काशकृत्स्न-धातुपाठः/दिवादिगणः (३)

विकिस्रोतः तः
← अदादिगणः(२) काशकृत्स्न----धातुपाठः
दिवादिगणः(३)
[[लेखकः :|]]
स्वादिगणः (४) →

134
अथ दिवादि--गणः
[ यन्--विकरणः]
१. दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु--क्रीडने, विजये, युद्धे, अस्थैर्ये, प्रशंसायाम् , मदे, स्वप्ने, प्रकाशे, चलने च । दिवार्देथन्--दिवादिभ्यो धातुभ्यो यन् विकरणो भवति । यनि दीर्घश्च--दिवादौ यनि परे दीर्घो भवति । दीव्यति--क्रीडति । देवः--स्वामी । देवी--स्वामिनी। दीव्यन्--प्रकाशकः। दीव्यती--प्रकाशयित्री। देवनम् , देवनीयम् , देव्यम्--त्रयः क्रीडायाम् । दैवम् , दैवः--अदृष्टम् । दिव्यम्--प्रार्थना । देवता--शक्तिः। दिवा--अहः । दिवसम्--दिनम् । देविका, दैविकम्--दैवप्रकाशः (?)।
२. षिवु तन्तुसन्ताने तन्तूनां संयोजने। सीव्यति--तन्तून् संयोजयति । सीव्यन् , सेवः, सेवकः, सेविता, सेवितवान्--पञ्च तन्तुसंयोजके ('दरजी' इति भाषायाम)। सेवनम् , सेवनीयम् , सेव्यम् , सैव्यम् , सैवम् , सेवा, सेवितव्यम् सेवितम्--अष्टौ कार्ये । सेवका, सेवन्तिका, सेवन्ति--सेवन्तिपुष्पम् । सेवाला--(?) । सेविनी--क्षीवनम् ( छींकाना इति भाषायाम् )।
३. स्रिवु गतिशोषणयोः--स्रीव्यति--गच्छति, शुष्यति । स्रीव्यन् , स्रेवः, स्रेवकः, स्रेवितः, स्रेवितवान् , स्रेविता--षट् गन्तरि, शोषितरि । स्रेवणम् , स्रेवणीयम् , स्रेव्यम् , स्रैव्यम् , स्रेवा, स्रेवितव्यम् , स्रेवितम् , स्रेवितिः--अष्टौ चलने शोषणे।
४.ष्टिवु1, क्षिवु निरसने--निस्सारणे । ष्टीव्यति--निरस्यति । ष्टीव्यन् , ष्टवः2,ष्टवकः,2 ष्टवितः2, ष्टवितवान्2--पञ्च निरसितरि । ष्टेवनम् , ष्टेवनीयम् , ष्टेवितव्यम्--निरसनम् । क्षीव्यति--निरस्यति । क्षीव्यन् , क्षेवः, क्षेवकः, क्षेवितः, क्षेवितवान् , क्षेविता--षट् निरसितरि । क्षेवणम् , क्षेवणीयम् , क्षेवितव्यम् , क्षेवितम् , क्षेवितिः--पञ्च निरसने ।

टिप्पणी


१. 'ष्ठिवु' इति युक्तः पाठः ( तथैवोदाहरणेष्वपि टकारस्थाने ठकारो द्रष्टव्यः)। कातन्त्रेऽपि 'ष्ठिवु' इत्येव पठ्यते ।
२. अत्र सर्वत्र पाठाशुद्धिर्वर्तते । 'ष्टेव' इत्येवं सर्वत्र एकारवान् पाठो द्रष्टव्यः ।

135
५. ष्णुसु अदने--भक्षणे । स्नुस्यति--खादति । स्नुस्यत् , स्नोसः, स्नोसकः, स्नोसितः, स्नोसिता, स्नोसितवान्--षट् भक्षितरि। स्नुषा1--पुत्रवधूः । स्नोषणम्1, स्नोषणीयम्1, स्नोषितव्यम्1, स्नोषितम्1, स्नोषितिः1 --पञ्च खादने ।
६. क्नुसु ह्वरणदीप्त्योः --द्योतने प्रकाशने । क्नुस्यति--द्योतते, प्रकाशते । क्नुस्यन् , क्नोसः, क्नोसकः, क्नोसितः, क्नोसितवान् , क्नोसिता--षट् द्योतके, प्रकाशके । क्नुसिः, क्नुसा, क्नोस्यम् , क्नोसनम् , क्नोसनीयम् , क्नोसितव्यम् , क्नोसितम् , क्नोसितिः--षट् (?, अष्टौ ) द्योतने।
७. नृती गात्रविक्षेपे--नृत्ये । नृत्यति--नर्तनं करोति । नृत्यन् , नृत्तः, नृत्तवान्--त्रयो नर्तके । नृत्तम् , नृत्तिः, नृत्यम्--त्रयो वर्तने ।
८. त्रसी उद्वेगे--घर्मे वेगे । त्रस्यति--उद्विजति । त्रस्यन् , त्रस्यकः, त्रस्तः, त्रस्तवान्--चत्वार उद्वेजितरि । त्रस्तिः, त्रस्तम्, त्रस्तव्यम् , त्रसनम्, त्रसनीयम् , त्रस्यम्, त्रास्यम्--सप्त वेगे । त्रासः, त्रासुः--तुला।
९. कुथ पूतीभावे--दुर्गन्धे । कुथ्यति--दुर्गन्धयुक्तो भवति । कुथ्यन् , कोथः, कोथिकः, कोथितः, कोथितवान्--पञ्च दुर्गन्धयुक्ते । कुथिः, कुथ्यः, कोथनम् , कोथनीयम् , कोथितव्यम् , कोथिः, कोथितम्-- सप्त दुर्गन्धे ।
१०. पुथ हिंसायाम्--मारणे । पुथ्यति--हिनस्ति । पुथ्यन् , पोथिकः, पोथिः, पोथितः, पोथितवान् , पौथ्यम्--षट् घातके। पुथिः, पुथ्या, पोथनम्, पोथनीयम्, पोथितव्यम्, पोथितम्--सप्त हिंसायाम् ।
११. गुध परिवेष्टने--गुध्यति--वेष्टयति । गुध्यन् , गोधः, गोधकः--त्रयो वेष्टके । गोधा, गोधिका--फलविशेषः । गृहगोधिका--सरट् । गुध्या, गोधनम् , गोधनीयम् , गोध्यम् , गोधितव्यम् , गुद्धिः, गुद्धम्--सप्त वेष्टने ।
१२. क्षिप प्रेरणे--रक्षणे (?) । क्षिप्यति--रक्षति ( रखता है १., प्रेरयति )। क्षिप्यन्, क्षेपकः, क्षेप्ता, क्षिप्तः--रक्षकः (?, प्रेरयिता)। आक्षेपकः--शङ्किता। क्षेपः, क्षेपणीयम् , क्षिप्तव्यम्2, क्षिप्तिः, क्षिप्तम्--षट् रक्षणे (?, क्षेपणे )। क्षेपणी--( नौवाहनदण्डम् ) १३ पुष्प विकसने--पुष्प्यति--विकसति । पुष्प्यन् , पुष्पितम् , पुष्पितवान् , पुष्पितः --चत्वारो विकसितरि । पुष्पकम्--विमानम् । पुष्पम्--कुसुमम् ।

