काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/प्रथमाधिकरणम्/द्वितीयोऽध्यायः
प्रयोजनस्थापना । अधिकारिनिरूपणार्थमाह-
अरोचकिनः सतृणाभ्यवहारिणश्च कवयः ॥ १ ॥
इह खलु द्वये कवयः संभवन्ति-अरोचकिनः, सतृणाभ्यवहारिणश्चेति । अरोचक्रिसतृणाभ्यवहारिशब्दौ गौणार्थौ । कोऽसावर्थः ? विवेकित्वमविवेकित्वं चेति ।
कवीन्दकैरवानन्दसुधास्यन्दपटीयसीम् ।
विमिन्दाना तमस्पन्दं वन्दे वाङ्मयचन्द्रिकाम् ॥
प्रयोजने काव्यम्य प्रतिष्ठापिते तदर्थितया अधिकारिणो निरूपर्णाया इत्यध्यायद्वयसंगतिमधिगमयति -- प्रयोजनेति । काव्यप्रयोजनस्य स्थापना, कृतेति शेषः । तिष्ठतेर्य॑न्तात् ‘ण्यासश्रन्थो युच्' इति युच्प्रत्ययः । अधिकारीति । अधिकारः प्रयोजनस्वाम्यम् , तद्वान् अधिकारी । तदुक्तं दशरूपके 'अधिकारः फलस्वाम्यमधिकारी च तत्प्रभुः ।' इति । अरोचकिन इति । कृष्णसर्पपदन्यायेन अरोचकशब्दस्तत्पुरुषमेवावगमयतीति 'कृष्णसर्पवदरण्यम्' इतिवत् 'अरोचकिनः' इति प्रयुक्तं न त्वरोचका इति । अतः न कर्मधारयान्मत्वर्थीयः' इति निषेधस्यानवकाश । अरोचको नाम व्याधिविशेषः । यदाह वाग्भटः, 'अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रितैः।' इति ! सतृणमिति, 'अव्ययं विभक्ति' इत्यादिना साकल्यार्थेऽव्ययीभावः । सतृणमभ्यवहरन्तीति सतृणाभ्यवहारिणः । द्वय इति । 'प्रथमचरम' इत्यादि सूत्रे तयपः परिगणनात् , 'द्वित्रिभ्यां तयस्यायज्वा' इति तत्स्थानिकायजन्तोऽपि स्थानिवद्भावात्सर्वनामसंज्ञां भजते; अतः प्रथमाबहुवचनान्तं 'द्वये' इति रूपम् । ननु किमनेन प्रकृतानुपयोगिना अरोचकित्वादिविचारेणेति चेदत आह-~~ अरोचकीति । गौणार्थाविति । सादृश्यमूलकलक्षणाव्यापारेण लक्षितार्थावित्यर्थः । गौणार्थस्वरूपं जिज्ञासुः पृच्छति-कोऽसाविति । पृष्टमर्थ स्पष्टमाचष्टे---विवेकित्वमिति । यदाह--
पूर्वे शिष्या विवेकित्वात् ॥ २ ॥
पूर्वे खल्वरोचकिनः, शिष्याः शासनीयाः। विवेकित्वात् विवेचनशीलत्वात् ।
नेतरे तद्विपर्ययात् ॥ ३ ॥
इतरे सतृणाभ्यवहारिणः, न शिष्याः । तद्विपर्ययात् अविवेचनशीलत्वात् । न च शीलमपाकर्तुं शक्यम् ॥
नन्वेवं न शास्त्रं सर्वानुग्राहि स्यात् , को वा मन्यते ? तदाह-
न शास्त्रमद्रव्येष्वर्थवत् ॥ ४ ॥
उक्तस्य गौणार्थस्य उपपादकमधिकारिनिश्चायकं सूत्रमवतारयति । यदाहेति । अथ ‘नेतरे' इति सूत्रारम्भः किमर्थः । विवेकिनः शिष्या इत्युक्ते अविवेकिनः पुनरशिष्या इति गम्यत एव, तथाप्यासूत्र्यमाणं पुनरुक्तिं पुष्णाति ; ' अर्थादापन्नस्य पुनर्वचनं पुनरुक्ति.' इति न्यायादिति-सत्यम्-यथा 'धूमध्वजाभावे धूमाभावः' इति यावद्व्यतिरेको न दर्शितः, तावत् 'सति धूमध्वजे धूमः' इति साहचर्यमात्रदर्शनान्न कार्यकारणाभावनिश्चयः; तथैवात्रापि व्यतिरेकदर्शनमन्वयदार्ढ्यायेति युज्यत एव सूत्रारम्भः । वृत्तिः स्पष्टार्था ।
