काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/प्रथमाधिकरणम्/प्रथमोऽध्यायः
॥ श्रीः ॥
॥ काव्यालंकारसूत्रवृत्तिः॥
॥ कामधेनुसहिता ॥
प्रथमाधिकरणम् ॥
प्रणम्य परमं ज्योतिर्वामनेन कविप्रिया । |
॥ श्रीः ॥
कल्याणानि करोतु नः स भगवान्क्रीडावराहाकृत्ति- |
नमस्कुर्वे स्वर्वेतरविविधविद्याविलसिता- |
अथ ग्रन्थकारः स्वकर्तृकाणि सूत्राणि व्याकर्तुकामः, प्रारम्भ एव प्राचीनाचार्यपरंपरासमाचारपरिप्राप्तकर्तव्यभावेतिकर्तव्यताविशेषरूपमङ्गलानुष्ठानेन स्वयं प्रारिप्सितग्रन्थपरिसमाप्तिपरिपन्थिप्रत्यूहव्यूहप्रतिहननप्रगल्भसमग्रदेवतानुग्रहसपन्नोडपि, व्याख्यातृश्रोतृणामविघ्नव्याख्यानश्रवणलाभाय ग्रन्थादौ तन्मङ्गलनिबन्धनपूर्वकं तत्रवृत्तिसिद्धये विषयप्रयोजनादि निर्दिश्य दर्शयन्नाद्येन पद्येन कर्तव्यं प्रतिजानीते--प्रणम्येति । भक्तिश्रद्धातिशयलक्षणः प्रर्कषः प्रशब्देनात्र प्रकाश्यते, तादृगेव हि मङ्गलमन्तरायसंतानशान्ति संतनोति । अन्यथा कृतायामपि नतौ प्रारिप्सितग्रन्थपरिसमाप्तिं न संपादयेत् , किरणावल्यादौ तथा दर्शनात् । अथ कथमिह नमिः सकर्मकः स्यात् , प्रह्लीभाववृत्तेरस्याकर्मकत्वात् ‘नमन्ति शाखा नवमञ्जरीभिः' इत्यादिप्रयोगदर्शनाच्च । न चायमुपसर्गवशात्सकर्मकः , प्रशब्दस्य प्रकर्षमात्रार्थत्वेन कर्मसंबन्धोपपादकत्वायोगात्; ‘नमामि देवम्' इत्यादावुपसर्गस्याप्यभावात् । न चायमन्तभावितण्यर्थः, अनौचित्यप्रसङ्गादिति-- तदेतत्पाणिनिफणितिपारायणपरिणतान्तःकरणानामस्माकं चेतसि चोद्यं न चातुरीमाचरति । तथा हि । यथा जयतिरकर्मकः प्रकर्षेण वर्तने, पराजये तु सकर्मकः ; तथा नमिधातुः क्वचित्प्रह्वीभावार्थः, क्वचिन्नमस्कारार्थश्च भवति । तत्र यदा प्रह्लीभावमात्रविवक्षया प्रयुज्यते, तदानीमेषोऽकर्मकः । यदा नमस्कारार्थविवक्षया प्रयुज्यते, तदा सकर्मक इति विवेकः । यद्येवं तर्हि ‘देवं प्रणतः' इत्यत्र कर्तरि क्तप्रत्ययो न सिध्येत्, ‘सकर्माकर्मकाद्धातोः क्तो भवेत्कर्मभावयोः' इति सकर्मकाद्धातोः कर्मणि क्तविधानात् , 'गत्यर्थाकर्मकादिषु नमेः परिगणनाभावाच्चेत्यपि न चोदुनीयम्। 'व्यवसितादिषु क्तः कर्तरि चकारात्' इतीहैव वक्ष्यमाणेन सूत्रेण नमेरपि कर्तरि क्तप्रत्ययसंभवात् । व्यवसितः प्रतिपन्न इत्यादिषु गत्यर्थादिसूत्रे चकारानुक्तसमुच्चयार्थात्कर्तरि क्तप्रत्ययो भवतीति हि तस्य सूत्रस्यार्थः । परमं परिदृश्यमानज्योतिःपरिपाटीमतिवर्तमानम् । ज्योतिः चिन्मयम् । ‘परमं ज्योतिः प्रणम्य' इत्यत्र वाक्यार्थसामर्थ्येन, निखिलनिगमनीरजराजिराजहंसस्य परमहंसभावनापदवीदवीयसः परस्य ब्रह्मणो यत्पारमार्थिक रूपम्, तदेव प्रणिधान बलेन प्रमुषितविषयान्तरप्रसङ्गे प्रहर्षतरङ्गितेऽन्तःकरणे प्रत्यक्षतोऽनुभवन्प्रणामप्रचयेन पर्यचदिति प्रतीतेः परमयोगित्वमस्य प्रबन्धुः प्रत्याय्यते । वामनेनेति । निजनामर्निर्देशो यशःप्रकाशनाय । कवीन् प्रीणातीति कविप्रीः ‘अन्येभ्योऽपि दृश्यते' इति किप्प्रत्ययः । तेन कविप्रियेति तृतीयान्तं कर्तृविशेषणम् , कवीनां प्रियेति प्रथैमान्तं वा कर्मविशेषणम् । काव्येति । कवनीयं काव्यम्' इति |
