काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/पञ्चमाधिकरणम्/प्रथमोऽध्यायः

विकिस्रोतः तः

 संप्रति काव्यसमयं शब्दशुद्धिं च दर्शयितुं प्रायोगिकाख्यमधिकरणमारभ्यते । तत्र काव्यसमयस्तावदुच्यते--

नैकं पदं द्विः प्रयोज्यं प्रायेण ॥१॥

 एकं पदं न द्विः प्रयोज्यं प्रायेण बाहुल्येन ।

 यथा-'पयोदपयोद' इति । किंचिद्धि चादिपदं द्विरपि प्रयोक्तव्यमिति।

नित्या संहितैकपदवत्पादेष्वर्धान्तवर्जम् ॥ २ ॥

  किरन्ती कौतुकस्मेरैः कटाक्षः करुणामृतम् ।
  समये संनिधत्तां मे संलपन्ती सरस्वती॥
 
  निर्हेतुके नियतिनिःस्पृहमुज्जिहाने
   कान्तानिभे कविवरप्रतिभाविवर्ते ।
  प्रत्यर्थिशून्यपरनिर्वृतिके प्रपञ्चे
   सारस्वतेऽस्तु समयः सुधियानुपाल्यः ॥

 प्रायोगिकं पञ्चममधिकरणमारभ्यते । अधिकरणान्तरारम्भौचित्यमासूत्रयति--संप्रतीति । संप्रतिशब्देन काव्यस्य प्रयोजनाधिकार्यात्माङ्गभेददोषगुणालंकारेषु दर्शितेषु प्रयोगनियमशब्दशुद्धयोः प्राप्तावसरत्वं प्रत्याय्यते । प्रयोगविषये नियामकत्वेन भवतीति प्रायोगिकम् । तयोः प्रथमं प्रयोगमर्यादा पर्यालोच्यत इत्याह- तत्रेति । समयः संकेतः, प्रयोगे वर्ज्यावर्ज्यनियम इति यावत् । न द्विः प्रयोज्यमिति । प्रतीतिवैरस्यादशक्तिसूचकत्वाञ्चेत्यभिप्रायः । प्रायग्रहणस्य प्रयोजनमाह-किंचिद्धीति । यथा--'ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ।' इति । आदिग्रहणात् पदानुप्रासपादयमकेषु द्विःप्रयोगो न दोषायेति द्रष्टव्यम् ।  नित्या संहिता पादेषु एकपदवत् एकस्मिन्निव पदे । तत्र हि नित्या संहितेत्याम्नायः। यथाहुः- 'संहितैकपदे नित्या नित्या धातू- पसर्गयोः।' इति । अर्धान्तवर्जम् अर्धान्तं वर्जयित्वा ।

न पादान्तलघोर्गुरुत्वं च सर्वत्र ॥ ३ ॥

 पादान्तलघोर्गुरुत्वं प्रयोक्तव्यम्। न सर्वत्र न सर्वस्मिन् वृत्त इति ।

 यथा--

  'यासां बलिर्भवति मद्गृहदेहलीनां
   हंसैश्च सारसगणैश्च विलुप्तपूर्वः।
  तास्वेव पूर्वबलिरूढयवाङ्कुरासु
   बीजाञ्जलिः पतति कीटमुखावलीढः ॥'

 एवंप्रायेष्वेव वृत्तेष्विति ।

 न पुनः–'वरूथिनीनां रजसि प्रसर्पति समस्तमासीद्विनिमीलितं जगत् ।' इत्यादिषु ।

 चकारोऽर्धान्तवर्जमित्यस्यानुकर्षणार्थः ।


 नित्येति । एकस्मिन् पदे संहिता प्रकृष्टसंनिकर्षो यथा नित्यः, तथा पादेष्वपि संहिता नित्या भवति ।आम्नायः प्रमाणवचनम् । तं दर्शयति-- संहितेति । अविशेषेण सर्वत्र प्राप्तौ क्वचित्संहितां पर्युदस्यति- अर्धान्तवर्जमिति।