ननु शीलितं शास्त्रमविवेकमपाकरोति, तत्त्वविवेकस्य तज्जन्यत्वात् । अतः कथमविवेकिनो न शिष्या इति शङ्कां शकलयति--न चेति ।
यद्येवं विरलस्तर्हि विद्ययोपयोग इति शङ्कते– नन्विति । अभ्युपगमेन परिहरति-को वा मन्यत इति । शास्त्रं सर्वानुग्राहीत्यनुषज्यते । न कश्चिदपि तथा मन्यत इति फलितोऽर्थः ।
विधीयमानोऽपि विवेकविधुरेषु विद्योपदेशो विपिनविलापवद्विफ़ल इत्याह -न शास्त्रमिति । शास्त्रोपदेशद्वारा यत्र सद्भिराधीयमाना गुणाः संक्रामन्ति,न खलु शास्त्रं अद्रव्येषु अविवेकिषु अर्थवत् ।
निदर्शनमाह-
न कतकं पङ्कप्रसादनाय ॥ ५ ॥
नहि कतकं पयस इव पङ्कस्य प्रसादनाय प्रभवति ।
अधिकारिणो निरूप्य रीतिविनिश्चयार्थमाह-
रीतिरात्मा काव्यस्य ॥ ६ ॥
रीतिर्नामेयमात्मा काव्यस्य । शरीरस्येवेति वाक्यशेषः ।
तद्रव्यमिह विवक्षितम् । तद्विपरीतान्यद्रव्याणि गुणहीना अविवेकिन इति यावत् । अत्र गाथा, 'अयं भस्मनि होमः स्यादियं वृष्टिर्मरुस्थले । इदमश्रवणे गानं यज्जडे शास्त्रशिक्षणम् ॥' इति ।
प्रतिपादितं प्रमेयं प्रसिद्धदृष्टान्तेन स्पष्टयितुमाह-निदर्शनमिति । कतकं अम्भःप्रसादनबीजम् । 'कतकं मेदनीयं च श्लक्ष्णं वारिप्रसादनम् ।' इति वैद्यनिघण्टुः ।
प्रकरणोचितां संगति प्रकटयन्नुत्तरसूत्रमवतारयति-अधिकारिण इति। कर्तृनिरूपणानन्तरं कर्मनिरूपणमुचितमिति संगतिः । व्याचष्टे-रीतिर्नामेति । रिणन्ति गच्छन्ति अस्यां गुणा इति, रीयते क्षरत्यस्यां वाङ्मधुधारेति वा रीतिः । अधिकरणार्थे क्तिन्प्रत्ययः । करङ्कगात्रकल्पकर्कशतर्कवाक्यवैलक्षण्यप्रक-
1. 'काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वः' इत्यानन्दवर्धनः । 'शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम्' इति विद्यानाथः । 'बाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्' इत्यग्निपुराणम् । 'काव्यस्यात्मनि सङ्गिनि रसादिरूपे न कस्यचिद्विमतिः' इति व्यक्तिविवेक । 'ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः' इति काव्यप्रकाशः । 'अलंकारास्त्वलकारा गुणा एवं गुणाः सदा । औचित्यं रससिद्धस्य स्थिर काव्यस्य जीवितम्' इति क्षेमेन्द्रः । 'वक्रोक्तिः काव्यजीवितम्' इति वक्रोक्तिजीवितकारः । एतद्भेदसाधुत्वादिविचारस्तु वृत्तिवार्तिकव्याख्याने कृतोऽस्माभिः । किं पुनरियं रीतिरित्यत्राह-
विशिष्टा पदरचना रीतिः ॥ ७ ॥
विशेषवती पदानां रचना रीतिः ।
कोऽसौ विशेष इत्यत आह-
विशेषो गुणात्मा ॥ ८ ॥
वक्ष्यमाणगुणरूपो विशेषः ।
टनप्रगल्भस्फुरत्ताहेतुः कश्चन स्वभावोऽत्रात्मेत्युच्यते । ननु काव्यस्य आत्मेत्येतत् कथमुपपद्यते ; अशरीरभूतस्य आत्मावच्छेदकत्वासंभवादित्याशङ्कय, शब्दार्थयुगलं शरीरम् , तस्याधिष्ठाता रीतिर्नाम आत्मेत्युपपत्तिमुन्मीलयितुम् आकाङ्क्षितं पदमापूरयति—शरीरस्येवेति वाक्यशेष इति । अत्र रीतेरात्मत्वमिव, शब्दार्थयुगलस्य शरीरत्वमौपचारिकमिति मन्तव्यम् ।