टिप्पणी


१. अत्र षत्वं कथमिति नोक्तं वृत्तिकृता।
२. गुणाभावः कथमिति नोक्तम् ।

136
पुष्पिणी--रजस्वला । पुष्पवती--पुष्पयुता लता । पुष्पितम् , पुष्पितव्यम् , पुष्पणम् , पुष्पणीयम्--चत्वारो विकसने ।
१४. तिम ष्टिम ष्टीम आर्द्रभावे--आमे अपक्के (?, सजले)। तिम्यति--आर्दीभवति । तिमिः, तिमिङ्गिलः [--मत्स्यविशेषः । तिम्यन् , तिमिता, तिमितवान् , तेमकः--चत्वारोऽपक्वे (?, सजले)। तेमः, तेमनम् , तेमनीयम्, तिमितव्यम् , तिमितम्, तिमितिः--षट् आर्द्रे। स्तिम्यति--आर्द्रं करोति । स्तिम्यन् , स्तिमिता, स्तिमितः, स्तिमितवान्1 --आर्द्रकर्तरि, चोपके (चुप होने वाले में)। स्तिमितम् , स्तिमितव्यम्1, स्तिमितिः, स्तिमनीयम्5 --चत्वार आर्द्रकरणे मौने । स्तीम्नति--स्रवति । स्तीम्यन् , स्तीमिता, स्तीमितवान् , स्तीमितः--चत्वारः स्रावके । स्तीमितव्यम् , स्तीमनम् , स्तीमनीयम् , स्तीमितम्, स्तीमितिः--पञ्च स्रोतसि।
१५. व्रीड चोदने लज्जायां च-- प्रेरणे लज्जने च । व्रीड्यति--प्रेरयति लज्जते । व्रीड्यन्, व्रीडितः, व्रीडितवान् , व्रीडिता, व्रीडकः--पञ्च लज्जके । व्रीडा, व्रीडनम् , व्रीडनीयम्, व्रीडितम्, व्रीडितव्यम्--[ पञ्च ] लज्जने ।
१६. इष गतौ--इष्यति--गच्छति । इष्यन् , इष्टः, इष्टवान् , एष्टा, एषकः--पञ्च गन्तरि । इष्यम्, एषणम् , एष्टव्यम् , इष्टम् , इष्टिः, एषः, एष्यः, एषणीयम्--अष्टौ गमने ।
१७. षष षह षुह शक्तौ--सामर्थ्ये । सष्यित1 --गणयति । षट्--संख्या विशेषः । षट् , षषः, षषकः, षष्टः, षष्टवान् , षष्टा--षट् गणके । षषणम् , षष्यम् , षष्टव्यम्--त्रयः शक्तौ । षष्टिः--षट्दशकः ( 'साठ' इति भाषायाम् ) सह्यति--सहते । सह्यः--एतन्नामाऽद्रिविशेषः । तुराषाट्--इन्द्रः। सह--सहितम् । सहन् , सोढा, सहकः, सहितः, सहितवान्--पञ्च सहनशीले । सहनम् , सहनीयम् , सहितव्यम् , सहितम् , सहितिः, सही, साह्यम् , साहम्--अष्टौ सहने । सुह्यति--( तृप्यति, समर्थयति)। सोहन् , सोहः, सोहकः, सोही, सोढा--पञ्च (तर्पके, समर्थे ) । सोहनम् , सोहनीयम् , सोह्यम् , सौह्यम् , सौहम् , सोहितव्यम् , सोहितिः, सोहितम् , सोढः, सुण्डी (?)--दश ( तर्पणे सामर्थ्ये )।

टिप्पणी


१. गुणाभावः कथमिति नोक्तम् ।
२. इहादेः षकारस्य सत्वं निर्दिश्यते , उत्तरत्र कृदन्तेषु सर्वत्रैव मूर्धन्यादिरूपाण्येवोदाहरति वृत्तिकारः। किमत्राख्यातरूपेऽपि 'षष्यति' इति रूपं युक्तं स्यात् ?

137
१८. जॄष कॄष्1 वयोहानौ--वयःक्षये । ऋ ईर्यनि कृति च--ऋकारस्य ईर्भवति यनि कृति च परतः। जीर्यति--जीर्णो भवति । जीर्णः, जीर्णवान् , जरन् , जरठः, जर्ता--पञ्च वृद्धे । जरकः--जरासन्धनामा कृष्णेन हतः पुरुषः । जरा, जरणम् , जरणीयम् , जर्यम् , जार्यम् , जर्तव्यम् , जर्तम् , जर्तिः, जरिः, जरुः--दश वृद्धत्वे । जारः, जार्, जिरिः--(जरयिता)। कीर्यति--विक्षिपति (छिड़कता है)। कीर्णः, कीर्णवान् , किरन् , कर्ता--चत्वारो विक्षेपके । करः--हस्तम् । करभम्--करतलम् । करी--हस्ती। करेणुः--हस्तिनी। करटः--काकः, राक्षसः। कारा--वृक्षमध्यम् , संकरः--मिश्रितः, वर्णसंकरः।
१९, शो तनूकरणे--लघुत्वे । श्यति--लघु करोति । ओलोपो यनिओकारस्य लोपो भवति यनि परतः। शोः, शाता, शितवान् , शितः, शायन्2, शापकः--तनूकर्तरि । शितिः, शितम् , शापनम् , शापनीयम् , शाप्यम् , शापम् , शैतव्यम् (?)--षट् लघुत्वे । शतनम्--( ?)। शातकुम्भम्--सुवर्णम् ।
२०. छो छेदने--छ्यति--छिनत्ति । छोः, छायः, छायकः, छायन् , छायिता, छितः, छितवान्--सप्त खण्डितरि छेत्तरि । छाया--विश्वकर्मणः पुत्री, शनैश्चरस्य माता छाया देवी, छाया। छायनम् , छायनीयम् , छितिः, छितुः--चत्वारः खण्डने।
२१. षो अन्तकर्मणि--स्यति--समापयति । सोः--गौरी । सायः, सायिता, सितः, सितवान् , सायन्--पञ्च कर्मसमापके। सायकम् , सायम्--दिवसावसानम् । सायनम्, सायनीयम् , सायितव्यम्--कर्म समापने ।
२२. दो अवखण्डने--द्यति--अवखण्डयति । दाता--ददिता (दानकर्ता)। दायन् , दायकः, दितः, दितवान्--चत्वारोऽवखण्डितरि । दानम् , दापनीयम् , दातव्यम् , दितम्--चत्वारः खण्डने । दितिः--दक्षपुत्री, कश्यपपत्नी, राक्षसमाता।
२३. राध साध संसिद्धौ--निर्णये। राध्यति--निर्णयति । राद्धा, राधकः, राद्धवान् , राद्धः--चत्वारो निर्णायके । आराध्यः--गुरुः। राधनम् , राधनीयम् , राद्धव्यम्--[त्रयो] निर्णये । साध्यति--निर्णयति । साद्धा, साधन् , साधकः, साद्धः, साधवान् (?)--[पञ्च] निर्णायके । साधनम् , साधम्--द्वौ निर्णये। साध्यम् , साधनीयम्--निर्णेतुं योग्ये । साद्धिः, साद्धम् , साद्धव्यम्--त्रयो भये ।

टिप्पणी


१. झॄष इति कातन्त्रपाठः। अन्येऽप्येवमेवाहुः । कन्नडवृत्तिकारस्तु कृष् इति पठित्वा कीर्यति विक्षिपति इत्यर्थमाह ।
२. इह उत्तरत्र छायन् सायम् दायन् आदिषु पनि आलोपः कथं न ?

138
२४. 1व्यध ताडने--व्यध्यति--ताडयति । व्याधः--हिंसकः । व्याधिः--पीडा । व्यद्धा, व्यद्धः, व्यधकः, व्यधन्2 , व्यधवान्--पञ्च ताडयितरि । व्यधनम् , व्यधनीयम् , व्यध्यम् , व्याध्यम् , व्याद्धम् , व्याद्धिः--षट् ताडने ।
२५. पुष पुष्टौ--पालने । पुष्यति--पालयति । पोषन् , पोषकः, पोष्टा, पुष्टः--पालयिता । पूषन्--सूर्यः । पुष्यम्--नक्षत्रविशेषः। पुष्यरागः--रत्नविशेषः । पौषः--पुष्ययुक्तः कालः । पौषी--पुष्ययुक्ता रात्रिः। पौषणम् ,3 पौषणीयम् ,3 पुष्टम् , पुष्टिः, पोष्यम् , पौष्यम् , पोषितव्यम्--सप्त पालने।
२६. शुष शोषणे--शुष्यति--शोषयति । शोष्टा, शोषन् , शोषकः--त्रयः शोषके । शोषणम् , शोषणीयम् , शोषितव्यम् , शुष्कम् , शोष्यम् , शौष्यम्--षट शुष्कीभावे।
२७. दुष वैकृत्ये--दुष्कृत्ये । दुष्यति--वैकृत्यं करोति । दोष्टा, दोषन् , दोषकः, दुष्टः, दुष्टवान्--पञ्च दुष्टे । दुष्टम् , दुष्टिः, दोषम् , दोष्यम् , दौष्यम् , दूषणम् , दूष्यम्--चत्वारः (?, सप्त) दूषणे ।
२८. श्लिष आलिङ्गने--श्लिष्यति--आलिङ्गति । श्लेषन् , श्लेषकः, श्लिष्टः, श्लिष्टवान् , श्लेष्टा--पञ्च आलिङ्गके। श्लिष्टम् , श्लिष्टिः, श्लेषितव्यम् , श्लेष्यम् , श्लैष्यम् , श्लेषः, श्लिट् , श्लेषणीयम्--अष्टावालिङ्गने ।
२९. ङिष्विदा4 गात्रप्रक्षरणे--घर्मजले ( पसीना आने में )। स्विद्यति--गात्रेभ्यो जलं प्रक्षरति । स्विन्नः, स्विन्नवान् , स्वेदन् , स्वेदकः, स्वेदा--पञ्च स्वेदितरि । स्विन्नः, स्विन्नवान् , स्वेदन् , स्वेदकः, स्वेदितः--पञ्च स्वेदितरि । स्विन्नम् , स्वेदः, स्वेद्यम् , स्वैद्यम् , स्वेदितव्यम्--पञ्च गात्रप्रक्षरणे ।
३०. क्षुध बुभुक्षायाम--क्षुध्यति--बुभुक्षति । क्षोद्धा, क्षोधकः, क्षुद्धः क्षुद्धवान्--चत्वारः क्षुधिते । क्षुत् , क्षुधा, क्षुद्धम् , क्षुद्धिः, क्षोधितव्यम् , क्षोधनम् , क्षोधनीयम् , क्षोध्यम् , क्षौध्यम् , क्षोधम्--दश बुभुक्षायाम् ।
३१. शुध शौचे--पवने । शुध्यति--शुचिर्भवति । शुद्धः, शुद्धवान् , शोधकः,

