काशिकाविवरणपञ्जिका/तृतीयोऽध्यायः/तृतीयः पादः
← द्वितीयः पादः | काशिकाविवरणपञ्जिका तृतीयः पादः [[लेखकः :|]] |
चतुर्थः पादः → |
अथ तृतीयाध्यायस्य
तृतीयः पादः
1.उणादयो बहुलम्। (3.3.1)
`वर्त्तमान इत्येव' इति। `वर्त्तमान लट्' (3.2.123) इत्यतो वर्त्तमानग्रहणमनुवर्त्तत इति दर्शयति। `संज्ञायाम्' इति। वर्त्तत इति `पुवः संज्ञायाम्' (3.2.185) इत्यतः।
बाहुलकम्' इत्यादि। `ला आदाने' (धा.पा.1058), बहुनर्थाल्लाघीति बहुलम्। `आतोऽनुपसर्गे कः' (3.2.3) बहवः पुनरर्थाः क्वचित्प्रवृत्त्यादयः। तथा चोक्तम्--
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति।। इति।
बहुलस्य भावो बाहुलकम्। `द्वन्द्वमनोज्ञादिभ्यश्च' (5.1.133) इति मनोज्ञादित्वाद्वृञ्। बह्वर्थादानं बहुलशब्दस् प्रवृत्तिनिमित्तमिति तत्रैवायं भावप्रत्ययः। तद्बाहुलकं प्रकृतेस्तनुदृष्टेरुक्तम्। प्रत्ययमनादिं कृत्वा यः पूर्वमुपादीयते शब्दः सा प्रकृतिरित्युच्यते। प्रत्ययात् पूर्वं क्रियत इति प्रकृतिः। प्रकर्षेण नियमेन प्रत्ययः क्रियते तस्या इति वा प्रकृतिः। `प्रकृतेः'इति। जातौ षष्ठ्येकवचनम्। `तनुदृष्टेः' इति। कर्मणि ल्यब्लोपे पञ्चमी। तनुदृष्टिं वीक्ष्य बाहुलकमुक्तमिति। `विभाषा गुणेऽस्त्रियाम्' (2.3.25) इत्यनेन त्विह पञ्चमी न भवति; अस्त्रियामिति प्रतिषेधात्।
अथ वा `विभाषा गुणे' इति योगविभागादिह पञ्चमी वेदितव्या। तनुशब्दः शरीरवचनोऽप्यस्ति, गुणवचनोऽपि ; इति तु गुणवचनः, प्रकृतेरल्पत्वं नाम योगुणस्तस्य वाचकः। दर्शनं दृष्टिः = उपलब्धिः, तनोर्गुणस्य दृष्टिस्तनुदृष्टिः। ततो गुणो नित्यं गुणिनमपेक्षत इति गमकत्वात् तनुशब्दस्य प्रकृतिमपेक्षमाणस्यापि दृष्टिशब्देन समासो भवति। अयं त्वर्थः-- प्रकृतेर्गुणस्य, तयोर्दर्शनादिति।
अथ वा तनुर्दृष्टिर्यस्याः प्रकृतेः सा तनुदृष्टिः। अत्र पक्षे यद्यपि तनुगुणो दृष्टेर्विशेषणम्, तथाप्यसौ दृष्टेः प्रकृतेरपि विशेषणत्वेन प्रतीयत एव। प्रकृतेस्तनुत्वादेव हि तद्दृष्टितनुत्वं भवति। उणादिषु पञ्चपाद्यां स्वल्पाः प्रकृतयो दृश्यन्ते, ततोऽन्याभ्योऽपि च प्रकृतिभ्यः प्रत्यया दृश्यन्ते, तस्माद्बहुलग्रहणाद्भवन्ति। यथा हि `हृषेरुलच्' (पं.उ.1.98) इति `हृषु अलीके' (धा.पा.709) इत्यस्मादुलजुक्तः, तथा `शकि शङ्कायाम्' (धा.पा.86) इत्यतोऽपि भवति-- शङ्कुलेति। किञ्च, प्रायसमुच्चयनादपि तेषां तदुक्तमिति सम्बन्धः। तदिति बाहुलकं परामृश्यते। तेषामुणादीनां प्रायेण बाहुल्येन समुच्चयनं ग्रहणं विधानं ना प्रायसमुच्चयनम्। `तृतीया' (2.1.30) इति योगविभागात् समासः। अपिशब्दः समुच्चयते। न केवलं प्रकृतेस्तनुदृष्टेस्तद्बाहुलकमुक्तम्, अपि तु प्रायसमुच्चयनादपि तेषामेतदुक्तं भवति। न केवलं प्रकृतस्तन्व्यः पठिताः, अपि तु प्रत्यया अपि प्रायेणसमुच्चिताः, न सर्वे, तदर्थं बाहुलकमिति। बाहुलकाद्वयवहिता अपि ते चेत् प्रत्यया उन्नीय विधीयन्ते। तथा हि `अर्त्तेः क्युरुच्च'(पं.उ.5.17) इत्यर्तिधातुः पठितः,फिडफिड्डौ तु प्रत्ययौ न विहितौ तथापि ॠफिडऋफिड्डशब्दयोर्दर्शनात् तावपि च विधीयेते।
`कार्यसशेषवधेश्च तदुक्तम्' इति। चशब्दः समुच्चये। पूर्वोक्तकारणद्वयादेतस्मात् तद्बाहुलकमुक्तम्। विधानं विधिः = कारणम्, सह शेषेण वर्त्तते यो विधिः स सशेषः, सशेषश्चासौ विधिश्च सशेषविधिःर, कार्यानां सशेषिधिः कार्यसशेषविधिः। कतस्माच्च बाहुलकमुक्तम्। एतदुक्तं भवति-- प्रकृतेः प्रत्ययाश्रितानि कार्याणि न निःशेषाणि पञ्चपाद्यां दर्शितानि, इष्यन्ते चादर्शितान्यपि तानि। अतस्तत्सिद्ध्यर्थं तद्बाहुलकमुक्तम्। तेन ॠफिड, ऋफिड्ड-- इत्यत्र गुणप्रतिषेधः सिद्धो भवति। एवमादि तावत् प्रत्ययाश्रितं कार्यं सिद्धं भवति। `षणु दाने' (धा.पा.1464), `ञमन्ताड्डः' (पं.उ.1.113) इति षण्डः। अत्र `धात्वादेः षः सः' (6.1.64) इति सत्वं न भवति। सत्यपि वा सत्वे पुनः षत्वमेव क्रियत इत्येवमादि प्रकृत्याश्रितमपि कार्यं बाहुलकाद्भवति। `नैगमरूढञिभवं हि सुसाधु' इति। निगमः = छन्दः, तत्र भवा नैगमाः, ऋगयनादिपाठादण्। निगमस्य वेमे नैगमाः। रूढिः = प्रसिद्धिः; भवन्तीति भवाः, रूढौ बवाः। `सप्तमी' (2.1.40) इति योगविभागात् समासः। लोकप्रसिद्धा इत्यर्थः। नैगमाश्च रूढिभवाश्च नैगमरूढिभवम्। `सर्वो द्वन्द्वो विभाषैकवद्भवति' (व्या.प.91) इत्येकवद्भावः, `स नपुंसकम्' (2.4.17) इति नपुंसकलिङ्गता। हिशब्दो यस्मदार्थे। यस्मादेतदेव बाहुलकमनेकार्थस्य साधकम्, तस्मान्नैगमं रूढिभवं सुष्ठु साधु भवति; व्याकरणे बहुलग्रहणेन संस्कृतत्वात्। अन्यथाऽसंस्कृसत्वाद्गाव्यादिशब्दानामिव तस्यासाधुत्वं स्यात्।
अन्यैरपि प्रमाणपुरुषैर्नैगमरूढिभवानां व्युत्पाद्यत्वमभ्युपेतमिति दर्शयितुमाह-- `नाम च धातुजम्' इत्यादि। `निरुक्ते' इति। निरुक्ते शास्त्रे। `नाम' इति। प्रातिपदिकम्। तस्य हीयमन्याचार्यसंज्ञा। धातोर्जातत्वाद्धातुजम्। धातुग्रहणमुपलक्षणम्, प्रत्ययागमादयोऽपि गृह्यन्ते। निरुक्तकारः स्वशास्त्रे निरुक्ते प्रातिपदिकं धातुजमाह; धातुप्रत्ययकादिविभागेन व्युत्पादितत्वात्। चशब्दोऽवधारणे, भिन्नक्रमश्च। धातुजमेवेत्येवं द्रष्टव्यम्। शकटस्य पुत्रः शाकटायनः सोऽपि नाम धातुजमेवाह। तदेवं निरुक्तकारशाकटायनदर्शनेन त्रयी शब्दानां प्रवृत्तिः-- जातिशब्दाः, गुणशब्दाः, क्रियाशब्दा इति;न सन्ति यदृच्छाशब्दा इति। अथ वा-- जातिगुणशब्दानामपि क्रियाशब्दत्वमेव; धातुजत्वात्। ततश्चैकैव शब्दानां प्रवृत्तिः-- क्रिया शब्दा इति।
अथ यदि प्रकृतिविशेषं प्रत्ययविशेषञ्चोपादायन व्युत्पादितं शब्दरूपम्, तस्य कथं धातुजत्वं वेदितव्यम्, न हि प्रकृतिप्रत्ययानवधारणे धातुजत्वं शक्यं निश्चेतुमित्यत आह-- `यन्न' इत्यादि। अर्थशब्दः प्रयोजनवाची, परमर्थः प्रयोजनं यस्य प्रकृत्यादेः स पदार्थः। कथं पुनः पदमर्थः प्रकृत्यादेर्भवति ? तदुद्दिश्य तदुपादानात्। पदं हि व्युत्पादयिष्यामीत्येवमर्थं प्रकृत्यादेरुपादानाम्। कस्मात् ? प्रकृतिप्रत्ययश्च पदार्थः, तस्य विशेषः पदार्थविशेषः। समुत्थानं समुत्थः = प्रादुर्भावः;`सुपि स्थः' (3.2.4) इत्यत्र योगविभागेन भाव एव कप्रत्ययः। पदार्थविशेषात् समुत्थः प्रादुर्भावो यस्य तत् `पदार्थविशेषसमुत्थम्'। यदेवंविधं न भवति शब्दरूपं प्रत्यतः प्रकृतिततश्च तदूह्यम्। धातुजत्वेनापि तदुक्तं भवति-- यस्य प्रतिपदोक्ता प्रकृतिप्रत्ययविशेषानासादितात्मा निर्वृत्तिस्तस्य प्रकृतिविशेषात् प्रत्ययविशेषाच्च धातुजत्वं निश्चेतव्यमिति।
ननु च तथाविधस्य प्रकृतिप्रत्ययविशेषस्यापरिज्ञानादेवाशक्यं धातुजत्वं निश्चेतुमिति मत्वा परेण चोदितम्, तत्कथं प्रत्ययतः प्रकृतेश्च तदूह्यमित्युक्तं युज्यते ? नैष दोषः;एवं हि ब्रुवताऽनेन प्रकृतिप्रत्ययावेवं तावद्ध्यूहितव्यौ,ततस्ताभ्यां तच्छब्दरूपमित्येतदप्यर्थादुक्तं भवति। न ह्यनवधारिताभ्यां प्रकृतिप्रत्ययाभ्यां शक्यं धातुजत्वं कस्यचिन्निश्चेतुमिति किमत्रायुक्तम् ? यत्र प्रसिद्धप्रत्ययावयवेन शब्दान्तरेण कस्याचिद्भागस्य सारूप्याधिगमोऽस्ति तत्र प्रत्ययं दृष्ट्वा परिशिष्टो भागः प्रकृतित्वेनोत्प्रेक्षितव्यः। यथा-- `उषिकुषिगर्त्तिभ्यस्थन्' (पं.उ.2.4) इति थन्प्रत्ययान्तमोष्ठादिकं प्रसिद्धप्रत्ययावयवम्। तेन च डित्थवित्थशब्दयोः किञ्चित् सारूप्यमस्ति,ततैषामिव हि तेषां थशब्दोऽवयवो विशिष्टदेशवर्त्ती विद्यते। तत्र थन्प्रत्यान्ते शब्दरूपे यो दृष्टस्थशब्दः प्रत्ययसंज्ञकस्तत्सादृश्यात् डित्थडवित्थशब्दस्थं थशब्दं प्रत्ययमवधार्य ततः परिशिष्टस्तयोर्भागो डिड्डविदिति च धातुत्वेनोह्यः। ततश्चैवं सूत्रं कर्त्तव्यम्-- डीङस्थण् डिड्डविच्चेति। `डीङ विहासा गतौ' (धा.पा.1135) इत्यस्मात् थन्प्रत्ययः, डीङश्च डिड्डविदित्येतावादेशौ भवतः। यत्र तु शब्दरूपे निर्ज्ञातधात्ववयवेन शब्दान्तरेण किञ्चिद्भागगतं सारूप्यमस्ति, तत्र प्रकृतिं दृष्ट्वा परिशिष्टो भागः प्रत्ययत्वेनोहितव्यः, यथा-- ऋतमिति दृष्टं शब्दरूप प्रसिद्धप्रकृत्यवयवम्, तेन ऋफिडशब्दस्य ऋफिड्डशब्दस्य च किञ्चिदभागगतं सारूप्यमस्ति, उभयेषां तेषामुकारादित्वात्। तत्र निष्ठाप्रत्ययान्त ऋतशब्दे य ऋकारावयवो धातुसंज्ञकस्तत्सादृश्यादृफिडऋफिड्डशब्दस्थञ्च ऋवर्णं धातुमवधार्य ततः परिशिष्टस्तयोर्भागः फिड इति फिड्ड इति च प्रत्ययत्वेनोह्यः। ततश्चैवं सूत्रं कर्त्तव्यम्-- `अर्त्तेः फिडफिड्डौ' इति, `ऋ गतौ' (धा.पा.1098) इत्यस्मात् फिडफिड्डौ प्रत्ययौ भवतः। ऋफिडः, ऋफिड्डः। गुणः पूर्वोक्तात् कारणान्न भवति। अथ वा-- कितावेवैतौ प्रत्ययौ विधातव्यौ। एवं प्रकृतिप्रत्ययादूहित्वा तस्य शब्दरूपस्य धातुजत्वमूहितव्यम्। यत् प्रकृतिप्रत्ययविशेषावयवानुगतं न तद्धातुजत्वं व्यभिचरति, यथा-- कर्त्तव्यं करणीयमित्येवमादयः शब्दाः। `ऊह्यम्' इति। अनुज्ञाव्यम्।
न यत्र क्वचिदूहः कर्त्तव्यः,अपि तु विशिष्ट एव विषय इति दर्शयन्नाह-- `संज्ञासु' इत्यादि। य एते निरूढाः साधुत्वेव शब्दरूपास्तेष्वेव संज्ञात) सूहः कर्त्तव्यो, नान्यत्र। `धातुरूपाणि'इति। कल्पयितव्यानीति शेषः। `प्रत्ययाश्च ततः परे' इति। कल्पयितव्या ति शेषः। `कार्यात्' गुणाभावदिकात्। `विद्यात्'जानीयात्। `अनुबन्धं' ककारादिकम्। एतदनन्तरोक्तं `शास्त्रमुणादिषु'। शास्त्रोपनिबन्धनत्वाच्छास्त्रविषयत्वाद्वा शास्त्रमित्युक्तम्।
यदि तर्ह्यत्र सूत्रे `संज्ञायाम्' (3.2.185) इत्यनुवर्त्तते `वर्त्तमाने'(3.2.123) इति च, बहुलग्रहणं च क्रियते, तत् किमर्थमुणादिषु `वर्त्तमाने पृषद्वृहज्जगच्छतृवच्च' (द.उ.6.5) इति वर्त्तमानग्रहणम् ? `धृषेर्धिष च संज्ञायाम्'(द.उ.5.27) इति संज्ञाग्रहणम्, `बहुलमन्यत्रापि' (द.उ.5.23) इति बहुलग्रहणञ्च क्रियते ? `भूतेऽपि दृशन्ते' (3.3.2) इति वचनाद्भूतेऽपि पृषदादयो भवन्तीत्याशङ्कानिवृत्त्यर्थम्। वर्त्तमानग्रहणं प्रकृताया एव संज्ञाया अनुवृत्तेर्दृढीकरणार्थम्। पुनः संज्ञाकरणं बहुलवचनादसंज्ञायामपि भवन्तीत्याशङ्कानिवृत्त्यर्थं वा। अस्यैव बहुलस्य स्मरणार्थं पुनर्बहुलग्रहणम्। एवं हि विस्मरणशीलानामनुग्रहः कृतो भवति।।
2.भूतेऽपि दृश्यन्ते। (3.3.2)
`पूर्वत्र वर्त्तमानात्'इति। अथ पूर्वत्र वर्त्तमानग्रहणं कस्मान्न निवर्त्तितम्, युक्तं हि तत् तत्र निवर्त्तियितुम्, तथा हि-- तस्मिंस्तत्र निवृत्ते सतीदं न कर्त्तव्यम् ? नैतदस्ति;अवश्यमैतत् कर्त्तव्यम्,यस्मात् केचिद्भूत एवेष्यन्ते। यदिच पूर्वत्र वर्त्तमानग्रहणानुवृत्तिर्न स्यात्,भविष्यत्यप्युणादयो न स्युः। `भविष्यति गम्यादयः' (3.3.3) इत्येकं तु नियमार्थं विज्ञायेत-- भविष्यत्येव गम्यादयइति। तस्मात् पूर्वत्रानुवर्त्तयितव्यं वर्त्तमानग्रहणम्। `वर्त्म' इति। `आतो मनिम्'(3.2.74) इत्यनुवर्त्तमाने `अन्येभ्योऽपि दृश्यन्ते' (3.2.75) इति मनिन्प्रत्ययः।`नेड् वशि कृति' (7.2.8) इतीट्प्रतिषेधः। `भस्म' इति। `भस भर्त्सनदीप्त्योः' (धा.पा.1100)। `दृशिग्रहणम्' इत्यादि। विशिष्टप्रयोगमनुसृत्य यत्र शिष्टाः प्रयुज्यते तत्र भूते प्रत्ययः कर्त्तव्यः,न तु सर्वत्रेति दृशिग्रहणेनायमर्थः प्रतिपादित इति दर्शयति।।
3.भविष्यति गम्यादयः। (3.3.3)
`प्रत्ययस्यैव' इत्यादि। इदं हि भविष्यति गम्यादयः साधवो भवन्ति,यदि प्रत्ययस्यैव भविष्यत्कालता विधीयते, अथ तु प्रत्ययस्यान्यकालता स्यान्न ते भविष्यति साधवः स्युः।तस्मात् प्रत्ययस्यैवानेन प्रकारेण भविष्यत्कालता विधीयते। `ग्रामं गमी' इति। `गमेरिनिः' (द.उ.6.57) इतीनिप्रत्ययः,`सौ'(6.4.13) इति दीर्घः। `अकेनोर्भविष्यदाधमर्ण्ययोः' (2.3.70) इति षष्ठ्यां प्रतिषिद्धायां ग्रामशब्दात् `कर्मणि द्वितीया' (2.32)। `आगामी' इति। `गमेरिनिः'(द.उ.6.57) इति वर्त्तमाने `आङि णित्' (द.उ.6.58)इतीनिः; णित्त्वादुपधावृद्धिः। `प्रस्थायी'इत्यादि। `ष्ठा गतिनिवृत्तौ' (धा.पा.928) `बुध बोधने' (धा.पा.1172), `युज समाधौ' (धा.पा.1177) `या प्रापणे' (धा.पा.1949) --एब्यः `सुप्यजातौ णिनिस्ताच्छील्ये'(3.2.78) इति णिनिः।यातितिष्ठत्योः `आतो युक् चिण्कृतोः' (7.3.33) इति युक्। युजः `चजोः कुघिण्ण्यतोः'(76.3.52) इति कुत्वम्। `भावी' इति। `आङि णित्' (पं.उ.4.7) इति वर्त्तमाने `भुवश्च' (पं.उ.4.8) इतीनिः, णित्त्वाद्वृद्धिः।
`अनद्यतन उपसंख्यानम्' इति। किं पुनः कारणं न सिध्यति ? भविष्यतीति लृटायं निर्देशः क्रियते, तेन च लृट एव विषये भविष्यत्सामान्ये स्यात्, न भविष्यदनद्यतने,ततो लुटो न विषयः, लृटा बाधितत्वात्। तस्मादनद्यतन उपसंख्यानं कर्त्तव्यम्। उपसंख्यानशब्दस्य चेह प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिहानुवर्त्तते,तेनानद्यतनेऽपि भविष्यतीति।
एते च गम्यादयो लुङ्लृटोरुभयोरपि बाधकाः, अपबादत्वात्।अपवादत्वं तु येननाप्राप्तिन्यायेन (व्या.प.49) ननु च वासरूपविधिना लुङ्लृटावपि प्राप्नुतः, तद्विधौ `भविष्यति गम्यादयः' इत्यनुवृत्तेः ? सत्यम्; अस्यामप्यनुवृत्तौ पक्षे एवेति चेत् ? नैतदस्ति;एवं ह्यनुवृत्तिरपार्थिका स्यात्।।
4. यावत्पुरिनिपातयोर्लट्। (3.3.4)
`यावद्भूङ्क्ते' इति। `भुजोऽनवने' (1.3.66) इत्यत्मनेपदम्। `श्नसोरल्लोपः' (6.4.111) त्यकारलोपः।
`यावद्दास्यति तावद्भोक्ष्यते' इति। यत्परिमाणम्सय, तत् परिमाणमस्येति `यत्तदेतेभ्यः परिमाणे वतुप्' (5.2.39) `दृग्दृशवतुषु' (6.3.89) इत्यनुवर्त्तमाने `आ सर्वनाम्नः' (6.3.91) इत्यात्त्वम्। `पुरा व्रजिष्यति'इति। `पृ पालनपूरणयोः' (धा.पा.1489)। `भ्राजभास' (3.2.177) इत्यादिना क्विप्, `उदोष्ठ्यपूर्वस्य' (7.1.102) इत्युत्त्वम्, करणे तृतीयैकवचनम्। ननु चाव्युत्पन्नावेव यावत्पुराशब्दौ निपातौ, तो च व्युत्पादितौ, तो च व्युत्पादितौ, तत्र लक्षणप्रतिपदोक्तपरिभाषयैव (व्या.प.3) तयोर्निपातयोर्ग्रहणं भविष्यति, तत्किमर्थं निपातग्रहणम् ? मन्दबुद्धीनां प्रतिपत्तिगौरवपरिहार्थमित्येके। अस्याः परिभाषाया अनित्यत्वज्ञापनार्थमित्यपरे। अनित्यत्वज्ञापनस्य तु प्रयोजनमुत्तरत्र वक्ष्यते।।
5. विभाषा कदाकह्योः। (3.3.5)
`कदा भोक्ता' इति। लुट्। ननु च भविष्यतीत्यनुवृत्तेर्लृट एव विषये भवितव्यम्, न लुटः। ततो लृडेव पक्षे युक्त उदाहर्तुम्, तत्कथं लुडप्युदाहृतः ? एवं मन्यते-- `अनद्यतने लुट्' (3.3.15) इत्यत्र `विभाषा कदाकर्ह्योः' इत्यस्यानुवृत्तेर्लृटो विषये विभाषा लुटा भवितव्यमिति। `कर्हि भोक्ष्यते' इति। लृट्। ननु च कर्हिशब्दः `अनद्यतने र्हिलन्यतरस्याम्'(5.3.21) इत्यनद्यतने व्युत्पादितः, तदसौ यत्र प्रयुज्यते ततर्ानद्यतन इव कालः सम्भवति, तत्कुतो लृटः प्राप्तिः, `अनद्यतने लुट्'(3.3.15) इति लुटैव पक्षे भवितव्यम् ? नैतदस्ति; यस्माद्भोक्ष्यत इत्येतत् पदं भविष्यत्काल एव वर्त्तते। अनद्यतनकालावगतिस्तु कर्हिशब्दसन्निधाने सति वाक्याद्भवति। न च वाक्यगम्येऽर्थे लृड्भवति। तथा हि पदमिह संस्क्रियते, न च पदसंस्कारे वाक्यगम्योऽर्थ उपयुज्यते। तस्माद्भविष्यत्सामान्ये विवक्षिते लृड्भवति, भविष्यति विशेषेऽप्यनद्यतने विवक्षिते लुडिति।।
6. किंवृत्ते लिप्सायाम। (3.3.6)
`किमो वृत्तम्' इत्यादि। किं पुनःकिमो वृत्तमित्याह-- `वृत्तग्रहणेन ' इत्यादि। तदित्यनेन किंशब्दः सम्बध्यते-- किमेतच्छब्दरूपं विभक्त्यन्तं वृत्तग्रहणेन प्रतीयात्। डतरडतमौ च `किंयत्तदौर्निर्धारणे द्वयोरेकस्य डतरच्'(5.3.92)।`वा बहूनां जातिपरिप्रश्ने डतमच्' (5.3.93) इत्येतौ प्रत्ययौ किंशब्दसम्बन्धिनावेव वृत्तग्रहणेन प्रतीयात्। प्त्ययग्रहणपरिभाषया चेह डतरडतमान्तं प्रतीयादित्येषोऽर्थो वेदितव्यः। `परिसंख्यानम् ' इति। नियम इत्यर्थः। तेन किंतराम्, किंगौः, किंपुरुषः-- इत्यवमादिषु पदेषु न भवति; तेषां किंवृत्तत्वस्य परिगणनेन निरस्तत्वात्। `भोजयन्ति' इति। हेतुमण्णयन्ताल्लट्। `भोजयितारः' इति। `लुटः प्रथमस्य डारौरसः' (2.4.85) इति झे रसादेशः, `रि च' (7.4.51) इति सकारलोपः। `लब्धुकामः पृच्छति' इति। उदाहरणेषु लिप्साया गम्यमानत्वात्।।
7. लिप्स्यमानसिद्धौ च। (3.3.7)
लिप्सायामेव सत्यां सम्भवति, नासत्याम्। अतो यत्र लिप्स्यमानसिद्धिर्गम्यते तत्रावश्यं लिप्सया भवितव्यम्, तथा च पूर्वेणैव सिद्धम्, तत्किमर्थोऽयमारम्भ इत्यत आह-- `अकिंवृत्तार्थोऽयमारम्भः'इति। यद्येवम्, पूर्वसूत्र एव किंवृत्तग्रहणमकृत्वा प्रत्ययो विदेयः, एवं हीदं नारब्धव्यं भवति ? नैतदस्ति; एं हि यथा लिप्स्यमानसिद्धौ गम्यमानायां किंदृत्तं चाकिंवृत्तं च भवति तथा यत्रापि लिप्स्यमानसिद्धिरहितं लिप्स्यमानं गम्यं तत्रापि स्यात्। किंवृत्त एव तत् तत्रेष्यते, तस्मात् पूर्वयोगे किंवृत्तग्रहणं कर्त्तव्यम्। तस्मिंश्च सतीदमप्यकिंवृत्तार्ओथमारब्धव्यम्। `दातारं प्रोत्साहयति' इति। भक्तदानविषयेऽस्य प्रोत्साहं जनयतीत्यर्थः।।
8. लोडर्थलक्षणे च। (3.3.8)
`प्रैषादि'इति आदिशब्देन विधिनिमन्त्रणामन्त्रणाधीष्टादयो गम्यन्ते। `आगच्छति' इति। `इषुगमियमां छः' (7.3.77) इति च्छत्वम्। `अध्ययनप्रैषस्य'इति। अध्ययनविषयः प्रैषोऽध्ययनप्रैषः, शाकपार्थिवादित्वादुत्तरपदलोपी समासः। `अथ त्वं छन्दोऽधीष्व ' इति। अत्र `प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' (3.3.163) इति लोट्। स च प्रैषोऽध्ययनविषयः। तस्योपाध्यायगमनं ह्यपेक्ष्याध्ययने प्रैषतेत्यस्योपाध्यायागमनस्यप्रैषं प्रति निमित्तभावः।।