रीतेः काव्यशरीरं प्रत्यात्मत्वेनोक्तमुत्कर्षमुपश्रुत्य, कौतुकोत्कलिकाकरम्बितान्तकरणस्तां प्रतिपित्सुः पृच्छति- किं पुनरिति । किमित्यव्ययं प्रश्नार्थे । 'किमव्ययं च कुत्सायां विकल्पप्रश्नयोरपि ।' इति नानार्थरत्नमाला । इयं रीतिर्नाम किं पुनः किंलक्षणेत्यर्थः । प्रतिपित्सितमर्थं प्रतिपादयितुमनन्तरसूत्रमवतारयति--आहेति । विशिष्टा इति पदं व्याचष्टे-विशेषवतीति। पदानामिति। अर्थेष्वौपचारिकी रीतिरङ्गीकर्तव्या; अन्यथा अर्थानामात्मभूतरीतिवैधुर्ये काव्यशरीरान्तःपातो दुष्करः । यद्वक्ष्यति, 'तस्यामर्थगुणसंपदास्वाद्या' 'सापि वैदर्भी तात्स्थ्यात्' इति ।
किमयं वैशेषिकपरिभाषितः पञ्चमः पदार्थो बिशेषः, अन्यो वेति संदिहानः पृच्छति--कोऽसाविति। विवक्षितं विशेष विवरीतुं सूत्रमवतारयति--आहेति । गुणात्मा ओजःप्रसादादिगुणस्वभाव इत्यर्थः ।
1 एतेन 'यत्तु वामनेनोक्तम् , रीतिरात्मा काव्यस्येति–तन्न । रीतेः सघटनाविशेषत्वात् , सघटनायाश्चावयवसस्थानरूपत्वात्, आत्मनश्च तद्भिन्नत्वात्' इति दर्पणोक्ति प्रत्युक्त्ता। सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति ॥ ९ ॥
सा चेयं रीतिस्त्रिधा भिद्यते--वैदर्भी, गौडीया, पाञ्चाली चेति ।
किं पुनर्देशवशाद्रव्यवगुणोत्पत्तिः काव्यानाम् , येनायं देशविशेषव्यपदेशः ? नैवम् । यदाह--
विदर्भादिषु दृष्टत्वात्तत्समाख्या ॥१०॥
विदर्भगौडपाञ्चालेषु देशेषु तत्रत्यैः कविभिर्यथास्वरूपमुपलब्धत्वादेशसमाख्या । न पुनर्देशैः किंचिदुपक्रियते काव्यानाम्।
तासां गुणभेदाद्भेदमाह--
समग्रगुणोपेता वैदर्भी ॥ ११ ॥
समग्रैः ओजःप्रसादप्रभृतिभिः गुणैः उपेता वैदर्भी नाम रीतिः ।
अत्र श्लोकः-
'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्भिता ।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥'
रीतिं विवेक्तुमाह- सा त्रेधेति । सकलगुणसध्रीचीनत्वेनाभ्यर्हितत्वाद्वैदर्भ्याः प्रथमं निर्देशः । अनन्तरयोरुभयोः स्तोकगुणत्वेऽपि प्रशस्तगुणसंस्कृ- तत्वादनन्तरं गौडीयायाः, अवशिष्टाया अन्ते निवेशः ।
किं पुनरिति । यथा लवणादयः पदार्थाः सिन्ध्वादिदेशवशाद्विशिष्टगुणा भवन्ति, तथा किं देशवशाद्विशिष्टानि काव्यानीति शङ्कार्थः । समाधत्ते- नैवमिति । विदर्भादिपदैरुपचाराद्विदर्भादिदेशस्थाः कवयो वक्ष्यन्ते ; अन्यथा विदर्भादिपदानां क्षत्रियवृत्तित्वे अर्थासंगतिः, जनपदवृत्तित्वे 'जनपदतदवध्योश्च' इति गौडशब्दात् 'अवृद्धादपि बहुवचनविषयात्' इति विदर्भपञ्चालशब्दाभ्यां च बुञ्प्रत्ययप्राप्तौ शब्दासंभातिश्चेत्यनुसंधेयम् । विदर्भपञ्चालशब्दाभ्यां 'शेषे' इत्यण्प्रत्ययः, गौडशब्दात् वृद्धाच्छः' इति छप्रत्ययः । स्पष्टमवशिष्टम् ॥
