सामग्री पर जाएँ

काशकृत्स्न-धातुपाठः/अदादिगणः (२)

विकिस्रोतः तः
← भ्वादिगणः (१)(णिजन्ताश्च) काशकृत्स्न--धातुपाठः
अदादिगणः(२)
[[लेखकः :|]]
दिवादिगणः (३) →


अथ अदादि--गणः
लुग्--विकरणः1
१. अद प्सा भक्षणे--खादने । अदादीनामनो लुक्--अदप्रभृतीनां धातूनाम् अनो लुग् (लोपो) भवति । अत्ति--खादति । अदन् , अदः, अदकः--खादकः। अत्ता--श्वश्रूः2 । अत्तिका--भाभी । आदम्--अधिकम् । अत्तिः--वृक्षविशेषः ( अञ्जीर इति भाषायां प्रसिद्धः) । अन्तम्--भक्तम् , आहारः । आदिः--प्रभृतिः । अत्तम् , अत्तिः, अत्तव्यम् , अदनम् , अदनीयम् , अदु, आदु, अद्यम् , आद्यम् , अद्, आद्, अदि--द्वादश खाद्यपदार्थे । अन्नादम्--अन्नविक्रयः ( ? )। अद्य--अस्मिन् अहनि । प्साति--भक्षति । प्सायन् , प्सायकः--भक्षकः । प्सातम् , प्सायनम् , प्सातव्यम् , प्सानीयम् , प्सायम्--षट् खाद्ये ।

टिप्पणी


१. काशकृत्स्नीये धातुपाठे जुहोत्यादयोऽपि अदादिष्वेव पठ्यन्ते । तेन जुहोत्यादयोऽपि लुग्विकरणा एव (श्लुविकरणाः जुहोत्यादय इति तु पाणिनीयाः) । तेन 'नवगणी' धातुपाठ इति क्वचित्की प्रसिद्धिरपि न्याय्या । 'लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्' इति पाणिनीयैरप्याश्रीयमाणा पारिभाषाऽपि तस्यैव कस्यचिद् व्याकरणस्योक्तिर्यत्र श्लुविकरणस्याभाव आसीत् । अत एव एतत्परिभाषोपयोगिस्थले श्लुविकरणमपि धातुं लुग्विकरणपक्षे निक्षिप्यालुग्विकरणकार्यं नेच्छन्ति' पाणिनीयाः। अन्यथा श्लुविकरणानामलुग्विकरणत्वाद् अलुग्विकरण कार्यप्राप्तिः स्यादेव । कातन्त्रा अपि जुहोत्यादीन् अदादिष्वेव पठन्ति ।
२. श्वश्रूवाचकः 'अत्ता' शब्दः प्राकृतभाषाया इति शाब्दिकाः। तथा च प्रयोगः--'अत्ता एत्थ निमज्जइ...' (साहित्यदर्पणे प्रथमपरिच्छेदे उद्धृतं पद्यम् ) इति । श्वश्रूरत्र निमज्जति' इति तत्संस्कृतच्छाया इति टीकाकाराः। वस्तुतः श्वश्रूवाचकोऽत्ताशब्दः संस्कृतभाषाया एव इति अनया टीकया स्पष्टं भवति । प्राकृतापभ्रंशादित्वेन शाब्दिकैः सम्मतेषु देशिशब्देष्वपि बहवः शुद्धाः संस्कृतभाषात्मकाः शब्दा उपलभ्यन्ते । तेषां देशित्वं तु देशविशेष एव प्रयोगदर्शनात् प्रतिज्ञायते । भवति च बहूनां संस्कृतशब्दानामपि देशविशेष एवं प्रयोगः। यथाह यास्कः--'शवतिर्गतिकर्मा कम्बोजेष्वेव भाष्यते विकारमस्यार्येषु भाषन्ते शव इति' (निरुक्त २।२)। इममेव मतं भगवान् पतञ्जलिर्विस्तरेण प्रोवाच--'एतस्मिंश्चातिमहति प्रयोगविषये ते ते शब्दास्तत्र तत्र नियतविषया दृश्यन्ते। तद्यथा शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति विकार एनमार्या भाषन्ते शव इति । हम्मतिः सुराष्ट्रेषु, रंहतिः प्राच्यमगधेषु, गमिमेव त्वार्याः प्रयुञ्जते । दातिर्लवनार्थे प्राच्यैषु, दात्रमुदीच्येषु' इति । पस्पशाह्निके १।१। आ. १ ॥

119
२. षस स्वप्ने--सस्ति--शेते । ससन् , ससकः--स्वप्नद्रष्टा । सस्तिः, सस्तम् , ससनम्, ससनीयम् , सस्यम् , सास्यम् , सासम्--सप्त स्वप्ने ।
३. वश कान्तौ--द्योतने1 । वष्टि--द्योतते। वशन् , वशकः--द्योतकः । वशिः, वशुः, वाशुः, वशः, वश्यम् , वाश्यम् , उष्टिः, उष्टम् , उष्टव्यम् , वशनम् , वाशनम्, वाशम् , वश्, वाश्--एत पञ्चदश द्योतने । वशा--मांसम् ।।
४. हन हिंसागत्योः--मारणे चलने च । हन्ति--मारयति गच्छति वा । हान् , हन् , हनन् , हनकः, हः, हनो घा--हन्तेर्घा आदेशो भवति--घातः, घातकः, घाः, घायकः, हन्ता--एते दश घातके गन्तरि च । हानिः, हनिः, हननम्, हनम् , हन्तव्यम् , हन्तिः, हन्तम् , हननीयम् , हन्यम् , हान्यम् , हानम, घातम , घातिः, घायम्--पञ्चदश मारणे चलने च ।
५.द्यु अभिगमने--सम्मुखगमने । द्य्वादीनां वृद्धिस्तिसिमिषु--द्युप्रभृतीनां वृद्धिर्भवति तिसिमिपरतः। द्यौति--अभिमुखं गच्छति । द्युत् , द्यवन् , द्यवकः, द्यावः--चत्वारोऽभिमुखं गन्तरि । द्यविः, द्यवनम् , द्यवनीयम् , द्युतम् , द्युतिः, द्युतव्यम्--षट् अभिमुखं गमने।
६.यु मिश्रणे--सम्मेलने । यौति-- मिश्रयति । युत्, यवन् , यावकः--चत्वारो मिश्रके। यवः--धान्यविशेषः (जौ)। यवनः--म्लेच्छः। यवानी--यवनस्त्री4 । यवनानी--मलेच्छस्त्री5 । यावनी५--यवनलिपिः । यावनाळः--धान्य