9. लिङ् चोर्ध्वमौहूर्तिके। (3.3.9)
`निपातनात् समासः' इत्यादि। ऊर्ध्वमौहूर्तिकशब्दस्योच्चारणेव निपातनम्। ऊर्ध्वं मुहूर्त्तादिति विगृह्यास्मादेव निपातनात् समासः। ततः `बह्वचोऽन्तोदात्तात्' (4.3.67) इति ठञ्, तत उत्तदरपदवृद्धिः, सा ह्यत एव निपातनात्। भविष्यतः प्रकृतत्वात् तस्यैवोर्ध्वमौहूर्त्तिकग्रहणं विशेषणं विज्ञायत इत्याह-- `भविष्यतश्चैतत्' इत्यादि। ऊर्ध्वमौहूर्त्तिकशब्दश्चायं वर्त्तमानस्य प्रत्यासन्ने वर्तते। ऊर्ध्वमौहूर्त्तिके वर्त्तमानसमीप इत्यर्थः। `आगच्छेत्' इति। यासुट्, `अतो येयः' (7.2.80) इतीयादेशः, `आद्गुणः' (6.1.87)`लोपो व्योर्वलि' (6.1.66) इति यकारस्य लोपः,सलोपोऽनन्त्यस्य' (7.2.79) इति सकारस्य।।
10. तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्। (3.3.10)
`भिक्षिष्य इत्यस्य जटाः' इति। लृट्, अनुदात्तेत्त्वादात्मनेपदम्,उत्तमपुरुषैकवचनम्, इट्, टेरेत्त्वम्, `अतो गुणे' (6.1.97) पररूपत्वम्। अत्रास्ति भिक्षिक्रियार्थमुपपदं जटाशब्दः, न तु जटाशब्दः क्रियावचनः; जटानां द्रव्यत्वात्। `धावतस्ते पतिष्यति दण्डः'इति। `धाव् गतिशुद्धयोः'(धा.पा.601), लट्, तस्य शत्रादेशः, षष्ठ्येकवचनम्। अथ वा `सृ गतौ' (धा.पा.935)इत्यस्य प्राघ्रादिसूत्रेण (7.3.78) धावादेशः। अस्त्यत्र धावतिक्रियोपपदम्, न तु क्रियार्थः। अर्थशब्दो ह्ययं प्रयोजनवचनः, यच्च यदुद्दिश्य प्रवर्त्तते तत्तस्य प्रयोजनं भवति, न चासौ दण्डपतनमुद्दिश्य धावति, किं तर्हि ? कार्यान्तरार्थम्।
`अथ' इत्यादि चोद्यम्। `सामान्येन विहित एव'इति। भविष्यत्यन्यत्र च काले क्रियायां क्रियार्थायामुपपदेऽन्यत्र चाविशेषेण विधानात्। `लृटा' इत्यादि परिहारः। `लृट शेषे च' (3.3.13) इति लृटं वक्ष्यति, तेन विशेषविहितेन लृटा बाध्यते, तन्मा भूतत्तस्य बाधेति पुनरिह विधीयते। अथ तुमुन् क्रियार्थोपपदेन बाध्यत इत्येतत् क्समान्नोक्तम् ? भिन्नार्थत्वात्। न हि भिन्नार्थयोर्बाध्यबाधकभावो भवति, भिन्नार्थो च ण्वुल्तुमुनौ। तथा हि-- कर्त्तरि ण्वुल्, तुमुन् पुनर्भावे। कथं ज्ञायते ? `तुमर्थे सेसेन्' (3.4.9) इत्यत्र तुमर्थग्रहणात्। यदि तुमुन् `कर्त्तरि कृत्' (3.4.67) इत्यतो वचनात् कर्त्तरि स्यात्,ततः सेसेन्प्रभृतयोऽपि तत्रैव भविष्यन्तीति तुमर्थग्रहणं न कुर्यात्, कृतवांश्च, ततस्तुमर्थग्रहणादवसीयते-- तुमुन् कर्त्तरि न भवति। न चान्यार्थो निर्द्दिश्यते, तत्र `अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति' (पु.प.90) इति भाव एव तुमुन् भवतीति विज्ञायते। यदुक्तम्-- लृटा क्रियार्थोपपदेन बाध्यत इति,तद्विघटयितुमाह-- `वासरूपविधिना'इत्यादि। `एवं तर्हि' इत्यादि। एतेन ज्ञापकार्थतां ण्वुल्विधानस्याचष्टे। यदि हि क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयः स्युर्ण्वुलपि तृजर्थाभिधायित्वाद्वासरूपविधिना भविष्यन्तीति पुनरिह तन्न विदध्यात्, विहितवांश्च;ततस्तेन ण्वुल्विधानेनास्मिन् विषये वासरूपेण तृजादयो न भवन्तीत्येषोऽर्थो विज्ञाप्यते। `तेन' इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। `कर्त्ता' इति। तृच्। `विक्षिपः' इति। `इगुपधज्ञाप्रीकिरः कः'(3.1.135)। तुमुनो नकार आद्युदात्तार्थः, उकार उच्चारणार्थः। ण्वुलो लकारो लिति प्रत्ययात् पूर्वस्योदात्तार्थः, णकारो वृद्ध्यर्थः।।
11. भाववचनाश्च। (3.3.11)
`भाववचनाः' इति। ब्रुवन्तीति वचनाः, बहुलचनात् कर्त्तरि ल्युट्। भावस्य वचना भाववचनाः। भाववचनत्वं पुनस्तेषां भावाधिकारे विधानादिति दर्शयितुमाह--`भावे इति प्रकृत्य'इत्यादि। प्रकृत्य अधिकृत्येत्यर्थः। `घञादयः'इति। आदिशब्देनाजबादीनां ग्रहणम्। `किमर्थम्' इत्यादि चोद्यम्। `क्रियार्थोपपदे विहितेन' इत्यादि परिहारः। स्यादेतत्-- वासरूपविधिना ते भविष्यन्ति। अत आह-- `वासरूपविधिश्च नास्तीत्युक्तम्' इति। एतच्च पूर्वसूत्र उक्तम्।
`अथ ' इत्यादि। भाव इत्येतावद्वक्तव्यम्; एवं ह्युच्यमाने सतीदमेव घञादीनां विधायकं स्यात्,ततश्च ते धातुमात्रादविशेधेम प्रसज्येरन्; विशेधानुपादानात्। वचनग्रहणादयमर्थो लभ्यते-- भावे ये विहिताः प्रत्ययास्ते तथा भवन्ति यथा भावस्य वाचका भवन्तीति। यथा च ते भावस्य वाचका भवन्ति तथा प्रश्नपूर्वकं दर्शयितुमाह--`कथञ्च' इत्यादिना। `नामसामञ्जस्येन' इति। न व्यतिरेकेण,नानियमेनेत्यर्थः।
तत्र केचिदाहुः- वचनग्रहणाद्यैरेव विधिवाक्यैर्भाव एषां विधानं तैरेव क्रियायामुपपदे क्रियार्थायां भवन्ति, एवञ्चते वाचका भवन्ति, नान्यथेति। अन्ये त्वाहुः-- एतदेव सूत्रं विधायकम्; वचनग्रहणसामर्थ्यात्। अनेनापि तथैषां विधानं भवति यथा स्वैर्विधिवाक्यैः। यदि भावे हि तद्विधिः, नान्यस्मिन्नपि विषये भविष्यति। तत् तस्मात् पुनर्विधीयत इति।।
12. अण् कर्मणि च। (3.3.12)
`कर्मण्यण्' इत्यादि। `तुमुन्ण्वुलौ' (3.3.10) इत्यादिसूत्रे ज्ञापितमेतत्-- वासरूपविधिरिह नास्तीति। तेन यद्यपि विशेषणेणाण् विहितः, तथापि वासरूपविधेरभावात् क्रियार्थोपपद न ण्वुला बाधितः,तस्मात् पुनर्विधीयते। `सोपऽपवादत्वाण्णवुलं बाधते' इति। नाप्राप्ते ण्वुलीतरस्यारब्धत्वात्, विशेषविहितत्वाच्च। `कादीन्' इति। बाधत इति सम्बन्धः। आदिशब्देन टगादीनां ग्रहणम्। `तेनापवादविषयेऽपि भवति' इति। अपवादाः सामान्यविहितस्याणः कादयः, तद्विषयेऽपि भवति। `अण् कर्मणि च' (3.2.12) इत्यस्याऽनाकारान्तक्रियोपपदोऽवकाश--- काण्टलावो व्रजतीति, `आतोऽनुपसर्गे कः' (3.2.3) इत्यस्याकारान्तः क्रियोपपदोऽवकाशः --गोद इति; इह ह्युभयं प्राप्नोति-- गोदायो व्रजतीति, परत्वादण् भवति। तथा `गपोष्टक्'(3.2.8) इत्यस्यावकाशः--सुरापः,शीधुपः,अणः स एव;इहोभयं प्राप्नोति--सुरापायो व्रजति, शीधुपायो व्रजतीति।।
13. लृट् शेषे च। (3.3.13)
`चकारात्' इत्यादि। एतेन क्रियायां क्रियार्थायामित्यस्यानुकर्षणार्थश्चकार इति दर्शयति। `करिष्यामि' इति। `ऋद्धनोः स्ये' (7.2.70) इतीट्।।
14. लृटः सद्वा। (3.3.14)
`सत्संज्ञौ' इति। `तौ सत्' (3.2.127) इतिसंज्ञाविहितत्वाच्छतृशानचौ सत्संज्ञकौ। कथं पुनर्लृटः शतृशानचौ भवत इत्याह-- `अप्रथमासमानाधिकरणे' इत्यादि। प्रथमासमानाधिकरणे विकल्पेन यथा लटः शतृशानचौ,तथा लृटोऽपि व्यवस्थितविभाषया सत्संज्ञकौ भवतः। अप्रथमासमानाधिकरणादिषु नित्यं भवतः-- करिष्यन्तं पश्य, करिष्यमाणं पश्य, हे करिष्यन्, हे करिष्यमाण, अर्जयिष्यन् वसति, करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यद्रूपः,करिष्यमाणरूप इत्यप्रथमासमानाधिकरणे।
प्रथमासमानाधिकरणे तु विकल्पः-- करिष्यति देवदत्तः करिष्यन् देवदत्तः; करिष्यते देवदत्तः, करिष्यमाणो देवदत्त इति। लृडिति वर्त्तमाने पुनर्लृड्ग्रहणं स्थानिनिर्देशार्थम्; इतरथा हि प्रत्ययान्तरत्वं सत्संज्ञकयोर्विज्ञायेत। लृण्मात्रस्य यथा स्यादित्येवमर्थं वा। तेन योऽनद्यतने लृट् तस्यापि भवतः-- श्वोऽग्नीनाधास्यमानेनेति। `अभिज्ञावचने लृट्' (3.2.112) इत्यस्य न भवतः; भविष्यतीत्यधिकारात्, अस्य च भविष्यत्कालविहितत्वात्। अनद्यतने पुनर्लृडुत्तरसूत्रेऽनद्यतन इतियोगविभागाद्भवतीति वेदितव्यम्। लृटष्टकारष्टेरेत्वार्थः, ऋकारः `स्यतासी लृलुटोः' (3.1.33) इत्यत्र विशेषार्थः।।
15. अनद्यतने लुट्। (3.3.15)
`अनद्यतन इति बहुव्रीहिनिर्देशः' इति। अद्य भावो नास्यास्मिन्नित्यनद्यतनः। `तेन' इत्यादिना बहुव्रीहिसमासाश्रयणस्य फलं दर्शयति। एतच्च `अनद्यतने लङ्'(3.2.111) इत्यत्र व्याख्यातप्रायमिति तत एवादवगन्तव्यम्। `अद्य श्वो वा गमिष्यति' इति। अद्य श्वश्च गमिष्यतीत्यर्थः।
`परिदेवने' इत्यादि। भविष्यदनद्यतने लुडुक्तो भविष्यत्सामान्ये न प्राप्नोति, इष्यते च, एतदर्थमिदमुच्यते। परिदेवनम् = अनुशोचनम्। `श्वस्तनी' इति. लुट इयमन्याचार्यसंज्ञा। `वक्तव्या' इति। व्याख्येया। तत्रेदं व्याख्यानम्-- `लृट् शेषे च' (3.3.13) इत्यतश्चकारोऽनुवनर्त्तते, स चानुक्तसमुच्चयार्थः। ततः परिदेवने श्वस्तनी भविष्यत्यर्थे भविष्यतीति। अन्यस्त्वयं नु कदा गन्तेत्यादावनद्यतन एव काले लुडिति दर्शयन्नाह-- पदमन्वाख्याने व्याकरणे च, तच्च पदं गन्तेत्यादिकमनद्यतन एव वर्त्तते। तस्य यदाऽनद्यतने भविष्यत्सामान्ये वा वृत्तिः सार्थात् प्रकरणाद्वा भवतीति वाक्यार्मथोऽवतिष्ठते। न च वाक्यार्थः पदसंस्कारस्य निमित्तम्, किं तर्हि ? पदार्थः। तस्मादनद्यतने लुडित्येष सिद्धमिति। अनेन तु न्यायेन परिदेवने श्वस्तनीत्यादि सम्यगेतत्। लुटोऽपि टकारष्टेरेत्वार्थः; उकारः `लुटः प्रथमस्य डारौरसः' (2.4.85) इति विशेषणार्थः।।
16. पदरुजविशस्पृशो घञ्। (3.3.16)
पदेर्ण्वृल्तृचोरपवादो घञ् विधीयते, रुजिविशिभ्यामिगुपधलक्षणस्य कस्य, स्पृशेश्च पचाद्यचः। `पादः' इति। `अत उपधायाः' (7.2.116) इति वृद्धिः। यद्येवम्, पदमिति न सिद्ध्यति ? न तु खलु न सिद्ध्यति, `अनुदात्तं पदमेकवर्जम् (6.1.158)इति निपातनात्।
`स्पृश उपतापे इति वक्तव्यम्'इति। उपतापः = रोगः, तत्र स्पृशेर्घञ्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `लृटः सद्वा' (3.3.14) इत्यतो वाग्रहणमनुवर्त्तते, सा च व्यवस्थितविभाषा। तेन स्पृशेरुपात एव कर्त्तरि भवति, नान्यत्रेति। `स्वरे विशेषः' इति। अचि हि सत्यन्तोदात्तत्वं भवति, घञि तु पदस्याद्युदात्तत्वं स्यात्। घञो ञकारो वृद्ध्यर्थः, आद्युदात्तार्थश्च। घकारः `चजोः कुघिण्ण्यतोः' (7.3.52) इति कुत्वार्थः।।
17. सृ स्थिरे। (3.3.17)
`सर्त्तेर्धातोः' इति। `सृ गतौ' (धा.पा.935) इत्यस्माद्धातोः। `स्थिरे कर्त्तरि' इति। एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्त्तुर्विशेषणं न तूपपदमिति दर्शयति।`घञ्प्रत्ययो भवति' इति। तृजाद्यपवादः। कः पुनरयं स्थिरो नामेत्याह-- `स्थिर इति कालान्तरस्थायी' इत्यादि। तत्रैवोपपत्तिमाह-- `स चिरम्' इत्यादि। सर्त्तेर्धातोर्गतिरर्थः। स च कालान्तरस्थायिन एव कर्त्तुः सम्भवति, नात्मलाभसमनन्तरनाशिनः। तस्मात् कालान्तरस्थाय्येव गतेर्धात्वर्थस्य कर्त्ता युज्यत इत्येवेह स्थिरशब्देनोच्यते। यदि कालान्तरस्थायिन एव गतिः सम्भवति स्थिरग्रहणमनर्थकम्, न ह्यस्थिरः सर्त्त्यर्थस् कर्त्तोपपद्यते ? नानर्थकम्; प्रकर्षेण यः सरति तत्र कर्त्तरि प्रत्ययो यथा स्यादित्येवमर्थत्वात्। अत एव स चिरं तिष्ठन् कालान्तरं सरतीति वृत्तौ चिरग्रहणं कृतम्। `चन्दसारः' इति। षष्ठीसमासः।
`व्याधिमत्स्यबलेष्विति वक्तव्यम्' इति। अस्थिरार्थोऽयमारम्भः। एषु व्याध्यादिषु त्रिष्विपि घञ् भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि चकारानुवृत्तिमाश्रित्य कर्त्तव्यम्। `अतीसारः' इति। `उपसर्गस्य घञ्यमनुष्ये बहुलम्' (6.3.122) इति दीर्घत्वम्।।
18. भावे। (3.3.18)
`रागः' इति। `रञ्जेश्च' (6.4.26) `घञि च भावकरणयोः' (6.4.27)इत्यनुनासिकलोपः। ननु च `भावे' इति भवतिनायं घञन्तेन निर्देशः क्रियत इति भवतिविषय एव प्रत्ययार्थनिर्द्देशः कृतो भवति, ततश्च भवतेर्यो भावस्तस्मिन्नेव वाच्ये प्रत्ययः स्यात्, स च भवतेरेवोत्पद्यमानेन प्रत्ययेन शक्योऽभिधातुम्, अतस्तत एव प्रत्ययेन भवितव्यम्, तत्कथं पाकस्त्यागो राग इति पच्यादिभ्यो भवति ? अत आह-- `क्रियासामान्यवाची' इत्यादि। क्रियासामान्यं हि सर्व धात्वर्थानुगतं भवतेरर्थः। तेन क्रियासामान्यवाचिनाऽर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति, अतः पच्यादिभ्योऽपि प्रत्ययो भवतीत्यभिप्रायः। ननु धात्वर्थः पूर्वापरीभूतोऽपरिनिष्पन्नः, ततो यदि तत्र वाच्ये प्रत्ययो भवति तस्यासत्त्वभूतत्वाल्लिङ्गसंख्याभ्यां प्रत्ययार्थस्य सम्बन्धो न सिद्ध्यति, तत आह-- `धात्वर्थश्च' इत्यादि। एवकारः प्रत्ययव्यवच्छेदार्थः। धातुनैवोच्यते धात्वर्थः, न तु प्रत्ययेन। कथं तर्हि घञादयो विधीयन्त इत्यत आह-- `यस्तस्य' इत्यादि। तस्य धात्वर्थस्य सिद्धता निष्पन्न्ता नाम यो धर्मस्तत्र घञादयः प्रत्यया विधीयन्ते, ततो युक्तः प्रत्ययार्थस्य लिङ्गसंख्यायोगः। तस्य यो धर्मस्तस्य सत्त्वभूतत्वादित्यर्थः। भाव इति-- इहि पुंल्लिङ्गेनायं निर्द्देश एकवचनेनन च। तेन पुंल्लिङ्ग एव बावे एकवचन एव प्रत्ययाः स्युः। न लिङ्गान्तरयुक्ते नापि वचनान्तरे। एवञ्च सति `स्त्रियां क्तिन्' (3.3.94) इत्यत्र `भावे' `स्त्रियाम्'इति चैतयोः सामानाधिकरण्यं नोपपद्यते, वैयधिकरण्यं हि स्यात्। ततः स्त्रियां भावे क्तिन्प्रत्ययो न स्यात्, अर्थान्तर एव कर्मादौ स्यात्। भावे च पुंल्लिङ्गे पाकौ पाका इत्यत्रैकवचनं स्यात्।
यथाजातीयकं ह्यर्थमुपादातुं समर्थो भावशब्दस्तथाजातीयकेऽर्थे प्रत्ययेन युक्तं भवितुं नान्यत्रेत्यत आह-- `पुंल्लिङ्गमेकवचनं चात्र न तन्त्रम्' इति। सर्वलिङ्गसंख्यासम्बन्धयोग्यं प्रतातिपदिकार्थसामान्यनिमित्तं प्रत्ययनिमित्तत्वेनोपादीयते, तदेव प्रधानम्, न लिङ्गं नापि वचनम्। तत्र प्रातिपदिकार्थसामान्यं विना लिङ्गवचनाभ्यां न शक्यं निर्द्देष्टुमिति नान्तरीयकत्वात् तयोरुपादानम्। प्रतीते तु तस्मिन् प्रातिपदिकार्थसामान्यचरितार्थत्वाल्लिङ्गवचने लिङ्गान्तरे च प्रत्यया भवन्त्येव। `पक्तिः' इति। भावे `स्त्रियां क्तिन्' (3.3.94) । `पक्वम्' इति। `नुपंसके भावे क्तः' (3.3.114)। `पचनम्' इति। `ल्युट् च' (3.3.115) इति ल्युट्। अत्रापि यदि भावे पुल्लिङ्गस्तन्त्रं स्यात्, ततो भावनपुंसकशब्दयोः सामानाधिकरण्यानुपपत्तेर्वैयधिकरण्यं स्यात्, ततश्च भावे नपुंसके ल्युण्न स्यात्, अर्थान्तर एव तु स्यात्। भावे च पुंल्लिङ्गे पचनमित्यस्य तुल्यत्वाच्चोद्यपरिहारस्योपन्यासः, अन्यथा ह्यन्यदेव भावग्रहणमधिकृत्य ल्युटो विधानाददमिहानुपन्यसनीयमेव स्यात्। `पाकौ' इत्यादिकं वचनान्तरे भावप्रत्ययस्योदाहरणम्।।
19. अकर्त्तरि च कारके संज्ञायाम्। (3.3.19)
`प्रासः'इति। `असु क्षेपणे' (धा.पा.1209), `प्रसेवः' इति। `षिवृ तन्तुसन्ताने' (धा.पा.1108), उभयत्राप्यत्र कर्मणि घञ्। `आहारः' इति। `हृञ् हरणे' (धा.पा.899)। `मधुराहारः' इति। कर्मधारयः, षष्ठीतत्पुरुषो वा।
`मेषः' इति। `मिष स्पर्द्धायाम्' (धा.पा.1352), पचाद्यच्। `कर्त्तव्यः' इति। कर्मणि तव्यः।
`चकारः संज्ञाव्यभिचारार्थः' इति। चकारोऽयं भिन्नक्रमः संज्ञायामित्यस्यानन्तरं द्रष्टव्यः, तदनेन चार्थ द्योत्यते। `संज्ञायाञ्च'इति चार्थं द्योतयन्नसौ संज्ञाव्यभिचाराय भवति, तेनासंज्ञायामपि च भवति यद्येवम्, संज्ञाग्रहणमकृत्वा सामान्येनैव प्रत्ययो विधेयः; तत्राप्ययमर्थः-- संज्ञाव्यभिचारार्थश्चकारो न कर्त्तव्यो भवति ? सत्यमेतत् ; तथापि बाहुल्येन संज्ञायां भवति; असंज्ञायां तु क्वचिदेवेत्यमुमर्थं सूचयितुं संज्ञाग्रहणं कृतम्। दीयत इति `दायः' कर्मणि घञ्, पूर्ववद् युक्। `लाभः' इति कर्मण्येव घञ्। `कारकग्रहणम्' इत्यादि। पर्युदासे हि `अकर्त्तरि' इत्युक्ते कारकग्रहणमन्तेरणापि नञिवयुक्तन्यायेन (व्या.प.65) कर्त्तुरन्यत्र तादृशे कारक एव कर्मादौ प्रतीतिर्भवति, यथा-- अब्राह्मण इति ब्राह्मणसदृशे क्षत्रियादौ। तस्मात् पर्युदासे विनापि कारकग्रहणेन कारकएव प्रत्ययो लभ्यतइत कारकग्रहणं न कर्त्तव्यम्। प्रसज्यप्रतिषेधे तु कर्त्तव्यम्, तत्र हि क्रियाप्रतिषेधमात्रं प्रतीयते, न सदृशं वस्त्वन्तरम्। तत्र यदि `अकर्त्तरि संज्ञायाम्' इत्येतावदुच्येत, कर्त्तरि न भवतीत्येषोऽर्थः प्रतीयेत। एवञ्च विधायकस्य वाक्यान्तरस्याभावात् कर्मादिषु प्रत्ययो न स्यात्। क्व तर्हि स्यात् ? `अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (पुं.प.90) इति स्वार्थे। ननु च विहितः स्वार्थे पूर्वेणेव ? नैतदस्ति;`धात्वर्थस्य हि सिद्धता नाम यो धर्मस्तत्र घञादयो विधीयन्ते' इत्युक्तम्। तस्मात् प्रसज्यप्रतिषेधे कारकग्रहणं क्रियते ? इत्यत आह-- पर्युदासे कारकग्रहणमन्तरेणापि सिध्यति, स एवाश्रयिष्यते, तत्किमर्थमं कारकग्रहणं क्रियते ? इत्यत आह-- `तत्क्रियते' इत्यादि। यदि तर्हि पर्युदास एवैष नञ्समासः स्यात्, कारकग्रहणमनर्थकं स्यात्, विनापि हि तेन कारक एव प्रत्ययो लभ्यते; प्रसज्यप्रतिषेधे तु सति कारकग्रहणमर्थवद्भवति, न हि तत्र विनापि तेन कारके प्रत्ययो लभ्यते। इवञ्चानन्तरमेव प्रतिपादनम्। तस्मात् कारकग्रहणेन प्रसज्यप्रतिषेधेऽपि समासोऽस्तीति ज्ञाप्यते। तेन `आदेच उपदेशेऽशिति' (6.1.45) इत्यत्र प्रसज्यप्रतिषेधे समासो लभ्यते, ततश्च यदुक्तम्--`अनैमित्तिकमात्त्वं शिति प्रतिषेधः' इति, तदुपपन्नं भवति। किं पुनः कारणं तत्र प्रसज्यप्रतिषेध आश्रीयते ? प्रागेव प्रत्ययोत्पत्तेरनिमित्तक आत्त्वे कृते सुग्लः सुम्ल इति `आतश्चोपसर्गे' (3.1.136) इति को यथा स्यात्। पर्युदासे तु तत्राश्रीयमाणे शितोऽन्यत्र तृजादौ प्रत्यये परभूत आत्त्वेन भवितव्यम्, ततश्च ग्लायतिप्रभृतिभ्य आकारान्तलक्षमः प्रत्ययो न स्यात्। ननु चाचार्यप्रवृत्तिर्ज्ञापयति-- भवन्त्येजन्तेभ्य आकारान्तलक्षणः प्रत्यय इति, यदयं कबाधनार्थं `ह्वावामश्च' (3.2.2) इत्यणं शास्ति, तस्मादशितीति पर्युदासेऽप्याश्रीयमाणे ज्ञापकादेजन्तस्याकारान्तलक्षणः प्रत्ययः सिध्यत्येव ? नैतदस्ति; कर्मोपपदविषयमेवैतज्ज्ञापकं विज्ञायते। तस्मादशितीत्यत्र प्रसज्यप्रतिषेध एवाश्रयितुं युक्तः। तस्य चास्तित्वमिह कारकग्रहणेन ज्ञाप्यते। किं पुनः कारणं प्रसज्यप्रतिषेधो न सिध्यति, यतस्तदस्तित्वज्ञापनं प्रतिपन्नं क्रियते ? असामर्थ्यं कारणम्; सामर्थ्ये हि सति समासेन भवितव्यम्,न च तत् प्रसज्यप्रतिषेधे। तथा हि ततर् नञ् क्रियया सम्बद्धः, नोत्तरपदेन।।