गत्यर्थाकर्मश्लिषपशीङ्स्थासवसञ्जनरुहजीर्यतिभ्यश्च । ३-४-७२,काव्यं ग्राह्यमलंकारात् ॥ १ ॥
काव्यं खलु ग्राह्यमुपादेयं भवति, अलंकारात् । कायशब्दोऽयं गुणालंकारसंस्कृतयोः शब्दार्थयोर्वर्तेते । भक्त्या तु शब्दार्थमात्रवच- नोऽत्र गृह्यते ॥
लोचनकारः। कवयति इति कविः, तस्य कर्म काव्यम्' इति विद्याधरः । कौति शब्दायते विमृशति रसभावान् इति कवि. तस्य कर्म काव्यम्' इति भट्टगोपालः । 'लोकोत्तरवर्णनानिपुणकविकर्म काव्यम्' इति काव्यप्रकाशकारः । भामहोऽपि प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तदनुप्राणनाजीवेद्वर्णनानिपुणः कविः ॥ तस्य कर्म स्मृतं काव्यम्' इति । तदेतत्काव्यशब्दव्युत्पत्तिकथनम् । चारुताशालि- शब्दार्थयुगलं काव्यमिति रूढोऽर्थः । तस्य अलंकारः अलंकृतिः । भावे घञ् । दोषहानगुणालंकारादानाभ्यामाधीयमानं सौन्दर्यमिति यावत् । तत्प्रतिपादकानि सूत्राणि, तेषाम् । सूत्रलक्षणमुक्तं भामहेन, <ref>अल्पाक्षरमसदिग्ध सारवत्सर्वतोमुखम् । अस्तोभतोमनवद्यं च सूत्रं सूत्रविदोविदुः ॥’<ref>अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । सम्यक्संसूचितार्थं यत्तत्सूत्रमिति कथ्यते ॥ इति । स्वेषामिति। सूत्रवृत्त्योरेककर्तृकत्वप्रतिपादनेन सूत्रकाराभिमतार्थप्रतिपादिनी वृत्तिः, वृत्तेरन्यकर्तृकत्व- शङ्काविरहश्चेत्युभयमप्युपक्षिप्यते । वर्तते अस्यां सूत्राणां यथावत्पदपदार्थविवेक इति वृत्तिः । अधिकरणार्थे क्तिन्प्रत्ययः । वृत्तिलक्षणमुक्तं भामहेन, सूत्रमात्र- स्य या व्याख्या सा वृत्तिरभिधीयते ।' इति । “काव्यालंकारसूत्राणां वृत्तिः' इत्य- नेन विषयसंबन्धौ सूचितौ। कविप्रिया' इत्यनेन अधिकारिप्रयोजने सूचिते । तदेतदनुबन्धचतुष्टयमुत्तरत्र विस्तरेण प्रतिपादयिष्यते ।
ननु काव्यस्य कः पुनरलंकारादुपकारः, येन प्रतिज्ञायमानं तत्सूत्रवृत्तिविधानं सफलं स्यादिति शङ्कामपनेतुमलंकारप्रयेाजनप्रतिपादकमादिमं सूत्रमुपादत्ते- काव्यमिति। खलु शब्दो वाक्यालंकारे। यद्वक्ष्यति * बाक्यालंकारप्रयोजनं तु नानर्थकम् , यथा-खलु हि हन्त' इति । काव्योपादाननिदानत्वादलंकारो भवत्युपयोगीति भावः । ननु काव्यमेव तावदुपादेयं चेत् , अलंकारस्यापि तदुपादानहेतुत्वमुपपद्येत । तत्सूत्रवृत्तिविधानं च सफलं स्यात् । तस्योपादेयत्वमेव कुत इति चेत् अत्र वक्तव्यम् - यत्काव्यमुपादेयं न