? विद्योतनस्यैव।।

22. संज्ञोऽन्यतरस्यां कर्मणि। (2.3.22)
`मात्रा सञ्जानीते' इति। `ज्ञाननोर्जा' (7.3.79) इति जादेशःक, `ई हल्यघोः' (6.4.113) इतीत्वम्, `संप्रतिभ्यामनाध्याने' (1.3.46) इत्यात्मनेपदम्। आध्याने तु `अधीगर्थदयेशां कर्मणि' (2.3.52) इति परत्वात् षष्ठी भवति-- मातुः सञ्जानातीति। कृत्प्रयोगे चानाध्यानेऽपि `कर्त्तृकर्मणोः कृति' (2.3.65) इति परत्वात् षष्ठ्येव भवति-- संज्ञातेति।।
 
23. हेतौ। (2.3.23)
हेतुर्द्विविधः-- शास्त्रीयः,लौकिकश्च। तत्र शास्त्रीयः ` तत्प्रयोजको हेतुश्च' (1.4.55)। लौकिकः फलसाधनयोग्यः पदार्थः। तत्र शास्त्रीये हेतौ `कर्त्तृकरणयोस्तृतीया' (2.3.18) इत्येवं सिद्धा तृतीया। तस्माल्लौकिकस्य हेतोरिदं ग्रहणमित्यत आह-- `फलसाधनयोग्यः' इत्यादि। अनिष्पादयन्नपि फलं तासाशनयोग्यः पदार्थो लोके हेतुरित्युच्यत इति योग्यग्रहणम्। `धनेन कुलम्' इत्यादौ कुलादीन्यकुर्वन्त्यपि धनादीनि तत्करणयोग्यतया लोके हेतुवय्पबदेशमासादयन्तीति तेभ्यस्तृतीया। इह यूपाय दार्विति सदपि दारुणो हेतुत्वं न विवक्षितम्। किं तर्हि ? कारणस्यान्यथात्वम्। तेन तादर्थ्ये चतुर्थी भवति।।

24. अकर्त्तर्यृणे पञ्चमी। (2.3.24)
`शतेन बन्धितः'इति। बन्धेर्ण्यन्तस्य निष्ठायामेतद्रूपम्। `शतमृणञ्च भवति'इति। उत्तमर्णाय देयत्वात्। प्रयोजकत्वात् कर्त्तृसंज्ञेति, `तत्प्रयोजको हेतुश्च' (1.4.55) इति चकारात् कर्त्तृसंज्ञाविधानात्। ननु लौकिको हेतुः पूर्वसूत्रे गृहीतः, स चेहानुवर्त्तत इति तत एव पञ्चमी विधीयते, न चात्र लौकिको हेतुः, किं तर्हि ? पारिभाषिक इति प्राप्त्यभावादकर्त्तरीति प्रतिषेधोऽनर्थकः ? नैतदस्ति;तत्र हि शास्त्रीये हेतौ तृतीया सिद्धेवेति लौकिकस्य हेतौर्ग्रहणम्, इह तु पञ्चमी विधीयते। न चातर्ासौ शास्त्रीये हेतौ केनचित् सिध्यति। द्वावपीह हेतू गृह्येते। अथ वा शास्त्रीयस्यापि हेतोर्लौकिकं हेतुत्वमविरुद्धमेव। यो हि बन्धने प्रयुङ्क्ते स तत्साधनयोग्यो भवत्येव।।

25. विभाषा गुणेऽस्त्रियाम्। (2.3.25)
`धनेन कुलम्' इति। धनं द्रव्यम्, न गुणः। द्रव्याश्रितो हि गुणो भवति, न द्रव्यमेव ! गुणशब्देन चात्र सम्बन्धिमात्रं परार्थरूपापन्नमुच्यते, तेनाग्निरत्र धूमादित्याद्यपि सिद्धं भवति। ननु चास्त्रियामित्युच्यते, तेन नास्तीह घटोऽनुपलब्धेरित्यादि न सिध्यति ? नैतदस्ति;`विभाषा गुणे' इति योगविभागः कर्त्तव्यः।तेन यत्रेष्यते तत्रय योगविभागादिष्टसिद्धिरिति स्त्रियामपि भवत्येव।।

26. षष्ठी हेतुप्रयोगे। (2.3.26)
प्रयोगस्य शब्दधर्मत्वात् हेतुरित्यनेन हेतुशब्द एव विज्ञायत इत्यत आह--`{हेतुशब्दस्य प्रयोगे--काशिका} हेतुशब्दप्रयोगे' इति। एवञ्च हेतुशब्दस्य स्वरूपग्रहणे सति तत्पर्याणां निमित्तकारणादीनां प्रयोगे षष्ठी न भवतीति किमर्थं पुनरिदमुच्यते, यावता शेषविवक्षयैवात्राध्ययनादिभ्यः षष्ठी भविष्यति, तत्समानाधिकरण्याच्च हेतुशब्दादपि ? एवं तर्हि सैव शेषविवक्षाऽस्मिन् विषये वचनेनाख्यायते मन्दधियामनुग्रहाय।।

27. सर्वनाम्नस्तृतीया च। (2.3.27)
`निमित्‌तकारणहेतुषु सर्वासां विभक्तीनां प्रायदर्शनम्' इति। एतच्चकारस्यानुक्कतसमुच्चयार्थत्वल्लभ्यत इति वेदितव्यम्।
यदर्थग्रहणमेतत कस्मात् पर्यायोपादानं कृतमित्माह-- `पर्यायोपादानम्' इत्यादि। असति पर्यायग्रहण एतत् स्वरूपग्रहणमिति कस्यचिद्भ्रान्ति स्यात्। अतस्तन्निराकर्त्तु पर्यायग्रहणम्।।

28. अपादाने पञ्चमी। (2.3.28)
`वृकेभ्यो बिभेति' इति। `भीत्रार्थानां भयहेतुः' (1.4.25) इत्यपादानत्वम्। अध्ययनात् पराजयत इत्यत्र `पराजेरसोढः' (1.4.26) इत्यपादानत्वम्। `विपराभ्याञ्जेः' (1.3.19) इत्यात्मनेपदम्।
`पञ्चमीविधाने इत्यादि। यदेतत् पञ्चमीविधानमत्र ल्यब्लोपे पञ्चमो स्यादित्युपसंख्यानम् = व्याख्यानं कर्त्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्-- इह पूर्वसूत्राच्चकारोऽनुवर्त्तते। स चानुक्तसमुच्चयार्थः। तेन ल्यब्लोपे कर्मणि पञ्चमी भविष्यति।
`अधिकरणे चोपसंख्यानम्' इत्यादि। अत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु पूर्ववच्चकारानुक्तसमुच्चयार्थत्वमाश्रित्य कर्त्तव्यम्।
`प्रश्नाख्यानयोश्च' इत्यादि। वक्तव्येति व्याख्यातव्येत्यर्थः। व्याख्यानन्तु तामेव चकारानुवृत्तिमाश्रित्य कर्त्तव्यम्। अथ वा-- अत्रापादान इत्येवं सिद्धा पञ्चमी। तथा हि कुतो भवानित्य्तरागच्छतीति प्रतीयते, पाटलिपुत्रादित्यत्राप्यगच्छामीति; अतः स्फुटमेवापादानत्वम्।
`यतश्चाष्वकाल' इत्यादि। यतः प्रभृत्यध्वनः कालसय् निर्माणमियत्तापरिच्छेदस्तत्र पञ्चमी वक्तव्या। एतदुक्तं भवति-- अध्वनि काले च निर्मीयमाणे यदवश्रिभूतत्वेन विवक्ष्यते तत्र पञ्चमी वक्तव्या = व्याख्येया। व्याख्यानन्तु पूर्ववच्चाकारानुवृत्तिमाश्रित्य कर्त्तव्यम्। अथ वा- अध्वनि निर्मीयमाणे अपादान इत्येवं सिद्धा पञ्चमी। तथा हि-- गवीधुमतः साङ्काश्यं चत्वारि योजनानीत्यत्र निःसृत्येति क्रिया गम्यते। अतो युक्तमेवापादानत्वम्। कार्त्तिक्या आग्रहायणी मास इत्यत्रापि परेणेति शब्दो गम्यते। तत्रोत्तरसूत्रेण दिग्योलक्षणा पञ्चमी भविष्यति।
`तद्युक्तात्काले' इत्यादौ तदित्यनेन पञ्चमी सम्बध्यते। पञ्चमीयुक्तात् परो यः कालस्तत्र सप्तमी वक्तव्या = व्याख्येया। व्याख्यानं तु कार्त्तिक्या आग्रहायणी मास इत्यत्र `यस्य च भावेन भावलक्षणम्'(2.3.37) इत्यनेन सप्तमी सिद्धा। कार्त्तिक्याः परो यो मासस्तत्सत्तयाऽऽग्रहायण्या भावो लक्ष्यते।
`अध्वनः प्रथमा' इत्यादि। तद्युक्तादिति वर्त्तते। तत्र यदा साङ्काश्यस्य योजनादभेदो विवक्ष्यते तदा प्रथमा। `गवीषुमतः साङ्काश्यं चत्वारि योजनानि' इति. भेदविवक्षायान्तु `यस्य च भावेन भावलक्षणम्' (2.3.37) इति सप्तमी। तथा हि गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु सत्सु भवतीत्येषोऽर्थः प्रतीयते। तत्र योजनस्य सम्बन्धि सम्बन्धि गमनं साङ्काश्यभावस्य लक्षणं भवति।।

