सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/द्वितीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः काशिकाविवरणपञ्जिका
चतुर्थः पादः
[[लेखकः :|]]

अथ द्वितीयाध्यायस्य
चतुर्थः पादः
1. द्विगुरेकवचनम्। (2.4.1)
अत्र यदि पारिभाषिकमेकवचनं गृह्येत तदानुप्रयोग एकवचनं न स्यात्-- पञ्चपूलीयं शोभनेति, अनुप्रयोगस्याद्विगुत्वात्। यदि पारिभाषिकमेकवचनमिहाभिप्रेतं स्यात् तदा द्विगोरेकवचनमित्येवं ब्रूयात्, तस्मादन्वर्थस्यैकवचनस्येदं ग्रहणं न पारिभाषिकस्येति मनसि कृत्वाह-- `एकस्य वचनमेकवचनम्' इति। एतेनैकवचनशब्दस्य षष्ठीसमासतां दर्शयन्नन्वर्थतां दर्शयति। एकस्य वचनं वाचकमेकवचनमिति। वक्तीति वचनम्, `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्त्तरि ल्युट्। एकवचनस्यैवार्थं पर्यायान्तरेण स्पष्टीकर्तुमाह-- `एकार्थस्य' इत्यादि। ननु चैकवचनमिति पुंल्लिङ्गेन भवितव्यम्; कथम् ? द्विगोः पुंल्लिङ्गत्वात्; न; लिङ्गसामान्यस्य विवक्षितत्वान्नपुंसकलिङ्गेनैव सामान्येन निर्देशः कृत इत्यदोषः। `तदनेन प्रकारेण' इति। अन्वर्थस्यैकवचनशब्दग्रहणात्मकेनेत्यर्थः। नचानेकार्थाभिधायिनः शब्दस्य वचनशतैरप्येकार्मथाभिधायित्वं शक्यते कर्त्तुम्; शब्दानामर्थाभिधायित्वस्य स्वाभाविकत्वात्; उच्यते चेदं वचनम्, ततः सामर्थ्यादतिदेशोऽयं विज्ञायत इत्यत आह-- `द्विग्वर्थस्यैकवद्भावो विधीयते' इति। अस्यैवार्थं स्पष्टीकर्त्तमाह-- `द्विग्वर्थ एकवद्भवति' इति। यद्येवम्, तद्धितार्थो यो द्विगुस्तस्याप्यकवद्भावः प्राप्नोति-- पञ्चसु कपालेषु संस्कृतौ संस्कृता वा पञ्चकपालौ पञ्चकपाला वेत्यत आह-- `समाहारद्विगोश्च' इत्यादि। चकारोऽवधारणे। समाहारद्विगोरेवेति यावत्। कथं पुनः समाहारद्विगोरेव ग्रहणं लभ्यते ? एवं मन्यते-- `द्वन्द्वश्च' (2.4.2) इत्यत्र चकारेण द्विगुरनुकृष्यते। यस्मिन्नर्थे द्वन्द्व एकार्थीभवति तस्मिन्नेवार्थे द्विगोरप्येकवद्भावो यथा स्यादिति। द्वन्द्वश्च समाहार एवैकार्थीभवति, नान्यत्र। तस्मात् द्विगोरप्येकवद्भावस्तत्रैव भवति; अतः समाहारद्विगोरेवेदं ग्रहणं युक्तं भवति। यदि तर्हि समाहारद्विगोरेवेदं ग्रहणं तदा निष्प्रयोजनोऽतिदेशः, तथा हि-- समाहारो द्विगोरर्थः, समाहारश्च भावसाधनः, समाहरणं समाहारः = समुदायः, स चैक एव। तत्र न्यायप्राप्तमेवैकवचनमिति निष्फलः सूत्रारम्भः ? नैतदस्ति; यतः `समुदायिभ्योऽनन्यः समुदायः' इत्यस्मिन् दर्शनेऽनेकद्रव्यात्मकत्वात् समुदायस्यैकवचनं न सिद्ध्यतीतीदमारब्धम्। तथा चोक्तं भाष्ये-- `प्रत्यधिकरणं वचनोत्पत्तेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचने विधानम्' इति। प्रत्यधिकरणम् = प्रतिद्रव्यम्। वचनस्योत्पत्तौ प्रत्यभिधेयद्रव्यसमवायिनी संख्याविभक्तिः प्रयोजिकोत्पद्यते। द्विगोश्च योऽर्थः सोऽनेकद्रव्यात्मकः। तथा हि-- पञ्च समाहृताः। समाह्रियमाणानां पूलानां पञ्चसंख्यावच्छिन्नत्वात् संख्यासामानाधिकरण्याच्च पञ्चैतानि द्रव्याणीति कृत्वा समुदायस्यैकवचनं न सिद्ध्यति। तत्रासत्यस्मिन् वचने बहुत्वात् बहुवचनं स्यात्। अत एवद्भावो विधीयत इति वाक्यार्थः।
`समुदायिभ्योऽन्यः समुदायः' इत्यस्मिन् दर्शने सूत्रमिदं प्रत्याख्यातव्यमेव। तथा चोक्तं भाष्ये-- `न वा समाहारैकत्वात्' इति। न वा योगारम्भेणैवार्थः। यस्मादेकोऽयमर्थः समाहारो नाम। तत्रैकत्वादेकवचनं भविष्यतीति वाक्यार्थः। `पञ्चपूली' इति। `अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते' (वा.156) इति स्त्रीत्वे सति द्विगोः' (4.1.21) इति ङीप्। `अर्थस्यैकत्वात्' इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति।।

2. द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्। (2.4.2)
अत्राङ्गशब्दः समुदाये परिसमाप्यते ? प्रत्येकं परिसमाप्यते वा ? तत्र यदि समुदाये परिसमाप्येत तदैकमेवेदं वाक्यं स्यात्, तथा च व्यतिकरः प्रसज्येत। प्राणितूर्यसेनाङ्गानां परस्परसहितानां यो द्वन्द्वो व्यतिकीर्णावयवस्तस्यैकवद्भावः स्यात्। प्रत्येकं परिसमाप्तौ त्वेष दोषो न भवति। तत्र हि प्राण्यङ्गानां द्वन्द्व एकवद्भवतीत्येवमादीनि त्रीणि वाक्यानि सम्पद्यन्ते। स्वविषये यत्र बहुवचनान्तं वाक्यं क्रियते तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गैरेव यः समासस्तस्यैकवद्भावो विधीयते। द्वितीयेन वाक्येन तूर्याङ्गानां तूर्याङ्गैः। तृतीयेन सेनाङ्गानां सेनाङ्गैरिति न भवति सङ्करप्रसङ्गः। न हि चतुर्थ वाक्यमस्ति येन व्यतिकीर्णावयवस्य द्वन्द्वस्यैकार्थता स्यादिति मन्यमानः प्रत्येकं वाक्यपरिसमाप्तिपक्षमाश्रित्याह-- `अङ्गशब्दस्य' इत्यादि। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्येपेक्षते। एवं सेनाङागनाञ्चेत्यत्रापि। `पाणिपादम्' इति। अत्र यदि प्राण्यङ्गमपि प्राणिग्रहणेन गृह्यते तदा `जातिरप्राणिनाम्' (2.4.6) इत्येवं सिद्धम्। यथा-- पणवमृदङ्गमिति। `रथिकाश्वारोहम्' इति। रथिकाश्चाश्वारोहाश्चेति वृत्तिपदार्थस्य बहुत्वं दर्शयितव्यम्। यस्माद्बहुत्वमेव सेनाङ्गत्वे कारणम्। बहुत्वाभावे सेनाङ्गत्वन्नास्तीति रथिकाश्वारोहाविति भवितव्यम्। `हस्त्यश्वादिषु परत्वात् पशुद्वन्द्वविभाषयैव भवितव्यम्' इति। `विभाषा वृक्षमृग' (2.4.12) इत्यादिना। `इतरेतरयोगे' इत्यादिना द्वन्द्वप्रकरणस्य प्रयोजनं दर्शयति। `प्राण्यङ्गादीनां समाहार एव' इत्यादिना विषयविभाषागार्थतां स्पष्टीकरोति।।

3. अनुवादे चरणानाम्। (2.4.3)
`चरणशब्द' इत्यादिना सूत्रस्य विषयं दर्शयति। तथा हि-- यो हि कठादिप्रोक्ताध्ययनविशेषः शाखा, तत्र यदा चरणशब्दो वर्त्तते तदा `जातिरप्राणिनाम्' (2.4.6) इत्येव सिद्धम्। यदा तु शाखानिमित्तकः' इति। शाखा निमित्तम्सयेति बहुव्रीहिः। `प्रमाणान्तरावगतस्य' इति। शब्दात् प्रमाणाद्यदन्यत् प्रमाणं तत् प्रमाणान्तरम्, तत्पुनःप्रत्यक्षादि। तेनावगतस्य परिच्छिन्नस्य शब्देन रसङ्कीर्तनमात्रमिति मात्रशब्दोऽर्थावगतिव्युदासार्थः। `उदगात्,प्रत्यष्ठात्' इति। उत्पूर्वादिणः प्रतिपूर्वात्तिष्ठतेर्लुङ, `इषो गा लुङि' (2.4 .45) इति गादेशः, `गातिस्था' (2.4.77) इति सिचो लुक्। `कठकालापम्' इति। कठेन प्रोक्तमधीयत इति कठाः। कठशब्दात् प्रोक्तार्थे `कलापिवैशम्पायनान्तेवासिभ्यश्च' (4.3.104) इति णिनिः, तस्य `कठचरकाल्लुक्' (4.3.107) , ततः ` तदधीते तद्वेद' (4.2.59) इत्यण्, तस्य `प्रोक्ताल्लुक्' (4.2.64) , `छन्दोब्राह्मणानि च तद्विषयाणि' (4.2.66) इति तद्विषयता। कलापिना प्रोक्तमधीयत इति कलापाः। प्रोक्तार्थे कलापिनोऽण्, `इनण्यनपत्ये' (6.4.164) इति प्रकृतिभावे प्राप्ते `सब्रह्मचारिपीठसर्पिकलापिकुथुमितैरतिलिजाजलिलाङ्गलिशिलालिशिखष्टिशूकरसद्मसुपर्वणामुपसंख्यानम्' (वा. 798) इति टिलोपः। ततः `तदधीते तद्वेद' (4.2.59) इत्यण्। तस्य `प्रोक्ताल्लुक्' (4.2.64) इति लुक्। पूर्ववत् तद्विषता च। कठाश्च कालापाश्च कठकालापम्। ` यदा तु प्रथमत एवोपदेशः' इति। अनवगतस्यैव प्राक् प्रमाणान्तरेण शब्देनाद्यं प्रत्यायनमर्थस्य प्रश्ने प्रतिवचने वोपदेशः, स यदा भवति तदात्र प्रत्युदाहरणम्। ` उदगुः' इति। `आतः' (3.4.110) इति झर्जुस्। `उस्यपदान्तात्' (6.1.96) इति पररूपत्वम्। `स्थेणोरद्यतन्याञ्चेति वक्तव्यम्' इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `तुल्यार्थैरतुलोपमाभ्याम्' (2.3.72) इत्यतः सूत्रादन्यतरस्यामित्यनुवर्त्तते। सा च व्यवस्थितविभाषा विज्ञायते। तेन स्थेणोरद्यतन्यामनुवादे चरणानामेकवद्भावो भविष्यति, नान्यत्रेति। `अद्यतनी' इति लुङः पूर्वाचार्यप्रणीतैषा संज्ञा। `अनन्दिषुः' इति। `टुनदि समृद्धौ' (धा.पा.67), `सिजब्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्। `उद्यन्ति' इति। `इको यण्' (6.4.81) इति यणादेशः।।

4. अध्वर्युक्रतुरनपुंसकम्। (2.4.4)
`अध्वर्युवेदे' इति। ऐतेनाध्वर्युशब्दनात्र यजुर्वेदो लक्ष्यत इति दर्शयति। अथाष्वर्योर्ऋत्विग्विशेषस्य यः क्रतुरिति क्रतुविशेषणमेवाध्वर्युग्रहणं कस्मान्न विज्ञायते ? असम्भवात्; को हि तस्य क्रतुर्भवति ! अपि तु घनव्ययशीलस्य। यद्यपि तस्य क्रतौ कर्त्तृत्वमस्ति तदपि ऋत्विगन्तरेण साधारणमित्यध्वर्युणैकेन तस्य विशेषणमयुक्तम्। ननु चाथर्ववेदविहितो यः क्रतुस्तन्निवृत्त्यर्थमध्वर्युणैकेन कथं विशेषणं न स्यात्; न हि त्तराध्वर्यवः सन्ति ? नैतदस्ति; यदि ह्येतावत् प्रयोजनमभिहितं स्यात् तदाऽनथर्वण इति प्रतिषेधमेव कुर्यात्। लघीयसी हि साक्षात् प्रतिषेधे प्रतीतिर्भवति। त्रयीग्रहणं वा कुर्यात्। यदि चाध्वर्युणा क्रतुर्विशेष्येत तदेषुवज्रावित्यत्रापि स्यात् ? इषुवज्रावपि ह्यध्वर्योः क्रतू भवतः; तयोरपि तत्कर्तृकत्वात्। तस्मादध्वर्यूणां यजुर्वेदविदां यो वेदः सोऽध्वर्युशब्देनोपलक्ष्यते। स पुनर्यजुर्वेदः। तत्राध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुरिति। इतिकर्त्तव्यतोपदेशः प्रयोगश्चानुष्ठानात्मको विधानशब्देनोक्तः। यदि तर्ह्यध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवतीति सूत्रार्थस्तदा सूत्रेऽध्वर्युक्रतुशब्दस्यानपुंसकमित्यस्य च द्वन्द्व इ्तयनेन प्रकृतेन सामानाधिकरण्येन निर्देशो नोपपद्यते। अतोऽध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानामिति वक्तव्यं स्यादित्यत आह-- `अध्वर्युक्रतुरनपुंसकम्' इति। `गौणोऽयं निर्देशः' इति। गौण इत्यमुख्य औपचारिक इत्यर्थः। अध्वर्युक्रत्ववयवो द्वन्द्व उपचारेणाध्वर्युक्रतुरित्युक्तः। स एवानपुंसकलिङ्गावयवोऽनपुंलकमिति। गौणनि्र्देशस्तु लाघवार्थो वेदितव्यः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा `स नपुसंकम्' (2.4.17) इत्यस्यापवादोऽयं विज्ञायेत। `अर्काश्वमेधम्' इत्यादि। अर्कश्चाश्वमेधश्चेत्यर्काश्वमेधम्। सायाह्नश्चातिरात्रश्चेति `सायाह्नातिरात्रम्'।
`इषुवज्रौ' इत्यादि। इषुवज्रप्रभृतयोऽध्वर्युक्रतवो न सम्भवति, न हि तेषामध्वर्युवेदे विधानम्। किं तर्हि ? सामवेदे। `राजसूयवाजपेये' इति. एतौ राजसूयवाजपेयशब्दौ पुंल्लिङ्गावपि स्तः। तत्र यदा नपुंसकलिङ्गौ प्रयुज्येते तत्रेदं प्रत्युदाहरणम्। `सोमयागेषु' इति। यत्र यत्र सोमपानं विहितं ते सोमयागाः। तेष्वेव क्रतुशब्दो रूढः। न च दर्शपौर्णमासौ सोमयागौ। `अनपुंसकम्' (2.4.4) इत्युपादानात् स्वरूपग्रहणमिह न भवति। न हि क्रतुसामान्यो नपुंसकलिङ्गो भवति।।

5. अध्ययनतोऽविप्रकृष्टाख्यानाम्। (2.4.5)
अधीतिरध्ययनमिति भावसाधनोऽध्ययनशब्दः, कर्मसाधनो वा -- अधीयत इत्यध्ययनमिति। `अध्ययनतः' इति। `आद्यादिभ्यस्तस्युपसंख्यानम्' (वा. 634) इति हेतुतृतीयान्तात् तसिः। अत आह-- `अध्ययनेन निमित्तेन' इति। `अविप्रकृष्टा' इति। अविप्रकृष्टाऽऽख्या येषां तेऽविप्रकृष्टाख्याः। निमित्तस्य साधारणत्वादिविप्रकृष्टता। तत्पुनर्निमित्तं सूत्रोपात्तमेवाध्ययनमाख्यानामधेयम्। `पदकक्रमकम्' इति। पदमधीते, क्रममधीते इति `क्रमादिभ्यो वुन्' (4.2.61)। `क्रमकवार्तिकम्' इति. वृत्तिमधीत इति वार्तिकः। क्रतूक्थादिसूत्रान्ताट्ठक् (4.2.60)। कथं पुनः पदस्याध्येतुः क्रमस्य चाध्ययनेन निमित्तेनाविप्रकृष्टता भवतीत्याह-- `सम्पाठः' इत्यादि। यस्मात् पदानां क्रमस्य च यः पाठः स नातिभिन्नः। ग्रन्थोऽपि तादृश एव, अतः प्रत्यासन्नः। यतश्च पदान्यधीत्य क्रमोऽध्येतव्यः, ततोऽपि सम्पाठस्तयो। प्रत्यासन्नः, ततश्च तेन सम्पाठेनाध्ययनेन निमित्तेन पदक इति क्रमक इति च याऽध्येतुराख्या साऽपि प्रत्यासन्ना भवतीत्यभिप्रायः। `पितापुत्रौ' इति। `आनङ ऋतो द्वन्द्वे' (6.3.25) इत्यानङादेशः। तत्र हि `पुत्रेऽन्यतरस्याम्' (6.3.22) इत्यतः पुत्र इत्यनुवर्त्तते। अत्रापि पितेति पुत्र इति चाख्ये प्रत्यासन्ने साधारणत्वान्निमित्तस्य। तथा हि-- जन्यजनकभावो द्वयोरपि तयोर्निमित्तम्। `याज्ञिकवैयाकरणम्' इति। यज्ञमधीते याज्ञिकः। क्रतूक्थादिना (4.2.60) इक्। व्याकरममधीते वैयाकरणः। `तदधीते तद्वेद' (4.2.59) इत्यण्। अस्त्यत्राध्ययननिमित्तत्वमनयोराख्ययोः, न तु प्रत्यासतिः। न हि यज्ञाध्ययनेन व्याकरणाध्ययनेन वा तयोः क्रियाप्रत्यासत्तिर्नापि ग्रन्थप्रत्यासत्तिः।।