भवतीति, तत्कस्य हेतोः ? न तावदृषिप्रणीतत्वाभावादनुपादेयत्वम् , वाल्मीकिबोधायनप्रभृतिभिरपि महर्षिभिः काव्यस्य प्रणयनात् । नापि पुरुषप्रणीतत्वात् , शास्त्रनिबन्धनानामपि तथात्वेनानुपादेयत्वप्रसङ्गात् । न च काव्यत्वात् , रामायणादावनैकान्तिकत्वात् । तस्यापि पक्षसमत्वशङ्कायामेकैकाक्षरोच्चारणेऽपि 'फलविशेषवचनविरोधः । नापि दृष्टप्रयोजनाभावात् , दृष्टप्रयोजनानां बहूनामुपदिष्टत्वात् । तथा चोक्तं काव्यप्रकाशे, 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इति । नाप्यदृष्टप्रयोजनाभावात् , स्वर्गापवर्गलक्षणम्यादृष्टप्रयोजनम्य शिष्टैरनुशिष्टत्वात् यदाहुः, 'धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्ति प्रीति च साधुकाव्यनिषेवणम् ॥' इति । काव्यादर्शेऽपि ' चतुर्वर्गफलायत्तं चतुरोदात्तनायकम्।' इति । इहापि ' काव्यं सत्....' इति वक्ष्यमाणत्वाच्च । अथ मन्यसे 'काव्यालापांश्च वर्जयेत् ' इति निषेधवचनादनुपादेयत्वं काव्यस्येति, तदप्यनालोचितचतुरम् । काव्यालापनिषेधवचनस्यासत्काव्यविषयत्वेन व्यवस्थापनात् । यदाह विद्यानाथः, “यत्र पुनरुत्तमपुरुषचरितं न निबध्यते तत्काव्यं परित्याज्यमेव । तद्विषया च स्मृतिः, काव्यालापांश्च वर्जयेदिति' इति । न केवलं विषयवैगुण्येनासाधुत्वं काव्यस्य, किंतु प्रबन्धुः प्रतिभादौर्बल्यकुलवैकल्याभ्यामपि भवति । तदुक्तं काव्यादर्शे, 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥' इति । कविगजाङ्कुशे, 'शुनीदुग्धमिव त्याज्यं पद्यं शूद्रकृतं बुधैः । गवामिव पयो ग्राह्यं काव्यं विप्रेण निर्मितम् ॥' इति । उत्तमपुरुषकथाकथनं तु काव्यं ग्राह्यमेव । तदुक्त भामहेन, ‘उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः ।' इति । भट्टोद्भटेनापि फणितम् , 'गुणालंकारचारुत्वयुक्तमप्यधिकोज्ज्वलम् | काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः ॥' इति । भोजराजेनापि कथितम् , 'कवेरल्पापि वाग्वृत्तिद्वित्कर्णावतंसति । नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः ॥' इति । किं बहुना । प्रतिपाद्यमहिम्ना प्रबन्धप्रशस्तिरिति शास्त्राणामपि समानमेतत् । तथा हि । न्यायवैशेषिकशास्त्रयोरिश्वरप्रतिष्ठापकतया पूवर्वोत्तरमीमांसयोधर्मब्रह्मप्रतिपादकतया च महनीयत्वम् । तत्त्वचिन्तायां तु शास्त्राणामपि काव्यमुखप्रेक्षितया कार्यकारित्वमित्युपनिषत् । यदाहुः, 'स्वादुकाव्यरसोन्मिश्रं
उपनिषत् रहस्यं सिद्धान्त इति यावत् । 'रसम्योपनिषत्परा' इति ध्वन्यालोके ।
काव्यमिति काव्यपदार्थकथनात् , कमनीयताशाली शब्द एव काव्यम् , अथवा अर्थ एवेति पृथक्पक्षद्वयं प्रत्यक्षेपि; यतो द्वयोः संभूयाह्लादनिबन्धनत्वमिति । तदुक्तं वक्रोक्तिजीविते, 'न शब्दस्य रमणीयताविशिष्टस्य केवलस्य काव्यत्वम् , नाप्यर्थस्य' इति । यद्यपि काव्यपदं गुणालंकारसंस्कृतशब्दार्थयुगलं स्वभावत