29. अन्यारादित्तरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते। (2.3.29)
`अन्य इत्यर्थग्रहणम्' इति। अर्थद्वारक एव हि शब्दस्य शब्दान्तरणे योगो भवति। तस्मादर्थस्येदं ग्रहणं विज्ञायते। तेनेत्यादिनाऽर्थग्रहणस्य फलं दर्शयति। अथान्यो देवदत्ताद्यज्ञदत्त इति यज्ञदत्तशब्दादपि पञ्चमी कस्मान्न भवति ? देवदत्तादुत्पन्नया पञ्चम्योभयगतस्याप्यन्यत्वस्य प्रतिपादित्वात् तद्विशिष्टमन्यत्वमेकत एवोत्पाद्यमानया पञ्चम्या शक्यं प्रतिपादयितुमिति द्वितीयसम्बन्धिनः पञ्चमी न भवति।
`इतर इति निर्दिश्यमानस्य प्रतियोगी पदार्थ उच्यते' इति।यथा क्वचित्प्रकरणे द्वौ प्रकृतौ -- देवदत्तः, अन्यश्च कश्चित्। तत्रैकस्तावन्निर्दिश्यते-- देवदत्तः शूर इति। तस्य निर्दिश्यमानस्य योऽसौ द्वितीयः सम्बन्धी प्रतियोगी स इतरशब्देनोच्यते, यथा--इतरः कातर इति।
`शब्दग्रहणम्'इत्यादि। शब्दग्रहणे सति दिशि दृष्टः शब्दो दिक्शब्द इतेषोऽर्थो लभ्यते । तेन योऽपि सम्प्रति दिक्शब्दो देशे काले च वर्त्तते, सोऽपि दिशि दुष्ट इति तद्योगे पञ्चमी भवति। तत्र देशवृत्तिना पञ्चमी-- पूर्वो ग्रामात् पर्वत इति । कालवृत्तिनाऽपि-- पूर्वो ग्रीष्माद्वसन्त इति। `इतरथा हि दिग्वृत्तिनैव योगे स्यात्' इति। तत्रैव दिक्शब्दस्य मुख्यत्वात्।
`प्राग्ग्रामात्' इति। प्रपूर्वादञ्चतेर्ऋत्विगादिसूत्रेण (3.2.59) क्विन्प्रत्ययः। तदन्ताद्यदादिशब्देभ्यः `सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकाल' (5.3.27) इत्यादिना विहितस्य स्तातेः `अञ्चेर्लुक्' (5.3.30) इति लुक्; लुकि कृते तदेदमुदाहरणम्। `दक्षिणा ग्रामादुत्तरा ग्रामात्। `दक्षिणाहि ग्रामादुत्तराहि ग्रामात्' इति। `दक्षिणादाच' `आहि च दूरे' (5.3.37) `उत्तराच्च' (5.3.38) इत्याजाही प्रत्ययौ।।

30. षष्ठ्यतसर्थप्रत्ययेन। (2.3.30) अतसर्थाः प्रत्यया दिक्शब्देभ्यः स्वार्थ एव भवन्तीति तदन्तस्य दिक्शब्दत्वात् पूर्वेण पञ्चम्यां वचनमिदम्. `पुरो ग्रामस्य' इति। `पूर्वाधरावणामसिपुरधवश्चैषाम्' (5.3.39) इत्यादिनाऽसिप्रत्ययः, पूर्शब्दस्य पुरादेशश्च। पुरस्तादित्यत्रापि `दिक्शब्देभ्यः सप्तमी' (5.3.27) इत्यादिनाऽस्तातिप्रत्ययः।`अस्ताति च' (5.3.40) इति पुरादेशः। `उपरि ग्रामस्य, उपरिष्टाद्ग्रामस्य' इति। `उपर्युपरिष्टात्' (5.3.31) इत्यूर्ध्वशब्दस्योपि इत्यादेशो रिलरिष्टातिलौ च प्रत्ययौ भवतः।.

31. एनपा द्वितीया। (2.3.31)
`पूर्वेण षष्ठ्यां प्राप्तायां वचनमिदम्'इति। एनपोऽतसर्थत्वात्। `तदर्थो योगविभागः कर्त्तव्यः' इति. एनपेति पृथयोगः कर्त्तव्यः,एनपा षष्ठी यथा स्यात्। अन्यथा हि द्वितयीयासौ बाध्येत। ततो द्वितीयेति द्वितीयो योगः, अत्र चैनपेति वर्त्तते।।

32. पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्। (2.3.31)
`प़ञ्चमीग्रहणमनुवर्त्तते' इति। स्वरितत्वात्। इमे सर्वे पृथगादयोऽसहायेऽर्थे वर्त्तन्ते। भेदेनोपादानन्तु पर्यायान्तरनिवृत्त्यर्थम्। इह तृतीयापञ्चम्यौ मा भूताम्-- हिरुग् देवदत्तस्य। विष्वग् देवदत्तस्येति। तत्रासत्यां पञ्चमीग्रहणानुवृत्तौ यथा हिरुगित्यादिना पर्यायान्तरेण योगे षष्ठी भवति, तथा पृथगादिभिर्योगे पक्षे षष्ठी स्यात्, न पञ्चमी। तस्मात् पञ्चमीग्रहणमनुवर्त्तनीयम्, अनुवृत्तेरेव पक्षे भविष्यति, तत् किमर्थमन्यतरस्यां ग्रहणम् ? सत्यम्; तत् कृतञ्च तस्या एवानुवृत्तेः सूचनार्थमुत्तरार्थञ्च।।

33.करणे च स्तोकाल्पकृछ्रकतिपयस्यासत्त्ववचनस्य। (2.3.333)
`यदा तु धर्ममात्रम्' इत्यादि। यद्योगाद्द्रव्यं स्तोकादिव्यपदेशमासादयति ते गुणा धर्मशब्देनोच्यन्ते। तन्मात्रं स्तोतादिभिः शब्दैरभिधीयमानं करणत्वेन यदा विवक्ष्यते न तु द्रव्यम्, तदा स्तोकादिशब्दानामसत्त्ववचनता। यदा तु सोऽयमित्यभेदात् तद्वति द्रव्ये वर्त्तन्ते, तदा तेषां सत्त्ववनता भवति।
`क्रियाविशेषणे मा भूत्' इति। क्रियायाः साध्यत्वात् कर्मत्वम्। तद्विशेषणमपि कर्म भवति, तच्चासत्त्वं भवति। क्रियैव हि तावद्द्रव्यं न भवति, कुतः पुस्तद्विशेषणं द्रव्यं भविष्यति ? एकार्थत्वेऽपि स्तोकादीनां भेदेनोपादानां पर्यायान्तरनिवृत्त्यर्थम्। इह मा भूत्-- मात्रया मुक्त इति।।

34. दूरान्तिकार्थैः षष्ठ्यन्तरस्याम्। (2.3.34)
विकल्पेन पञ्चम्यां विहितायां पक्षे शेषत्वादेव यद्यपि सिध्यति, तथाऽपि तदिह षष्ठीग्रहणं कृतं तत् `चतुर्थी चाशिष्य' (2.3.73) इत्यादिनाऽऽशिषि या चतुर्थी विधीयते तामपि बाधित्वा षष्ठ्येव यथा स्यादित्येवमर्थम्-- दूरं हितं ग्रामस्य, अन्तिकं हितं ग्रामस्येति। ननु चान्यतरस्यांग्रहणं प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थमित्याह-- `अन्यतरस्यांग्रहणम्' इत्यादि। यदीहान्यतरस्यांग्रहणं न क्रियेत तदा पक्षे तृतीया स्यात्; तस्या एवानन्तरसूत्रे श्रुतत्वात्। पुनरन्यतरस्यांग्रहणं क्रियमाणं पञ्चमीविधानार्थं विज्ञायते; प्रयोजनान्तराभावात्। तथा हि-- तृतीयाविकल्पार्थं तावदेतन्न भवति। तृतीयाविकल्पो हि पूर्वकेणान्यतरस्यांग्रहणेन सिध्यति। न चान्या काचिद्वभक्तिः प्रकृता, किं तर्हि ? पञ्चमी। तस्मात् पञ्चमीविकल्पार्थमेतद्विज्ञायते।।

35. दूरदान्तिकार्थभ्यो द्वितीया च। (2.3.35)
`{एवम्प्रकारकं वाक्यं वृत्तौ नास्ति}पञ्चमी च' इति। तदनुवृत्तिसामर्थ्यात्। `तृतीयाऽपि समुच्चीयते' इति। चकारेण। `यथायथम्' इति। यथास्वं यो यस्यात्मीयो विषयस्तत्रासौ भवति, न विभक्त्यन्तरमित्यर्थः।।

36. सप्तम्यधिकरणे च। (2.3.36)
`दूरान्तिकार्थेभ्यश्चतस्रो विभक्तयो भवन्ति' इति। पूर्वसूत्रेण द्वितीयादयस्तिस्रः, अनेन सप्तमी।
`सप्तमीविधाने क्तस्येन्विषयस्य' इत्यादि। इन्विषयो यः क्तस्तदीये कर्मणि सप्तमी। विधेया। कश्चेन्विषः क्तः ? यस्तदन्तस्तेनैव सह प्रयुज्यत इत्यर्थः। अनन्यत्रभावार्थत्वादत्र विषयशब्दस्य। `अधीती व्याकरणे' इति। अधीतं व्याकरणमनेनेति। `श्राद्धमनेन भुक्तम्' (5.2.85) इत्यतोऽनेनेत्यनुवर्त्तमाने `पूर्वादीनिः' (5.2.86) इत्यत इनिरित्यनुवर्त्तमाने च `इष्टादिभ्यश्च' (5.2.88) इतीनिप्रत्ययः। अत्र यद्यपि कर्मण्येव क्तो विहितस्तथापि तद्धित उत्पन्नेऽधीतव्याकरणोरभिसम्बन्धो निवर्त्तते। अस्ति च धात्वर्थस्य व्याकरणेन सम्बन्ध इति कर्मैव व्याकरणं भवतीत्यतो द्वितीया स्यात्, यथा-- कृतपूर्वी कटमिति। तस्मात् सप्तम्या उपसंख्यानम् = प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्‌-- योऽसावधीती कर्त्ता तस्य व्याकरणं विषमत्वेन विवक्ष्यते। तस्मादधिकरण इत्येवं सिद्धा सप्तमी।।
`साध्वसाधुप्रयोगे' इत्यादि। अनर्चार्थमिह साधुशब्दस्य ग्रहणम्। अर्चायां हि `साधुनिपुणाभ्यामर्चायाम्' (2.3.43) इत्यनेनैव सिद्धा सप्तमी। `साधुर्देवदत्तो मातरि' इत्यादि। अत्राप्यधिकरण एव सप्तमी। तथा ह्यत्र मातृस्थासु क्रियासु मातृशब्दो वर्तते, पितृस्थासु क्रियासु पितृशब्दः; तासाञ्च क्रियाणां साध्वसाधुतां प्रति विषयभावोऽस्तीति वैषयिकाधिकरण एव सप्तमी। वक्तव्यशब्दस्तु व्याख्येय इत्यर्थे वर्त्तते। एवमुत्तरत्रापि।
`कारकार्हाणाञ्च' इत्यादि। भावप्रधानोऽत्र कारकशब्दः। क्रियां प्रति येषां कारकत्वं साधनत्वं न्याय्यं ते कारकार्हाः, तेषां कारकार्हत्वे सप्तमी वक्तव्या। `ऋद्धेषु' इत्यादि। ऋद्धा हि भुजिक्रियां प्रति साधनभावमर्हिन्ति। तेषामेव चेह कारकत्वं विवक्षितम्। एतदनुसारेण कारकार्हाणाञ्चाकारकत्व इत्येवमादेरर्थो वेदितव्यः। अत्रापि सर्वत्र `यस्य च भावेन भावलक्षणम्' (2.3.37) इत्येनैव सिद्धा सप्तमी। तथा हि-- ऋद्धादिसम्बन्धिना भुजिक्रियादिलक्षणेनात्र भावेन दरिद्रादिसम्बन्ध्यासनादिभावो लक्ष्यते।
`चर्मणि द्वीपिनं हन्ति' इत्यत्र द्वीपिननस्य निमित्तं चर्म, तस्य द्वीपिना कर्मणा सह संयोगः। अत्रापि चकारस्यानुक्तसमुच्चयार्थत्वात् सिद्धा सप्तमी। ननु च दूरान्तिकार्थानुकर्षणार्थश्चकारःच नार्थस्तदनुकर्षणार्थेन चकारेण, सप्तमीति योगविभगादेव दूरान्तिकार्थेभ्यः सप्तममी भविष्यति। अथ वा-- उत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सप्तमी वेदितव्या।।

