सामग्री पर जाएँ

काशिकाविवरणपञ्जिका/तृतीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः काशिकाविवरणपञ्जिका
चतुर्थः पादः
[[लेखकः :|]]


अथ तृतीयाध्यायस्य
चतुर्थः पादः
1. धातुसम्बन्धे प्रत्ययाः। (3.4.1)
`धात्वर्थे धातुशब्दः' इति। अभिधेयेऽभिधानोपचारं कृत्वा धात्वर्थोऽत्र धातुशब्देन निर्द्दिष्ट इति दर्शयति। भ्वादिष्वेवायं धातुशब्दो वर्त्तते, स्वार्थे गुणीभूतस्य धातुशब्दस्य शब्दान्तरेण सम्बन्धो न स्यात्; तस्माद्धात्वर्थ एवायं धातुशब्दो वर्त्तते, न भ्वादिषु। ततश्च धातुसम्बन्ध इत्यस्य धात्वर्थसम्बन्ध इत्येषोऽर्थो विज्ञायत इत्याह-- `धात्वर्थानां सम्बन्धो धातुसम्बन्धः' इति। कथं पुनः सम्बन्ध इत्याह-- `विशेषणविशेष्यभावः' इति। `अयथाकालोक्ता अपि' इत्यादि। यो यस्यात्मीयः कालो यथाकालम्। `यथाऽसादृश्ये'(2.1.7) इति वीप्सायामव्ययीभावः, यथाकाले उक्ता यथाकालोक्ताः, `सप्तमी'(2.1.40) इति योगविभागात् समासः,न यथाकालोक्ताः = अयथाकालोक्ताः। एतदुक्तं भवति-- स्वैः स्वैर्विधायकैर्वाक्यैर्यत्र यस्मिन् यस्मिन् काले ये ये विहितास्ततोऽन्यत्रकालेऽपि प्रयुक्ताः प्रत्ययाः साधवो भवन्तीति। `अग्निष्टोमयाजी' इत्यादीन्युदाहरणानि दर्शयति। सर्वत्र तिङन्तदाच्योऽर्थो विशेष्यः, सुबन्तवाच्यस्तु विशेषणम्। `अग्निष्टोमयाजीति भूतकालः' इति। भूतः कालोऽस्येति बहुव्रीहिः। भूतकालत्वंतु भूताधिकारे `करणे यजः'(3.2.85) इति णिनेर्विधानात्। `जनितेति भविष्यत्कालः' इति। भविष्यन् कालोऽस्येति बहुव्रीहिरेव। भविष्यत्कालत्वं तु भविष्यदनद्यतने लृटो विधानात्। `तत्र'इति। निर्धारणे सप्तमी। तयोर्भूतकालभविष्यत्कालयोर्मध्ये यो भूतकालः स भविष्यत्कालेन सम्बध्यमानः साधुर्भवति। अग्निष्टोमयाजीति भूतकालो जनितेति भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्काल एव सम्पद्यते। द्वितीयेऽप्युदाहरणे `कृतः' इति भूतकालः; भूते निष्ठाविधानात्। `भविता' इति भविष्यत्कालः पूर्ववदेव। तत्र भूतकाल इतरेणापि सम्बध्यमानः साधुर्भवति। तृतीयेऽपि `भावी'इति भविष्यत्कालः; `भविष्यति गम्यादयः'(3.3.3) इति वचनात्। `आसीत्' इति भूतकालः; भूतानद्यतने लङो विधानात्। तत्र भविष्यत्कालो भूतकालेनापि सम्बध्यमानः साधुर्भवति।
इहाग्निष्टोमयाज्यस्य पुत्रो जनितेति भूतकालो भविष्यत्कालेनापि सम्बध्यमानो भविष्यत्कालः सम्पद्यते। तथा ह्ययमत्रार्थः प्रतीयते-- सोऽस्यपुत्रो जनिता योऽग्निष्टोमेन यष्टेति। न च भविष्यत्कालो भूतकालेनाभिसम्बध्यमानो भूतकालतां प्रतिपद्यते, न ह्यत्रायमर्थः प्रतीयते-- सोऽस्य पुत्रो जातो योऽग्निष्टोमेनेष्टवानिति। इतरयोरप्युदाहरणयोर्विशेषणं विशेष्यकालतामापद्यते, यतस्तत्रायमर्थोऽवगम्यते-- स श्वो भविता कटो यः करिष्यते, तत् कृत्यमासीद् यदभूतमिति। तदेतत्कथं भवति ? विपर्ययः कस्मान्न भवति ? इत्याह-- `विशेषणम्'इत्यादि। विशेषणं हि परार्थत्वाद्‌गुणोऽप्रधानमित्यर्थः। तेन च प्रधानकालस्य विशेष्यस्योपकारः कर्त्तव्यः। न च तत् प्रधानमपरित्यज्य स्वकालं प्रधानकालमप्रतिपद्यमानं प्रधानोपकारक्रियां कर्त्तुं समर्थ भवतीति प्रधानस्य यः कालस्तमुरुध्यते। विशेष्यं तूपकार्यत्वात्प्रधानम्।न च प्रधानस्य गुणकालापत्तिर्युक्ता, अन्यथा यदिगुणकालं प्रधानकालः प्रतिपद्येत तदा तस्य प्रधानत्वं हीयेत। तेन न भवति विपर्ययः।
अथ प्रत्ययग्रहणं किमर्थम्, यावता प्रत्यय इत्यनुवर्त्तत इत्यत आह-- `प्रत्ययाधिकारे'इत्यादि। पूर्वकं प्रत्ययग्रहणं धातुसम्बद्धम्, अतस्तदिहाश्रीयमाणं धात्वधिकारविहितानां प्रत्ययानां साधुत्वे सम्पद्यते। अत्र पुनः प्रत्ययग्रहणे प्रत्ययमात्रं गृह्यते, तदर्थं पुनः प्रत्ययग्रहणम्। `कालभेदे' इति। कालविशेषे,अस्मात्कालादन्यस्मिन् काल इत्यर्थः। `गोमानासीत्'इति । गोमानिति वर्त्तमानकालः, `तदस्य'(5.2.94) इत्यादिना वर्त्तमानकालमस्तीत्युपादाय मतुपो विधानात्। स भूतभविष्यत्कालाभ्यां सम्बध्यमानः साधुर्भवति।।

2. क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः। (3.4.2)
`प्रकृत्यर्थविशेषं चैतत्'इति। एतेनोपपपदत्वं निरस्यति। उपपदत्वे हि केवलाद्धातोर्न स्यादित्यादित्यभिप्रायः। अत्र तिङादेशौ वा हिस्वौ स्याताम्, लोडादेशौ वेति द्वौ पक्षौ। ननु च प्रथमपक्षाशङ्कायाः प्रसङ्ग एव नास्ति; लोट इति वचनात्,तत् कथमसावाशङिकतः ? लोट्स्थानिकत्वादादेशोऽपि लोड्‌व्यपदेशमासादयीति युक्तमाशङ्कितुम्। तत्र हि यदि पूर्वकः पक्ष आश्रीयते तदा `भुङ्क्ष्व भुङ्क्ष्वेत्येवाहं भुञ्जै'इति `आडुत्तमस्य पिच्च' (3.4.92) इति, पित्त्वान्ङित्त्वं नास्ति, ततश्च `श्नषोरल्लोपः' (6.4.111) इत्याकारलोपो न स्यात्। उभावपि च परस्मैपदानामात्मनेपदानामनियमेन स्याताम्;नियमहेतोरभावात्। सामान्येन तिङां स्थाने विधीयमानयोः कृत एतल्लभ्यते ! यतः परस्मैपदानां ह्यादेशेन भविव्यम्, इतरेषां स्वादेशेनेति। तस्माद्दुष्टोऽयं पक्ष इति मत्वा द्वितीयपक्षमाश्रित्याह-- `तस्य च लोटः' इत्यादि। यस्मिन् पक्षे दोषः प्रसजति तं प्रतिविधास्यति। `तध्वंभाविनस्तु वा भवतः' इति। लोट इत्यपेक्ष्यते। तश्च ध्वञ्च तध्वमौ, तौ भाविनौ यस्य लोटः स तष्वम्भावी। एतेन तादशार्थो लोडेव स्थानी; तादर्थ्यात्, सूत्रे तशब्देन व्यपदिष्टो ध्वमादेशार्थश्च ध्वंशब्देनेति दर्शयति। अथ तध्वमावेवस्थानिनौ कस्मान्न विज्ञायेते ? अशक्यं हि तौ स्थानित्वेन विज्ञातुम्। तयोरपि स्थानित्वेऽलोडादेशयोरपि हिस्वौ स्याताम्। अथ तध्वमौ विशेषयिष्यामः-- लोटो यौ तध्वमाविति, ततोऽयमदोष इति चेत्; एवमपि प्रतिपत्तिगौरवं स्यात्। तध्वम्भाविनौ लोट एव स्थानित्वं युक्तम्, न तध्वमोः।
यदितर्हि लोटो हिस्वावादेशौ, न तदादेशानां तिङामेव, एव़ञ्च `लः परस्मैपदम्' (1.4.99) इति तयोः परस्मैपदसंज्ञा स्यात्, ततश्च `शेषात्कर्त्तरि परस्मैपदम्'(1.3.78) इत्युभावपि परस्मैपदिभ्य एव स्याताम्; तिङक्ष्वसन्निवेशाच्च तदन्तस्य तिङन्तता न स्यात्, ततश्च `तिङ्ङतिङः' (8.1.28) इति निघातो न स्यादित्यत आह-- `योगविभागश्च' इत्यादि। `लोडित्येव' इति। एतेन द्वितीये योगे लोडित्यस्यानुवृत्तिं दर्शयति। `लोड्धर्माणौ'इत्यादि। लोट इव धर्मस्तिङत्वादित्वार्ययोस्तौ लोड्‌धर्माणौ। ननु च लोडादेशानां तिङत्वादि धर्मः, न लोटः ? आदेशद्वारेण स्थानिनोऽपि लोटस्तिङत्वादिधर्मो भवतीत्यदोषः। कथं पुनर्योगविभागे सति लोड्‌धर्माणौ तौ भवतः ? योगविभागे सति द्वितीये योगे लोटशब्दो योऽनुवर्त्तते तेनार्थाद्विभक्तेर्विपरिणामो भवतीति षष्ठ्यन्ततामापन्नेन हिस्वौ विशेष्येते-- लोटो यौ हिस्वाविति। ततश्च लोडादेशयोः सिप्थासोः स्थाने यौ हिस्वौ `सेर्ह्यपिच्च' (3.2.87) इत्यादिना शास्त्रेण विधास्येते, तावेव यथास्वमुपात्तविशेषाविह लोटः स्थाने विधीयेते, नापूर्वाविति। तेन लोड्‌धर्माणौ तौ इत्येषोऽर्थो लभ्यत एव। `तेन'इत्यादि। अत एव= यथोक्तेन प्रकारेण, लोड्‌धर्माणौ हिस्वौ लोटः स्थाने भवतः। तेन परस्मैपदत्वनमात्मनेपदत्वञ्च भेदेन विषयविभागेन व्यवतिष्ठते। तत्र हिशब्दे परस्मैपदत्वं व्यतिष्ठते; लोट्‌सम्बन्धिनो हेः परस्मैपदसंज्ञकत्वात्। स्वशब्दे चात्मनेपदत्वं व्यवतिष्ठते;स्वशब्दस्य लोट्‌सम्बन्धिन आत्मनेपदसंज्ञकत्वात्। `तिङत्वञ्च द्वयोरपि भवति' इति। लोट्‌सम्बन्धिनोस्तयोर्द्वयोरपि तिङन्तत्वात्। ननु च सिप्थासोर्लोडादेशयोस्तौ सम्बन्धिनौ, तदादेशत्वात्, न लोटः, तत्कथं लोट्सम्बन्धित्वेन व्यदिश्येते ? आदेशद्वारेण लोट्‌सम्बन्धित्वं तयोरप्यस्तीत्यदोषः। यदि तर्हि लोड्धर्माणौ भवतः, एवमेकवचनसंज्ञा स्यात्, मध्यमपुरुषसंज्ञा च, तयोरपि लोड्‌धर्मत्वात्, ततश्च वचनान्तरभाविनः पुरुषान्तरभाविनश्च लोटो न स्याताम् ? नैष दोषः;यदि ह्येकवचनमध्यमपुरुषसंज्ञे अपि स्यातां वचनमिदमनर्थकं स्यात्, विनाप्यनेन वचनेन मध्यमपुरुषैकवचनयोर्हिस्वयोः सिद्धत्वात्।
`लुनीहि लुनीहि'इति। `क्रियासमभिहारे द्वौ भवतः' (वा.886) इति द्विर्वचनम्।`ई हल्यघोः' (6.4.113) इतीत्त्वम्। `लुनन्ति'इति। `श्नाभ्यस्तयोरातः'(6.4.112) इत्याकारलोपः। `अथ वा' इत्यादिना `वा च तध्वमोः' इति वाग्रहमस्य फलं दर्शयति।
`अलावीत्' इति। `सिचि वृद्धिः परस्मैपदेषु'(7.2.1) इति वृद्धि, `आर्धधातुकस्येड्‌वलादेः' (7.2.35) इतीट्,`अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्, `इट ईटि' (8.2.28) इति सिचो लोपः। `अलाविष्टाम्' इति। `तस्थस्थ' (3.4.101) इत्यादिना तसस्ताम्। `अलाविषुः' इति। सिजभ्यस्तविदिभ्यश्च' (3.4.109) इति झेर्जुसादेशः। `एवं मध्यमोत्ततयो{अपि नास्ति-काशिका,पदमञ्जरी च}रप्युदाहार्यम्' इति। लुनीहि लुनीहीत्येव त्वमलावीर्युवामलाविष्टं यूयमलाविष्ट। अथ वा-- लुनीत लुनीतेत्येव यूयमलाविष्ट। लुनीहि नीहीत्येवाहमलाविषम्, आवामलाविष्वि, वयमलाविष्म।
`एवं मध्यमोत्तमयो{अपि नास्ति-काशिका}रप्युदाहार्यम्' इति। लुनीहि लुनीहीत्येवं त्वं लविष्यसि, युवां लविष्यथः, यूयं लविप्यथ। अथ वा-- लुनीत लुनीतेत्येव यूयं लविष्यथ। लुनीहि लुनीहीत्येवाहं लविष्यामि, आवां लविष्यावः, वयं लविष्यामः।
`अधीयात्' इति। इयङ। `अधीयते' इति। `आत्मनेपदेष्वनतः' (7.1.5) इत्यदादेशः। `एवं {सर्वेषु लकारेषूदाहार्यम्-काशिका, पदमञ्जरी च}सर्वलकारेषूदाहार्यम्' इति। लङ-लुनीहि लुनीहीत्येवायमलुनात्, इमावलुनीताम्, इमेऽलुनन्। लुनीहि लुनीहीत्येव त्वमलुनः, युवामलुनीतम्‌, यूयमलुनीत। अथ वा-- लुलीत लुनीतेत्येव यूयमलुनीत। लुनीहि लनीहीत्येवाहमलुनाम्, आवामलुनीव, वममलुनीम। अधीष्वाधीष्वेत्येवायमध्यैत, इमावध्यैयाताम्,इमेऽध्यैयत। अधीष्वाधीष्वेसत्येव त्वमध्यैथाः, युवामध्यैयाथाम्, यूयमध्यैध्वम्। अथ वा-- अधीध्वमधीध्वमित्येव यूयमध्यैध्वम्। अधीष्वाधीष्वत्यवाहमध्यैषि, आवामध्यैवहि, वयमध्यैमहि। अन्येषु लकारेष्वतिग्रन्थविस्तरभयान्नोदाह्रियते।अनया दिशा स्वयमेवाभ्युपगम्योदाहार्यम्।
अथ लुनीहि लुनोहीति कथमत्र द्विर्वचनम्, यावता धातुनैव क्रियासमभिहारोऽवगमितः; तद्विशिष्टक्रियावचनाद्धातोर्लोड्विधानात् ? अथ वा-- अवगमिते सति तस्मिन् द्विर्वचनं भवतीति चेदेवं यङन्तस्यापि द्विर्वचनं स्यात् ? इत्यत आह-- `क्रियासमभिहाराभिव्यक्तौ' इत्यादि। यद्यपि क्रियासमभिहारविशिष्टक्रियाभिधायिनो धातोर्लोड् भवति, तथापि या तस्य क्रियासमभिहारभिव्यक्तिः सा धातुना न क्रियते, किं तर्हि ? लोडैव। स चतां कर्त्तुं द्विर्वचनसहित एव समर्थो भवति, न केवलः; तत्र तस्याविधानात्। स हि लोट `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इति कर्मादिषु विधीयते, न क्रियासमभिहारे। तस्मात् तदभिव्यक्तौ कर्त्तव्यायां लोट् स्वयमसमर्थ इति द्विर्वचनमपेक्षते, तेन तदन्तस्य द्विर्वचनं भवतीति भावः। केन पुनर्विधीयमानं द्विर्वचनमपेक्षत इत्याह-- `क्रियासमभिहारे' इत्यादि। `यङप्रत्ययः पुनः' इत्यादि। यङप्रत्ययो हि क्रियासमभिहार एव विधीयते। तेनासौ तत्र विधीयमानस्तदभिव्यक्तौ स्वयमेव समर्थ इति नापेक्षते द्विर्वचनम्। तेन तदन्तस्य द्विर्वचनं न भवतीति भावः।।

3.समुच्चयेऽन्यतरस्याम्। (3.4.3)
`अनेकक्रियाध्याहारः' इति। अनेकासां क्रियाणां चीयमानतेत्यर्थः। एतेन समभिहारात् समुच्चयस्य भेदं दर्शयति। समभिहारोऽपि पौनःपुन्यम्, भृशार्थो वा, स चैकस्या एव क्रियायाः सम्भवः। समुच्चयः पुनरनेकासां क्रियाणाम्।
`भाष्ट्रमट'इति। `अतो हेः' (6.4.105) इति लुक्। अत्र साधनभेदाद्भेदमुपागतानामनकासामटनक्रियाणां समुच्चयः।
`अथ वा' इत्यादि। प्रथमेनाथ वेतिग्रहणेन `वा च तध्वमोः' (3.4.2) इति वाग्रहणप्रतिपादितं विकल्पं दर्शयति, द्वितीयेनान्यतरस्यां (3.4.3) ग्रहणप्रतिपादितम्।।

4. यथाविध्यनुप्रयोगः पूर्वस्मिन्। (3.4.4)
`पूर्वस्मिन लोड्‌विधाने' इत्यादेर्वाक्यस्य यस्माद्धातोरित्यादिनार्थं स्पष्टीकरोति। `धातुसम्बन्धे' इत्यादि। धातुसम्बन्ध (3.4.1) इत्यनुवृत्तेर्धातुसम्बन्ध एव लोड्‌विधानम्, अतोऽनु प्रयोगः सिद्धः एव, न हि तेन विना धातुसम्बन्धो भवति; तस्य द्विष्ठत्वात्। यद्येवम्, किमर्थमिदं वचनम् ? इत्याह-- `यथाविध्यर्थं तु' इति। अथ व्यवहितप्रयोगस्य वा पूर्वस्य प्रयोगस्य वा निवृत्त्यर्थं कस्मान्न भवति, यथा-- `कृञ्चानुप्रयुज्यते लिटि' (3.1.40) इति ? न; तयोरपीष्टत्वात्। इष्यते हि व्यवहितप्रोगः- लुनीहि लुनीहीत्यवायं देवदत्तो लुनाति। पूर्वप्रयोगोऽपीष्यते-- लुनाति देवदत्तो लुनीहि लुनीहीति। तस्माद्यथा विध्यर्थमेवेदं युक्तम्। ननु च`समुच्चये सामान्यवचनस्य' (3.4.5) इति धात्वन्तरस्य समानार्थस्य प्रयोगाभ्यनुज्ञानात् क्रियासमभिहारे यथाविध्यनुप्रयोगो भविष्यतीति, तत्किमनेन वचनेन ? नैतदस्ति, समुच्चय एव हि नियमः स्यात्, क्रियासमभिहारे तु यथाविध्यनुप्रयोगः स्यात्, धात्वन्तरस्य च समानार्थस्य। तस्मादारब्धव्यमिदम्।।