टिप्पणी


१. इतः पूर्वं कातन्त्रधातुपाठे 'मृग अन्वेषणे' इति धातुः पठ्यते । कदाचिदत्र पाठो नष्टः स्यात् । अत्र धातुवृत्तिः सायणीया दिवादिगणान्ता द्रष्टव्या।
२. इत आरभ्य शत्रन्तरूपनिर्देशे यनन्त (श्यनन्त) रूपाणां स्थाने अनन्त (शबन्त) रूपाणि उदाहरति वृत्तिकारः । तत्कथमिति न विद्मः ।
३. वृद्धिः कथम् , गुण इष्यते ।
४. ष्विदा इति कातन्त्रा अन्ये च वैयाकरणाः ।

139
शोद्धा--चत्वारो मार्जके शुचिकर्तरि । शुत् , शुधा, शुद्धम् , शुद्धिः, शोधितव्यम् , शोधनम् , शोधनीयम्--सप्त शुचिकर्मणि । शुद्धा--पवित्रा स्त्री।
३२. षिध संराद्धौ--निश्चये। सिध्यति--निश्चितं भवति । सेद्धा, सेधकः, सिद्धः, सिद्धवान्--चत्वारो निश्चयवति । सित् , सिधा, सिद्धम् , सिद्धिः, सेधनम् , सेधनीयम् , सेध्यम् , सैध्यम् , सैधम्--नव निश्चये । निषेधः, प्रतिषेधः, विप्रतिषेधः--त्रयोऽनृते ? (निश्चयविपरीते)।
३३. रध हिंसायाम--रध्यति--हिनस्ति । रधम् , रद्धा, रधकः, रद्धः, रद्धवान्--पञ्च घातके । रत् , रधा, रद्धम् , रद्धिः, रधनम् , रधनीयम् , रध्यम् , राध्यम्--अष्टौ हिंसायाम् । राधा--एतन्नाम्नी स्त्री।
३४. तृप प्रीणने--शान्तीभावे । तृप्यति--शान्तो भवति । तर्प्ता, तृप्तः, तृप्तवान् , तर्पन् , तर्पकः--पञ्च शान्तभावुके, तृप्ते । तृप् , तृप्तम् , तृप्तिः, तर्पणम् , तर्पणीयम् , तर्प्यम् , तार्प्यम् , तार्पम्--अष्टौ शान्तकरणे ।
३५. दृप् प्रहर्षणे विमोचने च--सन्तोषे मुक्तौ च । दृप्यति--संतुष्टो भवति । दृप्ता, दृप्तः, दृप्तवान्--त्रयः सन्तुष्टे । दर्पकः--मन्मथः। दृपदः--सुखम् , राजा1, देशः। द्रौपदी--2द्रुपदपुत्री । दृप्तम् , दृप्तिः, दर्पणम्, दर्पणीयम्, दर्पितव्यम् , दर्पितम् , दर्प्यम् , दार्प्यम्--अष्टा आनन्दे मोचने च ।।
३६. मुह वैचित्ये--विस्मरणे । मुह्यति--विस्मरति । मूढः, मूढवान् , मोढा, मोहन् , मोहकः--पञ्च विस्मारके । मूढम् , मूढिः, मोहः, मोहनम् , मोहनीयम् , मोह्यम् , मौह्यम् , मुट्--अष्टौ विस्मरणे ।
३७. दृह्3 जिघांसायाम्--हिंसने । दृह्यति--मारयति । दृक् , दृण् , दृट् , दृड् , द्रोही, द्रोहकः, द्रोहन्--सप्त घातके । द्रोहः, द्रोहणम् , द्रोहणीयम्--त्रयो हिंसने ।
३८. ष्णुह उद्गिरणे----वमने । स्नुह्यति--वमति । स्नुक् , स्नुग्, स्नुट् , स्नुड् , स्नोहकः, स्नोही, स्नोहन्--सप्त वामके । स्नुहिः--(?)। स्नोहः, स्नोहनम् , स्नोहनीयम्--[त्रयो] वमने ।

टिप्पणी


१. राज्ञो नाम द्रुपद इति प्रसिद्धम्, न दृपदः । दक्षिणात्यानां 'दृ' इत्यस्य 'द्रु' रूपोच्चारणात् भ्रान्तो वृत्तिकारः स्यात् । अत एवाग्रेऽप्रासङ्गिक 'द्रौपदी' पदमप्युदाजहार ।
२. नैतत् पदं दृपधातोः सिद्धति । पूर्वा टिप्पणी द्रष्टव्या।
३. 'द्रुह' इति शुद्धः पाठः । कातन्त्रेऽप्येवमेव । एवमुत्तरत्रापि द्रुह्यति द्रुक् द्रुग् द्रुट् द्रुड् इति शुद्धः पाठो ज्ञेयः । इहापि उच्चारणदोषाद् 'द्रुह' इत्यस्य 'दृह' इत्यजायत ।

140
३९.ष्णिह प्रीतौ--स्निह्यति--प्रीतिं करोति । स्निक् , स्निग्, स्निट् , स्निड्, स्नेही, स्नेहकः, स्नेहिता, स्नेहितवान् , स्नेहनीयम् , स्नेहितम् , स्नेहितिः, स्नेहः--प्रीतिः, प्रेम, तैलम् । स्नेहनम् , स्नेहनीयम्, स्नेहितम् , स्नेहितिः, स्नेहितव्यम्, स्नेह्यम् , स्नैह्यम्--सप्त प्रीतौ।
४०. णश अदर्शने--अदृश्यभावे । नश्यति--अदृष्टं भवति । नष्टा, नष्टः, नशन् , नाशकः--चत्वारोऽदर्शके। नष्टम् , नष्टिः, नाशः, नश्यः, नाश्यः, नष्टव्यम्--[षट् ] अदर्शने ।
४१. शमु दमु उपशमे--सहने । शमादेर्दीर्घो यनि--शमादीनां धातूनां दीर्घो भवति यनि परतः। शाम्यति--सहते । शमन् , शमिता, शमितः, शमितवान् , शमी, शमकः--षट् सोढरि । शमनम् , शमनीयम्, शमितव्यम् , शमितिः, शमितम् , शम्यम् , शाम्यम् , शमः--अष्टौ सहने । शामः--श्यामवर्णः । शामा, शामाका--'अरोई' नाम्ना प्रसिद्धम् । शामाकः--धान्यविशेषः। शमनः--यवः। शमी--वृक्षविशेषः ('जण्ड--खेजड़ा' आदिनामभिः प्रसिद्धः)। शम्--सुखम् । शान्तः--शान्तवान् । शान्तिः--शमनम् । दाम्यति--दयते (दयां करोति)। दमी, दमन् , दमिता, दमितः, दान्तः, दमितवान्--षट् दयालौ । दान्तिः, दमनीयम् , दमितम्, दमितव्यम् , दम्यम्--षट् दयायाम् । दमनः--योगिन एकस्य नाम । दामन्--रश्मिः ( 'लगाम की रस्सी' इति भाषायाम् )।
४२. तमु काङ्क्षायाम्--इच्छायाम् । ताम्यति--इच्छति । तमन् , तान्तः, तमितः, तमितवान् , तमिता, तमकः, तमी, तामः--नव इच्छुके। तमिस् , तमिस्रम्--रात्रिः । तमनम् , तम्यम् , ताम्यम् , तामसम्--पञ्चैषणे ।
४३. श्रमु तपसि खेदे च--देहदण्डने दुःखे च । श्राम्यति--कष्टं सहते, दुःखितो भवति । श्रान्तः, श्रान्तवान् , श्रान्ता, श्रमन् , श्रमकः--पञ्च श्रमकर्तरि । श्रमः, श्रान्तिः, श्रान्तम्, श्रान्तव्यम् , श्रमणम् , श्रमणीयम् , श्रम्यम् , श्राम्यम् , श्रामम्--नव तपसि दुःखे च । श्रमणः--तपस्वी।
४४. भ्रमु अनवस्थाने--भ्रमणे । भ्राम्यति--नैकत्र स्थिरो भवति । भ्रमन् , भ्रमकः, भ्रान्तः, भ्रान्ता, भ्रान्तवान् , भ्रमी,--व्रजनशीलः ('घुमक्कड़ इति भाषायाम् )। भ्रमरः--द्विरेफः ('भंवरा' इति भाषायाम् ), राक्षसः । भ्रमरा--श्रीशैलमल्लिखार्जुनस्य पत्नी। भ्रमरकः--लघुबालः । भ्रान्तिः, भ्रान्तम् , भ्रान्तव्यम् , भ्रमणम् , भ्रमणीयम् , भ्रमः, भ्रम्यम् , भ्राम्यम् , भ्रामम्--नव भ्रमणे ।