टिप्पणी

{{{1}}}

120
विशेषः--( 'मकई' इति प्रसिद्धः)। युवा--तरुणः । युवतिः--तरुणी । यौवनम्--तरुणावस्था । युतिः, युतम् , युतव्यम्1, यवनीयम् , यव्यम् , याव्यम्--षट् मिश्रणे।
७. णु स्तुतौ--नौति--प्रशंसति । नुत् , नवन् , नवकः--स्तोता। प्रणवः--
ओङ्कारः। नवन्, नवम् , नव्यम् , नवीनम् , नाव्यम्, नावम् , नवनीयम्, नुतव्यम्1 , नुतिः, नुतम्, नुत्यम् , नुतव्यम्2--एते द्वादश2 स्तुतौ प्रशंसायाम् । नवतिः--दशोनं शतम् ।
८.क्ष्णु तेजने--अणिकरणे ( नोक बनाने में )। क्षौति--अणिं करोति अग्रभागं तीक्ष्णी करोति । क्ष्णवन् , क्षवकः, क्ष्णुत्--त्रयः अणिकर्तरि, अणिमति च । क्ष्णवनम् , क्ष्णवनीयम् , क्ष्णव्यम् , क्ष्णाव्यम्--चत्वारोऽणिकरणे तीक्ष्णीकरणे ।
९. ष्णु प्रस्रवणे--स्रोतसि । स्नौति--प्रस्रवति । स्नुत् , स्नवन् , स्नवकः, स्नावकः, स्नावः--पञ्च स्रोतप्रस्रावके । स्नुः--स्रोतस्थानम् । स्नुतिः, स्नुतम् , स्नवम् , स्नवनम् , स्नवनीयम्--पञ्च स्रोतसि ।
१०. टुक्षु रु कु शब्दे--ध्वनौ। क्षौति--व्यर्थं वदति । क्षवन् , क्षावकः, क्षवणः, क्षावणः--वाचाले वैतण्डिके । क्षुत्, क्षुतिः, क्षुतम् , क्षुतव्यम् , क्षव्यम् , क्षाव्यम्--षट् वितण्डायाम् । रौति--भर्त्सयति । रवन् , रवकः, रावकः, रवणः, रावणः--पञ्च भर्त्सके । रावणः--एतन्नामा व्यक्तिः । रविः3 --सूर्यः । रुत् , रव्यम् , राव्यम् , रवणीयम्--चत्वारो भर्त्सने । कौति--भर्त्सयति ( शब्दयति ) । कवन् , कवकः, कावकः, कवः, कविः, कावः, कव्यः, काव्यः--भर्त्सके । कुः--पृथ्वी । कुत् , कुतिः, कुतम् , कुत्यम् , कुतव्यम्4, कवनम् , कवनीयम्--षट् (?, सप्त) भर्त्सने। कविः, काव्यः--शुक्रग्रहः (?, शुक्राचार्योऽसुरपुरोहितः)।
११. षु प्रसवे--गर्भविमोचने । सौति--गर्भं विमुञ्चति । सवन् , सवकः, सावकः, सविता --चत्वारः प्रसवकर्तरि ।5 सूर्यः । सावित्री--माता, क्रियाशक्तिः ।

टिप्पणी


१. गुणाभावश्चिन्त्यः।
२. पुनः पाठात् 'एकादश' इत्येव साधु ।
३. एतेन सूर्यतः काचन ध्वनिः प्रसरति इति प्राचीनं विज्ञानं स्पष्टीभवति । सूर्यस्य विशिष्टेभ्यो रश्मिभ्यो विशिष्टा ध्वनय उत्पद्यन्ते । अत एव तेषां रश्मीणां गायत्र्यादीनि नामानि स्मर्यन्ते पुराणविद्भिः।
४. गुणाभावश्चिन्त्यः, एवमुत्तरत्रापि 'अधीतव्यम्' इत्यादिषु द्रष्टव्यः ।
५. यद्यपि प्रसवनं स्त्रीकर्म । तथापि गर्भस्य निमित्तत्वात् गर्भधारयितरि पुंस्यप्येते प्रयुज्यन्ते। अत एव 'आचार्यो गर्भी भवति हस्तमादाय दक्षिणम्' ( ब्रह्मचारिणः) (शत० ११, ५, ४, १२) इत्यत्राचार्येऽपि गर्भिशब्दस्य प्रयोगो दृश्यते।

121
सुः, सुत् , सविः, सवुः, सावुः, सवनम्, सुतिः, सुतम् , सुतव्यम् , सुत्यम्--दश प्रसवे। सव्यम्--दक्षिणपार्श्वम् । अपसव्यम्--वामपार्श्वम् ।
१२. अधिपूर्व इक् स्मरणे1--स्मृतौ। अध्येति--स्मरति । अध्ययन , अध्ययकः, अध्यायकः, अध्येता--चत्वारः स्मर्तरि । अध्यायः--एतन्नामा ग्रन्थावयवः। अध्ययनम् , अध्यापनम् , अधीतिः, अधीतम्, अधीतव्यम्, अध्ययनीयम् , अधीः, अधीत्--अष्टौ पठने2 (?, स्मरणे)। अध्येत्री--अध्यापिका2 (?, स्मर्त्री ) ।
१३. इण गतौ--चलने। एति--चलति । इः--कामः, मन्मथः । यन् , यन्ता, अय्यः, आय्यः, अयकः, आयकः--षट् गन्तरि । उपेतः, समेतः3--संगच्छमानः । परेतः, अपेतः--मृतः । अयनम्--मार्गः । न्यायः--नीतिः । नैयायिकः--न्यायस्याध्येता। इति-- समाप्तिः । इत् , इतिः, इतम् , इतव्यम् (?)--चत्वारश्चलने । आयः--अवस्था = स्थितिः, धनागमः, (आमदनी इति भाषायाम्)।
१४. वी प्रजननकान्त्यासनखादनेषु च------प्रसवे, प्रकाशे, आसने, खाद्ये च । वेति--प्रसूते । वयन् , वयकः, वायकः--जन्मदाता। वयस्--आयुः, पक्षिविशेषः । वायम्--सिंहासनस्येच्छा। वायिः--प्रकाशः । वीतिः--खाद्यम् । प्रकाशदाता। वीतम् वयनम् , वय्यम्, वाय्यम्--चत्वारः सिंहासने (?)। वेत्रम्--यष्टिः ( 'छड़ी' इति भाषायाम् )। वैय्यारः (?)--'इठलाना' इति भाषायाम् ।
१५. भा दीप्तौ--द्योतने । भाः, भायिः, भायन् , भायकः चत्वारो द्योतके । भम्--नक्षत्रम् । भायुः--पिता। प्रभा, भानम् , भातिः, भानीयम् , भातव्यम् , भायम्--षट् प्रकाशे । प्रभाकरः--सूर्यः । प्रभातम्--प्रातःकालः ।
१६. या प्रापणे--गतौ । याति--गच्छति । यायन् (?, यन्), यायकः, याता--गन्ता । यानम् , यापनम् , यापनीयम् , यात्रा--चत्वारो गतौ। यायावरः--धान्यविशेषः (?)।
१७. वा गतिगन्धनयोः--चलने दुर्गन्धे च । वाति--वहति । वायुः--अनिलः। वायव्यम्--उत्तरपश्चिमकोणम् । वायवीयम्--वायोरिदम् । वानम्--

टिप्पणी


१. कातन्त्रधातुपाठे 'इक् स्मरणे' इत्येव पठ्यते, नाधिपूर्वः।
२. अयमर्थस्तु इङ् अध्ययने इति धातोः, न इक् स्मरणे इत्यस्य ।
३. 'सम् + आ + इतः' इति सन्धिच्छेदो ज्ञेयः। यद्वा 'सम+इतः' इति । अत्र सम्अर्थकोऽकारान्तो समशब्दो द्रष्टव्यः ।
४. 'कान्त्यसन' इति कातन्त्रपाठः । कन्नडटीकायाम् आसनार्थस्य निर्देशात् काशकृत्स्ने 'आसन' इत्यै पाठो द्रष्टव्यः। यद्वा मूलपाठे प्रमादपठितस्यैव टीकाकृता तथा व्याख्यानं कृतं स्यात् ।