5. समुच्चये सामान्यवचनस्य। (3.4.5)
`सर्वविशेषानुप्रयोगानिवृत्त्यर्थम्' इति। यदीदं नारभ्यते तदा यावद्भ्यो धातुभ्यो लोड्विहितस्तावतामेवानुप्रयोगः प्रसज्येत; ततस्तन्निवृत्यर्थमेतत्। ननु चान्तरेणापीदं वचनं लाघवात् सामान्यवचनस्यैवानुप्रयोगो भविष्यति। सर्वविशेषानुप्रयोगे ह्योदनं भुङ्क्ष्व सक्तून् पिब धानाः खाद इत्येवायं भुङ्क्ते पिबति खादतीति सर्वेषु तदा तरुशब्दस्यैव प्रयोगः स्यात्, वनस्पतिशब्दप्रभृतयस्तूच्छिद्येरन्, न चैवम्, तस्मान्नास्ति लौकिकशब्दप्रयोगे गुरुलाघवं प्रत्यादरः। ननु च भ्राष्ट्रमटेत्यादावुदाहरणे कारकस्यैव समुच्चयो भ्राष्ट्रादेः, न क्रियायाः, तस्या एकत्वात्; अनेकाधारत्वञ्च सामान्यम्, एकत्वे क्रियायास्तन्न सम्भवति, तत्कथं सामान्यवचनस्यानुप्रयोग उपपद्यते ? इत्याह-- `भ्राष्टमट'इत्यादि। गतार्थम्।।

6. छन्दसि लुङ्लङलिटः। (3.4.6)
`यथायथम्' इति। यथास्वम्। यो यस्यात्मीयो विषयः स तत्रेत्यर्थः। `अकरत्' इति।`कृमृदृरुहिभ्यश्छन्दसि'(3.1.59) इति च्लेरङ, `ऋदृशोऽङि गुणः' (7.4.16)। `अकरम्' इति। मिपोऽम्। `अवृणीत' इति। वृञो लङ्, क्र्यादित्वात् श्ना, पूर्ववदीत्वम्। `ममार' इति। लिट्, `म्रियतेर्लुङलिङोश्च' (1.3.61) इति नियमात् परस्मैपदम्, णल्, वृद्धिः, रपरत्वम्, `द्विर्वचनेऽचि' (1.1.59) इति स्थाननिवद्भावात् मृ इत्येतद्‌द्विरुच्यते्, `उरत्' (7.4.66) इत्यत्वम्, रपरत्वम्, हलादिशेषः।।

7. लिङर्थे लेट्। (3.4.7)
`नेषत्' । `तक्षिषत्' इति। नयतेस्तक्षते श्च लेट्, तिप्, `इतश्च लोपः परस्म ैपदेषु' )3.4.97) इतीकारलोपः, `सिब् बहुलं लेटि'(3.1.34) इति सिप्, `लेटोऽडाटौ' (3.4.94) इत्याट्। तक्षिषदित्यत्र `आर्धधातुकस्य' (7.2.35) इत्यादिनेट्। जोषिषदित्यादीन्युदाहरणानि `सिब् बहुलं लेटि'( 3.1.34) इत्यत्र व्युत्पादितानि।।

8.उपसंवादशङ्कयोश्च। (3.4.8)
`उपसंवादः परिभाषणम्; कर्त्तव्ये पणबन्धः' इति। उपसंवादशब्दस्येमौ पर्यायौ। `यदि मे भवान्' इत्यादिनोसवादस्य स्वरूपं दर्शयति। कारणत इत्यादिनाप्याशङ्कायाः। `अनुसरणम्' इति। अनुगमनम्, अनुमानमित्यर्थः। `तर्क उत्प्रेक्षा' इति। आशङ्काया इमौ प्र्यायौ। `अहमेव' इत्यादि। देवैः पशुपतिरुक्तस्त्रिपुरं जहीति, तेनोक्तम्-- `अहमेव पशूनामीशै' इति. ब्रह्महत्याभागं गृहाणेत्युक्ते आदित्य इदमुक्तवान् `मदग्रा एव वो ग्रहा गृह्यान्तै। मद्देवतान्येव वः पात्राण्युच्यान्तै। `ईशै'इति-- `ईश ऐश्वर्ये' (धा.पा.1020), उत्तमपुरुषैकवचनम्, इट्, टेरेत्वम्, `एत ऐ' (3.4.93)। `गृह्यान्तै' इति--ग्रह उपादाने' (धा.पा.1533), `झोऽन्तः' (7.1.3), कर्मणि `सार्वधातुके यक्' (3.1.67), ग्रह्यादिसूत्रेण (6.1.16) सम्प्रसारणम्। शेषं पूर्ववत् साधनम्। `उच्यान्तै' इति-- `वच परिभाषणे' (धा.पा.1063), वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। शेषं पूर्ववत्। `पताम' इति-- `पत्लृ गतौ' (धा.पा.845), मस्, `लेटोऽडाटौ' (3.4.94) इत्याट्। `जिह्माचरणेन' इत्यादिना पूर्वोक्तमाशङ्कालक्षणमुदाहरणे दर्शयति। `लिङर्थ एवायम्' इति। हेतुहेतुमद्भावः। कथम् ? उपसंवादे तावत्-- यदि मे भवानिदं कुर्यादहमपि त इदं दास्यामीत्येवंविधं परिभाषणलक्षणम्। तत्र च करणं हेतुः, दानं हेतुमदिति युक्त उपसंवादो लिङर्थः। आशङ्कापि कारणतः कार्यानुसरणम्। तत्रापि कारणं हेतुः, कार्यानुसरणं हेतुमदित्याशङ्कापि लिङर्थ एव। यद्येवम्म, पूर्वेणैव सिद्धम्, तत्किमर्थमिदमुच्यते ? इत्याह-- `नित्यार्थ वचनम्' इति। स्यादेतत् पूर्वेणैव नित्यं भविष्यतीत्याह-- `पूर्वसूत्रे' इत्यादि।।

9. तुमर्थे सेसेनसेअसेन्कसेकसेनध्यैअध्यैकद्यैकध्यैन्शध्यैशद्यैन्तवैतवङ्तवेनः। (3.4.9)
`कथं ज्ञायते' इति। `कर्त्तरि कृत्' (3.4.67) इति वचनात् कर्त्तैव तुमर्थो युक्त इति मन्यते। `वचनसामर्थ्यात्' इत्यादि। यदि कर्त्तैव तुमर्थः स्यात् तुमर्थवचनमर्थकं स्यात्, कृत्त्वादेव हि सयादयः कर्त्तरि भविष्यन्ति। तस्मात् तुमर्थग्रहणाल्लिङ्गात् कर्त्तरि तुमुन्न भवति। `अपकृष्यते' । अपनीयते। कर्त्तरि न भवतीति यावत्। स्यादेतत्, कर्मादिरस्यार्थो भविष्यतीत्याह-- `न च' इत्यादि। `अन्यस्मिन्' इति। कर्मादौ। यथा तर्हि कर्मादावनिर्देशान्न भवति तथा भावेऽपि न स्यात्। भावेऽपि नैव तुमुन्निर्दिश्यत इत्याह-- `अनिर्दिष्टार्थाः' इत्यादि। अर्थान्तरस्य निर्देशाद्या प्रकृतिः प्रत्ययानां निमित्तत्वेनोपादीयते तदर्थस्य प्रत्यासत्तेस्तत्रैवानिनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, स पुनरिह स्वार्थो भावः। कुत एतत् ? धात्वधिकारात्, धातोश्च भाववचनत्वात्। यद्येवम्, भावग्रहणमेव कुर्यात्, लघुत्वात् ? नैवं शक्यम्; भावग्रहणे सति `कर्त्तरि कृत्' (3.4.67) इति वचनात्तुमुन् कर्त्तर्येव स्यात्। तुमर्थग्रहणे हि तुमुनोऽपि हि भाव एवार्थ इत्येतद्ज्ञापितं भवतीति न कश्चिद्दोष इति। `वक्षे' इति। `वच परिभाषणे' (धा.पा.1063), सेप्रत्ययः, `चोः कुः' (8.2.30) इति कुत्वम्। `एषे' इति। इणः सेन्प्रत्ययः। `जीवसे' इति। `जीव प्राणधारणे' (धा.पा.562)। प्रत्ययद्वयस्याप्येतदेवोदाहरणम्, स्वरस्तु भिद्यते। `प्रेषे' इति। इणः प्रपूर्वात् क्से, `आद्‌गुणः' (6.1.87)। `श्रियसे' इति। `श्रिञ् सेवायाम्' (धा.पा.897), अस्मात् क्सेन, इयङ्। `उपाचरध्यै' इति। `चर गत्यर्थः' (धा.पा.559), उपाङपूर्वः। प्रत्ययद्वयस्यापीदुहारणम्, स्वरभेदात्तु भेदः। `आहुवध्यै' इति। `पा पाने' (धा.पा.925), शध्यै, प्राघ्रादिसूत्रेण (7.3.78) पिबादेशः। `मादयध्यै' इति। `मदी {हर्षग्लेपनयोः-धा.पा.} हर्षे' (धा.पा.815), हेतुमण्णिच्, शध्यैन्, गुणायादेशौ। `पातवै' इति। पिबतेस्तवै। `सूतवे' इति। `षूङ प्राणिगर्भविमोचे' (धा.पा.1031), तवेङ, ङित्वाद्गुणाभावः। `गन्तवे' इत्यादीन्युदाहरणानि गमिकरोतिहरतीनां यथाक्रमेण।।

10.प्रयै रोहिष्यै अव्यथिष्यै। (3.4.10)
`प्रयै' इति। `अतो लोप इटि च' (6.4.64) इत्याकारलोपः।।

11. दृशे विख्ये च। (3.4.11)
`दृशे' इति। दृशेः केप्रत्ययः। `विख्ये' इति। विपूर्वाच्चक्षिङ ख्यातेर्वा केप्रत्ययो निपात्यते।।

12. शकि णमुल्कमुलौ। (3.4.12)
`विभाजमम्' इति। विपूर्वाद्भजेर्णमुल्। `अपलुपम्' इति। `लुप्लृ च्छेदने' (धा.पा.1431), कमुल्।।

13. ईश्वरे तोसुन्कसुनौ। (3.4.13)
अभिचरितोः' इति। चरतेरभिपूर्वात् तोसुन्प्रत्ययः। `विलिखः, वितृदः' इति। लिखतेः, `{उ तृदिर्' धा.पा.}तृदिर् हिंसादानयोः' (धा.पा.1446) इत्येतस्माच्च कसुन्।।

14. कृत्यार्थे तवैकेन्केन्यत्वनः। (3.4.14)
`कृत्यानामर्थो भावकर्मणी' इति। `तयोरेव कृत्यक्तखलर्थाः' (3.4.70) इतिभावकर्मणोः कृत्यानां विधानात्। `अन्तेतवै' इति। अनुपूर्वादिणस्तवै। `परिधातवै' इति। परिपूर्वाद्दधातेः। `परिस्तरितवै' इति। परिपूर्वादेव `स्तृञ् आच्छादने' (धा.पा.1252) इत्यस्मात्। `अवगाहे' इति। `गाहु विलोडने' (धा.पा.649) अक्पूर्वः। `दिदृक्षेण्यः' इति। `दृशः सन्, द्विर्वचनम्, उरत्त्वम्, रपरत्वम्, `सन्यतः' (7.4.79) इतीत्त्वम्, `हलन्ताच्च' (1.2.10) इति गुणाभावः, व्रश्चादिसूत्रेण (8.2.36) षत्वम्,`षढोः कः सि' (8.2.41) इति कत्वम्, दिदृक्ष इति स्थिते केन्यप्रत्ययः, `अतो लोपः' (6.4.48)। `शुश्रूषेण्यः' इति। शृणोतेः सन्, `अज्झनगमां सनि' (6.4.16) इति दीर्घः, द्विर्वचनमभ्यासकार्यम्, शुश्रूष इति स्थिते केन्यप्रत्ययः। `कर्त्त्वम्' इति। करोतेस्त्वम्। `सयादिसूत्रेऽपि तवै विहितः' इति। सयादीनां सूत्रं सयादिसूत्रम्, येन सयादयो विहितास्ततत्रापि तवैप्रत्ययो विहितः। `तस्य तुमर्थात्' इत्यादि। यदि तु तस्य तुमर्थ एव भावे विधिः स्यात् तस्यानर्थक्यं स्यात्; अनेनैव सिद्धत्वात्। तस्माद्यद्यपि तत्र तुमर्थ इत्युच्यते, तथापि ततोऽन्यत्र कर्मकारके कर्त्रादौ तवैप्रत्ययविधानं वेदितव्यम्।।

15. अवचक्षे च। (3.4.15)
`एश्प्रत्ययो निपात्यते' इति। शित्करणं सार्वधातुकसंज्ञार्थम्। तेनार्धधातुके विधीयमानः सार्वधातुके `चक्षिङ ख्याञ्' (2.4.54) इति ख्याञादेशो न भवति।।

16. भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्। (3.4.16)
`आसंस्थातोः' इत्यादि। आसंस्थातोः शब्देन समाप्तिरुच्यते, वेद्यां सदनं लक्ष्यते। `पुरा सूर्यस्योदेतोराधेयः' इति। अत्राप्याधानक्रिया सूर्यस्योदयेन। `पुरा वत्सानाम्' त्यादौ वत्सानामपाकरणेनासनम्। `पुरा प्रवदितोः' इत्यादौ प्रवदनेन हवनम्। `पुरा प्रचरितोः' इत्यादौ प्रचरणेन हवनमेव। उत्तरयोरुदाहरणयोराहवनेनासम्भवनम्।।

17. सृपितृदोः कसुन्। (3.4.17)

18. अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा। (3.4.18)
`प्रतिषेधवाचिनोः' इति। प्रतिषेधयोरित्यस्येदं विवरणम्।एतेन प्रतिषेधवाचित्वादलंखलुशब्दौ सूत्रे प्रतिषेधशब्देनोक्ताविति दर्शयति। भवति हि तद्वाचित्वात्ताच्छब्द्यम्; यथा-- `क्षुद्रजन्तवः' (2.4.8) इति, तत्र क्षुद्रजन्तुवाचित्वाद्यूकालिक्षादयः शब्दाः क्षुद्रजन्तुशब्देनोक्ताः।
`अलङ्कारः' इति। भावे घञ्। भूषणवचनोऽत्रालंशब्दः।
`अलं वाले रोदनेन' इति। भावे ल्युट्। `वासरूपविधिरिति चेत्' इति। विनापि प्राग्ग्रहणेन विकल्पो लभ्यत एव। यस्मादसरूपोऽपवादो बाधको भवतीत्येवं चेन्मन्यसे,एवं तर्हि प्राग्ग्रहणम्, पूर्वं स्त्र्यधिकारात्। परेण वासरूपविधिर्नास्तीति चेतसि कृत्वा विकल्पार्थं प्राग्ग्रहणमुक्तम्।।

19. उदीचां माङो व्यतीहारे। (3.4.19)
`अपमित्य' इति। `आदेच उपदेशेऽशिति' (6.1.45) इत्यात्वम्, `कुगतिप्रादयः' (2.2.18) इति समासः, `समासेऽऩञ्पूर्वे क्त्वो ल्यप्' (7.1.37) इति ल्यप्, `मयतेरिदन्यतरस्याम्' (6.4.70) इतीत्त्वम्, `ह्रस्वस्य पिति कृति तुक्' (6.1.71)। ननु च `समानकर्त्तृकयोः पूर्वकाले' (3.4.21) इत्यनेनैवात्र क्त्वाप्रत्ययो भवति, अस्ति ह्यत्रापि समानकर्त्तृकत्वम्। तथा हि-- य एवापमयतेः कर्त्ता स एव याचतेः,तत्किमर्थं विधीयते ? इत्याह-- `अपूर्वकालत्वात्' इत्यादि। पूर्वं ह्यसौ याचते पश्चादपमयत इति नास्ति पूर्वकालत्वम्, तस्मादप्राप्त एव क्त्वा विधीयते। विधीयतान्नमाम; अयन्तु दोषः-- यदैवास्माद्वचनान्मयतेः क्त्वा भवति, तदैव समानकर्त्तृकयोरित्यस्माद्वचनाद्याचतेरपि स्यात् ? नैष दोष-; यस्मात् `समानकर्त्तृकयोः' (3.4.21) इत्यत्र `उदीचाम्' (3.4.19) इति वर्त्तते, सा च व्यवस्थितविभाषा,तेन यदा मयतेः क्त्वा भवति तदा याचतेः क्तवा न भविष्यति। `उदीचांग्रहणात्' इत्यादि। उदीचांग्रहणमिह विकल्पार्थम्। तेन यथाप्राप्तमपि पक्षे भवति। याचतेः क्त्वा। मयतेर्लडादिः।
माङिति `माङ माने' (धा.पा.1142) इत्यस्यायं निर्देश इति कस्यचिदाशङ्का स्यात्,अतस्तां निराकर्त्तुमाह-- `मेङ कृतात्त्वस्यायं निर्दशः' इति। कुतः पुनरेतदवगतम् ? व्यतीहारग्रहणात्। मेङेव व्यतीहारे वर्त्तते, न माङ, तस्मान्मेङ एवायं निर्देश इति विज्ञायते। किमर्थं पुनरेवं निर्देशः कृतः,कृते यत्र सति सन्देहः स्यात्, न मेङ इत्येवासन्दिग्धः कर्त्तव्य स्यादित्यत आह-- `ज्ञापनार्थः'इति। मेङ इत्येवं निर्देशे कर्त्तव्ये यः सानुबन्धकस्य कृतात्त्वस्य निर्देशः कृतः स ज्ञापनार्थः। तेनैतज्ज्ञापयते-- `नानुबन्धकृतमनेजन्तत्वम्' इति। `तेन' इत्यादिना ज्ञापनप्रयोजनं दर्शयति। यद्यमर्थो न ज्ञाप्येत ततो हलन्तत्वाद् दैप एजन्तत्वं न स्यात्। तत्र को दोषः ? दाब्ग्रहणेन दैब्ग्रहणं न स्यात्; भिन्नेरूपत्वात्। ततश्च `दाधा घ्वदाप्' (1.1.20) इत्यत्र दैपः प्रतिषेधो न स्यात्। अस्मिंस्त्वर्थे ज्ञापिते सति भवति।।

20. परावरयोगे च। (3.4.20)
इहेमौ परावरशब्दौ सम्बन्धिशब्दौ। पूर्वञ्चापेक्ष्य परो भवति, परञ्चापेक्ष्.यावरः,सम्बन्धिशब्दाश्च नियतमेव प्रतियोगिनमुपस्थापयन्ति, तस्मात् सूत्रे यद्यपि विशिष्टप्रयोगो न मिर्दिश्यते, तथापि पूर्वपरयोरेव परावराभ्यां योगो गम्यत इत्याह-- `परेण पूर्वस्य' इत्यादि। `परनदीयोगेन पर्वतो विशिष्यते' इति। तथा ह्यप्राप्य नदीं पर्वत इत्युक्ते परया नद्या पर्वतस्य यो योगस्तद्विशिष्टः पर्वतः प्रतीयते। `अवरपर्वतयोगेन नदी विशिष्यते' इवि। यस्मादतिक्रम्य पर्वतं नदीत्युक्तेऽवरेण पर्वतेन नद्या च यो योगस्तद्विशिष्ट नदी विज्ञायते।।