37. यस्य च भावेन भावलक्षणम्। (2.3.37)
कीदृशी पुनः क्रिया क्रियान्तरं लक्षयतीत्य त आह-- `प्रसिद्धा च' इत्यादि। चकारोऽवधारणार्थः, प्रसिद्धैवेत्यर्थः। न हि स्वयमप्रसिद्धं परस्य लक्षणमुपपद्यते। अथ कथं फलायामानेष्वाम्रेषु गतः, पक्तेवष्वागत इत्यत्र सप्तमी, न हीह भावः श्रूयते ? यद्यपि न श्रूयते ? तथाऽपि गम्यते। फलायमानेषु जातेष्वित्यर्थः।।

38. षष्ठी चानादरे। (2.3.38)
अनादरः तिरस्कारः, परिभव इत्यर्थः। `रुदतः' इति। `रुदिर् अश्रुविमोचने' (धा.पा.1067) शतृप्रत्ययः।।

39. स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च। (2.3.39)
स्वामीश्वराधिपतीनामेकार्थत्वेऽपि भेदेनोपादानं पर्यायान्तरनिवृत्यर्थम्। इह मा भूत्-- ग्रामस्य राजेति। `षष्ठ्यामेव प्राप्तायाम्' इति। शेषलक्षणायां षष्ठ्यां प्राप्तायाम्।।

40. आयुक्तकुशलाभ्यां चासेवायाम्। (2.3.40)
आयुक्तता निपुणता च कटादिकरणविषयैवेति सप्तम्यामेव प्राप्तायां पक्षे षष्ठीविधानार्थं वचनम्।
`आसेवायामिति किम् ? आयुक्तो गौः शकटे' (इति)। ईषद्युक्त इत्यर्थः।।

41. यतश्च निर्धारणम्। (2.3.41)
किमर्थं पुनरिदम् ? यावता निर्धार्यमाणोऽवयवः समुदायान्तर्भूतः; तत्र यदा समुदायास्याधिकरणत्वं विवक्ष्यते तदा सप्तमी सिद्धैवेति, यथा-- वृक्षे शाखेति; यदा त्ववयवावयविसम्बन्धस्तदा षष्ठी, यथा-- वृक्षस्य शाखेति ? सत्यमेतत्; प्रपञ्चार्थ वचनम्।।

42. पञ्चमी विभक्ते। (2.3.42)
`विभागो विभक्तम्' इति। `नपुंसके भावे क्तः' (3.3.114)। ` यस्मिन्निर्धारणाश्रये' इति। यतो निर्धारयते स इह निर्धारणाश्रय इति सर्वस्मिन्नेव निर्धारणाश्रये विभागोस्तीति विशेषणोपादानसार्थ्याद्विभाग एव यत्र स निर्धारणाश्रयो विज्ञायते; तेन कृष्णा गवां सम्पन्नक्षीरतमेत्यत्र न भवति। तथा हि-- गोषु निर्धार्यमाण एकदेशो यस्मात् गोत्वेनान्तर्भूतः प्रतीयते तस्मान्नास्ति विभाग इति। यदा तु कृष्णेन गुणेन पथग्भूतः प्रतीयते तदास्ति विभाग इति। नात्र निर्धारणाश्रयो विभाग एव। इह पुनर्माथुराः पाटलिपुत्रकेभ्य आढ्यतरा इति माथुरत्वेन नाप्याढ्यतरत्वेन माथुराणामन्तर्भावः। तस् ादत्र विभाग एवेत्ययमस्य योगस्य विषयः।
अन्ये त्वाहुः-- यत्र राशीकृत्य पृथक्करणं स पूर्वस्य योगस्य विषयः; यत्र तु पृथग्भूतस्यैव गुणान्तराविष्करणं सोऽस्य; तत्र द्वयोरप्यवस्थयोर्विभाग एवेति कृत्वा अयमपि योगः प्रपञ्चार्थ एव। विभागो हि सम्नब्धात्प्रच्युतिः। पाटलिपुत्रकाश्च सम्बन्धात् प्रच्यवमानानां माथुराणां सम्बन्धे प्रच्युतेरवधिभावमुपवान्तीत्यपादान इत्येवं पञ्चमी सिद्धा।।

43. साधुनिपुणाभ्यमर्चायां सप्तम्यप्रतेः। (2.3.43)
`{अप्रत्यादिभिरहित वक्तव्यम्' इति वृत्तौ पाठः।} अप्रत्यादेरिति वक्तव्यम्' इति। के पुनः प्रत्यादयः ? येषां `लक्षणेत्थम्भूताख्यान' (1.4.90) इत्यादिना कर्मप्रवचनीयसंज्ञा विहिता ते प्रतिपर्यनवः इत्यादयः।।

44. प्रसितोत्सुकाभ्यां तृतीया च।
प्रसितशब्दोऽयं गुणवचनोऽप्यस्ति-- प्रकृष्टः सितः प्रसितः, क्रियाशब्दोऽप्यस्ति-- `षिञ् बन्धने' (धा.पा.1477) इत्यस्य प्रपूर्वसय् निष्ठायां व्युत्पाद्यते, तत्रेहोत्सुकशब्देन क्रियाशब्देन साहचर्यात् क्रियाशब्दो विज्ञायत इत्यत आह-- `प्रसितः प्रसक्तः' इति। `यस्तत्र नित्यमेवाबद्धः स प्रसितशब्देनोच्यते' इति। आबद्ध इवाबद्धः, यो हि यत्र प्रसक्तः स तत्राबद्ध इव भवति। `केशैः प्रसितः, केशेषु प्रसितः' इत्यादि। प्रसितत्वमुत्सुकत्वञ्च केशविषयमिति `सप्तम्यधिकरणे' (2.3.36) इत्येव सिद्धा सप्तमी पक्षे तृतीयाविधानार्थ वचनम्।।

45.नक्षत्रे च लुपि। (2.3.45)
नक्षत्रे च लुपीति सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमीविधानम्। अत एवाह-- `लबन्तान्नक्षत्रशब्दात्' इत्यादि. `पुष्येण' इत्यादि। `नक्षत्रेण युक्तः कालः' (4.2.3) इति विहितस्याणः `लुबविशेषे' (4.2.4) इति लुप्। पञ्चालेषु वसतीत्यत्रापि `तस्य निवासः' (2.3.36) इति विहितस्याणः `जनपदे लुप्' (4.2.81) इति लुप्‌।
`मघासु ग्रहः' इति। सामीप्येऽधिकरण एव सप्तमी। अत्र `नक्षत्रेण युक्तः कालः' (4.2.3) इत्यस्यार्थस्याविवक्षितत्वादण् न भवति। `अद्य पुष्यः' इति। पूर्ववदण्, लुप्। `अधिकरणे' (2.3.36) इत्यनुवर्त्तते। न चेहाधिकरणत्वं विवक्षितमिति भावः।।

46. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा। (2.3.46)
`प्रातिपदिकार्थः सत्ता'इति। यदि जातिस्तदा देवदत्तादौ न स्यात्। अथ सतो भावः सत्ता, तदाकाशकुसुमादौ न स्यादित्याह-- प्रादिपदिकार्थः सत्तेति। यत्रार्थान्तरनिरपेक्षा शब्दस्य प्रवृत्तिः स सर्वः प्रातिपदिकार्थः। सत्ताग्रहणन्तूपलक्षणार्थम्। उच्चैर्नीचैः' इति। अत्रोच्चैः शब्दस्य स्वार्थे जात्याद्यर्थान्तनिरपेक्षः वृत्तिः। अत्र च प्रथमायाः प्रयोजनम्-- `सपूर्वायाः प्रथमाया विभाषा' (8.1.26) इति विकल्पेन तेमयादिविधिर्यथा स्यात्-- ग्राम उच्चैस्ते स्वम्, ग्राम उच्चैस्तव स्वमिति। पदसंज्ञा तु षष्ठ्याऽपि स्यादेव।
`कुमारी, वृक्षः, कुण्डम्' इति। ननु चात्रापि प्रातिपदिकार्थ इत्येवंसिद्धा प्रथमा; लिङ्गमपि प्रातिपदिकार्थ एव भवति। तथा च वक्ष्यत `स्त्रियाम्' (4.1.3) इत्यत्र `सिद्धास्तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादयः' (वा.4.13) इति ? नैतदस्ति; इदमपि हि तत्र वक्ष्यति-- `अथ वा पुनरिदमस्तु। स्त्रियामभिधेयायाम्' (म.भा.4.1.3) इति। किञ्च-- स्त्रीतवं प्रत्येषा गतिः स्यात्, पुंनपुंसके तु नियोगतो विभक्तिवाच्ये एव। तथा हि-- विना विभक्त्या तटशब्दाः प्रत्युज्यमानः किं पुंस्त्वमाचष्टे ? उत नपुंसकत्वम् ? इति सन्देहः स्यात्। तत्र यथा राज्ञः पुरुषः इत्यत्र प्रातिपदिकार्थेनानुपात्ते स्वस्वामिकसम्बन्धे तस्य चाभिधाने विभक्त्यपक्षया षष्ठी भवति, तथा पुंनपुंसकयोरपि षष्ठी स्यात्। तस्माल्लिङ्गग्रहणं कर्त्तव्यम्।
`द्रोणः, खारी, आढकम्' इति। ननु चात्रापि प्रातिपदिकार्थत्वादेव सिध्यति प्रथमा, तथा हि -- द्रोणादयः शब्दाः परिमाणे लौहे दारुमये वा अर्थान्तरनिपेक्षा एव वर्त्तन्ते ? सत्यम्; सिध्यति तदा यदा परिमाण एव वर्त्तन्ते, यदा तु पुनः परिमेये वर्तन्ते तदा न सिध्यति। तथा हि-- द्रोणादयः शब्दा द्रोणादिकं परिमाणमर्थान्तरं प्रवृत्तिनिमित्तमुपादाय व्रीह्यादौ परिमेयं वर्त्तन्ते। कथं पुनस्ते तत्र वर्त्तन्ते ? सोऽयमित्यबेदसम्बन्धात्- द्रोणपरिमितो व्रीहिर्द्रोण इति । यद्येवम्, निमित्तरूपेण निमित्तनोऽभिधानादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रातिपदिकार्थ इत्येव सिद्धा प्रथमा ? न सिध्यति, न हि मुख्ये सति गौणस्याश्रयणं युक्तम्। नन्वेवमपि लिङ्गग्रहणादेवात्र प्रथमा भविष्यति, तत्किं परिमाणग्रहणेन ? नैतदस्ति; तस्य हि यत्र परिमाणं नास्ति सोऽवकाश इति। अत्र परिमाणाधिक्ये षष्ठ्येव स्यात्। तस्मात् परिमाणग्रहणं कर्त्तव्यम्।
परिमाणग्रहणञ्च यत्र निमित्तादर्थान्तरे सोऽयमित्यभेदसम्बन्धाच्छब्दः प्रवर्त्तते, तदुपलक्षणार्थ वेदितव्यम्। तेन परिमाणवदर्थान्तरभूतेष्वप्युन्मानादिषु प्रथमा भवति। घृतम्, पलम्, दीर्घ काष्ठम्, शुक्लः पटः, हस्तो मुष्टिर्वितस्तिरित्येवमादि सिद्धं भवति। कुत एतत् ? मात्रशब्दात्। स ह्यत्र व्याप्तिवचनो गृह्यते, यथा-- कन्यामात्रं वरयति, ब्राह्मणमात्रं भोजयतीति। तेन परिमाणग्रहणस्यैवोपलक्षणार्थता विज्ञायते यदि तु यथा `पयोमात्रं भुङ्क्ते' इत्यत्र मात्रशब्दो नियमार्थः, तथेहापि नियमार्थ एव स्यात्; ततश्चोन्मानादिषु प्रथमा न स्यात्; तस्य परिमाणादन्यत्वात्-- उक्तेष्वप्येकत्वादिषु प्रथमा यथा स्यादिति।
वचनग्रहणे त्वसत्युक्तेष्वेकत्वादिषु प्रथमा न स्यात्। `अनभिहिते' (2.3.1) इत्यधिकारात्। ननु च परिगणनं तत्र कृतम्, तत् कुतोऽयं प्रसङ्गः ? नैतदस्ति; प्रत्याख्यातं हि तत्र परिगणनम्। तथा हि--रूढः कर्म, भीष्मादयोऽपि कर्मणि, तत्र कर्माणि, तत्र कर्मणीत्येव द्वितीया सिद्धा। कटशब्दादुत्पद्यमाना द्वितीयया सामान्यकर्मोक्तम्, न विशेषकर्म। तत्रावश्यं विशेषो वक्तव्य इति भीष्मादिभ्योऽपि विशेषाभिधानार्थ द्वितीया भविष्यति। अथ वा-- कट एव कर्म, तत्सामानाधकरण्यात् भीष्मादिभ्योऽपि द्वितीया भविष्यति; नार्थः परिगणनेन।
यत्पुनरिदं `तिङकृत्तद्धितसमासैः परिसंख्यानम्' (2.3.1) इति वृत्तावुपन्यसत्म्, तदेभिरेवाभिधानं सम्भवतीति सम्भवप्रदर्शनार्थपरं वेदितव्यम्। यद्यप्येकादिभिरपि संख्याशब्दैरेक्तवादीनामभिधानं सम्भवति, तथाऽप्यभिहितेऽपि तैरेत्कत्वादावर्थे वचनग्रहणात् यत्नात् विभक्त्येति। तैरप्यभिधानस्य सम्भवप्रदर्शनार्थ यत्नः कृतः।
`निपातरस्यानर्थकस्य' इत्यादि। अथार्थविशेषणार्थ प्रातिपदिकग्रहणं कस्मान्न विज्ञायते ? असति हि तस्मिन् न ज्ञायते-- कस्यार्थ इति, तथा चार्थमात्रे प्रथमा स्यात् ? नैतदस्ति;प्रातिपदिकाद्धि प्रथमा विधीयते। तत्रासति प्रातिपदिकग्रहणे प्रातिपदिकार्थ एव भवतीति विज्ञायते। तस्याद्वृत्तिकारोक्तमेव प्रातिपदिकग्रहणस्य प्रयोजनं न्याय्यम्।।

47. सम्बोधने च। (2.3.47)
सम्बोधनम् = अभिमुखीकरणम्, "तदधिके प्रातिपदिक्रथा" इति। अभिमुखीकरणस्य क्रियापरत्वात् प्रातिपदिकार्थे तस्यान्तर्भावो नास्ति, त्सयातदात्मकत्वात्, तस्मात तेनाधिकः प्रातिपदिकार्थो भवति। अथ कथमिह प्रथमा-हे-पचनम्, हे पचमानेति ? कथञ्च न स्यात् ? शतृशानज्भ्यामुक्तत्वात् सम्बोधनस्य। एतावपि `सम्बोधने च' इति सम्बोधन एव वक्ष्यते। मा भूदनेन, पूर्वसूत्रेण भविष्यति ? सम्बोधनार्थस्येह `कृत्तद्धितसमासाश्च' (1.2.46) इत्यनेन प्रातिपदिकार्थत्वात्। योगविभाग उत्तरार्थः।।

48. साऽऽमन्त्रितम्। (2.3.48)
`तदन्तं शब्दरूपम्' इति। ननु च `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' (पु.प.वृ.81) इति ज्ञापितमेतत् `सुप्तिङन्तं पदम्' (1.4.14) इत्यत्रान्तग्रहणेन। इह च संज्ञाविधौ प्रत्ययग्रहणम्, तत् कथं तदन्तस्य संज्ञा विधीयते ? नैतदस्ति; यद्यपि संज्ञाविधौ प्रत्ययग्रहणमिह, तथाऽपि तदन्तस्यैवेयं संज्ञा विधीयते। यदीह प्रत्ययमात्रस्य संज्ञाग्रहणं स्यात् तदा प्रदेशेषु तस्यैव ग्रहणं स्यात्, तथा च संज्ञाकरणमनर्थकं स्यात्। प्रदेशेषु सम्बोधन इत्येवं ब्रूयात्। एवमपि प्रत्ययमात्रस्य ग्रहणं लभ्यत एव। तस्यैव सम्बोधने विहितत्वात्। तस्मात् संज्ञाकरणादेव तदन्तस्य संज्ञा लभ्यते। सेति वचनं पूर्वसूत्रेणापि सम्बोधने या विहिता तस्या अपीयं संज्ञा यथा स्यात्-- हे पचन्, हे पचमानेत्यत्र। असति त्वस्मिन् `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति पूर्वसूत्रेणैव या विहिता तस्या एव स्यात्; सेत्येतदुच्यमानं सर्वनामपदं सामान्येन प्रवर्त्तत इति कृत्वा। अतः सम्बोधनमात्रे या प्रथमा तां प्रतिपादयति, तेन सर्वत्र संज्ञा सिद्धा भवति। आमन्त्रितसंज्ञायां सत्यां हे देवदत्त इत्यादौ `आमन्त्रितस्य' (6.1.198) इत्याद्युदात्तत्वं भवति। `आमन्त्रितम्' इति महत्याः संज्ञायाः करणं वैचित्र्यार्थम्।।

49. एकवचनं सम्बुद्धिः। (2.3.49)
`हे पटो, हे देवदत्त' इति। अत्र सम्बुद्धिसंज्ञायां सत्याम्, `सम्बुद्धौ च' (7.3.106) इत्यधिकृत्य `ह्रस्वस्य गुणः' (7.3.108) इति गुणे `एङ ह्रस्वात् सम्बुद्धेः' (6.1.69) इति सोर्लोपो यथायोगं भवति। अथ सुग्रहणमेव कस्मान्न कृतम्, न च सप्तमीबहुवचनस्य प्रसङ्गः, सम्बोधनप्रथमाधिकारात् ? सत्यम्; किन्तु नैतदस्ति; प्रत्ययमात्रस्य संज्ञाविधानार्थमेकवचनग्रहणं कृतम्-- हे पचनम्, हेपचमानेति; अन्यथा हि पूर्वेण यथा तदन्तस्य संज्ञा विहिता तथेहापि स्यात्। न चेहासंज्ञिनः कश्चिद्विशेषोऽङ्गीक्रियत इति सुशब्देन तदन्तमेव लक्ष्यते, ततश्च तदन्तकस्यैव संज्ञा स्यात्। तथा `एङ ह्रस्वात् सम्बुद्धेः' (6.1.69) इति सोर्लोपो विधीयमानः `आदेः परस्य' (1.1.54) इत्यादेरेव स्यात्; प्रत्ययमात्रस्य न स्यात्। तस्मात् प्रत्ययमात्रस्य संज्ञा यथा स्यादित्येवमर्थमेकवचनग्रहणम्।।