6. जातिरप्राणिनाम्। (2.4.6)
अयमपि गौण्या वृत्त्या जातिर्द्वन्द्व इति सामानाधिकरण्येन निर्देशः कृतः। जातिवाच्यवयवो द्वन्द्वो जातिरित्युक्तः। जातेश्च स्वरूपग्रहणं न भवति, अप्राणिनामिति प्रतिषेधात्। `आराशस्त्रि' इति। `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वः।
`नन्दकपाञ्चजन्यौ' इति। संज्ञाशब्दयोरेव द्वन्द्वोऽयम्, न जातिशब्दयोः। अनेनाप्राणिनामित्यस्य पर्युदासतां दर्शयति। तेनायमर्थो भवतीत्याह-- `नञिवयुक्त' इत्यादि। `रूपरसगन्धस्पर्शाः' इत्यादि गुणजातिः। `गमनाकुञ्चनप्रसारणानि' इति क्रियाजातिः। `जातिपरत्वे च' इति। यदा जातेः प्राधान्येन विवक्षा तदा जातेःपरत्वे प्रधानत्वे सति जातिशब्दानाममेकवद्भावो भवति। `न नियतद्रव्यविवक्षायाम्' इति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा भवति तदा जातिशब्दस्य प्रयोगेऽप्येकवद्भावो न भवति। कुत एतत् ? जातिरित्यभिधानान्मुख्या जातिराश्रीयते; न गौणी। एतच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते। एतदुक्तं भवति-- यदा जातिरेव व्यक्तिविशेषमाश्रित्य प्रयुज्यते तदा नैकवद्भावः। यदा तु व्यक्तिविशेषमनाश्रित्य प्रयुज्यते तदैवैकवद्भाव इति। `बदरामलकानि' इति। अत्र बदरामलकानाञ्च व्यक्तिप्रयुक्तानां प्रतीतिः; न जातिशब्दानाम्। अत एव व्यक्त्याश्रयं बहुवचनम्; अन्यथा जातेर्द्वित्वाद्दविवचनमेव स्यात्, न बहुवचनम्। अप्राणिनामिति पर्युदासोऽयम्। तेनायमर्थो लभ्यते-- नञिवयुक्तन्यायेन (व्या.प.65) रूपरसस्पर्शादीनान्नैकवद्भाव इति। अप्राणिनामिति प्रतिषेधे बहुत्वं श्रूयमाणं विधावपि बहुत्वं गमयति। तेन बहुप्रकृतेरेव द्वन्द्व एकदवद्भवति, न द्विप्रकृतेः-- आराशस्त्र्याविति।।

7. विशिष्टलिङ्गो नदीदेशोऽग्रामाः। (2.4.7)
विशिष्टशब्दोऽयं भेदवचनः। योञऽपि `क्तेन नञ्विशिष्टेनानञ्' (2.1.क60) इत्यत्र सावधारणाधिक्ये विशिष्टशब्दो व्याख्यातः; सोऽपि भेद्दवारेणैव प्रतिपत्तयः। तेनेह वृत्तिकारोऽपि `भिन्नलिङ्गाना{अपि नास्ति--काशिका}मपि' इत्याह। `अग्रामाः' इति। प्रतिषेधादनयोः स्वरूपग्रहणं न भवतीत्याह-- `नदीवाचिनाम्' इत्यादि। यदि नदीवाचिनां द्वन्द्वो देशवाचिनाञ्चैकवद्भवतीत्ययमत्र सूत्रार्थोऽभिमतः, तत्कथं नदीदेश इत्ययं द्वन्द्व इत्यनेन प्रकृतेन सामानाधिकरण्येन निर्देश इत्याह-- `नद्यवयवो द्वन्द्वोनदीत्युच्यते' इत्यादि। एतेन गौणः सूत्रे निर्देश इति दर्शयति। नदीदेश इत्ययं यदि द्वन्द्वसमासस्तदा व्यतिकीर्णावयवो द्वन्द्वो यस्य कश्चिदवयवो नदी कश्चिद्देशस्तस्यैकवद्भावः स्यात्। किञ्च, द्वन्द्वो भवन्नेष समाहारे वा स्यात् ? इतरेरतरयोगे वा ? त्त्र पूर्वस्मिन् पक्षे `स नपुंसकम्' (2.4.17) इति नपुंसकत्वं स्यात्, इतरत्र तु द्विवचनमितीमं दोषं दृष्ट्वाऽऽह-- `नदीदेश' इति। `असमास एवायं निर्देशः' इति।
`मद्रकेकयाः' इति। मद्राश्च केकयाश्च मद्रकेकयाः। अथ नदीग्रहणं कस्मात् क्रियते ? न देशग्रहणादेव नदीग्रहणं सिद्धमित्यत आह-- `नदीग्रहणमदेशत्वात्' इति। कस्मात् पूनर्नदी देशो न भवतीत्याह-- `जनपदो हि देशः' इति। तत्रैव देशशब्दस्य रूढत्वात्। यत् पुनर्नदी देश इत्युच्यते तत् तात्स्थ्यात्। भवति हि तात्स्थ्यात् ताच्छब्द्यम्, यथा- मञ्चाः क्रोशन्तीति। `तथा च' इत्यादि। तस्माज्जनपद एव देशो नान्यः पर्वतादिः। एवञ्च कृत्वा देशग्रहणेन पर्वतादीनां ग्रहणं न भवति।
`अग्रामा इत्यत्र ' इत्यादि। लोके हि ग्रामग्रहणेन नगरग्रहणं भवति, तथा ह्यभक्ष्यो ग्राम्यशूकर इत्युक्ते नागरोऽपि न भक्ष्यते। ततश्चेहाग्रामा इति प्रतिषेधः क्रियमाणो नगराणामपि प्राप्नोति, तस्मादग्रामा इति प्रतिषेधे नगरप्रतिषेधो वक्तव्यः, अग्रामा इत्यनेन नगराणां यः प्रतिषेधः प्राप्नोति तस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः, व्याख्येय इत्यर्थः। तेन नगराणां विधिरेव भवति। तत्रेदं व्याख्यानम्-- यदयम् `प्राचां ग्रामनगराणाम्' (7.3.14) इत्यत्र ग्रामनगरयोर्भेदेनोपदानं करोति कज्ज्ञापयति-- इह शस्त्रे ग्रामग्रहणेन नगराणां ग्रहणं न भवतीति। तेनाग्रामा इति प्रतिषेधो नगराणां न भवति।
`उभयतच्च' इत्यादि। उभयस्मिन्नित्यर्थः उभयतः। यत्र कश्चिदवयवो ग्रामः कश्चिन्नगरं तत्र ग्रामाणां यः प्रतिषेध उच्यते स एव वक्तव्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अग्रामा इति प्रसज्य प्रतिषेधोऽयं विज्ञेयः, नचेत् द्वन्द्वे ग्रामा विद्यन्त इति। तेन यत्र ग्रामगन्धोऽप्यस्ति तत्राप्येकवद्भावो न भवतीति।।

8. क्षुद्रजन्तवः। (2.4.8)
क्षुद्रशब्दोऽयमस्त्येव यः कार्पण्यवति पुरुषे वर्त्तते; यथा-- क्षुद्रो देवदत्त इति, कृपण इति गम्यते। अस्ति च शीलहीनेऽङ्गहीने च, यथा --क्षुद्राभ्यो वेति। अत्र ह्यनियतपुंस्का विकलाङ्गाश्च स्त्रियः क्षुद्राग्रहणेन गृह्यन्ते। अस्ति च परिमाणापचये, यथा-- क्षुद्रास्तण्डुला इति। इह तु जन्तुशब्दसन्निधानात् प्राणिशरीरस्याल्पतामाचष्टे। तेन परिमाणापचये वर्त्तमानस्य क्षुद्रशब्दस्य ग्रहणं विज्ञायत इत्याह-- `अपचितपरिमाणः क्षुद्रः' इति। अल्पशरीर इत्यर्थः। अपचितपरिमाणता चापेक्षाभेदादनवस्थितेति। अस्थिरेत्यर्थः।
क्षुद्रजन्तुशब्दस्याभिधेयं प्रति स्म-तीरुपन्यस्यति-- `क्षुद्रजन्तुरनस्थिः स्यात्' इति। `क्षुदिर् सम्पेवणे' (धा.पा.1443) क्षुद्यत इति क्षुद्रः। औणादिकः `स्फायीतञ्चि' (द.उ.8.31) इत्यादिना रक्। क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। `अनस्थिः' इति। यस्यास्थीनि न विद्यन्ते। कवलं यस्य चर्मशोणितमांसमस्ति स क्षुद्रश्चासौ जन्तुश्चेति क्षुद्रजन्तुः। `अथ वा क्षुद्र एव यः' इति स्मृत्यन्तरमाह। क्षोदयितुं यः शक्यते स क्षुद्रजन्तुः। शब्दार्थवशात् प्रसिद्ध एव लोके क्षुद्रजन्तुर्ग्राह्यः। स पुनर्मशकादिरङ्गे यस्यात्मीयं शोणितं नास्ति। येषां वा गोचर्ममात्रं राशिहत्वापि नरः पतितो न भवति ते प्रसिद्धाः क्षुद्रजन्तव उच्यन्ते। `शतं वा प्रसृतौ येषाम्' अपरा स्मृतिः। प्सृतौ अञ्जलौ बद्धं येषां प्राणिनां शतं प्रसृतिर्भवति शतेन वा प्रसृतिः पूर्यते ते क्षुद्रजन्तवः। `केचिदानकुलादपि' इति. ककेचिद्वर्णयन्ति-- नकुलपर्यन्ताः क्षुद्रजन्तव इति। `इयमेव स्मृतिः प्रमाणम्' इति। अस्याः सर्वस्मृत्यनुग्राहिणीत्वात्। तथा ह्येतदुपलक्षितेषु क्षुद्रजन्तुषु स्मृत्यन्तरदर्शिता अपि क्षुद्रजन्तवोऽन्तर्भवति। इतरा अपि स्मृतयः प्रमाणं कस्मान्न भवन्तीत्याह-- `इतरासाम्' इत्यादि। अनस्थ्यादीनां स्मृतीनामा नकुलादपीति स्मृत्या विरोधः। तस्मान्नैताः प्रामाण्येनाभ्युपगम्यन्ते, तेन सर्वत्रेदं सिद्धं भवति। `क्षुद्रजन्तवः' इति बहुवचननिर्देशात् बहुवचननिर्देशात् बहुप्रकृतेरेवैकवद्भावो यथा स्यात्। तनेह न भवति-- यूकालिक्षे, दंशमशकाविति। अयञ्च प्राणिजात्यर्थ आरम्भः। `क्षुद्रजन्तव इति किम्' इति ? ननु च सूत्रास्याभावे किं प्रत्युदाहरणं स्यात् ? एवं मन्यते-- अन्यथा हि जन्तव इति सूत्रं कर्त्तव्यम्, ततश्चातिप्रसङ्ग स्यादिति।।

9. येषां च विरोधः शाश्वतिकः। (2.4.9)
प्रतिपक्षभावमात्रं लोके विरोधशब्देनोच्यते। तस्येह ग्रहणे सति छायातपौ, अग्निजले इत्यत्रापि स्यादिति मत्वा वैरमिह विरोधोऽभिमत इति दर्शयितुमाह-- `विरोधो वैरम्' इति। एवं मन्यते-- `क्षुद्रजन्तवः' (2.4.8) इत्यतो जन्तुग्रहणमनुवर्त्तते। तेन जन्तूनां यो विरोधस्तस्येह ग्रहणं विज्ञायते। स च वैरस्वभाव एवेति। `शाश्वतिको नित्यः' इति। शस्वदिति त्रैकल्यमुच्यते। तत्र भवः शाश्वतिकः। `कालाटठञ्'(4.3.11)। अस्मादेव निपातनात् तान्तादपि को न भवति। यश्च त्रैकल्ये भवति स नित्यः। `गोपालिशालङ्कायनाः' इति। गोपालयश्च शालङ्कायनाश्च गोपालिशालङ्कायनाः। नात्र शाश्वतिको विरोध इत्येकवद्भावो न भवति। `चकारः पुनरस्यैव समुच्चयार्थः' इति। प्रकृतस्यान्यस्य समुच्चेतव्यस्याभावादस्यैकवद्भावस्य समुच्चयार्थश्चकारो विज्ञायते। तेन किं भवतीत्याह-- `तेन पशुशकुनि' इत्यादि। पशुशकुनिविभाषाया अवकाशः--महाजोरभ्रम्, महाजोरभ्राः, हंसचक्रवाकम्, हंसचक्रवाका इति। नित्यविरोधिनामेकवद्भावस्यावकाशः-- ब्राह्मणनास्तिकमिति, श्वशृगालम्, अश्वमहिषम्। काकोलूकमित्यत्रोभयप्राप्तौ परत्वात् पशुशकुनिविभाषा स्यात्। चकारस्य पुनरस्यैव समुच्चयार्थत्वादनेन नित्यमेकवद्भवति।।

10.शूद्राणामनिरवसितानाम्। (2.4.10)
यद्यपि `षिञ् बन्धने' (धा.पा. 1248) इति सिनोतिर्बन्धने वर्त्तते; तथापि निरवपूर्वो बहिष्करणे वर्त्तत इत्याह-- `निरवसानं बहिष्करणम्'। यैर्भुक्ते पात्रं संस्कारेणापि न शुद्ध्यति तस्मात् ते ततो बहिष्कृताः = पृथक्कृताः। न लभन्ते तत्र भोक्तुमित्यर्थः।।

11. गवाश्वप्रभृतीनि च। (2.4.11)
गवाश्चादीनि कृतैकवद्भावानि गणे पठ्यन्ते। तेषाममनेन साधुत्वमात्रं विधीयते। न त्वेकवद्भाव इति दर्शयन्नाह-- `गवाश्वादीनि' इति। ग्वाश्वमित्येवमादीनामजैडकपर्यन्तानां पशुद्वन्द्वविकल्पे वचनमिदम्। कुब्जवामनप्रभृतीनां त्रयाणामप्राप्ते। श्वचाण्डालस्याविरोधः ? यदा विरोधं द्वन्द्वो नाचष्टे केवलञ्चार्थमात्रे वर्त्तते तदा श्वचाण्डालमिहास्तीति। `स्त्रीकुमारं दासीमाणवकम्' इत्यप्राप्ते वचनम्। `शाटीपिच्छकम्' इति `जातिरप्राणिनाम्' (2.4.6) इति सिद्धे, अबहुप्रकृत्यर्थः पाठः। `उष्ट्रखरमुष्ट्रशशम्' इति। पशुद्वन्द्वविभाषाप्राप्तौ नित्यार्थम्। मूत्रशकृदादीनां मांसशोणितपर्यन्तानामप्राणिजातीनामबहुप्रकृत्यर्थः पाठः। दर्भशरप्रभृतीनां तृणविभाषायां प्राप्तायां वचनम्। दासीदासादीनां त्रयाणामप्राप्ते। `पुमान् स्त्रिया' (1.2.67) इत्येकशेषो न भवत्यस्मादेव निपातनात्।
`गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम्' इति। कथम् ? तथा रूप्सयाश्रयणात्। गणपाठे हि यदेषां शब्दानां रूपं तदाश्रितम्। येन यथोच्चारितानामेकवद्भावलक्षणं द्वन्द्ववृतं भवति। `रूपान्तरे तु नायं विधिः' इति। यदा `अवङ स्फोटायनस्य ' (6.1.123) इत्यवङ नास्ति तदा रूपान्तरे जातेऽनेन सूत्रेण यो विधिः क्रियते स न भवति। पशुद्वन्द्वविभाषैव प्रवर्त्तते।।

12. विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्। (2.4.12)
वृक्षादिग्रहयणेनेह वक्षादिविशेषवाचिनां ग्रहणम्। कथम् ? यस्मादत्र हि वृक्षादिभिर्द्वन्द्वः प्रत्येकं विशिष्यते, तेनैषा विभाषा तुल्यजातीयेष्वेवावतिष्ठते। विरूपेषु तुल्यजातीयेष्वपि, न स्वरूपेषु। तेषां द्वन्द्वो नास्ति; एकशेषविधानात्। विरूपेष्वपि न पर्यायेषु। तेषां द्वन्द्वाभावात्। द्वन्द्वाभावश्च युगपत्प्रयोगाभावात्, युक्तार्थाभावाच्च। चार्थाभावस्त्वर्थभेदाभावात्। भिन्नाधिष्ठाना हि चार्थता। न च पर्यायाणां भिन्नार्थता सम्भवति; तस्माद्वरूपेष्वेव वृक्षादिविशेषवाचिष्वस्या विभाषाया उपस्थानम्। तेन विशेषग्रहणं वृक्षादिषु विज्ञायते, न स्वरूपग्रहणम्, नापि पर्यायग्रहणम्। अथ सामान्यविशेषवाचिनां ग्रहणं कस्मान्न विज्ञायते, सम्भवति हि सामान्यविशेषवाचिनां द्वन्द्वः, यथा-- गोवलीवर्दमिति ? न; अनभिधानात्। न हि वृक्षधवमित्येवं लोकेऽभिधानमस्ति; धवशब्दादेव तदर्थाभिधायिनो वृक्षशब्दस्यार्थस्यावगत्वात्, धवादिशब्दप्रयोगे वृक्षादिशब्दस्य प्रयोगानर्हत्वात्। गोवलीवर्दमित्यत्र तु बलीवर्दसन्निधाने गोशब्दस्य स्त्रीगवीष्वेव वृत्तेर्द्वावपि विशेषवाचिनाविति युक्तो द्वन्द्वः। येऽत्राप्राणिवाचिनस्तेषां `जातिरप्राणिनाम्' (2.4.6) इत्येकवद्भावे नित्ये प्राप्ते वचनमिदं विभाषार्थम्। परिशिष्टानामप्राप्ते। पशुग्रहणेनैव मृगादिग्रहणे सत्यपि पश्वन्तरेणेषां किमर्थम् ? तुल्यजातीयानां द्वन्द्वोऽयमेकवद्भवतीत्युक्तम्, अत्र पशुग्रहणेनैव सिद्धे मृगादिग्रहणे सत्यपि पश्वन्तरेणेषां परस्परेण वा द्वन्द्वो मा भूदित्येवमर्थम्। `पशुद्वन्द्व' इत्येवं सिद्धेऽश्ववडवग्रहणं नियमार्थम्। योऽन्य एतयोः पर्यायस्तत्र मा भूत्-- हयवडवे इति।
`बहुप्रकृतिः' इति। बह्वर्था बहुवचनान्ता वा प्रकृतिर्यस्य स बहुप्रकृतिः। बह्वर्थानां फलादीनामेषां बहुवचनान्तानां वा द्वन्द्व एकवद्भवतीत्यर्थः।।