21. समानकर्त्तृकयोः पूर्वकालेः। (3.4.21)
धात्वधिकाराद्धात्वर्थस्यैव समानकर्त्तृकत्वं विज्ञायत इत्याह-- `समानः कर्त्ता ययोर्धात्वर्थयोःट इत्यादि। निर्धारणे चेयं षष्ठी। समानशब्दश्चायमेकवाची। ननु शक्ति कारकम्, अन्या च पूर्वकालक्रियायाः, तत्कुतः समानकर्त्तृकत्वं विज्ञायते ? इत्याह-- `शक्तिशक्तिमतोः' इत्यादि। शक्तिः शक्तिमाँश्च शक्तिशक्तिमन्तौ। यश्च शक्त्याधारो या च शक्तिस्तयोरिह भेदो न विवक्षितः। तेन शक्त्याधार एक एव देवदत्तः कर्त्ता, स चोभयोरपि क्रिययोरेक एवेति युक्तं समानकर्त्तृकत्वम्। `पीत्वा' इति। पूर्ववदीत्वम् । इह `समानकर्त्तृकयोः' इति द्विर्वचनेन निर्देशः कृतः तेन द्वे एव क्रिये प्रत्युपस्थास्येते, न बह्व्यः, ततश्च द्वयोरेव क्रिययोः प्रत्युपस्थापितयोः स्यात्, न बह्वीषु ? इत्याह-- `द्विवचनम्' इत्यादि। क्रियाप्रधानत्वादस्य निर्देशस्य। नात्र द्विवचनं प्रधानम्; नान्तरीयकत्वात्। तेन द्विवचनेन निर्देशः कृतः। अवश्यं येन केनचिद्वचनेन निर्देशः कर्त्तव्यः, तस्मादतन्त्रत्वाद्‌द्विवचनस्य, बह्वीष्वपि क्रियासु भवत्येव।
`भुक्तवति ब्राह्मणे व्रजति' sइति। अत्र भुजिक्रियाया ब्राह्मणः कर्त्ता, व्रजतिक्रियायास्तु देवदत्त इति समानकर्त्तृकत्वाभावः। `व्रजति जल्पति च' इति। यौगपद्यादिह क्रियायाः पूर्वकालता नास्ति।
`व्यादाय' इति। ददातेर्व्याङपूर्वस्य रूपम्। `सम्मील्य' इति। `मील स्मील क्ष्मील निमेषणे' (धा.पा.517,519,520) इत्यस्य सम्पूर्वस्य हेतुमण्ण्यन्तस्य। किं पुनः कारणं न सिध्यीत्याह-- `अपूर्वकालत्वात्'उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- पूर्वयोगाच्चकायोऽनुवर्त्तते, स चानुक्तसमुच्चयार्थः, तेन मुखं व्यादाय स्वपितीत्यादौ पूर्वकालत्वाभावेऽपि भविष्यतीति।।

22. अभीक्ष्ण्ये णमुल् च। (3.4.22)
`द्विर्वचनसहितौ' इत्यादि। आभीक्ष्ण्यं हि द्योतयितुं द्विर्वचनसहितयोरेव क्त्वाणमुलोः सामर्थ्यम्, न केवलयोः; शब्दशक्तिस्वाभाव्यात्। तस्माद्द्विर्वचनं विधेयमिति भावः। केन पुनरत्र द्विर्वचनमित्याह-- `आभीक्ष्ण्ये' इत्यादि। `पायम्पायम्' इति। `आतो युक्' (7.3.33)।।

23. न यद्यनाकाङ्क्षे। (3.4.23)
`अनाकाङ्क्षे' इति। न विद्यत आकाङ्क्षा = अपेक्षा यस्य स तथोक्तः। `क्त्वा तु पूर्वसूत्रविहितोऽपि' इति। अपिशब्दादनन्तरविहितोऽपि युक्तं यदनन्तरसूत्रविहितः प्रतिषिध्यते-- `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.99) इति कृत्वा। पूर्वसूत्रेण विहितस्य तु कथं प्रतिषेधः ? प्रकरणापेक्षया प्रतिषेधविधानात्। पूर्वकालप्रकरणे यत् प्राप्नोति तन्न भवतीत्येवमयं पूर्वकालप्रकरणापेक्षया प्रतिषेधः क्रियते। तस्माद्युक्तः पूर्वसूत्रविहितस्यापि प्रतिषेधः।।

24. विभाषाग्रेप्रथमपूर्वेषु। (3.4.24)
`आभीक्षण्ये' इति नानुवर्त्तते' इति। `अप्राप्तविभाषेयम्' इत्यत्रेयं युक्तिः। ननु च प्रताप्तविभाषेयं युक्ता,णमुल्यप्राप्ते क्त्वाप्रत्यये `समानकर्त्तृकयोः' (3.4.21) इत्यादिना प्राप्ते सत्यारम्भात् ? नैतदस्ति; अनन्तरसूत्रविहितौ हि क्त्वाण्मुलावित्यधिकृत्याप्राप्तविभाषेयमित्युच्यते। यस्तु `समानकर्त्तृकयोः' (3.4.21) इत्यादिना केवलः क्त्वा विहितस्तं प्रति विभाषाग्रहणं न कर्त्तव्यमेव; वासरूपविधिना तत्प्रतिपादितस्यार्थस्य सिद्धत्वात्। `ननु च' इत्यादिनाऽनन्तरोक्तविभाषाग्रहणस्य प्रयोजनं विघटयति । `क्त्वाणमुली यत्र' इत्यादि। वासरूपविधिनैव पक्षे लडादिषु। सिद्धेषु यत् तदर्थं विभाषाग्रहणं क्रियते तेन यत्र क्त्वाणमुलौ युगपद्विधीयेते तत्र वासरूपविधिर्नास्तीत्येषोऽर्थो ज्ञाप्यते। किमेतस्य प्रयोजनं ज्ञापनस्य ? इत्याह-- `तेन' इत्यादि।
`उपपदसमासः' इत्यादि। `अमैवाव्ययेन' (2.2.20) इत्युपपदसमासः प्राप्नोति, स कस्मान्न भवतीत्याह-- `उक्तम्' इत्यादि। `अमैव यत् तुल्यविधानमुपपदं तत् समस्यते' (का.व.2.2.20) इत्युक्तं प्राक्। अग्ने भृतीन्युपपदान्यमा चान्येन क्त्वाप्रत्ययेन तुल्यविधानम्, अतो न समस्यन्ते।।

25. कर्मण्याक्रोशे कृञः खमुञ्। (3.4.25)
`चौराङ्कारम्' इति। `अरुर्द्विषदजन्तस्य मुम्' (6.3.67) इति मुम्। `चौरकरणम्' इत्यादि। करोतिरत्रोच्चारणक्रियः। `चौरोऽसि'इत्याक्रोशवाक्ये चौरशब्दस्य यत् करणमुच्चारणं तदाक्रोशस्यैव सम्पादनार्थम्। न हि तेनविनाऽऽक्रोशः शक्यते प्रतिपादयितुम्। `न त्वसौ चौरः क्रियते' इति। अशक्यत्वात्। न च `चौरोऽसीति शतकृत्वोऽपि ब्रुवता पुरुषस्य शक्यते चौरत्वमुत्पादयितुम्।।

26. स्वादुमि णमुल्। (3.4.26)
`स्वादुमीत्यर्थग्रहणम्‌' इति। ननु च `स्वं रूपं शब्दस्याशब्दसंज्ञा' (1.1.68) इति वचनात् स्वरूपस्यैव ग्रहणेन भवितव्यम् ? नैतदस्ति; शब्दानुशासनप्रस्तावादेव हि शब्दस्येति सिद्धे शब्दग्रहणं यत्र शब्दपरो निर्देशस्तत्र स्वं रूपं गृह्यते नार्थपरनिर्देश इति ज्ञापनार्थं कृतम्, इह चार्थपरो निर्देशः। तस्मादर्थग्रहणमेव युक्तम्। अर्थपरत्वं तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। अर्थग्रहणे च सति तत्पर्यायेष्वपि प्रत्ययो लभ्यत इत्याह-- `स्वाद्वर्थेषु' इत्यादि। अथ `स्वादुमि' इति किमर्थं मकारान्तत्वं निपात्यते, मान्तस्योपपदस्य श्रवणं यथा स्यादिति चेत् ? न; यद्येतत्प्रोयजनम्, न निपातयितव्यम्, अनन्तरसूत्रे खमुञः प्रकृतत्वात् स एव विधास्यते। अस्मिंश्च विहिते मुमैव मान्तत्वमुपपदस्य भविष्यतीत्येतच्चोद्यमापाकर्त्तुमाह--`स्वादुमि'इत्यादि। एतेनैतद्दर्शयति--यद्यपि खमुञि सति सिध्यति मकारान्तत्वम्, ईकारप्रतिषेधस्तु न सिध्यति, ततश्च स्वदुशब्दादुपपदात् `वोतो गुणवचनात्' (4.1.44) इति ङीष् प्रसज्येत्, तथा चानिष्टं रूपं स्यात्। माकारान्तत्वनिपातने हि निमित्तस्य विहितत्वान्ङीष्प्रसङ्गो नास्ति। तस्माद्योऽपि खमुञं विदधाति तेनाप्यवश्यमीकारप्रतिषेधार्थं मकारान्तं निपातयितव्यमिति। यद्यपि परस्याभिमतम्-- `खमुञि विहिते मुमैव मकारान्तत्वं भविष्यति' इति, तदपि न सर्वत्रेति सूचयितुमाह-- `च्व्यन्तस्य' इत्यादि। अनेनैतद्दर्शयति-- यदि मकारान्तत्वं न निपात्येत, तदा सत्यपि खमुञि मकारान्तत्वं च्व्यन्तस्योपपदस्य न स्यात्; तस्याव्ययत्वात्। मुम्‌विधौ च `खित्यनव्ययस्य' (6.3.66) इत्यधिकारात्। तस्माद्योऽपि खमुञं विदधाति तेनापि मकारान्तत्वनिपातनं कर्त्तव्यम्। एवं हि मकारान्तत्वनिपातनमेव क्रियताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधातव्यः ? अशक्यः खमुञ् विधातुम्; खमुञ्प्रत्यये हि मकारान्तत्वनिपातनमव्ययार्थं विज्ञायते,ततश्च `च्वौ च' (6.3.64) इति दीर्घत्वं स्यादेव। णमुलि सति सर्वविधयपवादस्तु विज्ञायेत, तेन दीर्घत्वमपि न भवति। अवश्यञ्चोत्तरार्थं णमुल् विधेयः, न च तस्मिन्नुत्तरत्र विधीयमाने लाघवं भवति, नापीह गौरवम्।
क्व पुनरर्थ एते प्रत्या भवन्तीत्याह-- `तुमर्ओथाधिकाराच्च' इत्यादि।। `एते' इति। ये तुमर्थधिकारे विहिताः। `यद्येवम्' इति। यदि तुमर्थे भवन्तीत्यर्थः। `भुजिप्रत्ययेन' इत्यादि। यद्यपि णमुलाऽनभिहितः कर्त्ता, तथापि भुजिप्रत्ययेन लटाभिहित इति न भवितव्यं तृतीयया। ननु च शक्तिलक्षणः कर्त्ता, अन्या च स्वादुकरणविषया शक्तिः, अन्या च भुजिक्रियाविषया, तत्र लटाभिहितायामपि भुजिक्रियाविषायायां शक्तावितरस्याः शक्तेः कर्त्तृसंज्ञाया अनभिधानात् {प्राप्नोतीत्येव-मुद्रितः पाठः} प्राप्नोत्येव तृतीयेत्याह-- `न चास्मिन्' इत्यादि। अत्र हि समानकर्त्तृकप्रकरणे शक्तमतः शक्तीनाञ्च भेदो न विवक्ष्यते। तेन शक्तिमान् देवदत्तः कर्त्ता। स चैक एवाभिहितश्चेति कुतस्ततीयाप्रसङ्गः। किं कारणं भेदेनोपादानं न विवक्षितम् ? इत्याह-- `समानकर्त्तृकत्वे हि' इत्यादि। अभ्युपगम्यापि भेदविवक्षाम्, परिहारान्तरमाह-- `प्रधानशक्त्यभिधाने' इत्यादि। किं कृतः पुनरत्र कर्त्तृशक्त्योः प्रधानगुणभावः ? क्रियाकृतः; स्वादुङ्कारं हि गुणभूतम्, भुजिक्रियार्थत्वात्। भुजिक्रिया तु प्रधानम्; तेनोपकार्यत्वात्। क्रियायाश्च गुणप्रदानभावात् तद्विषययोरपि कर्त्तृशक्त्योः प्रधानगुणभावो भवति। तत्र प्रधानशक्तावभिहितायामप्रदानशक्तिरभिहितत्वात् प्रकाशते = प्रतिभासते; प्रधानानुयायित्वाद्‌गुणानाम्। तेन तृतीया न भवतीति भावः।।

27. अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्। (3.4.27)
`सिद्धाप्रयोगः' इति। सिद्धोऽप्रयोगो यस्य स तथोक्तः। `निरर्थकत्वात्' इत्यादि। अभिधेयाभावात् प्रयोजनाभावाद्वा निरर्थकत्वम्। `एवमेव' इति। निरर्थकत्वमेवेत्यर्थः। `अन्यथा भुङ्क्ते' इत्यादिना तदेवानर्थकत्वं चेतसि कृत्वा सिद्धाप्रयोगतां दर्शयति। अन्यथा भुङ्क्ते इति यावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थः करोतावप्रयुज्यमाने गम्यते तावानेवार्थोऽन्यथाकारं भुङ्क्त इति करोतौ प्रयुज्यमानेऽपि। तस्मादनर्थकः करोतिः। कथं पुनः प्रयुज्यमान एवानर्थको भवति ? अन्यथादयएते प्रकारवचनाः, ते यदानुप्रयोगधातोरर्थस् प्रकारमाचक्षते तदा कृञपि तैर्विशेष्यमाणस्तदीयप्रकारमाचष्टे, गचान्यत एवावगत इत्यनर्थको भवति। यद्येवम्, अवगतार्थत्वात् तस्य प्रयोगो न प्राप्नोति ? नैवम्; अवगतार्थमपि प्रयोगो दृश्यते-- अपूपौ द्वावानय, पचाम्यहमिति।
`अन्यथा कृत्वा शिरो भुङ्क्ते' इत्यत्रान्यथाशब्देन पदान्तरस्य शिरसः प्रकारमाख्यायते। स विना करोतिना नावगम्यते। यदि हि करोतिर्न प्रयुज्येत, भुजिक्रियागत एव प्रकारोऽन्यथालक्षणः प्रतीयतेत, न शिरोगतः। शिरसस्तु भुज्यमानतैवावगम्येत। तस्मान्नात्र करोतिः शिद्धाप्रयोगः।।

28. यथातथयोरसूयाप्रतिवचने। (3.4.28)
`असूयाप्रतिवचने' इति। असूयाप्रभवं प्रतिवचनमसूयाप्रतिवचनम्। `यद्यसूयन्' इत्यादि। असूयन्निति शत्रन्तमेतत्। कण्ड्वादियगन्तः। अस्य प्रतिवक्तीत्यनेन सम्बन्धः। प्रतिवक्ति = प्रतिभणति, प्रतिवचनं वदातीत्यर्थः। `पृच्छति' इति। सप्तम्यन्तमेतत्। पृच्छति सति यद्यसूयन् = असूयां कुर्वन् प्रतिवक्ति तदा तत्र पृच्छति यत् प्रतिवचनं तदसूयाप्रतिवचनम्। `यथाकारम्' इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनम्। `यथाकारम्' इत्यादि। कथं भवान् भोक्ष्यते इत्येवं वचनं पृच्छति सत्यसूयाप्रतिवचनमेतत्। `यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि' इति. नैतदसूयाप्रतिवचनम्। किं तर्हि ? तद्व्याख्यानम्।।

29. कर्मणि दृशिविदोः साकल्ये। (3.4.29)
`कर्मण्युपपदे साकल्यविशिष्टे' इति। एतेन साकल्यग्रहणं कर्मविशेषणमिति दर्शयति। `{यं यं ब्राह्मणं जानाति-- काशिका'} यं यं जानाति लभते विचारयति वा' इति। एतेन ज्ञानलाभविचारणार्थानां विदीनां ग्रहणमिति दर्शयति। कुतः पुनः सत्तार्थस्य ग्रहणं न भवति ? तस्याकर्मकत्वात्, कर्मणीति चोपादानात्।।

30. यावति विन्दजीवोः। (3.4.30)
`विन्दतेः' इति। `विद्लृ लाभे' (धा.पा.1432) इत्यस्य।।

31. चर्मोदरयोः पूरेः। (3.4.31)
`पूरयतेः' इति। एतेन निर्देशे ण्यन्तस्येदं ग्रहणमित्याचष्टे। इह कर्मणीति वर्त्तते। न चाण्यन्तस्य पूरेः कर्म सम्भवति; अकर्मका हि धातवो ण्यन्ताः सकर्मका भवन्ति। तस्माण्ण्यन्तस्येदं ग्रहणं विज्ञायते।।

32. वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्। (3.4.32)
`समुदायेन' इति। प्रकृतिप्रत्ययोपपदसमुदायेन। एतेन वर्षप्रमाणस्य समुदायोपाधित्वं दर्शयति।
`अस्यग्रहणं किमर्थम्' इति। प्रकृतत्वात् पूरयतेः, अस्येति वचनमन्तरेणापि तस्यैव लोपो विज्ञास्यत इत्यभिप्रायः। `उपपदस्य मा भूत्' इति। यद्यस्येति नोच्येत ततो यथा वर्षप्रमाणं समुदायोपाधिर्विज्ञायते, ऊलोपोऽपि तथा समुदायोपाधिर्विज्ञायेत। प्कृतिप्रत्ययोपपदस्य समुदायस्य य ऊकारान्तस्य लोपो भवतीति, ततश्चोपपदस्यापि स्यात्। तस्मात् मा भूदेष दोष इति `अस्य' इत्युच्यते।।

33. चेले क्नोपेः। (3.4.33)
`ण्यन्तात्' इति। सपुक्कस्यायां निर्देशः। पुक् च `अर्त्तिह्री' (7.3.36) इत्यादिना णावेव परतो भवतीति। तस्मादत एव निर्देशाण्ण्यन्तताऽवगम्यते। `चेलार्थेषु'इति। चेलमर्धो येषामिति बहुव्रीहिः। एतेन `चेल' इत्यस्यार्थग्रहणतां दर्शयति। अर्थग्रहणे च या युक्तिः सा `स्वादुमि णमुल्' (3.4.26) इत्यत्रोक्ता, सैवेहार्थग्रहणे द्रष्टव्या। `चेलक्नोपम्' इति। वलि यलोपः, `पुगन्तलघूपधस्य' (7.3.86) इति गुणः, णिलोपः।।

34. निमूलसमूलयोः कषः। (3.4.34)
`कषः' इति। `कष शिष' (धा.पा.685,687) इति हिंसार्थधातुवर्गे पठ्यते।।

35. शुष्कचूर्षरूक्षेषु पिधः। (3.4.35)
`पिषः' इति। `पिष्लृ सञ्चूर्णने' (धा.पा.1452)।।

36. समूलाकृतजीवेषु हन्कृञ्ग्रहः। (3.4.36)
`समूलघातम्' इति। `हो हन्तेर्ञ्णिन्नेषु' (7.3.54) इति कृत्वम्, `हनस्तोऽचिण्णलोः' (7.3.32) इति तत्वम्।।