20. परिमाणाख्यायां सर्वेभ्यः। (3.3.20)
`एकस्तण्डुलनिश्चायः'इति। `ग्रहवृदृनिश्चिगमश्च' (3.3.58) इत्यपि प्राप्ते धञ्। `द्वौ शूर्पनिष्पावौ' इति। अत्रापि `ऋदोरप्' (3.3.57) इत्यपि प्राप्ते। `इदुदुपधस्य चाप्रत्ययस्य' (8.3.41) इति विसर्जनीयस् षत्वम्। `द्वौ कारौ'इति। `कृ विक्षेपे' (धा.पा.1409)। ननु च द्वौ शूर्पनिष्पावावित्यत्र `निरभ्योः पूल्वोः' (3.3.28) इत्यनेन घञ् सिद्धः, तत्किमर्थमिदमिहोक्तम् ? एवं मन्यते -- अन्यार्ते सर्वग्रहणे क्रियमाणे परिमाणाख्यायां वाऽन्यत्रैव सिद्धम्, निष्पूर्वादपि ह्यप्प्रत्ययो युक्तः, `निरभ्योः पूल्वोः' (3.3.28) इत्यस्य तु यत्र परिमाणाख्या न गम्यते सोऽवकाश इति। कः पुनस्तेन वानेन वा घञि सति विशेषः ? को न्यायो वाख्ययते ? न कश्चित्। ननु च धातोरिति सामान्यमधिकृतम्, न धातुविशेष इति। अन्तरेणापि सर्वग्रहणं धातुमात्राद्धञ् भविष्यति तत्किमर्थं सर्वग्रहणमित्याह-- `सर्वग्रहणम्' इत्यादि। किं पुनः कारणमसति सर्वग्रहणेऽपो बाधा न सिध्यतीत्याह-- `पुरस्तात्' इत्यादि। `पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान्' (व्या.प.9) इति। सति सर्वग्रहणे घञमनन्तरमचमेव बाधेत, नापम्। सर्वग्रहणे तु सत्यपमपि बाधते। तस्मादपोऽपि बाधा यथा स्यादिति सर्वग्रहणम्।
न च परिमाणशब्दोऽयं प्रस्थादिषु रूढो न संख्यायाम्, तत्कथं परिमाणाख्यायं प्रत्ययो विधायमान एकस्तण्डुलनिश्चाय इत्यादौ गम्यमानायां भवतीत्यत आह-- `आख्याग्रहणम्' इत्यादि। आख्याग्रहणमिह रूढेर्निरासस्त्यागो यथा स्यादित्येवमर्थं कृतम्। तेन रूढौ त्यक्तायां संख्यापि गृह्यते। आख्याग्रहणसामर्थ्याद्धि परिमाणम्, अतो युक्तं तस्यापि ग्रहणम्। यदि सर्वग्रहणात् परमप्ययं घञ् बाधते, स्थीप्रत्ययानपि बाधेतेत्यत इत्यभिप्रायः। अत एवाह--`स्त्रीप्रत्ययास्तु न बाध्यन्ते' इति। कृतः पुनरयमर्थो लभ्यते ? `सर्वेभ्यः'इति पञ्चम्यन्तेन निर्द्दशात्। पञ्चम्यन्तनिर्द्देशे हि सर्वशब्दो धातुसमानाधिकरणो विज्ञायते। तेन प्रकृत्याश्रयस्यापवादस्य सर्वग्रहणाद्बाधा भवति, नार्थाश्रयस्य। यदि त्वर्थाश्रयोऽप्यपवादो बाधितुमिष्टः स्यात्, तदा सर्वस्मिन्निति सर्वशब्दं सप्तम्यन्तमुच्चारयेत्। `एका तिलोच्छ्रितिः'इति। श्रिञ उत्पूर्वात् `स्त्रियां क्तिन्' (3.3.94), `स्तोः श्चुना श्चुः' (8.4.40) इति चुत्वम्, `शश्छोऽटि' (8.4.63) इति च्छत्वम्।
`दारजारौ' इत्यादि। दारजारशब्दौ निपात्येते। किमत्र निपात्यते ? `दृ विदारणे' (धा.पा.1493) `जृष् वयोहानौ' (धा.पा.1130) आभ्यां हेतुमण्ण्यन्ताभ्यां कर्त्तरि तृजादिषु घञि णिलुक्। ननु च `णेरनिटि' (6.4.51) इति णिलोपे हि सति `जनीजृष्क्नसुरञ्जोऽमन्ताश्च' (धा.पा.817) इति मित्संज्ञायां सत्यां णिलोपे कृतेऽपि प्रत्ययलक्षणेन जीर्यतेर्मितां ह्रस्वत्वं प्रसज्यते। अस्तु तर्हि मितां ह्रस्वत्वम्, पुनर्घञाश्रया वृद्धिर्भविष्यतीति चेत् ? अयुक्तमेतत्; न हि घञाश्रया वृद्धिः प्राप्नोति, `अचः परस्मिन् पूर्वविधौ' (1.1.57) इति स्थानिवद्भावे सति णिचा व्यवहितत्वात्। लुकि तु सति तस्यापरनिमित्तत्वादसति स्थानिवद्भावे घञमाश्रित्य वृद्धिर्भवति। न च प्रत्ययलक्षणेन ह्रस्वत्वं प्रसज्यते; `न लुमताङ्गस्यट (1.1.63) इति प्रत्ययलक्षणप्रतिषेधात्। तस्माल्लुग्वक्तव्यः।।
21. इङश्च। (3.3.21)
`अचोऽपवादः' इति। `एरच्' (3.3.56) इति प्राप्तोस्योत्तरस्यापीवर्णान्ताद्घञ् विधीयमानोऽच एवापवादो वेदितव्यः। `अध्यायः' इति। कर्मणि घञ्।
`तदन्ताच्च वा ङीष्' इति। योऽयमपादाने घञ् तदन्तान्ङीष् प्रतिपाद्यः। तत्रेदं प्रतिपादनम्-- `वोतो गुणवचनात्' (4.1.44) इत्यत्र वेति योगविभाघः कर्त्तव्यः, तेनापादाने स्त्रियामिङो यो घञ् विहितस्तदन्तान्ङीष् भविष्यतीति। यदा च पुंयोगो न विवक्ष्यते तदा ङीष् प्रतिपाद्यः। यदा तूपाध्यायस्य स्त्रीति पुंयोगो विवक्ष्यते तदा `पुंयोगादाख्यायाम्' (4.1.48) इत्येव ङीष् सिद्धः। उपेत्याधीयतेऽस्या उपाध्यायी।
`शृ वायुवर्णनिवृतेषु' इति। `शृ हिंसायाम्' (धा.पा.1488) - अस्माद्वाय्वादिषु वाच्येषु घञ् प्रतिपाद्यः। प्रतिपादनं तु तमेव चकारमनुक्तसमुच्चयार्थम्, `कृत्यल्युटो बहुलम्' (3.3.113) इति बहुलग्रहणं वाऽऽश्रित्य कर्त्तव्यम्। निवृत्तम् = निवारणम्। शीतादिदुःखोपशमहेतुर्निवारणमुच्यते।
`अकृतनीशारः' इति। अकृतशीतनिवारण इत्यर्थः। पूर्ववदुपसर्गस्य दीर्घत्वम्।।
22. उपसर्गे रुवः। (3.3.22)
`अपोऽपवादः' इति। `ऋदोरप्' (3.3.57) इति प्राप्तस्य। उत्तरसूत्रेणाप्युवर्णान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः।।
23.समि युद्रुदुवः। (3.3.23)
24. श्रिणीभुवोऽनुपसर्गे। (3.3.24)
`अनुपसर्गेभ्यः'इति। अविद्यमान उपसर्ग एषामिति बहुव्रीहिः `अनुपसर्गेभ्यः' इति प़ञ्चम्यन्तेन विवरणं कुर्वन् सूत्रेऽनुपसर्ग इति सुब्व्यत्ययेन एषा सप्तमीति दर्शयति।
`कथं प्रभावो राज्ञः' इति। अनुपसर्गवचनादिह प्रशब्द उपसर्ग उपपदे न भवितव्यमिति भावः। `{कथं च--काशिका} कथं नयो राज्ञः' इति। अनुपसर्गाद्घञात्र भवितव्यमिति मन्यते।।
25. वौ क्षुश्रुवः। (3.3.25)
`विक्षावः'इति। `टुक्षु शब्दे' (धा.पा.1036)।।
26. अवोदोर्नियः। (3.3.26)
`उन्नायः' इति। `यरोऽनुनासिकेऽनुनासिको वा' (8.4.45) इति वाऽनुनासिकः। `कथमुन्नयः पदार्थानाम्' इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमित्यभिप्रायः।।
27. प्रे द्रुस्तुम्रुवः.(3.3.27)
28. निरभ्योः पूल्वोः। (3.3.28)
`सामान्येन ग्रहणम्' इति। विशेषानुपादानात् । `यथासंख्यमुपसर्गसम्बन्धः' इति। निसोपसर्गेण पुवः सम्बन्धः, अभिना लूञः। ननु च पूञ्पूङ्लूञस्त्रयो धातवः, उपसर्गौ द्वौ, अतो वैषम्याद्यथासंख्येन न भवितव्यम् ? पूरूपमुत्सृष्टानुबन्धसामान्यमेकमेव, ततो नास्ति वैषम्यमित्यदोषः।।
29. उन्न्योर्ग्रः। (3.3.29)
`ॠदोरप्'(3.3.57) इतिप्राप्तस्यायमपवादः। उत्तरत्रापि ॠकारान्ताद्धञ् विधीयमानोऽप एवापवादो वेदितव्यः। `द्वयोरपि ग्रहणम्' इति। विशेषानुपादानात्।।
30. कृ धान्ये। (3.3.30)
धान्यमिह प्रकृत्यर्थो वा स्यात् ? प्रत्ययार्थो वा स्यात् ? प्रकृत्यर्थस्तावन्नोपपद्यते;धान्यस्य द्रव्यत्वात् धातोश्च क्रियावाचित्वात्। प्रत्ययार्थस्तूपपद्यते धान्यम्;किन्तु प्रत्ययेनाबिहितत्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति। अथापि प्रयोगः स्यात् ? एवमपि प्रत्ययर्थेऽन्तर्भूतत्वात् षष्ठी नोपपद्यते-- उत्कारो धान्यस्येति। सामानाधिकरण्यमेव प्रत्ययान्तेन स्यात्, एवं हि प्रत्ययर्थो भवति यदि प्रत्ययान्तेन सामानाधिकरण्यं भवति, यथा-- दृतिहरिः पशुरिति। तस्मान्नेदं प्रत्ययार्थः,नापि प्रकृत्यर्थः, अपि तु प्रकृत्यर्थविशेषणमिति हिंसार्थस्य' इति। `कृ हिंसायाम्' (धा.पा.1496) इत्यस्य ग्रहणं न भवति। किं कारणमित्याह-- `अनभिधानात्' इति। शब्दशक्तिस्वाभाव्यादुत्कारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा। यस्य चार्थः प्रत्ययान्तेनाभिधीयते तस्यैव ग्रहणं युक्तम्, नेतरस्य। `उत्कारो धान्यस्य' इति। विक्षेपो दान्यस्येत्यर्थः।।
31. यज्ञे समि स्तुवः। (3.3.31)
`समेत्य स्तुवन्ति यस्मिन् देशे' इत्यादिना संस्तावशब्दस्याधिकरणसाधनत्वं दर्शयति।।
32. प्रे स्त्रोऽयज्ञे। (3.3.32)
`बर्हिष्प्रस्तरः'इति। `इदुदुपधस्य चाप्रत्ययस्य' (8.3.41 ) विसर्जनीयस्य षत्वम्।।
33. प्रथने वावशब्दे। (3.3.33)
`तृणविस्तरः' इति। तृणाच्छादनमित्यर्थः।।
34. छन्दोनाम्नि च। (3.3.34)
छन्दःशब्दोऽयमस्त्येव मन्त्रब्राह्मणे, अस्त्यन्यदक्षराणामित्ताविशिष्टवृत्ते यस्य गायत्र्यादयो विशेषाः। तदिह कतरस्तदर्थो गृह्यते ? इत्याह-- `वृत्तम्' इत्यादि। अत्रैवोपपत्तिमाह-- `नामग्रहणात्' इति। यद्यत्र मन्त्रब्राह्मणमिष्टं स्यान्नामग्रहणं न कुर्यात्, छन्दसीत्येव ब्रूयात्। एवमपि ह्युच्यमाने मन्त्रब्राह्मणग्रहणं लभ्यत एव, यथा-- `बहुलं छन्दसि' (2.4.39) इत्यादौ वाक्ये। तस्मन्नामग्रहणाव्वृत्तमिह च्छन्दो गृह्यते। `विष्टारपङ्क्तिः' इति। `छन्दोनाम्नि च' (8.3.94) इति षत्वम्। विष्टारशब्द एवात्र घञन्तश्छन्दोनामेति कस्यचिद्भ्रान्तिः स्यात्, तन्निराकरणायाह-- `विष्टारपङ्क्तिशब्दोऽत्र' इत्यादि। तत्र = विष्टारपङ्क्तिशब्दे । `अवयवत्वेन वर्त्तते'इति। घञन्तं शब्दरूपमिति सम्बन्धनीयम। यदि घञन्तं शब्दरूपं न च्छन्दोनाम, किन्तु विष्टारपङ्क्तिशब्दः, तत्र घञन्तरूपमवयत्वेन वर्त्तते, एवं तर्हि `छन्दोतत्कथमुन्नीयते ? अस्य हि छन्दोनाम्नि गम्यमान इत्येषोऽर्थः,प्रत्ययान्तं छन्दोनाम भवतीति यावत्। एवञ्चार्थ एवं सति नोपपद्यत इत्याह-- `छन्दोनाम्नीत्यधिकणसप्तम्येषा'इति। एतेन च्छन्दोनाम्नि प्रत्ययान्तस्याधिकरणभूते प्रत्यययो भवतीत्ययमत्रार्थो वेदितव्यः,न च्छन्दोनाम्नि गम्यमान इत्येष इति दर्शयति।।
35. उदि ग्रहः। (3.3.35)
`अपोऽपवादः' इति। `ग्रहवृदृनिश्चिगमश्च' (3.3.58) इति प्राप्तस्य।
`{छन्दसि विपूर्वादपीष्यतेस्रुगुद्यमननिपातनयोः'इत्येव वार्त्तिकपाठो मुद्रितो दृश्यते।} छन्दसि तु'इत्यादि। यज्ञपात्रविशेषो येनाहुतिर्दीयते तत्स्रुगुच्यते, तस्योद्यमनम् = ऊर्ध्वलनयनम्, निपातनम् = धस्तान्नयनम्,एतयोरर्थयोर्ग्रहेश्छन्दसि विषये घञिष्यते। स च `कृत्यल्युटो बहुलम्'(3.3.113) इति लभ्यत इति वेदितव्यम्। `निग्राभम्' इति। हृग्रहोर्भश्छन्दस्युपसंख्यानाद्धकारस्य भकारः।।
36. समि मुष्टौ। (3.3.36)
ग्रहेः क्रियावाचित्वात् मुष्टेश्चाक्रियात्मकत्वात् तत्र ग्रहेर्न सम्भवति, तस्मान्मुष्टिग्रहे योऽर्थस्तस्य विषयो विज्ञायत इत्याह-- मुष्टिविषयश्चेद्वात्वर्थो भवति' इति। अस्त्येवायं मुष्टिशब्दः परिमाणे--शाकस्य मुष्टिरिति, अस्त्यङ्गुलीनां रचनाविशेषे, यथा-- हन्ति मुष्टिनेति,ततर् यदीह परिमाणवृत्तेर्ग्रहणं स्यादस्य सूत्रस्य वैयर्थ्यं स्यात्, `परिमाणाख्यायां सर्वेभ्यः' (3.3.20) इत्येव सिद्धत्वात्। तस्मादङ्गुलीनां रचनाविशेषवृत्तेर्ग्रहणं विज्ञायत इत्याह-- `मुष्टिरङ्गुलिसन्निवेशः' इति।सन्निवेशः = रचनाविशेषः। `अहो मल्लस्य संग्रहः'इति। मुष्टेर्दार्ढ्यमित्यर्थः। अत एवाह-- `दृढमुष्टिताऽऽख्यायते' इति।
37. परिन्योर्नीणोर्द्यूताभ्रेषयोः। (3.3.37)
`पदार्थानाम्' इत्यादि। पदार्शब्दो वस्तुवाची। कुत्सितश्चारः = अपचारः।यताप्राप्तस्याकरणमित्यर्थः। यथाप्राप्तस्याकरणमसाध्वेतदितिलोके कुत्स्यते, तस्मादन्यः शान्तश्चारोऽनपचारः। एतमेवार्थं पर्यायान्तरेण व्यक्तीकर्त्तुमाह-- `यथाप्राप्तस्य करणम्' इति। यद्यत् प्राप्तिमिति `यथाऽसादृश्ये'(2.1.7) इतिवीप्सायामव्ययीभावः। करणम् = सम्पादनम्। एतुदुक्तं भवति-- युक्तेरागमाल्लोकप्रसिद्धेर्वा यः पदार्थानां प्राप्नोति तस्य सम्पादनमभ्रेष इति।`{ भ्रेषृ गतौ-धा.पा.} भ्रेष चलने' (धा.पा.884) भ्रेषणम् = भ्रेषः, स्वरूपात् तच्चलनम्। अभ्रेषो भ्रेषस्वरूपादचलनम्। एवं हि पदार्थाः स्वरूपादचलिता भवन्ति यदि प्राप्तं नातिवर्त्तन्ते। `परिमायेन' इति। `उपसर्गादसमासेऽपि णोपदेशस्य' (8.4.14) इति णत्वम्। `हन्ति' इति बाधते। `समन्तान्नयनेन' इति। परिणायेनेत्यस्येदमर्थकथनम्।।
38. परावनुपात्यय इणः। (3.3.38)
`अनतिपातः' इति। अनितक्रम इत्यर्थः।
`अतिपात इत्यर्थः' इति। अतिक्रम इत्यर्थः।।
39. व्युपयोः शेतेः पर्याये। (3.3.39)
पर्यायोऽनुपात्यय एव,तत्रानुपात्ययग्रहणानुवृत्त्यैव सिद्धे पर्यायग्रहणं बाधकबाधनार्थम्। अभिविधिविवक्षायां परिमाणमपि बाधित्वा घञेव यथा स्यात्। एवञ्चार्थे शब्दाधिक्यादर्थाधिक्यं भवतीति लभ्यते, न तु पर्यायशब्दोऽस्यार्थस्य वाचकः।।
40. हस्तादाने चेरस्तेये। (3.3.40)
`हस्तादानग्रहणेन' इत्यादि। हस्तेनोपायान्तरनिरपेक्षेणोपादानम् = प्रत्यासत्तिः, ततएव वस्तुनो भवति, तस्माद्धस्तादानग्रहणेन ग्राह्यस्य वस्तुनः प्रत्यासन्नतोपलक्ष्यते; हस्तादानशब्दाभिधेयस्यार्थस्य प्रत्यासत्तेः साहचर्यात्।
`वृक्षशिखरे' इत्यादि। वृक्षशिखरग्रहणेनादेयस्याप्रत्यासन्नत्वं सूचयति।।
41. निवासचितिशरीरोपसमाधानेषवादेश्च कः। (3.3.41)
`राशीकरणम्' इति। प्रकीर्णस्यैकत्रकरणमित्यर्थः। `चिखल्लिनिकायः' इति। चिखल्लिर्जनपदः, तस्य निकायः = निवासः। अथादिग्रहणं किम् ? अर्थस्य मा भूत्। यद्येवम्, `चः कः' इति वक्तव्यम् ? एवं तर्हि यदा यङ्लुगन्तादुत्पद्यते तदा `{अन्त्याभावे अन्त्यसदेशस्य' शाक.प.}अन्त्यविकारेऽन्त्यसदेशस्य' (शाक.प.56) इति द्वितीयस्य चकारस्य मा भूदित्यवमर्थमादिग्रहणम्।।
42. सङ्घे चानौत्तराधर्ये। (3.3.42)
`एकधर्मनिवेशेन' इति। एकधर्मानुगमनेनेत्यर्थः।।
43. करमव्यतिहारे णच् स्त्रियाम्। (3.3.43)
`दातोः'(3.1.91) इत्यधिकाराद्धातुवाच्यं यत्कर्म तदव गृह्यते,न साधनकर्म। न हि धातोस्तत्र वृत्तिरस्तीति मत्वाऽऽह-- कर्मं क्रिया'इति। `चकारो विशेषणार्थः' इति। अन्तोदत्तार्थश्चकारः कस्मान्न भवति ? नार्हत्यन्तोदात्तार्थो भवितुम्; णजन्तादञो विधानात्। सतिशिष्टस्वरेणाद्युदात्तेन भवितव्यम्,तत्र कुतोऽन्तोदात्तस्य सम्भवः। तस्माद्विशेषणार्थ एव चकारः। `स्त्रियाम्' इत्युच्यमाने `प्रज्ञाश्रद्धार्चाभ्यो णः'(5.2.101) इति प्राज्ञेत्यत्रापि स्यात्। `व्यावक्रोशी' इत्यादि। `क्रुश { आह्वाने रोदने च--ध.पा.}, `लिख अक्षरविन्यासे' (धा.पा.1365),`हसे हसने' (धा.पा.721)--एभ्यो णच्, `णचः स्त्रियाम्'(5.4.14) इति स्वार्तेऽञ्, `टिड्ढाणञ्' (4.1.15) इति ङीप्, `न कर्मव्यतिहारे' (7.3.6) इत्यैजागमप्रतिषेधः। आदिवृद्धिरेव भवति।
`व्यतिपाकः' इति। तत्र पुंल्लिङ्गत्वाद्भावस्य घञ् भवति। अथ `स्त्रियां क्तिन्' (3.3.94) इत्यस्मिन्नेव प्रकरणे णच् कस्मान्नोक्तः, कः पुनरेवं सति गुणो भवति, द्विः स्त्रियांग्रहणं न कर्त्तव्यं भवित ? अस्ति गुणः,वासरूपविधिस्तु न स्यात् ; अस्त्रियामिति प्रतिषेधात् । ततश्च क्तिनो णचासमावेशाभावाद्व्यावक्रुष्टिरिति न सिध्येत्। इह तु क्रियमाणे णच् सिध्यति; यस्मात् `वाऽसरूपोऽस्त्रियाम्' (3.1.94) इत्यत्र स्त्रीग्रहणस्य च स्वरितत्वात् स्त्र्यधिकरारविहितप्रत्ययविषय एव `अस्त्रियाम' (3.1.94) इति प्रतिषेधो विज्ञायते,न स्त्रीप्रत्ययमात्रविषये। तस्माद्यथान्यसमेव न्याय्यम्।
`व्यावचोरी, व्यावचर्ची' इति। `चुर स्तेये' (धा.पा.1534), `चर्च अध्ययने' (धा.पा.1712)-- आभ्यां चुरादिणिजन्ताभ्याम् `ण्यासश्रन्थो युच्' (3.3.107) इति युच् प्राप्नोति, स च विशेषविहितत्वात् परवाच्च बाधकः, तथापि तद्विषये तु णजेवेष्यते। `व्यतीक्षा,व्यतीहा' इति। `ईक्ष दर्शने' (धा.पा.610), `ईह चेष्टायाम्' (धा.पा.632) -- आभ्यां `गुरोश्च हलः' (3.3.103) इत्यकारएव प्रत्ययो भवति। न णच् शक्यः कर्त्तुम्;यस्मात् क्वचिद्बाधकविषये स इष्यते, न सर्वत्र। बाधकत्वं त्वकारप्रत्ययस्य पूरववद्वेदितव्यम्। `व्यात्युक्षी'इति। `उक्ष सेचने' (धा.पा.657)। अत्र बाधकस्याप्यकारस्य विषये णजेव भवति। `तदेतद्वैचित्र्यं कथं लभ्यते' इति। न कथ़ञ्चित्। तल्लाभहेतोरभावादिति भावः। `कृत्यल्युटो बहुलम्'(3.3.113) इत्यनेन। अतो हेतोर्वेचित्र्यमेतल्लभ्यत इति दर्शयति।।
44. अभिविधौ भाव इनुण्।(3.3.44)
`सांकूटिनम्' इति। `कूट {परितापे (परिदाहे इत्यन्ये)-धा.पा.} (धा.पा.1890), `अणिनुणः' (5.4.15) इतीनुमन्तात् स्वार्थिकोऽण्। `इनण्यनपत्ये' (6.4.164) इति प्रकृतिभावात् `नस्तद्धिते' (6.4.144) इति टिलोपो न भवति।
`संरावः' इति। `उपसर्गे रुवः (3.3.22) इति घञ्। `संद्रावः' इति। अत्रापि `समि युद्रुदुवः' (3.3.23) इति।
ननु च भाव इति वर्त्तत एव, तत्किमर्थं पुनस्तद्ग्रहमित्याह-- `भावे' इति। `वर्त्तमाने' इत्यादि। भावग्रहणमिहातिरिच्यते, तदितरिच्यमानं वासरूपनिरासार्थं विज्ञायते। तेन क्तेन सहेनुणः समावेशो न भवति। ननु च कारक इत्यपि वर्त्तते, ततस्तन्निवृत्त्यर्थं भावग्रहणं कस्मान्न भवति ? एवं मन्यते-- भावे कारक इति द्वये प्रकृतेऽपि प्रयोगदर्शनवशाद्वयवस्था भवति, यथा णचः। स हि द्वथेऽपि प्रकृते लक्ष्यदर्शनानुरोधात् पुनर्ग्रहमन्तरेणापि यथा भाव एव विज्ञायते, न कराके, तथात्रेनुणपि भाव एव विज्ञास्यते। तस्माद्वासरूपविधिनिरासार्थमेव पुनर्भावग्रहणं युक्तमिति। यद्येवम्, तर्हि, यथा घञेनुणः समावेशो न भवति तथा ल्युटापि न स्यादित्यत आह-- `ल्युटा तु' इत्यादि। गतार्थम्। इनुणो णकारो वृद्ध्यर्थः। उकार उच्चारणार्थः।।
45. आक्रोशेऽवन्योर्ग्रहः। (3.3.45)