50. शेषे षष्ठी। (2.3.50)
कर्मादीनां प्रकृतत्वात् तदपेक्षया शेषत्वं विज्ञायत इत्याह-- `कर्मादिभ्यो योऽन्यः' इति। कर्मादयः कारकविशेषास्तस्य सम्बन्धस्य हेतुभूताः, स तु फलभूतः। हेतुफलयोश्च प्रसिद्धमन्यत्वमिति तेभ्योऽन्यो भवति। प्रातिपदिकार्थ{व्यतिरिक्तः-काशिका.पदमञ्जरी च} व्यतिरेकः। व्यतिरेकः = आधिक्यम्। अथ वा-- येन प्रातिपदिकार्थो व्यतिरिच्यते = व्यतिरेकीक्रियते स व्यतिरेकः। प्रातिपदिकार्थस्य व्यतिरेकः = प्रातिपदिकार्थव्यतिरेकः। स शेषः। कः पुनरसवित्याह-- `स्वस्वामिकसम्बन्धादिः' इति। आदिशब्देनोवयवावयविप्रभृतेः सम्बन्धस्य ग्रहणम्। सम्बन्धश्च यद्यपि द्विष्ठस्तथापि तस्यैकत्वादेकत एव सम्बन्धिन उत्पद्यमानया षष्ठ्या विभक्त्याऽभिहितत्वात् द्वितीयासम्बन्धिनःषष्ठी न भवति। एकस्मादुत्पद्यमानाऽपि षष्ठी विशेषणादेव भवति ; न विशेष्यात्। विशेष्यात्तु प्रथमैव भवति; यस्माच्छेषशब्दोऽयंयथा प्रकृतादन्यविशेषणमाचष्टे तथा परार्थमपि। एवं ह्यभियुक्ताः पुरुषा उपदिशन्ति-- शेषः परार्थ इति। राज्ञा पुरुष इति स्वस्वामिकसम्बन्दस्योदाहरणम् । अत्र पुरुषस्य प्रादान्यम्, विशेष्यत्वात्। राज्ञोऽप्राधान्यम्, विशेषणत्वात्। विशेषणस्य परार्थत्वात् शेषभाव इति ततः षष्ठी भवति। यदा तु द्वावपि विशेषणभूतौ तृतीये सम्बन्धिन्यपेक्षितौ भवतः, तदा द्वाभ्यामपि षष्ठी भवति `राज्ञः पुरुषस्य गृहम्' इति।
`पशोः पादः' इति। अत्रावयवावयिसम्बन्धे षष्ठी। `पितुः पुत्रः' इत्यत्र जन्यजनकसम्बन्धे षष्ठी। अथ शेषग्रहणं किमर्थम्, यावता `कर्मणि द्वितीया' (2.3.2) इत्येवमादौ प्रत्यनियमोऽर्थनियमश्चेति द्वावपि पक्षौ। तत्र प्रत्ययनियमपक्षे यदि शेषग्रहमं न क्रियेत तदा कर्मण्येव द्वितीयेति कर्मानियतम्, द्वितीया तु नियता; अतस्तत्रापि षष्ठी स्यादिति शेषग्रहणं कर्त्तव्यम्। शेष एव यथा स्यादन्यत्र माभूदिति अर्थनियमपक्षे तु शेषग्रहमं शक्यमकर्त्तुम्। यावता कर्मणि द्वितीयैवैति कर्म नियतम्, द्वितीया त्वनियता; तस्यामन्यत्रापि प्राप्तायां षष्ठीत्युच्यमानं सूत्रमिदं नियमार्थं भविष्यति-- यत्र षष्ठी चान्या च प्राप्नोति तत्र षष्ठ्येव भवति। एवमन्यत्रापि वेदितव्यम्।।

51. ज्ञोऽविदर्थस्य करणे। (2.3.51)
यद्यपि बहवो विदयः सन्ति, तथापि यस्यार्थे जानातर्वृत्तिः सम्भवति तस्यैव विदेः प्रतिषेधकरणं युक्तम्, `विद ज्ञाने' (धा.पा.1064) इत्यस्यैवार्थे जानातेर्वृत्तिः सम्भवति, तस्मादविदर्थस्येत्यनेन ज्ञानार्थस्यैव प्रतिषेधो विज्ञायत इत्याह-- `अज्ञानार्थस्य' इत्यादि। `सर्पिषो जानीते, मधुनो जानीते' इति। `अपह्नवे ज्ञः' (1.3.44) इत्यनुवर्त्तमाने, `अकर्मकाच्च' (1.3.45) इत्यात्मनेपदम्। धुन इति-- ` इकोऽचि विभक्तौ' (र7.1.73) इति नुम्। सर्पिषा करणभूते प्रवर्त्तत इत्यर्थः। यस्य प्रियतमं सर्पिस्तस्य प्रवृतिं प्रति सर्पिषः करणभूतत्वात्। धातूनामनेकार्थत्वाज्जानातिरिह प्रवृत्त्यर्थः। `सर्पिषिरक्तः प्रतिहतो वा' इति। सर्पिषि रक्तत्वं प्रतिहतत्वं च चित्तभ्रान्तेः कारणमाह। यदि सर्वमेव ग्राह्यं तदात्मना सर्पिःस्वभावतया प्रतिपद्यते। एवं सत्यविदर्थता नोपपद्यते, ज्ञानार्थत्वादित्यत आह-- `मिथ्याज्ञानमज्ञानमेव' इति। ज्ञानकार्याकरणादिति भावः। अविपरीतविषयपरिच्छेदो हि ज्ञानकार्यम्, कतच्च मिथ्याज्ञानेन न क्रियत इति मिथ्याज्ञानमज्ञानमुच्यते, यथा-- पुत्रकार्याकरणात् पुत्रोऽपुत्र इति।।

52. अधीगर्थदयेशां कर्मणि। (2.3.52)
`अधीक' इति। `इक् स्मरणे' (धा.पा.1047) इत्यस्याधिपूर्वस्य ग्रहणम्। अधीगित्यनेन समानार्था अधीगर्थाः। ककारानुबन्धकरणमस्य धातोरत्रैव सूत्रे विशेषणार्थम्। अध्ययनार्थानामित्युच्यमाने सन्देहः स्यात्-- कोऽयं धातुरिति। अधिपूर्वस्योच्चारणेनाधिपूर्वस्यैवास्य प्रयोग इति दर्शयति। `कर्मणि कारके' इत्यादि। यदा तदेव कर्म शेषकार्यत्वाच्छेषत्वेन विवक्ष्यते न कर्मत्वेन, तदा तत्र षष्ठी भवति। `अध्येति' इति। अदादित्वाच्छपो लुक्। एवम् `ईष्टे' इति। व्रश्चादिसूत्रेण (8.2.36) षत्वम्।
`मातुर्गुणैः स्मरति' इति। अत्र कर्मग्रहणाद्गुणानां करणभूतानां शेषविवक्षायामपि षष्ठी न भवति।।

53. कृञः प्रतियत्ने। (2.3.53)
`एथो दकस्योपस्कुरुते' इति। गन्धनादि (1.3.32) सूत्रेणात्मनेपदम्, `उपात्प्रतियत्न' (6.1.139) इत्यादिना सुट्।।

54. रुजार्थानां भाववचनानामज्वरेः। (2.3.54)
रुजेति केचिद्भिदादिषु पठन्ति। ये न पठन्ति तेऽपि `चिन्तिपूजिकथिकुम्बचर्च्चश्च' (3.3.105) इति चकारस्यानुक्तसमुच्चयार्थत्वादस्मादेव निपातनाद्वा रुजाशब्दस्य साधुत्वं वर्णयन्ति। रुजा अर्थो येषां ते रुजार्थाः। `भाववचनानाम्' इति। यदि भावार्थाभिधायिनां रुजार्थानामित्येषोऽर्थो विवक्षितः स्यात्, तदाऽनर्थकमिदं वचनं स्यात्। सर्व एव हि रुजार्था भाववचनाः। तस्मान्नातर् धातुवाच्यो भावो विवक्षितः, किं तर्हि ? प्रतययवाच्यः, यत्र `भावे' (3.3.18) इति धञ् विधीयते। वचनशब्दोऽयं कर्त्तृसाधनः, वक्तीति वचनः, `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्त्तरि ल्युट्। न च रुजार्थानां यो भावस्तस्य वचनक्रियां प्रति कर्त्तृत्वं सम्भवतीति सामर्थ्यादवचनशब्देन प्रकृत्यर्थं परित्यज्य प्रत्ययार्थो विवक्षित इति प्रतीयते। स पुनः कर्त्तृशक्तिः। भाववचनानामिति बहुव्रीहिः-- भावो वचनः कर्त्ता येषां ते भाववचनाः। भावकर्त्तृका इत्यर्थः। एतत्सर्वं चेतसि कृत्वाऽऽह-- `भावकर्त्तृकाणाम्' इति। भावकर्त्तृकाणामित्येवं नोक्तं वैचित्र्यार्थम्। `चौरस्य रुजति' इति। `रुजो भङ्गे' (धा.पा.1416), तौदीदिकः। अत्र रोगो भावः कर्त्ता। `चौरस्यामयति' इत्यत्राप्यामयः। `अम रोगे' (धा.पा.1720), चौरादिकः।
`एति जीवन्तमनन्दो नरं वर्षशतादपि' इति। अस्त्यत्रानन्दो भावः कर्त्ता। न त्वेतिर्धातू रुजार्थः, किं तर्हि ? गत्यर्थः। `नदी कूलानि रुजति' इति। रुजिरत्र द्रव्यकर्त्तृकः, न भावकर्त्तृकः, नद्या द्रव्यत्वात्। नैतद्युक्तं प्रत्युदाहरणम्, रुजाशब्दो हि रुढिशब्दत्वात् व्याधिमेवाचष्टे; न चात्र व्याधिवचनः, किं तर्हि ? भङ्गवचनो रुजिः। एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता वृत्तिकृता। इदन्त्वत्र प्रत्युदाहरणम्-- श्लेष्मा पुरुषं रुजतीति। व्याधिना ग्राहयतीत्यर्थः। ज्वरयतीति। `ज्वर योगे' (धा.पा.776), हेतुमण्णिच्। घटादित्वान्मित्त्वम्। `मितां ह्रस्वः' (6.4.92) इति ह्रस्वः।
`सन्तापयति' इति। `तप सन्तापे' (धा.पा.985), हेतुमण्णिच्। सन्तापोऽत्र भावः कर्त्ता।।