<poem>141
४५. क्षमूष् सहने--क्षाम्यति--सहते। क्षमन् , क्षान्तः, क्षान्तवान्, क्षमी, क्षामकः, क्षान्ता--षट् सोढरि, सहनशीले । क्षमा--भूमिः, सहनम् । क्षामम्--सहनम् । क्षान्तिः , क्षान्तम् , क्षमणम् , क्षमणीयम् , क्षन्तव्यम् ,--पञ्च सहनकर्मणि ।
४६. क्लमु ग्लानौ--क्लाम्यति--ग्लायति । क्लान्तः, क्लान्तवान् , क्लमन् --त्रयो ग्लायके । क्लान्तम् , क्लान्तिः, क्लमनम् , क्लमनीयम्, क्लन्तव्यम्--पञ्च म्लाने ।
४७. मदी हर्षे--माद्यति--हृष्टो भवति । मत्तः, मत्तवान् , मत्ता, मदन् , मादकः--पञ्च सन्तुष्टे1 । मदनः--मन्मथः । मदनिकः--वरः ('दूल्हा' भाषायाम् )। मत् , मदम् , मदनीयम् , मत्तव्यम् , मत्तम्--पञ्च सन्तोषे । मत्तिः--वृक्षः, मदः । मद्यम्--सुरासवम् । मन्मथः--कायः । मादेश्वरः--शिवशरणः । मादी--स्थूलशरीरिणी।
४८. असु क्षेपणे--रक्षणे स्थापने (?)। अस्यति--क्षिपति । असन् , अस्तः, अस्तवान् , अस्ता--चत्वारः क्षेपके । अस्तम् , अस्तिः, अस्तव्यम् , असनम् , असनीयम् , अस्यम्--षट् क्षेपणे रक्षणे ।
४९. यसु प्रयत्ने--यस्यति--प्रयतते । यस्तः, यस्तवान् , यसन् , यस्ता, यसकः--पञ्च प्रयतितरि । यस्तम् , यस्तिः, यस्तव्यम्, यस्यम् , यास्यम् , यसम् , यासम्--सप्त प्रयतने ।
५०. जसु मोक्षणे--त्यागे । जस्यति--त्यजति । जस्तः, जस्तवान् , जसन् , जस्ता--चत्वारो मोचके (त्यजके)। जसम् , जासम् , जस्तम्, जस्तिः, जस्तव्यम् , जसनम् , जसनीयम् , जस्यम्, जास्यम्--नव त्यागे।
५१. तसु दसु उपक्षये----रक्षणे स्थापने । तस्यति--रक्षति । तस्तः, तस्तवान् , तस्ता, तसकः, तसन्--पञ्च रक्षके । तसनम् , तसनीयम् , तस्तव्यम् , तस्यम् , तास्यम् , तसम् , तासम् --[ सप्त ] रक्षणे । दस्यति--रक्षति । दस्तः दस्तवान्, दसन् , दसकः, दस्ता--पञ्च रक्षके । दसनम् , दसनीयम् , दस्तव्यम् , दस्तिः , दस्तम् , दसम् , दासम् , दस्यम् , दास्यम्--नव रक्षणे । दसिः----शूलम् ।
५२. वसु स्तम्भे--स्थितौ । वस्यति--तिष्ठति ( खड़ा होता है )। वसन् , वसकः, वस्तम् (?), वस्तवान् , वस्ता--पञ्च स्थितिकर्तरि । वसनम् , वस्तम् , वस्तिः, वसनीयम् , वसम् , वासम् , वस्यम् , वास्यम्--अष्टौ स्तम्भने । वसुः--देव--

टिप्पणी


१. सन्तुष्टः सदा हृष्टो भवति, अतः हृष्टेऽर्थे सन्तुष्टशब्दः प्रयुक्तो वृत्तिकारेण ।

142
विशेषः । वासुः--गृहस्य महत् स्तम्भम् । वास्तु--गृहाधिदेवता । वस्तु--द्रव्यम् । वस्ति--गृहम् , तम्बूनाम्ना प्रसिद्धम् । वासुकिः--शेषनागः ।
५३. पुष1 विभागे--पुष्यति--विभजति । पुट् , पुष्टः, पुष्टवान् , पोषन् , पोषकः--पञ्च विभाजके । पुष्टम् , पुष्टिः, पोषणम् , पोषणीयम्--चत्वारो विभजने।
५४. प्लुष दाहे--प्लुष्यति--दहति । प्लुट्, प्लोषन् , प्लोषकः, प्लुष्टः, प्लुष्टवान्--पञ्च दाहके । प्लुष्टम् , प्लुष्टिः, प्लोषणम् , प्लोषणीयम्--चत्वारो दहने ।
५५. विश२ प्रेरणे--विश्यति--सूचयति । विट्, वैश्यः--धनिकः । वेशः, वेशनम् , वेशनीयम् , विष्टिः, विष्टम्--पञ्च सूचने । वेश्या--वारवनिता।
५६. कुशिर्3 श्लेषणे--सहने (?)। [ कुश्यति--1] कोशकः, कोष्टा, कुष्टः, कुष्टवान्--पञ्च समाधातरि (?)। पादकोशी, कोशी--द्वौ (?)। कोशः--कोषः। कोशातकी--शाकविशेषः। कोशलः--देशविशेषः । कुशम्4--जलम् । कौशेयम्--वस्त्रविशेषः । कुष्टम् , कुष्टिः, कोशनम् , कोशनीयम्--चत्वारः सहने।
५७. बुश5 उत्सर्गे--बोशः--उस्रष्टा । बोशी--उत्स्रष्ट्री । बोशुः--(?) । बुष्टः, बुष्टवान् , बुट् , बोषन् , बोष्टा--षट् उत्सर्जके । बुष्टः, बुष्टिः, बोशनम् , बोशनीयम्--चत्वारः] त्यागे ।
५८. मुश6 खण्डने--छेदने । मुश्यति--छिद्रं करोति । मुट्, मोशन् , मोष्टा, मुष्टः, मोशकः--छेदकः । मुष्टिः--वृक्षः, बद्धाङ्गुलिः । मुष्टम् , मोशनम् , मोशनीयम्--त्रयश्छेदने