` ग्रहवृदृ' (3.3.58) इत्यादिना प्राप्ते वचनम्। `दृष्टानुवृत्तिसाम्र्थ्यात्' इति। प्रयोगोपस्थानेन घञोऽनुवृत्तिसामर्थ्य दृष्टम्, इनुणस्तु कल्पयितव्यम्। दृष्टसामर्थ्ययोश्च सन्निधौ दृष्टसामर्थ्यदग्रहणं न्याय्यम्। अतो घञेवानुवर्त्तत इत्येके। एवं तु `ग्रहवृदृ' (3.3.58) इत्यादावपि सूत्रे घञेवानुवर्त्तते, नाप्। तस्मादन्यथा व्याख्यायते-- दृष्टमनुवृत्तिसामर्थ्यमधिकृतस्य यत्र तद्दृष्टानुवृत्तिसामर्थ्यम्, तत्र पुनः स्वरितत्वम्। ततो हि शास्त्रेऽधिकृतस्य शब्दस्यानुवृत्तौ सामर्थ्ये दृश्यते। तदेतदुक्तं भवति-- घञ एव स्वरितत्वं प्रतिज्ञायते, नेनुणः। तस्मात् स्वरितत्वाद्घञेवानुवर्त्तते, नेनुणिति।।
46. प्रे लिप्सायाम्। (3.3.46)
47. परौ यज्ञे। (3.3.47)
48. नौ वृ धान्ये। (3.3.48)
`अपोऽपवादः'इति। `ग्रहवृदृ' (3.3.58) इत्यादिना प्राप्तस्य । `नीवारा नाम व्रीहयो भवन्ति' इति। एतेन यद्यपि धान्यशब्देन सामान्यवाचिनायं व्युत्पाद्यते, तथापि प्रत्ययान्तं शब्दशक्तिस्वाभाव्याद्धान्यविशेष ए वर्त्तत इति दर्शयति। `उपसर्गस्यघञि' (6.3.122) इति दीर्घत्वम्।
`निवरा' इति। निव्रियत इति निवरा। स्वभावेनाबन्तमपि स्त्रियां वर्त्तते। एवञ्च यद् घञबन्तो घाजन्तश्चेति लिङ्गाधिकारेऽबन्तस्य पुंल्लिङ्गताप्रतिपादनं तत् प्रायिकं वेदितव्यम्।।
49. उदि श्रयतियौतिपूद्रुवः। (3.3.49)
`अजपोरपवादः' इति। श्रयतेरिवर्णान्तत्वादचोऽपवादः, यौतिप्रभृतीनां तूवर्णान्तत्वादपः। `कथं पतनान्ताः समुच्छ्रया इति' इति। उच्छब्दोपपदत्वाद्धञात्र भवितव्यमिति भावः। `वक्ष्यमाणम्' इत्यादि परिहारः। यदि तर्हि विभाषाग्रहणमिह सम्बध्यते, यौतिप्रभृतीनामपि विकल्पेन प्रत्ययः प्रसज्यते ? व्यवस्थितविभाषया न प्रसज्यत इत्यदोषः।।
50. विभाषाऽऽङि रुप्लुवोः। (3.3.50)
रौतेः `उपसर्गे रुवः' (3.3.22) इति नित्यं घञि प्राप्ते प्लवतेरप्युवर्णान्तत्वादपि सूत्रारम्भः।।
51. अवे ग्रहो वर्षप्रतिबन्धे। (3.3.51)
`ग्रहवृदृ' (3.3.58) इत्यादिनापि प्राप्ते तदपवादः, पक्षे घञभिधीयते। `कुतश्चिन्निमित्तात्' इति। सत्त्वकर्मापराधाधिकारात्।।
52. प्रे वणिजाम्। (3.3.52)
`वणिक्सम्बन्धन च' इत्यादि। तुलासूत्रं हि प्रायेण वणिजासम्बद्धम् = सहचरम्, ततः साहचर्याद्वणिक्सम्बन्धेन तदुपलक्ष्यते। नात्र वणिजां प्राधान्याम्। तस्मात् तदेव तुलादिसूत्रं तदन्यशब्दस्याभिधेयम्।।
53. रश्मौ च। (3.3.53)
`रथादियुक्तानाम्' इत्यादि। कुतः पुनरेतल्लभ्यते,यावता रश्मिशब्दः सामान्यवचनः, यथैवासावश्वादिसंयमनार्थायां रज्ज्वां वर्त्तते तथा चन्द्रार्कादिसम्बन्धिष्वपि रश्मिषु ? एवं मन्यते- यथा `नौ वृ धान्ये' (3.3.48) इति धान्यशब्दस्यापि धान्यविशेष एव गृह्यते, प्रत्ययान्तेन शब्दशक्तिस्वभाव्याद्धान्यविशेषस्य वाभिधानात्; तथा यद्यपि रश्मिशब्दः सामान्यवाची, तथापि प्रत्ययान्तः स्वभावाद्रज्जुविशेष एव वर्त्तते। तस्मात् युक्तं ग्रहणमिति।।
54. वृणोतेराच्छादने। (3.3.54)
`वृणोतेः'इति। श्नुविकरणेन निर्देशो वृङो निवृत्त्यर्थः। अत्रापि सामान्यवाचित्वे प्राग्वदाच्छादनशब्दादन्यत्र। पक्षे `ग्रहवृदृ' (3.3.58) इत्यादिनाब्भवति।।
55. परौ भुवोऽवज्ञाने। (3.3.55)
56. एरच्। (3.3.56)
`चकारो विशेषणार्थः' इति। विनापि तेन थाथादिसूत्रे (6.2.144) अप्रत्ययादित्यप्रत्ययस्यापि ग्रहणं स्यात्।
`अज्विधौ' इत्यादि। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं तु `कृत्यल्युटो बहुलम्'(3.3.113) इत्येतदाश्रित्य कर्त्तव्यम्। अन्यस्तु `पञ्चमी भयेन' (2.1.37) `वर्षप्रमाण ऊलोपश्चास्यान्तरस्याम्' (3.4.32) इति निपातनाद्भयादीनां सिद्धिमिच्छति, न चासौ युक्ता; किमिदं भयवर्षशब्दयोर्नपुंसकलिङ्गयोरुच्चारणम् ? इत् पुंल्लिङ्गयोः ? इति सन्देहात्। `वक्तयौ'इति। व्याख्येयावित्यर्थः। व्याख्यानं तु तदेव बहुलग्रहणमाश्रित्य कर्त्तव्यम्। `जवः, सवः' इति। `जु' (3.2.150) इत्येस्मात् सौत्राद्धातोः, `षुञ् अभिषवे' (धा.पा.1247) इत्येस्माच्चोत्तरसूत्रेणापि प्राप्तेऽज्भवति। स्वरे विशेषः-- अपि हि स्तामाद्युदात्तं पदं स्यात्, अजन्ते सत्यन्तोदात्तत्वं भवति।।
57. ऋदोरप्। (3.3.57)
`पित्करणं स्वरार्थम्' इति। `अनुदात्तौ सुप्पितौ' (3.1.4) इत्यनुदात्तत्वं यथा स्यात्। `ऋदोरप्' इत्यत्र ऋकारस्तपरः स्यात्। एवं सति तादपि परस्तपरः इत्युकारोऽपि तस्य परः स्यात्। ततश्च `तपरस्तत्कालस्य' (1.1.70) इति परिभाषोपस्थानादिहैव स्यात्-- यवः,स्तव इति; लवः,पव इत्यत्र तु न स्यात्। दकारे तु `अण् सवर्णान् गृह्णाति-- `भुवः गृह्णाति' (व्या.पा.66 ?) इति दीर्घादपि भवति। तस्मादुकारोऽयं सवर्णं गृह्णाति। अत्र च लिङ्गम्-- `भुवः प्रभवः' (1.4.31) इति निर्देशः।तपरे तु भवतेरप् न स्यात्, ततश्च `प्रभवः'इति निर्देशो नोपपद्यते। तस्य तु दकारस्य मुखसुखार्थत्वादन्यत् प्रयोजनं न सम्भवतीत्येतत्सर्वमालोच्याह-- `दकारो मुखसुखार्थः' इति।।
58. ग्रहवृदृनिश्चिगमश्च। (3.3.58)
`वृ' इति वृङ्वृञोः सामान्येन ग्रहणम्। `दृ'इति। `दृङ आदरे' (धा.पा.1411)। `निश्चिनोतेस्तवचोऽपवादः' इति। `एरच्' (3.3.56) इति प्राप्तस्य। अथ निश्चिग्रहणं किमर्थम्, यावता नास्मादच्यपि वा विहिते कश्चिद्विशेषोऽस्ति, तदेव हि रूपमुभयत्रापि समापद्यत इत्याह-- `निश्चिग्रहणं स्वरार्थम्' इति। अनुदात्तार्थमित्यर्थः। ननु च `हस्तादाने चेरस्तेये' (3.3.40) इति चिनीतेर्घञ् विधीयमानो न स्यात्, निष्पूर्वादपि प्राप्नोति, अतस्तद्बाधनार्थमपि निश्चिग्रहणं युक्तम् ? नैतदस्ति; निष्पूर्वादपि हि चिनोतेश्चैष घञ् पूर्वविप्रतिषेधेनेष्यते। ननु च स्वरार्थमपि निश्चिग्रहणं नोपपद्यतएव, तथापि `गतिकारकोपपदात् कृत्' (6.2.139) इत्युत्तरपदप्रकृतिस्वरे प्राप्ते` अन्तः'(6.2.143) , `थाथघञ्क्ताजबित्रकाणाम्' (6.2.144) इत्यन्तोदात्तत्वेनैव भाव्यते। तथा चापि प्रत्ययेऽपि सत्यनुदात्तत्वेनैव भवितव्यम् ? नैष दोषः;निश्चिग्रहणसामर्थ्यात थाथादिस्वरस्तस्मिन् विषये न भवति। तस्मिन्नसत्युत्तरपदे प्रकृतिभावेनावस्थितेऽपोऽनुदात्तत्वाद्धातोश्चान्तोदात्तत्वान्निश्चय इति पदं कृत्स्वरेण मध्योदात्त्ं भवति, अचि सत्यन्तोदात्तं स्यात्।
`वशिरण्योः' इत्यादि। `वश कान्तौ' (धा.पा.1080), `रण' (धा.पा.445) इति शब्दार्थः, अणरणेत्यादयः शब्दार्थाः (धा.पा.444-453) धातवः। तयोर्वशिरण्योरप उपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् -- चकारोऽत्रानुक्तसमुच्चयार्थः क्रियते, तेन वशिरण्योरप्यब्भविष्यति।
`घञर्थे क' इत्यादि। घञर्थो भावः कर्त्तृवर्जितञ्च कराकम्, तत्र कप्रत्ययस्य विधानं कर्त्तव्यं स्थाद्यर्थम्। एतत्तु `कृत्यल्युटो बहुलम्'(3.3.113) इत्येव सिद्धम्। `पा' इति लुग्विकरणपरिभाषया (व्या.प.50) पानार्थस्य ग्रहणम्, न रक्षणार्थस्य। `प्रस्थः' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपः। `प्रश्नः' इति। `ष्णा शौचे' (धा.पा.1052)। `आविधः' इति। `व्यध ताडने' (धा.पा.1181)। `ग्रहिज्या' (6.1.16) इइत्यादिसूत्रेण सम्प्रसारणम्। `विघ्नः'इति। `गमहन' (6.4.98) इत्यादिनोपधालोपः, `हो हन्तेः'(7.3.54) इत्यादिना कुत्वम्। `आयुधम्' इति। `युध सम्प्रहारे' (धा.पा.1173)।।
59. उपसर्गेऽदः। (3.3.59)
`अदेर्धातोरप्प्रत्ययो भवति' इति। घञपवादः। इत उत्तरत्रापि हलन्तादब्विधीयमानो घञोऽपवादो वेदितव्यः। `विघसः, प्रघसः' इति। `घञपोश्च' (2.4.38) इति घस्लादेशः। अथ किमर्थमदेरब्विधीयते, न घसेः प्रकृत्यन्तरादेव विधीयते,कः पुनरेवं सति गुणो भवति ? अदेरपि घस्लुभावो न कर्त्तव्यो भवति ? सत्यमेतत्; तथाप्युत्तरार्थमदेर्विहितम्-- `नौ ण च' (3.3.60) इत्यदेर्यथा स्यात्, घसेर्मा भूदिति।।
60. नौ ण च। (3.3.60)
61.व्यधजपोरनुपसर्गे। (3.3.61)
62.स्वनहसोर्वा। (3.3.62)
63. यमः समुपनिविषु च। (3.3.63)
64. नौ गदनदपठस्वनः। (3.3.64)
65. क्वणो वीणायाञ्च। (3.3.65)
`सोपसर्गार्थं वीणाया ग्रहणम्' इति। यदि वीणाविषयेऽप्यनुसर्गादेव स्यात्, वीणाग्रहणमनर्थकं स्यात्। अनुपसर्गात् सामान्येन विधानाद्वीणायामपि प्रत्ययः सिद्धः।।
66. नित्यं पणः परिमाणे। (3.3.66)
`परिमितः'इति। परिमितो मितः परिच्छिन्नः। द्वयोस्त्रयाणां चतुर्णां वा मूलकादिद्रव्याणां यो मुष्टिः = परिमाणविशेषो बध्यते संव्यवहारार्थः स `मूलकपणः' इत्यादिना शब्देनाभिधीयते।।
67. मदोऽनुपसर्गे। (3.3.67)
`विद्यामदः'इति। विद्यया मदः। `कर्त्तुकरणे' (2.1.32) इत्यादिना समासः। `उन्मादः' इति। अत्रापि `कुगतिप्रादयः' (2.2.18) इति `व्यधजपोरनुपसर्गे' (3.3.61) इत्यत्रैव मदिग्रहणे कर्त्तव्ये `मदोऽनुपसर्गे' इति सूत्रप्रणयनमस्य विधेरनित्यत्वाज्ञापनार्थम्, तेन माद इति सिद्धं भवति।।
68. प्रमदसंमदौ हर्षे। (3.3.68)
ननु च `मदः' (3.3.67) इत्यनुवर्त्तते, तत्र प्रसंभ्यामिति वक्तव्यम्, एवमप्यभीष्टं सिध्यत्येव,तत्किं निपात्यते ? इत्यत आह-- `प्रसंभ्याम्' इत्यादि। रूढिशब्देनेह प्रमदसंमदाभ्यामन्यस्याश्रुतत्वादनयोश्च रूढिशब्दत्वादेतादेव विवक्षितताविति गम्यते। अवधारणञ्चेह द्रष्टव्यम्, सावरधारणत्वात् सर्ववाक्यानाम्। तेन रूढ्यर्थं निपातनम्। प्रमदसम्मदशब्दार्थमेवैषोऽर्थः सम्पद्यते। अनेन सूत्रेण `प्रमदसम्मदौ' इत्यनयोरेव रूढिशब्द्योर्व्युत्पत्तिर्यथा स्यान्न शब्दान्तराणामित्यवमर्थं निपातनमिति यावत्। यदि हि मदिग्रहणमनुवर्त्त्य प्रसंभ्यामित्येतावदुच्येत, तर्हि यदापि प्रसंभ्यां समस्ताभ्यामुत्तरो मदिर्भविष्यति तदापि प्रत्ययः स्यात्। तथा यदा प्रसमावन्यस्मादुपसर्गात् परौ भवतः प्रसंभ्यञ्च परो मदिर्भवति तदापि स्यात्। ततश्च प्रसम्मदः, अभिप्रसम्मदः, प्रनिसम्मदः-- इत्येवमाद्यरूढिशब्दार्थमपि सूत्रं स्यात्, न प्रमदसम्मदार्थमेव। निपातने तु सति नियमो विज्ञायते-- प्रत्येकमेवेतौ;न समस्तौ, नाप्यन्योपसर्गसहिताविति। तेन रूढ्यर्थं सूत्रं सम्पद्यते।।
69. समुदोरजः पशुष। (3.3.69)
70. अक्षेषु ग्लहः। (3.3.70)
`ग्रहेरप् सिद्ध एव' इति। `ग्रहवृदृ' (3.3.58) इत्यादिना। यद्येवम्, किमर्थं निपातनमित्याह-- `लत्वार्थम्' इत्यादि।।
71. प्रजने सर्त्तेः। (3.3.71)
72. ह्वः सम्प्रसारणञ्च न्यभ्युपविषु। (3.3.72)
`निहवः'इति। `ह्वेञ् {स्पर्धायां शब्दे च--धा.पा} स्पर्द्धायाम्' (धा.पा.1008)। सम्प्रसारणे कृते गुणावादेशौ। जुहोतेरेव निप्रभृत्युपसर्गपूर्वस्य `निहवः'इत्यादिके रूपचतुष्टये सिद्धे सति ह्वयसेर्निप्रभृतिपूर्वस्य घञ्निवृत्त्यर्थमेवैतद्ववचनम्।।
73. आङि युद्धे। (3.3.73)
`आह्वायः'इति। `आतो युक् चिण्कृतोः' (7.3.33) इति युक्।।
74. निपानमाहावः। (3.3.74)
निपिबन्ति तस्मिन्निति निपानमित्यधिकरणे (3.3.117) ल्युट्। कस्मादाहावशब्द उदकाधारे वर्त्तत इत्याह-- `तत्र हि' इत्यादि। एतेनाहावशब्दस्योदकाधारे प्रवृत्तनिमित्तं दर्शयति।।
75. भावेऽनुपसर्गस्य। (3.3.75)
`भावग्रहणम्' इत्यादि। ननु च यथा `कर्मव्यतिहारे णच् स्त्रियाम्' (3.3.43) इत्यत्र द्वये प्रकृते च लक्ष्यदर्शनवशाद्भाव एव प्रत्ययो विज्ञास्यते, तथेहापि, तत्किं भावग्रहणेन `अकर्त्तरि च कारके' (3.3.19) इत्येतन्निरासार्थेन ? सत्यमेतत्; लक्ष्यदर्शनसामर्थ्यादेव प्राप्त एव एवार्थो भावग्रहणेनाख्यायते मन्दबुद्धीनामनुग्रहाय। अथ यथा `अभिविधौ भाव इनुण्' (3.3.44) इत्यत्र `भावे' इति वर्त्तमाने पुनर्भावगर्हणं वासरूपनिरासार्थं विज्ञायते, तथेहापि कस्मान्न विज्ञायते ? लक्ष्यदर्शनवशात्। दृश्यते हि क्तादयः-- हूतम्, ह्वानम्, हूतिरिति। घ़ञादौ वासरूपेण भावः।।
76. हनश्च वधः। (3.3.76)
`स चान्तोदात्तः' इति। सूत्रे वधशब्दस्यान्तोदात्तस्योच्चारणात्। `तत्र 'इत्यादिनाऽन्तोदात्ते वधादेशे यदिष्टं सिध्यति तद्दर्शयति। अपि कृते `अतो लोपः' (6.4.48) इत्यकारलोपे च `अनुदात्तस्य च यत्रोदात्तलोपः'(6.1.161) इत्यप उदात्तत्वं भवति। `धातः' इति। कर्मादौ कारके घञ्,`हनस्तोऽटिण्णलोः' (7.3.32) इति तत्वम्; `हो हन्तेः' (7.3.54) इत्यादिना कुत्वम्। `चकारो भिन्नक्रमत्वात्' इत्यादि। चकारो नादेशेन सम्बध्यत इति सम्बन्धः।कस्मान्न सम्बध्यते ? भिन्नक्रमत्वात्। यदि `हनो वधश्च' इत्येष चकारस्य क्रमः; आदेशानन्तरमनुच्चारणात्।तस्मात् भिन्नक्रमत्वात् क्रमभेदान्नादेशेन सम्बध्यते।अपि तु प्रकृतेन प्रत्ययेन। एवञ्च प्रकृतेन सम्बन्धं दर्शयितुमाह-- `अप् च' इत्यादि। अप् प्रत्ययो भवति, चकारावृत्तेर्यः प्राप्नोति स च । तेन घञपि भवति।।
77. मूर्त्तौ घनः। (3.3.77)
`अभ्रवनः' इति। षष्ठासमासोऽयम्। अभ्रस्य काठिन्यमित्यर्थः। यदि मूर्त्तावभिधेयायां घनशब्दो व्युत्पाद्यते-- घनं दधीति, मूर्तिमतो दघ्नो नाभिधानं प्राप्नोति, कथं हि नाम मूर्त्तौ व्युत्पादितस्ततोऽन्यत्र वर्त्ततते ? इत्यत आह-- `धर्मशब्देन धर्मी भण्यते' इति। मतुबालोपादभेदोपचारः, यथा-- शुक्लः पटः। शुक्लशब्देन शुक्लगुणः पट इति भावः।।
78. अन्तर्घनो देशे। (3.3.78)
`अन्तर्घनः'इति। अन्तर्हण्यन्ते प्राणिनोऽत्रेत्यधिकरणेऽप्। `तवपि ग्राह्यमेव' इति। उभयथा चाचार्ये शिष्याणां प्रतिपादित्वात्।।
79. अगारैकदेशे प्रघणः प्रघाणश्च। (3.3.79)
80. उद्घनोऽत्याधानम्। (3.3.80)
`अत्याधानम्' इति। अतिशब्द उपरिभावे वर्त्तते। आदधातिः स्थापने। य उपरि निधीयते स्थाप्यते तस्मिन् सः, तदस्याधानम्। अधिकरणे ल्युट्। `उद्घनः' इति। उद्धन्यतेऽस्मिन्नित्यधिकरणेऽप्।।
81. अपघनोऽङ्गम्। (3.3.81)
`अपघनः'इति। अपहन्यतेऽनेनेति करणेऽप्।।
82. करणेऽयोविद्रुषु। (3.3.82)
83. स्तम्बे क च। (3.3.83)
`तत्र च' इति। अनन्तरोक्तेऽपि। `घनादेशः'इति। `मूर्त्तौ घनः' (3.3.77) इत्यतः `घनः' इत्यतस्यानुवृत्तेः। `स्तम्बघ्नः'इति। पूर्ववत् कुत्वोपधालोपौ।।
84. परौ घः। (3.3.84)
`वलिघः' इति। `परेश्च घाङ्कयोः'(8.2.22) इति विभाषा लत्वम्।।
85. उपघ्न आश्रये। (3.3.85)
`आश्रयशब्दः' इत्यादि। आश्रयणमाश्रयः = सेवा। सा च यत्र प्रत्यासत्तिस्तत्र भवतीत्याश्रयः प्रत्यासत्तिसहचरः।तस्मादाश्रयशब्दः सामीप्यं प्रत्यासत्तिमुपलक्षयति; तदर्थस्य प्रत्यासत्तिसाहचर्यात्। `पर्वतोपघ्नः' इति। पर्वतसमीपभूतोऽर्थ उच्यते।।
86. सङ्घोद्वघौ गणप्रशंसयोः। (3.3.86)
`सङ्घोद्घौ' इति। संहननं सङ्घः। उत्कटं हन्यते ज्ञायत इति उद्घः। कर्मण्यप्। कथं पुनर्हन्तिर्ज्ञाने वर्त्तते ? गत्यर्थत्वात्। सर्वेषां गत्यर्थानां धातूनां ज्ञानार्थत्वात्।।
87. निघो निमितम्। (3.3.87)
समन्तान्मितमिति न?निमितशब्दः। सर्वत आरोहतः परिणाहतश्च तुल्यमित्यर्थः। एकमेवार्थं प्रसिद्धतरेण दर्शयितुमाह-- `समारोहपरिणाहौ यस्य तत् तथोक्तम्। आरोहः = उच्छ्रायः। परिणाहः = विस्तारः। `निघा वृक्षाः'इति। निविशेषमं हन्यन्ते ज्ञायन्त इति निघाः। कर्मण्यपि समन्तात् तुल्या इत्यर्थः। एवं ते निर्विशेषं ज्ञायन्ते यदि समन्तादारोहतः परिणाहतश्च तुल्या भवन्ति।।
88. ड्वितः क्त्रिः। (3.3.88)
`उप्त्रिमम्' इति। `वचिस्वपि' (6.1.15) इत्यादिना सम्प्रसारणम्। क्त्रेः ककारो गुणप्रतिषेधार्थः।।
89. ट्वितोऽथुच्। (3.3.89)
`वेपथुः' इति। वेपनम् = वेपथुः। स्वभावत एवैतदुभयं भावे भवतीति घञोऽपवादो विज्ञायते। घञ् तु वासरूपविधिनापि न भवति; अनभिधानात्। अथुचश्चकारः।अथुचश्चकारः स्वराथः।।
90. यजयाचयतविच्छप्रच्छरक्षो नङ्। (3.3.90)
`यज देवपूजादौ' (धा.पा.1002), `टुयाच् याच्ञायाम्' (धा.पा.863), `{यती प्रयत्ने-धा.पा} यत प्रयत्ने'(धा.पा.30), `विच्छ गतौ' (धा.पा.1423), `प्रच्छ ज्ञीप्सायाम्' (धा.पा.1413), `रक्ष {पालने-- धा.पा.}रक्षणे' (धा.पा.658)--अत्र स्वाभाविकत्वाद्याचेरन्येषां नङ्प्रत्ययान्तानां पुंसि वृत्तिरिति तेभ्यो नङ् न घञपवादो भवति। यथादर्शनञ्च वासरूपविधना घञपि भवति- याग इति। याचेस्तु नङन्तसय स्वभावात् स्त्रियां वृत्तिरिति ततो नङ् `गुरोश्च हलः' (3.3.103) इति प्राप्तस्याकारप्रत्ययस्यापवादः। `कृत्यल्युटो बहुलम्' (3.3.113) इति वचनाद्वासरूपविधिर्न भवति। `ङकारो गुणप्रतिषेधः' इति। विच्छेर्लघूपधगुणो मा भूदित्येवमर्थः। ननु चान्तरङ्गत्वात् `छे च' (6.1.73) इति तुकैव विच्छेस्तावद्भवितव्यम्, तत्रालघूपधत्वादेव गुणो न भविष्यति, तत्किं तत्प्रतिषेधार्थो ङकारः कर्त्तव्यः। `अनित्यमागमशासनम्'(व्या.प.99) इत्यस्य चैदेव नङो ङिकरणं ज्ञापकम्। यदा तर्ह्यनित्यत्वात्, तुङ्न, तदा `च्छ्वोः शूडनुनासिके च' (6.4.19) इति सतुक्कस्य च्छकारस्य शादेशो विधीयमानः केवलस्य न प्राप्नोति ? नैष दोषः; यस्मात् `च्छ्वोः'इति द्विच्छकारो निर्देशः। तत्रैकः सतुक्कः, द्वितीयः केवल एव, तेन केवलस्यापि शादेशो भविष्यति। यदि तु द्विच्छकारो निर्देशः `च्छ्वोः' इति द्विवचनं न प्राप्नोति,बहुत्वात् स्थानिनाम् ? सौत्रत्वनान्निर्देशस्य बहुवचनस्य व्यत्ययेन द्विवचनं भविष्यतीत्यदोषः। अवश्यं द्विच्छकारो निर्देशः कर्त्तव्यः; अन्यथा `राल्लोपः' (6.4.21) इत्यत्र केवलस्य लोपो न स्यात्, केवलस्य च्छकारस्याप्रकृत्वात्। वचनं तु वकारलोपार्थमेव स्यात्। `यज्ञः, याच्ञा' इति। `स्तोः श्चुना श्चुः' (8.4.40) इति श्चुत्वेन नकारस्य ञकारः। `यत्नः' इति। `नेड् वशि कृति' (7.2.8) इतीट्प्रतिषेधः। `विश्नः, प्रश्नः' इति। `च्छ्वोः'(6.4.19) इत्यादिना च्छकारस्य शकारादेशः। `रक्ष्णः'इति। `ष्टुना ष्टुः' (8.4.41) इति नकारस्य णकारः। अथ प्रच्छेः ग्रहिज्यादिसूत्रेण (6.1.16) सम्प्रसारणं `प्रश्नः' इत्यत्र कस्मान्न भवतीत्यत आह-- `प्रच्छेः' इत्यादि। किं ज्ञापकमित्याह-- `प्रश्ने च' इत्यादि।।