122
वर्षा । वायिः--स्वगोत्रम् । वायन् , वायकः, वाता--गन्ता, दुर्गन्धयुक्तः । वातः--वायुः, पीडा । वा--विकल्पार्थः ।
१८ ष्णा शौचे--स्नाने । स्नाति(--स्नान करता है)। स्नायन् , स्नातः, स्वापकः, स्नाता, स्नातकः--पञ्च स्नानकर्तरि । स्नानम् , स्नपनम् , स्नापनम् , स्नातव्यम् , स्नापनीयम्--स्नाय्यम्--षट् स्नाने ।
१९. श्रा पाके----श्राति श्रपयति--पचति । श्रायन् , श्रायकः, श्रापकः श्राता--चत्वारः पक्तरि । श्राणम्--श्राणीयम् , श्रायम् , श्रातिः, श्रातव्यम्--पञ्च पाके।
२०. द्रा कुत्सायां गतौ--नीचगत्याम् । द्राति--निन्दति । द्रायन् , द्रापकः, द्राता--निन्दकः । द्राणम् , द्रापणम् , द्रापणीयम् , द्राति, द्रातव्यम् , द्राय्यम्--षट् निन्दायाम्।
२१. पा रक्षणे--पालने। पाति--रक्षति । पायन् , पायकः, पाता, पाः,चत्वारो रक्षके । गोपः--बलीवर्दः, गोपजातिविशेषः । पातिः--अश्वः । पातम्--प्राचीनम् । पायिः--दरिद्रः। पायुः--गुदा। पानम् , पातव्यम् , पानीयम् , पायम् , पाय्यम्--पञ्च रक्षणे । पात्रम्--भाजनम् ।
२२. रा ला आदाने1----ग्रहणे । राति--गृह्णाति । रायन् , रायकः, राता--ग्रहीता । रायणम् , रायणीयम् , राता--चत्वारो ग्रहणे । राः, रः--अग्निः । अरातिः--शत्रुः । आरात्--दूरार्थकः, समीपार्थकश्च । लाति--गृह्णाति । लायन् , लायकः, लातः, लाता--ग्रहीता। लायः--अश्वशाला। कुलायः--नीडम् (घोंसला), 'टोपी' इति प्रसिद्धं च । अलातम्--प्रज्वलितं काष्ठम् । लाः, लः--ग्रहीता। लानम् , लातव्यम् , लानीयम्--त्रयो ग्रहणे । कुलायी--पक्षी।
२३. दाप् लवने--कर्तने । दाति--कृन्तति । दायन् , दायकः, दाता, दाः, दः--पञ्च लवितरि । दानम् , दातिः, दायनीयम् , दाय्यम् , दातव्यम्--पञ्च लवने।
२४. ख्या प्रकथने--वचने । ख्याति--कथयति । ख्यायन् , ख्यायकः,

टिप्पणी


१. कातन्त्रस्यास्मदीये ब. कोशे 'रा ला आदाने' पठ्यते, रा. कोशे 'रा ला दाने' इति । 'रा ला आदाने' इति चन्द्रः । रा दाने, ला आदाने इति पाणिनीयाः (क्षीर० २।५०,५२) । निरुक्ते अप्सरा पदव्याख्याने 'तद्रा भवति रूपवती, तदनयात्तमिति वा, त दनया दन्तमिति वा' (५।१३) । एवं 'रा' इत्यस्योभावप्यर्थौ प्रदर्शितौ । तौ च 'रादाने' इति सांहतिकपाठस्योभयथा विच्छेदात् उभावर्थौ सम्भवतः ।

123
ख्याता, ख्याः--चत्वारो वक्तरि । ख्यानम् , ख्यातम् , ख्यातिः, ख्यातव्यम् , ख्यापनम् , ख्यापनीयम् , ख्यायम्--सप्त कथने । आख्या--नाम । प्रत्याख्यानम् , प्रत्याख्यातम्--असत्यम् ।
२५. प्रा पूरणे--भरणे । प्राति--भरति । प्रायन् , प्रायकः, प्राता--त्रयो भरणकर्तरि । प्रातर्--सूर्योदयकालः । प्रा (?, प्र)--अतिशयः । प्राः, प्रातिः, प्रातम् , प्रापणम् , प्रापणीयम् , प्राप्यम् , प्रायम् , प्रातव्यम्--अष्टौ पूरणे ।
२६. मा माने--माति--('माता है। 'समाता है' इति भाषायाम् )। मा--लक्ष्मी, निषेधकार्थः । माता--जन्मदात्री । मापन् , मापकः, प्रमाता--त्रयः प्रमातरि । मानम् , मितम् , मितिः, मितव्यम्1, मेयम्--पञ्च माने । प्रतिमा--मूर्तिः ।
२७. विद ज्ञाने--वेत्ति--जानाति । वित् , विद्वान्2, वेदन् , वेदकः, वेदी, वेत्ता3--षट् ज्ञातरि। वेदः--श्रुतिः। वेदनम् , वेदितव्यम् , वेदनीयम् , वेद्यम् , वैद्यम्--पञ्च ज्ञाने।
२८. अस भुवि--सत्तायाम् । अस्ति--भवति । असन् , असकः4--भविता। अः--महेश्वरः । अस्तिः, अस्तम् , अस्तव्यम् , अस्यम् , असनीयम्--पञ्चास्तित्वे ।
२९. मृजुष् शुद्धौ------मार्ष्टि--शुद्धं करोति । मार्ष्टा, मार्जन् , मार्जकः, मार्क्--चत्वारः शोधके । मार्जनम् , मार्जनीयम् , मार्ष्टव्यम् , मार्ज्यम् , मृष्टिः, मृष्टम्--शुद्धौ । संमार्जनी--मार्जनकर्त्री ( 'बुहारी' इति भाषायाम् )। ____
३० वच परिभाषणे--कथने । वक्ति--कथयति । वक्ता, वाचकः, वचन्--कथयिता । उक्तिः, उक्तम्, वचनम्, वचनीयम्, वाच्यम्, वाचकम् , वाचनीयम् , वाक् , वचस् , वक्तव्यम्, वाचा5 --एकादश कथने । वक्त्रम्--मुखम् । वाग्मी, वाचालः, वाचाटः--कथकः ।
३१. रुदिर् अश्रुविमोचने--रोदने । रुदादेरिः सर्वधातुके--रुदादीनाम् इकारो भवति सार्वधातुके परतः । रोदिति--अश्रु विमोचयति । रुत्, रुदन्,