1. अत्रेदमवधेयम् । काव्यमुच्चैः पठ्यते, काव्यादर्थोऽवगम्यते, काव्य श्रुतमर्थो न ज्ञात इत्यादिविश्वजनीनव्यवहारतः शब्दविशेषस्यैव काव्यपदार्थत्वम् । तथा च 'रमणीयार्थप्रतिपादकः शब्दः काव्यम्' इति तल्लक्षणं युक्तमिति पण्डितराजः । 'वाक्य रसात्मक काव्यम्' इति लक्षयन्दर्पणकृदप्येनमेव पक्ष कटाक्षयति । प्राचीनपक्षपातिनस्तु, अर्थस्यापि शब्दद्वारा प्रतीतिविषयत्वान्न पूर्वोक्तव्यवहारानुपपत्तिः । इत्थमेव हि आत्मश्रवणवाक्यं समर्थितं सर्वैः । इदं च काव्यत्व न व्यासज्यवृत्ति, एको न द्वाविति व्यवहारस्येव श्लोकवाक्य न काव्यमिति व्यवहारस्याप्यापत्तेः । अर्थाज्ञानेऽपि शब्दावलीमात्रे काव्यत्वानुभवानुपपत्तेश्च । व्यासज्यवृत्तिधर्मप्रकारकनिश्चयस्य यावदाश्रयविषयकत्वनियमात् । नापि प्रत्येकपर्याप्तम् , एकस्मिन्पद्ये काव्यद्वयव्यवहारापत्तेः । शब्दानुपनिबद्धार्थतदनिबन्धकशब्दयोरतिव्याप्तेश्च । परं तु परस्परविशिष्टयोः शब्दार्थयोरेव काव्यत्वम् । तत्र च क्वचिच्छन्दविशिष्टोऽर्थः, क्वचित्वर्थविशिष्टः शब्दः काव्यमिति बोध्यम् । न त्वेकश्लोक एव द्विधा काव्यत्वम् , एकध। काव्यत्वेनैव व्यवहारोपपत्तेः। यत्रार्थी व्यञ्जना, तदभावेऽप्यर्थालंकारमात्रं वा; तत्रार्थो विशेष्य.। यत्र तु शाब्दी व्यञ्जना, तदभावेऽपि शब्दालंकारमात्र वा, तत्र शब्दो विशेष्य इत्येवं विनिगमनावधेया । उभयालकारसत्त्वे तु तत्तच्चमत्कारतारतम्य विनिगमकमवसेयमिति प्राहुः। कोऽसावलंकार इत्यत आह-
सौन्दर्यमलंकारः ॥ २ ॥
अलंकृतिरलंकारः । करणव्युत्पत्त्या पुनरलंकारशब्दोऽयमुपमादिषु वर्तते ।
एवाचष्टे, तथाप्यस्मिन्सूत्रे मुख्यार्थख्यानुपयोगलक्षणं बाधं पश्यन् शब्दार्थयुगलमात्रे तदुपचर्यत इत्याह---भक्त्येति । 'भक्त्या उपचारेण । गुणालंकारसंस्कृतत्वस्य पृथक्करणं मात्रचोऽर्थः । ननु मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥' इत्युक्तरीत्या मुख्यार्थबाधादौ सत्येवोपचारो वक्तव्यः । तथा च 'गुरुरभिवाद्यो गुरुत्वात्' इत्यत्र यथा गुरुशब्दपरिगृहीतस्यैव गुरुत्वस्य तदभिवादनहेतुत्वं दृष्टम् , तथैव अत्रापि अलंकारस्य काव्यग्रहणहेतुत्वमुपपद्यत इति कथं मुख्यार्थबाधः । चारुताशालिशब्दार्थयोः, शब्दार्थमात्रस्य च वस्तुत एकत्वाद्भेदनिबन्धनो दुर्घटः संबन्धः । 