91.स्वपो नन्। (3.3.91)
92. उपसर्गे घोः किः। (3.3.92)
`किप्रत्ययो भवति' इति। घञोऽपवादः। `कित्करणे लोपार्थम्' इति। `आतो लोप इटि च' (6.4.64) इत्याकारलोपो यथा स्यादिति।।
93. कर्मण्यधिकरणे च। (3.3.93)
कर्माधिकरणयोः सप्तम्या भेदेन निर्देशान्नोभयोरुपपदत्वम्, नापि प्रत्ययार्थत्वम्, तस्मात् किञ्चित् तत्रोपपदम्, किञ्चित्प्रत्ययार्थः। कर्म उपपदम्, अधिकरणं प्रत्ययार्थः। एष तु विभागो व्याख्यानास्लक्ष्यदर्शनाच्च विज्ञात इत्याह--`कर्मण्युपपदे इत्यादि। अथाधिकरणग्रहणं किमर्थम्, यावता `अकर्त्तरि च कारके' (3.3.19) इत्यस्यानुवृत्तेरेवाधिकरणे प्रत्ययो लभ्यते ? इत्याह-- `अधिकरणग्रहणम्' इत्यादि। असति ह्यधिकरणग्रहणेरऽर्थान्तरेऽपि भावे करणादौ कारके प्रकृतप्रत्ययः स्यात्, तस्मात् तन्निवृत्त्यर्थमधिकरणग्रहणम्।।
94. स्त्रियां क्तिन्। (3.3.94)
`भावादौ' इति। आदिशब्देनाकर्त्तुः कारकस्योपादानम्। `घञजपामपवादः' इति। य इकारान्तास्तेभ्योऽचोऽपवादः, य ऋकारान्ता उवर्णान्ताश्च, तेभ्योऽपः, शेषेभ्यो घञः।
वक्तव्य इति। व्याख्येय इत्यर्थः। व्याख्यानं तु `कृत्यल्युटो बहुलम्' (3.3.113) इत्येतदाश्रित्य कर्त्तव्यम्। `आप्तिः' इत्यादि। `आप्लृ व्याप्तौ' (धा.पा.1260), `राध साध संसिद्धौ' (धा.पा.1262), `दीपी दीप्तौ' (धा.पा.1150), `स्रन्सु ध्वन्सु अवस्रंसने' (धा.पा. 754,755) `डुलभष् प्राप्तौ' (धा.पा.975)। लभेति षित्त्वात् `षिद्भिदादिभ्योऽङ' (3.3.104) इत्यङि प्राप्ते शेषेभ्यस्तु गुरुत्वात् `गुरोश्च हलः'(3.3.103) इत्यकारे क्तिन विधीयते। `इष्टिः' इति। वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्।`कीर्णिः,गीर्णिः, शीर्णिः' इति। `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, रषादिसूत्रेण (8.4.1) णत्वम्। यथा `रदाभ्याम्' (8.2.42) इत्यादिना कीर्ण इति निष्टायास्तकारस्य नत्वं भवति, तथेहापि क्तिनः। यथा `ल्वादिभ्यः'(8.2.44) इति लून इत्यत्र निष्ठातकारस्य नत्वं तथा `लूनिः, यूनिः'इत्यात्रापि क्तिनः।।
95. स्थागापापची भावे। (3.3.95)
`अङोऽपवादस्य बाधकः' इति। स्थादिभ्यः `आतश्चोपसर्गे'(3.3.106) इति प्राप्तस्याङोऽपवादस्य बाधक इत्यर्थः। `पक्तिः' इति। `षिद्भिदादिभ्योऽङ' (3.3.104) इत्यस्य । `प्रस्थितिः' इति। `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वम्। `सङ्गीतिः'इति। धुमास्यादि (6.4.66) सूत्रेणेत्त्वम्। अत्र च `गामादाग्रहणेष्वविशेषः' (व्या.प.124) इति `गै शब्दे'(धा.पा.917) `गाङ गतौ' (धा.पा.950) इति द्वयोरपि ग्रहणम्। `पा'इति। पूर्ववत् पानार्थस्य ग्रहणम्, न रक्षणार्थस्य । `भावग्रहणम्' इत्यादि। अर्थान्तरम् = कर्त्तृवर्जितं कराकम्, तन्निवृत्यर्थं भावग्रहणम्।
`कथम्' इत्यादि। यद्यङोऽपवादस्यापवादोऽयं क्तिन्प्रत्ययस्तत् कथं `अवस्था संस्था' इति सिध्यति ? न कथञ्चिदित्यभिप्रायः। `व्यवस्थायाम्' इत्यादि। यदिदं व्यवस्थाशब्दस्याङन्तस्य सूत्र उच्चारणमेतदेव ज्ञापकम्, अतः क्तिनात्यन्तबाधा न भवतीति, तेनावस्थेत्याद्यपि सिध्यति। `अत्यन्ताय' इति। चतुर्भ्यन्तप्रतिरूपको निपातोऽयम् यथा- चिरायेति।।
96. मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। (3.3.96)
`वृषु मृषु सेचने' (धा.पा.706,707), `{इष--धा.पा.} इषु इच्छायाम्'} (धा.पा.1351), `डुपचष् पाके' (धा.पा.996), `मन ज्ञाने' (धा.पा.1176), `विद ज्ञाने' (धा.पा.1064),`भू सत्तायाम्' (धा.पा.1), `वी गतिव्याप्तिप्रजनादिषु' (धा.पा.1048), `रा {दाने -धा.पा.} आदाने' (धा.पा.1057)। `प्रकृतिप्रत्ययोः' इति। प्रकृतिसामान्यविवक्षायां द्विवचनम्, अन्यथा हि बहुत्वात् प्रकृतीनां बहुवचनं स्यात्। `विभक्तिविपरिणामेन सम्बन्धः' इति। वृषादिभ्यो या प्रथमा तस्या अर्थात् पञ्चमीपरिणामः। तेन प्रकृतिप्रत्ययोः सम्बन्धः; अन्यथा सम्बन्धानुपपत्तेः। `मतिः' इति। `अनुदात्तोपदेश' (6.4.37) इत्यादिनाऽनुनासिकलोपः।
`सर्वत्र' इत्यादि। मन्त्रे च, अमन्त्रे च -- सर्वत्र वृषादिभ्यः किन्विहितः। पचेरपि स्थागादि (3.3.95) सूत्रेण। यद्येवम् किमर्थमिदमित्याह-- `उदात्तार्थम्' इति। `इषेस्तु' इत्यादि। इषेरिच्छेति निपातनं वक्ष्यति; तस्मात् क्तिन्विधीयते, अन्यथा निपातनेनैवास्य स्यात्। वृषादिभ्यः क्तिन्प्रत्यय एव विधातव्यः। उदात्तवचनमुत्तरार्थम्। `व्रजयजोर्भावे क्यप्' (3.3.98) इति क्यबुदात्तो यथा स्यात्।।
97. ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च। (3.3.97)
`स्वरार्थं वचनम्' इति। न तु प्रत्ययार्थम्। `स्त्रियां क्तिन्' (3.3.94) इत्येव सिद्धत्वात्। नाप्यूडर्थम्; `ज्वरत्वर' (6.4.20) इत्यादिनैव सिद्धत्वात्। `यौतेः'इति। `यु {मिश्रणेऽमिश्रणे च-धा.पा} मिश्रणे (धा.पा.1033) इत्यस्य। `जवतेश्च' इति। `जु' इत्यस्य सौत्रस्य (3.2.150) धातोः। `दीर्घत्वञ्च' इति। चकारादुदात्तत्वञ्च। क्तिन् सामान्यलक्षणेनैव सिद्धः। `ल्यतेः' इति। `षोऽन्तकर्मणि' (धा.पा.1147) इत्यस्य । `इत्त्वाभावोऽपि निपात्यते' इति। `द्यतिस्यति' (7.4.40) इत्यादिनेत्त्वं प्राप्नोति, ततस्तस्याभावो निपात्यते। `सनोतेर्वा' इति। `षणु दाने' (धा.पा.1464) इत्यस्य। `जनसनखनाम्' (6.4.42) इत्यात्त्वे कृते सातिरिति सिध्यतीति शेष-। यद्येवम्, किमर्थं निपातनमित्याह-- `स्वराऱ्थम' इत्यादि। असति हि निपातने सातिश्शब्द आद्युदात्तः स्यात्। अन्तोदात्तो यथा स्यादित्येवमर्थ निपातनम्। `हन्तेर्हितनोतेर्वा' इति। हेतिरिति यदा हन्तेः, तदा हकारस्यैत्त्वं निपात्यते, अनुनासिकलोपस्तु `अनुदात्तोपदेश' (6.4.37) इत्यादिनैव सिद्धः। यदा तु `हि {गतौ बुद्धौ च-धा.पा} (धा.पा.157) इत्स्य, तदा गुणो निपात्यते। `कीर्त्तिः'इति। `कृतं संशब्दने' (धा.पा.1653) इत्यस्माच्चुरादिणिजन्तात् `ण्यासश्रन्थो युच्' (3.3.107) इति युचि प्राप्ते क्तिन्निपात्यते। `उपधायाश्च' (7.1.101) इतीत्त्वम् भवति, `हलि च' (8.2.77) इति दीर्घत्वम्।।
98. व्रजयजोर्भावे क्यप्। (3.3.98)
`इज्या' इति। वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। यद्युदात्तं विधीयते पित्करणं किमर्थमित्याह-- `पित्करणमुत्तरत्र' इत्यादि।।
99. संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः। (3.3.99)
`भाव इति न स्वर्यते' इत्यादि। स्थागादिसूत्रे (3.3.95) यद्भावग्रहणं कृतं तस्यैव स्वरितत्वं न क्रियते। `भावे' (3.3.18) `अकर्त्तरि च कारके संज्ञायाम्' (3.3.19) इत्येष एवाधिकारः। `समज्या' इति। `अजेर्व्यघञपोः'(2.4.56) इति वीभावो न भवति; संज्ञायामिति वचनात्। न हि वीभावे कृते संज्ञा गम्यते, नियतवर्णानुपूर्वीका हि संज्ञा भवति। `निपत्या' इति। निपतन्ति तस्यामिति। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.854)। निषीदन्ती तस्यामिति। `निपत्या' इति। निपतन्ति तस्यामिति। `मत्या' इति। मन्यन्ते तयेति मत्या। पूर्ववदनुनासिकलोपः, ह्रस्वस्य तुक्। विदन्ति तया विद्या। सुन्वन्ति तस्यां सुत्या। शेरते तस्यां शय्या। `अयङ यि क्ङिति'(7.4.22) इत्ययङादेशः। भरणं भृत्या। एति तयेत्या = अयनमिति।
`भृञोऽसंज्ञायाम्' (3.1.112) इत्यत्र---
`संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति।"
स्त्रियां भावाधिकरोऽस्ति तेन भार्या प्रसिध्यति।।
इत्युक्तम्, इह `भाव इति न स्वर्यते' (का.3.3.98) इत्यभिहितम्, अतः पूर्वोत्ततरवचनं व्याहतमिति मन्यमान आह-- `कथम्' इत्यादि। यदीह `भावे' (3.3.18) इति न स्वर्यते तत्कथं `स्त्रियां भावाधिकारोऽस्ति' इत्युक्तम्, न हि `भावे' इत्यस्वर्यमाणे भावाधिकारस्येहास्तित्वमुपपद्यते ? `भावाधिकारो भाव्यव्यापारः'इत्यादि परिहारः। भावाधिकारशब्देन तत्र व्यापारो वाच्यत्वेन विवक्षितः। स पुनर्भृत्याशब्दाभिधेयभावोपगमनलक्षमः। अत एवैतदुक्तं भवति-- `संज्ञायां समजनिषद' इत्यादिना व्युत्पादितस्य भृत्याशब्दस्य भाव एवाभिधेयमुपयाति, न तु कर्त्तृवर्जितं कारकम्। तेन कर्मणि कारके भार्येति सिध्यीति। न तु शास्त्रीयोऽधिकारोऽयं स्वरितत्वासङ्गात् प्रियोगमुपतिष्ठते, स तत्र भावशब्देन विवक्षितो मा भूत्। समजन्ति तस्यां समज्या, निषीदन्ति तस्यां निषद्या, विदन्त्यनया विद्येत्येवमादीनां कारके करणादिके करणादसाधुत्वमिति न।
कथं पुनः `भावेऽकर्त्तरि च कारके' (3.3.18,19) सर्वस्मिन्ननुवर्त्तमाने क्वचिद्भावः क्यबन्तस्याभिधेयभावमुपयाति ? क्वचिदकर्त्तृकारकमेवेत्येष नियमो लभ्यते ? संज्ञावशात्। यत्रोत्पद्यमानेन प्रत्ययेन संज्ञा गम्यते तत्र भाव एवाभिधेयत्वं प्रतिपद्यते, इतरदुदास्ते। यत्र त्वकर्त्तरि कारके प्रत्ययेनोत्पन्नेन संज्ञा गम्यते तत्र तदभिधेयतामुपयाति, भावस्त्वौदासीन्यमवलम्बते। `अकर्त्तरि च कारके संज्ञायाम्'(3.3.19) इति संज्ञाग्रहणेऽनुवर्त्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणमकर्त्तृकारकेण सम्बद्धमिति। ततः कर्त्तृवर्जित एव कारके संज्ञायां स्यात्, न भावे। तस्माद्भावेऽपि संज्ञायामेव यथा स्यादित्येवमर्थं पुनः संज्ञाग्रहणम्। अथ कथं भृतिः, मतिः, आसुतिरिति ? निपातनात्। किं पुनर्निपातनम् ? `कर्मणि भृतौ' (3.2.22), `मतिबुद्धिपूजार्थेभ्यश्च' (3.2.188) `रजःकृष्यासुतिपरिषदो वलच्' (5.2.112) िति।।
100. कृञः श च। (3.3.100)
`योगविभागोऽत्र कर्त्तव्यः' इति। कृञः क्यबिति भवति, ततः शश्च, यथाप्राप्तञ्चेति, तेन त्रीणि रूपाणि सिध्यन्ति। तत्र `कृञः'इति योगेन कृत्येत्येतद्रूपं सिध्यति, `श च' इत्यनेन क्रिया कृतिरिति चेत्येतद्रूपद्वयं क्रियत इति। यदा भावे शब्दस्तदा `सार्वधातुके यक्' (3.1.67), `रिङ् शयग्लिङक्षु' (7.4.24) इति रिङादेशः। यदा त्वकर्त्तरि कारके तदा यगभावाच्छ एव प्रत्यये परतो धातोरिङादेशे कृते `अचि श्नुधातु' (6.4.77) इत्यादिना तस्येयङ्। शकारः सार्वधातुकार्थः।।
101. इच्छा। (3.3.101)
इषर्भावे शप्रत्ययो भवति; अभिधानशक्तिस्वाभाव्यात्, न कारके। `यगभावश्च' इति। `सार्वधातुके यक्' (3.1.67) इति यक् स्यात्, अतस्तदभावो निपात्यते। `इच्छा' इति। `इषुगमि' (7.3.77) इत्यादिना छत्वम्।
`परिचर्या' इत्यादि। `चर गत्यर्थः' (धा.पा.559), `सृ गतौ' (धा.पा.965), `मृग अन्वेषणे' (धा.पा.1900) चुरादावदन्तः, `अट पट गतौ' (धा.पा.295,296)--एभ्यो भावे शः, पूर्ववद्यक्, सर्त्तेर्गुणः। मृगयतेरकारलोपाभावः, `णेरनिटि' (6.4.51) इति णिलोपः। `अटाट्या' इति। अटतेर्द्विवचनात्त्वञ्चाभ्यासस्य।
`जागर्त्तेरकारो वा' इति। यदा शस्तदा `सार्वधातुके यक्' (3.1.67), `जाग्रोऽविचिण्णल्ङित्सु' (7.3.85) इति गुणः। `जागरा' इति यदा त्वकारः।।
102. अ प्रत्ययात्। (3.3.102)
`धातोः' (3.1.91) इत्यधिकारात् प्रत्ययग्रहणं धातोर्विशेषणं विज्ञायत इत्याह-- `प्रत्ययान्तेभ्यो धातुभ्यः' इति। `चिकीर्षा' इति। चिकीर्षशब्दात् सन्नन्तादप्र्त्ययः। `पुत्रीया' इति। `सुप आत्मनः क्यच्' (3.1.8), `क्यचि च' (7.4.33) इतीत्त्वम्। `पुत्रकाम्या' इति। `काम्यच्च' (3.1.9) इति काम्यच्। `लोलूया' इति। `धातोरेकाचो हलादेः'(3.1.22) इति यङ।।
103. गुरोश्च हलः। (3.3.103)
`धातोः (3.1.91) इत्यधिकाराद्गुरुग्रहणं हल्ग्रहणं च तस्यैव विशेषणं विज्ञायत इत्याह-- `गुरुमान् हलन्तो यो धातुः' इत्यादि। कथं पुनर्गुरोरित्युच्यमाने गुरुमान् धातुर्लभ्यते ? सामर्थ्यात्। न हि हलन्तस्य धातोः कस्यचिद्गुरुसंज्ञा विहिता, उच्यते चेदं गुरोरिति, तत्र सामर्थ्याद्गुरुमान् धातुर्गुरुसंज्ञाकेनाभेदोपचारं कृत्वा गुरुशब्देनोक्त इति गम्यते। इष्यते ह्यभेदोपचाराद्विनापि मतुपा तद्वतोरभिधाम्-- यथा-- शुक्लः पट इति। अथ रुधादिभ्य एव यथा स्यात्, कुडिप्रभृतीभ्यो मा भूदित्येवमर्थो विपर्ययः कस्मान्न विज्ञायते `गुर्वन्तो यो धातुर्हल्वान्' इति ? ज्ञापकात्, यदयं `गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि' (2.3.12) इत्यप्रत्ययान्तस्य चेष्टाशब्दस्य `शकि शङ्गायाम्' (धा.पा.86) इति च शङ्काशब्दस्य निर्देशं करोति, ततो ज्ञायते-- नात्र विपर्यय इति। विपर्यये हि न हि चेष्टेति गुर्वन्तः, नापि शङ्केति। `कुण्डा' इत्यादि। `कुडि दाहे' (धा.पा.270), `हुडि सङ्घाते' (धा.पा.269), `ईह चेष्टायाम्' (धा.पा.632) `ऊह वितर्के' (धा.पा.648)-- इत्येषां रूपाणि।।
104. षिद्भिदादिभ्योऽङ्। (3.3.104)
`गणपरिपठितेषु'इत्यादि। भिदादयोऽङन्ता एव गणे पठ्यन्ते, तेभ्योयदि पुनरिहाङ विहितः प्रातिपदिकेभ्यो विहितः स्यात्, तच्चायुक्तें स्यात्, धात्वधिकारात्,तस्माते तेषु याः प्रकृतयोऽवयवभूतास्ता निष्कृष्य पृथक्कृत्वा `षिद्भिदादिभ्योऽङ्' इति भिदादिग्रहणेन निर्दिश्यन्ते। ताः पुनः `भिदिर् विदारणे' (धा.पा.1439), `छिदिर् द्वैधीकरणे' (धा.पा.1440), `विद ज्ञाने' (धा.पा.1064), `क्षिप प्रेरणे' (धा.पा.1285), `गुहू संवरणे' (धा.पा.896), `डुधाञ् धारणपोषणयोः' (धा.पा.1092), `{मिदृ मेधाहिंसनयोः'-धा.पा.}{मेदृ सङ्गमे च.धा.पा.} मेधृ हिंसासंक्लेशनयोः'(धा.पा.868,869), `ऋ गतौ' (धा.पा.1098), `हृञ् हरणे' (धा.पा.899) `हुकृञ् करणे' (धा.पा.1472), `क्षि क्षये'(धा.पा.236), अथवा `क्षि निवासगत्योः' (धा.पा.1407), `तृ प्लवनतरणयोः' (धा.पा.969), `घृञ् धारणे' (900), `लिख अक्षरविन्यासे' (धा.पा.1365), `चुद {सञ्चोदने-धा.पा.}समुच्छ्रये(धा.पा.1592), `पीड अवगाहने' (धा.पा.1544), `डुवप {बीजतन्तुसन्ताने, छेदनेऽपिृधा.पा.} बीजतन्तुसन्ताने' (धा.पा.1003), `वस निवासे' (धा.पा.1942), `{मृजू-धा.पा.}मृजूष् शुद्धौ' (धा.पा.1066),`क्रप {कृपायां गतौ च-धा.पा.} (धा.पा.771) इत्येते वेदितव्याः। यदि तर्हि प्रकृतयो निर्दिश्यन्ते भिदादीनां गणे पाठोऽनर्थकः ? अथ पाठः क्रियते प्रत्ययविधानमनर्थकम् ? गणे पाठस्तावन्नानर्थकः; प्रसिद्ध्युपसंग्रहार्थत्वात्। प्रसिद्ध्युसंग्रहस्तु यत्र भिदादयः समुदायाः प्रसिद्धास्तत्रैवैषां साधुत्वं यथा स्यात्, अन्यत्र मा भूदित्येवमर्थः। तेन यदुक्तं भाष्ये `भिदा विदारणे' (ग.सू.29) इत्येवमादि, तदुपपन्नं भवति। न च प्रत्ययविधानमनर्थकम्; असन्देहार्थत्वात्। असति हि तस्मिन् सन्देहः स्यात--किमेषु `इगुपधज्ञाप्रीकिरः कः' (3.1.135) इत्येवमादिना लक्षणान्तरेण कप्रभृतादयः प्रत्यया विहिताः ? उताङ्प्रत्यय एव ? इति। ततर् पूर्वस्मिन् पक्षे स्त्रीत्वविवक्षायां क्तिन् प्रसज्यते, कस्मात् ? असन्देहार्थत्वात्। अतः प्रत्ययविधानं नानर्थकम्।
`आरा' इति. `ऋदृशोऽङि गुणः' (7.4.16)। `गुहा गिर्य्योषध्योः'इति। गुहाशब्दो गिर्य्योषध्योरेव साधुर्भवति, नान्यत्र। गिरिशब्दश्चात्र `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते' (व्या.पा.सू.85) इत्येकदेशे वर्त्तते। गुहेति गिरेः कश्चिदेवैकदेश उच्यते। गुहा नामौषधिः। अन्यत्र गुहेः क्तिन् भवति-- गूढिरिति। `हो ढः' (8.2.31), `झतस्तथोर्घोऽघः' (8.2.40), `ष्टुना ष्टुः' (8.4.41) `ढो ढे लोपः' (8.3.13), `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111)। `हारा, कारा, धारा'इति। गुणे कृते दीर्घत्वं निपात्यते। `लेखा, रेखा' इति। लिखेर्गुणो निपात्यते। पक्षे लकारसय् रेफश्चादेशः। `चूडा' इति। चोदयतेर्डत्वादेशो निपात्यते, उपधाया दीर्घश्च। `आरा शस्त्र्याम्'इति। आराशब्दः शस्त्र्यां साधुर्भवति, अत्रापि गुणे कृते दीर्घत्वं निपात्यते। `आर्त्तिरन्या' इति। अर्त्तेराङपूर्वस्य क्तिन्। `उपसर्गादृति धातौ' (6.1.91) इत्येकादेशः, रपरत्वम्। `धारा प्रपाते' इति। यत्र प्रपातनं तत्र धारेति, यथा-- जलधारा, क्षीरधारेति।।
105. चिन्तिपूजिकथिकुम्बचर्चश्च। (3.3.105)
`चुरादिः'इति। एतत् `चिति स्मृत्याम्' (धा.पा.1535) इत्यादिभिः प्रत्येकमभिसम्बध्यते। `युचि प्राप्ते' इति। `ण्याससश्रन्थो युच्' (3.3.107) इत्यनेन। यस्तु भ्वादौ कुम्बिः पठ्यते ततो `गुरोश्च हलः' (3.3.103) इत्यकारेण भवितव्यम्। न च कुम्बेरकारेऽङि वा सति कश्चिद्विशेषोऽस्तीति नासाविह ग्रहणं प्रयोजयति।।
106. आतश्चोपसर्गे। (3.3.106)
`श्रदन्तरोः'इत्यादि। उपसर्गे इवोपसर्गवत्। यादृश्युपसर्गे वृत्तिः प्रत्ययोत्पत्तिलक्षणा, तादृश्येव तयोरपि भवति। तेन यथा प्रधा, उपधेत्युपसर्गे भवति, तथा श्रदन्तरोरपि श्रद्धा, अन्तर्धेति। न चेयं वृत्तिरुपसंख्यानसाध्या; यतः श्रद्धाशब्दस्तारकादिषु च पाठात् साधुत्वमनुभवति। अन्तर्धाशब्दोऽपि ज्ञापकात्, यदयं `अन्तर्धौयेनादर्शनमिच्छति' (1.4.28) इत्यन्तर्धिशब्दस्य किप्रत्ययान्तस्य निर्देशं करोति, तततो ज्ञायते-- भवत्यन्तःशब्द उपसर्गकार्यस्य निमित्तमिति; अन्यथा हि तस्मिन्नुपपदे `उपसर्गे घोः किः' (3.3.92) इति किप्रत्ययो न स्यात्, ततश्च `अन्तर्धौ' इति निर्देशो नोपपद्यते।।