13. विप्रतिषिद्धं चानधिकरणवाचि। (2.4.13)
`अद्रव्यवाचिनाम्' इति। एतेनाधिकरणशब्दोऽत्र द्रव्ये वर्त्तते नाधार इति दर्शयति। न हि विप्रतिषिद्धवाचिनां शब्दानामाधारे वृत्तिरस्तिः; विभक्त्यर्थत्वादाधारशक्तेः। `शीतोष्णे' इति। शीतोष्णयोः सहानवस्थानलक्षणेनैव विरोधेन विरुद्धत्वाद्विप्रतिषिद्धवाचित्वम्। तथा सुखदुःखयोरपि।।
`कामक्रोधौ' इति। क्रुद्धोऽपि काममाचरतीति नानयोर्विप्रतिषिद्धत्वम्।।

14. न दधिपयआदीनि। (2.4.14)
`यथायथम्' इति। यथास्वं यस्य यदात्मीयं लक्षणं तेनेत्यर्थः। तत्र दधिपयसी इत्यादीनां त्रयाणां व्यञ्जनवाचित्वाद्विभाषैकवद्भावप्राप्तिः। ननु च सर्पिर्मधुनी, मधुसर्पिषी इति राजदन्तादिष्वनयोर्निपातनादेवैकवद्भावो न भविष्यति ? नैतदस्ति; पाक्षिको हि व्यञ्जनैकवद्भावः। तत्र यस्मिन् पक्षे स नास्ति तस्मिन्निपातनं पूर्वनिपात्व्यभिचारार्थं स्यात्। इतरस्मिन्नपि पक्ष एकवद्भावनिषेधार्थोऽत्र पाठः। यद्येवम्, अनेनैव सिद्धत्वाद्राजदन्तादिषु पाठोऽनर्थकः स्यात् ? नानर्थकः; बहुवचनार्थत्वात्। `सर्पिर्मधुनी, मधुसर्पिषी' इति। ननु तत्रापि द्ववचनान्तावेव पठ्येते ? यद्यप्येवम्, तथापि शब्दाश्रयत्वात् परनिपातस्यार्थधर्मत्वाद्द्वित्वं नापेक्ष्यते। अर्थाश्रयस्त्वेकवद्भाव इति तत्प्रषेधे युज्यते संख्यां विवक्षितुम्। `ब्रह्मप्रजापती' इत्यादीनां पञ्चानां समाहारैकत्वात् प्राप्तिः। `शुक्लकृष्णौ' इति। `विप्रतिषिद्धम्' (2.3.13) इत्यादिना। `इध्माबार्हिषी' इत्यादीनां समाहारैकत्वात् प्राप्तिः।।

15.अधिकरणैतावत्त्वे च। (2.4.15)
  अधिकरणं वर्त्तिपदार्थः' इति। वर्त्तन वर्त्तः = समासः। भावे घञ्। वर्तोऽस्यास्तीति वर्ति = समासावयवभुतम। वर्त्तिश्च तत् पदञ्चेति वर्त्तिपदं तस्य पदस्यार्थोऽधिकरणमित्युच्यते। कथं पुनस्तस्याधिकरणत्वामित्यत आह-- `स हि' इत्यादि। आधारो ह्यधिकरणम्। वर्त्तिपदार्थश्च समासार्थस्याधारो भवति; तत्र तस्य समवायात्। वर्त्तिपदार्थैर्ह्यवयवैरवयवी समासार्थ आरभ्यते, अवयवी चावयवेषु कसमवैति। `तस्य ' इति। वर्त्तिपदार्थस्य। `दश {इमे नास्ति--काशिका, पदमञ्जरी च} इमे दन्तौष्ठाः}' इति। `द्वन्द्वश्च' (2.4.2) इत्यादिना प्राप्तिः।।

16. विभाषा समीपे। (2.4.16)
अधिकरणैतावत्त्वस्य प्रकृतत्वात् तदपेक्षयैव समीपत्वं विज्ञायत इत्यत आह-- `अधिकरणैतावत्त्वस्य समीपे' इति। `उपदशं दन्तौष्ठम्'इति। अत्राधिकरणैतावत्त्वं दशसंख्या, तत्समीपं नवैकादश वा। तत्र दशशब्द एतावत्त्वमाचष्टे। उपशब्दः सामीप्यम्।
कथं पुनर्द्वन्द्वैकवद्भावो विकल्प्यमानोऽनुप्रयोगस्य लभ्यत इत्यत आह-- `अव्ययस्य' इत्यादि। यद्यप्यर्थातिदेशादनुप्रयोगस्यापि विकल्पो लभ्यते, तथापि परीहारान्तरमप्यस्तीति दर्शनार्थमस्योपन्यासः। तत्राव्ययस्य संख्याया अव्ययीभावो विहितः--`अव्ययं विभक्ति' (2.1.6) इत्यादिना। बहुव्रीहिरपि विहितः-- `संख्यायाव्ययासन्न' (2.2.25) इत्यादिना। अत्रैकवद्भावपक्ष एकार्थस्य द्वन्द्वस्यैकार्थ एवाव्ययीभावोऽनुप्रयुज्यते। एकार्थत्वं पुनस्तस्य सामीप्यप्रधानसत्वात्। यद्यप्यव्ययीभावोऽव्ययम्, तथाप्यभेदैकत्वं भेदाभावलक्षणं तस्यास्त्येव सामानाधिकरण्यम्। इतरत्र तु बह्वर्थस्य द्वन्द्वस्य बह्वर्थ एव बहुव्रीहिरनुप्रयुज्यते। बह्वर्थं पुनर्बहुव्रीहेः समीपिनः प्राधान्यात्। बहुव्रीहिर्हि समीपी प्रधानत्वाद्भेदसंख्यामुपादत इति बह्वर्थो भवति। `उपदशम्' इति। `अव्ययीभावे शरत्प्रभृतिभ्यः' (5.4.7) इत्यनुवर्त्तमाने `अनश्च' (5.4.108) इति टच् समासान्तः। `नस्तद्धिते' (6.4.144) इति टिलोपोः। `उपदशाः' इति। बहुव्रीहौ संख्येये डजबहुगणात्' (5.4.73) इति डच्।।

17. स नपुंसकम्। (2.4.17)
`पञ्चगवम्' इति। `गोरतद्धितलुकि' (5.4.92) इति टच्। सग्रहणं द्विगोरपि यथा स्यादित्येवमर्थम्. इतरथा हि `अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा' (व्या.प.19) इत्यनन्तरस्यैव द्वन्द्वस्य स्यान्न व्यवहितस्य द्विगोः, नैतदस्ति; एकवचनमित्यनुवर्त्तते, तस्य `नपुंसकम्' इत्यनेन सम्बन्धे सति कुतो व्यवधानम् ! न ह्यत्रैकरवचनेन विशेषो द्वन्द्वोऽनेनापेक्ष्यते, किं तर्हि ? एकवचनमात्रम्। प्रसिद्ध्युपसंग्रहार्थं तर्हि सग्रहणम्। स इत्येतदनुवादो भविष्यति, अनुवादश्च प्रसिद्धस्यैव भवति। तथा च यथादर्शनमियं लिङ्गव्यवस्थाऽऽख्यायत इति। तेन द्वन्द्वैकवद्भावे नित्यं नपुंसकत्वं विज्ञायते। द्विगोश्चानियता। तेन `अकारान्तोत्त्रपदो द्विगुः स्त्रियां भाष्यते' (वा.156) इत्येतदुपपन्नं भवति। `पञ्चपूली' इति। `द्विगोः' (4.1.21) इति ङीप्। एतदेव द्विगोः स्त्रीप्रकरणे ङीब्विधानं ज्ञापकम्-- `क्वचित् स्त्रियां द्विगुर्भाष्यते' इति।
`पञ्चखट्वम्, पञ्चखट्वी' इति। उपसर्जनह्रस्वत्वे कृते पक्षे ङीप्।
`पञ्चतक्षम्, पञ्चतक्षी' इति। नलोपे कृते पक्षे ङीप्।।

18. अव्ययीभावश्च। (2.4.18)
`अधिस्त्रि' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिनाऽव्ययीभावः। `ह्रस्वो नपुंसके प्रातिपदिकस्य' (1.2.47) इति ह्रस्वत्वम्। `उन्मत्तगङ्गम्, लोहितगङ्गम्' इति। `अन्यपदार्थे च सञ्ज्ञायाम्' (2.1.21) इति समासः। पूर्ववद्ध्रस्वत्वम्। `पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता' इति. अधिस्त्रीत्यादौ पूर्वपदस्यालिङ्गत्वात्। `अन्यपदार्थप्रधानस्याभिधेयलिङ्ता' इति। उन्मत्तगङ्मित्यादौ देशोऽभिधेयः, स च पुंल्लिङ्ग इति पुंल्लिङ्गत्वं प्राप्तम्।
`पुण्याहम्' इति। कर्मधारयः। `राजाहःसखिभ्यष्टच्' (5.4.91) इति टच् समासान्तः। `रात्राह्नाहाः पुंसि' (2.4.29) इति पुल्लिङ्गतायां वचनम्।
`विपथम्' इति। `पथः संख्याव्ययादेः' (वा. 161) इति परवल्लिङ्गतायां प्राप्तायां वचनम्। `कुगतिप्रादयः' (2.2.18) इतकि समासः। `चतुष्पथम्' इति। षष्ठीसमासः। समाहारद्विगौ तु पूर्वेणैव सिद्धम्। `ऋक्पूरब्धूःपथामानक्षे' (5.4.74) इत्यकारः समासान्तः।।

19. तत्पुरुषो।ञनञ्कर्मधारयः।
नञ्मात्रस्य तत्पुरुषस्याभावन्नञात्र नञ्समासो लक्ष्यत इत्याह-- `नञ्समासम्' इति। `वक्ष्यति-विभाषा सेनासुराच्छाया' इति। अनन्तरयोगेय्वस्याधिकारस्य प्रयोजनं नास्तीत्यस्तानुल्लङ्घ्य व्यवहितस्य `विभाषा सेनासुरा' (2.4.25) इत्यादियोगस्योपन्यासः। इत उत्तरेष्वनन्तरेषु योगेष्वस्य प्रयोजननाभावः `न हि संज्ञायां कन्थोशीनरेषु तत्पुरुष नञ्समासः, कर्मधारयो वाऽस्ति' इत्यादिना भाष्ये प्रतिपादितः। `दृढसेनः' इति। बहुव्रीहिः। अथानञ्कर्मधारय इति कोऽयन्निर्देशः ? यदि ह्यत्र नञ्कर्मधारययोर्वदन्द्वः, तदा समाहारे वा स्यादितरेतरयोगे वा ? तत्र पूर्वस्मिन् पक्षे नपुंसकत्वं प्रसज्येत; इतरत्र तु द्विवचनम्। निर्देशस्य सौत्रत्वादुभयथाप्यदोषः। तथा हि-- च्छन्दोवत् सूत्राणि भवन्तीति। छन्दसि च लिङ्गवचनव्यत्ययं तृतीयेऽध्याये वक्ष्यति ।।

20. संज्ञायां कन्थोशीनरेषु। (2.4.20)
प्रकृते न तदन्तविधिरिति प्रकृतस्य तत्पुरुषस्य कन्यया तदन्तविधिर्वज्ञायत इत्याह-- `कन्थान्तस्तत्पुरुषः' इति। `सौशमिकन्थम्' इति। सौशमीनां कन्था इति षष्ठीसमासः। `दाक्षिकन्था' इति। अस्तीयं ग्रामस्य संज्ञा; न तूशीनरेषु किं तर्हि ? ततोऽन्यत्रेति।।

21. उपज्ञोपक्रमं तदाद्याचिख्यासायाम्। (2.4.21)
`उपज्ञायत इत्युपज्ञा' इति। `आतश्चपसर्गे' (3.3.106) इति कर्मण्यङ। `उपक्रम्यत इत्युपक्रमः'। अत्र `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति कर्मणि घञ्। `नोदात्तोपदेशस्य' (7.3.34) इत्यादिना वृद्धिनिषेधः। `यद्यप्युपज्ञेयस्योपक्रम्यस्य च' इत्यादि। उपज्ञेयः = परिज्ञेयः। उपक्रमः = उपक्रमितव्यः। आदिः = प्राथम्यम्। `पाणिन्युपज्ञम्' इति। षष्ठीसमासः। तेन तत्प्रथमतः प्रणीतम्। `अकालम्' इति। स स्वस्मिन् व्याकरणे कालाधिकारं न कृतवान्। `व्याड्युपज्ञं दशहुष्करणम्' इति। व्यडिरप्यत्र युगपत्कालभाविनां विधीनां मध्ये दश हुष्करणानि कृत्वा परिभाषितवान् पूर्वं पूर्वं कालमिति। वाल्मीकेः श्लोका वाल्मीकिश्लोका इति षष्ठीसमासः।।

22. छाया बाहुल्ये। (2.4.22)
`पूर्वपदार्थधर्मो बाहुल्यम्' इति। अत्र हेतुमाह-- `शलभादीनाम्'इत्यादि। शळभादीनां बहुत्वं शलभच्छायमित्यादौ हि गम्यते, न हि तेन विना छाया सम्भवति। अतः पूर्वपदार्थस्य शलभादेर्बाहुल्यं धर्मः।।

23. सभा राजाऽमनुष्यपूर्वा। (2.4.23)
`इह कस्मान्न भवति-- राजसभा' इति। `स्वं रूपं शब्दस्याशब्दसंज्ञा' (1.1.68) इति वचनदिहैव युक्तं भवितुमित्यभिप्रायः। `तदयुक्तम्' इत्यादि। एतेन `पर्यायवचनस्यैवेष्यते' (का.वृ.2.4.23) इत्येतदाप्तवचनेन द्रढयति। यतः पर्यायवचनस्यैवेष्यते तस्मादेव हेतोरिदमुक्तम्। `{जित्पर्यायवचनस्यैव-काशिका। जदित्पर्यायवनस्यैव' इत्यादि। कथं पुनः पर्यायवचनस्यैव भवतीत्येषोऽर्थः, यावता नेह सूत्रे तथाविधं वचनमस्ति ? एवं मन्यते-- ननु च पूर्वग्रहणमस्ति, अतः पूर्वग्रहणादेषोऽर्थो लभ्यते, कथम् ? यदि स्वरूपग्रहणं स्यात् `राजाऽमनुष्यात्' इत्येवं ब्रूयात्, पञ्चम्येव हि दिक्शब्दमध्याहरयिष्यति, न च सभान्तस्य तत्पुरुषस्य पूर्वशब्दादन्यो दिक्शब्दोऽध्याहर्त्तुं शक्यत इति किं पूर्वग्रहणेन ? तत् क्रियतेऽर्थग्रहणं यथा स्यात्। अर्थग्रहणे च सत्यराजाऽमनुष्यपूर्वा इति द्विष्प्रतिषेधो वर्ण्यते-- अराजपूर्वा, अमनुष्यपूर्वेति। तदनेन नञिवयुक्तन्यायेन (व्या.प.65) तत्सदृशा राजपर्याया गृह्यन्ते, न तु तद्विशेषाश्चन्द्रगुप्तादयः, न हि ते राजार्थस्य वाचका इति। अथ वा-- अर्थग्रहणेऽस्मिन् `विभाषा समीपे' (2.4.16) इत्यतो विभाषागर्हणमनुवर्त्तते मण्डूकप्लुतिन्यायेन, सा च व्यवस्थितविभाषा विज्ञायते। तेनेह प्रयायवचनस्यैवेश्वरादेर्ग्रहणं भविष्यति, नान्यस्य।
`अमनुष्यशब्दो {हि-- वृत्तौ नास्ति} हि रूढिरूपेण रक्षः पिशाचादिषु वर्त्तते' इति। यद्येवम्, `अनुष्यकर्त्तृके च' (3.2.53) इत्यत्र यदुदाहरिष्यति-- जायाघ्नस्तिलकालकः, पतिघ्नी पाणिरेखा, श्लेष्मध्नं मधु, पित्तघ्नं घृतमिति,तद्व्याहन्यते ? नैष दोषः; अत्र हि चकार क्रियते, तस्यैव विधेः समुच्चयार्थः। तेन पुनर्विधानात्, `कृत्यल्युटो बहुलम्' (3.3.क113) इति वचनाद्वा रक्षः पिशाचादिभ्योऽन्यत्रापि भविष्यति। अथ वा-- अमनुष्यशब्दोऽयं द्विविधः-- अस्त्येवायमव्युत्पन्नो यो रक्षः पिशाचादिषु वर्त्तते, अस्ति च व्युत्पन्नो नञ्समासः; तत्रेहाव्युत्पन्नस्य रूढिशब्दस्य ग्रहणम्। `अमनुष्यकर्त्तृके च'(3.2.53) इत्यत्र व्युत्पन्नस्यारूढिशब्दस्य ग्रहणमित्यविरोधः। `देवदत्तसभा' इति। देवदत्तशब्दो न राजपर्यायः; नाप्यमनुष्यवचनः।।

24. अशाला च। (2.4.24)
सभाशब्दोऽयमस्त्येव कुटीवचनः-- कदीर्घा सभा,ह्रस्वा सभेति। अस्ति च सङघातवचनः, यथा-- ब्राह्मणानां सभा, स्त्रीणां सभेति; इह चाशालेति कुटीवचनप्रतिषेधादितरो गृह्यत इत्यत आह-- `सङ्घातवचनः' इत्यादि।।

25. विभाषा सेनासुराच्छायाशालानिशानाम्। (2.4.25)
`श्वनिशम्' इति। यस्यां निशायां श्वानो मत्ता विहरन्ति सा श्वनिशम्; श्वनिशेति चोच्यत इति।।