'काव्यं प्राह्यमलंकारात्' इति भेदनिर्देशेनैव गुणालंकारवैशिष्टयं तद्वयुत्पत्तिरूपं प्रयोजनं च संभवतीति कथमुपचारः? अत्रोच्यते---- यथा गुरुत्वादभिवाद्यः' इत्युक्ते गम्यत एव गुरुरिति, तथापि गुरुरित्युच्यमानमतिरिच्यते; एवमिहापि 'अलंकाराद्ग्राह्यम्' इत्युक्ते काव्यमिति गम्यत एव, तथापि काव्यमित्युच्यमानमतिरिच्यत इति पुनरुक्तप्रायत्वादनुपयुक्तमिति मुख्यार्थभङ्गः । न च अनुपयुक्तत्वेऽप्यनुपपत्तेरभावात्कथं मुख्यार्थबाध इति चोदनीयम् । यतो योग्यताविरहवत् आकाक्षाविरहोऽपि मुख्यार्थभङ्गहेतुः, अन्वयविघटनाविशेषात् । ततश्चानुषयुक्तावाकाङ्क्षावैकल्यम् , अनुपपत्तौ तु योग्यतावैकल्यमित्यवगन्तव्यम् । चारुताशालिशब्दार्थयोः शब्दार्थमात्रस्य च गुणभेदाद्भेदे सति सादृश्यलक्षणः संबन्धः । गुरुपदोपलक्षिते पुंसि हितानुशासनकौशलादिप्रतिपत्तियत् , शब्दार्थयोर्गुणालंकारवैशिष्टयप्रतिपत्तिः प्रयोजनं च संभवतीत्युपपन्न एवोपचार इत्यलमतिविस्तरेण ॥
अलंकारशब्दोऽयं . किं भावसाधनः, उत करणसाधन इति संदेहास्पृच्छति - कोऽसाविति । तत्रोत्तरं वक्तुमुत्तरसूत्रमवतारयति-अत आहे-
1. 'भज्यते सेव्यते मुख्यार्थोऽनयेति भक्तिः उपचारः लक्षणेत्यर्थः ।'
2. साधनं प्रत्ययः। भावसाधन: भावार्थकप्रत्ययान्तः। ति । वृत्तिकारदशातः सूत्रकारदशान्यैवेति कर्तृभेदमाश्रित्योक्तम् 'आह' इति । अत्र भावव्युत्पत्तेर्विवक्षितत्वादलंकारशब्दो भावार्थमाचष्ट इत्याह--अलंकृतिरलंकार इति । अलंकारशब्दस्य करणव्युत्पत्तिपक्षे तु न गुणानां काव्यग्रहणहेतुत्वमिति, 'युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणम्' इत्यादि वक्ष्यमाणं नोपपद्यत इत्यर्थासंगतिः, 'न क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिरिष्यते' इति करणे ल्युट एव प्राप्तेः शब्दासंगतिश्चेत्याशयः । ननु अलंकारशब्दस्य कटकमुकुटादाविव यमकोपमादिष्वविगीतशिष्टप्रयोगदर्शनात् । 'अध्यायन्याय' इत्यादिसूत्रे चकारादनुक्तसमुच्चयार्थाद्वा · कृत्यल्युटो बहुलम्' इति बहुलग्रहणाद्वा करणसाधनोऽप्यलंकारशब्दः संगच्छत इति चेन्मतम् , तत्तु नानिष्टमित्यभ्युपगम्यानुवदति-करणव्युत्पत्या पुनरिति । कथंचित्कल्पितायामपि करणव्युत्पतौ न गुणानां काव्यग्रहणहेतुत्वमिति स दोषस्तदवस्थ इत्याशयः । ननु करणसाधनोऽयमलंकारशब्दो यमकोपमादिषु वर्तमानो गुणानपि गृह्णाति, सौन्दर्यहेतुत्वा- विशेषादुभयेषामिति- तदेतदविचारितरमणीयम् । न हि व्युत्पत्तिरस्तीति शब्दः सर्वत्र प्रयोक्तुं शक्यते, किंतु शिष्टप्रयोगे दृष्टे व्युत्पत्तिरन्विष्यते, अन्यथा पङ्कजादयः शब्दाः पद्मादिष्विव कुमुदादिषु प्रयुज्येरन् , पङ्कजननाविशेषादिति स्यादतिप्रसङ्गः । तस्मात्पद्मादिषु पङ्कजादिशब्दवत् , अलंकारशब्दः कटकमुकुटादिष्विव यमकोपमादिषु योगरूढ इत्यवगन्तव्यम् । एवं च सति यमकोपमादेरलंकारस्य काव्यग्रहणहेतुत्वाभ्युपगमे, सालंकारमेव काव्यं ग्राह्यम् , न तु निरलंकारमित्यापद्येत । न चैवं वक्तुं युक्तम् , अलंकारविरहेऽपि शुद्धगुणमेव