107. ण्यासश्रन्थो युच्। (3.3.107)
`अकारस्यापवादः' इति। `अ प्रत्ययात्' (3.3.102), `गुरोश्च हलः' (3.3.103) इति द्वाभ्यां यथायोगं प्राप्तस्य।
`कथमास्या' इति। न कथञ्चित्। अः स्यादासेः, अनेन सूत्रेण युज्वा भविष्यति, नान्य इति भावः। `ऋहलोर्ण्यत्' (3.1.124) इत्यादि परिहारः। ननु च वासरूपविधिना ण्यत्प्रत्ययः स्यात्, स च वासरूपविधिः स्त्रियां न भवति, `अस्त्रियाम्' (3.1.94) इति प्रतिषेधात्, तत् किमुच्यते-- `ऋहलोर्ण्यत्' (3.1.124) इति ण्यद्भविष्य(ती)ति ? इत्यत आह-- `वासरूप' इत्यादि। एध चार्थस्तत्रैव प्रतिपादितः।
`उपसंख्यानम्' इति। प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्--- वक्ष्यमाणं बहुलग्रहणमुभयोरपि योगयोः शेषः, तेन घट्टिप्रभृतिभ्यो भविष्यीति। `वक्तव्यः'इति। व्याख्येय इत्यर्थः। व्याख्यानं तदेव बहुलग्रहणमाश्रित्य कर्त्तव्यम्। `अन्वेषणा' इति। `इष गतौ' (धा.पा.1127), `इष आभीक्ष्ण्ये' ( ? ) इति वा।।
108. रोगाख्यायां ण्वुल्बहुलम्। (3.3.108)
`क्तिन्नादीनामपवादः' इति। आदिशब्देनाङादीनाम्।`आख्याग्रहणम्' इत्यादि। यदि प्रत्ययान्तं रोगस्य नाम भवत्येवं प्रत्ययो भवति। नान्यथेत्यस्यास्य संवाद्नायाख्याग्रहणम्। ते पदान्तरवाच्ये रोगे न भवति-- बुभुक्षा भस्मकेनेति। `बहुलग्रहणम्' इत्यादि। रोगाख्याया रोगाख्याया अन्यत्रापि ण्वुलो विधानं व्यभिचारः; तदर्थं बहुलग्रहणम्। तेन धात्वर्थनिर्देशेऽपि सिद्धो भवति।
अपरोऽर्थः रोगाख्याया विषयाण्ण्वुलो विधेर्योऽन्यत्राप्यस्य लक्षणस्य विषये वृत्तिर्व्यभिचारः सः, तदर्थं बहुलग्रहणम्। तेन `इक्श्तिपौ धातुनिर्दशे'(वा.319) इत्येवमादि सर्वं संगृहीतं भवति। `प्रच्छर्दिका' इति। `छर्द वमने'(धा.1589) चुरादिः। `प्रवाहिका'इति। `वह प्रापणे'(धा.पा.1004)। `प्रचर्चिका' इति। `चर्च अध्ययने' (धा.पा.1712) चुरादिः। अत्र वहेः क्तिनि प्राप्ते ण्वुल्,इतरयोस्तु युचि। `शिरोऽस्तिः' इति। `अर्द हिंसायाम्' (धा.पा.1828), `अर्द {गतौ याचने च' -धा.पा.} गतौ' (धा.पा.55) इति वा। `खरि च' (8.4.55) इति चर्त्वम्। शिरसा सह षष्ठीसमासः, `ससजुषो रुः'(8.2.66), `अतो रोरप्लुतादप्लुते' (6.1.113) इत्युत्त्वम्, `आद्गुणः' (6.1.87), `एङः पदान्तादति' (6.1.109) इत्येते विधयः कर्त्तव्याः।
`इक्श्तिपौ'इति। ककारः कित्कार्यार्थः, तेन पचतिरिति सार्वधातुकनिबन्धनः शब्भवति। ननु च कर्त्तृवाचिनि सार्वधातुके शब्विधीयते; न चात्र कर्त्ता प्रत्ययार्थः;तत्कुतः शपः सम्भवः ? सार्वधातुकसंज्ञार्थशित्करणसामार्थ्यादकर्त्तृवाचिन्यपि सार्वधातुके शब्भविष्यति;अन्यथा हि शित्करणमनर्थकं स्यात्। यद्येवम्, यगपि स्यात् ? अनभिधानान्न भविष्यति।
`वर्णात्कारः' इति। वर्णादित्युच्यते, तत्रैवकार इति न सिध्यति ? बहुलग्रहणसन्निधौ वचनात् क्वचिदवर्णादपि भविष्यतीत्यदोषः। अथ वा करणं कारः, एवस्य कारइति षष्ठीसमासोऽयम्।
`मत्वर्थाच्छः' इति। अत्राकारलोपश्च वक्तव्यः। अभसंज्ञत्वद्धि न प्राप्नोति। बहुलग्रहणाद्वाकारलोपो भविष्यति। `इणजादिभ्यः' (इति)। `इक् कृष्यादिभ्यः' इति। अधातुनिर्देशार्थमेतत्। आज्यादयः शब्दाः संज्ञाशब्दा द्रष्टव्याः।।
109. संज्ञायाम्। (3.3.109)
`उद्दालकपुष्पभञ्जिका' इति। `नित्यं क्रीडाजीविकयोः' (2.2.17) इति षष्ठीसमासः। षष्ठी पुनरत्र `कर्त्तृकर्मणोः कृति' (2.3.65) इति कृद्योगलक्षणा।।
110. विभाषाख्यानपरिप्रश्नयोरिञ् च। (3.3.110)
इह सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात् परिप्रश्नस्य; वृत्तौ तु `परिप्रश्ने चाख्याने च गम्यमाने'इति पूर्व परिप्रश्नसोयपन्यासः,पश्चादाख्यानस्य; तत्र यश्चोदयेत्--किं कारणमेवं वृत्तौ विपर्ययः कृतः ? इति, तं प्रत्याह-- `पूर्वं परिप्रश्नः'इत्यादि। परिप्रश्नपूर्वकं व्याख्यानं भवति, अतो वृत्तौ पूर्वं परिप्रश्नस्य तदुदाहरणस्य चोपन्यासः कृतः, पश्चादाख्यानस्य। क्रमव्यतिक्रमे प्रयोजनाभावादित्याभिप्रायः। सूत्रे तर्हि कस्मात् पूर्वं परिप्रश्नो न निर्दिष्टः, पश्चादाख्यानमित्याह-- `सूत्रे' इत्यादि। `अल्पाच्तरम्' (2.2.34) इति सूत्रेण द्वन्द्वे पदानां क्रमस्य नियत्वादल्पाच्तरस्याख्यानशब्दस्य सूत्रे पूर्वनिपातः कृत इति दर्शयति। `कां कारिम्'इति। इञ्। `कां कारिकाम्' इति। ण्वुल् । `कां क्रियाम्' इति। `कृञः श च' (3.3.100) इति शः। `कां कृत्याम्' इति। तत्र चकारात् क्यप्। `कां कृतिम्' इति। योगविभगात् क्तिन् कृतः। `कां गणिम्' इति। इञ्। `गण संख्याने' (धा.पा.1853) चुरादावदन्तः पठ्यते। `कां गणिकाम्' इति। ण्वुल्। `गणनाम्'इति। युच्। एवम्--`कां पाचिम्' इत्यादि। `कां पाचिमकार्षीः', `कां पाचिकाम्' , `कां पचाम्'। `कां याजिम्' , `कां याजिकाम्' इत्यादि, कामिष्टिम्। `कां पाठिम्' , `कां पाठिकाम्' `कां पठितिम्' इति।।
111. पर्यायार्हणोत्पत्तिषु ण्वुच्। (3.3.111)
`क्तिन्नादीनामपवादः'इति। आदिशब्देनाकारादीनाम्। `अग्रगामिका' इति। अग्रस्य गामिका। कृद्योगलक्षणायाः कर्मणि षष्ठ्याः समासः। `स्वरार्थम्' इति। अन्तोदात्तत्वं यथा स्यादित्येवमर्थम्। ण्वुलि हि सति प्रत्ययात् पूर्वमुदात्तः स्यात्।।
112. आक्रोशे नञ्यनिः। (3.3.112)
113. कृत्युल्युटो बहुलम्। (3.3.113)
`यत्र विहितास्ततोऽन्यत्रापि भवन्ति' इति। यद्येवम्, `तयोरेव कृत्यक्तखलर्थाः' (3.4.70) इत्येवमादेरर्थनिर्देशस्यानर्थकत्वं जायते ? नैतदस्ति; योगतो हि कृत्यादयो भावादिष्वर्थेष्विष्यन्ते, कारकान्तरे त्वल्पः। सा च तथा तेषां वृत्तिरनर्थनिर्देशे सति सिध्यतीति कुतस्तस्यानर्थक्यम् ! `स्नानीयम्' इति। करणे कृत्यः। `दानीयः'इति। दीयते तस्मै इति सम्प्रदाने। `अपसेचनम्' इति। अपसिच्यते तदिति कर्मणि ल्युट्। `अवस्रावणम्' इति। `अवस्राव्यते तदिति `सृ गतौ' (धा.पा.935) इत्यस्माण्ण्यन्तात् कर्मणि ल्युट्। भुज्यतइति `भोजनाः'। आच्छाद्यन्त इति `आच्छादनानि' । कर्मण्येव ल्युट्। राज्ञो भोजना राज्ञ आच्छादनानीति षष्ठीसमासः। `प्रस्कन्दनम्, प्रपतनम्'इति। प्रस्कन्दति, प्रपतत्यस्मादित्यपादाने ल्युट्।
अथ बहुलग्रहणं किमर्थम् ? यावता सूत्रारम्भसामर्थ्यादेव कृत्युल्युटो यत्र विहिता स्ततोऽन्यत्रापि प्रायेण भवन्तीत्येषोऽर्थो विज्ञायत एवेत्यत आह-- `बहुलग्रहणात्' इत्यादि। एतेनान्येऽपि कृतो यत्र विहितास्ततोऽन्यत्राप्यभिधेय इष्यन्ते, तच्च बहुलग्रहणात् सिध्यति। अतो बहुलग्रहणं कृतमिति सूचयति। `पादहारकः'इति। कर्त्तरि ण्वुल् विहितो बहुलग्रहणादिह कर्मणि भवति।।
114. नपुंसके भावे क्तः। (3.3.114)
`तयोरेव कृत्यक्तखलर्थाः ' (3.4.70) इति भावे क्तः सिद्धः। नपुंसके भावेऽपि क्तोऽयं विशेषविहितेन ल्युटा बाध्यत इति योगरम्भः।।
115. ल्युट् च। (3.3.115)
`योगविभाग उत्तरार्थः'इति। उत्तरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूत्।।
116. कर्मणि चयेन संस्पर्शात्कर्त्तुः शरीरसुखम्। (3.3.116)
`नित्यसमासार्थं वचनम्' इति। नित्यः समासोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। कथं पुनरेतद्वचनं नित्यसमासार्थं भवतीत्याह-- `उपपदसमासो हि नित्यसमासः' इति। अनेन हि सूत्रेण कर्मण्युपपदे प्रत्ययो विधीयत इति, `उपपदमतिङ्'(2.2.19) इत्युपपदसमासो भविष्यति, स च नित्यः;तद्विधौ `नित्यं क्रीडाजीविकयोः'(2.2.17) इत्यतो नित्यगर्हणानुवृत्तेः। `पयः पानं सुखम्' इति। कथं पुनरेतदस्योदाहरणं भवति ? यावता नात्र संस्पर्शात् सुखमुत्पद्यते, किं तर्हि ? अभ्यवहारात्;नैष दोषः;सर्वे हि तेऽभ्यवहारादयो न विना स्पर्शेन न भवतीति नान्तरीयकत्वात् स्पर्शो नापेक्ष्यते।
`तूलिकाया उत्थानं सुखम्' इति। `उदः स्थास्तम्भोः पूर्वस्य'(8.4.61) इति पूर्वसवर्णः। अस्तीह कर्त्तुः शरीरसुखम्, न तु कर्मणा संस्पृश्यमानस्य, किं तर्हि ? अपादानेन तूलिकाख्येन। `अग्निकुण्डस्योपासनम्' इति। `आस उपदेशने' (धा.पा.1021) उपपूर्वः। अत्रास्पर्शात् सुखं भवति; अग्निकुण्डेनोपास्यमानेनोपस्पृश्यमानस्यैव तदुत्पत्तेः। `गुरोः स्नापनम्' इति। `ष्णा शौचे' (धा.पा.1053), हेतुमण्मिच्। `अर्त्तिह्री' (7.3.36) इत्यादिना पुक्। ननु चात्रापि गुरुः सुखस्य कर्त्ता भवतीत्यस्तीह कर्त्तुः सुखम्। तत्कथमिदं प्रत्युदाहरणं भवतीत्याह--`स्नापयतेर्न गुरुः' इति। अनेनतद्दर्शयति-- नात्र सुखापेक्षं कर्त्तृत्वं विवक्षितम्, किं तर्हि ? क्रियापेक्षम्। न चात्र स्नापनक्रियाया गुरुः कर्त्ता, किं तर्हि ? शिष्यः, तस्य च गुरुः कर्मैव भवति। कर्मसंज्ञा पुनर्गुरोः `गतिबुद्धि' (1.4.52) इत्यादिसूत्रेण; तस्याकर्मके स्नातावण्य्नते कर्त्तत्वात्। `परिष्वञ्जनम्' इति। `ष्वन्ज परिष्वङ्गे' (धा.पा.976), `उपसर्गात् सुनोति' (8.3.65) इत्यादिना मूर्धन्यः। `मानसी प्रीतिः'इति। तेन पुत्रपरिष्वञ्जनजन्मनः प्रीतिविशेषस्य शरीरसुखत्वं दर्शयति। `मर्दनम्' इति। `मृद क्षोदे' (धा.पा.1515)। `सर्वत्रासमासः प्रत्युदाह्रियते'इति। न तु ल्युडभावः। ल्युटः पूर्वसूत्रेण सर्वत्र भावात्।।
117. करणधिकरणयोश्च। (3.3.117)
`करणेऽधिकरणे च कारके' इत्यनेन करणाधिकरणयोः प्रत्ययार्थत्वं दर्शयति। अत्रोपपदे करणाधिकरणे कस्मान्न भवतः ? `करणाधिकरणयोः'इत्यत एव निर्देशात्। करणाधिकरणशब्दौ हि ल्युडन्तौ करणाधिकरणसाधनौ च। तत्र दद्युपपदत्वमेतयोः स्यादेष निर्देशो नोपपद्यते। यद्येवम्, सति निर्देशे प्रत्ययविधानं च , सति च तस्मिन् निर्देश इतीतरेतराश्रयत्वं प्रसज्येत ? न; नित्यत्वाच्छब्दानाम्। न ह्यपूर्वं किञ्चिदुत्पद्यते; शब्दानां नित्यत्वात्। सत्तामेव तु तेषामन्वाख्यानं क्रियते इति इतरेतराश्रयतायाः प्रसङ्गः। `इध्मप्रव्रश्चनः' इति। `ओव्रश्चूछेदने' (धा.पा.1292), इध्मानां प्रव्रश्चन इति षष्ठीसमासः। `पलाशशातनः' इति। `शद्लृ शातने' (धा.पा.1428), `हेतुमण्णिच्, `शदेरगतौ तः' (7.3.42) इति तत्वम्। `गोदोहनी' इति। `टिड्ढाणञ्' (4.1.15) इति ङीप्।।
118. पुंसि संज्ञायां घः प्रायेण। (3.3.118)
`समुदायेण चेत्' इत्यादि। प्रकृतिप्रत्ययसमुदायेन यदि संज्ञा गम्यत एवं प्रत्ययो भवति, नान्यथा। `अकार्त्स्न्यार्थम्' इति। अकार्त्स्न्यम् = असाकल्यम्, प्रयोजनमर्थो यस्य तत् तथोक्तम्। एतेनाकृत्स्नविषयतां प्रत्ययस्य दर्शयति। `दन्तच्छदः' इति। `छद अपवारणे' (धा.पा.1935), चुरादिणिच्। `छादेर्घेऽद्वयुपसर्गस्य' (6.4.96) इति ह्रस्वः, पूर्ववत् समासः। `प्रसाधनम्'इति। `राध साध संसिद्धौ' (धा.पा.1262), 1263), अस्माद्धेतुमण्ण्यन्तात् पूर्वसूत्रेण करणे ल्युट्, `कुगतिप्रादयः (2.2.18) इति समासः।।
119. गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च। (3.3.119)
`पूर्वस्मिन्नेवार्थे' इति। करणेऽधिकरणे च। ननु पूर्वसूत्रेणैव गोचरादिषु घः सिद्धः, तत्किमित्ययं योग आरभ्यते ? इत्याह-- `हलश्च' इत्यादि। ननु च प्रत्ययग्रहणं तत्रानुवर्तिष्यते, तेन गोचरादिषु घञ् भविष्यति ? प्रतिपत्तिगौरवं तु स्यात; प्रायग्रहणानुवृत्तेरज्ञापकत्वात्।।
120. अवे तॄस्त्रोर्घञ्। (3.3.120)
`स्तृणातेः'इति। `स्तृञ् आच्छादने' (धा.पा.1484) इत्यस्मात्। `प्रायानुवृत्तेः' इत्यादि। प्रायशब्दस्यानुवृत्तौ सत्यामेव उपपदे तृस्त्रोर्घञ्प्रत्ययो भवति संज्ञायां प्रायेणोपधिभूतायामित्येषोऽर्थो लभ्यते। `न संज्ञायाम्'इति। अस्योपाधेः प्रायिकत्वात् क्वचिदसंज्ञायामपि भवति।।
121. हलश्च। (3.3.121)
`वेष्टः' इति। `वेष्ट वेष्टने' (धा.पा.255)। `मार्गोऽपामार्गः' इति। `{मृजू-धा.पा.} (धा.पा.1066)। `चजोः (7.3.52) इत्यादिना कुत्वम्, मृजेर्वृद्धिः, (7.2.114) `उपसर्गस्य घञि' (6.3.122) इति दीर्घः।।
122. अध्यायन्यायोद्यावसंहाराधारावायाश्च। (3.3.122)
`अहलन्तार्थ आरम्भः'इति। हलन्तेभ्यः पूर्वसूत्रेणैव सिद्धत्वात्।।
123. उदङ्कोऽनुदके। (3.3.123)
`ननु च' इत्यादि चोद्यम्। `उदकप्रतिषेधार्थं वचनम्'इति परिहारः। यद्येतन्नारभ्येत तदोदकेऽपि पूर्वेण स्यादित्यर्थः। `तैलोदङ्कः'इति। षष्ठीसमासः। षष्ठी पुनः कर्मणि कृद्योगलक्षणा।
`उदकोञ्चनः' इति। करमे ल्युट्। `घः कस्मात्' इत्यादि। एवं मन्यते-- `पुंसि संज्ञायाम्' (3.3.118) इत्यादिना घे प्राप्ते घञ् विहितः, ततश्च तेन मुक्ते विषये घनैव युक्तं भवितुमिति। `विशेषाभावात्' इति। न ह्यत्राञ्चतेर्घञि घे वा सति विशेषोऽस्ति। तत्र यद्युदकेऽपि घः स्यादनुकप्रतिषेधेनार्थो न स्यादित्यभिप्रायः। ननु च घे सति प्रत्ययस्वरेणान्तोदात्त उदङ्कशब्दो भवति, घञढि सति ञित्स्वरेणाद्युदात्तः स्यात्, तत् किमुच्यते विशेषाभावादित्यत आह-- `घञ्यपि' इत्यादि। `थाथादिस्वरेण' इति। थाथघञ्क्ताजबित्रकाणाम्' (6.2.144) इत्येतद्विहितेन।।
124. जालमानायः। (3.3.124)
125. खनो घ च। (3.3.125)
`डो वक्तव्यः'इत्यादि। सर्वत्र वक्तव्यशब्दस्य व्याख्येय इत्येषोऽर्थः। तत्रेदं व्याख्यानम्- चकारोऽत्र क्रियते, स चानुक्तसमुच्चयार्थः, तेन डादयोऽपि प्रत्यया भविष्यन्तीति। ननु च घञनुकर्षणार्थश्चकारः ? नैतदस्ति; स्वरितत्वादेव हि घञपतिष्ठते। अथ किमर्थं खनेर्घः प्रत्ययो विधीयते, यावता कुत्वार्थं तस्य विधानम्, न च खनेः कश्चिदवयवः कुत्वभागस्ति ? एवं तर्ह्येतज्ज्ञापयति--अन्येभ्योऽप्ययं भवतीति। तेन खलः,भगम्, पदमित्येवमादयः सिद्धा भवन्ति।।
126. ईषद्दुःसुषु कृच्छ्रार्थेषु खल्। (3.3.126)
`तदितरयोः'इति। सुशब्देषच्छब्दयोः। कथं पुनः सामान्योक्तेनापि विशेषो लभ्यते ? इत्याह-- सम्भवात्'इति। यत्र यस्य सम्भवस्तत्र तस्य विशेषणं भवति। कृच्छ्रमेव दुःशब्दस्यार्थे वर्त्तते, नाकृच्छ्रम्। इतरयोस्त्वर्थेऽकृच्छ्रमेव वर्त्तैते न कृच्छ्रम्। तस्मात् कृच्छ्रं दुर एव विशेषणम्, अकृच्छ्र त्वितरयोरेव। `ईषात्करः कटो भवता' इति। अकृच्छ्रेणायत्नेन क्रियते भवता कट इत्यर्थः। `ईषत्कार्यः'इति। `ऋहलोर्ण्यत्' (3.1.124) इति ण्यत्। ईषच्छब्दोऽत्र मनागित्यस्यार्थे वर्त्ततेत।
`लकारः स्वरार्थः' इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। ननु च ह्रस्वादिकं खित्कार्यं `खित्यनव्ययस्य' (6.3.66) इत्येवमादिशास्त्रेणानव्ययस्य विधीयते; ईषदादयश्चाव्ययसंसज्ञाः; तत्किमर्थं खलः, खित्करणमित्याह-- `खित्करणमुत्तरत्र मुमर्थम्' इति।उत्तरत्रानव्ययेऽप्युपपदे खल् विधास्यते, तत्र `अरूर्द्विषदजन्तस्य मुम्' (6.3.67) इति मुम् यथा स्यादित्येवमर्थं खित्करणम्।।
127. कर्त्तृकर्मणोश्च भूकृञोः। (3.3.127)
कर्त्तृकर्मणोरुपपदत्वं भवति, न तु प्रत्ययार्थम्। यदि च तयोः प्रत्ययार्थत्वं स्यादीषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, ततश्च खित्करणमनर्थकं स्यात्; अनव्ययस्य खित्कार्यविधानात्। ईषादादीनाञ्चाव्ययत्वात्; तस्मादतोऽपि खित्करणम्। उपपदे कर्त्तृकर्मणी, न तु प्रत्ययार्थावेतावित्यवसीयते। अत्र च कर्त्तृकर्मणी ईषदादयश्च न प्रत्येकं प्रत्ययस्य निमित्तम्, किं तर्हि ? तत्समुदायः। चकारेण ह्यतर् सन्नियोगः क्रियते, तेन कर्त्तृकर्मणोरीषदादीनाञ्च युगपदुपपदत्वं भवति; नान्यथा। यद्येवम्, कथं द्वयोरुपपदयोर्युगपत् समासः ? कः पुनराह-- युगपत् समास इति ? पूर्वं हि परस्योपपदस्य समासं कृत्वा पश्चात् पूर्वस्य समासो भवति। किं पुनरत्र परमुपपदम् ? कर्त्तृकर्मणी। कुत एतत् ? खित्करणसामर्थ्यात्। खित्करणं हि मुमर्थम्, मुमागमश्चानव्ययस्य विधीयते। तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकं स्यात्। `ईषदाढ्यम्भवं भवता' इति। अकृच्छ्रमाढ्येन भयते भवतेत्यर्थः। `ईषदाढ्यङ्करो देवदत्तो भवता' इति। अकृच्छ्रमाढ्यः क्रियते देवदत्तो भवतेत्यर्थः।
`कर्त्तृकर्मणोः'इत्यादि। च्व्यर्थोऽभूततद्भावः। तदर्थयोः कर्त्तृकर्मणोरुपपदयोः खल भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- प्रायग्रहणं मण्डूकप्लुतिन्यायेनानुवर्त्तते, तेन यदा कर्त्तृकर्मणी च्व्यर्थे भवतस्तदैव प्रत्ययो भवति, नान्यदेति। `स्वाढ्येन भूयते' इति। अत्र च्व्यर्थस्याविवक्षितत्वात् प्रत्ययो न भवति।।
128. आतो युच्। (3.3.128)
129. छन्दसि गत्यर्थेभ्यः। (3.3.129)
`सूपसदनम्' इति। `षद्लृ विशरणगत्यवसादनेषु' (धा.पा.854), उपपूर्वः।।
130. अन्येभ्योऽपि दृश्यते। (3.3.130)
`सुदोहनम्' इति। `दुह प्रपूरणे' (धा.पा.1014)। `वक्तव्यः' इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- अपिशब्दोऽत्र क्रियते, स च सर्वव्यभिचारार्थः, तेन `शासु अनुशिष्टौ' (धा.पा.1075), `युध सम्प्रहारे' (धा.पा.1173), `दृशिर् प्रेक्षणे' (धा.पा.988), `ञिधृषा प्रागल्भ्ये' (धा.पा.1269), `मृष तितिक्षायाम्' (धा.पा.1164)-- इत्येतेभ्योऽपि भाषायां युज्भवतीति। कथं पुनरेतदवसितम्-- `सर्वव्यभिचारार्थोऽपिशब्द इति ? सूत्रारम्भात्। यदि हि गत्यर्थव्यभिचार एवात्राभिसंहितः स्यात्, सूत्रमिदं नारभेत। पूर्वसूत्र एव च गत्यर्थग्रहणं न कुर्यात्।।
131. वर्त्तमानसामीप्ये वर्त्तमानवद्वा। (3.3.131)