टिप्पणी


१. 'प्युष' इति कातन्त्राः , अन्ये च वैयाकरणाः। पुष इति तु गतम् (३।२५ )।
२. 'विस' इति कातन्त्राः, 'बिस' ओष्ठ्यादिरिति पाणिनीयाः ।
३. 'कुश' इति कातन्त्राः । 'कुस' इति पाणिनीयाः।
४. कुश, शब्दो जलार्थे वेदे प्रयुज्यते । तथा ह्याह माधवो नामानुक्रमण्याम्--'क्षोदः क्षीरं रजः काष्ठा अररिन्दरुजत्कुशः' इति (ऋग्वेदानुक्रमणी मद्रास--मुद्रिता, तस्यान्ते cxxxvi पृष्ठे १०७ तमपङ्क्तौ)। यास्कीयै निघण्टौ उदकनामसु 'कश' इति पाठ्यते ( १।१२), तथैव च देवराजेन व्याख्यातम् । अत्र क्वचित् 'शकम्' 'शक्रम्' च पाठान्तरमुपलभ्यते । चन्नवीरकविरन्यत्रापि वैदिकार्थान् निर्देशति यथा विषशब्दस्योदकार्थत्वम् (द्र० २।८१७ पृष्ठ १३२)। एतेन यास्कीये निघण्टावपि 'कुश' इत्येव शुद्धः पाठो द्रष्टव्यः ।
५. बुस' इति पाणिनीयाः, 'वुस' इति कातन्त्राः ।
६. 'मुस' इति कातन्त्राः , अन्ये च ।

143
५९. मसी परिमाणे--इयत्तापरिच्छेदे । मसन् , मस्तः, मस्तवान् , मसकः, मस्ता--पञ्च परिमापके । मासः--पक्षद्धयपरिमितः कालः। मसनम् , मस्तम् , मस्तव्यम् , मसिः, मसनीयम् , मस्यम् , मास्यम्--एते परिमाणे ।
६०. लुट विलोडने--लुट्यति विलोडयति । लुट् , लोटन् , लोटकः, लोटा = चत्वारो विलोडके । लोटनम् , लोटव्यम् (?), लुटम् , लुटिः-- एते विलोडने।
६१. उच समवाये--सम्बन्धे । उच्यति--समवैति । उक् , ओचन् , ओचकः, उक्तम् , उक्तवान् , ओक्ता--षट् सम्बन्धके ( संबन्धिनि ) । उक्तम् , उक्तिः, ओचनम् , ओचनीयम्--चत्वारः सम्बन्धे ।
६२. भृशु भ्रंशु अधःपतने--नीचैः पतने । भृश्यति--अधः पतति । भर्शन् , भर्शकः, भर्ष्टः, भर्ष्टवान् , भर्ष्टा--अधः पतितः । भृशम् , भृष्टिः, भृष्टम् , भर्ष्टव्यम् , भर्शनीयम् , भर्श्यम् , भार्श्यम् = नीचैः पतने । भ्रंश्यति1 --पतति । भ्रंशन् , भ्रंशकः, भ्रष्टवान् , भ्रष्टा--पञ्च नीचैः पतिते । अपभ्रंशः--विकृतः शब्दः । भ्रंशनम् , भ्रंशनीयम् , भ्रष्टम् , भ्रष्टिः, भ्रष्टव्यम्--अधः पतने।
६३. कृश तनूकरणे--कार्श्ये । कृश्यति--तनूकरोति । कृशानुः--अग्निः । कर्शन् , कर्शकः, कृष्टः, कृष्टवान् , कर्ष्टा--पञ्च तनूकर्तरि । कृष्टम् , कृष्टिः, कर्शनम् , कर्शनीयम् , कार्श्यम् , कर्शितव्यम्--तनूकरणे ।
६४. ङितृषा2 पिपासायाम् -- तृष्यति--पिपासते । तर्षम् , तर्षकः, तर्ष्टा, तृष्टः, तृष्टवान्--[ पञ्च ] पिपासके । तृष्टा, तृष्टिः, तृष्यम् , तर्षणम् , तर्षणीयम् , तर्षितव्यम् , तर्ष्यम् , तार्क्ष्यम्--अष्टौ पिपासने ।
६५. तुष हृष पुष्टौ ------पोषणे । तुष्यति--आनन्दति । तुष्टः, तुष्टवान् , तोषकः, तोष्टा--चत्वारः संतोषिणि । तोषः, तोष्यम् , तौष्यम् , तुष्टम् , तोष्टव्यम् , तोषणम् , तोषणीयम्--सप्त संतोषे । हृष्यति--हृष्टो भवति । हृष्टः, हृष्टवान् , हर्षकः, हर्ष्टा, हर्षन्--पञ्च संतोषके । हर्षः, हर्षणीयम् , हर्षितव्यम् , हर्ष्यम् , हार्ष्यम् , हृष्टम् , हृष्टिः--सप्त सन्तोषे । रोमहर्षणः--पुलकाङ्कनः ( भयङ्करः)।

टिप्पणी


१. इह 'अनुषङ्गस्य लोपः' (१।६ धातुसूत्रे) इत्यनेन 'अनुषङ्गलोपोऽनुनासिकानाम्' (१।३७१ धातुसूत्रे) इत्यनेन वाऽनुस्वारस्य लोपः प्राप्नोति स कथमत्र न भवतीति वृत्तिकृतानोक्तम् (पाणिनीया अपि 'भ्रश्यति' इत्येवोदाहरन्ति )। उत्तरत्र कृदन्तेषु क्वचित् लापो निर्दिश्यते, तदपि विचारणीयम् ।
२. ञितृषा इति कातन्त्रा अन्ये च वैयाकरणाः।
३. 'तुष्टौ' इति कातन्त्रा अन्ये च वैयाकरणाः । वृत्तिकारोऽप्युदाहरणार्थनिर्देशे संतोषार्थमेव प्रायेण निर्दिशति।

144
६६. कुप क्रुध रुष रोषे--कुप्यति--क्रुद्धो भवति । कुपितः, कुपितवान् , कोपिता, कोपन् , कोपकः--पञ्च क्रुद्धे । कोपः, कोपनम् , कुपितम् , कुपितिः, कुपितव्यम् , कोपनम् , कोप्यम् , कौप्यम्--नव कोपने । कौपम् , कौपुः--कौपीनम् , 'कच्छा' इति प्रसिद्धं वा । क्रुध्यति--कुप्यति । क्रुद्धः, क्रुद्धवान् , क्रोधकः, क्रुत्--चत्वारः कोपितरि। क्रोधिः, क्रोधनः--वर्षविशेषस्य नाम । रुष्यति--रुष्टो भवति । रुष्टः, रुष्टवान् , रोषकः, रोषी--चत्वारो रुष्टे । रुट् , रोषणम् , रोषणीयम् , रोष्यम् , रौष्यम् , रोषः--षट् कोपने ।
६७. डिप1 क्षेपे--स्थापने । डिप्यति--रक्षति स्थापयति । डेपन् , डेपकः, डिप्तः, डिप्तवान् , डेप्ता--[ पञ्च ] रक्षके । डिप्तिः डिप्तम् , डेप्तव्यम् , डेपनम् , डेपनीयम् , डेप्यम् , डैप्यम् , डेपः, डिप्--नव रक्षणे, स्थापने ।
६८. ष्टृप2 समुच्छ्राये—विस्तारे3 ('फैलाना = पसारना' इति भाषायाम् ) । स्तृप्यति--विस्तारयति । स्तृप्तः, स्तृप्तवान् , स्तर्पन् , स्तर्पकः, स्तर्पः---- पञ्च विस्तारके । स्तृप्तिः, स्तृप्तम् , स्तर्पणन् , स्तर्पणीयम्--चत्वारो विस्तरणे ।
६९. गुप व्याकुलत्वे -- गुप्यति--व्याकुलो भवति । गुप्तः, गुप्तवान् , गोप्ता, गोपः, गोपकम्--पञ्च व्याकुले । गुप्तिः, गुप्तम् , गुप्तव्यम् , गोपनम् , गोपनीयम् , गोप्यम्--व्याकुलत्वे ।
७०. युप रुप लुप विमोहने--जागरणे4 । युप्यति--जागर्ति । योपकः, योपः, योप्ता, युप्तः, युप्तवान्--पञ्च जागरूके । युप्तिः, युप्तम् , योप्तव्यम् , योपनम् , योपनीयम् , योप्यम् , यौप्यम्--सप्त जागरणे5 । [रुप्यति.... । लुप्यति...] ।
७१. लुभ गार्ध्ये--अभिकाङक्षायाम् । लुभ्यति--अभिकाङ्क्षति । लोभन् , लुब्धः, लुब्धवान् , लोब्धा, लोभकः--पञ्चाभिकाङ्क्षके । लुब् , लुप् , लोभः, लोभनम् , लोभनीयम् , लोब्धव्यम्--षट् महत्त्वाकाङ्क्षायाम् ।
७२. क्षुभ संचलने--कम्पने। क्षुभ्यति--कम्पते । क्षोभन् , क्षोभकः, क्षोब्धा, क्षुब्धः, क्षुब्धवान्--पञ्च संचारिणि कम्पके । क्षुप् , क्षुब् , क्षोभः, क्षोभणम् , क्षोभणीयम् , क्षोभ्यम्--षट् संचलने ।