टिप्पणी


१. इत्त्वं कथम् ?
२. विद् इत्यस्मान्मतुप्यपि विद्वान् इति भवति ।
३. पाणिनीयाः सेटमाहुः--वेदिता इति । 'वेत्ता' इति प्रयोगोऽपि दृश्यते । यथा--'वेत्तासि वेद्यं च परं च धाम' (गीता ११।३८), 'यथा खरश्चन्दन भारवाही भारस्य वेत्ता न तु चन्दनस्य' इति सुभाषितम् ।
४. अत्र भूभावाभावे को हेतुः । यद्वा यथा पाचयामास आदिषु न भूभावस्तथात्रापि ज्ञेयः।
५. भागुरिराचार्योऽपि आबन्तं 'वाचा' शब्दमनुशास्ति । तथा च श्रूयते--
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आपं चैव हलन्तानां यथा वाचा निशा दिशा ॥ इति ।
भागुरेराचार्यस्यान्यानि व्याकरणसूत्राण्यस्मदीये 'सं० व्याकरण शास्त्र का इतिहास' नाम्नि ग्रन्थे ( भाग १, पृष्ठ ९७--९९) द्रष्टव्यानि ।

124
रोदकः, रुद्रः--चत्वारो रुदन कर्तरि । रुत्तिः, रुत्तम् , रुत्तव्यम् , रोदनीयम्, रोद्यम् , रौद्यम्, रौदम्--सप्त रोदने।
३२. ञिष्वप शये--स्वपिति--शेते । स्वपन् , स्वपकः--शायकः । सुप्तिः, सुप्तम्, सुप्तव्यम् (?, स्वप्तव्यम् ), स्वप्नः, स्वापः, स्वपनीयम् , स्वप्यम् , स्वाप्यम्--अष्टौ शयने।
३३. श्वस अन प्राणने--चेतने । श्वसिति--चेतति, जागर्ति । श्वसन्, श्वसकः द्वौ चेतितरि। श्वसनः--वायुः। श्वासः--प्राणः । श्वस्तिः--कल्याणम् (अच्छा)। श्वस्तम्--हितम् । श्वस्तव्यम्, श्वस्यम्, श्वसनीयम्, श्वास्यम्--चत्वारश्चेतने। अनिति--चेतति । अनन्, अनः, अनकः--त्रयश्चेतितरि । आनकः(मुद्रा, परिमाणविशेषः)। आना--हस्तिनी, रोगः । प्राणः--हृद्वायुः । अपानः--गुदवायुः । समानः--नाभिवायुः । उदानः--कण्ठवायुः । व्यानः--सर्वशरीरव्यापिवायुः । अन्--उत्तमः पुरुषः । अन्तिः, अन्तम्, अननम्, अन्तव्यम्, अननीयम्--पञ्च चेतनायाम् । अन्यः--द्वितीयः ।।
३४. जक्ष भक्षणहसनयोः--अदने हसने च । जक्षिति--अत्ति, हसति । जक्षन् , जक्षकः--भक्षकः, हसिता च । जक्षणम्, जक्षणीयम्--खाद्यम् ।
३५. जागृ निद्राक्षये--निद्रापनये । जागर्ति--निद्रां परित्यजति । जाग्रन् , जाग्रकः--त्यक्तनिद्रः ( जागा हुआ)। जागरूकः--कुक्कटः । जाग्रत्, जागरणम्, जागरणीयम् , जागरम्--निद्रात्यागे ।।
३६. दरिद्रा दुर्गतौ--दारिद्र्ये । दरिद्राति--धनहीनो--भवति । दरिद्रः, दरिद्रकः--धनरहितः। दरिद्रा, दरिद्राणम् , दरिद्राणीयम्, दारिद्र्यम्--चत्वारो धनाभावे ।
३७. चकासृ चाकशृ--दीप्तौ--प्रकाशे। चकास्ति--प्रकाशते । चकासन् , चकासकः -- द्वौ प्रकाशके । चकास्तिः, चकास्तम्, चकास्तव्यम् , चकासनम्, चकासनीयम्, चकासम्, चकास्यम्--षट् (? सप्त) प्रकाशे। चाकष्टि--प्रकाशते । चाकशन् , चाकशकः--प्रकाशकः । चाक्यः (?),

<poem>125
चाकष्टम् , चाकशनम् , चाकशनीयम्, चाकष्टव्यम्, चाकशम्, चाकश्यम्--सप्त प्रकाशे।
३८ शासु अनुशिष्टौ--अनुशासने । शास्ति--दण्डयति । शास्ता--दण्डप्रदाता, अर्हन्तः, चतुर्मुखः, अष्टबाहुः, रक्तशरीरी, द्वादशाक्षः, गजवाहनः, मोहनीरूपो नारायणः, रुद्रपुत्रः, मत्स्यावतारस्य विष्णोः संहारकः ।
३९. चक्षिङ् व्यक्तायां वाचि--कथने ( अनुमोदने ), सन्दर्भे । चष्टे--कथयति । चक्षाणः, चक्षकः, चक्षाः--कथकः, अनुमोदकः। चक्षणम् , चक्षणीयम्--कथने, अनुमोदने । चक्षुस्--नेत्रम् ।।
४०. ईर गतौ कम्पने च--ईर्ते--चलति गच्छति । ईरः, ईराणः--गन्ता कम्पिता च । ईरणम् , ईर्यम् , ऐरम्--चलनम् । ईरी--कम्पवान् । ईरिणी--कम्पवती।
४१. ईड ईळ स्तुतौ--स्तवने । ईट्टे--स्तौति, प्रशंसति । ईडानः, ईडकः--प्रशंसकः । ईडा, ईडनम् , ईड्यम् , ऐड्यम्--चत्वारः प्रशंसायाम् । ईडिकः(?)। ईडे (?) ईळ्ते--प्रशंसति । ईळा, ईळनम् , ईळनीयम् , ईळ्यम् , ऐळ्यम्--पञ्च प्रशंसायाम् । ईळिः--काष्ठपर्णाभ्यां निर्मितः क्षेत्रप्राकारः ( 'बाड़' इति भाषायाम् ) । ईळिका--(?)। ___
४२. ईश ऐश्वर्ये--ईष्टे--शास्ति । ईट् , ईशः, ईशिता, ईशानः, ईश्वरः--पञ्च शासके । ईष्टिः, ईष्टम् , ईशितव्यम् , ईश्यम् , ऐश्यम् , ऐश्वर्यम्--षट् शासने ।
४३. आङः शासु इच्छायाम्--आशास्ते--इच्छति । अशासानः, आशासकः, आशास्ता, शासितवान्--चत्वार इच्छुके । शाष्टिः1, शाष्टम् , शासितव्यम्, शास्यम्--चत्वार इच्छायाम् ।
४४, आसु उपवेशने--आस्ते--उपविशति । आसीनः, आसकः, आस्ता, आस्तवान्--चत्वार उपवेशके । आस्तिः, आस्तम्, आसनम्, आसनीयम् , आस्तव्यम्--पञ्च आसने । आसनम्--गुदा । आस्यम्--मुखम् ।
४५. वस आच्छादने--वस्ते--आच्छादयति । वसानः, वसकः, वस्तवान्--आच्छादकः । वसनम् , वस्त्रम् , वस्तव्यम् , वसनीयम्, वस्यम्, वास्यम्, वसन् , वस्त्रम्--अष्टौ आच्छादनवस्तुनि । वस्तिः--निवासः । वस्तु--द्रव्यम् ।
४६. कसि गतिशासनयोः--गत्याम् उपवेशने च । कंस्ते--गच्छति, उपविशति । कंसः--एतन्नामा राक्षसः । कांस्यम्--धातुविशेषः । कंसानः, कंसकः,