55. आशिषि नाथः।
`सर्पिषो नाथते' इति। सर्पिर्यस्य नास्त्यतोऽर्थित्वादाशास्ते सः-- सर्पिर्मे भूयादिति। `आशिषि नाथः' इत्युपसंख्यानादात्मनेपदम्।
`माणवकमुपनाथति' इति। याचत इत्यर्थः।।

56. जासिनिप्रहणनाटक्राथपिषां हिंसायाम्। (2.3.56)
`न दैवादिकस्य' इति। हिंसायामिति वचनात्। अस्य च तत्राप्रवृत्तेः। अत एव हि ण्यन्तस्यैव ग्रहणं भविष्यति, तत्किमर्थो ण्यन्तस्य निर्देश इति ? कः पुनराह च्यन्तस्य निर्देश इति ? अत्र हीकारोऽयं धातुनिर्देशार्थः कृतः, `इक्श्तिपौ धातुनिर्देशे' (वा.319) इति। यद्येवम्, जासीत्याकारः कथं श्रूयते? उच्यते-- आकारमुच्चार्य विकृतनिर्देशः कृतः, विकृतनिर्देशस्तू यत्रास्यैतद्रूपं भवति तत्रैव यथा स्यादिह मा भूत्,-- दस्युमजीजसदिति। लुङ, `णिश्रि'(3.1.48) इत्यादिना च्लेश्चङ, `णौ चङयुपधाया ह्रस्वः' (7.4.1), `चङि' (6.1.11) इति द्विर्वचनम्, `सन्वल्लघुनि' (7.4.93) इत्यादिना सन्वद्भावः, `सन्यतः' (7.4.79) इतीत्वम्, `दीर्घो लघोः' (7.4.93) इति दीर्घः। नाटक्राथयोरपि वकृतानिर्देशस्यैतदेव प्रयोजनम्। इह मा भूत-- दस्युमनीनटदिति, दस्युमचिक्रथदिति। क्रथेर्वृद्धिश्च प्रयोजनम्, एतच्च `निपातनाद्वृद्धिः' इति ब्रुवता वृत्तिकारेण दर्शितम्। `{निप्रहन्ति'इति वृत्तौ पाठः} निप्रहन्' इति। धातूपसर्गानिर्देशमात्रमिह तन्त्रम्। न तूपसर्गसयोः संघातः, नाष्यानुपूर्वी; तयोरविवक्षितत्वात्। तेन निप्रशब्दयोर्व्यस्तसमस्तयोर्विपरीतानुपूर्वीकयोश्च ग्रहणं विज्ञायत इत्याह-- `संघातविगृहीतविपर्यस्तस्य ग्रहणम्' इति. `चौरस्य प्रणिहन्ति' इति। नेर्गदनद' (8.4.17) इत्यादिना णत्वम्. `चौरस्योन्नाटयति' इति। `नट अवस्पन्दने' (धा.पा.(7.2.116) इति वृद्धि सिद्धा; तत्किमर्थमुच्यते-- निपातनाद्वृद्धिरिति ? अत आह-- `अयं हि' इत्यादि। `ह्रस्वस्य स्यात्' इति। `मितां ह्रस्वः' (6.4.92) इत्यनेन। `चौरस्य पिनष्टि' इति। ` पिष्लृ सञ्चूर्णने' (धा.पा.1452) रुधादित्वात् श्नम्। `धानाः पिनष्टि' इति। अत्र हिंसा नास्ति; तस्या प्राणिधर्मत्वात्। इदञ्चाभावकर्त्तृकाणामपि यथा स्यादित्येवमर्थमारब्धम् चौरस्योजासयति देवदत्तः।।

57. व्यवहृपणोः समर्थयोः। (2.3.57)
`शतस्य व्यवहरति' इति। शतं क्रयविक्रयेण विनियुङ्क्ते, दीव्यतीति वेत्यर्थः। `शतस्य पणते' इत्यत्रापि स एवार्थः। अनुदात्तेत्वादात्मनेपदम्,। `आयप्रत्ययः कस्मान्न भवति' इति। `गकपूधूप'(3.1.28) इत्यादिना प्राप्नोतीति भावः। `स्तुत्यर्थस्य' इत्यादि। यद्यपि `पण व्यवहारे स्तुतौ च'(धा.पा.439) इति स्तुतिव्यवहारयोः पणिः पठ्यते; तथापि स्तुत्यर्थस्यैव पणतेरायप्रत्यय इष्यते, न व्यवहारार्थस्य। तत्र वृत्तिकारः स्वयमेव युक्तिं वक्ष्यति। स्तुत्यर्थ्येन पणिना साहचर्यात् तदर्थ एव पणिरायमुत्पादयति,न व्यवहारार्थ इति। `शलाकां व्यवहरति' इति। परिगणयतीत्यर्थः। अत्र व्यवहारार्थे वर्त्तत इत्यसमानार्थत्वम्। `ब्राह्मणान् पणयति' इति। स्तौतीत्यर्थः। पणयीत्यस्यार्थे व्यवहरतेर्वृत्तिर्नास्तीत्यसमानार्थता।ओ।

58. दिवस्तदर्थस्य। (2.3.58)
`ब्राह्मणान् दीव्यति' इति। स्तौतीत्यर्थः। `हलि च' (8.2.77) इति दीर्घः। यदि तदर्थस्यैव भविष्यति, पूर्वयोग एव दिवो ग्रहणं कर्त्तुं युक्तं स्यात्। तत्किमर्थो योगविभाग इत्यत आङ-- `योगविभाग उत्तरार्थः' इति।।

59. विभाषोपसर्गे। (2.3.59)
`शलाकां प्रति दीव्यति' इति। अर्थान्तरे क्रीडादौ दीव्यतिर्वर्त्तते।।

60. द्वितीया ब्राह्मणे। (2.3.60)
`ब्राह्मणे; इति। ब्राह्मणशब्दः शथपथस्याख्या। `ग्रामस्य' इति। शेषषष्ठी। सभायामित्येतदपेक्षया। `तदहः' इति। एतदुहारणम्। `स्वमोर्नपुंसकात्' (7.1.23) इत्यमो लुक्। `अहन्' (8.2.68) इत्यनुवर्त्तमाने `रोऽसुपि' (8.2.69) इति नकारस्य रेफः, विसर्जनीयः। `दीव्येयुः' इति। लिङ, झेर्जुस्, `अतो येयः' (7.2.80) इतीयादेशः, `लिङ सलोपोऽनन्त्तयस्य' (7.2.79) इति सलोपः। सोपसर्गस्य विभाषया षष्ठ्यां प्राप्तायां नित्यं द्वितीयाविधानार्थं वचनं कस्मान्न भवतीत्याह-- `सोपसर्गस्य' इति। `विभाषोपसर्गे' (2.3.59) इत्यनेन व्यवस्थितविभाषयापि च्छन्दसि नित्यं द्वितीया भविष्यतीति तदर्थकमिदं वचनं नोपपद्यते।।

61. प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने। (2.3.61)
`इष्यतेर्दैवादिकस्य' इति। `इष गतौ' (धा.पा. 1127) इत्यस्य श्यना निर्देश इष्यन्तराणां निवृत्त्यर्थः। लोण्मध्यमपुरुषैकवचनेन निर्देशस्तु लकारान्तरस्य पुरुषान्तरस्य वचनान्तरस्य च निवृत्त्यर्थः। `तद्विषय एव' इति। लोण्मध्यमपुरुषैकवचनविषय एव। `अग्नये छागस्य' इत्यादि। छागस्य विकारश्चछागः। तत्राग्निर्देवता सम्प्रदानम्। कछागविकारो वपादि सम्प्रदेयं हविः कर्म। `{नास्ति-काशिका, पदमञ्जरी च} ननु प्रेष्य' इति। `अतो हेः' (6.4.105) इति हर्लुक्। ` अनुब्रूहि' इति। `सेर्ह्यपिच्च' (3.4.87) इति हिरादेशः। अदादित्वाच्छपो लुक्। भाषाविषयेऽप्ययं योगः; उत्तरसूत्रे छन्दोग्रहणात्। `जुहुधि' इति। `हुझल्भ्यो हेर्धिः' (6.4.101) इति धिभावः। `अग्नये गोमयानि प्रेष्य' इति। ननु च गोमयानि हर्वीषि भवन्त्येव, तत्कथं प्रत्युदाहरणम् ? नैवम्; देवतासम्प्रदानग्रहणादेव सम्बन्धिशब्दात्वाद्धविर्ग्रहणे सिद्धे पुनर्हविर्ग्रहणादभ्यवहार्यस्य हविषो ग्रहणं विज्ञायते। न च गोमयान्यभ्यवहार्याणि भवन्तीति युक्तं प्रत्युदाहरणम्।
`हविषः प्रस्थितस्य' इत्यादि। प्रस्थितशब्देन यद्विशिष्यते हविस्तत् प्रस्थितम्। तस्य षष्ठ्याः प्रतिषेधो वक्तव्यः। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् --`विभाषोपसर्गे' (2.3.59) इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेन हविषः प्रस्थितस्य न भवति।।

62. चतुर्थ्यर्थे बहुलं छन्दसि। (2.3.62)
`बहुलग्रहणं किम्' इति। विभाषाग्रहणानुवृत्तेरेव सिध्यतीति मन्यमानस्य प्रश्नः। `कृष्णो रात्र्यै, हिमवतो हस्ती' इति। अत्र बहुलग्रहणात् सप्तम्यर्थेऽपि चतुर्थी भवति। `वक्तव्या' इति। व्याख्यातव्येत्यर्थः। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिह क्रियते। तेन क्वचित् षष्ठ्यर्थेऽपि चतुर्थी भवति। क्वचिदन्यदेवेत्येषोऽपि बहुलगर्हणस्यार्थोऽभिमत एव।।

63. यजेश्च करणे। (2.3.63)
`धृतस्य यजते' इति। यजिरत्र देवपूजायां वर्त्तते, तत्र च घृतस्य करणभावः।।