26. कपरवल्लिङ्गं द्वन्द्वतत्पुरुषयोः। (2.4.26)
किमर्थमिदम् ? इहायं द्वन्द्वः स्रवपदार्थप्रधानः, स यदा भिन्नलिङ्गवयवो भवति तदा पूर्वोत्तरयोः पदयोर्भिन्नलिङ्गयोरनुग्राहकमेकं लिङ्गं नास्ति येन समुदायो व्यपदिश्यते। उभाभ्याञ्च युगपदसम्भवादशक्यो व्यपदेशः कर्तृम्। अतः पर्यायः स्यादिति द्वन्द्वे नियमार्थं वचनम्। तत्पुरुषोऽपि द्विविधः-- पूर्वपदार्थप्रधानः, उत्तरपदार्थप्रधानश्चेति। ततो य उत्तरपदार्थप्रधानस्तत्पुरुषस्तस्य प्रधानत्वादेव परस्य यल्लिङगं तत्समुदायस्य भविष्यतीति तं प्रत्यनर्थकं वचनम्। यस्तु पूर्वपदार्थप्रधानस्तस्य पूर्वपदस्य यल्लिङ्गं तस्मिन् प्रसक्त उत्तरपदस्य यल्लिङ्गं तद्विधीयत इति तत्र विध्यर्थमेतद्भवति। `द्वन्द्वस्य तत्पुरुषस्य च' इति। द्वन्द्वतत्पुरुषयोरिति षष्ठीयपरशब्दस्य सम्बन्धिशब्दत्वात्। तथा च मयूरीकुक्कुटावित्यत्र पूर्वपदस्य स्त्रीप्रत्ययो निवर्त्तेत, तत्पुरुषेऽप्यर्थपिप्पलीत्यत्र पूर्वपदस्यापि स्त्रीप्रत्ययः स्यात्; तस्मात षष्ठीयम्। तथा च सति समासार्थस्यायमतिदेशो विज्ञायते। पूर्वपद्सय न प्रतिषिध्यते; नापि विधीयत इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। समासार्थस्य लिङ्गातिदेशादनुप्रयोगोऽपि समासार्थस्यैव विशेषणमिति तल्लिङ्गमेव भवति। क`कुक्कुटमयूर्याविमे' इति। उपसर्जनह्रस्वत्वं न भवति, उपसर्जनसंज्ञाया अभावात्। उक्तं ह्येतत् प्राक्-- `उपसर्जनमिति महत्याः संज्ञायाः प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत-- अप्रधानमुपसर्जनम्' इति। द्वन्द्वश्च सर्वपदार्थप्रधान इति नास्त्युपसर्जनसंज्ञा। अर्धपिप्पलीत्यादावपि सत्येकविभक्तियोगे यथा पिप्पल्यादेरुपसर्जनसंज्ञा न भवति, तथोपसर्जनसंज्ञाविधावेव तत्प्रतिपादितम्।
`वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- `तत्पुरुषः' (2.4.19) इत्यनुवर्तमाने पुनस्तत्पुरुषग्रहणस्यैतत् प्रयोजनम्-- तत्पुरुषविशेषस्य परवल्लिङ्गता यथा स्यादिति. तेन द्विगुप्राप्तापन्नलम्पूर्वगतिसमासेषु परवल्लिङ्गता न भवति; अन्यथा यदि सर्वस्थेयं तत्पुरुषस्य परवल्लिङ्गता स्यात् तदा `परकवल्लिङ्गं द्वन्द्वस्य च' इत्येवं ब्रूयात्। चकाराद्धि प्रकृतस्य तत्पुरुषस्येति विज्ञास्यत एवेति। `पञ्चकपालः' इति। तद्धितार्थे द्विगुः। संस्कृतार्थ उत्पन्नस्याणः `द्विगोर्लुगनपत्ये'(4.1.88) इति लुक्। `प्राप्तजीविकः' इति। प्राप्तापन्ने च द्वितीयया' (2.2.4) इति समासः। `अलञ्जीविकः' इति। `पर्यादयो ग्लानाद्यर्थे चतुर्थ्या' (वा. 93) इति समासः। निष्कौशाम्बिः' इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा.94) इति।।

27. पूर्ववदश्ववडवौ। (2.4.27)
`अश्ववडवयोर्विभाषैकवद्भावो विहितः'इति। `विभाषा वृक्षमृग' (2.4.12) इत्यादिना। `अर्थातिदेशश्चायम्, न निपातनम्' इति। निपातने हि पूर्ववदिति वचनमर्थकं स्यात्, अश्ववडवावित्येवं ब्रूयात्। तेन `द्विवचनमतन्त्रम्' इत्यादिनाऽर्थातिदेशस्य फलं दर्शयति। निपातने हि वचनान्तरे पूर्ववल्लिङ्गता न स्यात्।।

28. हेमन्तशिशिरावहोरात्रे च च्छन्दसि। (2.4.28)
परवल्लिङ्गतापवादोऽयं योग इति हेमन्तशिशिरावित्यत्र नपुंसकत्वापवादः, परस्य शिशिरशब्दस्य नपुंसकत्वात्। `अहोरात्रे' इति। पुंल्लिङ्गत्वापवादोऽयम्। `रात्राह्नाहाः पुंसि' (2.4.29) इति पुंल्लिङ्गत्वे प्राप्ते छन्दसि लिङ्गव्यत्यय उक्त इति-- `व्यत्ययो बहुलम्' (3.1.85) इत्यनेन।।

29. रात्राह्नाहाः पुंसि। (2.4.29)
`परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः' इति। रात्रिशब्दस्य स्त्रीलिङ्गत्वादहः शब्दस्य च नपुंसकत्वात्। `द्विरात्रः' इति। द्वयो रात्र्योः समाहारः। `तद्धितार्थ' (2.1.51) इत्यादिना समाहारे द्विगुः। `अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः' (5.4.87) इत्यच् समासान्तः। अत्र हि `अच् प्रत्यन्ववपूर्वात् सामलोम्नः' (5.4.75) इत्यतोऽजित्यनुवर्त्तते। `पूर्वाह्णः' इति।र अह्नः पूर्वमिति विगृह्य `पूर्वापर' (2.2.1) इत्यादिना समासः, `राजाहःसखिभ्यष्टच्' (5.4.91) इति टच्, `अह्नोऽह्न एतेभ्यः' (5.4.88) इत्यह्नादेशः; `अह्नोऽदन्तात्' (8.4.7) इति णत्वम्। `द्वयहः' इति। पूर्ववत् समाहारे द्विगुः। पूर्ववत् टच्। `न संख्यादेः समाहारे' (5.4.89) इति प्रतिषेधावह्नदेशो न भवति। `अह्नष्टखोरेव' (6.4.145) इति टिलोपः। `अनुवाकादयः' इति। केचिदाहः-- बहुव्रीहिरयम्, अनुक्रान्तो वाकोऽनयानेन वाऽनुवाकः। स्त्रीलिङ्गे नपुंसकलिङ्गे च प्राप्ते वचनम्। अन्ये च मन्यन्ते-- योऽयं घञ् स सामर्थ्यात् पुंल्लिङ्गः। तस्य हि नपुंसके भावे क्तोऽपवादः, स्त्रियाञ्च क्तिन्। तेनासौ सामर्थ्यात् पुंस्यवावतिष्ठते। यस्त्वकर्त्तरि कारके विधीयते स पुंसि नपुंसके च वर्त्तते; बाधकाभावात्। स्त्रियान्तु न भवति; यतः `स्त्रियां क्तिन्' (3.3.94) इत्यकर्त्तरि च कारके विदीयते, स विशेषविहितो घञं बाधते। इह च वचेः `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इति घञ् विहितः। अनूच्यते यत् पदं तदनुवाकः। `कुगतिप्रादयः' (2.2.18) इति समासः। अस्मिन् पक्षे नपुंसके प्राप्ते वचनम्।।

30. अपथं नपुंसकम्। (2.4.30)
`अपधम्' इति। `पथो विभाषा' (5.4.72) इति यदा समासान्तप्रतिषेधो नास्ति तदा `ऋक्पूरब्धूपथामानक्षे' (5.4.74) इत्यकारः समासान्तः। समासान्तनिर्दशाद्यदा समासान्तो नास्ति तदा पुंल्लिङ्गतैव भवति-- अपन्था इति।।

31. अर्द्धर्चाः पुंसि च। (2.4.31)
अर्द्धर्चा इति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह-- `अर्द्धर्चादयः' इत्यादि।
`शब्दरूपाश्रया चेयम्' इति। शब्दरूपमाश्रयो यस्याः सा तथोक्ता। शब्दरूपमाश्रित्यार्थमनपेक्ष्यद्विलिङ्गतेयं विधीयत इत्यर्थः। क्रियाशब्दस्याभिधेयवल्लिङ्गमिति भूतं कुण्डम्, भूता शाटी, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति लवणं शाकम्, लवणा यवगूः, लवणः सूपः इति। लवणेन संसृष्टमिति `संसृष्टे' (4.4.क22) इति ठक्। तस्य `लवणाल्लुक्' (4.4.24) इति लुक्। अत एव तद्धितार्थयोगे भूतत्वात् अपूर्वशब्दोऽयं धर्माधर्मयोर्वर्त्तते। `तत्साधने' इति। अदृष्टोपार्जनं प्रति यस्याङ्गभावः स तत्साधनमित्यर्थः, स पुनर्यागादिः। कर्मशब्दो नकारान्त एवोभयलिङ्ग इति क्रम कर्मा चेति।।

32. इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ। (2.4.32)
`आदेशः कथनम्' इति। प्रथमतः प्रतिपादनम्, शब्देन। `अनवादेशोऽनुकथम्' इति। पश्चात्प्रतिपादनम्। तच्च यादृशमिहाभिप्रेतं तादृशं पश्चाद्वक्ष्यति। `आभ्यां छात्राभ्याम्' इत्यादि। आदेश एषः। `अथो आभ्याम्' इत्याद्यन्वादेशः एषः। अथोशब्देनात्रान्वादेश उच्यते।
ननु च त्यादाद्यत्वे कृते हलि लोपे (7.2.113) चाथो आभ्यामित्यादिरूपं सिध्यत्येव, तस्मादनुदात्तमेव केवलं विधेयम्, आदेशवचनं त्वनर्थकमित्यत आह-- `आदेशवचनम्' इत्यादि। `अव्ययसर्वनाम्नामकच् प्राक् टेः' (5.3.71) इत्यकरच्प्रत्यये कृते सत्यपि `अनाप्यकः' (7.2.112) इत्यधिकारादिद्रूपस्य लोपो नास्तीत्यस्तयादेशवचने रूपं न सिध्यति। ननु च `हलि लोपः' (7.2.113) इत्यनेन हलादाविद्रूपस्य लोपेऽनेनाजादौ यथा स्यादित्यवेवमर्थं कस्मान्न भवति ? नैतदस्ति; सामर्थ्याद्धि हलादावेव भवितव्यम्, तत्र स्मैभावादिषु कृतेषु। तस्मात् साकच्कार्थमादेशवचनम्। साकच्कार्थे चास्मिन्नारब्धे शित्करणं सर्वादशार्थम्; अन्यथा ह्यलोऽन्त्स्य स्यात्। प्रयोजनाभावान्न भविष्यतीति चेत्, न; अकारस्य त्वकारवचनं दीर्घादेशनिवृत्त्य्रथं विज्ञायते। अथानुदात्तवचनं किमर्थम्, यावता `ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (6.1.171) इति विभक्तेरुदात्तत्वे कृते `आनुदात्तं पदमेकवर्जम्' (6.1.158) इति प्रकृतेरनुदात्तत्वं भविष्यति ? नैतदस्ति; सविभक्त्यर्थमनुदात्तवचनम्, सविभक्तिकस्यानुदात्तत्वं यथा स्यात्। तेन सर्वानुदात्तमेवाभ्यामिति पदमन्वादेशे भवति। यदि पश्चादुच्चारणमात्रमन्वादेशस्तदेह कस्मान्न भवति-- देवदत्तं भोजय, इमञ्च यज्ञदत्तमिति ? अस्ति ह्यत्राप्यन्वादेशः, ततश्च `द्वितीयाटौस्स्वेनः' (2.4.34) इत्येनादेशः प्राप्नोतीत्यत आह-- `नेह पश्चादुच्चारणमात्रम्' इत्यादि। `तेनेह न भवति' इति। न ह्यत्रैकस्याभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनम्, किं तर्हि ? अभिधेयान्तरस्य। तथाहि पूर्वं देवदत्तस्य प्रतिपादनम्, उत्तरकालं यज्ञदत्तस्य। कथं पुनरयं विशेषो लभ्यते, यावतापश्चादुच्चारणमात्रेऽन्वादेशशब्दः प्रसिद्धः, न च सामान्यशब्दः शब्दान्तसन्निधानादिकरमन्तेरण विशेषेऽवतिष्ठते ? नैष दोषः; यस्मात् `विभाषा सेना' (2.4.25) इत्यतो विभाषाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनैवंविधविषय एवान्वादेशोऽत्र ग्रहीतव्यः, नान्वादेशमात्रम्। तसमाद्विशिष्टस्यान्वादेशस्य ग्रहणं युक्तमिति भावः। यदपि च वक्ष्यति तत्र-- `यत्र किञ्चिद्विधाय' इत्यादि, तदपीममेव न्यायं हृदि कृत्वेति बोद्धव्यम्।।

33. एतदस्त्रतसोस्त्रतसौ चानुदात्तौ। (2.4.33)
`अथो अत्र' इति। `सप्तम्यास्त्रल्' (5.3.10)। `अथो अतः'
 इति। `पञ्चम्यास्तसिल्' (5.3.7)। `पुनर्वचनमनुदात्तार्थम्' इति। `एतदोऽश्' (5.3.5) इति यः पाञ्चमिकोऽशादेशः स उदात्तः स्यात्। अनुदात्ततश्चेष्यत इत्यनुदात्तार्थ वचनम्। अथ त्रतसोरिति किमर्थम्, यावता `त्रतसौ चानुदात्तौ' इति वचनात् तयोरेव निमित्तभावो विज्ञास्यते ? नैतदस्ति; अन्वाचयोऽपि विज्ञायेत, यथा-- `कर्त्तुः क्यङ सलोपश्च' (3.1.11) इति। अत्राविशेषेण क्यङ भवति। तथाऽत्राविशेषेण तावदशादेशो भवति। यत्र तु त्रतसौ दृश्येते तत्र तावनुदात्तौ भवतः, तस्मात् तावन्निमितभावार्थं त्रतसोरितिवक्तव्यम्। अथ त्रतसोरनुदात्तत्वं किमर्थम्, यावता लित्स्वर एव तयोरनुदात्तत्वं करिष्यति ? नैतदस्ति; न ह्यत्र लित्स्वरोऽस्ति, अनुदात्तस्यादेशस्य विधानात्। ननु च लितस्वरे कृत आदेशस्वरः क्रियते; यद्येवम्, लित्स्वरापवाद आदेशस्वरो विज्ञायेत, न चापवादविषयमनुत्सर्गोऽभिनिविशते ? तस्माद्यथा गोष्पदप्रमित्यत्र लिति पूर्वमनुदात्तभावो नास्तीति प्रत्तययस्वर एव भवति; तथेहापि स्यादिति त्रतसोरनुदात्तार्थ वचनम्। ततश्चैतदपि सर्वमनुदात्तं पदं भवति। ताविति वक्तव्ये त्रतसोरिति वचनं स्पष्टार्थम्। गोषपदप्रमिति। `यावति विन्दरजीवोः' (3.4.30)। `चर्मोदयोः पूरेः' (3.4.31)। `वर्षप्रमाण ऊलोपश्चादन्यतरस्याम्' (3.4.32) इति णमुल्, ऊलोपश्च।।

34. द्विदीयाटौस्स्वेन। (2.4.34)
`इदमेतदोः' इत्यादि। ननु चानन्तरत्वादेतद एवात्रानुवृत्तिः प्राप्नोति, नेदमः; व्यवहितत्वादित्यत आह-- `मण्‍डूकप्लुतिन्यायेन' इत्यादि। `एकमेवेदं विधानम्' इति। अयं दण्ड इत्यनेन दण्डस्य सत्तोपलक्षणमात्रं कृत्वा `हरानेन' इत्यनेनैव हरणक्रियां प्रति दण्डस्य करणभावो निर्दिश्यत इत्येकं विधानम्। `एतमातं ङितं विद्यात्' इत्यत्रापि `ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः' (म.भा.1.71) इतीषदाद्यर्थस्याकारस्य निर्देशामात्रं कृत्वा `एतमातं ङितं विद्यात्' इत्यनेन वेदनक्रियां प्रत्याकारमात्रस्य कर्मभाव एव विधीयत इत्येकमेव विधानम्।।

35. आर्धधातुके। (2.4.35)
`दध्यात्' इति। आशिषि लिङ। `लिङाशिषि' (3.4.116) इत्यार्धधातुकसंज्ञा। `हन्यात्' इति। `विधिनिमन्त्रण' (3.3.161) इत्यादिना लिङ। `विषयसप्तमी चेयम्' इति। यदि परसप्तमी स्यात् तदा भव्यमित्यादि न सिद्ध्यति। तथा हि-- हलन्तत्वादस्त्यादीनाम् `ऋहलोर्ण्यत्' (3.1.124) इति ण्यति कृते तस्मिन् परतः `अस्तेर्भूः' (2.4.52), `अजेर्व्यघञपोः' (2.4.56) `चक्षिङः ख्याञ्' (2.4.54) इत्येते आदेशाः स्युतः। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य युकि कृते भाव्यं प्रवैयमाख्याय्यमित्यनिष्टं रूपं स्यात्। विषयसप्तम्यां त्वस्यामार्द्धधातुकत्वे विवक्षिते प्रागेव प्रत्ययोत्पत्तेरादेशाः स्युः। ततोऽजन्तत्वात् `अचो यत्' (3.1.97) इति यति `ईद्यति' (6.4.65) इतीत्वे कृते सर्वेषां गुणेऽस्त्यादेशस्य `धातोस्तन्निमित्तस्यैव' (6.1.80) इत्यवादेशे च भव्यं प्रवेयमाख्येयमिति सिद्ध्यति। तस्माद्विषयसप्तमीयम्, न परसप्तमी। कथं पुनर्विषयसप्तमीयं लभ्यते, यावता `तस्मिन्निति निर्दिष्टे पूर्वस्य' (1.1.66) इति परिभाषोपस्थानात् परसप्तम्येव न्याय्या, न विषयसप्तमी ? नैतदस्ति; `आर्धधातुके' (2.4.35) इति सामान्यनिर्देशात्, न च सामान्ये पौर्वापर्यमस्ति। बुद्ध्या पौर्वापर्यमस्तीति चेत् ? नैवम्; एवं हि गौरवं स्यात्। अथ वा-- `अचो यत्' (3.1.97) इत्यज्ग्रहणं ज्ञापकम्-- विषयसप्तमीयमिति। `पश्चाद्यथाप्राप्तम्' इत्यादि। आदेशेषु कृतेषूत्तरकालं यो यतः प्राप्नोति स ततो भवतीत्यर्थः।।