यदि समीपस्य भावोऽभिधीयेत तद्धि स्यात्, एवं सति वर्त्तमानस्य सामीप्येन च समासो न स्यात्; सम्बन्धाभावात्। न हि सामीप्यस्य वर्त्तमानेन सम्बन्धः, अपि तु तत्समीपेन; तस्य तद्गुणत्वात्। तस्मात् स्वार्थ एवायमिह भविष्यतीति मत्वाहऽऽह-- समीपमेव सामीप्यम्' इति। किमर्थं पुनः स्वार्थिकं ष्यञं विधायैवं निर्देशः क्रियते, न वर्त्तमानसमीप एवोच्येत यतो लाघवं भवति ? इत्यत आह-- `ष्यञः स्वार्थिकत्वं ज्ञाप्यते' इति।स्वार्थे ष्यञपि स्यादनेनेति। स्वार्थे ष्यञ् भवतीत्यमुमर्थं ज्ञापयितुं स्वार्थिकः ष्यञ् कृत इति। `चातुर्वर्ण्यादिसिद्ध्यर्थम्' इति। अनेनापि ज्ञापनस्य प्रयोजनमुच्यते। आदिशब्देन चातुराश्रम्यादीनां ग्रहणम्। `अयमागच्छामि' इति। अयमागममित्यस्यार्थ एतद्वर्त्तते। `आगमम्' इति। लुङ, उत्तमैकवचनम्, `तस्थस्थमिपाम्' (3.4.101) इत्यादिना मिपोऽम्भावः, पुषादिसूत्रेण (3.1.55) च्लेरङ। `एष गच्छामि' इति। एष गमिष्यामीत्यस्यार्थ इदं वर्त्तते। `गमेरिट् परस्मैपदेषु' (7.2.58) इतीट्। `गन्तास्मि'इति। लुट्, तासिः, मिप्।
अथ वत्करणं किमर्थम्, यत्वता `वर्त्तमानसामीप्ये वर्त्तमाने' इत्युच्यमाने वर्त्तमानकालविहिताः प्रत्यया वर्त्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एवत्यत आह-- `वत्करणम्' इत्यादि। असति वत्करणे वर्त्तमानकालेन रूपमात्रमेषां प्रत्ययानामुपलक्ष्यते, न तु प्रकृत्यादय उपादीयेरन्, ततश्च धातुमात्रात् स्युः। वत्करणे तु सति सर्वसादृश्यं गम्यते; तत्रैव वतेर्विधानात्, तेन सङ्करो न भवति। तमेवन सङ्कराभावं दर्शयितुमाह-- `येन 'इत्यादि। एवं हि सर्वसादृश्यं भवति यदि येन विशेषणेन वर्त्तमाने विहितास्तेनैव वर्त्तमानसामीप्ये भवन्ति, नान्यथा। `प्रकृत्योपपदोपाधिना' इति। आदिश्ब्देनोपाधेरबिधेयस्य च ग्रहणम्। `पवमानः, यजमानः'इति। `पूङ्यजोः शानन्' (3.2.128) विहितः,स वर्त्तमानसामीप्येऽपि ताभ्यामेव भवति, न धात्वन्तरात्। `अलङ्गरिष्णुः' इति। ताच्छील्यादिविशिष्टे कर्त्तर्यलम्पूर्वात् कृञ इष्णुद्विहितः, वर्त्तमानसामीप्येऽपि तत्पूर्वादेव भवति। तस्मिन्नेव चार्थे `परुदगच्छत्' इत्यत्र विप्रकर्षविवक्षायां लङेव भवति। `वर्षेण गमिष्यति' इति। अत्रापि लृडेव भवति।
`यो मन्यते' इत्यादिनापि प्रतिपत्तृविशेषं प्रति सूत्रं प्रत्याचष्टे। `कालान्तरगतिस्तु' इत्यादि। कालान्तरं वर्त्तमानसमीपो भूतो भविष्यंश्च कालः, तस्य या गतिः = प्रतीतिः। आगच्छामीत्यस्य पदस्य वर्त्तमानकालविशेषेऽप्ययं गच्छामीत्यतो वाक्यात् कदा देवदत्त गमिष्यसीत्येद्वाक्यसमनन्तरं प्रयुज्यमानाद्भवति। वाक्यगम्योऽपि कालो यदि पदसंस्कारवेलायामुपयुज्यते युज्येत सूत्रारम्भः, न चासौ तत्रोपयुज्यते; यस्माच्छास्त्रेण पदस्य संस्कारः क्रियते, न वाक्यस्य। पदे संस्क्रियमाणे तद्गम्य एव काल उपयुज्यते, तेन वाक्यगम्य इत्यभिप्रायः। इतिकरणः प्रकृतप्रत्यवमर्शक इति। एवं यो मन्यते = अवगच्छति तं प्रतीदं नारब्धव्यमेव। यदर्थमारभ्यते तेषां प्रत्ययानां `वर्त्तमाने लट्' (3.2.123) इत्यादिनैव शास्त्रेणासिद्धत्वात्। प्रकरणग्रहणेन केवलमिदं सूत्रं नारब्धव्यम्, अपि तु `अशंसायां भूतवच्च' (3.3.132) इत्येवमादीन्यपि नारब्धव्यनीति दर्शयति। `तादृशम्'इत्यादि। एवञ्च यस्तु तादृशः प्रतिपत्ता न भवति मन्दबुद्धिस्तं प्रत्यारब्धव्यमेवेत्युक्तं भवति। न ह्यसावेवं न्यायेन प्रतिपत्तुं समर्थः। `तथा च' इत्यादि। यस्मात् तत्रैवं वाक्यगम्यः कालः पदसंस्कारवेलायां नोपयुज्यते, एवञ्च सति श्वः करिष्यतीत्येमाद्युपपद्यते। तत्रापि हि करिष्यतीत्येतत् पदं भविष्यत्येव काले वर्त्तत इति `लृट् शेषे च' (3.3.13) इत्येव लृट् सिद्धः। भविष्यदनद्यतनस्तु कालोऽयम्। यद्युत्तरकालः प्रतीयते तथाप्यसौ वाक्यार्थ इति पदसंस्कारे नाश्रीयते। यदि तु वाक्यगम्योऽपि कालः पदसंस्कारे समाश्रीयेत, तदा तु करिष्यतीत्येवमादि नोपपद्येत-- भविष्यदनद्यतने लुटैव भवितव्यमिति कृत्वा।।
132. आशंसायां भूतवच्च। (3.3.132)
`आगमत्' इति। लुङ। आगत इति निष्ठा। `अनुदात्तोपदेश' (6.4.37) इत्यादिनानुनासिकलोपः। `अधीमहे' इति। इङो लुट्, महिङ्, अदादित्वाच्छपो (2.4.72) लुक्। `अध्यगीष्महि' इति। लुङ, `विभाषा लुङलृङोः' (2.4.50) इतीङो गाङादेशः, गाङकुटादिना (1.2.1) सिचो ङित्त्वात् `घुमास्था' (6.4.66) इत्यादिनेत्त्वम्। भूतवच्चेत्यादिदेशे लङलिटावपि प्राप्नुतः, तौ कस्मान्न भवत इत्याह-- `सामान्यातिदेशे' इत्यादि। भतसामान्यातिदेशोऽयम्, भूतविशेषप्रत्ययौ च लङलिटौ। सामान्यातिदेशे विशेषस्यानतिदेशः, तेन ताविह न भवतः।।
133. क्षिप्रवचने लृट्। (3.3.133)
`भूतवच्चेत्यचस्यायमपवादः'इति। न प्राप्ते भूतवच्चेत्यस्मिन्नस्यारम्भात्।
अथ वचनग्रहणं किमर्थम् ? यावता क्षिप्रे लृडित्येनेनैव सर्वं सिद्धमित्यत आह-- `वचनग्रहणं पर्यायार्थम्'इति। असति हि वचनग्रहणे क्षिप्रशब्द एवोपपदे लृट् स्यात्, तस्मिंस्तु सति यावन्तः क्षिप्रवचनास्तेषु सर्वेषु भवति। अथ लृड्ग्रहणंकिमर्थम्, न क्षिप्रवचन इत्येवोच्येत, भूतवच्चेत्यस्यातिदेशस्य भविष्यत्कालविषयत्वात् तस्मिन् प्रतिषिद्ओधे `लट् शेषे च'(3.3.13) इत्येनेनैव सिद्धः? इत्याह--`नेति वक्तव्ये'इत्यादि। नेति वक्तव्ये यल्लृड्ग्रहणं क्रियते तस्यैतत् प्रयोजनम्-- लुटोऽपि विषये भविष्यदनद्यतने काले `लृड् यथा स्यात्, अन्यथा, हि लृडपवादो लुडेव स्यात्।।
134. आशंसावचने लिङ्। (3.3.134)
`आशंसे युक्तोऽधीयीय' इति।इङः लिङः सीयुट, उत्तमपुरुषैकवचनम्, इट्, `इटोऽत्'(3.4.106) इत्यद्भावः `सार्वधातुकमपित्'(1.2.4) इति ङित्त्वाद्गुणाभावः, `लिङ सलोपोऽनन्तस्य'(7.2.79) इति सकारलोपः, धातोरियङ्, उपसर्गेण सह `अकः सर्वणे दीर्घः' (6.1.101)। `आशंसे क्षिप्रमधीयीय'इति । अत्र यद्यपि क्षिप्रवचनमुपपदमाशंसावचनमपि, तथापि परत्वाल्लिङेव भवति, न लृट। तस्य तु यत्राशंसावचनमुपपदं नास्ति सोऽवकाशः-- `क्षिप्रमध्येषामहे'इति।।
135.नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः। (3.3.135)
`कालानां सामीप्यम्'इत्येनन कालसम्ब्धि सामीप्यमिहाश्रीयत इति दर्शयति। कुतः पुनः सामान्योक्तेन कालसम्बन्धिन एव सामीप्यस्य ग्रहणं लभ्यते ? वर्त्तमानसामीप्य इत्यत आरभ्य प्रायिकत्वादस्य प्रकरणस्य। एतदपि कुतः ? वर्त्तमानादिशब्दानां कालशब्दत्वात्। अपि च लङलुटोः प्रतिषेधः, तौ च कालविहितौ। अतो यत्र हि तौ, तत्र तत्सम्बन्धेनैव कालसामीप्यमिहाश्रीयत इति विज्ञायते। तत्पुनः कीदृशमित्याह-- `तुल्यजातीयेन'इत्यादि। तुल्यजातीयग्रहणं भिन्नजातीयनिवृत्त्यर्थम्। कालमात्रेण व्यवधानेन गृह्यमाणे येयं पौर्णमास्यतिक्रान्ता तस्यामुपाध्यायोऽग्नीनाधितेत्येवमादावुदाहरणे सामीप्यं न स्यात्; अमावास्यया अन्याभिश्च तिथिभ्यर्व्यवधानात्। तस्मात् समानजातीयेनाव्यवधानमश्रीयते। `अदात्' इति। `गातिस्था'(2.4.77) इत्यादिना सिचो लुक्। `अध्यापिपत्' इति। `हेतुमति च'(3.1.26) इति णिच्। `क्रीङजीनां णौ' (6.1.48) इत्यात्त्वम्, `अर्त्तिह्री'(7.3.36) इत्यादिना पुक्, लुङ, च्लेः `णि श्री'(3.1.48) इत्यादिना चङ, `अजादेर्द्वितीयस्य' (6.1.2) इति पीत्येतस्य द्विर्वचनम्, `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः, णिचो लोपः।
`येयं पौर्णमास्यतिक्रान्ता' इति। पौर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी, तामधिकृत्येदमाह। सा हि यद्यप्यमावास्यया अन्याभिश्च तिथिभिर्व्यवहिता, तथापि तुल्यजातीयेन पौर्णमास्याख्येन कालेनाव्यवहितत्वात् सामीप्यं नातिवर्त्तते। `अग्नीनाधित' इति। दधातेराङपूर्वस्य `स्थाघ्वोरिच्च'(1.2.17)इतीत्त्वम्, सिचश्च कित्वम्, `ह्रस्वादङ्गात्' (8.2.27) इति सिचो लोपः। `अदित'इति। ददाते रूपम्। पूर्ववत्। `यक्ष्यते'इति।यजेर्ललृट्, स्यः, तस्मिन् परस्तथा षष्वे कृते `षढोः कः सि'(8.2.41) इति कत्वम्। `आधित' इत्यादौ सर्वत्र `स्वरितञितः'(1.3.72) इत्यादिनाऽऽत्मनेपदम्। किमर्थं प्रतिषेधद्व्यमुच्यते, `नाद्यतनवत् क्रियाप्रबन्धसामीप्ययोः'इत्येवोच्येत ? क्रियाप्रबन्धसामीप्ययोर्ह्यद्यतनप्रत्ययौ लुङलृटाविष्येते, नानद्यतनप्रत्ययौ लङलृटौ। तौ च लङलुटावेवमुच्यमाने सिध्यत एवेत्यत आह-- `द्वौ प्रतिषेधौ' इत्यादि। एवं मन्यते-- यदि `नाद्यनवत् क्रियाप्रबन्धसामीप्ययोः'इत्येवोच्येत तदैतदेवं सूत्रं विधायकं स्यात्, ततश्च सङ्करः प्रसज्येत-- लुङोऽपि विषये लृट्, लृटश्च विषये लुङ। न ह्यत्रायं विशेष उपादीयते। भूते लुङ भविष्यति लृडिति प्रतिषेधविषय उच्यमाने नायं दोषः, ततो नानेन किञ्चिद्विधीयते, केवलमनद्यतनप्रत्ययानां प्रतिषेधः क्रियते, तेषु प्रतिषिद्धेषु स्वैरेव वाक्यैर्विधायकैर्लुङादय उत्सर्गाः स्वे स्वेकालेऽपवादविनिर्मुक्ते भवन्ति। अतो यथाप्राप्ताभ्यनुज्ञापनाय प्रतिषेधद्वयमुच्यते।।
136. भविष्यति मर्यादावचनेऽवरस्मिन्। (3.3.136)
`मर्यादावचने सति' इति। वचनग्रहणमभिविधावपि यथा स्यात्। मर्यादाविशेष एवाभिविधिश्च। सैव मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदाऽभिविधिरित्युच्यते, यदा तु न सम्बद्ध्यते तदा मर्यादेति। तत्रेह वचनग्रहणाद्विशेषो नाश्रीयते, तेन मर्यादाया उक्तिमात्रे भवति। विनापि वचनग्रहणेनाभिविधौ प्रतिषेधो न भवेत्; यस्माद्यत्राभिविधौ कार्यमिच्छति तत्राभिविधिग्रहणं वा करोति, यथा-- `आङ् मर्यादाभिविध्योः' (2.1.13) इतिि; वचनग्रहणं वा, यथा-- `आङ् मर्यादावचने' (1.4.89) इति। तदभिविधावपि यथा स्यादित्येवमर्थं वचनग्रहणं क्रियते। `अवरस्मिन्' इति। अर्वागित्यर्थः। `गन्तव्यः'इति। भविष्यत्कातामध्वनो दर्शयति। `तस्य यदवरम्' इति। अनेनाध्वनो विभागं `द्विः' इति। एतेनापि क्रियाप्रतिबन्धाभावम्। `भोक्ष्यमहे' इति। `भुजोऽनवने' (1.3.66) इत्यात्मनेपदम्, `चोः कुः' (8.2.30) इति गकारः, `खरि च' (8.4.55) इति गकारस्य ककारः।
`अध्यैमहि' इति। महिङ, `आडजादीनाम्' (6.4.72) इत्याट्, `आटश्च' (6.1.90) इति वृद्धिः, उपसर्गस्य (6.1.77) यणादेशः। `अपिबाम' इति। पाघ्रादिसूत्रेण (7.3.78) पिबादेशः, `नित्यं ङितः' (3.4.99) इति सकारलोपः। `भोक्तास्महे' इति। लुट्। `तत्रच विशेषं वक्ष्यति' इति। अनहोरात्राणामित्यनेन (3.3.137)।।
137. कालविभागे चानहोरात्राणाम्। (3.3.137)
`कालमर्यादाविभागे सति' इति मर्यादाविभागशब्दयोः सयाहारे द्वन्द्वः। तेन कालशब्दस्य षष्ठीसमासः। `तेषाञ्च' इति। तैस्तेषाञ्चेति युक्तं यत् तेषां विभागे प्रतिषेधो भवति; तत्सम्बन्धित्वाद्विभागस्य। यदा तैरन्यस्य विभागस्तदा न युक्तम्, न हि तदा तत्सम्बन्धी विभागः। किं तर्हि ? विभज्यमानसम्बन्धी। तथाप्यहोरात्रकृतत्वाद्विभागस्य सम्बन्धित्वमस्त्येव; निमित्तस्य नैमित्तिकसम्बन्धादित्यदोषः। यदि वचनमहोरात्रप्रतिषेधार्थम्, एवं च सामर्थ्यात् कालविभागस्यैव प्रतिषेधो विज्ञास्यते, न देशविभागस्य, न हि देशविभागस्याहौरात्रैः सह सम्बन्धोस्तीत्यत आह-- `योगाविभाग उत्तरार्थः'इति। उत्तरसूत्रे कालविभाग एव यथा स्यादित्येवमर्थम्, देशविभागे मा भूदिति। `अभुञ्ज्महि' इति। `श्नसोरल्लोपः' (6.4.111) इत्यकारलोपः।
`त्रिविधिमुदाहरणम्' इति। तत्र प्रथमे शब्दान्तरवाच्यस्य कालस्याहोरात्रैर्विभागः, द्वितीयेऽहोरात्रवाच्यस्य शब्दान्तरवाच्ययेन कालेन विभागः, तृतीयेऽहोरात्रवाच्यस्य कालस्योरात्रवाच्येन कालेन। `सर्वथा' इति। सर्वेण प्रकारेण। यद्यहोरात्रैरन्यस्य विभागोऽथधाप्यन्येन तेषां यद्यहोरात्रैरेव तेषामेवमपि प्रतिषेध इति सर्वथाशब्दस्यार्थः। `अहोरात्रसंस्पर्शः' इति। अहोत्राणां विभागेन सम्बन्ध = अहोरात्रसंस्पर्श इति।
138. परस्मिन्विभाषा। (138)
`सर्वत्रानद्यतनवत्प्रत्यया उदाहर्त्तव्याः' इति। भूतानद्यतने-- तत्र युक्ता अध्यैमहि, तत्रोदनमभुञ्ज्महीति सर्वत्र लुङदाहर्त्तव्यः। भविष्यदनद्यतने तु-तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्मह इति सर्वत्र लुडुदाहर्त्तव्यः।।
139. लिङनिमित्ते लृङ् क्रियातिपत्तौ। (3.3.139)
`इत्येवमादिकम्' इति। आदिशब्देन `कथमि लिङ च' (3.3.143) इत्येवमादयो गृह्यन्ते। `कुतश्चिद्वैगूण्यात्' इति। विधुरप्रत्ययोपनिपातात्, कारणान्तरवैकल्याद्वा। `आयास्यत्' इति। `स्यतासी लृलुटोः' (3.1.33) इति स्यप्रत्ययः। `इतश्च' (3.4.100) इतीकारलोपः। `आह्वास्यत्' इति। `ह्वेञ् {स्पर्धायां शब्दे च--धा.पा.} स्पर्धायाम्' (धा.पा.1008)। `{वास्तीदमुदाहरणं काशिकायाम्} पर्यासिष्यत' इति। `आस उपवेशने' (धा.पा.1021), अनुदात्तेत्। {तत्र हेतुभूतम्-- काशिका} तद्धेतुभूतम्' इति। शकटपर्याभवनस्य हेतुभूतम्। एतेन लिङनिमित्तं हेतुहेतुमद्भावं दर्शयति। `लिङ्गिलिङ्गेबुध्वा' इति। असकृत् प्राक् कमलकाह्वाने सति शकटस्यापर्याभवनं दृष्ट्वा भाविनोऽपि कमलह्वानस्य शकटस्यापर्यायभवनस्य हेतुभूतत्वं हेतुभूतत्वं लिङ्गेन बुध्वा। लिङ्गं पुनः कमलकाह्वानसामान्यं धर्मम्। `तदतिपर्त्तिं च' इति। कमलकाह्वानस्य शकटपर्याभवनस्य चातिपत्तिम्। तत्र कमलकाह्वानस्य चातिपत्तिं कमलकस्य देशान्तरगमनादिना लिङ्गेनावगम्यते, शकटपर्याभवनस्यातिपत्तिमत्र शकटस्य गुरुभारारोपणादिना। `इतो वाक्यात्' इति। यदि कमलकमाह्वास्यदित्यादेवर्वाक्यात्।
अथ किमर्थं क्रियाग्रहणम्, न त्वेतद्वक्तव्यम्-- लिङ्निमित्ते लृङतिपत्ताविति, धात्वधिकाराद्विनापि क्रियाग्रहणेन धात्वर्थस्यातिपत्ताविति विशेषोऽर्थो लभ्यते, ततोऽनर्थकं क्रियाग्रहणमिति मन्यते;नैतत्; लिङनिमित्त इति श्रूयते, प्रकृतस्य सम्बन्धाच्छरुक्तस्य सम्बन्धो बलवानिति लिङनिमित्तस्यैवातिपत्तिर्विज्ञायते। ततश्च `उताप्योः समर्थयोः' (3.3.152) इति सामर्थ्यातिपत्तावुताप्योश्चातिपत्तौ लिङ प्रसज्येत। तस्मात् क्रियाग्रहणं कर्त्तव्यम्।।
140. भूते च । (3.3.140)
`उताप्यरित्यारभ्य'इत्यादि। `उताप्योः समर्थययोः' (3.3.152) इत्येतत्प्रभृतिषु लिङ्निमित्तेषु ह्येतल्लृङविधानम्। कुत एतदित्याह-- `प्राक्' इत्यादि। यस्मात् प्राक् `वोताप्योः' (3.3.141) इति वक्ष्यते, ततश्च पारिशेष्याद्भूते लिङो विधानं `वोताप्योः' (3.3.141) इत्यादिष्वेवावतिष्ठते। `न तु भुक्तवान्' इत्यादि। क्रियातिपर्त्तिं दर्शयति।।
141. वोताप्योः। (3.3.141)
`वा आ उताप्योः' इति। एतेनाङ प्रश्लेषं दर्शयति। यद्योङोऽत्र प्रश्लेषःष वोताप्योरिति न प्राप्नोति, परत्वाद्गुणे कृते पूर्वेण सह वृद्ध्या भवितव्यम् ? सौत्रत्वान्निर्देशस्येत्यदोषः। निपातनत्वात् पूर्वेण सहैकादेशं कृत्वा परेण सहाद्गुणः (6.1.87) करिष्यते। ननु चाङो योगे `पञ्चम्यापाङ्परिभिः' (2.3.10) इति पञ्चम्या न च पदादाङो योगे पञ्चमी भवति; अप्रातिपदिकत्वात्। `मर्यादायाम्' इत्यादि। यद्यभिविधौ स्यात् `उताप्योः समर्थयोः' (3.3.152) इति लिङ् विकल्पेन प्रसज्येत, नित्यञ्चेष्यते। तस्मान्मर्यादायामयमाङ्, नाभिविधौ। `यथाप्राप्तञ्च' इति। लिङादिः; वाग्रहणात्।।
142. गर्हायां लिडपिजात्वोः। (3.3.142)
`कालसामान्ये न प्राप्नोति' इति। एतेन भविष्यतीत्यादेः कालविशेषवाचितोऽनुवृत्तिं सूचयन्नयं कालसामान्ये विधिरिति दर्शयति-- `कालविशेषविहितान्' इति। भूते कालविशेषे लङलिटौ विहितौ, भविष्यति लुङलृटौ च। तान् सर्वान् कालसामान्ये विधीयमानो लट् परत्वाद्बाधते। `याजयति' इति। यजेर्हेतुमण्ण्यन्ताल्लट्। `लिङ्निमित्ताभावात्' इति। हेतुहेतुमदादेरिलङ्निमित्तभावादिह यद्यपि क्रियातिपत्तिर्विवक्ष्यते, तथापि लृङ न भवति।।
143. विभाषा कथमि लिङ् च। (3.3.143)
`विभाषाग्रहणम्' इत्यादि। यस्मिन् काले लृङादयो विहितास्तेषां बाधनं मा भूदित्येवमर्थं विभाषाग्रहणम्। यद्येवम्, अनर्थकश्चकारः, विभाषाग्रहणादेव हि लटोऽप्यबाधित्वात् सिध्यत्येव ? सत्यं सिध्यति वर्त्तमाने, कालान्तरे तु न सिध्यति। न हि तत्र कथमित्युपपदे लटः प्राप्तिरिति तत् कथं विभाषाग्रहणेन सिध्यति ! तस्माल्लडर्थश्चकारः कर्त्तव्यः।`याजयेत्' इति। लिङ। `याजयिष्यति' इति। लृट्। `अयीयजत्' इति। लुङ, च्लेश्चङ, णौ चङि ह्रस्वः, णिलोपः, `चङि' (6.1.11) इति द्विर्वचनम्, `सन्यतः'(7.4.79) इतीत्त्वम्। `अयाजयत्' इति। याजयाञ्चकार' इति। लिट्। `कास्प्रत्ययात्' (3.1.35) इत्याम्, `आमः' (2.4.81) इति लेर्लुक्, तस्याव्ययत्वात् सुबलुक्, `कृञ्च' (3.1.40) इत्यादिना लिट आम्परस्य कृञोऽनुप्रयोगःष णल्, द्विर्वचनम्, अभ्यासकार्यम्, `अयामन्त' (6.4.55) इत्यादिनायादेशः। अत्र लिङ्निमित्तमस्तीति कथमित्येतत् गर्हा च ? तदेतद्गर्हायां लिङो विधानाद्भूतविवक्षायां क्रियातिपत्तौ लृङिति भूते चेति वर्त्तमाने `वोताप्योः' (3.3.141) इति वचनाद्भविष्यद्विवक्षायां सर्वत्र नित्यनैव लृङा भवितव्यमिति; भवितव्यमिति; भविष्यतीति वर्त्तमाने `लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3.3.139) इति वचनात्।।
144. किंवृत्ते लिङलृटौ। (3.3.144)
`किंवृत्ते' इति। वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयतते। `डतरतमौ च' इति किंवृत्ते च लृडित्येवं कस्मान्नोक्तम्, प्रकृतो हि लिङ्, ततश्चकारेण तस्यैव समुच्ययो विज्ञास्यते, किं लिङ्ग्रहणेनेत्याह-- `लिङ्ग्रहणम्' इत्यादि। असति हि लिङ्ग्रहणे यथा प्रकृत्वाच्चकारेण लिङ समुच्चीयते, तथा लडपि समुच्चीयेत, सोऽपि हि प्रकृत एव। तस्माल्लटो निवृत्त्यर्थं लिङग्रहणं कृतम्।।
145. अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि। (3.3.145)
अत्र द्वावर्थौ, प्रत्ययावपि द्वावेव, ततश्च यथासंख्येन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह-- `बह्वचः'इत्यादि। अमर्षशब्दो ह्यनवक्लप्तिशब्दापेक्षयाल्पाच्तरः, तत्र `अल्पाच्तरम्' (2.2.34) इति तस्य पूर्वनिपाते कर्त्तव्ये योऽयमिह वह्वचोऽनवुक्लृप्तिशब्दस्य पूर्वनिपातः कृतः स लक्षणव्यभिचारार्थतां दर्शयति। यथेह पूर्वनिपातलक्षणं व्यभिचारात् स्वविषये न प्रवर्त्तते, तथा यथासंख्यलक्षममपीति, तेन यथासंख्यं न भवति। अपिग्रहणं किंवृत्तेऽपि यथा स्यात्,अन्यथा ह्यकिंवृत्तग्रहणे किंवृत्ते न स्यात्। यदि यथा `उपकादिभ्योऽन्यतरस्याम्' (2.4.69) इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम्, तथेहाप्यकिंवृत्तग्रहणं किंवृत्ताधिकारनिवृत्त्यर्थं स्यात्, तस्मिन्निवृत्ते किंवृत्तेऽकिंवृत्ते प्रत्ययद्वयं भविष्यतीति व्याख्यायते, तदा शक्यतेऽपिग्रहणमकर्तुम्। तर्हि तत् क्रियते विस्पष्टार्थम्।।
146. किंकिलास्त्यर्थेषु लृट्। (3.3.146)
`किंकिलशब्दः समुदायइति। एतेन किंकिलशब्दयोः प्रत्येकमृपपदत्वं निरस्यति, कस्मात् पुनस्तयोश्च प्रत्येकमुपपदत्वं न भवति ? केवलस्य किंशब्दस्यानवक्लप्त्यमर्षयोर्वृत्यसम्भवात्, समुदायस्य च सम्भवात्। `लिङ्गोऽपवादः' इति। पूर्वेण प्राप्तस्य।
`लिङनिमित्तमिह नास्ति' इति। लृट एव विधानात्।।।
147. जातुयदोर्लिङ्। (3.3.147)
`लृटोऽपवादः' इति। अनवक्लृप्त्यादिसूत्रेण (3.3.145) प्राप्तस्य।
`यदायद्योरुपसंख्यानम्' इति। लिङेव यथा स्यात्, लृङ मा भूत्। उपसंख्यानशब्दस्य प्रतिपादनार्थः। तत्रेदं प्रतिपादनम्--अनवक्लप्त्यादि (3.3.145) सूत्रादिहापिशब्दऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन यदायद्योरपि भविष्यति।।
148. यच्चयत्रयो। (3.3.148)
`लृटोऽपवादः' इति। अनवक्लृप्त्यादिसूत्रेण (3.3.145) प्राप्तस्य। अथ पूर्वसूत्र एव यच्चयत्रयोर्ग्रहणं कस्मान्न कृतम्, किं योगविभागेन ? इत्यत आह-- `योगविभाग उत्तरार्थः' इति। उत्तरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्मा भूत्। `यथासंख्यमिह नेष्यते' इति। पूर्वोक्तादेव लक्षणव्यभिचारचिह्नात्। स च बह्वचः पूर्वनिपातः सर्वत्रैव चात्र प्रकरणे लक्षणव्यभिचारचिह्नम्, न तु तत्रैव सूत्रे। अथ वा-- यथासंख्यार्थस्य स्वरितत्वस्याभावादिह न भवति यथासंख्यम्। उक्तं हि प्राक्-- `स्वरितेन चिह्नेन यथासंख्यं भवति' इति।।
149. गर्हायां च। (3.3.149)
150. चित्रीकरणे च। (3.3.150)
151. शेषे लृड्यदौ। (3.3.151)
`यच्चयत्राभ्याम्' इत्यादिना यच्चयत्रापेक्षं शेषं दर्शयति। चित्रीकरणापेक्षया शेषो न शक्यते विज्ञातुम्; चित्रीकरणस्येह स्वर्यमाणत्वात्। `आरोक्ष्यति' इति। `रुह बीजजन्मनि प्रादुर्भावे च' (धा.पा.859)। `हो ढः' (8.2.31), `षढोः कः सि' (8.2.41)। `आश्चर्य यदि भुंजीत' इति। अनवक्लृप्रेरत्राश्चर्य गम्यते। तत्राश्चर्यनिमित्ते लृटि प्रतिषिद्धे `जातुयदोर्लिङविधाने यदायद्योरूपसंख्यानम्' (वा.331) इत्यनवक्लृप्तौ लिङ।।
152. उताप्योः समर्थयोर्लिङ्। (3.3.152)
`समर्थयोः' इति। धातुना सामर्थ्यमिह नाश्रीयते। तयोरुपपदत्वेनैव तस्य लब्धत्वात्। तस्मात् परस्परसामर्थ्य समर्थशाब्दादिह गृह्यते। तदपि व्यपेक्षालक्षणमेकार्थीभावलक्षणमुभयमुताप्योर्न सम्भवति; पर्यायेण तयोरुपपदत्वात्, तस्मात् समानार्थलक्षणमिह सामर्थ्य समर्थशब्देन प्रतिपाद्यत इत्यत आह-- `समानार्थत्वमनयोः'इति। `कुर्यात्' एइति। उप्रत्यये कृते गुणो रपरत्वञ्च, `अत उत् सार्वधातुके' (6.4.110) इत्युत्त्वम्, `ये च' (6.4.109) इत्युकारलोपः।।
153. कामप्रवेदनेऽकच्चिति। (3.3.153)
`कामो मे भुञ्जीत भवान्' इति। स्वाभिप्रायं परस्यानेनाविष्कारोति।।
154. सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे। (3.3.154)
`योग्यताध्यवसानम्' इति। योग्यता = सामर्थ्यम्, तस्याध्यवसानम्। सा येनाध्यवसीयते निश्चीयते तद्योग्यताध्यवसानम् = ज्ञानम्, सम्भावनमुच्यते। तमेवार्थं पर्यायान्तरेण विस्पष्टीकर्त्तुमाह-- `शक्तिश्रद्धानम्' इति। शक्तिः = सामर्थ्यम्, सा श्रद्धीयते येन ज्ञानेन तच्छक्तिश्रद्धानम्। `तत्' इति। सम्भावनम्'। `पर्याप्त्या' इति। सामर्थ्येन।एतेन पर्याप्ताविह वर्त्तमानोऽलंशब्दो गृह्यते, न तु भूषणादाविति दर्शयति। `पर्याप्तम्' इति। शक्तम्, स्वकार्यनिर्वर्त्तनक्षममित्यर्थः। स्वकार्यं पुनस्तस्य विपरीतविषयपरिच्छेदः। `अवितथम्' इति। विद्यमानविषयत्वात्। एतेन पर्याप्त्यर्थं एवास्य स्वीकृतिः। एवं हि तद्विपरीतविषयं भवति यदि विद्यमानविषयत्वादवितथं भवति, नान्यथा । `अलमःर'इति। अलंशब्दस्य । कुत एतत् ? इतिकरणेनार्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकतयाऽलंशब्दस्य व्यवस्थापनात्। अलमर्थः सम्भावनस्य विशेषमं नोपपद्यते, ततश्च यदुक्तम्-- `तदिदानीमलमथन विशेष्यते' इति तद्विघटते ? नैष दोषः'; आवृत्तिरलंशब्दस्य करिष्यते, तत्रैकस्य सूत्रोपात्तस्यार्थपदार्थकता भविष्यति, आवृत्तस्येतिकरणेनाभिसम्बन्धादर्थपदार्थतायाः प्रच्युतस्य शब्दपदार्थकता चात्र गम्यते। `चार्थः' इति। अर्थात्, प्रकरणाद्वा। `{न चासौ प्रयुज्यते-काशिका} न तु प्रयुज्यते' इति।अवगतार्थत्वात्। `{ तदीदृशसंभावनोपाधिकेऽर्थे -- काशिका} क्रियासम्भावनोपाधिके' इति। क्रियासम्भावनमुपाधिविशेषणं यस्यार्3तस्य स तथोक्तः। `अपि पर्वतं शिरसा भिन्द्यात्' इति। पूर्ववत् `श्नसोरल्लोपः'(6.4.111)। अत्र यत् पर्वतभेदनविषयं सामर्थ्यं पुंसः सम्भाव्यते तत् तस्य विद्य एवेत्यवितथत्वात् पर्याप्तं सम्भावनम्। `प्रायेण स गमिष्यति' इति। अस्त्यत्र सम्भावनं प्रायशब्दात् प्रतीयमानम्, अलमर्थस्तु नास्ति; तेन भविष्यत्कालविवक्षायां लृडेव भवति न लिङ।।
155. विभाषा धातौ सम्भावनवचनेऽयदि। (3.3.155)
`{भविष्यति च काले-- काशिका'} भविष्यति काले' इति। इष्यत इत्यपेक्षते। कथं पुनर्विभाषा भविष्यत्कालश्च लभ्यते, यावता नेह सूत्रे विभाषाग्रहणं विनापि भविष्यत्कालोऽस्ति ? अत आह-- यस्माद्विभाषाग्रहणमनुवर्त्तते' इति। तेन विभाषा लिङप्रत्ययो लभ्यते। यत् `उताप्योः' (3.3.152) इत्यादेः सूत्राल्लिङिति वर्त्तमाने पुनर्लिङग्रहणं क्रियतेऽतोभविष्यत्कालो लभ्यते। पुनर्लिङग्रहणस्यैतत् प्रयोजनम्-- कालविशेषे भविष्यति यथा स्यादिति। तेन हन्तीति पलायत इत्येवमादौ वर्त्तमानविवक्षायां लडेव भवति। अत्र हननं हेतुः, पलायनं हेतुमत्। `पलायते' इति। `उपसर्गस्यायतौ' (8.2.19) इति लत्वम्।।
157. इच्छार्थेषु लिङलोटौ। (3.3.157)
`भुङ्क्ताम्' इति। टेरेत्वे कृत आम्।
`कामप्रवेदन इति वक्तव्यम्' इति। कामस्येच्छायाः प्रवेदने = प्रकाशने इमौ लिङलोटौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- `कामप्रवेदनेऽकच्चिति' (3.3.153) इत्यतः कामप्रवेदनग्रहणमनुवर्त्तते, तेन कामप्रेवदन एव भवतः। अत्र लिङ्ग्रहणं किमर्थम्, न `इच्छार्थेषु लोट् च' इत्येवोच्यत, चकारेण समुच्चीयमानोऽपि प्रकृतो लिङ भविष्यति ?नैतदस्ति; विभाषया हि भविष्यत्काल इत्युक्तम्,ततो यद्यसावनुवर्त्तते विकल्पः स्यात्। तद्बाधनार्थमेव पुनर्लिङग्रहणं क्रियते।।
158. समानकर्त्तृकेषु तमुन्। (3.3.158)
पूर्वेण लिङ्लोटोः प्राप्तयोस्तुमुन् विधीयते। `तुमुनप्रकृत्यपेक्षमेव'इति। यस्माद् धातोस्तुमुन् , अतः प्रत्यासत्तेस्तदपेक्षमेव समानकर्त्तृकत्वं ज्ञायते-- तुमुन्प्रकृतेर्यः कर्त्ता स चेदिच्छार्थानामपि भवतीति। `इच्छति भोक्तुम्' इति। योऽत्रेषेः कर्त्ता स एव भुजेरपीत्यस्तीह समानकर्त्तृकेषु लिङलोटौ च परत्वात् प्राप्नुतस्तौ मा भूतमित्येवमर्थम्, {अर्थः-मुद्रितः पाठः,} ण्वुल् मा भूदित्येव {अर्थश्च-मुद्रितः पाठः} च।
`देवदत्तं भुञ्जानमिच्छति' इति। अत्र भूजेर्देवदत्तः कर्त्ता, इच्छतेस्ततोऽन्य इति नास्ति समानकर्त्तृकत्वम्, तेन वर्त्तमानविवक्षायां ल़डेव भवति। `अनभिधानात्' इति। न ह्यत्र तुमुनोत्पद्यमानेन विवक्षतोऽर्थः शक्यतेऽभिधातुमिति। अबिधानलक्षणाश्च कृत्तद्धितसमासाः। अथ वा-- `अनभिधानात्' इति। इच्छन् कर्त्तुमित्यभिधानस्याभावादित्यर्थः। लोकप्रसिद्धानां हि शास्त्रेऽन्वाख्यानं क्रियते, न त्विच्छन् कर्त्तुमित्यादयो लोकप्रसिद्धाः।।
159. लिङ् च। (3.3.159)
`भुञ्जीयाधीय' इति। `इटोऽत्' (3.4.106)। किमर्थं पुनरिदमुच्यते, यावता वासरूपविधिनैवात्र लिङ् भविष्यति ? नैतदस्ति;लिङलोटोरपवादत्वाद् बाधकयोः प्राप्तयोस्तद्वबाधनार्थस्तुमुन्, विधीयते। तेन बाधितत्वाद्यथा लोड् न भवति, तथा लिङ्गपि न स्यात्। तसमाल्लिङविधानार्थमिदमुच्यते। `योगविभाग उत्तरार्थः' इति। उत्तरसूत्रे लिङ एवानुवृत्तिर्यथा स्यात्, तुमुनो मा भूत्।।
160. इच्छार्थेभ्यो विभाषा वर्त्तमाने। (3.3.161)
`प्रेरणम्' इति। नियोगः' `निमन्त्रणं नियोगकरणम्' इति। असत्यामपीच्छायामकरणे सत्यधर्मोत्पत्तेर्नियमेनावश्यम्भावेन यत् करणं तन्निमन्त्रणम्। `कामचारकरणम्'इति। कामचार- = इच्छाप्रचारः। तेन यत्करणं तदामन्त्रणम्। एतदुक्तं भवति-- यदिच्छयैवकरणंनानिच्छया अकरणेऽपि दोषाभावात्,तदामन्त्रमणम्। इहायं विध्यादिरर्थः प्रकृत्यर्थविशेषणं वा स्यात् ? प्रत्ययार्थो वा ? प्रत्ययार्थविशेषणं वा ? तत्र यद्याद्यः पक्ष आश्रीयेत तदा यत्र प्रकृतिरेव विध्यादीनर्थानाचष्टे तत्र न सिध्येत्-- विदध्यान्निमन्त्रयेतामन्त्रयेताधीच्छेदिति, न ह्यत्र प्रकृत्यर्थादन्ये विशेषणभूता विध्यादयः सन्तीत्येष दोषः प्रतिविधेयः स्यात्। प्रतिविधीयमानेऽपि तस्मिन् प्रतिपत्तिगौरवं स्यात्। अथ द्वितीयः ? भावकर्मकर्त्तृप्रत्ययार्थानां विध्यादयो वाचकाः स्युरित्येवमनयोर्दोषं दृष्ट्वा तृतीयं पक्षमाश्रित्याह-- `विध्यादयश्च' इत्यादि। प्रत्ययार्थास्त एव भावकर्मकर्त्तारः। तेषु `लः कर्मणि च' (3.4.69) इत्यादिना प्रत्ययस्य विधानात् तेषामयं विध्यादिरर्थो विशेषणमिति मत्वाऽऽह-- `विध्यादिविशिष्टेषु' इत्यादि। एतेनादिशब्देन निमन्त्रणादीनां ग्रहणम्। द्वितीयेन भावकर्मणोः। `आसीत्' इति। अदादित्वाच्छपो (2.4.72) लुक्। `अध्यापयेत्' इति। पूर्ववदात्त्वपुकौ।।
162. लोट् च। (3.3.162)
यदि विध्यादिष्वेव लोड्भवत्येवं योगविभागः किमर्थं क्रियते ? इत्याह-- `योगविभाग उत्तरार्थः' इति। उत्तरसूत्रे लोट एवानुवृत्तिर्यथा स्यात्, लिङो मा भूदिति। `करोतु' इति। `एरुः' (3.4.86) इत्युक्तम्। `अध्ययै' इति। `आडुत्तमस्य पिच्च' (3.4.92) इत्याट्, टेरेत्वे कृते `एत ऐ' (3.4.93), `आटश्च' (6.1.90) इति वृद्धिः, प्रकृतेर्गुणायादेशौ।।
163.प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च। (3.3.163)
`कार्यः' इति। `ऋहलोर्ण्यत्' (3.1.124) इति ण्यत्। `कृत्यः' इति। `विभाषा कृवृषोः' (3.1.120) इति क्यप्।
`किमर्थमिदम्' इत्यादि द्वेष्यम्। `विशेषविहित' इत्यादि परीहारः। कृत्या हि सामान्येन विहिताः। लोट् तु प्रैषादिनार्थविशेषेण। अतस्तेन विशेषविहितेन कृत्याः प्रैषादिविषये बाध्येरन्निति पुनर्विधीयते। `वासरूप'इत्यादीना परीहारं विघटयति। `एवं तर्हि' इत्यादिना प्रेषादिषु कृत्यविधानस्य ज्ञापकत्वं दर्शयति। ननु चाऽसति प्रयोजने ज्ञापकं भवति, इह चास्ति प्रयोजनम्, किं तत् ? प्रैषादि येन नियमेन कृत्या भवन्ति, नान्यत्रेति ? नैतत्; अनिष्टत्वात्। अन्यत्रापि हि कृत्या दृश्यन्ते-- तृणेन शोष्यम्, बुधेन बोध्यमिति। तच्च नियमे सति न सिध्येत्, न ह्यत्र प्रैषादयो गम्यन्ते। तस्मान्नेह नियमोऽभीष्टः, न चानिर्दिष्टार्था प्रक्लृप्तिः शास्त्रे युक्ता (भो.प.सू.107)। ततो युक्तं ज्ञापकमेव;कृत्यविधानस्यावश्यम्भावात्। अवश्यंग्रहणेन न क्वचिदपि भवतीति दर्शयति। एतच्च स्त्रधिकारात् परेणापि वासरूपविधिः क्वचित् स्वरितत्वप्रतिज्ञानाल्लभ्यते। तेन कालादिषूपपदेषु वासरूपविधिना ल्युडपि भवति-- कालो भोजनस्येति। यदि तु सर्वथा वासरूपविधिर्न स्यात् तदा `कालसमयवेलासु तुमुन्'(3.3.167) इति तुमुन्नेव नित्यं स्यात्। `केचिदाहुःर'इति वचनादपरे त्वेतयोर्विशेषं नेच्छन्तीत्युक्तं भवति।।
164. लिङ् चोर्ध्वमौहूर्तिके। (3.3.164)
`यथाप्राप्तञ्च' इति। लोट्, कृत्याश्च।।
165. स्मे लोट्। (3.3.165)
`लिङकृत्यानामपवादः'इति। अनन्तर सूत्र विहितानाम्।।
166. अधीष्टे च। (3.3.166)
`लिङोषऽपवादः'इति। विध्यादिसूत्रेण प्राप्तस्य। `अध्यापय'इति। सेर्हिरादेशः (3.4.87), तस्य `अतो हेः' (6.4.105) इति लुक्। `जुहुधि'इति। `हुझल्भ्यो हेर्धिः' (6.4.101) इति धिरादेशः।।
167. कालसमयवेलासु तुमुन्। (3.3.167)
`प्रैषादिग्रहणमिह सम्बध्यते' इति।न चेदिह प्रैषादयो गम्यन्ते, तेन तत्र न भवतीत्यभिप्रायः। कालो भोजनस्येत्युक्ते तस्याद् भङ्क्तां भवानिति प्रैषो गम्यते। ततश्च प्रैषादिग्रहणेऽनुवर्त्तमानेऽपीह प्राप्नोतीत्यभिप्रायेणाह--`इह कस्मान्न भवति' इत्यादि। स्यादेत्-- प्रैषादि कृत्यविधानाज्ज्ञापकात् स्त्र्यधिकारात् परेणापि वासरूपविधिर्नास्तीति, किं तर्हि ? अनित्यः।ततः क्वचिद्भवति। एतच्च `एवं तर्हेतञ्ज्ञापयति' (3.3.163 का.वृ) इत्यादिना प्रागेवाभिहितम्।।
168. लिङ् यदि। (3.3.168)
` तुमुनोऽपवादः'इति। पूर्वसूत्रेण प्राप्तस्य।।
169. अर्हे कृत्यतृचश्च। (3.3.169)
`वोढव्यः'इति। `हो ढः' (8.2.31), `झषस्तथोर्धोऽधः' (8.2.40), `ष्टुना ष्टुः'८(8.4.41), `ढो धे लोपः' (8.3.13) , `सहिवहोरोदवर्णस्य' (6.3.112) इत्येते विधयः कर्त्तव्याः। `अथ'इत्यादि द्वेष्यम्। `योऽयम्' इत्यादि परीहारः। वासरूपविधिः स्त्र्धिकारात् परेण नावश्यम्भवतीत्युक्तमेव।।
170. आवश्यकाधमर्ण्ययोर्णिनिः। (3.3.170)
`आवश्यकम्'इति। मनोज्ञादित्वाद्वुञ्। `उपाधिरयम्'इति। प्रत्ययार्थविशेषणमित्यर्थः। `नोपपपदम्' इति। उपपदत्वे तु कारी, हारीति रूपं नस्यादित्यभिप्रायः।`ओरावश्यके'(3.2.125) इत्यत्र प्रतिपादितमेवावश्यमुपाधिः, नोपपदमिति;तदिहापि तद्वदेवोपाधिकत्वमावश्यकस्य वदितव्यम्। तेन सह निर्द्देशादाधमर्ण्यमप्युपाधिरेव, नोपपदमिति। यद्यावश्यकमपाधिर्नोपपदम्, `उपपदमतिङ्'(2.2.19) इति समासो न स्यात्, न चान्यल्लक्षणमस्ति येनेह समासः स्यादिति यो मन्येत्, तं प्रत्याह-- `मयूरव्यंसकादित्वात् समासः' इति `सहस्रं दायी'इति।`अकेनोर्भविष्यदाधमर्ण्ययोः' (2.3.70) इति षष्ठ्यां प्रतिषिद्धायां द्वितीयैव भवति।।
171. कृत्याश्च। (3.3.171)
`किमर्थम्'इत्यादि चोद्यम्। `विशेषविहितेन'इति परीहारः।`कर्त्तरि'इत्यादिना परीहारविघटनञ्च। `केचित्'इत्यादिना परकीयमतेन परोहारसमर्थनम्। `भव्यगेयम्'इति। `समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्त्तन्ते' (शा.प.85) इति भव्यगेयादयः शब्दा अवयवभूतेषु कृत्येष्विह वर्त्तन्ते। `कर्त्तृवाचिनः'इति। भव्यगेयादिसूत्रेणैषां पक्षे कर्त्तरि निपातनात्। योगविभाग उत्तरार्थः।।
172. शकि लिङ् च। (3.3.172)
`प्रकृत्यर्थविशेषणञ्चैतत्' । पूर्वेणाभिप्रायेणोपपदनिरासार्थमिदमुच्यते। `जीव्यात्'इति।`स्कोः'(8.2.29) इति सलोपः। अथ किमर्थं लिङग्रहणम्, `लोट् च'(3.3.162) इत्येव सिद्धम्, चकारेण ह्यनुकृष्यमाणो लिङपि भविष्यति ? नैवं शक्यम्; यथैव हि चकारेण लिङनुकृयते तथा कृत्या अप्यनुकृष्येरन्। ननु निवर्तिष्यन्ते कृत्याः, तेषु निवृत्तेषु लिङ एवानुकर्षणार्थश्चकारो भविष्यति ? सत्यमेतत्; एवं यदि तेषां निवृत्तिर्विज्ञास्यते लिङोऽपि निवृत्तिः स्यात्। व्याख्यानादनुवर्तिष्यत इति चेदेवमपि प्रतिपत्तिगौरवं स्यात्। तस्मात् प्रतिपत्तिगौरवपरीहारार्थं यथान्यासमेव न्याय्यम्। अत्र विध्यादिसूत्रे (3.3.161) एवाशीर्ग्रहणं कस्मान्न कृतम्, एवं हि लिङलोटोर्ग्रहणं न कृतं भवति ? नै शक्यम्; विध्यादिसूत्रे पाठे सति `स्मे लोट्' (3.3.165) इत्येवमादिभिः परत्वाद्बाधा स्यात्। इहतु क्रियमाणे परत्वादेष योगस्तेषां बाधको भविष्यतीति न भवत्येष दोषप्रसङ्ग। अवश्यञ्चोत्तरार्थमाशीर्ग्रहणं कर्त्तव्यम्-- `क्तिच्क्तौ च संज्ञायाम्' (3.3.174) इत्याशिषि यथा स्याताम्। ।।
174. क्तिच्क्तौ च संज्ञायाम्। (3.3.174)
`समुदायेन'इति। प्रकृतिप्रत्ययसमुदायेन। एतेन समुदायोपाधितां संज्ञाया दर्शयति। `तन्तिः'इति। `तनु विस्तारे'(धा.पा.1463), अत्र `अनुनासिकस्य क्विझलोः क्ङिति'(6.4.15) इति दीर्घः प्राप्नोति, `अनुदात्तोपदेश'(6.4.37) इत्यादिनानुसिकलोपश्च; तदुभयं `न क्तिचि दीर्घश्च' (6.4.39) इति निषिध्यते। `सातिः'इति। `षणु दाने'(धा.पा.1464), `जनसनखनां सञ्झलोः'(6.4.42) इत्यात्त्वम्। `देवदत्तः'इति। डुदाञो निष्ठायाम् `दो दद् घोः'(7.4.46) इति ददादेशः, `खरि च'(8.4.55) इति चर्त्वम्।।
175. माङि लुङ्। (3.3.175)
`मा कर्षित्' इति। `न माङ्योगे' (6.4.74) इत्यडागमाभावः।।
176. स्मोत्तरे लङ् च। (3.3.176)
स्मशब्द उत्तरमधिकं यस्य माङः स तथोक्तः।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
तृतीयस्याध्यायस्य
तृतीयः पादः
----------------------------------------------