टिप्पणी


१. 'डिब्बा, डिपो' इति भाषान्तरीयशब्दयोरप्ययमेव मूलधातुः स्यात् ।
२. 'स्तूप' इति कातन्त्रा अन्ये च केचन वैयाकरणाः ।
३. समुच्छ्रायः सम्यगुत्त्थापनम्, यूपादीनां गर्ते रोहणम् ।
४. विगतं मोहनं यस्मिन् तत्--इति समासेऽर्थोऽयमुपपद्यते ।
५. इतोऽग्रे द्वयोर्धात्वोर्व्याख्यानं नष्टम् ।

145
७३. णभ तुभ हिंसायाम्--नभ्यति--हिनस्ति । नभस्--आकाशः । तुभ्यति--ताडयति । तोभन् , तोभकः, तुब्धः, तुब्धवान् , तोब्धा--पञ्च कशायाम् ('चाबक' इति भाषायाम )। तुब्धिः, तुब्धम, तोब्धव्यम्, तोभनम, तोभनीयम् . तोभः, तोभ्यम् , तुप--अष्टौ ताडन क्रियायाम् ।
७४. क्लिदू आर्दीभावे--क्लिदयति--आर्दीभवति। क्लेदन , क्लोदकः, क्लिन्नः, क्लिन्नवान्--चत्वार आर्दै । क्लिन्निः, क्लिन्नम् , क्लेदनम् , क्लेदनीयम् , क्लेद्यम्आर्दीभवने ।
७५. बिमिदा स्नेहने--मेद्यति--स्निह्यति । मेदन् , मेदकः, मिन्नः, मिन्नवान्-- चत्वारः ] स्नेहके । मिन्नः--आकाशः (१)।
७६. निविदा मोचने--त्यागे । क्ष्विणः, विण्णवान् , क्ष्वेदकः--त्रयः त्याजके । श्वेदनम् , श्वेदनीयम् , श्वित् , क्ष्विप्तिः (१, वित्तिः ), क्ष्विण्णम् , श्वेत्तव्यम्--घट मोचने।
७७. रुधु वृद्धौ--रुभ्यति--वर्धते । रुत् , रोधकः, रोद्धा, रुद्धः, रुद्धवान्पञ्च वर्धके । विरोधी--संवत्सरविशेषस्य संज्ञा, शत्रुः । रोधनम् , रोधनीयम् , रोद्धव्यम् , रोध्यम् , रुद्धम् , रुद्धिः--षट् वर्धने ।
७८. गृधु अभिकाङ्कायाम्--बालाकाङ्कायाम् (१) । गृध्यति--बालाकाङ्क्षाविशिष्टो भवति । गृद्धः, गृद्धवान् , गर्धकः, गर्धा, गृध्नुः--पञ्च बालाकाक्षिणि । गर्धनम् , गर्धनीयम् , गृद्धम् , गृद्धिः, गर्धव्यम् , गाय॑म् , गय॑म् , गृत्--अष्टौ बालाकाङ्क्षायाम् ।
अनुदात्तङानुबन्ध आत्मनेपदम्--अनुदात्तस्वरानुबन्धो ङकारानुबन्धश्च घातुरात्मनेपदं भवति ।
स्वरितबानुबन्ध उभयपदम्--स्वरितस्वरानुबन्धो ञकारानुबन्धश्च धातुस्भयपदं भवति ।

टिप्पणी


१. 'क्लिन्दू' इति कन्नडलिपिमुद्रितोऽपपाठः व्याख्याने 'क्लिद्यति' आदिपाठदर्शनात् ।
२. 'ऋधु' इति कान्तन्त्राः, अन्यै च वैयाकरणाः । अयमेव च युक्तः पाठः। अत्र धातुसूत्रे तव्याख्याने च ऋकारस्थाने 'रु' निर्देशो दक्षिणात्यानाम् ऋकारस्य 'रु' रूपोच्चारणजन्यः प्रतीयते । तज्जन्यश्च रोधकः रोद्धा विरोधी आधुदाहरणेषु कृतगुणको 'रो' निर्देशो द्रष्टव्यः ।
३. एषु त्रिष्वपि सूत्रेषु 'अनुदात्तङानुबन्धः, स्वरितञानुबन्धः, उदात्तानुबन्धः' आदिषु प्रथमयानिर्देशः क्रियते, तथा सत्यर्थनिर्देशो नाञ्जसावकल्पते । कातन्त्रे (३।४।४२--४७) ऽन्यैषु च व्याकरणेषु पञ्चम्या निर्देश उपलभ्यते ।
४. पाणिनीयाः स्वरितञानुबन्धेभ्यः कञभिप्राय क्रियाफल एवात्मनेपदं विदधते ( एवं तदनुयायिनश्चान्द्रादयोऽपि ) । परन्तु काशकृत्स्ने कातन्त्रे च न तथा वैशिष्ट्यमुपलभ्यते । तथा चोक्तं वर्धमानेन----
विशेषः पाणिनेरिष्टः सामान्यं सर्ववर्मणः ।
सामान्यमनुगृह्णन्ति तत्राचार्यपरम्परा ॥ इति ।
अत्र विशेषो वोपदेवकृतकविकल्पद्रुमस्य दुर्गादासविद्यावागीशकृतायां धातुदीपिकायां (पृष्ठे ८ ) द्रष्टव्यः।

146
उदात्तानुबन्धः परस्मैपदम्----उदात्तास्वरानुबन्धो धातुः परस्मैपदं भवति ।1
७९. षूङ् प्राणिप्रसवे--जनने । सूयते--प्रसूते । सवानः--प्रसवकर्त्ता । सवनम्--प्रसवः।
८०. दूङ् परितापे--श्रमे । दूयते--श्राम्यति । दूतः, दूतवान् , दूनः, दवः, दाव्यम् (?), दवानः, दवकः--सप्त श्रमिणि । दूतः, दूतिः, दवनम् , दवनीयम् , दव्यम् , दाव्यम्--षट् श्रमे ।
८१. दीङ् क्षये--दीयते--क्षयति । दीनः, दयानः--क्षययुक्तः। दीनम् , दयनम् , दयनीयम्--क्षयक्रिया ।
८२. धीङ् अनादरे--धयते--अनादरं करोति । धीनः, धयानः--अनादरिता । धीनम् , धीतिः, धयनम् , धयनीयम्--चत्वार अनादरे ।
८३. मीङ् हिंसायाम--मीनः--मत्स्यः । मयानः, मयः--घातकः । । मीनम् , मीतिः, मयनम् , मयनीयम्--चत्वारो हिंसायाम् ।
८४. रीङ् श्रवणे--रीयते--शृणोति । रीणः, रयाणः--द्वौ श्रोतरि । रीतिः--क्रमः । रयणम् , रयणीयम्--श्रवणम् ।
८५. लीङ् श्लेषणे--आलिङ्गने । लीनः, लयानः--आश्लेष्टा । लीतः, लयनम् , लयनीयम्--त्रय आलिङ्गने ।
८६. डीङ् विहायसा गतौ--पक्षिगतौ । डीयते--विहायसा गच्छति । डीनः, डयानः--पक्षी । डीतिः, डयनम् , डयनीयम्--त्रयः पक्षिगत्याम् ।
८७. व्रीङ् वरणे--आवरणे सामीप्ये । व्रीयते--मिलति आवृणोति । व्रीणः, व्रयाणः--द्वौ मेलके । व्रीतिः, व्रयणम् , व्रयणीयम्--त्रया मेलने आवरणे च ।

टिप्पणी


१. निरनुबधेभ्यो भू--आदिभ्यो धातुभ्यः परस्मैपदविधायकं सूत्रं नोद्धतं वृत्तिकृता। कातन्त्रे तु 'शेषात् कर्त्तरि परस्मैपदम्' (३।४।४७) इति सूत्रं दृश्यते।