36. अदो जग्धिर्ल्यप्ति किति। (2.4.36)।
`प्रजग्घ्य' इति। `समानकर्त्तृकयोः पूर्वकाले' (3.4.21) इति क्त्वा। `कुगतिप्रादयः' (2.2.18) इति समासः। `समासेऽनञ्पूर्वे क्त्वो ल्यप्' (7.1.37)। `जग्धः' इति। `झषस्तथोर्द्धोऽधः' (8.2.40) इति तकारस्य धकारः। `झलां जश् झशि' (8.4.53) इति जश्त्वम्-- धकारस्य दकारः। `झरो झरि सवर्णे' (8.4.65) इति लोपः। अथेह `इदितो नुम् धातोः' (7.1.58) इति नुम् कस्मान्न भवतीत्यत आह-- `इकार उच्चारणार्थः' इति। यथा-- `अद भक्षणे' (धा.पा.1011) इत्यत्राकार उच्चारणार्थः, तथेहापीकारो वेदितव्यः। अथ ल्डग्रहणं किमर्थम्, ति कितीत्येवं सिद्धम् ? न सिध्यति; यस्मात् क्त्वाप्रत्ययस्य परत्वाल्ल्यवादेशः प्राप्नोति, नैतदस्ति; अन्तरङ्गत्वाज्जग्ध्यादेशेन भवितव्यम्। अन्तरङ्गत्वन्तु तस्यैकपदाश्रयत्वात्। ल्यबादेशस्य तु बहिरङ्गत्वम्; समासाश्रयत्वात्; समासस्य चानेकपदाश्रयत्वात्। एवं तर्हि---
जग्धौ सिद्धेऽन्तरङ्गत्वात् ति किति यल्ल्यबुज्यते।
(तज्) ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम्।।इति।
तेन दधातेः, जहातेश्च संपूर्वाद्विपूर्वाच्च क्त्वाप्रत्यये कृते `द्यतिस्यतिमास्थामिति किति' (7.4.40) इत्यतस्ति कितीत्यनुवर्त्तमाने `दधातेर्हिः' (7.4.42) `जहातेश्च क्त्वि' (7.4.43) इति हिरादेशो ल्यबादेशं बाधित्वं प्राप्तः। अस्मादेव ज्ञापकाल्ल्यपा बाधितत्वान्न भवति-- संधाय, विहायेति। एवं निर्दाय दुर्दायेति `दो दद् घोः' (7.4.46) इति ददादेशो न भवति। प्रस्थायेत्यत्र `द्यतिस्यातिमास्थामितित किति' (7.4.40) इतीत्वं न भवति। प्रखन्य प्रखायेति `जनसनखनां सञ्जलोः' (6.4.42) इति नित्यमात्त्वं न भवति, `ये विभाषा' (6.4.43) इति विभाषैव भवति। तत्र हि `विह्वनोरनुनासिकस्यात्' (6.4.41) इत्यत आद्ग्रहणनुवर्त्तते। `प्रक्रम्य' इति `क्रमश्च क्त्वि' (6.4.18) इति दीर्घत्वं न भवति। तत्र हि `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इत्यतो दीर्घग्रहणम्, `अनुनासिकस्य क्विझलोः क्ङिति' (6.4.15) इत्यतो झल्ग्रहणं क्ङिति चानुवर्त्तते। आपृच्छ्येति `च्छ्वोः शूजनुनासिके च' (6.4.19) इति शकारो न भवति। प्रदीव्येत्यत्रानेनैव सूत्रेणोठ् न भवति। `हलि च' (8.2.77) इति दीर्घत्वम्। प्रपठ्येत्यत्र `आर्द्धधातुकस्य' (7.2.35) इतीड् न भवति।।

37. लुङसनोर्घस्लृ। (2.4.37)
`अघसत्' इति। लृदित्त्वात् पुषादिसूत्रेण (3.1.55) च्लेरङ्गादेशः। `जिघत्सति' इति। `सः स्यार्द्धधातुके' (7.4.49) इति सकारस्य तकारः।
`घस्लृभावेऽच्युपसंख्यानम्' इति। घस्लृभावे कर्त्तव्येऽचि तस्योपसंख्यानम् = प्रतिपादनं कर्त्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन घस्लृभावेऽच्यपि भवति। `प्रघसः' इति। पचाद्यच्।।

38. घञपोश्च। (2.4.38)
`घासः' इति। भावे घञ्। `प्रघसः' इति। `उपसर्गेऽदः' (3.3.59) इत्यप्। `लुङसन्घञ्प्सु घस्लृ' इत्येकयोगे कर्त्तव्ये योगविभागो वैचित्र्यार्थः।।

39. बहुलं छन्दसि। (2.4.39)
`घस्ताम्' इति। लङ, तसस्ताम्, आदादिकत्वाच्छपो लुक्। `बहुलं छन्दस्यामाङ्योगेऽपि' (6.4.75) इत्यहागमाभावः। अथ वा लुङ्युदाहरणमेतत्। `मन्त्रे घसह्वर' (2.4.80) इत्यादिना च्लेर्लुक्। `सग्धिः' इति। स्त्रियां क्तिन्' (3.3.94)। `घसिभसोर्हलि च' (6.4.100) इत्युपधलोपः। `झलो झलि' (8.2.26) इति सकारलोपः। अथ तु सिचोऽनेन लोपो विधीयते तदा च्छान्दसी वर्णलोपो द्रष्टव्यः-- यथा इष्कर्त्तारमध्वर इति। पूर्ववत् तकारस्य धकारः। घकारस्य जश्त्वम्‌। समाना ग्धिरिति `पूर्वापरप्रथम' (2.1.58) इत्यादिना समासः, `समानस्य च्छन्दस्यमूर्द्धप्रभृकत्युदर्केषु' (6.3.84) इति सभावः। `अत्ताम्' इति। `झलो झलि' (8.2.26) इति सिचो लोपः। तसस्ताम्। `खरि च' (8.4.55) इति दकारस्य तकारः। अथ वा लङ्युदाहरणमेतत्। अथ बहुलग्रहणं किमर्थम्, अन्यतरस्यांग्रहणमेव कस्मान्न क्रियते इत्युच्यते कः पुनरेवं सति गुणे भवतीति पर्यनुयोगमाशङ्क्याह-- `तदेवोत्तरार्थमपि भविष्यति' इति। एतेनेहान्यतरस्यांग्रहणे सत्युत्तरसूत्रेऽन्यतरस्यांग्रहणं न कर्त्तव्यं भवतीतीमं गुणं दर्शयति। तर्हीहैवान्यतरस्यांग्रहणमुत्तरसूत्रेऽनुवर्तिष्यते। यदि पुनरुत्तरसूत्रे बहुलग्रहणमनुवर्त्तेत तदा किं स्यात् ? अन्यदपि किञ्चित कार्यं भवतीत्याशङ्क्येत। क्वचिदन्यदेवेत्येषोऽप्यर्थो हि बहुलग्रहणस्याभीष्ट एव। `घस्तामित्यत्रोपधालोपो न भवति' इति। `घसिभसोर्हलि च' (6.4.100) इति प्राप्तः। स बहुलग्रहणान्न भवति।।

40. लिट्यन्यतरस्याम्। (2.4.40)
`लिटि परतः' इति। ननु च `आर्धधातुके' (2.4.35) इति वर्त्तते, `आर्धधातुके' इति च विषयसप्तमीयमित्युक्तम्, तदयुक्तं लिटि परत इति वचनम् ? नेदमयुक्तम्; आर्धधातुकशब्दस्यार्धधातुकत्वमनेकप्रत्ययसाधारणं सामान्यमर्थः, तेन च पौर्वापर्यं न सम्भवति। तद्धि देशतो वा भवति कालतो वा, सामान्यस्य चादेशत्वात् कालत्वान्नित्यत्वाच्च तेन सह देशकृतं कालकृतञ्च पौर्वापर्यं नोपपद्यते, अतो युक्ता `आर्धधातुके' इति विषयसप्तमी। इह तु `लिटि' इत्यार्धधातुक उपात्तः, सम्भवति चानेन पौर्वापर्यम्। किञ्च-- लिटि रभूते घस्लृ- आदेशे विधीयमाने न किञ्चिदनिष्टमापद्यते। तस्मात् परसप्तम्येवैषा युक्ता। `जक्षतुः' इति। `गमहन' (6.4.98) इत्यादिनोपधालोपः, `शासिवसिघसीनाञ्च' (8.3.60) इति षत्वम्, `खरि च' (8.4.55) इति चर्त्वम्। `आद, आदतुः, `आदुः' इति। `अत आदेः' (7.4.70) इत्यभ्यासस्य दीर्घः। ननु च `घस्लृ अदने' (धा.पा.715) इत्येतस्य जाघास, जक्षतुः, जक्षुरिति भविष्यति; `अद भक्षणे' (धा.पा.त1011) इत्यस्य आद, आदतुः, आदुरिति; अस्ति घसिः प्रकृत्यन्तरम्, `सृघस्यदः क्मरच्' (3.2.160) इति क्मरज्विधानात्, तत् कथमिह लिटि विकल्पविधानम् ? घसेः प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थम्। तेन तस्य सार्वधातुक आर्धधातुके च यत्र लिङ्गं नास्ति वचनञ्च, तत्र प्रयोगो न भवति।।

41. वेञो वयिः। (2.4.41)
`इकार उच्चारणार्थः' इति। नानुबन्धः। तेन नुम् न भवतीति भावः। `उवाय' इति। `लिट्यभ्यासस्योभयेषाम्' (6.1.17) इति सम्प्रसारणम्। `ऊयतुः, ऊयुःक' इत्यत्रापि ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्। अथ यकारस्य सम्प्रसारणं कस्मान्न भवतीत्याह-- `लिटि वयो यः' इत्यादि। `वेञ इति सम्प्रसारणं न भवति' इति। वच्यादिसूत्रेण प्राप्तम् `वेञः' (6.1.40) इति प्रतिषेधान्न भवति। तत्र हि `न सम्प्रसारणे सम्प्रसारणम्' (6.1.37) इत्यतो नेति वर्त्तते। उवाय इत्यादि रूपं वयेरात्मनेपदित्वान्न सिद्ध्यतीति सूत्रारम्भः।।

42. हनो वध लिङि। (2.4.42)
`अकारान्तश्चायमादेशः' इति। कुत एतत् ? शैलीयमाचार्यस्य यत्रेह प्रकरणे व्यञ्जनान्त आदेशः, तत्रोच्चारणार्थमिकारं करोति, यथा--जग्धिरित्यादौ। तस्मादिकारान्ताकरणादकारान्तोऽयमादेश इति विज्ञायते। `हलन्तलक्षणा' इति। `वदव्रजहलन्तस्याचः' (7.2.3) इत्यनेन या वृद्धिर्विधीयते सा हलन्तलक्षणा।

43. लुङि च। (2.4.43)
`आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लुङि मा भूत्' इति। अनेन योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि सति लिङोऽप्युत्तरत्रानुवृत्तेस्तत्राप्यात्मनेपदेषु विकल्पः स्यात्।।

44. आत्मनेपदेष्वन्यतरस्याम्। (2.4.44)
`आवधिष्ट' इति। `आङो यमहनः' (1.3.28) इत्यात्मनेपदम्। `आफधिषत' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यवादेशः। `आहत' इति। `हनः सिच्' (1.2.14) इति कित्त्वम्, `अनुदात्तोपदेश' (6.4.37) इत्यादिनाऽनुनासिकलोपः, `ह्रस्वादङ्गात्' (8.2.27) इति सिचो लोपः।।

45. इणो गा लुङि। (2.4.45)
`अगात्' इति। `गतिस्था' (2.4.77) इत्यादिना सिचो लुक्। `अगुः' इति। `आतः' (3.4.110) इति झेर्जुस, `उस्यपदान्तात्' (6.1.96) इति पररूपत्वम्। `लुङीति वर्त्तमाने' इत्यादि। `लुङि च' (2.4.43) इत्योत लुङगर्हणेऽनुवर्त्तमाने यत्पुनः लुङग्रहणं कृतं तस्यैततप्रयोजनम्-- परस्मैपदेष्वपि यथा स्यात्। नित्यञ्चात्मनेपदेषु। एतेनैतद्दर्शयति-- पूर्वकं हि लुङग्रहणमात्मनेपदग्रहणेनान्यतरस्याग्रहणेन च सम्बद्धम्, अतस्तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तथा चात्मनेपदष्वेव विकल्पेनादेशः स्यात्। तस्मादविशेषेण, नित्यञ्च यथा स्यादित्येवमर्थं पुनर्लुङग्रहणं क्रियते। `अगायि' इति। `चिण् भावकर्मणोः' (3.1.66) इति चिण्। `आतो युक् चिण्कृतोः' (7.3.33) इति युक्। `चिणो लुक्'(6.4.104) इति तकारस्य लुक्।
`इण्वदिक इति वक्तव्यम्' इति। यथेणो गादेशो लुङि भवति, तथा `इक् स्मरणे' (धा.पा.1047) इत्यस्यापि भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `बहुलं छन्दसि' (2.4.39) इत्यतो बहुलग्रहणमनुवर्त्तते मण्डूकप्लुतिन्यायेन। तेनेकोऽपि लुङि गादेशो भविष्यतीति।।

46. णौ गमिरबोधने। (2.4.46)
`गमयति' इति. `जनीजॄष्क्नसुरञ्जोऽमन्ताश्च' (धा.पा.ग.सू.817) इति मित्त्वात् ह्रस्वत्वम्।।

47. सनि च। (2.4.47)
`जिगमिषति' इति। `गमेरिट् परस्मैपदेषु' (7.2.58) इतीट्। `प्रतीषिषति' इति। `अजादेर्द्वितीयस्य' (6.1.2) इति `सन्यङोः' (6.1.9) इत्यनेन स इत्यस्य द्वर्वचनम्। `सन्यतः' (7.4.79) इतीत्त्वम्। उपसर्गेकारस्य धातोरिकारेण सह `अकः सवर्णे दीर्घः' (6.1.101)। `इङश्च' (2.4.48) इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि णेरप्युत्तरत्रानुवृत्तिः स्यात्, ततश्च तत्राप्ययमादेशः प्रसज्येत।।

48. इङश्च। (2.4.48)
`अधिजिगांसते' इति। `पूर्ववत् सनः' (1.3.62) इत्यात्मनेपदम्। `अज्झनगमां सनि' (6.4.16) इति दीर्घः।।

49. गाङ् लिटि। (2.4.49)
`अधिजगे' इति। `लिटस्तझयोरेशिरेच्' (3.4.81) इत्येश्। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। गा इत्येतस्य द्विर्वचनम्। ननु लिटि परभूते तशब्दस्य परत्वात् प्रगेवैशादेशेन भवितव्यम्; पश्चात् गाङादेशेन, ततश्च द्विर्वचने निमित्तेऽच्ययं गाङादेश इति `द्विर्वचनेऽचि' (1.1.59) इति स्थानिवद्भावादिवर्णस्य द्विर्वचनं प्राप्नोति, तत्कथं गा इत्येतस्य द्वर्वचनम् ? नैतदस्ति; यस्मात् लिण्मात्रापेक्षत्वात् गाङादेशोऽन्तरङ्गः, लिडादेशविशेषाश्रयत्वादेशादेशो बहिरङगः, तस्मादन्तरङ्गत्वादेशादेशात् प्रागेव गाङ्गादेशेन भवितव्यम्, ततश्च द्विर्वचननिमित्तेनायमच्यजादेश इति स्थानिवद्भावो न भवति, तत्कुत इवर्णस्य द्विर्वचनप्रसङ्गः। `गाङोऽनुबन्धकरणं विशेषणार्थम्' इति। गाङकुटादिसूत्रे (1.2.1) `गाङकुटादिभ्यः' इत्युच्यमाने `कै गै शब्दे' (धा.पा.916,917) इत्यस्यापि ग्रहणं स्यात्, ततश्चागासीन्नट इत्यत्र ग्रहणं कस्मान्न भवति ? येन हेतुना न भवति स हेतुर्गाङ्कुटादिसूत्रे एव दर्शितः। ननु चेङो ङितस्तत्र स्थानिवद्भावेनैव ग्रहणं भविष्यति, तत्किं ङकारेणेत्यत आह-- `न हि' इत्यादि। तत्र हि गाङित्येतस्य स्वरूपस्य ग्रहणम्। न च तत् स्थानिवद्भावेन लभ्यते। किं तर्हि ? कार्यम्। यस्मात् `स्थानिवदादेशः' (1.1.56) इति कार्यातिदेशोऽयम्, न रूपातिदेशः।।

50. विभाषा लुङ्लृङोः। (2.4.50)
`अध्यैष्ट' इति। `आडजादीनाम्' (6.4.72) इत्याट्। `आटश्च' (6.1.90) इति वृद्धि ।

51. णौ च संश्चङोः। (2.4.51)
`णावितीङपेक्षया' इत्यादि। णावितीयं या परसप्तमीङपेक्षया सा। `संश्चङोः' इतीयं या परसप्तमी सा ण्यपेक्षयेत्यर्थः। `अधिजिगापयिषति' इति। णिच्। `अर्तिह्री' (7.3.36) इत्यादिना पुक्, सन्, इट्, गुणायादेशौ। अध्यापिपयिषति' इति। `क्रीङजीनां णौ' (6.1.48) इत्यात्त्वम्, पुक्, `अजादेर्द्वितीयस्य' (6.1.2) इति `पा' इत्यस्य द्विर्वचनम्। `अध्यजीगपत्' इति। `णिश्रि' (3.1.48) इत्यादिना चङ। `णौ चङ्युपधाया ह्रस्वः' (7.4.1)। `सन्वल्लघुनि' (7.4.93) इति सन्वद्भावात् `सन्यतः' (7.4.79) इतीत्त्वम्। `दीर्घो लघोः' (7.4.94) इती दीर्घः।।