प्रतिपादितेऽर्थे प्रावादुकपद्यं प्रमाणयति-- अत्र श्लोक इति । दोषमा नामेतामेवं कवयः स्तुवन्ति-
'सति वक्तरि सत्यर्थे सति शब्दानुशासने ।
अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥'
उदाहरणम्----
'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
त्राभिः असाधुत्वादिदोषलेशैरपि । अस्पृष्टा असंबद्धा, अनुपगतदोषमात्रसंबन्धेति यावत् । ' मात्रा परिच्छदे वर्णमाने कर्णादिभूषणे । सैवाल्पपरिमाणे च' इति नानार्थरत्नमाला । समग्रैः अन्यूनैः गुणैः ओजःप्रसादादिभिः गुम्भिता संघटिता । विपञ्ची वीणा । 'वीणा तु वल्लकी । विपञ्ची' इत्यमरः । तस्याः खराः श्रोतृमनोरञ्जकाः षड्जादयोऽत्र विवक्षिताः न तु क्वणनमात्रम् ; तस्य मनोरञ्जकत्वाभावात् । तदुक्तं संगीतरत्नाकरे, ' श्रुत्यनन्तरभावी यः शब्दोऽनुरणनात्मकः । स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते ॥' इति । षड्जादिषु रूढश्चायम् । तथा चाञ्जनेये, 'स्वरशब्दो मयूरादिसमुत्पन्नेषु सप्तसु । षड्जादिष्वेव रूढोऽयमतो नैवाक्षु वर्तते॥' इति । तेषां सौभाग्यमिव सौभाग्यं यस्या इति विग्रहः ॥
किंच, अस्याश्चर्वणीयरसचमत्कारकारितया समग्रसौन्दर्यशालितया च कविकुलोपलालनीयतामाकलयति----तामेतामिति । सतीति। सच्छब्दोऽत्र साध्वर्थः । 'सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् । इत्यमरः । वक्ता कविः । अर्थ: अपूर्वतयोल्लिखितः । शब्दानुशासनम् अनुशिष्टः शब्द आकाङ्क्षायोग्यतादिविशिष्टश्च । वक्तरि शब्दे च अर्थे च साधौ सत्यपि येन विना वाङ्मधु वाचां मधु न परिस्रवति न स्यन्दते; तद्वैदर्भीनामकं वस्त्वस्तीति योजना । ईह मधुब्देन मुख्यार्थासंभवात्सहृयहृदयैरास्वाद्यः समग्रसौन्दर्यसमुन्मिषितो रसो लक्ष्यते ।
उक्ताया रीतेरुदाहरणमुपदर्शयितुमाह-उदाहरणमिति । उच्यत इति शेषः । “वैदर्भीरीतिसंदर्भे कालिदासः प्रगल्भते' इति दर्शयितुं तदीयं पद्यमुदाहरति---- गाहन्तामिति । एषा हि शकुन्तलाविलोकनोत्कलिकावशंबदर्हृदयस्य मृगयाविहाराद्विरिरंसतो दुष्यन्तस्योक्तिः । महिष्यश्च महिषाश्च महिषाः । 'पुमा विस्रब्ध्नैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥'
ओजःकान्तिमती गौडीया ॥ १२ ॥
स्त्रिया' इत्येकशेषः; एवं मृगकुलमित्यत्राप्येकशेषो वेदितव्यः । निपानानि कूपसमीपतः कल्पिता जलाधाराः । 'आहावस्तु निपानं म्यादुपकूपजलाशये' इत्यमरः । तेषु सलिलम् । तदेव विशिनष्टि-शृङ्गैर्मुहुस्ताडितमिति । महिषा हि जलमवगाह्य दशतः शिरसि दंशानपवारयितुं श्रृङ्गैर्मुहुस्ताडयन्तीति स्वभावोक्तिः । गाहन्तामित्यादिषु सर्वत्र आमन्त्रणे लोट् । छायासु अनातपेषु बद्धानि कदम्बकानि समूहा येनेति विग्रहः । निकुरुम्बं कदम्बकम्' इत्यमरः । कदम्बकानां बहुत्वविवक्षायां मृगकुलस्य अन्यपदार्थत्वमुपपद्यते ; अतो न पौनरुक्त्यमाशङ्कनीयम् । उद्गीर्णस्य वावगीर्णस्य वा मन्थो रोमन्थः, चर्वितचर्वणमित्यर्थः । 