147
८८. पीङ् पाने । पीनः, पयानः--पायकः। पीतिः, पयनम् , पयनीयम्--त्रयः पान कर्मणि ।
८९. माङ् माने--परिमाणे | मयते--परिमिमीते। माता, मायमानः--परिमापकः । मानम् , मायनम् , मायनीयम्--मानदण्डम् (मानसाधनम् )।
९०. ईङ गतौ--ईयते--गच्छति । ईनः, अयानः--गमकः । ईः, ईतिः, अयनम्, अयनीयम्--गत्याम् ।
९१. प्रीङ् प्रीती--प्रेमणि । प्रीयते--प्रेम करोति । प्रीणः, प्रयाणः--प्रीतिकर्ता । प्रीतिः, प्रयणम् , प्रयणीयम्--त्रयः प्रीतिकर्मणि ।
९२. जनी प्रादुर्भावे--उत्पत्तौ । जायते--उत्पद्यते । जायमानः, जनिता, जनकः----त्रय उत्पादके पितरि । जन् , जानुष् , जनिः, जननम् , जननीयम् , जन्मन्--षट् उत्पत्तिकर्मणि । जननी, जनयित्री--द्वौ मातरि ।
९३. दीपी दीप्तौ--प्रकाशे । दीप्यते--प्रकाशते । दीपानः, दीप्तः, दीप्तवान् -- त्रयः प्रकाशितरि । दीप्रः, प्रदीपः, दीपकः--त्रयो महति दीपे । दीपाळिका--लघु दीपम् । दीप्तम् , दीप्तिः, दीपनम् , दीपनीयम् , दीप्यम् , दीप्तम् , दीप्तव्यम्--सप्त प्रकाशने।
९४. पूरी(पूरो?) आप्यायने--पूरणे । पूर्यते--भरति । पूरकः, पूरितः, पूर्तः, पूर्तवान् , पूरितवान्--पञ्च आप्यापके भरके। पूर्तिः, पूर्णम् , पूरणम् , पूरणीयम् , पूर्तव्यम्--पञ्च भरणे आप्यायनकर्मणि ।
९५. जूरी जीर्णे--नाशे । जूर्यते--जीर्यति नश्यति । जूर्णः, जूर्णवान् , जूराणः--त्रयो जीर्णभवितरि । जूरणम् , जूरणीयम् , जूर्यम्--त्रयो नाशे जीर्णीभावे ।
९६. तूरी त्वरणहिंसनयोः--शीघ्रतायां हिंसने च । तूर्यते--शैघ्र्यमाचरति । तूराणः, तूरकः--त्वरिता । तूर्णम् , तूरणम् , तूरणीयम् , तूर्यम--शैघ्र्ये।
९७. धूरी गूरी घूरी हिंसायाम्--धूर्यते--हिनस्ति । धूराणः, धूरकः, धूर्णः, धूर्णवान्--चत्वारो हिंसके । धूरणम् , धूरणीयम् , धूर्तिः--त्रयो मारणे । धूर्तः--मत्तः (? कपटाचारी)। गूर्यते--ताडयति1 । गूराणः, गूरः, गूरकः, गूर्णः, गूर्णवान् ,--[पञ्च] ताडके । गूरणम् , गूरणीयम् , गूर्यम् , गूर्तव्यम्--चत्वारस्ताडने । घूर्यते--खटखटा करोति2 । घूराणः, घूरकः, घूर्णः, घूर्णवान्--खटखटायकः । घूरणम् , घूरणीयम् , घूर्यम् , घूर्ति--खटखटाकरणे ।

टिप्पणी


१. पूर्वमीमांसायामवगोरणाधिकरणे ( ३।४।१०) 'तस्माद् ब्राह्मणाय नावगुरेत' इति श्रुतिव्याख्याने अवगोरणं वध इत्येके, वधोऽपि ताडनमात्रमित्यन्ये, ताडनार्थं दण्डोद्यमनमात्रमिति खण्डदेवः, अवज्ञामात्रमिति माधवः ।
२. रोषयुक्तेन चक्षुषा दर्शनं भाषायां 'घूरना' क्रिययोच्यते ।

148
९८. शूरी स्तम्भे--स्थिरीभावे । शूर्यते--स्थिरो भवति । शूरः, शूरकः, शूराणः, शूर्ता--स्थाता। शूरणम् , शूरणीयम् , शूर्तव्यम् , शूर्तिः--स्थिरीभावे ।
९९. चूरी दाहे--ज्वलने । चूर्यते--ज्वलति । चूरकः, चूरः--ज्वलिता। चूर्णम् , चूर्तिः, चूर्तव्यम्--ज्वलने।
१००. तप ऐश्वर्ये च--ऐश्वर्ये [चाद् ] दाहे सन्तापे च । तप्यते--ऐश्वर्ययुक्तो भवति । तप्यः, तप्तः, तप्तवान् , तपकः--धनाढ्यः । तपनः--सूर्यः । ताप्ती--नदी । तप्तम् , तप्तिः, तपनीयम् , तप्यम्--चत्वार ऐश्वर्ये ।
१०१. वृतु1 वरणे--आवरणे । वृत्यते--आवृणोति । वर्तकः, वर्तमानः--आव्रियमाणः । वृत्रम्--शत्रुः। वृत्तिः, वार्ता, वृत्तान्तः--त्रयो वार्तायाम् (वर्तने)।
१०२. क्लिश उपतापे--परिश्रमे । क्लिश्यते--श्रान्तो भवति । क्लेशकः, क्लेशानः, क्लिष्टः, क्लिष्टवान्--श्रमिकः । क्लिष्टम् , क्लिष्टिः, क्लेशः, क्लेशनम् , क्लेशनीयम् , क्लेश्यम् , क्लेष्टव्यम्--सप्त श्रमे ।
१०३. कासृ2 दीप्तौ--प्रकाशे । कास्यते--प्रकाशते । कासानः, कासकः--प्रकाशकः । कासारः--लघुतडागः, पुष्करः ( 'पोखरा' इति भाषायाम् )। कास्मीरः--काश्मीरः, कुङ्कुमम् ('केसर' इति प्रसिद्धम् )। कासः, कासिः, कासम् , कासनीयम् , कास्यम्--पञ्च प्रकाशने । कासुः--[ ताम्रपणम् ('पैसा' इति भाषायाम् )। कासा--कटिः, स्वयम् (?)। कासिनी--कमलसरोवरः।
१०४. वासृ3 शब्दे--ध्वनौ । वास्यते--शब्दयति । वासानः, वासकः--शब्दयिता। वासुः--वीणा । वासरः--दिनम्, परिमाणम् । वासना--दुर्वासना, पूर्वकर्मफलम् ।
१०५. पद गतौ--भूषणे (?)। पद्यते--भूषणं धारयति ( ? )। पदानः, पत्तः, पत्तवान्--भूषणधारकः (?)। पदकम्--कण्ठाभरणम् । पतस्यः (?)--नीलमणिः । पदवी--ऐश्वर्यम् । पदम् , पत् , पादः--त्रयश्चरणे । पदलम्--संतोषः । पत्तम्--भगः । पत्तिः--तूलम् (रूई)।

टिप्पणी


१. कातन्त्रीयाः 'तप ऐश्वर्ये वावृतु वर्तने' इति पठन्ति । ये वा--शब्दं 'तप ऐश्वर्ये वा' इत्येवं संबध्नन्ति काशकृत्स्नपाठानुरोधेन तेषां 'वा' पदं समुच्चायकं भवितुमर्हति, न विकल्पार्थकम् ।
२. 'काशृ' इति तालव्यशकारं कातन्त्राः पठन्ति, अन्ये च वैयाकरणाः । तेषां मते धातूदाहरणेष्वपि काश्यते काशानः काशक इत्येवमादीनि रूपाणि ज्ञेयानि ।
३. 'वाशृ' इति कातन्त्रा अन्ये च वैयाकरणाः। तेषां मते धातूदाहरणेष्वपि वाश्यते वाशान इत्येवमादीनि रूपाणि द्रष्टव्यानि ।