37. करणे हनः। (3.4.37)
`अहिंसार्थोऽयमारम्भःट इति। हिंसायाम् `हिंसार्थानाम्' (3.4.48) इति वक्ष्यमाणेन सिद्धत्वा। `नित्यसमासार्थः' इति। हिंसार्थस्यापीति शेषः। `उपपदमतिङ्' (2.2.19) इति नित्यसमासो यथा स्यादित्येवमर्थोऽयमारम्भः। तेन तु प्रत्यये सति `तृतीयाप्रभृतीन्यन्यतरस्याम्' (2.2.21) इति विकल्पेन स्यात्। `यथाविध्यनुप्रयोगार्थश्च' इति। `कषादिषु यथाविध्यनुप्रयोगः' (3.4.46) इति। यस्माद्धातोर्णमुल् विहितस्तस्यैवानुप्रयोगो यथा स्यात्, तेन तु प्रत्यये धात्वन्तर्सयानुप्रयोगः स्यात्।
ननु च यता हन्तिहिंसार्थो भवति तदा परत्वात् तेनैव भवितव्यम्, तत्कथं नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्च हिंसार्थस्य हन्तेरयमारम्भो युज्यते ? इत्यत आह-- `पूर्वविप्रतिषेधेन' इत्यादि।।

38. स्नेहने पिपः। (3.4.38)
`स्नेहनवाचिनि' इत्यनेन `स्नेहने' इत्यस्यार्थमाचष्टे।।

39. हस्ते वर्त्तिग्रहोः। (3.4.39)
`वर्त्तिर्ण्यन्तः' इति। निर्देशादेव वर्तेर्ण्यन्तत्वं प्रतीयते।।

40. स्वे पुपः। (3.4.40)
`स्वपोषम्' इति। आत्मवाचिनी स्वशब्द उपपदे प्रत्ययः। `गोपोषम्' इति। आत्मीयवाचिनि। `धनपोषम्' इति धनवाचिनि। `पितृपोषम्' इति ज्ञातवाचिनि।।

41.अधिकरणे बन्धः। (3.4.41)

42. संज्ञायाम्। (3.4.42)

43.कर्त्रोर्जीवपुरुषयोर्नशिवहोः। (3.4.43)
`नष्टः' इति। नशेर्व्रश्चादिसूत्रेण (8.2.36) षत्वम्, `मस्जिनशोर्झलि' (7.1.60) इत्यागमस्य नुमः `अनिदिताम्'(6.4.24) इत्यादिना लोपः। `पुरुषेणोढः' इति। वहेर्वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्, `सम्प्रसारणाच्च' (6.1.108) इति परपूर्वत्वम्, `हो ढः' (8.2.31), `झषस्तथोर्धोऽधः' (8.2.40), `ष्टुना ष्टुः' (8.4.41), `ढो ढे लोपः' (8.3.13), `ढ्रलोपे पूर्वस्य दीर्घोऽणः' (6.3.111) इति दीर्घः।।

44. ऊर्ध्वे शुषिपूरोः। (3.4.44)
`ऊर्ध्वं पूर्यते' इति। ऊर्ध्वं पूरितो भवतीत्यर्थः। अनुदात्तेत्त्वादात्मनेपदम्, दिवादित्वच्छ्यन्।।

45. उपमाने कर्मणि च। 93.4.45)
`घृतनिधायम्' इति। पूर्ववद् युक्।।

46. कषादिषु यथाविध्यनुप्रयोगः। (3.4.46)

47.उपदंस्तृतीयायाम्। (3.4.47)
इह `मूलकेनोपदंशं भुङ्क्ते' इत्यादौ करणे तृतीया, तदन्तं मूलकाद्युपपदम्। तच्च करणमुदंशेर्वा स्यात्, भुजेर्वा ? तत्रोपदंशेस्तावन्नोपपद्यते; अन्यस्मिन् {ह्युपदिश्यमाने-मुद्रितः पाठः} ह्युपदंश्यमानेऽन्यत् करणं भवति, इह च तदेव मूलकाद्युपदश्यते, नापरं किञ्चित्। भुजिं तु प्रत्युपपद्यत एव करणभावः, किन्तूपपदसंज्ञा न स्यात्, तदभावदुपपदसमासश्च; यस्मादुपपदमिति महत्याः संज्ञायाः करणं समर्थपरिभाषाया व्यापार्थम्, तेनेह तस्यामुपस्थितायां यमेव प्रति यस्य सामर्थ्य तमेव प्रति तस्योपपदसंज्ञाया भवितव्यम्। भुजिं तु प्रति तस्योपपदसंज्ञया भवितव्यम्। भुजिं तु प्रति मूलकादेः सामर्थ्यम्, नोपदंशि प्रतीति चोद्यमाशङ्क्याह-- `मूलकादि चोपदंशे' इत्यादि। यद्यपि भुजिं प्रति मूलकादेः करणभावः तथाप्युपदंशिना सह सामर्थ्यमुपपद्यत एव; यतस्तस्य कर्म। न च भुजिना सरह सम्बन्धे सत्युपदंशिना सह सम्बन्धो निवर्त्तते; विरोधाभावात्। तस्मादुपपद्यत एवोपपदत्वम्, तस्मिंश्च सत्युपपदसमासः।
`क्रियाभेदे सति'इति। क्रियाभेदग्रहणेन क्त्वाप्रत्ययविषयमुपलक्षयति। यत्र क्रियाणां पौर्वापर्यं समानकर्त्तृकत्वञ्च स क्त्वाप्रत्ययस्य विषयः। एतच्चोभयं क्रियाभेदे सति भवतीति क्त्वाप्रत्ययस्य विषय उपलक्ष्यते। `मूलकेनोपदश्य भुङ्क्ते' इति। `अनिदिताम्' (6.4.24) इत्यनुनासिकलोपः।।

48. हिंसार्थाञ्च समानसकर्मकाणाम्। (3.4.48)
धातुसम्बन्धाधिकारादनुप्रयोगेण भवितव्यम्, द्विष्ठत्वात्। तत्र प्रत्यासत्तेरनुप्रयोगधात्वपेक्षयैव समानकर्मत्वं विज्ञायत इत्याह-- `अनुप्रयोगधातुना' इत्यादि। `कालयति' इति। `{वेल कालोपदेशे (काल इति पृथग्धातुरित्येके)-धा.पा. कल क्षेपे-धा.पा.} काल विक्षेपे (धा.पा.1880)। `दन्तताडम्' इति। `तड आघाते' (धा.पा.1579), चुरादिरेव। `दण्डेनाहत्य' इत्यादि। अत्र हन्तेश्चौरः कर्म , अनुप्रयोगधातोश्च गौरिति समानकर्मकत्वाभावः। तेन क्त्वाप्रत्यय एव भवति। `आहत्य' इति। `अनुदात्तोपदेश' (6.4.37) इत्यादिनाऽनुनासिकलोपः, `ह्रस्वस्य पिति कृति तुक्' (6.1.71)।।

49. सप्तम्यां चोपपीजरुधकर्षः। (3.4.49)
`उपशब्दः प्रत्येकमभिसम्बध्यते' इति। रुधिकषिभ्यामुपपूर्वाभ्यामेव यथा स्यात्। `पार्श्वोपपीडम्' इति। `पीड अवगाहने' (धा.पा.1544), चुरादिः। `कर्षतेः' इत्यादि। `कृष विलेखने' (धा.पा.990, 1286) भ्वादौ तुतादौ च पठ्यते, तत्रेह भौवादिकस्य ग्रहणम्, न तौदादिकस्य; शपा निर्देशात्। शपा निर्देशस्तस्य कृतगुणस्योच्चारणाल्लभ्यते।।

50. समासत्तौ। (3.4.50)
`युद्धसंरभात्' इति। संरम्भः = मनः संक्षोभपूर्वको वाक्कायविकारविशेषः,युद्धाय संरम्भो युद्धसंरम्भः, तस्मादत्यन्तं सन्निकृष्यन्ते, प्तत्यासीदन्तीति यावत्।।

51. प्रमाणे च। (3.4.51)
`प्रमाणमायामः' इति। `आयामस्तु प्रमाणं स्यात्' इति वचनात्। दैर्घ्यमिति प्रसिद्धतरार्थेन शब्दान्तरेण प्रमाणशब्दस्यैवार्थं स्पष्टीकरोति। `द्व्यङ्गुलोत्कर्षम्' इति। द्व्योरङ्गुल्योः समाहारो द्व्यङ्गुलम्, `तत्पुरुषस्याङ्गुलेः' (5.4.86) इत्यादिनाऽच्। तेन द्व्यङ्गुलेन खण्डिकाया देर्घ्यं परिच्छिद्यते।।

52. अपादाने परीप्सायाम्। (3.4.52)
`शय्योत्थायम्'इति। `उदः स्थास्तम्भोः पूर्वस्य ' (8.4.61) इति पूर्वसवर्
णः, `आतो युक्' (7.3.33) एवम्' इत्यादिना परीप्सां दर्शयति। `रन्ध्रापकर्षम्' इति। एवं नाम त्वरते यत् पात्रमपि नापेक्षते, स्तनरन्ध्रादेवापकृष्य मुखेन पयः पिबतीत्यर्थः। `भ्राष्ट्रापकर्षम्' इति। एवं नाम त्वरते यद्भाजनमपि दीयमानं नापेक्षते, भ्राष्ट्रादेवापकृष्य हस्तेन भक्षयति।।

53. द्वितीयायाश्च। (3.4.53)

54. स्वाङेऽध्रुवे। (3.4.54)
स्वाङ्गलक्षणमद्रवादि चतुर्थे वक्ष्यति। `अक्षिनिकाणम्' इति। `कण निमीलने' (धा.पा.1715), चुरादिर्निपूर्वः। `यस्मिन्नङ्गेच्छिन्ने प्राणी न म्रियते तद्ध्रतम्' इति। पाणिपादादिकम्। अध्रुवत्वं पुनस्तस्य जीवत्यपि प्राणिनि कदाचिदभावात्। यस्मिस्त्वङ्गे च्छिन्ने प्राणी म्रियते तद्‌ध्रुवम्, शिरःप्रभृति। ध्रुवत्वं पुनस्तस्य सदा प्राणिनि सन्निवेशात्।।

55. परिक्लिश्यमाने च। (3.4.55)
`परिक्लेशः सर्वतो विबाधनम्' इति। सर्वतःशब्देन परिशब्दस्यार्थमाचष्टे। विबाधनशब्देनापि क्लिशेर्धातोः।।

56. विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः। (3.4.56)
`विश्यादिभिः क्रियादिभिः' इति। आदिशब्देन पत्यादित्रयाणां ग्रहणम्। `अनवयवेन' इति। साकल्येन। `पदार्थानाम्' इति। गेहादीनाम्।`तात्पर्यम्' इति। क्रियाणां पौनःपुन्यमाभीक्ष्ण्यमित्यर्थः। `द्रव्ये व्याप्तिः' इत्यादिना व्याप्यमानासेव्यमानयोर्विषयविभागं दर्शयति। यदि व्याप्यमान आसेव्यमाने चार्थे प्रत्ययो भवति, एवञ्च सति तयोरर्थयोर्नित्यता वीप्सा च विद्यत इति `नित्यवीप्सयोः'(8.1.4) इति द्विवचनेन भवितव्यम्, तत् कस्मान्न भवति ? इत्याह-- `समानेन'इत्यादि। यद्यपि समासस्तयोरर्थयोर्न विधीयते, पुरस्तादेव प्रतिपादितम्। `तथा च वक्ष्यति'इति।भाष्यकारः। `सुप्सु वीप्सा 'इति वचनात् `व्याप्तमानतायां द्रव्यवचनस्य द्विर्वचनं भवति'इत्युक्तं भवति। `तिङ्क्षु नित्यता'इति वचनात् `आसेध्यमानतायां क्रियावचनस्य द्विर्वचनं भवति' इत्युक्तं भवति।
`गेहंगेहम्'इति। द्रव्यमवचनस्य द्विर्वचमनम्। `गेहमनुप्रवेशमनुप्रवेशम्'इति। क्रियावचनस्य।`ननु च'इत्यादि देश्यं `क्त्वानिवृत्त्यर्थम्'इत्यादिना परमतमाशङ्क्य निराकरोति। स्यादेतत्, `आभीक्ष्ण्ये णमुल् च' (3.4.22) इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र यदि विश्यादिभ्यः पुनरासेवायां णमुल् विधीयेत तदा क्त्वाप्रत्ययोऽपि स्यात्। अतस्तन्निवृत्त्यर्थं पुनर्णमुलुच्यत इति ? एतच्च नास्ति; इष्टत्वात्। इष्यते ह्यासेवायां विशिप्रभृतिभ्यः क्त्वा-- गेहमनुप्रविश्यानुप्रविश्यास्त इति। तस्मादयुक्तं तन्निवृत्त्यर्थं पुनर्णमुल्ग्रहणम्।
`द्वितीयान्तोपपदार्थम्' इत्यादि। यदि क्त्वानिवृत्त्यर्थं न प्रयुज्यते तदा द्वितीयान्तस्योपपदसंज्ञार्थं पुनर्वचनम्। अनेन `द्वितीयायाञ्च' (3.4.53) इत्यधिकाराद्द्वितीयान्त उपपदे प्रत्ययविधानम्। अतो द्वितीयान्तस्योपपदसंज्ञा लभ्यते। किमर्थं पुनर्द्वितीयान्तस्योपपदत्वमिष्यते ? इत्याह-- `उपपदसमासः' इत्यादि। पक्षग्रहणं `तृतीयाप्रभृतीन्यन्यतरस्याम्' (2.2.21) इति विकल्पेन समासविधानात्। स्यादेतत्--तेनापि णमुल्विधान उपपदसंज्ञा भविष्यतीत्यत आह--`तेन हि'इत्यादि। न हि तेनोपपदसम्बन्धे णमुल् विधीयते; सप्तमीस्थस्य कस्यचिच्छब्दस्याभावात्। तस्मात् तेन णमुल्विधाने सत्युपपदत्वाभाव एव स्यात्।।

57. अस्यतितृषोः क्रियान्तरे कालेषु। (3.4.57)
`अस्यतितृषोः'इति। `असु क्षेपणे' (धा.पा.1209), ञितृषा पिपासायाम्' (धा.पा.1228)। `क्रियामन्तरयति' इत्यादि। अन्तरं करोतीति `तत्करोति'(वा.200) इत्यादिना णिच्। `क्रियामन्तरयति क्रियान्तरः' (इति) कर्मण्यण्, णिलोपः।अन्तरशब्दश्चायमिह व्यवधाने वर्त्तत इति दर्शयन्नाह--`क्रियाव्यवधायकः'इति। `पाययति'इति। `पा पाने' (धा.पा.925), णिच्। `शाच्छा'(7.3.37) इत्यादिना युक्। `अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते' इति। यच्चायं पानं यच्च द्व्यहेऽतीते पानं भविता तन्मध्यवर्तित्वाद्तयसननतर्षणयोः। `अद्य पाययित्वा' इत्यादिना द्व्यहात्यासं गाः पाययतीत्यस्यार्थमाचष्टे। एतदनुसारेणान्यस्याप्यर्थो गम्यत इतिन व्याख्यातः।
`द्व्यहमुपोध्य'इति। `वस निवासे'(धा.पा.1942), वच्यादिना (6.1.15) सम्प्रसारणम्, क्त्वो ल्यबादेशः `शासिवसिघसीनाञ्च' (8.3.60) इति षत्वम्। अत्रोपवसने भुजिक्रियाव्यवधायके वसिर्वर्त्तते। अत्र `अस्यतितृषोः'इति यदि नोच्येत तदेहापि स्यात्। `न गतिर्व्यवधीयते' इति। यथा मलोदाहरणेऽत्यसनेन तर्षणेन च मध्यवर्त्तिना पानक्रिया व्यवधीयते, न तथेह गतिः। तत्र चाह़ञ्छब्दातृ `कालाध्वनोरत्यन्तसंयोगे' (2.3.5) इति द्वितीया। सकलस्याह्न इष्वत्यसनेन व्याप्तत्वादिषुशब्दात् कर्मण्येव। `योजनमत्यस्य गाः पाययति' इति। अत्राध्ववाच्युपपदम्। क्वचित् स्रुध्नादौ पाययित्वा योजनमतिक्रम्य पाययतीत्यर्थः। `अध्वकर्मकम्‌', `न कालकर्मकम्'इति द्वावपि बहुव्रीही।।

58. नाम्न्यादिशिग्रहोः। (3.4.58)
`आदिशेः' इति। `दिश अतिसर्जने' (धा.पा.1283)), आङ्पूर्वः।।

59. अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ। (3.4.59)
`अयथाभिप्रेताख्याने' इति। यद्यदभिप्रेतमिष्टं यथाभिप्रेतम्, `यथाऽसादृश्ये'(2.1.7) इति वीप्सायामव्ययीभावसमासः, न यथाभिप्रेतमयथाभिप्रेतम्। अप्रियमित्यर्थः। `आचक्षे'इति। आङपूर्वाच्चक्षिङो लट्; `थासः से'(3.4.80), `स्कोः संयोगाद्योरन्तेच'(8.2.29) इति ककारलोपः, `षढोः कः सि' (8.2.41) इति कत्वम्,`इण्कोःट (8.1.57) इति षत्वम्।
`उक्तम्' इति। क्वोक्तम् ? `उपदंशस्तृतीयायाम्' (3.4.47) इत्यत्र। उपपदसमासार्थं वचनमिति च। `क्त्वा च' (2.2.22) इत्यनेनोपपदसमासः पक्षे यथा स्यात्। कस्मात् पुनरनेन यः क्त्वा विहितस्तेन समासो भवति ? यस्तु `समानकर्त्तृकयोः' (3.4.21) इत्यादिना विहितस्तेन न भवति ? इत्याह-- `तथा हि' इत्यादि। `क्त्वा च'(2.2.22) इत्यत्र `तृतीयाप्रभृतीनि' (2.2.21) इत्यनुवर्त्तते। तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो भवति, न तु तेन, तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयते। अथ णमुल्ग्रहणं किमर्थम्; यावता णमुलनुवर्त्तत एव,ततः क्तवा चेति वक्तव्यम् ? इत्याह-- `णमुलधिकारे' इत्यादि। तुल्यकक्षत्वं तद्वत् तुल्यबलत्वम्। `तेन' इत्यादि। ज्ञापकस्य प्रयोजनं दर्शयति। यदि `क्त्वा च' इत्युच्येत। चकारेण यत्नादनुकृष्टो णमुलुत्तरत्र नानुवर्त्तेत; यत्नाभावात्। यथा तेन क्त्वाप्रत्ययस्यान्वाचीयमानता विज्ञायेत ततश्चोत्तरत्र तस्याप्रधान्यादनुवृत्तिर्न स्यात्। पुनर्णमुल्ग्रहणे सति सहनिर्देशात् क्त्वाणमुलोर्गुणप्रधानभावो न भवतीति द्वयोरप्यनुवृत्तिर्भवति।।