टिप्पणी


१. एष्वाङ्पूर्वत्वं कथं न ।

126
कंस्तवान्--उपविष्टः । कंसनम् , कंसनीयम् , कंस्तव्यम् , कंस्तिः, कंस्तम्, कंस्यम्--षट् उपवेशने।
४७. णिसि चुम्बने--निंस्ते--चुम्बति । निंसः, निंस्तवान् , निंसकः, निसानः--चत्वारश्चुम्बके । निंसम् , निंसनम् , निंसनीयम् , निंस्तव्यम् , निंस्तिः, निस्नम् , निंस्यम्--सप्त चुम्बने ।
४८. णिजि शुद्धौ--निङ्ते (?, निङ्क्ते)--शोधति । निञ्जः, निञ्जकः, निञ्जकवान् ( ? ), निञ्जानः--चत्वारः शोधके । निञ्जा, निञ्जनम् , निञ्जनीयम् , निङ्तव्यम् (?, निङक्तव्यम् ), निञ्ज्यम् , निङ्तिः (?, निङ्क्तिः ), निङ्तम् (?, निङ्क्तम् )--सप्त शुद्धौ ।
४९. सिजि1 अव्यक्ते शब्दे--अनुकरणध्वनौ । सिङ्ते (? सिङ्क्ते )ध्वनिं करोति । सिञ्जः, सिञ्जकः, सिक्तवान् (?, सिङ्क्तवान् ), सिञ्जानः, सिक्ता (?, सिङ्क्ता )--पञ्च शब्दितरि । सिञ्जा, सिञ्जनम् , सिञ्जनीयम् , सिक्तव्यम् (?, सिङ्तव्यम् ), सिक्तिः सिक्तम् (?, सिङ्क्तिः , सिङक्तम् )--षट् ध्वनौ । सिञ्जिनी--रज्जुः।
५०. वृजी वर्जने--त्यागे । वृङ्ते (?, वृक्ते)--त्यजति । वर्जकः, वर्जानः, वर्जः, वृक्तवान्--चत्वारस्त्याजके । वर्जनम् , वर्जनीयम् , वर्ज्यम् , वृक्तिः, वृक्तम् , वृक्तव्यम्2--षट् त्यागे।
५१. पृजी सम्पर्क--संसर्गे । पृङ्ते (?, पृक्ते ) मिलति । पृक्तः, पृक्तवान् , पृञ्जकः,3 पृञ्जः, पृञ्जानः (?)--पञ्च यावके, मेलके । पृञ्जा,3 पृञ्जनम् , पृञ्जनीयम् (?), पृक्तम् , पृक्तव्यम्2 (?), पृक्तिः--षट् मिश्रणे ।
५२. षूञ्4 प्राणिगर्भविमोचने--प्रसवे। सूते--गर्भं मुञ्चति । चविता, सूतः, सूतवान् , सावी, सवानः, सावकः--उत्पादके । सूः, प्रसूः, प्रसूता, सवित्री, --जन्मदात्री । सवः, सावः, सवनम् , सवनीयम् , सव्यम् , साव्यम् , सवितव्यम् सविः--षट् प्रसवे जनने।

टिप्पणी


१. अत्र 'शिजि' इति तालव्यवान् शुद्धः पाठः स्यात् , तथैवोदाहरणेष्वपि तालव्यः शकारो ज्ञेयः। कातन्त्रे 'शिजि' इत्येव पठ्यते। पाणिनीयाअपि तथैवामनन्ति । 'अयं स शिङ्क्ते' (ऋ० १।१६४।२९) इत्यादि प्रयोगेष्वयमेवोपलभ्यते।
२. गुणाभावः कथम् ?।
३. अत्रोत्तरत्र च नुमागमः कथम् ?
४. प्रकरणानुरोधात् 'षूङ्' इति शुद्धः पाठः । कातन्त्रेऽपि षूङ् इत्येवोपलभ्यते।

127
५३. शीङ् स्वप्ने------निद्रायाम् । सर्वेषां जीवानां देहरूपायां गुहायां शेते शिवः--प्राणलिङ्गः । शीतः, शीतवान् , शयिता, शयकः, शायकः, शायी, शयानः --सप्त शयितरि । गिरिशः, गिरिशयः--कैलाशवासी। शीः, शयनम् , शायनम् , शयितव्यम् , शीतम् , शीतिः, शय्या, शय्यम् , शाय्यम् , शायम्--दश निद्रायाम् । शीतम्--हिमम् । शीता--जानकी, लाङ्गलपद्धतिः।
५४. इङ् अध्ययने--पठने । अधीते--पठति । अध्ययकः, अध्येता, अध्यायक, अध्यायी, अध्यापकः, अधीयानः, अधीयान्--षट् पाठके । अधीत् , अधीतिः, अधीतम् , अधीतव्यम् , अध्ययनम् , अध्यायः, अध्ययनीयम्--सप्त पठने।
५५. दीधीङ् दीप्ति देवनयोः--प्रकाशे क्रीडने च । दीधीते--प्रकाशते । दीधीतवान् , दीधीतः, दीधीयकः1, दीधीयानः, दीधीता, दीधायकः--षट प्रकाशके । दीधितः2, दीधितम् दीधितव्यम् , दीधयनम् , दीधयनीयम् , दीधव्यम् (?, दीधय्यम् ), दीधाय्यम् , दीधायम् , दीधयम्--अष्टौ प्रकाशे। स्वरवद् यः कृत्--कृत्संज्ञको यकारः स्वरवद् भवति ।3
५६. वेवीङ् वेतनातुल्ये--कर्मकरवद्व्यवहारे । वेवीते--भृतकत्वं करोति ( मजदूरी करता है)। वेवीतः, वेवीतवान् , वेवयकः, वेवायकः, वेवीयानः, वेवीता--षट् भृतके । वेवीतिः, वेवीतम्, वेवीतव्यम् , वेवीयनम् , वेवियनम् , वेवय्यम् , वेवाय्यम् , वेवयम् , वेवायम्--नव भृतककर्मणि ।
५७. हुङ्4, अपनयने--हूते--त्यजति । हूतः हूतवान् , ह्वानः--त्याजकः आह्वयिता च । हूतिः, हूतम् , आह्वानम्--त्यजनम् , आह्वानं च ।
५८. द्विष अप्रीतौ----अहिते। द्वेष्टि, द्विष्टे--मात्सर्यं करोति । द्विषन् , द्विषाणः, द्वेष्टा, द्वेषकः, द्विष्टवान्--पञ्च द्वेषके (अप्रीतिकर्तरि )। द्विष्टिः, द्विष्टम् , द्वेषः, द्वेषणम्, द्वेषणीयम् , द्वेष्यम् , द्वैष्यम् , द्वैषम् , द्वेष्टव्यम्--नवाहिते।
५९. दुह प्रपूरणे--दोहने । ह्रस्वपूर्वयोर्हकारचवर्गयोः कवर्गः--ह्रस्वं