काव्यमास्वाद्यमिति वक्ष्यमाणत्वात् । न केवलमियमस्य ग्रन्थकृतः प्रक्रिया, अन्यैरप्यालंकारिकैरनलंकारस्य शब्दार्थयुगलस्य सगुणस्य काव्यत्वे लक्षणोदाहरणयोर्दर्शितत्वात् । तथा चोक्तं काव्यप्रकाशे, 'तददोषौ शब्दार्थो सगुणावनलंकृती पुनः क्वापि ' इति । अत्र व्याचष्ट भट्टगोपालः, “निर्दोषौ सगुणौ सालंकारौ शब्दार्थों काव्यमिति घण्टापथः । किंतु 'सर्वं वाक्यं सावधारणम्' इति युक्तया यथा दोषशून्यावेव गुणवन्तावेव शब्दार्थों काव्यमित्यवधारणम् , तथा सालंकारावेवेति न पार्यते नियन्तुम् । वयं हि काव्यशोभासंभावनया स्वैरमलंकारान् सहामहे, अलंकारनैयत्यं तु न सहामहे । उक्तं हि, 'दोषहानं गुणादानं
1. अध्यायन्यायोद्यावसंहाराश्च । ३-३-१२२.स दोषगुणालंकारहानादानाभ्याम् ॥ ३ ॥
स खल्वलंकारो दोषहानात् , गुणालंकारादानाच्च संपाद्यः कवेः । कर्तव्यं नियमात्कृतौ । कामचारः पुनः प्रोक्तोऽलंकारेषु मनीषिभिः ॥' इति । उदाहरणं तु यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभय प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि, तत्र सुरतव्यापारलीलाविधौ रेवारोधसि वेतसीतरुतले चेत समुत्कण्ठते ॥' इति । अत्र स्फुटो न कश्चिदलंकारः । काशकुशावलम्बनाद्विशेषोक्तिविभावनयोरन्यतरालंकारोद्भावनायामलंकारनैयत्यपक्षनिर्वाह इत्यलं दूराभिनिवेशया दुराशया, कविसंरम्भगोचराणामलंकाराणां न कस्यचिदुपलम्भ इति ।” तथापि न काव्यत्वभङ्गः । विशेषोक्तिविभावनयोः स्वस्वविरुद्धार्थमुखेन कथंचिदुद्भावनेऽपि न स्फुटत्वम् , कण्ठोक्त्या निषेध्ययोः कार्यकारणयोर्भावान्तरमुखेनाभावाभिधानात् । अथ साधकबाधकप्रमाणाभावाद्वयोः संदेहरूपसंकर एवेति, तत्राप्यस्फुटतानुवृत्तिर्दुष्परिहरैवेत्यलं प्रसक्तानुप्रसक्तार्थप्रपञ्चनेन । यद्यपि “काव्यं ग्राह्यं सौन्दर्यात्' 'तद्दोषगुणालं- कारहानादानाभ्याम्' इति विन्यासान्तरे लाघवं भवति । तथापि, योऽयमलंकारः काव्यग्रहणहेतुत्वेन उपन्यस्यते, तद्वद्युत्पादकत्वाच्छास्त्रमपि अलंकारनाम्ना व्यपदिश्यत इति शास्त्रस्य अलंकारत्वेन प्रसिद्धिः प्रतिष्ठिता स्यादिति सूचयितुमयं विन्यासः कृतः, काव्यं ग्राह्यमलंकारात्' इति ।
इत्थमलंकारपदार्थ समर्थ्य तस्य कारणं वक्तुमुत्तरसूत्रमुपक्षिपति---स दोषेति । प्रक्रान्तप्रसिद्धानुभूताद्यनेकार्थत्वात्तच्छब्दोऽत्र प्रक्रान्तार्थपरामर्शीत्याह- स खल्विति । गुणाश्चालंकाराश्च गुणालंकारा इति प्रथमं समस्य, पश्चात् दो-