52. अस्तेर्भूः। (2.4.52)
`ईहामास' इति। ईहतेः `इजादेश्च गुरुमतोऽनृच्छः' (3.1.36) इत्याम्। `आमः' (2.4.81) इति लेर्लुक्; `कृञ्चानुप्रयुज्यते लिटि' (3.1.40) इत्यस्तेर्लिट्परस्यानुप्रयोगः। `प्रत्याहरग्रहणेनास्तेर्ग्रहणसामर्थ्यात्' इति। `कृञ्चानुप्रयुज्यते लिटि' (3.1.40) इत्यत्र कृञिति प्रत्याहारग्रहणम्, `अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि' (5.4.50) इति कृशब्दादारभ्य `कृञो द्वितीयतृतीयशम्बबीजात्' (5.4.58) इत्याकृञो ञकारात्। तेन च प्रत्याहारग्रहणेनास्तेरपि ग्रहणम्; तस्यैतदेव प्रयोजनम्-- आसेत्ेयतदनुप्रयोगे रूपं यथा स्यादिति। यदि चास्तेरनुप्रयोगेऽपि भूभावः स्यात्, तदासेत्येतदनुप्रयोगे रूपं न स्यादिति प्रत्याहारग्रहणमनर्थकम्। ततश्च`कृभ्वनुप्रयुज्यते लिटि' इत्येवं ब्रूयात्। तत्राप्ययमर्थः-- किमिदं प्रत्याहारग्रहणमुत करोतेरित्येव सन्देहः परिहृतो भवति, कृतञ्च प्रत्याहारग्रहणम्, तस्मात् प्रत्याहारग्रहणसामर्थ्यादनुप्रयोगेऽपि भूभावोऽस्तेर्न भवति। `तथा चोच्यते' इत्यादिनाऽनन्तरोक्तमेवार्थमाप्तवचनेन द्रढयति। भूरिति दीर्घोच्चारणं निष्ठायां ह्रस्वश्रवणं मा भूत्-- भूतो भूतवानिति, अस्तेरिति श्तिपा निर्देशोऽस्यतेर्मा भूत्; नैतदस्ति, निरनुबन्धक(व्या.प.53) पिरभाषयैवास्यतेर्न भविष्यति। तस्य ह्युकारोऽनुबन्धः `इदितो वा' (7.2.56) इति विशेषणार्थः कृतः। अस्तेस्त्वकार उच्चारणार्थः, नानुबन्धः। एवं तर्हि श्तिपा निर्देशो वैचित्र्यार्थ इत्येके। निरनुबन्धकपरिभाषायाः प्रत्ययविधिविषयत्वादित्यपरे।।

53. ब्रुवो वचिः। (2.4.53)
`वक्ता' इति। `चोः कुः' (8.2.30) इति कुत्वम्। `ऊचे' इति। वच्यादिसूत्रेण (6.1.15) सम्प्रासारणम्।।

54. चक्षिङः ख्याञ्। (2.4.54)
`नित्यमात्मनेपदं न भवति' इति। यदि हि स्यात्, अकारानुबन्धकरणमनर्थकं स्यात्। तस्मात् कर्त्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं स्यान्नान्यत्र।
`क्शादिरपि' इति। ककारशकारयोरकार उच्चारणार्थः। क्‌श् ख्याञित्येवंरूप आदेशो वक्तव्यः। कथं पुनरिष्यमाणोऽप्येवंविध आदेशो लभ्यते ? पूर्वोक्तस्य बहुलग्रहणस्यानुवृत्तेः। अत ए बहुलग्रहणस्यानुवृत्तेर्वर्जनेऽसनयोश्चादेशप्रतिषेधो भवतीति व्याख्यानं कर्त्तव्यम्।
`संचक्ष्या' इति। `ऋहलोर्ण्यत्' (3.1.124)।
`नृचक्षा' इति। `सर्वधातुभ्योऽसुन्' (द.उ.9.49), `अत्वसन्तस्य चाधातोः' (6.4.14) इति दीर्घः। `विचक्षणः' इति। `कृत्यल्युटो बहुलम्' (3.3.113) इति कर्त्तरि ल्युट्।
`बहुलम्' इत्यादि। संज्ञायां छन्दसि च जग्ध्यादेशादिकार्यं बहुलं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम् ? अन्नाद्यर्थम्। अन्नादयः शब्दा साधवो यथा स्युः। व्याख्यानन्तु तदेव बहुलग्रहणमाश्रित्य कर्त्तव्यम्। `अन्नम्' इति। अदो जग्धिरादेशो न भवति; बहुलग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेः। `वधक' इति। `हनो वध' (2.4.42) इत्यादिना वधादेशो लिङ्युटच्यमानो हन्तेर्ण्वुल्प्रत्यये कृतेऽपि भवति। `गात्रम्' इति। औणादिकः ष्ट्रन्। `इणो गा लुङि' (2.4.45) इति लुङ्युच्यमानो गादेशोऽत्रापि भवति. ` विचक्षणः' इति। चक्षिङ ख्याञादेशो न भवति ल्युटि। अजिरशब्दस्तु `अजिरशिशिरशिथिर' (द.उ.8.27) इति किरच्प्रत्ययान्त औणादिको निपातितः। तस्यात एव निपातनात् `अजेघञपोः' (2.4.56) इति विधीयमानो वीभावो न भवति। आदिशब्देन `प्रघस' इत्यादेर्ग्रहणम्।।

55. वा लिटि। (2.4.55)

56. अजेर्व्यघञपोः। (2.4.56)
`प्रवायकः' इति। ण्वल्। `प्रवयणीयम्' इति। अनीयर्। `कृत्यचः' (8.4.29) इति णत्वम्।
`घञपोः प्रतिषेधे क्यप उपसंख्यानं कर्त्तव्यम्' इति। घञपोः कर्त्तव्ये क्यपः प्रतिषेधस्योपसंख्यानं प्रतिपादनं कर्त्तव्यमित्यर्थः। क्यपः प्रतिषेधनिमित्तत्वेन प्रतिषेधं प्रति सम्बन्धित्वेन विवक्षितत्वात् क्यप इति षष्ठी। तत्रेदं प्रतिपादनम्-- `संज्ञायां समजनिपतमनविद' (3.3.99) इत्यादिना संज्ञायां गम्यमानायामजेः क्यप् विधास्यते। नियतवर्णानुपूर्वीका च संज्ञा भवति, न चादेशे कृते संज्ञा गम्यते, तस्मात् संज्ञायां विधानात् क्यपि वीभावो न भवति। `वलादावर्द्धधातुके विकल्प इष्यते' इति। कथं पुनरिष्यमाणोऽपि लभ्यते ? अजेरुदात्तत्वात्, स हीडर्थो धातुषूदात्तः पठ्यते। यदि चास्य नित्यं वीभावः स्यात्, तदा तस्योदात्तपाठोऽनर्थकः स्यात्। न हि वीभावे विहित इट् प्राप्नोति;तस्यानुदात्तत्वात्।

57. वा यौ। (2.4.57)
`यु' इति ल्युटो ग्रहणम्' इति। अन्यस्यासम्भवात्। `प्रवयणो दण्डः' इति। प्राज्यतेऽनेनेति करणे ल्युट्। पूर्ववण्णत्वम्।।

58. ण्यक्षत्त्रियार्षञितो यूनि लुगणिञोः। (2.4.58)
`ण्यादयो गोत्रप्रत्ययाः' इति। `गोत्राद्यून्यस्त्रियाम्' (4.1.94) इति गोत्रप्रत्ययान्तादेव युवप्रत्ययविधानात्। `तस्माद्यूनीञ्' इति। `अत इञ्' (4.1.95) इत्यनेन। `कौरव्यशब्दस्तिकादिषु पठ्यते' इति। औरसशब्दादनन्तरम्। `क्षत्रियगोत्रस्य तत्र ग्रहणम्' इति। औरसशब्देन क्षत्रियगोत्रप्रत्ययान्तेन साहचर्यात्। औरसशब्दो हि जनपदशब्दात् क्षत्त्रियादञ् (4.1.168) इति क्षत्त्रियगोत्रप्रत्ययान्तः।।
`ऋष्यण्' इति। `ऋष्यन्धकवृष्णिकुरुभ्यश्च' (4.1.114) इत्यनेन। `कुर्वादिभ्यो ण्यः' इति। वमरथ्यशब्दं व्युत्पादयति। तस्मात् `कण्वादिभ्योगोत्रे इति शैषिकोऽण्' इति। ननु च वामरथ्यशब्दः कुर्वादिषु पठ्यते, न कण्वादिषु, तत्कथमेवमुक्तम् ? यद्यपि न पठ्यते, तथापि वामरथ्यस्य कण्वादिवत् स्वरवर्जमिति पाठात् कण्वादिवद्भावोऽस्ति, अत एवमुक्तमित्यदोषः।
`दाक्षायणः' इति। `यञिञोश्च' (4.1.101) इति फक्।
`अब्राह्मणगोत्रमात्रात्' इति। इह कैश्चिदुक्तम्-- `अणिञोर्लुकि क्षत्रियगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्' इति। तेषां वैश्यगोत्रान्न प्राप्नोति; तस्माद्वैश्यगोत्रादपि यथा स्यादित्येवमर्थं मात्रग्रहणम्। ब्राह्मणक्षत्रियवैश्यानां हि गोत्राणि सम्भवन्ति, तत्र ब्राह्मणगोत्रं वर्जयित्वाऽन्यतः सर्वस्माद्भवति। पूर्वके तु वाक्येऽतद्राजादपि क्षत्रियगोत्राद्यथा स्यादित्येवमर्थं मात्रग्रहणम्। तथा हि `अणिञोर्लुकि तद्राजाद्युप्रत्ययस्योपसंख्यान्' दर्शयति। `भाण्डीजङ्घिः' इत्येवमादिना वैश्यगोत्रोदाहरणम्। ब्राह्मणगोत्रप्रतिषेधादिह न भवति--दाक्षायण इति। `शाल्वावयवलक्षणः' इति। क्षत्रियगोतर्मधिकृत्येदमुक्तम्। भाण्डीजङ्घिरित्यत्र वैश्यगोत्रे `अत इञ्' (4.1.95) इत्यनेनेञेव भवतीति वेदितव्यम्। `पैलादिदर्शनात् सिद्धम्' इति। पैलादेराकृतिगणत्वात् तत्रेते द्रष्टव्या इति दर्शयति।।

59. पैलादिभ्यश्च। (2.4.59)
`पीलाया वेत्यण्' इति। तत्र हि `शिवादिभ्योऽण्' (4.1.112) इत्यतोऽण्ग्रहणानुवृत्तेः। `अन्ये पैलादयः इञन्ताः' इति। अत्रौदञ्चिशब्दो बाह्वादित्वादिञन्तः। बाह्वादिषु ह्युदञ्चुशब्दः पठ्यते। उकारोच्चारणमतन्त्रम्। धातुप्रदर्शनार्थत्वात्। उदञ्चतीति `ऋत्विक्' (3.2.59) इत्यादिना सूत्रेण क्विन्। उदचोऽपत्यमौदञ्चिः। निपातनात् `अनिदिताम्' (6.4.24) इत्यादिना नलोपो न भवति, `अचः' (6.4.138) इत्यकारलोपश्च। भौलिङ्गिशब्दः शाल्वावयव इञन्तः। शेषास्तु `अत इञ्' (4.1.95) इतीञन्ता वेदितव्याः। शालङ्किरिति पठ्यते, स कथम्, यावता नडादिषु `शलङ्कु शलङ्कञ्च' (ग.सू.67) इति पाठात् शालङ्कायन इत भवितव्यम् ? प्रकृत्यन्तरं शलङ्कुशब्दोऽस्ति, ततोऽयमिञ् विहित इत्येके। अस्मादेव निपातनाच्छलङ्कुशब्दादिञिति विज्ञायते, तत्सन्नियोगे च शलङ्कादेश इत्यपरे। `तद्राजाच्चाणः' इति। तद्राजसंज्ञकाच्चाण उत्तरस्य युवप्रत्ययस्य लुग् भवति। अङ्गस्यापत्यमिति `द्वयञ्मगध' (4.1.170) इति फिञ्, तस्यानेन लुक्।।

60. इञः प्राचाम्। (2.4.60)
अन्यत्र प्राग्ग्रहणं विकल्पार्थं दृष्टम्, अत इहापि विकल्पो मा विज्ञायीत्याह-- `गोत्रविशेषणम्' इत्यादि।।

61. न तौल्वलिभ्यः। (2.4.61)
तौल्वल्यादिष्वान्तरहातिशब्दः पौष्करसादिशब्दश्च बाह्वादी इञन्तौ। बाह्वादिषु ह्यन्तरहच्छब्दः पुष्करसच्छब्दस्य पठ्येते; अत्रोभयपदवृद्धिकश्चानुरशतिकादित्वात्। शेषास्तु `अत इञ्' (4.1.95) इति इञन्ताः।।

62. तद्राजस्य बहुषु तेनैवास्त्रियाम्। (2.4.62)
`बहुषु वर्त्तमानस्य' इति। बहुष्वर्थेषु वर्त्तमानस्येत्यर्थःर। अथ `बहुवचने परतः' इत्येवं कस्मान्न व्याख्यायते ? अशक्यमेवं वक्तुम्; यतः संख्यावाची बहुशब्दो न बहुवचनवाची। यदि तु `बहुवचने परतः' इत्ययमर्थोऽत्राभिमतः स्यात्, अस्त्रियामिति प्रतिषेधे न कुर्यात्; प्राप्त्यभावात्। न हि तद्राजान्तदुत्पन्नेन स्त्रीप्रत्ययेन व्यवहिते बहुवचने परतो लुकः प्राप्तिरस्ति। किञ्च, अत्त्रय इत्यत्र बहुचने परतो लुकि विधीयमाने उदात्तनिवृत्तिस्वरः प्रसज्येत। कथम् ? अत्त्रेरपत्यानि बहूनीति `इतश्चानिञः' (4.1.122) इति ढकि तस्य `तद्धितस्य', `कितः' (6.1.164,165) इत्यन्तोदात्तत्तत्वे कृते बहुवचने जसि परतः `अत्त्रिभृगुकुत्सवसिष्ठ' (2.4.65) इत्यादिना लुकि कृते `अनुदात्तस्य च यत्रोदात्तलोपः' (6.1.161) इति विभक्तेरुदात्तत्वं प्राप्नोति। तस्मात् बहुषु वर्त्मानस्येत्ययमेवार्थः। बहुष्विति च तद्राजान्तस्य विशेषणम्, न तद्राजस्य; अन्यथा हि द्वन्द्वे दोषः प्रसज्येत-- आङ्गश्च वाङ्गश्च सौह्मश्चाऽङ्गवाङ्गसुह्मा इत्यत्र हुङ् न स्यात्; न ह्यत्र तद्राजो बहुषु वर्त्तते। तदन्तस्तु वर्त्तते, युगपदधिकरणवचनो हि द्वन्द्व इति कृत्वा। तस्मात् तद्राजान्तस्यैवेदं विशेषणम्, न तद्राजस्य।
`तद्राजसंज्ञकस्य प्रत्ययस्य बहुषु वर्त्तमानस्यास्त्रीलिङ्गस्य लुग्भवति' इत्ययं तु वृत्तिग्रन्थ एवमुन्नेयः-- बहुषु वर्त्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य यः सम्बन्धी तद्राजसंज्ञकः प्रत्ययस्तस्य तद्राजसंज्ञकस्य प्रत्ययस्य लुग्भवति। कथम् ? तद्राजान्तस्यैवैतत् सामर्थ्यं लब्धम्। न ह्यतद्राजान्तस्य तद्राजसंज्ञकः प्रत्ययः सम्बन्धी भवति। सूत्रेऽप्यन्तग्रहणं न कृतम्; प्रत्ययग्रहणपरिभाषयैव तदन्त स्य लब्धत्वात्। तथापि प्रत्ययान्तस्य लुगुच्यमानः प्रत्ययमात्रस्यैव विज्ञायते; `प्रत्ययस्य लुक्श्लुलुपः' (1.1.61) इति प्रत्ययादशनस्यैव लुक्संज्ञाविधानात्। `तेनैव चेत्' इति। तद्राजप्रत्ययान्तेनैवेत्यर्थः। `अङ्गाः, वङ्गाः, सुह्माः' इति। अङ्गस्यापत्यानि बहुनि। `द्वयञ्मगध' (4.1.170) इत्यादिनाऽण्, तस्य लुक्। `लोहध्वजाः, व्रीहिमन्तः' इति। `पूगाञ्‍ञ्योऽग्रामणीपूर्वात्' (5.3.112) इति ञ्यप्रत्ययः, तस्य लुक्।
`औपगवाः' इति। `प्राग्दीव्यतोऽण' (4.1.83) `प्रियवाङ्गाः' इति। बहुव्रीहिः। नात्र तद्राजप्रत्ययेन बहुत्वं किं तर्हि ? समासेन। न चासौ तद्राजप्रत्ययान्तःच ततस्तद्राजस्याविहितत्वात्। तद्येवम्, द्वन्द्वोऽपि, तद्राजप्रत्ययान्तो न भवतीति तत्रापि लुङ न स्यात् ? नैतत् ; यदि द्वन्द्वोऽपि तद्राजप्रत्ययान्तो न भवति, तथापि प्रत्येकं द्वन्द्वावयवास्तद्राजप्रत्ययान्ता गह्वर्थाश्चेति तत्र भवत्येव लुक।
न च बहुष्वित्यर्थग्रहणम्, यश्च बह्वर्थस्तत्रावश्यमेव तत्कृतेन बहुत्वेन भवितव्यम्, तत्किं तेनैवेत्यनेन ? एवं मन्यते-- अन्तरङ्गत्वात् तद्राजप्रत्ययोत्पत्तिवेलायां यद्बहुत्वमुपजायते तदेव यदि गृह्यते, न तु तत्पदान्तरापेक्षम्, ततश्च द्वन्द्वेषु लुग् न स्यात्। तेनैवग्रहणं तु द्वितीयोऽयं यत्न इति-- यः प्रत्ययान्तस्य बहुत्वं तेनैव क्रियते, यच्च पदान्तरापेक्षेणापि तत्र सर्वत्र भवतीति। यद्येवम्, इहापि प्राप्नोति-- प्रियवाङ्गा इति ? नैष दोषः; एवकारो ह्यत्र क्रियते। स तुल्यजातीयापेक्षयैव नियमं करोति, लोपिबिरेव यत् कृतं बहुत्वमिति। न च प्रियवाङ्गा इत्यत्र लोपिभिरेव कृतं बहुत्वम्, यस्मादत्र किञ्चिल्लोपि पदं किञ्चिदलोपि, एवञ्च नियमे सति द्वन्द्वे सति द्वन्द्वेऽपि यत्र लोप्यलोपिनां तत्रापि न भवति-- `गार्ग्यकाश्यपगालवानाम्' (8.4.67) इति, अत्र गार्ग्यकाश्यपयोः `यञिञोश्च' (4.1.101) इति लोपः प्राप्नोति। गालवस्य तु ऋष्यणन्तत्वान्नास्ति लुकः प्राप्तिः। `आङ्ग्यः' इति। `टिड्ढाणञ्' (4.1.15) इति ङीप्।।