60. तिर्यच्यपवर्गे। (3.4.60)
`तिर्यक्कृत्वा' इति। तिरोऽञ्चतीति ऋत्विगादिना (3.2.59) क्विन्। `झलां जशोऽन्ते' (8.2.39) इति चकारस्य जकारे कृते `क्विन्प्रत्ययस्य कुः'(8.2.62) इति कुत्वम्--गकारः, तस्यापि चर्त्वम्-- ककारः, `तिरसस्तिर्यलोपे' (6.3.94) इति तिर्यादेशः। `तिर्यक्कृत्वा `{काष्ठं इति मूलपाठः} काण्डं गतः'इति। अनृजृ कृत्वा। पार्श्वतः कृत्वेत्यर्थः।
अथ `तिर्यचि' कोऽयं निर्देशः, यावता भसंज्ञायां सत्यां `अचः' (6.4.38) इत्यकारलोपे कृते तिरश्चीति भवितव्यमित्यत आह-- `तिर्यचि' इत्यादि। सर्वत्र ह्यनुकरणभूतशब्दः शब्दस्वरूपस्यैवानुकरणम्। एतावांस्तु विशेषः-- क्वचिच्चब्दपदार्थस्यानुकरणम्, क्वचिदर्थस्येति। तत्रानुकरणमित्येतावपि वक्तव्ये शब्दरूपग्रहणं शब्दरूपमात्रस्यार्थरहितस्यैतदनुकरणमिति ज्ञापनार्थम्। तदेतदुक्तं भवति-- शब्दपदार्थको यस्तिर्यक्छब्दस्तस्येदमनुकरणम्, न तु स एव। तेन शब्दान्तरत्वादकारलोपो न भवतीति भावः। नन्वेवमपि `प्रकृतिवदनुकरणं भवति'(व्या.प.113) इति भवितव्यमेवात्र प्रकृतिकार्येणाकारलोपेन ? इत्यत आह-- `न च' इत्यादि। अत्रैवोपपत्तिमाह--`अनुक्रियमाणरूपविनाशप्रसङ्गात्' इति। यद्यत्र प्रकृतिकार्यं स्यात् ततो यादृशमनुकरणं तिर्यगिति शब्दरूपं तस्य विनाशोऽनुपलब्धिः स्यात्। यादृशमनुकर्त्तुमिष्टमकृताकारलोपं तादृशं न प्रतीयेतेत्यर्थः। यतएवं प्रकृतिवदनुकरणभावे सत्येष दोष आपतति, ततोनेह प्रकृतिवदनुकरणेन भवितव्यम्। `प्रकृतिवदनुकरणं भवति' (व्या.प.113) इत्यस्य तु यत्रार्थपदार्थस्यानुकरणं सोऽवकाशो वेदितव्यः। क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह-- `एतदोऽश्' इत्यादि। एतदोऽदस इत्युभयमप्येतच्छब्दरूपपदार्थकस्यानुकरणम्। यदि च शब्दपदार्थकस्य यदनुकरणं तस्यापि प्रकृतिभावः स्यात्, तदा त्यदाद्यत्वादिके प्रकृतिकार्ये कृते-- एतस्य, अमुष्येति रूपं स्यात्। तस्याद्यथेह प्रकृतिभावो न भवति,तथातिर्यचीत्यत्रापि।।

61.स्वाङ्गे तस्प्रत्यये कृभ्वोः। (3.4.61)
`यथासंख्यमत्र नेष्यते' इति। कथं पुनरिष्यमाणमपि न भवति, यावता द्वे प्रकृती, प्रत्ययावपि द्वावेवेत्यस्ति यथासंख्यप्राप्तिनिमित्तम् ? `कृभ्वोः' इति निर्देशाल्लक्षमव्यभिचारचिह्नात्। इह प्रत्यये विधीयमाने `परश्च' (3.1.2) इति सम्बन्धाद्दिग्योगलक्षणया पञ्चम्या भवितव्यम्, ततर् कृभूभ्यामिति पञ्चमीनिर्देशे कर्त्तव्ये योऽयं `कृभ्वोः' इति निर्देशाल्लक्षणव्यभिचारचिह्नात्। इह प्रत्यये विधीयमाने `परश्च' (3.1.2) इति सम्बन्धाद्दिग्योगलक्षणया पञ्चम्या भवितव्यम्, तत्र कृभूभ्यामिति पञ्चमीनिर्देशे कर्त्तव्ये योऽयं `कृभ्वोः' इति षष्ठीनिर्देशः स लक्षणव्यभिचारचिह्नम्, तेन यथासख्याभाव इति वेदितव्यम्। `मुखतः' इति। `अपादाने चाहीयरुहोः' (5.4.45) इति तसिः।
`मुखीकृत्य' इति। अत्र मुखशब्दश्च्व्यन्तः। `अभूततद्भावे' (5.4.50) इत्यादिना च्विः, `अस्य च्वौ' (7.4.32) इतीत्त्वम्। `मुखे तस्यति' इति। `तसु उपक्षये', (धा.पा.1212) `अन्येभ्योऽपि दृश्यते' (3.2.178) इति क्विप्, हल्ह्यादिना (6.1.68) सुलोपः, रुत्वविसर्जनीयौ। धातुरत्र तस्‌शब्दः, न तु प्रत्ययः। तेन तदन्त डपदेशे क्त्वाणमुलौ न भवतः, `समानकर्त्तृकयोः' (3.4.21) इति क्त्वैव भवति।।

62. नाधार्थप्रत्यये च्व्यर्थे। (3.4.62)
`नार्थो धार्थश्च' इति। नाप्रत्ययसहचरितोऽर्थो ना इत्युच्यते, धाप्रत्ययसहचरितश्च धा इति। नाऽर्थो यस्य प्रत्ययस्य स नार्थः धाऽर्थो यस्य प्रत्ययस्य स धार्थ इति। `द्विधाकृत्य' इति। `संख्याया विधार्थे धा' (5.3.42)। `द्वैधं कृत्वा' इति। `द्वित्र्योस्च धमुञ्' (5.3.45) इति धमुञ्। `द्वेधाकृत्य' इति। `एधाच्च' (5.3.46) इत्येधाच्।
`हिरुक् कृत्वा, पृथक् कृत्वा' इति। असति प्रत्ययग्रहणे हिरुक्पृथक्शब्दयोरसहार्थत्वात् नार्थत्वनमस्तीति तयोरप्युपपदयोः क्त्वाणमुलौ स्याताम्। पूर्वसूत्रादेव प्रत्ययग्रहणानुवृत्त्या सिद्धे पुनरिह प्रत्ययग्रहणं सुखप्रतिपत्त्यर्थम्। पूर्वकं हि प्रत्ययग्रहणं समासैकदेशत्वाद्यत्नानुवृत्तं स्यात्। `नाना कृत्वा काष्ठानि गतः' इति। च्व्यर्थोऽत्र नास्ति; प्रकृत्यन्यावस्थाया अविवक्षितत्वात्। `धार्थमर्थग्रहणम्' इति। धाप्रत्ययोऽर्थः प्रयोजनं यस्य तत् तथोक्तः। धार्था हि प्रत्यया बहवः,तत्रसत्यर्थग्रहणे धाप्रत्ययस्यैव ग्रहणं स्यात्, नान्येषां तदर्थानाम्। अथग्रहणे तु सति तेषामपि ग्रहणं भवति। अथ नार्थमप्यर्थग्रहणं कस्मान्न भवति ? इत्याह-- `ना पुनरेक एव' इति। अर्थग्रहणं हि तत्र क्रियते यत्र बहवो ग्राह्याः सम्भवन्ति, नाप्रत्ययस्त्वेक एव,तस्य चार्थग्रहणमन्तरेण सिध्यतीति न तदर्थमर्थग्रहणम्। ननु च घमुञादीनामपि स्थानिवद्भावादेव धाग्रहणेन ग्रहणं भविष्यति, अतोधार्थमप्यर्थग्रहणमयुक्तम् ? नैष दोषः; अघादेशोऽपि धार्थप्रत्ययोऽस्ति, `घमुञन्तात् स्वार्थे डदर्शनम्' (व्या.प.610) इति वचनात्। तस्माद्धार्थमर्थग्रहणं कर्त्तव्यम्।
वयं तु ब्रूमः-- नार्थमप्यर्थग्रहणं कर्त्तव्यमेव। तथा हि-- द्वौ नाप्रत्ययौ; एको निरनुबन्धकः, द्वितीयः सानुबन्धकः। तत्रासत्यर्थग्रहणे `निरनुबन्धग्रहणे न सानुबन्धकस्य' (व्या.प.53) इति नाप्रत्ययस्यैव ग्रहणं स्यात्, न सानुबन्धकस्य नाञः। अर्थग्रहणे तु सति तस्यापि ग्रहणं भवति।।

63. तूष्णीमि भुवः। (3.4.63)
ननु च `स्वाङ्गे तस्प्रत्यये कृभ्वोः' (3.4.61) इत्यतो भूग्रहणमनुवर्त्तत एव, तत् किमर्थं भुव इतीहोच्यते ? इत्याह-- `भूग्रहणम्' इत्यादि। पूर्व हि भूग्रहणं कृञा सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्; अतस्तन्निवृत्यर्थं पुनरिह भूग्रहणम्।।

64. अन्वच्यानुलोम्ये। (3.4.64)
`अन्वचि' इति निर्देशस्तिर्यचीत्यनेन व्याख्यातः। `अन्वग्भूय'इति। पूर्ववत् क्विनि कृते तदन्तस्य जश्त्वे कृते च रूपम्। `अन्वग्भूत्वाट इति। अनुचरो भूत्वा तिष्ठतीत्यर्थः।।

65. शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्। (3.4.65)
ननु च `तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' (3.3.10) इत्येवं शकादिषूपपदेषु तुमुन् सिद्धः, तत् किमर्थोऽयमारम्भ इत्याह-- `अक्रियार्थोऽयमारम्भः' इति। अक्रियार्थेष्वपि शकादिषु तुमुन् यथा स्यादित्येवमर्थोऽयमारम्भः। न हि शक्नोति भोक्तुमित्यादौ क्रियार्थोपपदं गम्यते। किं तर्हि ? अर्थान्तरम्, अन्यदेव। इह तावत्-- `शक्नोति भोक्तुम्, उत्सहते भोक्तुम्, जानाति भोक्तुम्' इति प्रावीण्यं गम्यते। `ग्लायति भोक्तुम्' इति तदशक्तता गम्यते, `घटयति भोक्तुम्, अर्हति भोक्तुम्' इति तद्योग्यतामात्रम्। `आरभते भोक्तुम्, प्रक्रमते भोक्तुम्' इति भुजेरेवाद्यावस्थानक्रियान्तरम्। `लभते भोक्तुम्' इति प्रत्याख्यानम्। `अस्ति भोक्तुम्' इत्यादौ सम्भवमात्रम्।।

66. पर्याप्तिवचनेष्वलमर्थेषु। (3.4.66)
`पर्याप्तिरन्यूनता' इति। परिपूर्णतेत्यर्थः। `अलमर्थविशिष्टेषु' इति। यद्यपि भूषणादयोऽलमर्थाः, तथापि पर्याप्तिवचने सामर्थ्येमेव सम्भवतीति तदेव गृह्यते। प्रयोगदर्शनार्थबोधेन व्याख्यानतो वा। तेनालमर्थविशिष्टेष्वित्ययमर्थो भवति। यद्येवम्, सामर्थ्येष्वित्येवं कस्मान्नक्तम् ? नैवं शक्यम् ; एवं ह्युच्यमाने सामर्थ्येन भुङ्क्ते, बलेन भुङ्क्त इत्यादावपि स्यात्। यथान्यासे तु न दोषः; न ह्यत्र पर्याप्तिर्दृश्यते। किं तर्हि ? सौकर्यम्। सुकरमेतदित्यर्थः। यथाविध्यस्य सम्भवमात्रं विवक्षितम्, सम्भवत्येवंविधस्य करणमित्यर्थः।।

67. कर्त्तरि कृत्। (3.4.67)
किमर्थमिदम् ? कर्त्तरि तृजादयो यथा स्युः। क्व तर्हि स्युः ? अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे (पु.प.पा.90)। ननु च स्वार्थे यत्र प्रत्ययमिच्छति तत्र भावग्रहणं करोति, यथा-- घञादिविधौ भाव इति, न चैते घञादयः स्वार्थे भवन्ति, किं तर्हि? तस्य धर्मे सिद्धताख्ये; तथा लकारादिविधौ `लः कर्मणि च भावे चाकर्मकेभ्यः'(3.4.69) इत्यत्र सूत्रे लकारा अपि नैव स्वार्थे विधीयन्ते, किं तर्हि ? तस्य धर्मे साध्यताख्ये ? यद्यपि घञादीनां लकाराणाञ्च भावे विधानम्, तथापि शब्दशक्तिस्त्वाभाव्यादेष विषयविभागो लभ्यते। घञादीनां हि धात्वर्थस्य सिद्धतामेवाभिधातुं सामर्थ्यम्, लकाराणां साध्यतामेव। तदेवं यदनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, तस्मात् तृजादयोऽपि तत्रैव भवेयुः, अतः कर्त्तर्येव ते यथा स्युरित्येवमर्थमिदमारभ्यते।
अत्र च द्वेधम्-- कृदुत्पत्तिवाक्यानामयं शेषो वा स्यात्-- ण्वुल्तृचौ कर्त्तरि, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्त्तरीति ? अर्थादेशो वा ? निरपेक्षैः स्वैः स्वैर्विधायकैवर्वाक्यैर्विहितानां कृतां पश्चादनेनार्थ आदिश्येत-- ये न लक्षणान्तरैः कृतो विहितास्ते कर्त्तरि वाच्ये भवन्तीति। तत्र यदि द्वितीयः पक्ष आश्रीयेत ततो यथा तृजादीनामनेनर्थ आख्यायते, तथा ख्युन्नादीनामपि; विशेषानुपादानात्, ततस्तेऽपि कर्त्तरि स्युः। स्वेषु विधिवाक्येषु करणादीनामुपादानात् कणादिष्वपि। यद्यप्येकस्य प्रत्ययस्य कर्त्तरि करणे च यगुपद्‌वृत्तिर्न सम्भवति, तथापि वचनसामर्थ्यात् पर्यायेण कर्त्तरि करणे च स्युरिति। तस्माद्दुष्टोऽयं पक्ष इति प्रथमं पक्षमाश्रित्याह-- `कृदुत्पत्तिवाक्यानाम्' इत्यादि। अनेन तेषामस्य चैकवाक्यतामाह। यद्येवम्, ख्युन्नादिवाक्येष्वप्यनेनोपस्थातव्यम्-- तेषामप्ययं शेष इति कृत्वा, ततश्चास्मिन्नपि पक्षे द्वितीये पक्षे भावी दोषः स्यात्? इत्यत आह-- `तत्र येषु' इत्यादि। तत्रैव हेुतमाह-- `अर्थाकाङ्क्षत्वात्' इति। शेषो हि तेषां भवति यान्यपरिसमाप्तत्वादर्थमाकाङ्क्षन्ति, नान्येषाम्। अतो येषु वाक्येष्वर्थो नादिश्यते तेषामेव साकाङ्क्षत्वात् शेषोऽयं युक्तः। तृजादीनामेव विधायकानि वाक्यान्यर्थानादशादर्थाकाङ्क्षाणि। तथा हि-- `ण्वुल्तृचौ भवतः' इत्युक्तेऽर्थविशेषाकाङ्क्षा भवति-- क्वेमौ भवत इति। तस्मात् तेषामेवायं शेष इति तेष्वेवोपतिष्ठते। `न ख्युन्नादिवाक्येषु' इति। `उपतिष्ठते' इति। प्रकृतेनैव सम्बन्धः। `साक्षात्' इत्यादि। अनुपस्थाने कारणम्। ख्युन्नादिवाक्यान्यर्थाकाङ्क्षाणि न भवन्ति, तेषु करणादीनामर्थानां साक्षान्निर्देशात्। तस्यान्न तेषामयं शेष इति न तेषूपतिष्ठते,अतो न भवत्येष दोषप्रसङ्गः।।

68. भव्यगेयप्रवचीयोपस्थानीयजन्याप्लाव्यापात्या वा। (3.4.68)
भव्यादिषु गेयप्रवचनीयोपस्थानीयाः सकर्मकाः। तेन तेषां कर्मणि प्राप्ते कर्त्तरि च निपातनम्। शेषाणामकर्मकाणां भावे कर्त्तरि च। `भव्यः' इति। `अचो यत्' (3.1.97), गुणः, `धातोस्तन्निमित्तस्यैव' (6.1.80) इत्यवादेशः। `गेयः' इति। `ईद्यति' (6.4.65) इतीत्त्वम्,गुणः। `साम्नाम्' इति। कर्मणि कृद्योगलक्षणा षष्ठी। `उपस्थानीयः' इति। अनीयर्। `जन्यः'इति। `अचो यत्' (3.1.97) इत्यत्र `तकिशसियतिचतिजनीनामुपसंख्यानम्' (वा.213) इति यत्। `आप्लाव्यः' इति। प्लवतेः `ओरावश्यके' (3.1.125) ण्यत्,वृद्धिः, पूर्ववदावादेशः। `आपात्यः' इति। `ऋहलोर्ण्यत्' (3.1.124)।।

69. लः कर्मणि च भावे चाकर्मकेभ्यः। (3.4.69)
पूर्वसूत्रेण कृत्संज्ञकत्वाल्लकारः कर्त्तर्येव प्राप्नोति न भावकर्मणोः, अतस्तयोरपि यथा स्यादित्येवमर्थमिदमारब्धम्। `ल इत्युत्सृष्टानुबन्धकम् इत्यादि। लडादीनां दशानां लकारानां विशेषकराननुबन्धानुत्सृज्य `लः' इति सामान्यं गृह्यते। `प्रथमाबहुवचनान्तञ्चैतत्' इति। पञ्चमीषष्ठेकवचनाशङ्कां निराकरोति। पञ्चम्यां ह्यस्यां लकारात् परो यस्तस्यैवार्थो निर्दिष्टः स्यात्, ततश्च कर्त्तर्येव लकारः स्यात्, षष्ठ्यामेवास्यामनन्तर्यलक्षणा विज्ञायेत। तथा च लकारस्य योऽनन्तरस्तस्यैवार्थनिर्देशः स्यात्, ततश्च स एव दोषो यः पञ्चम्याम्। अत्राप्यादेशापेक्षया षष्ठी विज्ञायते ?एवमपि लकारादेशानामनेनामर्थो निर्दिश्यत इत्ययमेव विषयार्थो न निर्दिष्टः स्यात्। ननु च लकारस्य प्रयोग एव नास्ति, तत्कथं तस्यैव कर्मादयोऽर्थाः ? सामर्थ्यात् तदादेशानामेतेऽर्था विज्ञास्यन्त इत्यदोषः। `सकर्मकेभ्यो भावे न भवन्ति' इति। अकर्मकेभ्य इति वचनात्; अन्यथा हि तदनर्थकं स्यात्।।

70.तयोरेव कृत्यक्तखलर्थाः। (3.4.70)
`तयोरेव भावकर्मणोः' इति। एतेन `तयोः' इत्यनेन `भावकर्मणोः' इत्यस्य प्रत्यवमर्श इति दर्शयति। ननु चानन्तरसूत्रे द्वे वाक्ये-- `लः कर्मणि भवन्ति कर्त्तरि च' इत्येकं वाक्यम्, `भावे चाकर्मकेभ्योऽपि भवन्ति कर्त्तरि च' इति द्वितीयम्, तत्रानन्तरवाक्यश्रुतयोः कर्त्तृभावयोरेव तयोरित्यनेन प्रत्यवमर्शो युक्तः ? नैष दोषः। यदयमुत्तरसूत्रे `कर्त्तरि च' (3.4.71) इति करोति,ततोऽवसीयते--- भावकर्मणोरेव प्रत्यवमर्श इति यदि भावकर्त्रोरेव प्रत्यवमर्शः स्यात्, कर्त्तृग्रहणमनर्थकं स्यात्; कर्त्तर्यनेनैव सिद्धत्वात्। एवं हि तत्र वक्तुं युक्तं स्यात्-- कर्मणि चेति, कर्मणि केनचिदप्राप्तः स्यात्। यदा पुनरिह भावकर्मणोः प्रत्यवमर्शस्तदा युक्तं कर्त्तरिग्रहणम्, कर्त्तर्यप्राप्ते यथा स्यात्। यथाप्राप्तं भावकर्मणोः। तस्माद्भावकर्मणोरेव प्रत्यवमर्शो युक्तः। `एवकारः' इत्यादिना एवकारस्य व्यवच्छेद्यं अपकर्षणार्थः = निवृत्त्यर्थः।
`शयितम्' इति। `निष्ठा शीङ' (1.2.19) इत्यादिना कित्त्वप्ररतिषेधाद्गुणः।
`ईषत्करः,सुकरः' इति। `ईषदुःसुषु' (3.3.126) इत्यादिना खल्।
`ईषदाढ्यंभवम्' इति। अत्रापि `कर्त्तृकर्मणोश्च भूकृञोः (3.3.127)।।