64. कृत्वोऽर्थप्रयोगे कालेऽधिकरणे। (2.3.64)
`पञ्चकृत्वः' इति। `संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' (5.4.17) ` द्विरह्नः' इति। `द्व्त्रिचतुर्थ्यः सुच्' (5.4.18)।
`गम्यते हि द्विस्त्रिश्चतुर्वा' इति। प्रकरणादेरिति भावः। ननु च बहिरङ्गः प्रकरणाद्यर्थ इति पञ्चकृत्व इत्यमत्र च वचनस्य चरितार्थत्वादिह न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति-- प्रकरणाद्यर्थोऽपि विभक्तीनां निमित्तमिति। तेन `वृद्धो यूना' (1.2.65) इति ` सहयुक्तेऽप्रधाने' (2.3.19) इति सहार्थे गम्यमाने तृतीया भवतीति।।

65. कर्त्तृकर्मणोः कृति। (2.3.65)
`आसिका' इति। भावे `पर्यायार्हणोत्पत्तिषु ण्वुच्' (3.3.111)। `स्रष्टा'
इति। सृजेस्तृच्'। `सृजिदृशोर्झल्यमकिति' (6.1.58) इत्यम्, `व्रश्चादिना (8.2.36) षत्वम्।
`तद्धितप्रयोगे मा भूत्' इति। अथ तिङप्रयोगे मा भूदित्येवमर्थमपि कृद्ग्रहणं कस्मान्न भवति ? तत्र `न लोकाव्ययनिष्ठा' (2.3.69) इत्यनेन षष्ठीप्रतिषेधात्। ` कृतपूर्वी कटम्' इति। `पूर्वादिनिः' (5.2.86) इत्यत्र इनिरित्यनुवर्त्तमाने `सपूर्वाच्च' (5.2.87) इतीनिप्रत्ययः। अत्र कर्त्ता तद्धितेनैवोक्त इत्यत्र वाक्यमेवैतन्नोपप्रसङ्गो नास्ति, कर्म तु तेनानभिहितमित्यसति कृद्ग्रहणे कटादेः कर्मणः षष्ठी स्यात्। ननु चात्र वाक्यमेवैतन्नोपपद्यते, तथा हि-- कर्मणो निष्ठयाऽभिहितत्वात् द्वितीययाऽत्र न भवितव्यम्, नापि तद्धितेन, असमार्थ्यात्। तत्पुनरसामर्थ्य सापेक्षत्वात्। तथा हि-- कृतः कटः पूर्वमनेनेति कृतशब्दः कटमपेक्षते, नैवम्; धातोरुत्पद्यमाना निष्ठा कथं कटशब्दस्य कर्मतामभिदध्यात्। तस्या हि कर्मसामान्यमेवाभिधातुं सामर्थ्यम्, न कर्मविशेषम्। वाक्ये तर्हि कथं तया कटशब्दस्य कर्मत्वमभिधीयते ? तत्र युक्तमभिधानम्; कृत इत्यनेन सामानाधिकरण्यात्। तद्धिते तूत्पन्न एकार्थीभावात्सामानाधिकरण्यं निवृत्तमिति केन कटादेः कर्मभावोऽभिधीयते ? क्रिया तु प्रकृत्यर्थत्वाद्यथा वाक्ये गुणीभूता साधनसम्बन्धमनुभवति, तथा वृत्तावपीति करोत्यर्थापेक्षं कटशब्दस्य कर्मत्वमुपपद्यते। तस्माद्धवितव्यमेव द्वितीयया।
किञ्च वृत्तिसमानार्थेन वाक्यन भवितव्यम्। न च वृत्तौ बाह्यं कटादिकं कर्म गम्यते येन प्रत्यय उत्पादयिष्यते। वाक्ये कटादिकर्मापेक्षा निष्प्रयोजनेति गम्यते। तस्मादेवं विग्रहः कर्त्तव्यः-- कृतं पूर्वमनेनेति। ततश्च नास्ति सापेक्षत्वमिति भवत्येव तद्धितः।
`इतरथा हि' इति। यदि शेषगर्हणमनुवर्त्तत इत्यर्थः। `कर्त्तरि च कृतीत्येवं ब्रूयात्' इति। एवमपि ह्युच्यमाने शेष इत्यनुवृत्तौ चकारकरणात् कर्मणीत्येतल्लभ्यत एव, किं कर्मग्रहणेन ? तस्मात् पुनः कर्मग्रहणं शेषाधिकरानिवृत्त्यर्थम्। पुनः कर्मग्रहणेन हि पूर्वस्य कर्मग्रहणस्य निवृत्तिराख्यायते। तन्निवृत्तौ तत्सम्बद्धमनुवृत्तमपि शेषग्रहणं निवर्त्तते।।

66.उभयप्राप्तौ कर्मणि। (2.3.66)
`उभयप्राप्ताविति बहुव्रीहिः' इति। तेन तत्पुरुषशङ्कां निरस्यति। बहुव्रीहेराश्रयणस्य प्रयोजनं वक्ष्यति। उभयग्रहणमेन प्रकृतत्वात् कर्त्तृकर्मणी सम्बध्येते। `उभयोः प्राप्तिर्यस्मिन् कृति'इत्यनेनैकस्मिन्नेवेत्यभिप्रायः। `कर्मण्येव' इति नियमस्य स्वरूपं दर्शयति। उभयप्राप्तावेव कर्मणीत्येष तु विपरीतनियमो न भवति। मा भूत् पूर्वसूत्रेण कर्मणि षष्ठीविधानस्य वैयर्थ्यमिति। `आश्चर्यो गवां दोहोऽगोपालकेन' इति। दुहेर्भावे घ़ञ्। तत्रोभयोप्राप्तौ कर्मण्येव गोषु षष्ठी भवति; नाऽगोपालके कर्त्तरि। अत्र च `कृत्वोऽर्थप्रयोगे' (2.3.64) इत्यतः प्रयोगग्रहणं नानुवर्त्तते। तेन गम्यमानेऽपि कर्मणि षष्ठी भवति, यथा-- `अन्तर्धौ येनादर्शनमिच्छति' (1.4.28) इत्यत्र ह्यप्रयुज्यमानस्यात्मनः कर्मत्वं गम्यते। `पानम्' इति। `ल्युट् च' (3.3.115) इति भावे ल्युट्। इह तु न भवति-- आश्चर्यमिदमोदनस्य च पाको ब्राह्मणानाञ्च पादुर्भाव इति। न ह्यत्रैकस्मिन् कृत्युभयोः प्राप्तिः। तथा ह्योदनस्य पाक इत्यत्र कर्मण्येवौदने प्राप्तिः, न तु ब्राह्मणेषु कर्त्तुषु। न हि पाकस्य कर्त्तृत्वेन विवक्षिता ब्राह्मणाः, किं तर्हि ? प्रादुर्भावस्य कर्त्तृत्वेन । ब्राह्मणानां नच प्रादुर्भाव इत्यत्रापि प्रादुर्भाव इत्येतस्मिन् कृति कर्त्तृष्वेव ब्राह्मणेषु प्राप्तिः, न कर्मण्योदने। न हि प्रादुर्भावस्योदनः कर्म; भवतेरकर्मकत्वात्। पाकस्यैव त्वोदनः कर्मत्वेन विवक्षितः।
`अकाकारयोः'इत्यादि। नियमस्यायं प्रतिषेधः। अकाकारयोः प्रयोगे नियमो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `चतुर्थ्यर्थे बहुलं छन्दसि' (2.3.62) इत्यतो बहुलग्रहणमनुवर्त्तते, तेनाकाकारयोः प्रयोगे नियमो न भविष्यतीति।
`शेषे विभाषा' इति। अस्याप्यर्थो बहुलग्रहणसमाश्रयणेन व्याख्यातव्यः। `भेदिका' इति। पूर्ववद्भावे ण्वुच्। `चिकीर्षा' इति। `अ प्रत्ययात्' (3.3.102) इत्यकारप्रत्ययः।।

67. क्तस्य च वर्त्तमाने। (2.3.67)
`राज्ञां मतः' इति। `मतिबुद्धि' (3.2.188) इत्यादिना क्तः। राज्ञामिति कर्त्तरि षष्ठी। कर्म तु निष्ठयाभिहितम्। अथेह कस्मान्न भवति-- शीलितो देवदत्तेन, रक्षितो देवदत्तेनेत्यादि, शीलितादिष्वपि `मतिबुद्धिपूजार्थेभ्यश्च' (3.2.188) इति चकारस्यानुक्तसमुच्चयार्थत्वनाद्वर्तमान एव क्तो विधीयते ? यद्यप्येवम्, तथापि बहुलग्रहणानुवृत्तेरिह न भविष्यतीत्यदोषः। अथ वा-- प्रकरणादेवात्र वर्त्तमानकालता गम्यते। पदार्थस्तु भूतत्वमेव प्रतिपादयति, न वर्त्तमानताम्। यस्य तु पदार्थो वर्त्तमानस्तत्प्रयोगे भवत्येव षष्ठी, यथा-- `कान्तो हरिश्चन्द्र इव प्रजानाम्' इति।
`शेषविज्ञानात् सिद्धम्' इति। उपसंख्यानं प्त्याचष्टे-- `तथा च' इत्यादिना। यस्तूपसंख्यानमारभते, तस्य कर्त्तृत्वाविवक्षायामपि षष्ठ्येव भवति, न तृतीयेति दर्शयति।।

68. अधिकरणवाचिनश्च। (2.3.68)
`तस्य प्रयोगे षष्ठी विभक्तिर्भवति' इति। यथासम्भवं यत्र कर्त्तैव संभवति तत्र कर्तरि भवति; यथा-- इदमेषामासितमिति। अत्रासेरकर्मकत्वात् कर्तैव सम्भवति, न कर्म। यत्र तु कर्म कर्त्तापि सम्भवति तत्रोभयत्रापि, यथा-- इदमेषां भुक्तमोदनस्येति। भुजेः सकर्मकत्वात् कर्माप्यस्त्येवौदनः। `उभयप्राप्तौ कर्मणि' (2.3.66) इति नियमः कस्मान्न भवति ? `कर्त्तृकर्मणो कृतिः' (2.3.65) इत्यस्याः षष्ठ्याः प्राप्तेरेव नियमो विज्ञायते। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति, `मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.10) इति वा। अधिकरणे चेति वक्तव्ये वाचिग्रहणमिधकरणक्तोपलक्षणं मा विज्ञायीत्येवमर्थम्। उपलक्षणार्थत्वे हि तस्यार्थान्तरवृत्तेरपि ध्रौव्यगतिप्रत्यवसानार्थेभ्य उत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्। वाचिग्रहणे तु यदा भावे क्तप्रत्ययो भवति तदा षष्ठी न भवति। तदा कर्त्तरि तृतीयैव भवति -- हहानेनासितमिति। न ह्यत्राधिकरणवाची क्तः; `{क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेऽभ्यः' इति सूत्रम्।} क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानाथभ्यश्च' (3.4.76) इति चकारात् यथाप्राप्तञ्चेति भावे कर्त्तरि च विधानात्। यदा तु कर्त्तरि क्तो भवति तदा तेनैवाभिहतत्वात् तत्र षष्ठी न भवति। इहेम आसिता इति चकारः पूर्वापेक्षया समुच्चयार्थः।।