टिप्पणी


१. अत्र बहवोऽपाणिनीयाः प्रयोगा दृश्यन्ते, एवमुत्तरर्धातावपि ।
२. अत्रोत्तरत्र च ह्रस्वत्वं कथम् ?
३. अनेन यति दीघय्यम्, ण्यति दीधाय्यम्--इत्यत्र अय्--आयौ भवतः । एवम् उत्तरर्धातौ वेवय्यः वेवाय्य इत्यत्रापि ज्ञेयम् ।
४. अपपाठोऽयं प्रतीयते, तथैवोदाहरणेष्वपि । अत्र ह्रुङ् इति शुद्धः पाठः। कातन्त्रेऽपि ह्रुङ् इत्येव पठ्यते ।

128
पूर्व यस्मात् तादृशो हकारस्य चवर्गस्य च कवर्गादेशो भवति । दोग्धि, दुग्धे--दोहनं करोति । दोग्धा, दोग्धवान् , दोहन् , दोहानः, दोहकः, धुक्--षट् दोहनकर्तरि । दोहनम् , दोहनीयम् , दोग्धव्यम् , दोह्यम् , दौह्यम् , दुग्धम्, दुग्धिः, दोहळम्--अष्टौ दोहनकर्मणि । दोग्ध्री--दोहनकर्त्री।
६०.दिह उपचये--रूपे। देग्धि, दिग्धे--रूपयति1 । देग्धा, देहन् , देहकः, दिग्धवान् , दिक्--रूपयितरि । देहः--शरीरम् । देहनम् , देह्यम्, दैह्यम् , दैहम्, दिग्धिः, दिग्धम्, देहनीयम्, देग्धव्यम्--अष्टौ रूपणे।
६१. लिह आस्वादने--रुच्याम् (?) । लेढि, लीढे--आस्वदयति । लेढा, लेहन् , लेहानः, लेहकः, लिट् , लीढवान् , लीढः--सप्त आस्वादके । लेहनम् , लेह्यम् , लैह्यम् , लैहम् , लीढिः, लीढम् , लीढव्यम्--सप्त आस्वदने।
६२. उर्णुञ् आच्छादने—तनादेरुः2--तनादेर्धातोरु--विकरणो भवति ।2 ऊर्णोति, ऊर्णुते, ऊर्णीते --वयति । ऊर्णः, ऊर्णन् , ऊर्णकः, ऊर्णिता, ऊर्णतवान् (?), ऊर्णानः--षट् तन्तुवायके । ऊर्णनाभिः--(मकड़ी इति भाषायां प्रसिद्धा) । ऊर्णनम् , ऊर्णनीयम् , ऊर्णितव्यम् , ऊर्णतिः, ऊर्णितम्--पञ्च वयने ।
६३. ष्टूञ्4 स्तुतौ--प्रशंसायाम् । स्तौति, स्तवीते, स्तुते--प्रशंसति । स्तोता, स्तवन् , स्तवानः, स्तुतः, स्तुतवान् , स्तुतः, स्तुत् , स्तवकः, स्तावकः--नव प्रशंसके । स्तवनम् , स्तवनीयम् , स्तव्यम् , स्ताव्यम् , स्तुतिः, स्तुतम् , स्तोतव्यम्--षट् प्रशंसने।
६४. ब्रूञ् व्यक्तायां वाचि--शुद्धे वाक्ये । ब्रूञादेरी तिसिमिषु--ब्रूञ् आदीनां धातूनाम् ईकारागमो भवति तिसिमि परतः। ब्रवीति, ब्रूते--

टिप्पणी


१. रूपं करोति निष्पादयति।
२. अस्य सूत्रस्यात्र कावश्यकतेति न ज्ञायते । सम्भाव्यते ऊर्णुञ् धातौ उकारोऽप्यनुबन्धः स्यात् काशकृत्स्नमते । तथा सति ऊर्णोति ऊर्णुते रूपसिद्धये उकारविकरणार्थं सूत्रं पठितम् । यथा भ्वादौ शुची चुची ( १।२३० ) इत्यादिषु धातुषु शुच्यति चुच्यतिरूपप्रसिद्ध्यै दिवादेर्यन् सूत्र पठितम् (पृष्ठ ३१) । अदादौ पाठादुविकरणः कदाचिन्नापि भवति तथासति ऊर्णीते इति रूपम् (अग्रिमा टिप्पणी द्र०)।
३. अत्र ईकारागमः कथमिति न ज्ञायते । एवमुत्तरधातोः स्तवीते इत्यत्रापि । पाणिनीयास्तु स्तुधातोः 'तुरुस्तुशम्यमः सर्वधातुके' (७।३।९२ ) इत्यनेन विकल्पेन ईडागमं विदधति स्तौति स्तवीति रूपप्रसिद्धये । तादृशेनैव केनचित् काशकृत्स्ननियमेनात्र भवितव्यम् । सत्यप्येवं परस्मैपदे कथमीकारवद् रूपं नोदाह्रियतेऽत्रोत्तरत्र चेति न ज्ञायते ।
४. ष्टुञ् इति कातन्त्रा अन्ये च वैयाकरणाः ।

129
कथयति । ब्रुवन् , ब्रुवाणः, ब्रवकः, ब्रवीता, ब्रूतः, ब्रूतवान् , ब्रूयमाण:--सप्त कथके । ब्रूतिः, ब्रूतम् , ब्रूतव्यम् , ब्रुवणम् , ब्रुवणीयम् , ब्रव्यम् , ब्राव्यम्--सप्त कथने ।
६५. 1हू दानादानयो:----दाने ग्रहणे च । ह्वादेर्द्विः--हू--प्रभृतीनां द्विर्भवति । कवर्गहकारयोश्चवर्गः--कवर्गस्य हकारस्य च चवर्गादेशो भवति । पूर्वोऽभ्यासः --द्विर्भावे पूर्वोऽभ्याससंज्ञो भवति । द्वयमभ्यस्तम्--द्विर्भावे द्वितीयम्2 अभ्यस्तसंज्ञं भवति । अभ्यासस्य धुटां तृतीयाः प्रथमाः--अभ्यासस्य घुटां (= अन्तस्थानुनासिकवर्जितानां व्यञ्जनानां3 ) स्थाने तृतीयाः प्रथमाश्च भवन्ति । जुहोति जुहुते4--ददाति गृह्णाति च । होता, हवकः, हावकः, हवन् , हावनः, हुतः, हुतवान्--सप्त दातरि ग्रहीतरि च । हवनम् , हवनीयम् , हव्यम् , हाव्यम् , हविस् , हुतः, हुतिः--सप्त दाने आदाने च । आहवः--युद्धम् । हावः--मैथुनं संभ्रमः । हावुः--सर्पः।
६६. ञभी5 भये--उद्वेगे6 । ह्रस्वोऽभ्यासस्य--अभ्यासस्य ह्रस्वो भवति । बिभेति बिभीते7--उद्विजते । भीतः, भीतवान् , भेता, भयकः, भयन् , भयानः, भायी, भायुः--अष्टौ भीरौ। भीः, भीतिः, भीतम् , भीतव्यम् , भयनम् , भयनीयम् , भय्यम् , भाय्यम् , भयम् , भायम्--दश भये ।
६७. ह्री लज्जायाम्--त्रपायाम् । जिह्रेति--त्रपते । ह्रेता, ह्रीतः, ह्रीतवान् , ह्रयन् , ह्रयः, ह्रयकः, ह्रायः--सप्त त्रपमाणे । ह्रीः, ह्रीतिः, ह्रीतम् , ह्रेतव्यम् , ह्रय्यम् , ह्राय्यम् , ह्रयणम् , ह्रयणीयम्--अष्टौ लज्जने ।
६८. पॄ पालनपूरणयोः -- रक्षायां भरणे च । अभ्यासस्य यॄवर्णस्य8