149
१०६. खिद दैन्ये--दीनतायां, दुःखे। खिद्यते--दुःखितो भवति । खेदानः, खेदकः--दुःखी । खित्तिः, खित्तम् , खेदः, खेदनम् , खेदनीयम् , खेत्तव्यम्--दुःखम् ।
१०७. विद सत्तायाम्--विद्यते--भवति । वेदानः, वेदकः, वित्तिः, वित्तवान्--चत्वारो भवितरि । वित्तिः, वेदनम् , वेदनीयम् , वेद्यम् , वेत्तव्यम्--पञ्च भवने सत्तायाम् । वित्तम्--द्रव्यम् ।
१०८. बुध अवगमने--ज्ञाने । बुध्यते--जानाति । बोधः--वेदपुरुषः । बोधायनः--वेदशाखा1 (?)। बुत् , बुद् , बोधकः, बुद्धः, बुद्धवान् , बोद्धा, बोधानः--सप्त ज्ञातरि । बोधनम्, बोधनीयम् , बोध्यम्, बोद्धव्यम्, बुद्धिः, बुद्धम् , बौध्यम्--सप्त ज्ञाने।
१०९. युध सम्प्रहारे--विकर्तने । युध्यते--विकृन्तति । योद्धा, योधकः, युद्धः, युद्धवान्--चत्वारो विकर्तके । युद्धम्, युद्धिः, योद्धव्यम् , योधनम् , योधनीयम् , योध्यम्--षट् विकर्तने । अयोध्या--एतन्नाम्नी नगरी ।
११०. अनो रुध कामे--अवरोधने2 (?) अनुरुध्यते--अवरुणद्धि (?)। अनुरोद्धा, अनुरुद्धः, अनुरुद्धवान् , अनुरोधकः--चत्वारोऽवरोधके (?)। अनुरुद्धम् , अनुरुद्धिः, अनुरोधनम् , अनुरोधनीयम्--चत्वारोऽवरोधने (?)।
१११. मन ज्ञाने--मन्यते--जानाति । मन्ता, मनकः, मनानः, मतः, मतवान्--पञ्च ज्ञानिनि । मन्त्रः--देवतानामोच्चारणम् । मनुः--मन्त्रः, देवताभेदः। मनुजः, मनुष्यः, मानवः--त्रयो मनुपुत्रे । मतिः, मतम्--समयः। मननम् , मननीयम्, मन्तव्यम्--मननयोग्यम् । मन्युः--क्रोधः। मान्यः--पूज्यः। मनस्--क्रमः, मनः । उपमन्युः--मुनिः । मनाक्--एकपक्षीयः (?)।
११२. अन प्राणने--चेतने । अन्यते--प्राणिति । अन्यः--परः। अन्ता, अनकः, अतः, अतवान् (?)--चत्वारः प्राणयुक्ते । अन्त्रम्--उदरावयवः ('आँत' इति भाषायाम् )। अति--अधिकम् । अन्तम् (?, अन्नम् )--आहारः । अन्तव्यम् , अननम् , अननीयम्--त्रयः प्राणने । अनिलः--वायुः। अनलः--अग्निः । आन्--उत्तमः पुरुषः।

टिप्पणी


१. बोधायनः कृष्णयजुःशाखाप्रवर्तको मुनिविशेषः, यत्प्रोक्तं बौधायनं कल्पसूत्रं प्रसिद्धम् । पूर्वोत्तरमीमांसायाः कृतकोटिनामधेयं व्याख्यानमप्यनेन कृतमिति प्रपञ्चहृदयकार आह [ पृष्ठ ३९ द्र०]।
२. कन्नडवृत्तिकारस्यार्थनिर्देशोऽत्र चिन्त्यः । अनुपूर्वो रुधिरिच्छार्थे प्रयुज्यते । तथैव चान्ये वैयाकरणा व्याचक्षते । 'इति करोतु भवान् इत्यनुरुध्ये', इत्येवं वाऽवरोधनं ज्ञेयम् ।

150
११३. युज समाधौ--एकाग्रचित्ते । युज्यते--मिलति । योक्ता, योजानः, युक्तः, युक्तवान्--मेलकः। अश्वयुक्--नक्षत्रविशेषः । योजनम्--अध्वपरिमाणविशेषः । योक्तव्यम् , योजनीयम्, योज्यम् ,युक्तिः, युक्तम्--पञ्च मेलने ।
११४. सृज विसर्ग--परित्यागे । सृज्यते-- त्यजति । स्रष्टा--ब्रह्म । सर्गकः (?)--सृष्टिकर्ता । सर्जः--सिंहः । सर्जनम् , सर्जनीयम् , सर्क्तव्यम् (?) सर्गः, सृष्टम् , सृष्टिः--प्रक्षेपणे (?)। प्रतिसर्गः--नाशः । विसर्गः--अक्षरविशेषः । निसर्गः --निश्चयः । उत्सर्गः--परित्यागः, सामान्यम् । संसर्गः-- मेलनम् ।
११५. लिश अल्पीभावे--अल्पत्वे । लिशति (?, लिश्यते)--अल्पं भवति । लेष्टा, लेशकः, लिष्टः, लिष्टवान्--चत्वारोऽल्पमात्रके। लेशः, लेश्यः, लिष्टिः, लिष्टम् , लेशनम्, लेशनीयम् , लेष्टव्यम् , लिट्--अल्पे ।
११६. शक मृष क्षमायां च--सहनेऽपि1 । [शक्यति, ] शक्यते--सहते । शकः--देशः, कालः । शाकम्--व्यञ्जनम् । शकुन्तः, शकुन्तलः--पक्षी । शाकिनी--राक्षसी। शक्तः, शक्तवान् , शक्ता, शककः--सहनशीलः । शकुनम्--सिद्ध्यसिद्धिनिमित्तम् । शकुनिः--पक्षी । शकनम्, शकनीयम् , शक्यम् ,शाक्यम् , शक्तम्--पञ्च सहने । शक्तिः--देवता, वशिष्ठ--पुत्रः । शाक्तेयः--पराशरः । शाक्तम् , शाक्तेयम्--दुर्गामतम् । मृष्यति, मृष्यते--मिथ्या वदति । मृष्टः, मृष्टवान्, मर्षकः, मर्ष्टा, मर्षन् , मर्षाणः--मिथ्यावाची, सहनकर्ता । मृष्टिः, मृष्टम्, मृष्टव्यम् (?), मर्षणम् , मर्षणीयम्--[ पञ्च ] सहने । मृट् , मृषा--मिथ्या ।
११७. ईशुचिर पूतीभावे--पवने । शुच्यति, शुच्यते--पवते । शोक्ता, शोचकः, शुक्तः, शुक्तवान् , शुक्--पवित्रे। शुक्तिः, शुक्तिका--जलजो द्रव्यविशेषः ('सीप' इति भाषायाम् )। शुचिः--अग्निः, पवित्रम् । शुक्तम् , शोक्तव्यम् , शोचनम्, शोचनीयम् , शोच्यम् , शौचम्, शौच्यम्--सप्त निर्मलीभावे ।
११८. णह बन्धने--नह्यति, नह्यते--बध्नाति । नट् , नाढा, नाढः, नाढवान् , नहन् , नहानः, नहतः (?, नहकः )--सप्त बन्धके । उपानट्--पादरक्षकः ( 'पगरखी,जूता' इति भाषायाम् )। नाढम् , नाढिः, नहनम् , नहनीयम् , नह्यम् , नाह्यम् , नाहम् , नक्तव्यम्--अष्टौ बन्धने। नक्तम्--रात्रिः। नहुषः--सर्पः, एतन्नामा राजा।
११९. रञ्ज रागे--वर्णे । रज्यति, रज्यते--आलपते गायति । रक्ता, रक्तः, रक्तवान् , रञ्जकः, रागी--विषयी, रक्तवर्णः। रक्तम्--लोहितम् । रजस्--रजः ।

टिप्पणी


१. चात्कोऽर्थः समुच्यीयत इति न ज्ञायते । कातन्त्रपाठे चकारो नास्ति ।

151
रजस्वला--पुष्पवती, ऋतुमती । रङ्गुः, रक्तिः, रक्तिमा, रागः--चत्वारो रक्तवर्णे । रङ्गः--नर्तनस्थानम् , रङ्गवल्ली। रजतम्--श्वेतायः ('चांदी' इति भाषायाम् ) । रजकः--वस्त्रधावकः। रजनी--रात्रिः। रजम्--धूलिः, पांशुळम् । रजनरिका--अवस्करस्थानम् , ( कूड़ा डालने का स्थान )। रजकम्--अग्निचूर्णम् ('बारूद' इति भाषायाम् )।
१२०. शप आक्रोशे--निन्दायाम् । शप्यति, शप्यते--निन्दयति । शपन् , शपानः, शप्तः, शप्तवान् , शप्ता, शपकः--षट् निन्दके । शपनम्1, शपनीयम् , शप्तव्यम् , शापः, शपथः, शप्तम् , शप्तिः--सप्त निन्दायाम् ।
[इति यन्--विकरणो दिवादिगणः समाप्तः ]

टिप्पणी


१. शपनं प्रकाशनमित्यपीति भागवृत्तिकारः । द्र० भागवृत्तिसंकलनम् ( अ० १।३।२१, पृष्ठ ७)।