69. न लोकाव्ययनिष्ठाखलर्थतृनाम्। (2.3.69)
`किकिनौ च गृह्येते' इति। यद्यपि किकिनोरलादेशत्वात् स्थानिवद्भावेन लग्रहणेन तयोर्ग्रहणं नास्ति, तथापि `लिट् च' (3.2.171) इत्यतिदेशेन भवितव्यम्। विशेषातिदेशे हि नान्तरीयकः सामान्यातिदेश इति; विशेषस्य सामान्येनाविनाभावादिति। तेन सामान्यनिबन्धनः प्रतिषेधः किकिनोरपि सिध्यतीति युक्तं तयोरपि ग्रहणम्। `पचमानः' इति शानच्। स्वरितेत्त्वादात्मनेपदम्। `पेचानः' इति। `लिटः कानज्वा' (3.2.106) इति वचनात्, कानच्। द्विर्वचनम्। `अत एक' (6.4.120) इत्यादिनैत्वाभ्यासलोपौ। `पेचिवान्' इति। `क्वुश्च' (3.2.107) इति क्वसुः। एत्वाभ्यासलोपयोः कृतयोः `वस्वेकाजाद्धसाम्' (7.2.67) इतीट्। `उगिदचाम्' (7.1.70)इति नुम्। `सान्तमहसः' (6.4.10) इत्यादिना दीर्घः। `ददिः। पपिः' इति। `आदृगमहनजनः किकिनौ लिट् च' (3.2.171) इति किकिनोरन्यतरः। लिट् चेत्यतिदेशाद्द्विवनम्। `आतो लोप इटि च' (6.3.64) इत्याकारलोपः। `चिकीर्षुः' इति। `सनासंसभिक्ष उः' (3.2.168)। `अलङ्करिष्णुः'इति। `अलंकृञ्' (3.2.136) इत्यादिनेष्णुच्। `{आगामुकम्- काशिका, पदमञ्जरी च।} आगामुकः' इति। `लषपतपद'(3.2.154) इत्यादिनोकञ्।
`उकप्रतिषेधे' इत्यादि। प्रतिपाद्यत इति शेषः। प्रतिपादनन्तु बहुलग्रहणानुवृत्तिमाश्रित्य कर्त्तव्यम्। `कृत्वा' इति। `समानकर्त्तृकयोः' (3.4.21) इति क्त्वा।
`अव्ययप्रतिषेधे' इत्यादि। अत्रापि पूर्ववद्वाक्यशेषो वेदितव्यः। प्रतिपादनञ्च पूर्ववदेव। अथ वा -- `अव्ययीभावश्च' (1.1.41) इत्यत्र `सर्वमिदं काण्डं स्वरादिषु पठ्यते' (1.1.41 काशिका) इत्यादिना वृत्तिकारेण प्रतिपादनं कृतम्। `संज्ञापूर्वको विधिरनित्यः' (व्या.प.64) इति वा। `उदेतोः' इति। उत्पूर्वादिणो `भावलक्षणे स्थेण्कृञ्वदिचरि' (3.4.16) इत्यादिना तोसुन्। `विसृपः' इति। `सृपितृदोः कसुन्' (3.4.17) । ` ईषत्करः' इति। `ईषद्' (3.3.126) इत्यादिना खल्। `ईषत्पानः' इति। `आतो युच्' (3.3.128)। `आतृनो नकारात्' इति। ताच्छीलिकस्य तृनः सम्बन्धिनो नकारादित्यर्थः। ` पवमानः' इति। `पूङ पवने' (धा.पा.966), `पूङयजोः शानन्' (3.2.128)। `नडमघ्नानः' इति। `ताच्छील्यवयोवचनशक्तिषु चानश् (3.2.129)। `गमहन' (6.4.98) इत्यादिनोपधालोपः। `हो हन्तेः'(7.3.54) इत्यादिना कुत्वम्। `अधीयन्' इति। `इङ धार्योः शत्रकृच्छ्रिणि' (3.2.130) इति शत्रादेशः। इयङादेशः। उपसर्गेण सह दीर्घः। `कर्त्ता' इति। `आ क्वेस्तच्छील' (3.2.134) इत्यादिना तृन्।
`द्विषः शतुर्वावचनम्' इति। द्विषः परो यः शतृप्रत्ययस्य प्रयोगे वावचनं कर्त्तव्यम्; अभिधानाभिधेययोरभेदोपचारात्। वेत्यनेन वार्थ उक्तः। वार्थोऽपि विकल्पः। विकल्प उच्यते = प्रत्याय्यते येन तद्वावचनम्। तस्य व्याख्यानं कर्त्तव्यमित्यर्थः। तत्रेदं व्याख्यानं -- बहुलग्रहणमिहानुवर्त्तते, तेन द्विषः शतुर्विकल्पेन प्रतिषेधो भविष्यति। `द्विषन्' इति। `द्विषोऽमित्रे' (3.2.131) इति शतृप्रत्ययः।।

70. अकेनोर्भविष्यदाधमर्ण्ययोः। (2.3.70)
`अकस्य भविष्यति काले' इति। नाधमर्ण्ये, तस्य तत्रासम्भवात्। `इनस्तु भविष्यदाधमर्ण्ययोः' इति। तस्योभयोरपि सम्भवात्। ननु च साम्यादिह संख्यातानुदेशेन भवितव्यम् ? नैतदस्ति; स्वरितेन हि संख्यातानुदेशो भवति, न चेह तदर्थं स्वरितत्वं प्रतिज्ञायते। `कटं कारको व्रजति' इति। `तुमुन्ण्वुलौ' (3.3.10) इत्यादिना ण्वुल्। `ग्रामं गमी' इति। गमेरिनिः। स च `भविष्यति गम्यादयः' (3.3.3) इति वचनाद्भविष्यत्कालविषयः। `शतं दायी' इति। `आवश्यकाधमर्ण्ययोर्णिनिः' (3.3.170)। `यवानां लावकः' इति। `ण्वुलतृचौ' (3.1.133) इति ण्वुल्। `अवश्यं कारी' इति। आवश्यके णिनिः। `वर्षशतस्य पूरकः' इति। `पूरी आप्यायने' (धा.पा.1151) चौरादिकः। तस्मात् `ण्वुल्तृचजौ' (3.1.133) इति भविष्यत्काले ण्वुल्। स हि त्रिषु कालेषु भवति। `भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्' इति। इह हि भविष्यदिति स्वर्यते। स्वरितेनाधिकारावगतिर्भवति। तेन भविष्यदधिकारविहितस्येदमकस्य ग्रहणम्, न सर्वस्य।।

71. कृत्यानां कर्त्तरि वा। (2.3.71)
`गेयो माणवकः साम्नाम्'इति। `भव्यगेय' (3.4.68) इत्यादिना कर्त्तरि गेयशब्दो व्युत्पादितः। गायतीति गेयः साम्नामिति कर्मणि षष्ठी नित्यमेव भवति। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- `न लोकाव्ययनिष्ठा' (2.3.69) इत्यत्र नेति योगविभागः कर्त्तव्यः, तेनोभयप्राप्तौ कृत्ये षष्ठ्याप्रतिषेधो भविष्यति। तेन क्रष्टव्या शाखा ग्रामं देवदत्तेनेति। कृषेः `अनुदात्तस्य चर्दुपधस्यान्तरस्याम्' (6.1.59) इत्यमागमो भवति। देवदत्ते कर्त्तरि षष्ठी मा भूदिति। एवमुभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्य इत्युक्तम्। कर्मणि तु शाखायां कृत्येनाभिहित्वादेव षष्ठी न भविष्यति। ग्राम्यस्याप्रधानत्वादेव यथैव हि कृत्याः प्रधाने कर्मणि भवन्ति नाप्रधाने तथा षष्ठ्यपि। न चेह ग्रामः प्रधानं कर्म, किं तर्हि ? शाखेति।।

72.तुल्यार्थैरतुलोपमाभ्मां तृतीयाऽन्यतरस्याम्। (2.3.72)
तुल्यार्थैः सदृशार्थैरित्यर्थः। अर्थग्रहणं पदान्तरनिरपेक्षया ये तुल्यार्थतामाहुस्तत्परिग्रहार्थम्। तेन पदान्तरसान्निध्येन द्योतका इवादयो निवर्तिता भवन्ति-- गौरिव गवय इति, यथा गौस्तथा गवय इति। स्वरूपनिवृत्त्यर्थत्वर्थग्रहणं न भवति; बहुवचननिर्देशादेव स्वरूपविधेर्निरस्तत्वात्। इहापि पितुस्तुल्यः प्रज्ञयेति प्रज्ञाशब्दात् षष्ठी न भवति हेतुत्वन करणत्वेन वा प्रज्ञाया विवक्षितत्वात् `इतरथा हि तृकतीयानुकृष्येत' इति। तस्या अनन्तरसूत्रे श्रुतत्वात्। अन्यतरस्यांग्रहणस्य त्वेतदेव प्रयोजनमिति। तदेव चकारेणानुकृष्यत इति।।

73. चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः।
`तृतीयानिर्देशादेवार्थग्रहणे सिद्धेऽर्थग्रहणादर्थशब्दः पृथगेव निमित्तं विज्ञायते। कथं पुनस्तृतीयाग्रहणादर्थग्रहणं सिध्यति ? अपरिसमाप्तत्वादस्य योग इत्यध्याह्रियते। स चार्थैरेव सम्भवति, न शब्दैरिति सामर्थ्यादर्थग्रहणं सिध्यति।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेदन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
द्वितीयाध्यायस्य
तृतीयः पादः
-----------------