'विस्रब्धं कुरुतां वराहविततिर्मुस्ताक्षतिं पल्वले' इति प्राचीनः पाठ इति संप्रदायविदः । पाठान्तरं तु प्रक्रमभङ्गशङ्काकलङ्कमङ्करयेत्। 'अस्मत्' इति पञ्चमीबहुवचनान्तं पृथक्पदम् । विश्राम्यतेव्यापारविरामार्थत्वात् पञ्चमी । षष्ठीसमासो वा । अत्र ओजःप्रसादादयो गुणाः परां प्रतिष्ठां लभन्ते । तथा हि- 'छायाबद्धकदम्बकम्' 'शिथिलज्याबन्धम्' इत्यत्र बन्धस्य गाढत्वादोजः । 'छायाबद्धकदम्बकं मृगकुलम्' इत्यत्र बन्धस्य गाढत्वशैथिल्ययोः संप्लवात्प्रसादः । 'महिषा निपानसलिलम्' इत्यत्र मसृणत्वाच्छलेषः । गाहन्ताम्' इत्यारभ्य येनैव मार्गेण उपक्रमः, तेनैव मार्गेण उपसंहार इति मार्गाभेदात्समता । 'गाहन्ताम् ' इत्यत्रारोहः । 'महिषाः' इत्यत्रावरोहः । एवमन्यत्रापि आरोहावरोहक्रमस्फुरणात्समाधिः । ' शृङ्गैर्मुहुस्ताडितम्' इति पृथक्पदत्वान्माधुर्यम् । रोमन्थमभ्यस्यतु' इत्यादौ बन्धस्याजरठत्वात्सौकुमार्यम् । 'शिथिलज्याबन्धमस्मद्धनुः' इत्यत्र बन्धस्य विकटत्वादुदारता । पदानामुज्ज्वलत्वात्कान्तिः । अर्थाभिव्यक्तिहेतुत्वादर्थव्यक्तिरिति दिङ्मात्रप्रदर्शनम् । गुणस्वरूपनिरूपणं तु गुणविवेचने अधिकरणे करिष्यते ।
क्रमप्राप्तां गौडीयामाह-ओजःकान्तिमतीति । प्रत्ययार्थं प्रत्याययति ओजः कान्तिश्च विद्यते यस्यां सा ओजःकान्तिमती गौडीया नाम रीतिः। माधुर्यसौकुमार्ययोरभावात् समासबहुला अत्युल्नणपदा च ।
अत्र श्लोकः-
'समस्तात्युद्भटपदामोजःकान्तिगुणान्विताम् ।
गौडीयामपि गायन्ति रीतिं रीतिविचक्षणाः ॥'
उदाहरणम्-
'दोर्दण्डाञ्चितचन्द्रशेखरधनुर्दण्डावभङ्गोद्यत-
ष्टंकारध्वनिरायेबालचरितप्रस्तावनाडिण्डिमः।
ओजः कान्तिश्च विद्यते इति । अत्र भूमार्थेन मतुपा ओजःकान्त्योः प्राचुर्यप्रतिपादनात् अनुकूलानामनुल्बणानामन्येषां गुणानामनिराकरणम् , प्रतिकूलयोस्तु माधुर्यसौकुमार्ययोरपवारणम् , अत एव दीर्घसमासत्वम् , अत्युद्भटपदत्वं च सूचितम् ; तदिदमभिसंधायाह--माधुर्यसौकुमार्ययोरभावादिति । प्रतिपादितेऽर्थे प्राचामाभाणकं प्रमाणयति--- समस्तेति । समस्तानि समासवृत्तिमापनानि अत्युद्भटानि पदानि यस्या इति विग्रहः । लक्षिताया रीतेलक्ष्यमुपक्षिपति--उदाहरणमिति । एषा खलु धनुर्धरधुरन्धरेण रघुनन्दनेन गाढाकर्षणात्खण्डिते खण्डपरशोः कोदण्डे तद्भङ्गसंघटितनिराघाटघोषवर्णनोपोद्धातेन तस्यैव भुजबलभूमानमभिलक्षयतो लक्ष्मणस्योक्तिः । दोर्दण्डेन अञ्चितमाकृष्टम् । औचित्यादञ्चतिरत्राकर्षणे वर्तते । ननु यद्याकर्षणमञ्चतेरर्थ', तर्ह्यपूजनार्थस्य तस्य 'नाञ्चेः पूजायाम्' इति नलोपप्रतिषेधो न सिद्धयेत् , ' अञ्चेः पूजायाम्' इति इङागमश्च न स्यादिति न चोदनीयम् ; अत्र कवेः कार्यकारणयोरभेदोपचाराद्दुराधर्षधनुराकर्षणमेव पूजनं विवक्षितमित्यविरोधः । आर्यः अग्रजः । तदुक्तं भामहेन, 'भगवन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः । विप्रामात्याग्रजास्त्वार्या नटीसूत्रभृतौ मिथः॥' तस्य यत् बालचरितं ताटकावधादि धनुर्भङ्गान्तं तदेव प्रस्तावना तत्र डिण्डिमः ॥ अत्र बालचरितस्य प्रस्तावनात्वरूपणेन रावणवधान्तस्य तस्य कुमारचरितस्यापि