1. अत्र दोषपदेन रसप्रतिबन्धकानां प्रतिकूलवर्णश्रुतिकटुकष्टानां शाब्दबोधसामग्रीविघटकानां च्युतसस्कृतिक्लिष्टाभवन्मतयोगानामेव ग्रहणम् । एत एव च काव्यत्वविघटकाः; अन्ये तु काव्यापकर्षका एवेत्यर्वाचीनाः। 2. विभावनाविशेषोक्त्योः , तत्संदेहसकरस्य च अस्फुटत्व ग्रन्थकृतैव दर्शयिष्यते । सविसर्गगुरुरेफानुप्रासोऽपि रसाननुगुणत्वादस्फुटः। न च प्रकृते विप्रलम्भशृङ्गाररसप्रतीते रसवदलकार एव स्फुट इति वाच्यम् । रसस्यात्र प्राधान्यात् ; अप्राधान्य एवालंकारत्वोपगमात् । 3. विशेषोक्तिविभावनयोः स्फुटत्वं नाम कार्यकारणाभावयोः साक्षान्नञाद्युल्लिखितत्वम् ।शास्त्रतस्ते ॥ ४॥
ने दोषगुणालंकारहानादाने शास्त्रादस्मात् । शास्त्रतो हि ज्ञात्वा दोषाञ्जह्यात् गुणालंकारांश्चाददीत ।
किं पुनः फलमलंकारवता काव्येन, येनैतदर्थोऽयं यत्न इत्यत आह---
काव्यं सदृष्टादृष्टार्थं प्रीतिकीर्तिहेतुत्वात् ॥ ५ ॥
पाश्च गुणालंकाराश्चेति द्वन्द्वः कर्तव्यः । हानं च आदानं च हानादाने । दोषगुणालंकाराणां हानादाने इति विग्रहः । ततश्च दोषाणां हानम् , गुणालंकाराणामादानमिति यथासंख्यं संबन्धः संपत्स्यते । 'इष्टानुवर्तनात्कुर्यात्प्रागनिष्टनिवर्तनम् ।' इति नीत्या गुणालंकारादानात् पूर्वं दोषहानमेव कविना कर्तव्यमिति सूचयितुं दोषहानस्य प्रथमतो निर्देशः कृतः । 'गुणालंकारादानाच्च' इत्यत्रेदमनुसंधेयम्-गुणविवेचनाधिकरणप्रमेयपर्यालोचनायां नित्यत्वानित्यत्वभेदेन गुणालंकारव्यवस्थामास्थास्यमानेन ग्रन्थकृता, अत्र सूत्रे दोषहानवत् गुणादानवच्च नालंकारादानं नियतम् ; किंतु गुणकृतशोभातिशयाधायकत्वसंभावनयैवेति विवक्षितम्--इति। एवं च सति — सौन्दर्यमलंकारः' इत्यत्रापि, या गुणैराधीयते शोभा, यश्चालंकारैस्तदतिशयः, तदुभयमपि सौन्दर्यपर्यायेण अलंकारपदेन संगृहीतमिति व्याख्येयम् । अतो न पूर्वीपरप्रमेयविरोध इति सर्वमनवद्यम् । कवेरिति । 'कृत्यानां कर्तरि वा' इति षष्ठी ।
ननु दोषहानगुणालंकारादाने किंनिबन्धने इति जिज्ञासमानं प्रत्याह -शास्त्रत इति ।
ननु सालंकारं काव्यं फलवच्चेत् ; अलंकारस्य निरूपणाय शास्त्रारम्भ उपपद्यते । अतम्तदुपपत्तये फलं वक्तव्यम् । किं पुनस्तत्फलमिति प्रश्नपूर्वकमुत्तरसूत्रमुपन्यस्यति- किं पुनरिति । सच्छन्दस्य विवक्षितमर्थमाह___
1. 'धर्मार्थकाममोक्षेषु वैचक्षण्य कलासु च । करोति कीर्ति प्रीति च साधुकाव्यनिषेवणम् ॥' काव्यं सत् चारु दृष्टप्रयोजनम् , प्रीतिहेतुत्वात् । अदृष्टप्रयोजनम् , कीर्तिहेतुत्वात् । अत्र श्लोका:----
'प्रतिष्ठां काव्यवन्धस्य यशसः सरणिं विदुः ।
अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम् ॥
कीर्तिं स्वर्गफलामाहुरासंसारं विपश्चितः ।
अकीर्तिं तु निरालोकनरकोदेशदूतिकाम् ॥