71. आदिकर्मणि क्तः कर्त्तरि च। (3.4.71)
`आदिकर्मणि' इति। आदिश्चासौ कर्म चेति विशेषणसमासः। `क्रियाक्षणः' इति। एतेन कर्मशब्दोक्रियां कर्माचष्टे, न साधनं कर्मेति दर्शयति। कुतः पुनरेतदवसितम्-- `क्रियां कर्माचष्ट इति ? आदिशब्देन विशेषणात्। बहुनां क्रियाक्षणनामादिमध्यान्तभावे सत्यनादिभूतक्रियाक्षमव्यवच्छेदादादिभूतो यः क्रियाक्षणस्तदादिकर्मेति युक्तं प्रतिपादयितुम्। आदिग्रहणेन साधनं कर्म त्वेकमेवेत्यादिशब्देन विशेषयितुं न शक्यते; आदेरनादिभूतत्वापेक्षत्वादादिशब्दस्य तत्राप्रवृत्तिः, व्यवच्छेद्याभावात्। आदिकर्मणि च `भूते' (3.2.84) इत्यनुवर्त्तमाने `निष्ठा' (3.2.102) इत्यनेनैव विहित इति दर्शयतिन्नाह--`तस्मिन्' इत्यादि। आद्यो यः क्रियाक्षणः स परिनिष्पन्नत्वाद्‌भूतो भवतीति युक्ता तस्य भूतत्वेन विवक्षितता। `प्रकृतः कटं देवदत्तः' इति। कर्त्तरि क्तः। तेनैव कर्त्ताऽभिहित इति देवदत्तशब्दात् तृतीया न भवति। कर्मणस्त्वनभिहितत्वात् कटशब्दाद्द्वितीया भवत्येव। `प्रकृतः कटो देवदत्तेन' इति। अत्र कर्मणि क्तः। तेनैव कर्णणोऽभिहितत्वाद्द्वितीया न भवति। कर्त्तरनभिहितत्वाद्देवदत्तशब्दात् तृतीया भवत्येव। `प्रकृतं देवदत्तेन' इति। भावे क्तप्रत्ययः। सर्वत्र प्रशब्द आदिकर्म द्योतयति। ननु चादिभूतक्रियाक्षमकाले कटोऽनभिनिर्वृत्त एव भवति, कटकारणभूता एव पीरणादयस्तदानीं सन्ति, न च तदवस्थः कटः तदवस्थः कटः, तत्कथं प्रकृतः कट इति भूतकालेन प्रकृतशब्देन कटस्य सामानाधिकरण्यम् ? आद्येन क्रियाक्षणेन यो वीरणादीनां विशेष आहितस्तत्र तादर्थ्यात् कटशब्दो वर्त्तते, स च भूत एवेत्यदोषः।।

72. गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च। (3.4.72)
`उपस्थितः' इति। `द्यतिस्यतिमास्थामिति किति' (7.4.40) इत्तीत्वम्। `अनूषितः' इति। वच्यादिना (6.1.15 सम्प्रसारणम्, `वसतिक्षुघोः' (7.2.52) इतीट्, `शासिवसिघसीनाञ्च' (8.23.60) इति षत्वम्। `अनुजातः' इति। `जनसनखनां सञ्झलोः' (6.4.42) इत्यात्त्वम्। `आरूढः' इति। `हो ढः' (8.2.31), `झषस्तथोर्द्धोऽधः' (8.2.40) इति धत्वम्, `ष्टुना ष्टुः' (8.4.41), ` ढो ढे लोपः' (8.3.13), `ढ्रलोपे पूर्वस्य' (6.3.111) इति दीर्घः। `अनुजीर्णः' इति। `जृ वयोहानौ' (धा.पा.1494), `ऋत इद्धातोः' (7.1.100) इतीत्त्वम्, `हलि च' (8.2.77) इति दीर्घत्वम्, `रदाभ्याम्' (8.2.42)इत्यादिना नत्वञ्च।
ननु च श्लिषादीनामकर्मकत्वादेव सिध्यतीति तत्किमर्थमेषां ग्रहणमित्याह-- `श्लिषादयः' इत्यादि। `तदर्थम्' इति। सकर्मकार्थमित्यर्थः।।

73. दाशगोघ्नौ सम्प्रदाने। (3.4.73)
`गोघ्नः' इति। स एव हन्तेः पचाद्यच्। सम्प्रदानेऽच् निपात्यते, उपधालोपश्च। अथ वा-- टक्‌प्रत्ययो निपात्यते, उपधालोपश्च `गमहन' (6.4.98) इत्यादिनैव सिद्धः, `हो हन्तेः' (7.3.54) इत्यादिना कुत्वम्। यदि सम्प्रदाने `गोघ्नः' इति निपात्यते, ततश्चाण्डालादेरपि तेनाभिधानं प्राप्नोति; यस्मात् तस्मै अपि ये ह्यागताय दातुं घ्नन्ति तेऽपि सुकृत इत्यत आह-- `निपातनसामर्थ्यात्' इत्यादि। यथैव ह्यत्र निपातनसामर्थ्यात् किञ्चिदलाक्षणिकं कार्यं लभ्यते तथाऽर्थविशेषोऽपि। तस्माद्यद्यपि `गोघ्नः' इत्यविशेषेण निपात्यते, तथापि विशिष्टस्यैव। तेन ऋत्विगादेरभिधानम्, नान्यस्य चाण्डालादेः। यदा तर्हि दातुं हन्यते तदा तस्य गोघ्न इत्यभिधां न प्राप्नोतीत्यत आह-- `असत्यपि' इत्यादि। यथा ह्यपचन्नपि योग्यतया पाचक इत्युच्यते, तथाऽसत्यपि गोहनने गोघ्न इति।।

74. भीमादयोऽपादाने। (3.4.74)
`{उणादिप्रत्ययान्ता एते-- काशिका'} ऊणादिप्रत्यया एते'। इति। उणादयः प्रत्यया येषां ते तथोक्ताः। के पुनस्त उणादयः प्रत्ययाः ? इत्यत आह-- `श्याधूसूभ्यो मक्' इत्यादि। आदिशब्देन मङ्क्वन्नादीनां ग्रहणम्। यदि तर्ह्युणादिप्रत्यया एते, एवं सत्युणादिप्रत्ययानां रूढिशब्दात् क्रियाकारकसम्बन्धाभावादपादाने वृत्तिर्न सम्भवत्येव ? नैष दोषः; रूढिशब्देष्वपि केषाञ्चित् क्रियाकारकसम्बन्धोऽस्त्येव, यथा-- तैलपायिकादिषु। अतोऽदेश्यमेतत्। `ताभ्याम्' इत्यादि। ननु चासत्यस्मिन् सूत्रे ताभ्यामित्येष निर्देशो नोपपद्यते; अपादानस्याप्रकृतत्वात्, तत्कुतः पर्युदासस्य प्रसङ्गः ? नैष दोष-; अर्थकत्वमेतत्। अस्मिन् ह्यसति तत्रैवं सूत्रं कर्त्तव्यम्-- ततोऽपादानाच्चान्यत्रोणादय इति। तथा च यदीदं नोच्येत,तदा स्यादेव पर्युदासः।।

75. ताभ्यामन्यत्रोणादयः। (3.4.75)
अथ किमर्थं ताभ्यामित्यनेन सम्प्रदानापादानप्रत्यवमर्शः क्रियते, एतावदेव वक्तव्यम्-- अव्यत्रोणादय इति, प्रकृतत्वादेव हि तयोस्ताभ्यामन्यत्रोणादयो विज्ञास्यन्ते ? अत आह-- `सम्प्रदानप्रत्यवमर्शार्थम्' इत्यादि। `अन्यथा हि' इत्यादि। यदि `ताभ्याम्' इत्यनेन तयोः प्रत्यवमर्शो न क्रियते इत्यर्थः। `अनन्तरत्वात्' इत्यादि। `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' (व्या.प.19) इति न्यायादपादानस्यैव पर्युदासः स्यात्, यदि ताभ्यामिति निर्देशो न क्रियेत। `कृषिः' इति। `इक् कृष्यादिभ्यः' (वा.324) इतीक्। `तन्तुः' इति। `सितनिगमिमसिसच्याविधाञ्क्रुशिभ्यस्तुन्' (द.उ.1.122) इति तुन्। `चर्म' इति । मनिन्।।

76. क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः। (3.4.76)
ननु च नेयं लोके प्रसिद्धिः -- ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अब्यवहार्था इति, तत्कथमयमर्थो लभ्यते ? इत्यत आह-- `स्वनिकायप्रसिद्धिः' इति। स्वनिकायः = वैयाकरणसङ्घः, तत्रेयं प्रसिद्धिः। `कर्त्तृभावाधिकरणेषु' इति। भावकर्मणोः `तयोरेव' (3.4.70) इत्यादिना। `इदमेषाम्' इति। `अधिकरणवाचिनाम्' (2.3.68) इति षष्ठी।
`कथम्' इत्यादि। `भुक्ता ब्राह्मणाः, पीता गावः' इति। कर्त्तरि निष्ठा, अन्यथाऽनभिहितत्वात् कर्त्तुर्ब्राह्मणशब्दाद्गोशब्दच्च कर्त्तरि तृतीया स्यात्। न प्रत्यवसानार्थेभ्यः केनचित् कर्त्तरि क्तो विहितः, तत्कथमेतौ सूत्रादनन्तरमिदं कस्मान्न पठ्यते, एकः एवं सति गुणो भवति, द्विः क्तग्रहणं न कर्त्तव्यं भवति। तदेवं वक्तव्यम् --आदिर्मणि क्तः कर्त्तरि च, ततः श्लिषशीङस्थासवजनरुहजीर्यतिभ्यश्च, ततोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इति, एव़ञ्च द्विः क्तग्रहणं गत्यर्थाकर्मकग्रहणञ्च न कर्त्तव्यं भवति ? अशक्यमेवं वक्तुम्; एवं ह्युच्यमाने यथा ध्रौव्यार्थेभ्यः कर्त्तरि क्तो भवति, तथा प्रत्यवसानार्थेभ्योऽपि स्यात्, स च नेष्यते। तस्माद्यथान्यासमेवास्तु।।

77. लस्य।
`अकार उच्चारणार्थः' इति। एतेनानुबन्धशङ्कां निराकरोति। अनुबन्धे ह्यस्मिन्नकारानुबन्धविशिष्टयोरेव लङलटोर्ग्रहणं स्यात्, नान्येषां लिडादीनाम्। `अर्थविशेषे'इति। कर्त्तृकर्मादौ' । `कालविशेषे' इति। वर्त्तमानादौ। `अक्षरसमाम्नायवत्' इति। यथाऽक्षरसमाम्नाये प्रत्याहारेऽकारादयो वर्णा आनुपूर्व्या कथ्यन्ते, तद्वदित्यर्थः।
`अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति' इति। विशेषानुपादानामिति भावः। `चूडालः' इति। `प्राणिस्थादातो लजन्यतरस्याम्' (5.2.96) इति लच्। `धात्वधिकारः' इति। `धातोः' (3.1.91) इति पञ्चम्यन्तमनुवर्त्तते, तेन च लकारो विशिष्यते-- धातोर्विहितस् लस्येति। `लः कर्मणि च भावे चाकर्मकेभ्यः' (3.4.69) इत्यादौ प्रकारणे येऽर्थाः कर्त्तृकर्मभावा निर्दिष्टास्त इहानुवर्त्तन्ते, तैश्च लकारो विशिष्यते-- कर्त्रादिषु विहितस्य लस्येति। तेन विसिष्टस्यैव लकारस्य ग्रहणं भवति, न सर्वस्येति भावः।।

78.तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। (3.4.78)
`पकारः स्वरार्थः' इति। `अनुदात्तौ सुप्तितौ' (3.1.4) इत्यनुदात्तो यथा स्यात्। `इटष्टकारः' इत्यादि। ननु चासत्यप्येतस्मिन् विशेषणार्थे नैवं किञ्चिदनिष्टं प्राप्नोति, `इटोऽत्' (3.4.106) इत्यत्र सूत्रे लिङादेशस्येटोऽद्विधानात्, ततोऽन्यस्य लिङ्गादेशस्येकारस्यासम्भवात्। तिवाद्यवयवोऽस्तीति चेत् ? न; तस्यालादेशत्वात्। तिबादयो हि समुदाया लादेशाः, न च तदवयवा इकारादयः। अर्थवद्ग्रहणे (व्या.प.1) परिभाषयार्थवदिकारस्य ग्रहणे सति कृतस्तबाद्यवयवस्य प्रसङ्गः ! न हि तेऽर्थवन्तः; तिबादीनामेव समुदायानामर्थवत्वात्। तस्मान्न कर्त्तव्य एव टकारः ? सत्यं न कर्त्तव्यं, य एवं प्रतिपत्तुं समर्थस्तं प्रति; यस्त्वसमर्थस्तं प्रति कर्त्तव्य एव। अथ `आद्यन्तौ टकितौ' (1.1.46) इति विशिष्टदेश आगमभूतस्यास्य विधानं यथा स्यादित्येवमर्थष्टकारः कस्मान्न विज्ञायते ? इत्याह-- `तिबादिभिः' इत्यादि। तुल्यत्वम् = सदृशत्वम्, तत्ुपनरेकयोगनिर्दिष्टत्वेन। तस्मिन् सति लस्य (3.4.77) इत्यनया षष्ठ्या सर्वेषं तिबादीनां सम्बन्धो भवति। द्वितीये त्विट एव। तत्र यस्मिन्पक्ष आश्रीयमाणे सर्वेषामनुग्रहो भवति स एवाश्रयितुं युक्त इति स्थानषष्ठीयमङ्गीकर्त्तव्या। इटोऽप्यादेशत्वं तेन भवतीति न भवति देशवनिध्यर्थष्टकारः। अथ वा-- तिबादिभिरेकयोगनिर्दिष्टत्वेन यत् तिबादिभिस्तुल्यत्वं तत् साहचर्योपलक्षमम्। तिबादिभिस्तुल्यत्वात् तत्साहचर्यादित्यर्थः। साहचर्येण सन्दिग्धार्थनिश्चयो भवति, यथा-- सवत्सा धेनुरिति। तथेहापि सन्देहो जायते-- किमयमादेशः ? उतागमः ? इति, तथापि तिबादिभिरसन्दिग्धादेशभावैः साहचर्यादादेशोऽयमिति निश्चीयते। तेन देशविध्यर्थता टकारस्य न भवति। यद्येवम्, `फलिपाटिनमिमनिजनां गुक् पटिनाकिधतश्च' (द.उ.1.103) इत्यत्रापि पट्यादिभिरादेशैस्तुल्यत्वाद्गुगागमोऽप्यादेशः स्यात् ? नैष दोषः; `संज्ञायाम्' (3.2.185) इति तत्रानुवर्त्तते,न चादेशेन संज्ञा गम्यते, किन्त्वागमेन। तस्माद्गुक आगमत्वं वेदितव्यम्। तत्रैकापि षष्ठी यदाऽदेशन सम्बध्यते तदा स्थानषष्ठी भवति, यदा त्वागमेन तदावयवषष्ठी। `महिङो ङकारः' इत्यादि। अथ ङित्वार्थो ङकारः कस्मान्न भवति ? तस्य `सार्वधातुकमपित्' (1.2.4) इत्यनेनैव सिद्धत्वात्।।

7र9. टित आत्मनेपदानां टेरे। (3.4.79)
`इह कस्मान्न भवति' इत्यादि। शानजपि टितो लकारस्य सम्बन्ध्यात्मनेपदसंज्ञकश्च, तस्मात् तस्यापि टेरेत्वेन भवितव्यमित्यभिप्रायः। `प्रकृतैः' इत्यादि। प्रकृतानां तिबादीनां मध्ये `यान्यात्मनेपदानि'--- इत्येवमिहात्मनेपदानि विशिष्यन्ते, तेन न भवत्येष दोषः। न हि शानच् तिबादिषु सन्निविष्टः। लाघवार्थं `टितस्तङाम्' इति वाच्ये `आत्मनेपदानाम्' इति वचनं वैचित्र्यार्थम्। ननु च `तङाम्' इत्युच्यमाने तसस्तकारेण प्रत्याहारग्रहणं स्यात् ? अर्थवद्‌ग्रहणपरिभाषया (व्या.प.1) न भविष्यति। यस्तर्हि थस्य स्थान आदिश्यते तेन स्यात् ? न; तिबादिषु सन्निविष्टा ये तेषां तिङां ग्रहणं विज्ञास्यते। प्रत्यासत्तेर्वा आत्मपदीयेन तशब्देन प्रत्याहारग्रहणं विज्ञास्यते। व्याप्तेस्त्वनाश्रयः; लक्ष्यस्थित्यनुरोधात्।।

80. थासः से। (3.4.80)
`पेचिषे' इति।लिट्, `अत एकहल्मध्वेऽनादेशादेर्लिटि' (6.4.120) इत्येत्वाभ्यासपोपौ। `पक्तासे' इति। लुट्, तासिः, `तासस्त्योर्लोपः' (7.4.50) इति सकारलोपः। `पक्ष्यसे' इति। लृट्, `चोः कुः' (8.2.30) इति कुत्वम्-- ककारः। अथ थकारमात्रस्यैव सकारादेशः कस्मान्न भवति----थः स इति, थकारस्य सकारे कृते परस्य भागस्य टेरेत्वे सत्यभीष्टं सिध्यत्येव ? नैतच्छक्यम्च एवं ह्यार्थाशब्दस्य यस्थकारस्तस्यापि स्यात्। धात्वधिकाराद्धातोर्यो विहित इति विशेषणान्न भवतीति चेत् ? न; असम्भवात्। न हि तथाविधस्तकारो धातोर्विहितः सम्भवति । अथ धातोरनन्तरस्यैति विशिष्येत ? एवमप्यनादित्व एव परस्य स्यात्, नेतरेभ्यो विकरणेभ्यः; व्यवधानादिति यथान्यासमेवास्तु। टेरेत्त्वेनैव सिद्ध एकारान्तत्वे यदेकारान्तत्वामादेशस्य क्रियते, तत् `तिङामादेशानां टेरेत्वं न भवति' इति ज्ञापनार्थम्। तेन डारौरस्प्रभृतिषु टेरेत्वं न भवतीति-- पक्ता, पक्तारौ, पक्तार इति।।

81.लिटस्तझयोरेशिरेच्। (3.4.81)
`शकारः सर्वादेशार्थः' इति। असति तस्मिन् धात्वधिकारात् `तस्मादित्युत्तरस्य ' (1.1.67) इत्यादेः परस्य तकारस्य प्रसज्येत। शकारे तु सति `अनेकाल्शित् सर्वस्य' (1.1.55) इति वचनात् सर्वस्य भवति। अथ `शे' इति कस्मान्नोक्तम् ? नैवं शक्यम्; `शे' इति हि प्रगृह्यसंज्ञा स्यात्। इह च व्यतिपप इति पिबादेशः स्यात्। एशि तु सति न भवति, वक्ष्यति ह्येतत्--- `वर्णे यत् स्यात् तच्च विद्यात् तदादौ' इति।।

82. परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। (3.4.82)
`पपक्थ' इति। `उपदेशेऽत्वतः' (7.2.62) इतीडभावः। `पेचिथ' इति क्वचित् पाठः, तत्र हि `ऋतो भारद्वाजस्य' (7.2.63) इति नियमादिट्। `थलि च सेटि' (6.4.121) इत्येवत्वाभ्यासलोपौ। `पेच' इति। `धातोः' (3.1.91) इत्यधिकारात् `तस्मादित्युत्तरस्य' (1.1.67) , `आदेः परस्य' (1.1.54) इति थकारस्याकारादेशः। द्वयोराकारयोः `अतो गुणे ' (6.1.97) पररूपत्वम्। अथ वा-- आन्तरतम्याद्बह्वर्थस्याकारस्य बह्वर्थ एव स्थानी युक्त इति समुदायस्यैव भवति। `पेचिव, पेचिम' इति। क्रादिनियमादिट्।।

83. विदो लटो वा। (3.4.83)
`विद ज्ञाने' इति। एतेन ज्ञानार्थस्य विदेर्ग्रहणम्, नान्येषामिति। एवं मन्यते-- विद इति पञ्चमी, तेन `तस्मादित्युत्तरस्य' (1.1.67) इत्यनन्तराणां तिबादीनामादेशेन भवितव्यम्। न चान्यस्माद्विदेः परस्मैपदान्यनन्तराणि सम्भवति; विकरणैर्व्यवधानात्। विचारसत्तार्थयोश्चात्मनेपदित्वात् परस्मैपदानुपपत्तिः। तस्मात् ज्ञानार्थस्यैव ग्रहणमिति।।

84. ब्रुवः पञ्चानामादित आहौ ब्रुवः। (3.4.84)
`पञ्चैव' इत्यादि। ननु च नेह द्वितीयं पञ्चग्रहणं, नाप्यदिग्रहणमादेशविशेषमम्, तत्र पञ्चानामाद्यानां स्थाने सर्वैरेव णलादिभिः पर्यायेण भवितव्यम्, तत् कथं पञ्चैव णलादय आदेशा भवन्तीत्येषोऽर्थो लभ्यते ? इत्यत आह-- `स्थानिसम्बन्धात् ' इत्यादि। इह हि स्थानिनः प़ञ्चैवाऽद्या निर्दिष्टाः, तेषाञ्च `स्थानेऽन्तरतमः' (1.1.50) इति परिभाषया पञ्चिरेवाद्यैः सम्बन्धः सम्भवति, नेतरैश्च। तथा हि-- पञ्चानामेवाद्यानामान्तरतम्यमस्ति, तुल्यार्थत्वात्। नान्येषाम्, विपर्ययात्। तस्मात् स्थानिसम्बन्धादादेशेष्वपि पञ्चत्वमादित्वञ्च विज्ञायत इति युक्तम्-- पञ्चैव णलादय आदेशा भवन्तीति। `आत्थ' इति। `आहस्थः' (8.2.35) इति हकारस्य थकारः, तस्य `खरि च' (8.3.55) इति चर्त्वम्-- तकारः। `ब्रवीति' इति। `ब्रुव ईट्' (7.3.93)।
`परेषाम्' इति। थादीनाम्। अथ `ब्रुवः' इति किमर्थं पुनरिदमुच्यते, यावता ब्रुव इति यदेतत् पञ्चम्यन्तं तदेवार्थद्विभक्तेर्विपरिणामो भविष्यीति षष्ठ्यन्तं विज्ञास्यत इत्याह-- `ब्रुवः' इति पुनर्वचनम्' इत्यादि। असति हि श्रते सम्बन्धिनि विभक्तिविपरिणामो युक्तः। इह परस्मैपदानामिति प्रकृता एव तिबादयः षष्ठ्यन्ताः सम्बन्धिन इति न युक्तो विभक्तिविपरिणामः। `ब्रुवः' इतियदि पुनर्नोच्येत ततो यथा णलादयः परस्मैपदानां भवन्ति, एवमाहौदेशोऽपि स्यात्। तस्मात् तं प्रति ब्रुवः स्थानित्वं यथा स्यादित्येवमर्थं `ब्रुवः' इति पुनरुच्यते। `परस्मैपदानामेव हि स्यात्' इति। यदि `ब्ुवः' इति पुनर्नोच्येतेति शेषः। अयञ्च `ब्रुवः' इति पूनर्वचनस्य हेतुः। हिशब्दो यस्मादर्थे। यस्मादसति पुनवर्वचने परस्मैपदानामेवाहादेशः स्यात्, तस्मात् `ब्रुवः' इति पुनर्वचनं कर्त्तव्यम्।।

85. लोटो लङ्वत्। (3.4.85)
`तामादयः' इति। येषां `तस्थस्थ' (3.4.101) इत्यादिना विधाननम्। `सलोपश्च' इति। यस्य नित्यं ङितः' ( 3.4.99) इति विधानम्।
`अडाटौ इत्यादि। `लुङ्लङ्लृङक्षु' (6.4.71)इत्यादिनाट्, `आडजादीनाम्' (6.4.72) इत्याट् लङः कार्य विधास्यते। `लङ शाकटायनस्यैव' (3.4.111) इति झेर्जुसादेशश्च। न चेह कश्चिद्विशेष उपादीयते, ततश्च यस्मादतिदेशात् तामादिकार्यं भवति तथा `आडजादीनाम्'(6.4.72) लङकार्येणापि भवितव्यमित्यभिप्रायः। `इतश्च' (3.4.100) इति लोपः, मिपोऽम्भावश्च। देश्यमेतत्। तयोः `एरुः' (3.4.86) इत्युत्त्वस्य `मेर्निः' (3.4.899) इति निरादेशस्य चापवादस्य विधास्यमानत्वात्। `सा च व्यवस्थितविभाषा' इति। तेन तामादिरेवादेशो भवति, न त्वडादिरिति मन्यते।।
 
 86. एरुः। (3.4.86)
`हिन्योः' इत्यादि। हिश्च निश्च हिनी, तयोरुत्वप्रतिषेधो वक्तव्यः, अन्यथा हि लुनीहि पचानीति न सिध्येत्। `न वोच्चारणसामर्थ्यात्' इति। यदि हीकारे कृते सत्युकारेण भवितव्यं तदोकारमेवोच्चारयेत्। अयं हि लधीयान् शब्दव्युत्पत्तावुपायः। न चेकारोच्चारणे सूत्रस्य लाघवं भवति, तदुकार एवोच्चरयितव्ये यदिकारोच्चारणं करोति, तस्यैतत् प्रयोजनम्-- उत्वं मा भूदिति।।

87. सेर्ह्यपिच्च। (3.4.87)
`लुनीहि' इति। पित्त्वे प्रतिषिद्धे `सार्वधातुकमपित्' (1.2.4) इति ङित्त्वम्, ततस्तन्निबन्धनं `ई हल्यघोः' (6.4.113) इतीत्वं भवति। `राघ्नुहि' इति। `राध साध संसिद्धौ' (धा.पा.1262), 1263) स्वादित्वात् श्नुः। अत्रापि पूर्ववन्ङित्वने सति गुणो न भवति। अथ किमर्थं गुरु सूत्रं क्रियते, न `से र्हि ङिच्च' इत्येवोच्येत ? नैवं शक्यम्; ङित्त्वस्य विधाने स्थानिवद्भावातम् पित्त्वं स्यादेव। ततश्च ङित्त्वान्ङित्कार्यं गुणनिषेधादिकं स्यात्, पित्त्वाच्चानुदात्तत्वम्। तस्माद्यथान्यासमेवास्तु।।

88. वा च्छन्दसि। (3.4.88)
`अपित्त्वं विकल्प्यते'( इति)। `लादेशः' इति। तस्यानन्तरत्वात्। आदेशस्तु तेन व्यवहितत्वादनन्तरो न भवति विकल्प्यते। `युयोधि' इति। `यु{मिश्रणेऽमिश्रणे च' धा.पा} मिश्रणे' (धा.पा.1033), `बहुलं छन्दसि' 2.4.76) इति शपः श्लुः, `श्लौ' (6.1.त10) इति द्विर्वचनम्। अत्रापि पित्त्वेन ङित्त्वं नास्ति, तेन गुणो न भवति। `अङितश्च' (6.4.103) इति घिभावः। `प्रीणीहि' इति। `प्रीञ् {तर्पणे कान्तौ च' -धा.पा.}(धा.पा.1474) क्र्यादित्वात् श्ना। अत्राप्यपित्त्वे सति पूर्ववदीत्वम्।।

89. मेर्निः। (3.4.89)
`उत्थलोपयोरपवादः' इति। यथाक्रमं `एरुः' (3.4.86), `लोटो लङवत्' (3.4.85) इत्यतिदेशेन प्राप्तयोः। इकारलोपस्य च लङि `इतश्च' (3.4.100) इति विधानादतिदेशेन तस्य प्राप्तिः। `पचानि' इत्यत्र `आडुत्तमस्य पिच्च' (3.4.92) इत्याट्।।

90. आमेतः। (3.4.90)
अत्रैकारेण लोड्विशिष्यते, लोटा वैकार इति द्वौ पक्षौ। तत्र यद्याद्यः पक्ष आश्रीयेत तदैकास्य विशएषणत्वाद्विशेषणेन च तदन्तविधिर्भवतीत्येकारान्तस्य लोट आम् विधीयमानोऽनेकाल्त्वात् सर्वादेशः स्यादित्येष दोषः प्रतिविधेयः। द्वितीये तु पक्ष एकार एव विशेष्यत्वात् प्रधानम्। न च प्रधाने तदन्तविधिरित्येकारस्यैव भविष्यीति न किञ्चित् प्रतिविधेयम्। तेन द्वितीयपक्षमाश्रित्याह-- `लोट्‌सम्बन्धिन एकारस्य' इत्यादि। `पचताम्' इति। टेरेत्वे कृत आम्। इह पचावेदम्, यजावेदमिति यद्यप्यन्तादिवद्भावाद्गुणो लोड्‌ग्रहणेन गृह्यते, तथापि बहिरङ्गमन्तरङ्गे' (व्या.प.42) इत्यन्तरङ्ग आमादेशे कर्त्तव्ये बहिरङ्गस्याद्गुणस्यासिद्धत्वादामादेशो न भवति। बहिरङ्गत्वं तु गुणस्य द्विपदाश्रयत्वात्। आमस्त्वन्तरङ्गत्वमेकपदाश्रयत्वात्।।

91. सवाभ्यां वामौ। (3.4.91)
`पचस्व' इति। `थासः से' (3.4.80) इति कृते वकारः। `पचध्वम' इति। टेरेत्वे कृतेऽमादेशः।।

92. आडुत्तमस्य पिच्च। (3.4.92)
`स चोत्तमपुरुषः पिद्भवतिट' इति। अथाट एव पित्त्वं कस्मान्न क्रियते ? निरर्थकत्वात्। पित्त्वं ह्यनुदातार्थं वा स्यात्, गुणवृद्ध्यर्थं वा; तत्राटोऽनुदात्तत्वमागमत्वादेव सिद्धम्, गुणवृद्ध्योस्तु नैवासौ निमित्तम्; अप्रत्ययत्वात्। तस्मादाटं प्रति पित्त्वमनर्थकमित्युत्तमस्यैव विधीयते। `करवाणि' इति। पित्त्वादुत्तमस्य ङित्वं नास्ति, तेन गुणो भवति। `करवै' इति। `एत ऐ' (3.4.93), `आटश्च' (6.1.90) इति वृद्धिः।।

93. एत ऐ। (3.4.93)
`आमोऽपवादः' इति। `आमेतः' (3.4.90) इति प्राप्तस्य। `पचावेदं यजावेदम्' इति। `लोटो लङ्‌वत्' (3.4.85)इति सलोपे सति `आद्गुणः' (6.1.90) इति वृद्धिः।।

94. लेटोऽडाटौ। (3.4.94)
`पर्यायेण' इति। अथ युगपदेव कस्मान्न भवतः ? एवं मन्यते-- टितावेतौ विधीयेते, टित्त्वञ्चादिविधानार्थंम्। न च युगपद्‌द्वयोरादित्वं भवति, एकेनैवादिदेशस्यावष्टब्धत्वान्न युक्तं यौगपद्यमिति। `जोषिषत्' इत्यादीव्युदाहरणानि `सिब्बहुलं लेटि' (3.1.34) इत्यत्र व्युत्पादितानि। अत्रापि व्युत्पाद्यन्ते। `जोषिषत्' इति-- `जुषी प्रीतिसेवनयोः' (धा.पा.1288), सिप इकार उच्चारणार्थः, अनेनाट्, `इतश्च लोपः परस्मैपदेषु' (3.4.97) इतीकारलोपः `आर्धधातुकस्येड्वलादेः' (7.2.35) इतीट्, लघूपधगुणः, `आदेशप्रत्यययोः' 8.3.59) इति षत्वम्। `तारिषत्' इति-- `तृ प्लवनतरणयोः' (धा.पा.969), `सार्वधातुकार्धधातुकयोः' (7.3.84) इति व्यत्ययेन धात्वकारस्य दीर्घः। शेषं पूर्ववत्। `मन्दिवत्' इति--`मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु' (धा.पा.13) इदितो नुम्' (7.1.58)। `पदाति' इति। `पद गतौ' (धा.पा.1169) दिवादावनुदात्तेत् , व्यत्ययेन परस्मैपदम्; शप्प्रत्ययश्च, अटा सहाकः सवर्णे (6.1.101) दीर्घत्वम्, तिप्। इकारलोपोऽत्र न भवति; तद्विधौ `वैतोऽन्यत्र' (3.4.96) इत्यतो वाग्रहणानुवृत्तेः। `च्यावयति' इति। `च्युङ् ज्युङ प्रुङ प्लुङ गतौ' (धा.पा.955--958), हेतुमण्णिच्।।

95. आत ऐ। (3.4.95)
`मन्त्रयैते' इति। `मत्रि {गुप्तपरिभाषणे-धा.पा.} (धा.पा.1679), चुरादिणिच्, शप्,{गुणायादेशः' इति मु.पाठः।} गुणायादेशौ। `आटः कस्मान्न भवति' इति। पदाति विद्युदित्यादौ। `विधानसामर्थ्यात्' इति। यद्याट ऐत्वं स्यात् ऐडागममेव विदध्यात्, एवं प्रक्रियालाघवं भवतीति मन्यते।।

96. वैतोऽन्यत्र। (3.4.96)
`शासै' इति। उत्तमपुरुषैकवचनमिट्, टेरेत्वम्। `ईशै' इत्यादीनि उदाहरणानि `उपसंवादाशङ्कयोः' (3.4.8) इत्यत्र व्युत्पादितानि। `दधस' इति। `डुधाञ् धारणपोषणयोः' (धा.पा.1092), `थासः से' (3.4.80), शपः श्लु), `श्लौ' (6.1.10) इति द्विर्वचनम्, अट्, `घोर्लोपो लेटि वा' (7.3.70) इत्यकारलोपः।।

97. इतश्च लोपः परस्मैपदेषु। (3.4.97)
`परस्मैपदग्रहणम्' इत्यादि। ननु च टेरेत्वमिडादिषु बाधकं भविष्यति, तत् किं परस्मैपदग्रहणेन ? नैतदस्ति; टेरेत्वस्यावकाश अन्येषु लकारादिषु, इतो लोपस्य च परस्मैपदेषु; उभयप्रसङ्गे परत्वादितो लोपः स्यात्।।

98. स उत्तमस्य। (3.4.98)
`करवाव' इति। `लेटोऽडाटौ' (3.4.94) इत्याट्। `उत्तमग्रहणम्' इत्यादि। यदि तर्हि पुरुषान्तरे मा भूदित्येवमर्थमुत्तमग्रहणं क्रियते ? न ; वस्मस्ग्रहणमेव कर्त्तव्यम्, अत्राप्ययमर्थः-- सकारग्रहणं कर्तव्यं न भवति, अलोऽन्त्यपरिभाषयैव सकालोपो भवति ? अशक्यं वस्मस्ग्रहणं कर्त्तुम्; तस्मिन् सति यदा व्यत्यनेन पुरुषान्तरस्य स्थाने तौ भवतस्तदापि लोपः स्यात्, यदा चोत्तमपुरुषस्य स्थाने थस् क्रियते तदा लोपो न स्यात्। उत्तमग्रहणे सत्येव दोषो न भवति स्थानिवद्भावेन मध्यमोत्तमसंज्ञयोर्भवन्त्योरेकसंज्ञाधिकारादसति समावेश उत्तमसंज्ञया मध्यमसंज्ञाया निवृत्तिः। सकारग्रहणञ्च यदि न क्रियेत, तदोत्तमस्य व्यत्ययेन वचनान्तरेषु कृतेषु वर्णान्तरस्यापि लोपः स्यात्। तस्माद्यथान्यासमेवास्तु।।

99. नित्यं ङितः। (3.4.99)
`अपचावापचाम' इति। लङ, `अतो दीर्घो यञि' (7.3.101) इति दीर्घः।।

100. इतश्च। ( 3.4.100)
`अपचात्' इति। लङ। `अपाक्षीत्' इति। लुङ `वदव्रज' (7.2.3) इत्यादिना वृद्धिः, `अस्तिसिचोऽपृक्ते' (7.3.96) इतीट्।।

101. तस्थस्थमिपां तान्तन्तामः। (3.4.101)
`अपाक्ताम्' इति। पूर्ववद्‌वृद्धिः, `झलो झलि' (8.2.26) इति सिचो लोपः।।

102. लिङ सीयुट्। (3.4.102)
`पचेत्' इत्यादौ `विधिनिमन्त्रण' (3.3.161) इत्यादिना लिङ, `लिङ सलोपोऽनन्तस्य' (7.2.79) इति सकारलोपः, शपा सह `आद्गुणः' (6.1.87) वलि लोपः। `पक्षीष्ट' इत्यादौ आशिषि लिङ, चकारस्य `चोः कुः' (8.2.30) इति कुत्वम्, `इण्कोः' (8.3.57) इति षत्वम्।।

103. यासुट् परस्मैपदेषूदात्तो ङिच्च। (3.4.103)
`परस्मैपदविषयस्य' इति। एतेन `परस्मैपदेषु' इत्यस्याः सप्तम्या विषयसप्तमीत्वं दर्शयति, न परसप्तमीत्वम्। परसप्तमीत्वं तु न सम्भवति; लिङः परस्मैपदानामसम्भवात्। `आगमानुदात्तत्वे प्राप्ते' इति। कुतः पुनरागमानुदात्तत्वं भवतीति निश्चितम् ? अत एव यासुट उदात्तवचनात्। यदि ह्यागमा अनुदात्ता न स्युस्तदोदात्तवचनमनर्थकं स्यात्; प्रत्ययभक्तत्वेनैव यासुटः प्रत्ययस्वरेणैवाद्युदात्तस्य सिद्धत्वात्। ननु यानि पिद्वचनानि तदर्थमुदात्तवचनं स्यात्, तेषां ह्यनुदात्तत्वात् तद्भक्तो यासुडनुदात्त एव स्यात्, यद्युदात्त इति नोच्येत ? नैतदस्ति;यद्येतत् प्योजनमभिमतं स्यात्, अपिदित्येवं ब्रूयात्। तदैतदुदात्तवचनमागमानुदात्तस्य ज्ञापकमेव। `तत्र ङित्कार्याणामसम्भवात्' इति। न सर्वेषामित्यभिप्रायः। कुत एतत् ? यावता `उष्यात्' इत्यत्र ग्रहिज्यादिसूत्रेण (6.1.16) यत्सम्प्रसारणं तत् यासुट्ययि ङिति सम्भवति। ङिन्मात्निबन्धनं हि सम्प्रसारणम्; विशेषानुपादानात्। तत्र यदि यासुटो ङित्त्वं विधीयेत तदा ग्रहेः सम्प्रसारणस्यैवेकस्यानुग्रहः स्यात्। लिङस्तु ङित्वे विधाने सर्वस्य ङित्कार्यस्य गुणवृद्धिप्रतिषेधादेवानुग्रहो भवतीति लिङ एव ङित्त्वं विधीयते। `ङित्कार्याणाम्' इति। ङिति कार्याणामित्यर्थः। `कुर्यात्' इति। विकरणाश्रयो धातोर्गुणः, `अत उत् सार्वधातुके' (6.4.110) इत्युत्वम्, `ये च' (6.4.109) इत्युकारलोपः। `कुर्युः' इति। `उस्यपदान्तात्' (6.1.96) इति पररूपत्वम्। `अचिनवम्' इति। मिपोऽम्। अत्र ङित्त्वाभावाद्गुणः। एतच्च ज्ञापकस्य प्रयोजनम्।।