टिप्पणी


१. अत्र 'हु' इत्यैव शुद्धः पाठो द्रष्टव्यः, 'जुहुते' इत्यत्र ह्रस्वोकारस्य वृत्तिकृता निर्देशात् । कातन्त्रकारोऽपि 'हु' इत्येव पपाठ । अर्थनिर्देशे च 'दाने' इत्येव निर्दिदेश ।
पाणिनीयास्तदनुयायिनः केचनार्वाचीनो वैयाकरणाश्च 'हु' इत्येवमादीन् पृथग्गणे पेठुः ।
२. 'द्वयम्' इत्यस्य द्वितीयमित्येवात्रार्थः । अयं चार्थः 'ऋ' (२।७२) धातुव्याख्याने 'अभ्यासाद् युरभ्यस्ते' इत्युद्ध्रियमाणे सूत्रे .अभ्यस्तशब्दे सप्तमीनिर्देशात् प्रमाणीभवति । पाणिनीयास्तु पूर्वापरोभयस्याभ्यस्तसंज्ञामाहुः ।
३. तथा च कातन्त्रसूत्रम्--धुट् व्यञ्जनानन्तस्थानुनासिकानाम् (२।१।१३) इति ।
४. अत्र, उत्तरधातौ चात्मनेपदोदाहरणं चिन्त्यम् । ब्रूञ्पर्यन्ता एवोभयपदिनः । स्पष्टं चैतत् कातन्त्रधातुपाठे।
५. 'ञिभी' इति युक्तः पाठः, कातन्त्रेऽपि तथैव दृश्यते ।
६. ओविजी भयचलनयोः (५।११६)।।
७. अत्राप्यात्मनेपदं चिन्त्यम् ।
८. अत्र 'ऋवर्णस्य' इत्येव युक्तः पाठः स्यात् ।

130
इकारम्--अभ्यासस्य ऋ ॠ वर्णस्य इकारो भवति । पिपर्त्ति--रक्षति भरति । पर्ता, पूर्तः, पूर्तवान्, परः, परकः, परन्--षट् रक्षके । परि--शुभम् (?)। पारियाम (?)। परुष्--वितस्तिः । परुत्--गतवर्षः। परारि--आगामिवर्षः। परुषम्--निष्ठुरम् । पुरु--शरीरम् । पुरम् , पुरी--नगरम् । पुरुषः, पूरुषः--मनुष्यः । पुर्यः, पौर्यः, पौरः--नगरवासी। ऋतेरीरूरौ--ऋकारस्य ईर् ऊर् आदेशौ भवतः। पूर्तिः, पूर्तम् , पूरणम् , पूरकम् , पूर्णम् , पूरितम् , पूर्यम् , पूरणीयम् , पूर्तव्यम् , पूरितव्यम्--दश भरणे । पूर्णिमा--शुक्लपक्षस्यान्त्या तिथिः । परा--अन्या । परः--अन्यः । पारम्--तटम् । पार्यम् , परतटे भवम् ।
६९. ओहाक त्यागे--जहाति--त्यजति । जहन् , जहकः, हाता, हायकः, --चत्वारस्त्याजके । हाहाः--गायकः। हाहा--मूर्तिः क्रीडनकम् । हायनः--वर्ष । हायम्--चित्रम् । जहत् , जहनम् , जहनीयम्--त्रयस्त्यागे।
७०. घृ क्षरणदीप्त्योः --नाशे प्रकाशे च । जिघर्ति--नाशयति, प्रकाशते । जघरन् , जघरः1,' जघर्ता1, घृतः, घृतवान् , घरः, घारः--सप्त नाशके । घृतिः, घृतम् , घर्तव्यम् , घरणम् , घरणीयम् , घर्यम् , घार्यम्--सप्त नाशने । घर्घरः--शब्दानुकृतिः।
७१. हृ प्रसह्यकरणे--बलात्कारे । जहति2--प्रसहते । जहर्ता, जहरः, जहरकः, जाहरः--चत्वारः प्रसाहके । जहरत् , जहरणम् , जहरणीयम्, जहर्तव्यम् , जहतिः, जहृतम्--षट् बलात्कारे।
७२. ऋ सृ गतौ--अन्याद्युरभ्यस्ते (?, अभ्यासाद् युरभ्यस्ते )अभ्यासात् [उत्तरं] 'यु' आगमो भवति अभ्यस्ते परतः। इयर्ति--गच्छति । अरत् , अरकः, अर्ता, ऋतः, ऋतवान् , अरः, आरः, अरकः, अर्यः, आर्यः--दशैते गन्तरि । अरणम् , आरणम् , अर्तव्यम् , अरणीयम् , ऋतिः, ऋतम् , ऋत्--सप्त चलने । आर्यावर्तः--पुण्यभूमिः । आर्या--गौरी। अर्यः--श्रेष्ठी। ऋतुः--फलप्रदानकालः । अरम्--अर्धम् , शस्त्रम् । आरुः--योग्यो वृषभयुग्मः। अरुणः--वेदपुरुषः, सूर्यसारथी, रागः । अरणिः--अग्न्युत्पादको वृक्षः (काष्ठविशेषः), व्यासपत्नी । सिसर्ति--गच्छति । सर्ता, सरन् , सरकः, सृतवान् , सृतः, सरः--षट् गन्तरि । सृत् , सृतिः, सृतम् , सर्तव्यम् , सर्यम् , सार्यम् , सारम् , सरम्,

टिप्पणी


१. अत्र द्वित्वं कथमिति नोक्तं वृत्तिकृता।
२. जिहतिं इति युक्तः पाठः स्यात् 'अभ्यासस्य यॄवर्णस्य इकारम्' इत्युक्तसूत्रेण (द्र० २।६८ वृत्तिः पृ० १२९)।