63. यस्कादिभ्यो गोत्रे। (2.4.63)
`अपत्यं पौत्रप्रभृति गोत्रम्' (4.1.162) इति पारिभाषिकमेवेदं गोत्रं गृह्यते, न लौकिकमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तां निराकर्त्तुमाह-- `प्रत्ययविधेयश्चान्यत्र ' इत्यादि। एतच्चोभयगतिरिह शास्त्रे संभवतीति लभ्यते। लौकिके गोत्रे गृह्यमाणे शास्त्रीयमपि तत्रान्तर्भवति; प्रत्ययविधौ तु लौकिकगोत्रस्य ग्रहणं न भवतीति ज्ञापकात्। यदयम्-- `गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजादवुञ' (4.2.39) इत्यत्र गौत्रग्रहणं कृत्वा राजन्यग्रहमं करोति, तज्ज्ञापयति-- प्रत्ययविधौ लौकिकगोत्रग्रहणं न भवतीति।
`यास्काश्छात्राः' इति। `तस्येदम्' (4.3.120) इत्यण्। पुष्करच्छब्दोऽप्यत्र पठ्यते, स किमर्थः; यावता `बह्वच इञ् प्राच्यभरतेषु' (2.4.66) इत्येवं सिध्यति ? न सिध्यति; `न गोपवनादिभ्यः' (2.4.67) इति प्रतिषेधः प्राप्नोति। गोपवनादिषु हि कैश्चित् तौल्वल्यादयश्चेति पठ्यते, तौल्वल्यादिषु पुष्करसच्छब्दः पठ्यते, तौल्वल्यादीनाञ्च गोपवनादिषु पाठोऽस्तीत्ययमेव यस्कादिषु पुष्करसच्छब्दपाठो ज्ञापयति।।

64. यञञोश्च। (2.4.64)
`गार्ग्यः' इति। `यञश्च' (4.1.16) इति ङीप्। `यस्येति च' (6.4.148) इत्यकारलोपः, `हलस्तद्धितस्य' (6.4.50) इति यकारस्य च। तत्र हि `सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः' (6.4.149) इत्यतः `य' इत्यनुवर्त्तते, `अल्लोपोऽनः' (6.4.134) इत्यतो लोप इति च। `वैद्यः' इति। `शार्ङ्गरवाद्यञो ङीन्' (4.1.73)। `द्वैप्याः, औत्साः' इति। जातादौ शैषिकेऽर्थे यञञो।
`यञादीनाम्' इत्यादि। यञादीनां बहुषु लुगुच्यमान एकत्वे द्वित्वे च प्राप्नोतीति वचनम्। एकद्वयोरिति च संख्याप्रधानोऽयं निर्देशः, यथा-- `द्वयेककयोर्द्विचवनैकवचने' (1.4.22) इति, एकत्वद्वित्वयोरिति यावत्; उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कर्त्तव्यमित्यध्याहार्यम्। तत्रेदं प्रतिपादनम्-- `वा यौ' (2.4.57) इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते। चकारो वात्रानुक्तसमुच्चयार्थः क्रियते। तेन यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या लुग्भवतीति। यदि वेत्यनुवर्त्तते तदा बहुष्वपि विकल्पः स्यात्। व्यवस्थिविभाषाविज्ञानान्न भविष्यतीत्यदोषः।
`आङ्गकुलम्' इति। अत्राङ्गशब्दात् तद्राजसंज्ञकोऽण्, स च यञादिर्न भवति तस्येह प्रकरणे यञादिभ्यः प्राङ्निर्देशात्। `उपगार्ग्यम्' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिनाव्ययीभावः। `परमगार्ग्यः' इति। `सन्महत्' (2.1.61) इत्यादिना प्रथमान्तयोस्तत्पुरुषः।।

65. अत्त्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च। (2.4.65)
`{आत्रेय्यः-- इति मुद्रितः पाठः'आत्त्रेयः' इति। `टिड्ढाणञ्' (4.1.15) इति। ङीप्।।

66. बह्वच इञः प्राच्यभरतेषु। (2.4.66)
`भरताः' इति। येषां भरत आद्यः संज्ञाकारी ते भरताः। `पन्नागाराः' इत्यादिषूहाहरणेषु `अत इञ्' (4.1.95), तस्य लुक्। `बालाकयः' इति। बाह्वादित्वादिञ्। `हास्तिदासयः' इति। `अत इञ्' (4.1.95)। `आर्जुनायनः' इति। `यञियोश्च' (4.1.101) इति फक्।।

67. न गोपवनादिभ्यः। (2.4.67)
विदाद्यन्तर्गणोऽयमिति लुक्प्राप्तिं दर्शयति। `शैग्रवाः' इति। `ओर्गुणः' (6.4.146) । ननु चान्येऽपि हरितादयोऽत्र पठ्यन्ते, तत्किमित्यवधार्यत एतावन्त इत्यत आह-- `परिशिष्टानाम्' इत्यादि। `प्रमादपाठः' इति। अनार्षः पाठः इत्यर्थः। यदि तेषां प्रमादपाठः, एवं तर्ह्यविदादित्वादञप्येभ्यो न प्राप्नोतीत्यत आह-- `ते हि' इत्यादि। ते हि चतुर्थेऽध्याये बिदादिषु गोपवनादिभ्यः पर्वे पठ्यन्त इति न भवत्येष दोषप्रसङ्गः। यस्त्विह गोपवनादिभ्योऽष्टभ्यः पर एषां पाठः, स प्रमादपाठ इत्युच्यते।।

68. तिककितवादिभ्यो द्वन्द्वे। (2.4.68)
किमर्थं पुनस्तिककितवाभ्यां द्वाभ्यां गण उपलक्ष्यते, नैकेनैवोपलक्ष्येत ? नैतत्; कार्यिणा हि गण उपलक्षणयितुं युक्तः, द्वन्द्वश्चात्र कार्यी, तेनैवोपलक्षयितुं युक्तः।।

69. उपकादिभ्योऽन्यतरस्यामद्वन्द्वे। (2.4.68)
यदि द्वन्द्वे च भवत्यद्वन्द्वग्रहणं तर्हि किमर्थमित्याह-- `अद्वन्द्वग्रहणम्' इत्यादि। द्वन्द्वग्रहणे नात्र द्वन्द्वाधिकारः सम्बध्यते-- द्वन्द्वे द्वन्द्वाधिकार इति, तस्य नञा सम्बन्धे च द्वन्द्वाधिकारनिवृत्तिः प्रतीयते। ्थ विषयोपग्रहणार्थमद्वन्द्वग्रहणं कस्मान्न विज्ञायते-- अद्वन्द्वेऽद्वन्द्वविषय इति ? यद्ययमर्थोऽभीष्टः स्यादद्वग्रहणं न कुर्यात्; विनापि तेनार्थस्य प्रतीतेः। कथम् ? तिककितवादयोऽपीह त्रयः पठ्यन्ते-- उपकलमकाः, भ्रष्टककपिष्टलाः, कृष्णाजिनकृष्णसुन्दरा इति, तेषाञ्चाद्वन्द्व एव ग्रहणं प्रयोजयति न द्वन्द्वः; पूर्वेणैव सिद्धत्वादिति। तेषां तावर्न्नियमेनाद्वन्द्वार्थं ग्रहणम्, तत्साहचर्यादितरेषामप्यद्वन्द्वार्थं ग्रहणं युक्तमिति निष्फलमेवाद्वन्द्वग्रहणं स्यात्। तस्माद् द्वन्द्वाधिकारनिवृत्त्यर्थमेतद्युक्तमिति। `तेषां पूर्वेण नित्यमेव लुग्भवति' इति। अन्यथा हि तिककितवादिषु तेषां पाठोऽनर्थकः स्यात्। `अद्वन्द्वे त्वनेन विकल्पः' इति। प्रकृतत्वाल्लुको विज्ञेयः। तत्रोपकलमशब्दाभ्यां नडादिफग्विधानात् तस्य लुग्विकल्पः, ततः परेभ्यः प्राक् कपिष्ठलशब्दात् इञः। कपिष्ठलमयूरकर्ण-- इत्येतेभ्यः शिवादिभ्योऽणः। खारीजङ्घादिभ्यः प्राक् कठेरणिशब्दादत इञः। कठेरणिशब्दादौत्सर्गिकस्याणः। कुषीतकादिभ्यः कृष्णपिङ्गलपर्यन्तेभ्योऽत इञः। अनुलोमशब्दात् बाह्वादीञः। बाह्वादिषु हि लोमशब्दः पठ्यते, स च तदन्तविधिं प्रयोजयति। अनुगतानि लोमान्यस्येत्यनुलोमा, तस्यापत्यानुलोमयः, अनुलोमान इति। शेषाणामत इञः।।

70. आगस्त्यगौण्डिन्ययोरगस्तिगुण्डिनच्। (2.4.70)
यद्यपि प्रत्ययान्तात् षष्ठ्युच्चारिता, तथापि प्रत्ययस्यैव लुग्विज्ञायते, न तदन्तस्य; यस्मात् प्रत्ययादर्शनस्य लुगित्येषा संज्ञा विहिता, न तदन्तस्येत्यालोच्याह-- `आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः' इति। व्यधिकरणे षष्ठ्यौ। आगस्त्यकौण्डिन्ययोर्याववयवौ गोत्रप्रत्ययौ तयोरित्यर्थः। तावेव प्रत्ययौ स्वरूपेण दर्शयन्नाह-- `अणो यञश्च' इति। यञो यद्यपि लुक् सिद्धस्तथापि पुनर्विधीयते कुण्डिनजादेशेन तस्य बाधा मा विज्ञायीति। `मध्योदात्तो हि कुण्डिनीशब्दः' इति। कुण्डमस्यास्तीति `अत इनिठनौ' (5.2.115) इतीनिप्रत्यये कृते प्रत्ययस्वरेण। `तदादेशोऽपि तथा स्यात्' इति। स्थानिवद्भावेन मध्योदात्तः स्यात्। चित्करणान्मध्योदात्तत्वं न बवति। किमर्थं पुनः प्रत्ययान्तरयोरेवायमादेशो न क्रियत इत्याह--- `तयोः' इत्यादि. यदि प्रत्ययान्तयोरेवायमादेशः स्यात `गोत्रेऽलुगचि' (4.1.89) इति प्रतिषधो न स्यात्. यस्माल्लुकोऽसौ प्रतिषेधो नादेशस्येति स्यादेवात्रादेशः, ततश्चावृद्धादणेव स्यात्; एवं चागस्ता इत्यनिष्टं रूपं स्यात्। यद्यपि वृद्ध्सयादेशः स्यानिवद्भावाद् वृद्धग्रहणेन गृह्यते तथाप्यगस्तीया इति स्यात्, आगस्तीया इति न सिध्यति। न च स्थानिवद्भावो लभ्यते; वृद्धसंज्ञाया अल्विधित्वात्। इह प्रत्ययस्य तु लुकि परिशिष्टस्यादेशे विहिते `गोत्रेऽलुगचि' (4.1.89) इति लुकि च प्रतिषिद्धे `वृद्धाच्छः' (4.2.114) सिद्धो भवति। `तत्र विशेषो नास्ति' इति। सत्यामपि वृद्धसंज्ञायां `कण्वादिभ्यो गोत्रे' (4.2.111) इति च्छापवदेनाणैव भवितव्यमिति नास्ति कौण्डिन्ये विशेषः।।

71. सुपो धातुप्रातिपदिकयोः। (2.4.71)
`धातुप्रातिपदिकयोः' इति। यदीयं सप्तमी स्यात् तदाऽयमर्थो विज्ञायेत-- धातौ च प्रातिपदिके च या सन्निकृष्टा विभ्कतिस्तस्या लुग्भवतीति। सन्निकृष्टत्वञ्चोपश्लेषमन्तरेण न सम्भवतीतीहापि स्यात्--- वृक्षः प्लक्ष इति, अस्ति ह्यत्रापि प्रादिपदिकेन विभक्तेरुपश्लेषः। तस्मात् षष्ठीयं युक्तेति मत्वाह-- `सुपो विभक्तेर्धातुसंज्ञायाः' इत्यादि। कथं पुनविभक्तेर्धातुसंज्ञा प्रातिपदिकसंज्ञा च भवतीत्यत आह-- `तदन्तर्गता' इत्यादि। नन्वेमपि धातुप्रातिपदिकयोरेवकदेशीभूता विभक्तयः स्युः, न धातुसंज्ञकाः, नापि प्रातिपदिकसंज्ञकाः ? समुदायेषु हि प्रवृत्ताः शब्दा अवयेवष्वपि वर्त्तन्त इत्यदोषः। `पुत्रीयती' िति। आत्मनः पुत्रमिच्छतीति `सुप आत्मनः क्यच्' (3.1.8) `क्यचि च' (7.4.36) इतीत्त्वम्, `सनाद्यन्ता धातवः' (3.1.32) इति धातुसंज्ञा, सा च सुबन्तात् क्यज्विहित इति ससुप्कस्यैव भवतीति तेनात्र विभक्तिर्धात्वन्तर्गता भवति। `कष्टश्रितः' इति। कष्टं श्रित इति `द्वितीया श्रित' (2.1.24) इत्यादिना समासः। `कृत्तद्धितसमासाश्च' (1.2.46) इति प्रातिपदिकसंज्ञा, सापि सुबन्तानां समासो भवतीति ससुप्कस्यैव भवति। तेनात्रापि विभक्तिः प्रातिपदिकान्तर्गता भवति। वृक्षः, प्लक्ष इत्यत्राप्यप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधात् सविभक्तिकस्य प्रातिपदिकसंज्ञा नास्तीति नास्ति विभक्तेः प्रातिपदिकान्तर्भावः।।

72. अदिप्रभृतिभ्यः शपः। (2.4.72)

73. बहुलं छन्दसि। (2.4.73)
`त्राध्वम्' इति। `त्रैङ पालनै' (धा.पा.965) भौवादिकः, लोट, ध्ममादेशः, टेरेत्त्वम्, `सवाभ्यावामौ' (3.4.91) इत्यमादेशः।।

74. यङोऽचि च। (2.4.74)
`अचि प्रत्यये परतः' इति। प्रत्ययग्रहणमचीति न प्रत्याहारग्रहणमिति प्रदर्शनार्थम्। यदि हि प्रत्याहारग्रहणभिमतं स्यात् तदाऽणीति णकारेणैव कुर्यात्। न हि यङन्तादणोऽन्येऽचः परे सम्भवन्तीत्यभिप्रायः। इदमेवाज्ग्रहणं ज्ञापकम्-- सर्वे धातवः पचाद्यन्तःपातिन इति। `लोलुवः'इति। `धातोरेकाचो हलादेः क्रियासमभिहारे' (3.1.22) इति यङ्, द्वर्वचनं `सन्यङोः' (6.1.9) इत्यनेन, `गुणो यङलुकोः' (7.4.82) इति गुणः। लोलू य इति स्थिते पचाद्यच्, यङो लुक्, `न धातुलोप' (1.1.4) इत्यादिना गुणप्रतिषेधः। `अचि श्नुधातु' (6.4.77) इत्यादिनोवङ। `सनीस्रंसः। दनीध्वंसः' इति। `स्रन्सु ध्वन्सु अवस्रंसने' (धा.पा.754,755), पूर्ववद्यङ्दिकार्यम्। ` न लुमताङ्गस्य' (1.1.63) इति प्रतिषेधात् प्रत्ययलक्षणेन `अनिदिताम्' (6.4.24) इत्यादिनाऽनुनासिकलोपो न भवति। `नीग्वञ्चु' (7.4.84) इत्यादिनाऽभ्यासस्य नीगागमः। `लालपीति।वावदीति' इति। लपेर्वदेश्च `दीर्घोऽकितः' (7.4.83) इत्यभ्यासस्य दीर्घः। `यङो वा' (7.3.94) इतीट्।।

75. जुहोत्यादिभ्यः श्लुः। (2.4.75)
`शबनुवर्त्तते, न यङ' इति। शब एव स्वरितत्वप्रतिज्ञानात्। `जुहोति' इति। `श्लौ' (6.1.10) द्विर्वचनम्। बिभर्ति' इति। `उरत्ट (7.4.66) इत्यत्त्वम्। `रपरत्वम्। `भृञामित्' (7.4.76) इतीत्त्वम्। `नेनेक्ति' इति। `णिजिर् शौचपोषयोः' (धा.पा.1093) , `निजां त्रयाणां गुणः' (7.4.75), `श्लौ' (6.1.10) इति द्वर्वचनम्।।

76. बहुलं छन्दसि। (2.4.76)
`दाति, धाति' इति। ददातिदधात्योः पूर्वसूत्रेण श्लौ प्राप्ते बहुलं प्रतिषिध्यते। शपो लुक्। `विवष्टि' इति। `वश कान्तौ' (धा.पा.1080), अदादित्वाच्छपो लुकि प्राप्ते श्लुः, `श्लौ' (6.1.10) इति द्वर्वचनम्, `भृञामित्' (7.4.76) इत्यनुवर्त्तमाने `बहुलं छन्दसि' (7.4.78) इतीत्त्वम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्। `ष्टुना ष्टुः' (8.4.41) इति ष्टुत्वम्। `विभक्ति' इति। `भज सेवायाम्' (धा.पा.998) भौवादिकः,शपः श्लुः, पूर्ववदित्त्वम्, `चोः कुः' (8.2.3)) इति कुत्वम्। `विवक्ति' इति क्वचित्पाठः। स च `वच परिभाषणे' (धा.पा.1063) इत्येतस्यादादिकस्य वेदितव्यः।।

77. गतिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु।( 2.4.77)
`अगात्' इति। `इमो गा लुङि' (2.4.45) इति गादेश-। `अपात्' इति। `पा पाने' (धा.पा.925)। `अभूत्' इति। `भू सुवोस्तिङि' (7.4.88) इति गुणप्रतिषेधः।।
`गापोर्ग्रहणे इण्पिवत्योर्ग्रहणम्' इति। इणादेशस्य ग्रहणं तावद्गातीत्यत एव श्तिपा निर्देशाद्विज्ञायते। श्तिपा हि विकरणशून्य एवमर्थो निर्देशः क्रियते--लुग्विकरणस्यैव ग्रहणं यथा स्यादिति; अन्यथा हि यदि गायतेर्ग्रहणमिष्टं स्यात् तदा गा इत्येवं ब्रूयात्। एवं तर्हि `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इत्युभयोरपि ग्रहणं भविष्यति, किं श्तिपा निर्देशेन ? तस्मादयमेव श्तिपा निर्देशो ज्ञापयति-- इमादेश्सयैवेदं ग्रहणम्, न गायतेरिति। पाग्रहणे पिबतेरेव गर्हणमित्येतदपि `लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' (व्या.प.50) इत्यनया परिभाषया विज्ञायते। `अघासीत्' इति। `कै गै शब्दे' (धा.पा.916,917) `यमरमनमातां सक् च' (7.2.73) इति सगागमः। सिच्, इट् च। `अस्तिसिचोऽपृक्ते (7.3.96) इतीट्। `इट ईटि' (8.2.28) इति सिचो लोपः। `अपासीत्' इति। `पा रक्षणे' (धा.पा. 1056) पूर्ववत् सगादिकार्यम्।
`आगासाताम्' इति। कर्मण्यात्मनेपदम्। आताम्। किमर्थं पुनः सिचो लुगुच्यते, न लेरित्येवोच्येत ? अत्राप्ययमर्थः सम्पाद्यते, उत्तरसूत्रे लिग्रहणं न कर्त्तव्यं भवति ? नैतदस्ति; इह लेर्हि लुकि विज्ञायमाने मा हि गातामिति `आदिः सिचोऽन्यतरस्याम्' (6.1.187) इत्यादिः स्वरो न सिद्ध्येत्,स पुनरुदात्तः। अगुरित्यत्रापि `आतः' (3.4.110) इति `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुस्भावो न सिद्ध्यति। तस्मात् सिच एव लुग् वक्तव्यः।।

78. विभाषा घ्राधेट्‌शाच्छासः। (2.4.78)
`घ्रा गन्धोपादाने' (धा.पा.926), `धेट् पाने' (धा.पा.902), `शो तनूकरणे' (धा.पा.1145), `छो छेदने' (धा.पा.1146), `षोऽन्तकर्मणि' (धा.पा.1147)। `धेटः पूर्वेण नित्ये प्राप्ते' इति। घुसंज्ञकत्वात्। अलुक्पक्षे पूर्ववत् सगादिकार्यम्। धेटः सानुबन्धकस्य निर्देशो धाञ्परीहारार्थः। यदि कृतात्त्वो निर्दिश्येत तदा धाञोऽपि ग्रहणं स्यात्। `अध्रासाताम्' इति। कर्मण्यात्मनेपदम्।।

79. तनादिभ्यस्तथासोः। (2.4.79)
`अतत' इति। `स्वरितञितः' (1.3.72) इत्यात्मनेपदम्। `अनुदात्तोपदेश' ((6.4.37) इत्यादिनाऽनुनासिकलोपः। `अतनिष्ट ययम्' इति। मध्यमपुरुषबहुवचनान्तमेतत्।।

80. मन्त्रे घसह्वरणशवृदहाद्‌वृच्‌कृगमिजनिभ्यो लेः। (2.4.80)
सिच इत्यनुवर्त्तमाने पुनर्लिग्रहणं `आदिः सिचोऽन्यतरस्याम्' (6.1.187) इत्यादेःसिच्कार्यस्य निवृत्त्यर्थम्, उत्तरार्थञ्च। `अक्षन्' इति। `अद भक्षणे' (धा.पा.1011) लुङ, `लुङसनोर्धस्लृ' (2.4.37) इति घस्लादेशः। ततः `च्लि लुङि' (3.1.43) इित च्लिः, तस्यानेन लुक्, झेरन्तादेशः, `इतश्च' (3.4.100) इकतीकारलोपः, `संयोगान्तस्य' (8.2.23) इति तकारलोपः, `गमहन' (6.4.98) इत्यादिनोपधालोपः, `शासिवसिघलसीनाञ्च' (8.3.60) इति षत्वम्, `झलां जश् झशि' (8.4.53) इति जश्त्वम्, `खरि च' (8.4.55) इति चर्त्वम्। ह्वरेत्यागन्तुकेनाकारेण निर्देशः। `मा ह्वः' इति। लुङ, तिङगुणरपरत्वानि, हल्ङ्यादिलोपः, (6.1.68), `न माङयोगे' (6.4.74) इत्यडागमाभावः। `प्राण़ड्' इति। `णश अदर्शने' (धा.पा.1194), पूर्ववल्लुङादिकार्यम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, `झलां जशोऽन्ते' (8.2.39) इति जस्त्वम्-- षकारस्य डकारः, तस्य `वावसाने' (8.4.56) इति चर्त्वं टकारः,`उपसर्गादसमासेऽपि' (8.4.14) इति णत्वम्। क्वचित् `प्राणग्' इति पाठः। तत्र `क्विन्प्रत्ययस्य कुः' (8.2.62) इत्यतः कुरित्यनुवर्त्तमाने `नशेर्वा' (8.2.63) इति कुत्वम्। `आवः' इति। वृञस्तिप्, गुणो रपरत्वम्, हल्ङ्यादिना (6.1.68) सिपो लोपः। `धक्' इति। `दह भस्मीकरणे' (धा.पा.911), सिप्,हल्ङ्यादिना (6.1.68) सिपो लोपः। `दादेर्धातोर्घः' (8.2.32) इति हस्य घः। `एकाचो बशो भष्' (8.2.37) इत्यादिना दकारस्य धकारः, धकारस्य जश्त्वम्-- गकारः, तस्य चर्त्वम्-- ककारः, आडागमस्य `बहुलं छन्दस्यामाङ्योगेऽपि' (6.4.75) इति निषेधः। `आप्रात्' इति। `प्रा पूरणे' (धा.पा.1061) इत्यस्मात् तिप्। `परावर्क' इति। वृजेस्तिप्, लघूपधगुणः,हल्ङ्यादिना (6.1.68) लोपः। `रात्सस्य' (8.2.24) इति नियमात् संयोगान्तलोपाभावः। जकारस्य पूर्ववत् कुत्वं गकारः, तस्य चर्त्वं ककारः। `अक्रन्' इति। कृञो झेरन्तादेशः, संयोगान्तलोपः। `अज्ञत' इति। जनेर्झस्य `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः, पूर्ववदुपधालोपः, `स्तोः श्चुना श्चुः' (8.4.40) इतिश्चुत्वम्। क्वचित् `अज्ञन्' इति पाठः। तत्र झिः, ततः परस्मैपदं वधेयम्। `ब्राह्मणे प्रयोगोऽयम्' इति। योऽयमनन्तरं मन्त्रे जनेरुक्तः स ब्राह्मणो मन्त्रव्याख्यानग्रन्थः। मन्त्रे जनेर्लुक् च दृश्यत इति तद्विषयमुदाहरणं नोपन्यस्तम्। यदि तर्ह्यमन्त्रे लुग्भवति मन्त्रग्रहणं किमर्थमित्याह-- `मन्त्रग्रहणम्' इत्यादि।।
81. आमः। (2.4.81)
`ईहाञ्चक्रे' इति। `ईह चेष्टायाम्' (धा.पा.632), लिट्, `इजादेश्च' (3.1.36) इत्यादिनाऽऽम्। तस्य कृत्वे मकारान्तस्य कृदन्तत्वात् प्रातिपदिकसंज्ञा, सुः, आमः स्वरादिपाठादव्ययत्वम्, `अव्ययादाप्सुपः' (2.4.82) इति सुलोपः, `कृञ्च' (3.1.40) इत्यादिना लिट्परस्य कृञोऽनुप्रयोगः, `आम्प्रत्ययवत्'(1.3.63) इत्यादिनाऽऽत्मनेपदम्, तत एशादेशः, द्विर्वचनम्, अभ्यासकार्यम्। आमो मकारस्यानुस्वारः, `अनुस्वारस्य ययि परसवर्णः' (8.4.58)। अथेह कस्मान्न भवति-- जगाम, शशामेति ? अर्थवदामो ग्रहणात्, अस्य चानर्थकत्वात्। प्रत्ययस्तु `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पु.प.पा.90) इत्यर्थवान्। इह तर्हि कस्मान्न भवत्यम् रोग इति-- आमेति ? `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (व्या.प.3), अस्य तु लाक्षणिकत्वात्।।

82. अव्ययादुप्सुपः। (2.4.82)
`तत्र शालायाम्' इति। तच्छब्दात् सप्तम्यास्त्रल्। तस्य `प्राग्दिशो विभक्ति' (5.3.1) इति। विभक्तिसंज्ञा, त्यदाद्यत्वम्,टाप्, `तसिलादिष्वाकृत्वसुचः' (6.3.35) इति पुंवद्भावः। `तद्धितश्चासर्वविभक्तिः' (1.1.38) इति त्रलोऽव्ययत्वम्, ततउत्पन्नस्य टापो लुक्। केन पुनरव्ययाट्टाबुत्पद्यते ? `अजाद्यतष्टाप्' (4.1.4) इति चेत्, नच स्त्रियां टापो विधानात्, अव्ययस्य चालिङ्गत्वात्। तस्मादव्ययाट्टापः सम्भव एव नास्तीत्यव्ययादपार्थकं टापो लुग्वचनम् ? नापार्थकम्; `स्त्रियाम्' (4.1.3) गुणिप्रधाननिर्देशः-- स्त्रीत्ववति पदार्थे टाबादय इति। स्त्रीत्ववति च तस्यां शालायमित्येतस्मिन् पदार्थे तत्रेत्येतदव्ययं वर्त्तते। यद्यपि वाक्यार्थोऽत्र स्त्रीत्वम्; तथापि वाक्यार्थतयैव तसय् स्त्रीप्रत्ययो द्योत्यते, सति च स्त्रीप्रत्यये पदार्थ एव स्त्रीत्वं भवति, ततष्टापो लुग्वक्तव्यः। `कृत्वा, हृत्वा' इति। `क्त्वातोसुन्कसुनः' (1.1.40) इति क्त्वाप्रत्ययस्याव्ययत्वम्, तत उत्पन्नस्य सुपो लुक्। केन पुरव्ययात् सुबुत्पत्तिः ? स्वादि (4.1.2) सूत्रेणेति चेत्, न; तत्र `बहुषु बहुवचनम्' (1.4.21) इ्तयादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां नियत्वात्, अव्ययानाञ्चासंख्यत्वात्। स्यादेतत्-- यत्र संख्यास्ति तत्र `बहुषु वहुवचनम्‌' (1.4.21) इत्येवमादिना स्वादिनियः कृतः, अव्ययेभ्यस्तु निःसंख्येभ्यः समान्यविहिताः स्वादयो विद्यन्त एवेति ?वार्त्तमेतत्; स्वादिसूत्रेण (4.1.2) हि `बहुषु बहुवचनम्' (1.4.21) इत्यादिना शास्त्रान्तरेणैकवाक्यतायां स्वादीनां विधानात्। तथा हि-- तत्रोक्कतं संख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहिताः, तेन सहास्यैकवाक्यतेति। एकवाक्यतायाञ्च कुतः स्वादीनां सामान्येन विधानाम्। न ह्यपरं लक्षणमस्ति येन स्वादयः सामान्येन विहिताः। एवं तर्ह्येतदेवाव्ययादुत्पन्नस्य सुपो लुग्वचनं ज्ञापकम्-- भवन्त्यवययात् स्वादय इति। न ह्यनुत्पन्नस्य लुगुपपद्यते। एतदेव ज्ञापकं हृदि कृत्वोक्तम्-- `अव्ययेभ्यस्तु निःसंख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव' इति।।

83. नाव्ययीभावदतोऽमत्वपञ्चम्याः। (2.4.83)
`एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति' इति। कथम् ? इह द्वोयरर्थयोर्विधानात्, विधायके च वाक्ये द्वे एव। तत्र `नाव्ययीबावादतः' इत्येतत् प्रतिषेधस्य विधायकमेकं वाक्यम्। `अम् त्वपञ्चम्याः' इत्येतदमो विधायकं द्वितीयं वाक्यम्, तत्र चात इत्येतदपेक्षते। अत एव वृत्तौ वाक्यद्वयमुपन्यस्तम्-- `अदन्तादवययीभावदुत्तरस्य सुपो न लुग्भवति' इत्येकं वाक्यम्, `अमादेशस्तु तस्य भवत्यपञ्चम्याः' इति द्वितीयम्। तत्रापञ्चम्या इत्यनेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति पञ्चम्या अमादेश एव प्रतिषिध्यते, न त्वलुक् पूर्ववाक्येन विहितः। अत एवालुकि सति पञ्‍चम्याः श्रवणमेव बवति। एकवाक्यतायां हि सत्यां कार्यद्वयस्यैकया पाठप्रवृत्या विधीयमानत्वात् कार्यद्वयस्यापञ्चम्या इति प्रतिषेधः स्यात्। पञ्चमीं वर्जयित्वैतत् कार्यद्वयं वेदितव्यम्। वाक्यभेदे त्वपञ्चमम्या इत्येतत् प्रत्यासन्नममादेशमपेक्षते, न तु वाक्यान्तरविहितमलुकम्। तेनापञ्चम्या इत्यनेन सम्बध्यमानः सामान्येन विधीयमानः सन्नलुक् पञ्चमीमप्यवगाहते; तस्मात् पञ्चम्याः श्रवणमेव युक्तम्। तुशब्देनाप्ययमर्थो लभ्यते।
ननु च क्रियायाः कारकाणि भवन्ति, पूर्वपदार्थप्रधानश्चाव्ययीभाव उक्तः,पूर्वपदार्थस्य चासत्त्वभूतत्वात् क्रियामन्तरेण सम्बन्धाभावादपादानादिभावो नास्ति, तत् कुतोऽव्ययीभावात् पञ्चम्यादयो विभक्तयो भवेयुः ?नैतदस्ति; पूर्वपदार्थप्राधान्येऽपि गुणभूतोत्तरपदार्थपेक्षः क्रियायोग उपपद्यते, यथा-- पञ्चपूलीमानयेति। तत्र भावप्राधान्येऽपि गुणभूत द्रव्यापेक्षः क्रियासम्बन्धः।।

84. तृतीयासप्तम्योर्बहुलम्। (2.4.84)
`सुमद्रम्' इति। `अव्ययं विभक्ति' (2.1.6) इत्यादिना समृद्धावव्ययीभावः। ` उन्मत्तगङ्गम्' इति। `अन्यपदार्थे च संज्ञायाम्' (2.1.21) इत्यनेन। `एकविंशतिभारद्वाजम्' इति। `संख्या वंश्येन' (2.1.19) इति।।

85. लुटः प्रथमस्य डारौरसः। (2.4.85)
परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डारौरस्-- इत्येत आदेशा भवन्ति' इति। यद्ेयवम्, परस्मैपदेषु तिप् तस् झीत्येतत् प्रत्येकं प्रथमपुरुषसंज्ञा, आत्मनेपदेष्वपि त आतां झ इति; तत्र स्थानिनः षट्, त्रय आदेशा इति वैषम्यात् संख्यायानुदेशाभावादेकैकस्य पर्यायेण सर्व आदेशाः स्युः ? नैष दोषः; आनन्तर्यतो हि व्ययस्था भविष्यति। तच्चार्थकृतमानन्तर्यम्---` एकार्थस्यैकार्थः, द्वयर्थस्य द्व्यर्थः, बह्वर्थस्य बह्वर्थ इति। `कर्त्ता' इति। `अनद्यतने लुट्' (3.3.15), तिप्, तस्यानेकाल्त्वात् डा इत्ययं सर्वादेशः। ननु च नानुबन्धकृतमनेकाल्त्वम् (व्या.प.14), डकारश्चानुबन्धः,तत् कुतोऽनेकाल्त्वं यतः सर्वादेशः स्यात् ? नैष दोषः; न ह्यकृते सर्वादेशे `चुटू' (1.3.7) इतीत्संज्ञा भवति। इत्संज्ञाया अभावे चानुबन्धो न भवतीत्यनेकाल्त्वात् सर्वादेशो भवति। डित्यभस्यापि `टेः' (6.4.143) इति टिलोपः। `कर्त्तारौ, कार्त्तारः' इति। `रिच' (7.4.51) इति सकारलोपः। एवमध्येतेत्येवमादीनि रूपाणि `इङ अध्ययने' (धा.पा.1046) इत्येतस्य। अत्र परमपि टेरेत्वं बाधित्वाऽन्तरङ्गत्वात् डादय आदेशा भवन्ति। अन्तरङ्गत्वं पुनस्तेषां स्थानिमात्रापेक्षत्वात्। टेरेत्वन्तु बहिरङ्गम्; तद्धि धातुमप्यपेक्षते, न केवलं स्थानिनम्; आ तृतीयाध्यायपरिसमाप्तेः `धातोः' (3.1.7) इत्यस्याधिकृतत्वात्। `थासः से' (3.4.80) इति ज्ञापकम्-- तिङादेशस्य टेरेत्वं न भवतीति। तेन कृतेष्वपि डारौरस्स्वेत्त्वं न भवति। `कर्त्तासि' इति। `तासस्त्योर्लोपः'(7.4.50) इति सकारलोपः।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
द्वितीयाध्यायस्य
चतुर्थः पादः


समाप्तश्चायं द्वितीयोऽध्यायः।।
----------------------------------