चार्विति । सालंकारतया सुन्दरमित्यर्थः । दृष्टादृष्टौ ऐहिकामुष्मिकौ अर्थौ यस्येति विग्रहः । अत्र यथासंख्यं संबन्धं दर्शयति- दृष्टप्रयोजनमिति । अत्र प्रीतिशब्देन श्रवणसमनन्तरमेव सहृदयहृदयेषु जायमाना या रसास्वादलक्षणा, या च पुनरिष्टप्राप्त्यनिष्टपरिहारनिबन्धना, सेयमुभयविधा प्रीतिर्विवक्षिता । तथा च सति, साक्षात्परंपरया चैहिकप्रीतेः साधनत्वात्काव्यं दृष्टार्थमित्यर्थः । ननु कीर्तिरपि स्वर्गसाधनतया प्रयोजनमिति वक्तव्यम् । स्वर्गपदार्थोऽपि प्रीतिरेव । तथा च सति, प्रीतिहेतुत्वादित्युक्ते विवक्षितार्थसिद्धेः किं हेत्वन्तरोपादानगौरवेणेति चेत् , सत्यम् । 'यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥' इत्युक्तलक्षणाया दृष्टप्रीतिविलक्षणाया अदृष्टप्रीतेः पृथङ्निरूपणीयत्वात्काव्यस्य तन्मूलतया लोकातिशयवत्त्वं प्रकटितमिति हेत्वन्तरमुपात्तमिति द्रष्टव्यम् ।
अमुमेवार्थमन्वयव्यतिरेकाभ्यामभियुक्तोक्तिसंवादेन समर्थयते---
अत्र श्लोका इति । प्रतिष्ठा सहृदयहृदयानुरञ्जकतया लोकोत्कर्षेण स्थितिः । सरणिः पद्धतिः। 'अकीर्तिवर्तनीम्' इत्यत्र नञ् तद्विरोधिनमर्थमाचष्टे । यथा अनृताधर्माविद्यादयः ऋतधर्मविद्यादीनां प्रतिपक्षाः, तथा अकीर्तिरपि कीर्तेविरोधिनी; तस्या वर्तनी एकपदी । 'सरणिः पद्धतिः पद्या वर्तन्येकपदीति च।' इत्युभयत्राप्यमरः । आसंसारं यावन्न मोक्षः, कीर्तेर्यावत्प्रसरणं वा । निरालोकः तेजोमात्रशून्यः, तमोमय इति यावत् । नरकः दुर्गतिः । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।' इत्यमरः । तस्य उद्देशः प्रदेशः, तस्य दूतिका प्रापयित्रीति यावत् । प्रसाद्यः विशेषतो विमर्शेन विशदीकर्तव्यः । तस्मात्कीर्तिमुपादातुमकीर्तिं च व्यपोहितम् ।
काव्यालंकारशास्त्रार्थः प्रसाधः कविपुंगवैः ॥
इति काव्यालंकारसूत्रवृत्तौ शारीरे
प्रथमेऽधिकरणे प्रथमोऽध्यायः ।
अस्यालंकारशास्त्रस्य सौन्दर्यापरपर्याये अलंकारे परमप्रतिपाद्ये साक्षात्प्रतिपाद्यत्वेन दोषगुणालंकारा विषयाः, हेयोपादेयतया तव्युत्पादनं प्रयोजनम् , तस्य च प्रयोजनं सत्काव्यकरणम् , तस्य च कीर्त्यादयः, तत्र कवीनां प्रीतिः । शास्त्रस्य विषयस्य च प्रतिपाद्यप्रतिपादकभाव. संबन्धः; काव्यस्य कीर्त्यादेश्च कार्यकारणभाव इति प्रथमाध्यायप्रमेयसंग्रहः ।
शारीर इति । प्रथम काव्यशरीरम् , तदनु दोषाः, ततो गुणाः, तदनन्तरमलंकाराः, ततः शब्दप्रयोगशैलीति क्रमेण पञ्चाधिकरणानि । तत्र काव्यशरीरमधिकृत्य कृतमिति शारीरमधिकरणम् । अधिक्रियन्तेऽवान्तरप्रमेयरूपाणि प्रकरणान्यस्मिन्महाप्रमेयात्मनीत्यधिकरणं' प्रमेयविरतिस्थानम् । अध्यायः अवान्तरप्रमेयविरामस्थानम् ! ' प्रमेयविरतिस्थानमध्यायश्च प्रपाठकः ।' इति वैजयन्ती।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-
व्याख्यायां काव्यालंकारकामधेनौ शारीरे
प्रथमेऽधिकरणे प्रथमोऽध्यायः॥
1. 'विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरण स्मृतम् ॥' इति त्वन्यत्र दृश्यते ।