नाटकत्वमासूच्यते । तथा च कुमारचरितनाटकस्य 'बालचरितं प्रस्तावना प्राथमिकमङ्गमिति परम्परितरूपकौचित्यमपि परिगृहीतं भवति । प्रस्तावनास्वरूपं दशरूपके दर्शितम् , 'सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् । स्वकार्ये द्राक्पर्ग्नस्तकपालसंपुटमितब्रह्माण्डमाण्डोदर-
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥'
माधुर्यसौकुमार्योपपन्ना पाञ्चाली ॥ १३ ॥
माधुर्येण सौकुमार्येण च गुणेनोपपन्ना पाञ्चाली नाम रीतिः । ओजःकान्त्यभावात् अनुल्बणपदा विच्छाया च ।
तथा च श्लोकः-
'आश्लिष्टश्लथभावां तु पुराणच्छाययान्विताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥'
अत्रोदाहरणम् --
'ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते
रात्रावत्र विहारंमण्डपतले पान्थः प्रसुप्तो युवा ।
प्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् । प्रस्तावना वा तत्र स्यात्' इति । अन्यच्च 'वस्तुनः प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते' इति । द्राक्पर्यस्ते झटिति चलिते कपाले शकले तयोः संपुटः समुद्गकः तेन मितं परिमितं परिच्छिन्नं यत् ब्रह्माण्डं तदेव भाण्डं तस्योदरे भ्राम्यन् समन्तात्पर्यटन् पिण्डितः संकोचितः चण्डिमा यस्येति विग्रहः । तथा पुराणम् , ' अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरान् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधा । ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे' इति । अद्यापि चिरातीतेऽपि । टङ्कारध्वनिः प्रतिश्रुत् । न विश्राम्यति न विरमति । अत्र बन्धस्य गाढत्वौज्ज्वल्ययोरुत्कटत्वादुल्बणावोजःकान्तिगुणौ । समासभूयस्त्वोल्बणपदत्वे चातिस्फुटे।
अथ पाञ्चालीं प्रपञ्चयति--- माधुर्येति । माधुर्यसौकुमार्यप्रतिपक्षयोरोजःकान्त्योरभावाद्वन्धस्य शैथिल्यम् , अनुल्बणपदत्वं चेत्याह-- ओज इति । आश्लिष्टेति । श्लोकः स्पष्टार्थः । उदाहरति-- ग्राम इति । इयं हि कस्यचि तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥
एतासु तिसृषु रीतिषु रेखास्विव चित्रं काव्यं प्रतिष्ठितमिति ।
तासां पूर्वा ग्राह्या गुणसाकल्यात् ॥ १४ ॥
तासां तिसृणां रीतीनां पूर्वा वैदर्भी ग्राह्या, गुणानां साकल्यात् ।
न पुनरितरे स्तोकगुणत्वात् ॥ १५ ॥
इतरे गौडीयपाञ्चाल्यौ न ग्राह्ये, स्तोकगुणत्वात् ।
तदारोहणार्थमितराभ्यास इत्येके ॥ १६ ॥