104. किदाशिषि । (3.4.104)
`प्रत्ययस्यैवेदं कित्त्वम्' इति। यद्येवम्, आशिषि लिङ् विहितस्तस्य यासुट् किद्भवतीत्येतद्विरुध्यते ? नास्ति विरोधः; यासुड्‌वचनं लिङ एवोपलक्षणम्। तेन लिङवयवद्वारेण लिङ एव कित्त्वमनेन विधीयते; यासुडवयवत्वाल्लिङः। `नागमस्य' इति। `नागमस्य' इति। अत्रापि नागमात्रस्येत्येषोऽर्थो वेदितव्यः। `प्रयोजनाभावात्' इति। न सर्वस्य कित्त्वप्रयोजनस्याभावादिति भावः। कुतः ? वाच्यादिसूत्रेण (6.1.15) यद्वचिस्वप्योः सम्प्रसारणं तस्य यासुट्यपि किति सम्भवात्। किन्मात्रे हि सम्प्रसारणमुच्यते, विशेषापरिग्रहात्। यदि गुणवृद्धिप्रतिषेधस्तुल्य एवेति कस्तर्हि ङित्वात् कित्त्वस्य विशेषो येन तस्मिन् प्राप्ते कित्तवं विधीयेत ? इत्याह-- `सम्प्रसारणम्' इत्यादि। ङित्वे वच्यादिसूत्रेण (6.1.15) किति दिधीयमानं सम्प्रसारणं न स्यात्. `जाग्रोऽविचिण्णल्ङित्सु' (7.3.85) इति विधीयमानो गुणः। `इष्यात्' इति। `स्कोः संयोगाद्योरन्ते च' (8.2.29) इति सकारलोपः।
`वच्यात्' इति। कित्वाभावाद्वचेः सम्प्रसारणं न भवति। `जागृयात्' इति। पूर्वसूत्रेण ङित्वम्, तेन गुणो न भवति। उभयत्रादादिकत्वाच्छपो लुक्।।

105. झस्य रन्। (3.4.105)
`कृषीरन्' इति। आशिषि लिङ्।।

106. इटोऽत्। (3.4.106)
`कृषीय' इति। आशिषि लिङ्। `नैवायमादेशावयवः' इति। अकारमात्रस्यादेशत्वात्। यद्येवम, अकारोऽयमादेशो विधीयत इति `अणुदित्सवर्णस्य चाप्रत्ययः' (1.1.69) इति सवर्णानां ग्राहकः स्यात् ? `भाव्यमानोऽण् सवर्णान् न गृह्णाति' (व्या.प.35) इति न भविष्यति। सत्यपि वा सवर्णग्रहणे मात्रिकस्यान्तरतम्यान्मात्रिक एव भविष्यति।
अथ लाविषीष्टेत्यत्रागमस्येटः कस्मादकारो न भवतीत्याह-- `आगमस्येटो ग्रहणं न भवति' इति। अत्र कारणमाह-- `अर्थवद्‌ग्रहणे न' इत्यादि। ननु चागमानामप्यर्थवत्त्वमस्त्येव, तथा हि-- यासुट्‌सहितेनैव लिङो।ञर्थोऽविभिधीयते, न केवलेन ? नैतदेवम्; अन्येषु लकारेषु विनापि तेनार्थवत्ता दृष्टा, आगमानां तु न क्वचित्। तेन तेऽर्थवन्तो न भवन्तीति।।

107. सुट् तिथोः। (3.4.107)
अथ तकारथकाराब्यां लिङ विशिष्यते-- तकारथकायोर्यो लिङ स्थानीति ? तेन वा तौ लिङसम्बन्धिनोस्तकारथकारयोरिति ? तत्र यद्याद्यः पक्ष आश्रीयेत, तदा विशेष्यत्वाल्लिङः प्राधान्यम्। ततश्च प्रधाने कार्यसम्प्रत्ययाल्लिङ एव सुडागमः स्यात्। एवञ्च परत्वाद्विशेषविहित्वाच्च सुटा सीयड् बाध्येत। तस्माद्दुष्टोऽयं पक्ष इति द्वितीयं पक्षमाश्रित्याह-- `लिङ्सम्बन्धिनोः' इति। यदुक्तम्-- तकारथकारयोः सुडागमो भवतीति, तस्यार्थ स्पष्टीकर्त्तुमाह-- `तकारथकारावागमिनौ' इति। विशेष्यत्वेन प्राधान्यादिति भावः। यदुक्तञ्च-- लिङसम्बन्धिनोरिति, तस्यार्थ स्पष्टीकर्त्तुमाह-- `लिङ् तद्विशेषणम्' इति। `सीयुटस्तु लिङेवागमी' इति। तकारथकारावेवकारेण व्यवच्छिद्येते। `तेन' इत्यादि। यत एवं तकारथकारावागमिनौ सुटः, सीयुटस्तु लिङेव, तेन भिन्नदेशत्वात् सुटा सीयुड् न बाध्यते। न च भिन्नदेशयोर्बाध्यबाधकभावो युक्तः; विरोधाभावात्। `कृषीष्ट, कृषीष्ठाः' इति। तथासोरेकवचनयो रूपे। `कृषीयास्ताम्, कृषीयास्थाम्' इति। आतामाथामोः । सर्वत्राशिषि लिङ, `उश्च' (1.2.32) इति कित्त्वाद्गुणाभावः।।

108. झेर्जुस्। (3.4.108)
`पचेयुः' इति। `अतो येयः' (7.2.80) इतीयादेशः, `आद्गुणः' (6.1.87) , पररूपत्वम्।।

109. सिजभ्यस्तविदिभ्यश्च। (3.4.109)
`वेत्तेश्च' इति निर्देशेन लुग्विकरणस्यैवेह ग्रहणमिति दर्शयति। तस्यैव हि झिरनन्तरः सम्भवति,नान्येषां विदीनाम्। विकरणैर्व्यवधानात्। सत्ताविचारणार्थयोरात्मनेपदित्वात् झेरसम्भव एव, तस्माल्लुग्विकरणस्यैव ग्रहणं युक्तम्। `अभ्यस्तविदिग्रहणमसिजर्थम्' इति। यद्यभ्यस्तविदिग्रहणमसिजर्थम्, एवं सति लडादिसम्बन्धिनोऽपि झेः प्राप्नोतीत्यत आह--- `ङित इति चानुवर्त्तते' इति। तेन ङिल्लकारसम्बन्धिन एव झेर्जुस् भविष्यति, नान्येषामित्यभिप्राय-। `अबिभयुः, अजिह्रयुः' इति। `ञि भीभये' (धा.पा.1084), `ह्री लज्जायाम्' (धा.पा.1085), `जुजि च' (7.3.83) इति गुणः, जुहोत्यादिभ्यः शपः श्लुः, `श्लौ' (6.1.10) इति द्विर्वचनम्। `अजागरुः' इति। अदादित्वाच्छपो लुक्; जागर्तेः `जक्षित्यादय षट्' (6.1.6) इत्यभ्यस्तसंज्ञा।।

110. आतः। (3.4.110)
सिचः परस्याकारान्तादुत्तरस्य झेरिति ब्रुवता द्वाभ्यमप्यनन्तरसय् झेरित्युक्तं भवति। उभाभ्याञ्चानन्तर्यं न सम्भवति, आतः सिचा व्यवधानादिति मन्यमानः पृच्छति-- `कथम्' इत्यादि। `सिचो लुकि' इति। `गातिस्था' (2.4.77) इत्यादिना यदा सिचो लुक् क्रियते तदा प्रत्ययलक्षणेन सिचोऽनन्तरः सम्भवति। `श्रुत्या चाकारान्तात्' इति। तदनन्तरश्रूयमाणत्वात्। श्रुत्येति श्रोत्रेन्द्रियसाध्योपलब्ध्येत्यर्थः। तदेवं द्वाभ्यामप्यानन्तर्यस्याश्रयणात् सामर्थ्यादातः सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति। न हि श्रूयमाणे सिचि द्वाभ्यामानन्तर्यं सम्भवति। `तकारो मुखसुखार्थः' इति। व्यावर्त्त्याभावात्। न हि ह्रस्वात् प्लुताद्वा वर्णात् परः सिच् सम्भवति।
`पूर्वेणैव सिद्धे' इति। लुप्तेऽपि सिचि प्रत्ययलक्षणेन झेः सिजनन्तरत्वादभूविन्निति नियमस्य व्यावर्त्यं दर्शयति। `भुवो वुग् लुङलिटोः' (6.4.88) इति वुक्। ननु च नैवेह पूर्वसूत्रेण प्राप्नोति, न हीह सिजपेक्षयानन्तर्यं झेर्विद्यते, तत् किं प्रतिषिध्यत इत्याह-- `प्रत्ययलक्षणेन' इत्यादि। लुप्ते हि प्रत्ययलक्षणेनानन्तर्यमस्ति, अतः पूर्वेण प्राप्नोति। जुस् नियमेन प्रतिषिध्यते। यदि तर्हि नियमार्थमिदम्, `अकार्षुः' इत्यत्रापि न स्यात्, न ह्यत्रातः सिज्लुगन्तात्परो झिर्भवतीति ? इत्यत आह--`तुल्यजातीय' इत्यादि। आतः सिज्लुगन्तान्नियमार्थमयं जुस् विधीयते। स च नियमस्तुल्यजातीयापेक्षः, तेन समानजातीयमेव व्यवच्छिनत्ति। कश्च समानजातीयः ? अन्यः {सिजलुगन्तः इति मु.पाठः।} सिज्लुगन्तः। न चाकार्षुरित्यत्र झेः पूर्वः सिज्लुगन्तः इति नायं नियमस्य विषयः, तेन भवत्येव जुस्।।

111. लङः शाकटायनस्यैव। (3.4.111)
`अयुः, अवुः' इति। पूर्ववच्छपो लुक्, पूर्ववच्च पररूपत्वम्।
`लङेव' इत्यादि। यत्सम्बन्धिनो झेर्जुस्भावो विधेयः। तिङत्वमधिकृत्येमुक्तम्। कुतः एतत् ? लङलिङोरप्याकारान्तादनन्तरयोः सम्भवात्। तत्सम्बन्धिनोस्तु `झेर्जुस्' (3.4.108) इत्येवमादिनैव शास्त्रेण जुस्भावो विहित इति न तावदधिकृत्येदमुच्यते। एवकारस्तु लृङव्यवच्छेदार्थः, स्यप्रत्ययेन झेर्व्यवधानात्। स चातिदेशद्वारेण यस्य लङवद्भावो न भवति स वेदितव्यः। यस्य ह्यतिदेशद्वारेण लङवद्भावो विहितः स उपचारेण लङित्युच्यते। परमार्थतस्तु लोडेवासौ, न लङेव। `लङवद्भावेन यः' इति। लङिति सम्बध्यते।लङा तुल्यं मा भूदिति मुख्यस्यैव लङो ग्रहणं यथा स्यादित्येवमर्थं लङ्ग्रहणं क्रियते। केन पुनर्लङवद्भावो भवतीत्याह-- `लोटो लङ्वत्' इति. अनेन हि सूत्रेण (3.4.85) लोटो लङ्वत् कार्यष्वतिदिष्टेषु लङ्कार्ययोगात् तस्य लङ्वद्भावो भवति। तेन लङसदृशभूत उपचारेण लङिति व्यपदिश्यते। अत्रायमर्थः--यदि मुख्यस्य लङः परिग्रहार्थं लङ्ग्रहणं न क्रियते, ततः `लोटो लङ्वत्' (3.4.85) इत्यतिदेशाद्यथा तामादिकार्यं लोटो भवति, तथेदमपि स्यात्। अतोऽस्य दोषस्य निवृत्यर्थं लङग्रहणं क्रियत इति मा भून्नामायं जुस्; लोटो लङग्रहणाद्यत्नात्।। यस्तु `सिजभ्यस्तविदिभ्यश्च' (3.4.109) इत्यनेन विधीयते स विभ्यतु, जाग्रतु, विदन्त्वित्यादौ कस्मान्न भवति, न हि किञ्चित् तत्र यत्नान्तरमस्ति ? इत्याह-- `सिजभ्यस्त' इत्यादि। कथं पुनर्विना यत्नेन पूर्वको जुस् लोटो न भवतीत्याह-- `जुस्भावमात्रं हि' इत्यादि। न ह्ययमेव जुस् मुख्येन लङा विशिष्यते,किं तर्हि ? जुस्भावमात्रम्। योऽस्मिन् प्रकरणे जुस् विहितः स मुख्यस्यैव लङो भवति, नेतरस्येति। तेन पूर्वकोऽपि जुस् न भवति। `एककार उत्तरार्थः' इति। अथ तदर्थं एवकारः कस्मान् भवति ? विध्यर्थत्वात् तस्य । न हि विध्यर्थवाक्य एवकारस्यार्थवत्वमुपपद्यते। स हि नियमार्थेषूपयुज्यते, न हि विध्यर्थेषु। न चेदं नियमार्थम्; सिद्धे हि विधिरारभ्यमाणो नियमार्थो भवति (का.दु.प.59), न च सिद्धेऽयमारभ्यते। तस्मादुत्तरार्थं एवकारः। ननु शाकटायनस्यैव मतेन यथा स्यादन्येषां मते मा भूदित्येवमर्थमिहैवकारः स्यात् ? न; तेन विनाऽप्यस्य नियमस्य सिद्धत्वात्। यद्यन्येषां मते न स्यात्, शाकटायनग्रहणमनर्थकं स्यात्।।

112. द्विषश्च। (3.4.112)
`अद्विषु' इति. अदादित्वाच्छपो लुक्।।

113. तिङ्शित्सार्वधातुकम्। (3.4.113)
`भवति, नयति' इति। तिङः सार्वधातुकसंज्ञायां तन्निबन्धनः कर्त्तरि शप्, तस्यापि शितः सार्वधातुकत्वात् `सार्वधातुकार्धधातुकयोः' 7.3.84) इति गुणः। `रोदिति' इति। पूर्ववच्छपो लोपः, `रुदादिभ्यः सार्वधातुके' (7.2.76) इतीट्। `पवमानः, यजमानः' इति। `पूङ्यजोः शानन्' (3.2.128) ,तस्य सार्वधातुकत्वात् शप्, तस्यापि सार्वधातुकत्वाद्धातोर्गुणः।।

114. आर्धधातुकं शेष-। (3.4.114)
`लविता' इति। तृच्, `आर्धधातुकस्येड्वलादेः' (7.2.35) इतीट्। `वृक्षत्वम्' इति। `तस्य भावस्त्वतलौ' (5.1.119)। `लूभ्याम्' इति। लुनातेः क्विबन्ताद्भ्याम्। `जुगुप्सते' इति। गुपादिसूत्रेण (3.1.5) सन्। त्वलादीनामार्धधातुकत्वाभावादिडभावः। यक्तं `वृक्षत्वम्' प्रत्युदाहरणम्, त्वप्रत्ययस्य धातोरविधानात्, `लूभ्याम्' इत्याद्ययुक्तम्, `क्विबन्ता धातुत्वं न जहति' (व्या.प.132) इति न्यायात्, म्याम्प्रत्ययो धातोरेव विहितः, सन्प्रत्ययोऽपि धातोः, गुपादेर्धातुत्वात् ? नैतदस्ति;अस्यैव हि दोषस्य परीहाराय धातुशब्देन यो विहित इत्युक्तम्। तस्य चायमर्थः-- धातोरित्येवं यो विहितः,धातुशब्दमुच्चार्य यो विहित इति यावत्। यस्य विधायकलक्षणे धातुग्रहणमस्ति,न चैवं भ्मांसनौ विहितौ; त्दविधौ धात्वधिकारस्य धातुग्रहणस्य चासम्भवात्। कथं पुनर्धातुसंशब्दनेन यो विहित इत्येषोऽर्थो लभ्यते, यावता धातोरित्येकमेव धातुग्रहणमनुवर्त्तते, तच्चाधातुप्रत्ययनिवृत्तौ चरितार्थत्वान्नापरं किञ्चिद्विशिष्टमभिधातुमुत्सहते ? एवं मन्यते-- यङविधानसूत्रात् (3.1.22) `शमिधातो संज्ञायाम्' (3.2.14) इत्यतो वा द्वितीयदातुग्रहणमनुवर्त्तते, तत्रैकेन धातुना अधातुप्रत्ययो निवर्ततते, अपरेण धातुप्रत्ययो विशिष्यते-- धातोरित्येवं यो विहित इति। शेषग्रहणं किम् ? तिङशितोर्मा भूत्, अन्यथा ह्येकसंज्ञाधिकाराभावात् प्रत्ययादिसंज्ञानामिव समावेशः स्यात्।।

115. लिट् च। (3.4.115)
`शेकिथ' इति। आर्धधातुकत्वाल्लिटः `ऋतो भारद्वाजस्य' (7.2.63) इतीट्। तत्र ऋत एव भारद्वाजस्य नान्येषां धातूनामित्येषोऽर्थोऽभिमतः। `थलि च सेटि' (6.4.121) इत्येत्वाभ्यासलोपौ। `जग्ले, मम्ले' इति। आर्धधातुकत्वात् `आतो लोप इटि च' (6.4.64) इत्याकारलोपः।
`ननु च ' इत्यादिना यदुक्तं `सार्वधातुकसंज्ञाया अपवादः' (का.3.4.115) इति तद्विघटयति। एकसंज्ञाधिकारादन्यत्र समावेशो भवति, यथा-- त्ययादिसंज्ञानाम्। न चात्रैकसंज्ञाधिकारोऽस्ति,तदयुक्तमस्याः सार्वधातुकसंज्ञाया अपवादत्वमित्यभिप्रायः।`सत्यमेतत्'इत्यादिना अपवादत्वमेव समर्थयते।।

116.लिङाशिषि। (3.4.116)
`{लविषीष्ठा' इति मु.पाठः} लविषीष्ट' इति। थास् , `सुट् तिथोः' (3.4.107) इति सुट्, षष्वम्, ष्टत्वञ्च।।

117.छन्दस्युभयथा। (3.4.117)
`{अस्तये इति मुद्रितः पाठः} स्वस्तये' इति। `अस भुवि' (धा.पा.1065), स्त्रियां क्तिन्। सार्वधातुकत्वादस्तेर्भूभावो न भवति।
`विशृण्विरे' इति। अत्र लिटः सार्वधातुकत्वात् `श्रुवः शृ च' (3.1.74) इति श्नुप्रत्ययः, शृभावश्च। `सुन्विरे' इति। `स्वादिभ्यः श्नुः' (3.1.73)।
`उपस्थेयाम'इति। तिष्ठतेर्लिङ,यासुट्,मस्, `एतेर्लिङि' (7.4.24)इत्येत्वम्।
ननु `व्यत्ययो बहुलम्' (3.1.85) इत्यनेनैव सिद्धं सर्वमेवेदम्, किमर्थोऽयमारम्भ इत्याह-- `व्यत्ययो बहुलमित्यस्यैव' इति। गतार्थम्।।
इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां
काशिकाविवरणपञ्जिकायां
तृतीयस्याध्यायस्य
चतुर्थः पादः।
   समाप्तश्च तृतीयोऽध्यायः।।

-----------------