131
सारि, सरणम् , सारणम् , सृत्यम्--द्वादश चलने। सरणिः--मार्गः। सरटः--गृहगोधा । सारणी--पक्षी ।
७३. भस भर्त्सनदीप्त्योः--गालिप्रदाने प्रकाशे च । बभस्ति--गालिं ददाति । भसः, भासः, भसकः, भासकः, भस्तः, भस्ता, भसन् , भस्तवान्--अष्टौ गालिप्रदातरि । भस्तिः , भस्तम् , भस्तव्यम् , भसनम् , भसनीयम् , भस्यम् , भास्यम् , --सप्त अपशब्दने निन्दायां च ।
७४. कित ज्ञाने--चिकेत्ति, चिकित्ति (?) चिकित्सति--जानाति । केतन्, केतकः, केतः, केत्ता, केत्तवान् , कित्तः, केत्यः, कैत्यः, कैतः, कित् , चिकित्सिन् , चिकित्सकः, चिकित्सुः--चतुर्दश--ज्ञातरि । केतुः--पताका, ग्रहः। केतः--केतक्याः पुष्पम् ('केवड़ा' इति भाषायाम् )। निकेतनम्--गृहम् । केती--ज्ञात्री। केतनम् , केतनीयम् , केत्यम् , कैत्यम् , केतव्यम् , कैतम् , कैतवम्--सप्त ज्ञाने । कितवः--धूर्तः, प्रमत्तः ।
७५, तुर त्वरणे--शैघ्र्ये । तुतोर्ति--शैघ्र्यं करोति । तोरन् , तोरकः, तुर्तवान्2, तुर्तिः, तोर्ता--पञ्च त्वरके । तुरी--कण्डूः । तुरुकः--बौद्धः। तोरणम्--तोरण इत्येव प्रसिद्धम् । तोरम्--स्थूलः । तुर्यम् , तौर्यम् , तौर्यत्रिकम्--त्रयो वाद्यशब्दे ।
७६ धिष शब्दे--ध्वनौ। दिधेष्टि--शब्दयति । घिट् , धेषन् , धेष्टा, धेषकः, धिष्टवान् , धिष्टः--षट् शब्दयितरि । घिषणा--बुद्धिः। घिष्टिः, धिष्टम्, धेष्टव्यम् , धेष्ट्यम्, धैष्ट्यम् , धेषणम् , धेषणीयम्--सप्त शब्दने।
७७. धन धान्ये--अन्ने (?)। दधन्ति--धान्यं भवति । दधन् , धनकः, धन्यः, धन्ता, धनाढ्यः--पञ्च भाग्यवति । धनम्, धननम्, धननीयम् , धन्तिः, धन्तम् , धन्तव्यम्, धान्यम्, धानम्--अष्टौ भाग्ये (?)।
७८. जन जनने--प्रसवे । जजन्ति--प्रसूते । जनिता, जनन् , जनितवान् , जन्तः, जन्यः2, जान्यः, जनकः, जनयिता, जानः2--नव उत्पादयितरि । जनकः--एतन्नामा राजविशेषः । जानकी--सीता। जननी, जनयित्री, जनित्री--

टिप्पणी


१. शैघ्र्यार्थकं लोके प्रसिद्धं 'तुर्त' इति पदम् तुरधातोरेव क्तान्तं शुद्धं रूपं ज्ञेयम् । अयमेव च 'तुरत' इति रूपान्तरं लेभे।
२. जनीं वधूं वहति जन्यो वरः पतिः। (संज्ञायां जन्याः--अष्टा० ४।४।८२)। स एव 'जानः', अपत्योत्पादकः। तत्साहचर्यादेव वैवाहिकर्मणि समावेतानां समूहोऽपि राजस्थानभाषायां 'जान' इत्युच्यते ।

132
त्रयो जन्मदात्र्याम् । जननम् , जननीयम् , जनितव्यम् , जनिः, जन्तिः, जन्तम् , जन्मन्--उत्पादने । जन्तुः--जीवः।।
७९.णिजिर् शौचशोषणयोः1--शीले, शुष्कीभावे च । नेनेक्ति नेनिङ्ते2 --दुःखितो भवति, शुष्यति । नेक्ता, निक्तः, निक्तवान् , नेजन् , नेजानः, निजः, नेजनः--षट् शीलवति । नेजनम् , नेक्तव्यम् , नेजनीयम्, नेज्यम्, नैज्यम् , नैजम् , निक्तिः, निक्तम्--अष्टौ शीले।
८०. विजिर् पृथग्भावे--भिन्नतायाम् । वेवेक्ति, वेविङ्ते (?, वेविक्ते )--पृथग्भवति । वेक्ता, वेजन् , वेजकः, विक्तवान् चत्वारः पृथग्भवितरि । विक्तः, विक्तम् , वेक्तव्यम् , वेजनम्, वेजनीयम्, वेज्यम्, वैज्यम् , वैजम् , विक् , विजम् , विजिः--एकादश पृथग्भावे । लर
८१. विषृ3 व्याप्तौ--व्यापने आवरणे । वेवेष्टि, वेवीष्टे (?, वेविष्टे) व्याप्नोति, आवृणोति । विष्णुः--नारायणः । वेष्टा, विष्टवान् , विष्टः, वेषन् , वेषकः--पञ्च व्यापके । वेषः, वेषणम् , वेषणीयम् , वेष्यम् , वैष्यम् , वेष्टव्यम् , विष्टिः, विष्टम्--अष्टौ आवरणे । विषम्--जलम्4, हालाहलम् । विषयम्--आवरणम् । विषयः--देशः । आविष्टलिङ्गम्5 --आवृतचिह्नम् ।
८२. डुदाञ् दाने--ददाति, दत्ते--दानं करोति । दाता, दायन् , दायमानः, दापकः--दाता। दानम् , दापनीयम् , दातव्यम् , दायम्--[एते चत्वारो] दाने ।
८३. डुधाञ् डुभृञ् धारणपोषणयोः--सहने रक्षणे च । दधाति धत्ते--सहते । धाता, विधाता--ब्रह्म । धायन् , धायमानः, धायकः--सोढा (धर्ता )। धानम् , धायम् , धापनम् , धापनीयम् , धातव्यम्--सहने । बिभर्ति, बिभृते--सहते । भर्ता--पोषकः । भृत् , बिभ्राणः, बिभ्रन् , भृतवान् , भृतः, भरकः, भारकः, भारी--अष्टौ पोषके । भरणम् , भरणीयम् , भर्तव्यम् , भृतिः, भृतम्--पञ्च रक्षणे । विश्वम्भरः--विष्णुः । विश्वम्भरा--भूमिः । भारम्--गुरुत्वम् । भार्या--पत्नी । भृत्यः--सेवकः।

टिप्पणी


१. 'निजिर् शौचपोषणयोः' इति कातन्त्राः।
२. 'नेनिक्ते' इति साधु । एवमुत्तरसूत्रयोरपि द्रष्टव्यम् ।
३. 'विष्लृ' इति कातन्त्रे पाठः ।
४. जलार्थको विषशब्दो वेदे प्रयुज्यते । द्र० निघण्टुः--१।१२॥ प्राच्यभाषायां या गौः जलमयं पुरीषं करोति सा 'बिसैली' इत्युच्यते।
५. 'आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्तते उत्पत्तिप्रभृत्याऽऽविनाशान्न तं लिङ्गं जहाति' इति महाभाष्यवचनम् (१।२।५२ ) अत्र द्रष्टव्यम् ।

133
८४. माङ् माने शब्दे च--मापने शब्दे च । मीमांसते--परिमाययति (?)। माता--अम्बा । प्रमाता--मानकी । मायकः, मापकः, मायमानः, मितवान्--चत्वारः प्रमातरि । मितिः, मितम् , मातव्यम् , मायम् , मानम् , मापनीयम्--षट् मापने । मायाः मायविनी (?)।
८५. ओहाङ् गतौ--जिहीते--गच्छति । हाता, हायमानः, हायकः, हितः, हितवान्--पञ्च गन्तरि । हितिः हितम् , हेतव्यम् , हायनम् , हायनीयम् , हायम् -- षट् गमने।
[इति लुग्विकरणोऽदादिः समाप्तः ]