द्रामीणस्य गृहे निशि निद्रातुं भद्रवेदिमधिशय्य पर्जन्यगर्जितैस्तर्जिते निजनिदेशापचारनिष्कृपकुपितकुसुमशरशरव्रातपातक्लिष्टतया निर्विष्टवति कष्टां दशां बैदेशिके तद्दण्डपातभीतिसमाकुलायाः कुलवृद्धायाः पुनरन्यमध्वन्य प्रत्युक्तिः । अत्र 'पथः ष्कन्' 'पन्थो ण नित्यम्' इति नित्यं गच्छतः पान्थत्वम् , अन्यस्य च पथिकत्वमिति वृत्तिकारवचनादर्थभेदमाश्रित्य, यदि पथिकाय वसतिर्न दीयेत तत्पान्थेन किमपराद्धमिति न चोदनीयम् ; पान्थपथिकशब्दयोः पर्यायतयाभिधानदर्शनात् कविभिरविशेषेण प्रयुज्यमानत्वात् । ‘अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।' इत्यमरः । 'तत्' इति अमङ्गलतयोच्चारयितुमनुचितत्वान्मरणं तच्छब्देन व्यपदिश्यते । करङ्कः शवः । रीतिस्वरूपं निरूप्य तदुपयोगं सदृष्टान्तमाचष्टे---- एतास्विति ।
नन्वेतास्तिस्रो वृत्तयः समशीर्षकतया किं कविभिरुपादेयाः ? नेत्याहतासामिति । वृतिः स्पष्टार्था।
प्रयोजकाभावादन्ययोर्न ग्राह्यत्वमित्याह-- न पुनरिति ।
वाहारोहाय बालस्य मेषारोहानुशीलनवद्वैदर्भीसंदर्भलाभाय तदितराभ्यास इति केचिदाचक्षते । तत्पक्षं प्रतिक्षेप्तुमुपक्षिपति-- तदारोहणार्थमिति । तस्या वैदर्भ्या एवारोहणार्थमितरयोरपि रीत्योरभ्यास इत्येके मन्यन्ते ।
तच्च न । अतत्त्वशीलस्य तत्त्वानिष्पत्तेः ॥ १७ ॥
नह्यतत्त्वं शीलयतस्तत्त्वं निष्पद्यते ।
निदर्शनार्थमाह-
न शणसूत्रवानाभ्यासे त्रसरसूत्रवान-
वैचित्यलाभः ॥ १८॥
नहि शणमूत्रवानमभ्यस्यन्कुविन्दस्त्रसरतन्तुवानवैचित्र्यं लभते ।
'सापि समासाभावे शुद्धवैदर्भी ॥ १९ ॥
सापि वैदर्भी रीतिः शुद्धवैदर्भी भण्यते; यदि समासवत्पदं न भवति ।
'तस्यामर्थगुणसंपदास्वाद्या ॥ २० ॥'
तस्यां वैदर्भ्यामर्थगुणसंपत् आस्वाद्या भवति ।
तेषां मतं दूषयति-तच्च नेति । न ह्यतादृशं कर्म परिशीलयतस्तादृशकर्मकौशलं सिध्यति । यथा लोके वाजिनमारुरुक्षतो राजपुत्रादेस्तदुपयोगिजान्ववष्टम्भजवगतिमण्डलीक्रियादिसिद्धये मेषारोहाभ्यासां दृश्यते, न तथा कस्यचिदपि कुविन्दस्य सूक्ष्मतन्तुवानकौशलसिद्धयै गोणीवानाभ्यासो दृष्टः; तयोर्वैसादृश्येन उपयोगाभावात् । अतो वैदर्भीसंदर्भलाभाय गौडीयपाञ्चालरीत्योरभ्यास इति मतमनादरणीयम् ।
शणसूत्रं गोण्याधुपादानम् । त्रसरतन्तुः श्लक्ष्णवस्त्राद्युपादानम् । वानमिति, वयतेर्ल्युटि रूपम् ।
सापीति । सर्वं स्पष्टम् ।
शब्दभाग इव अर्थभागेऽपि गुणसंपत्तिर्वैदर्भ्युपरागादास्वादनीयेत्याह--
1. इदं सूत्र तद्वृत्तिश्च बहुषु कोशेषु नोपलभ्यते ।तदुपारोहादर्थगुणलेशोऽपि ॥ २१ ॥
तदुपधानतः खल्वर्थगुणलेशोऽपि स्वदते । किमङ्ग, पुनरर्थगुणसंपत् । तथा चाहुः-
'किं त्वस्ति काचिदपरैव पदानुपूर्वी
यस्यां न किंचिदपि किंचिदिवावभाति ॥'
'वचसि यमधिशय्य स्यन्दते वाचकश्री-
र्वितथमवितथत्वं यत्र वस्तु प्रयाति ।
तस्यामिति । वैदर्भीरीत्यवष्टम्भादर्थेऽप्यारोपिता गुणसंपत्तिरास्वादनीयेत्यर्थः ।
अमुमेवार्थं कैमुतिकन्यायेन समर्थयते- तदुपेति । तदुपधानत इति । उपधानं उपरञ्जनम् । ‘अङ्गेत्यामन्त्रणेऽव्ययम्' इत्यमरः । उक्तार्थेऽभियुक्तोक्त्तिमभिव्यनक्त्ति --तथा चाहुरिति । किं त्वस्ति...' इत्यत्र ‘जीवन्पदार्थपरिरम्भणमन्तरेण शब्दावधिर्भवति न स्फुरणेन सत्यम्' इति पूर्वार्धं पठन्ति । ननु पदपदार्थयोर्गुणचमत्कारो वैदर्भीप्रसादलभ्य इति यदुक्तम् , तदयुक्तम् ; पदार्थपरिरम्भणमन्तरेण वैदर्भीस्फुरणमात्रेण जीवन्त्या वाक्यविश्रान्तेरसंभवादिति शङ्कामनुभाषते--- जीवन्निति । जीवन् तर्कवाक्यवैलक्षण्येन सहृदयहृदयाह्लादकारीत्यर्थः । शब्दावधिः वाक्यविश्रान्तिः । यदुक्त्तं शङ्कावादिना, तत् सत्यम् अस्त्येव । किं तु पदार्थव्यतिरिक्त्ता तत उत्कृष्टा पदसंघटनापरिपाटी काचिदस्ति। सा च पदपदार्थयोः सजीवत्वायावश्यमङ्गीकरणीयेत्याह-~- किं त्विति । यस्यां पदानुपूर्व्याम् । न किंचिदपि असदपि वस्तु । किंचिदिव सदिव । अवभाति प्रतिभाति, प्रबन्धृप्रौढिप्रकटितपदघटनापरिपाटिवशात्कल्प्यं वस्तु प्रत्यक्षायमाणं प्रतिभासत इत्यर्थः । यदाहुः, 'अपारे काव्यसंसारे कविरेकः प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परविर्तते ॥' इति । वचसीति । काव्यात्मके
1. निर्णयसागरादिमुद्रितेषु पुस्तकेषु 'कित्वस्ति' इत्येतत् पूर्वार्धतया, उत्तरार्धतया च 'आनन्दयत्यथ च कर्णपथ प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा' इत्येतत् योजितं दृश्यते । पर त्विदमसगतमिव प्रतिभाति ; यतो व्याख्याता पूर्वार्धमन्यदेवाभिविलिख्य व्याचष्टे : न च व्याकरोति 'आनन्दयति' इत्येतत् । अतोऽस्माभिरन्यस्थलेष्विवात्रापि व्याख्याकृदादृत एव
पाठः सयोजित.। उदयति हि स तादृक्क्वापि वैदर्भरीतौ
सहृदयहृदयानां रञ्जकः कोऽपि पाकः ॥'
सापि वैदर्भी तात्स्थ्यात् ॥ २२ ॥
सापीयमर्थगुणसंपद्वैदर्भीत्युच्यते । तात्स्थ्यादित्युपचारतो व्यवहारं दर्शयति ।
इति काव्यालंकारसूत्रवृत्तौ शारीरे
प्रथमेऽधिकरणे द्वितीयोऽध्यायः ।
वाक्य इत्यर्थः । वाचकश्री. शब्दसंपत् । यं वैदर्भीपाकम् । अधिशय्य, स्यन्दते रसवर्षिणी भवति । यत्र यस्मिन्वैदर्भीपाके । वितथं नीरस वस्तु । अवितथत्वं सरसत्वम् । प्रयाति । तदुक्त्तं लोचने, 'जगद्भावप्रख्यं निजरसभरात्पूरयति च' इति । अन्यच्च, 'भावानचेतनानपि चेतनवच्चेतनानचेतनवत् । व्यवहारयति यथेच्छं सुकविः काव्ये स्वतन्त्रतया ॥' इति । स्पष्टमवशिष्टम् ।
वैदर्भीनिष्ठत्वादर्थगुणसंपदि वैदर्भीति व्यवहारोऽप्युपचर्यत इत्याह सापीति । तस्मिन् तिष्ठतीति तत्स्थः, तस्य भावः तात्स्थ्य तस्मादिति. उपचारे संबन्ध उक्त्तः ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-
व्याख्यायां काव्यालकारकामधेनौ शारीरे
प्रथमेऽधिकरणे द्वितीयोऽध्यायः ॥
सामान्यतो व्युत्पत्तिरियम् ।
4