 यदपि वा पादान्ते' इति पादान्तवर्णस्य लघोर्गुरुत्वं विकल्पेन विहितम्, तदपि न सर्वत्र भवतीति प्रतिपादयितुमाह--न पादान्तेति । प्रथमं तावल्लघोर्गुरुत्वं दर्शयति--- यथेति । एवंप्रायेष्विति । 'श्रीतिप्पभूपालक मध्यलोकदेवेन्द्र वज्राङ्गदचन्द्रिकाभिः । त्वद्बाहुराभाति हसन्निवायं प्रोढौ प्रदाने मणिपारिजातौ ।' इत्यादिषु इन्द्रवज्रादिषु उपजातिभेदेष्वपि द्रष्टव्यम् । प्रतिषेधविषयं प्रदर्शयति-न पुनरिति । तेन वा पादान्ते' इति व्यवस्थितविभाषा वेदितव्या।

न गद्ये समाप्तप्रायं वृत्तमन्यत्रोद्गतादिभ्यः संवादात् ॥ ४॥

 गद्ये समाप्तप्रायं वृत्तं न विधेयम्, शोभाभ्रंशात् । अन्यत्रोद्गतादिभ्यो विषमवृत्तेभ्यः, संवादाद्गद्येनेति ।

न पादादौ खल्वादयः ॥ ५॥

 पादादौ खल्वादयः शब्दा न प्रयोज्याः। आदिशब्दः प्रकारार्थः। येषामादौ प्रयोगो न श्लिष्यति ते गृह्यन्ते । न पुनर्बतहन्तप्रभृतयः।

नार्धे किंचित्समाप्तं वाक्यम् ॥ ६ ॥

 वृत्तस्यार्धे किंचित्समाप्तं वाक्यं न प्रयोक्तव्यम् ।

 यथा-

 'जयन्ति ताण्डवे शंभोर्भङ्गुराङ्गुलिकोटयः।

 कराः कृष्णस्य च भुजाश्चक्रांशुकपिशत्विषः ॥'


{{gap}}न गद्य इति । गद्ये वृत्तगन्धिनि समाप्तप्रायं परिपूर्णकल्पं वृत्तं न विधेयम् । तत्र हेतुमाह- शोभेति । गद्यपरिपाटीविसंवादेन शोभाभ्रंशो जायत इत्यर्थः । अन्यत्रेति । उद्गतादिषु विषमवृत्तेषु गद्यसंवादिषु किंचिद्वृत्तं समाप्तप्रायमपि गद्ये प्रयोक्तव्यम् । तत्र हेतुः- संवादादिति । विसंवादाभावादित्यर्थः ।

 न पादादाविति । पादादौ खल्वादिप्रयोगो न श्लिष्यति, श्रुतिविरसत्वादिति भावः । यथा---'खलूक्त्वा खलु वाचिकम् ' 'इव सीतागृहच्छद्मच्छन्नो लङ्कापतिः पुरा ।' 'किल सृजति कामिनीनां किलकिञ्चितमेव कामिजनमोहम् ।' इत्यादि।

 नार्ध इति । किंचित्समाप्तम् एकपदावशेषं वाक्यम् । एकपदार्थावशेषवाक्यार्थप्रतिपादकमर्धमित्यर्थः । तादृशमर्धमुदाहरति- जयन्तीति ।.

न कर्मधारयो बहुव्रीहिप्रतिपत्तिकरः ॥ ७ ॥

 बहुव्रीहिप्रतिपत्तिं करोति यः कर्मधारयः, स न प्रयोक्तव्यः ।

 यथा-- अध्यासितश्चासौ तरुश्चाध्यसिततरुरिति ।

तेन विपर्ययो व्याख्यातः ॥ ८॥

 बहुव्रीहिरपि कर्मधारयप्रतिपत्तिकरो न प्रयोक्तव्यः ।

 यथा-वीराः पुरुषा यस्य स वीरपुरुषः । कलो रवो यस्य स कलरवः इति ।

संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ ॥ ९॥

 संभाव्यस्य निषेधस्य निवर्तने द्वौ प्रतिषेधौ प्रयोक्तव्यौ ।

 यथा----

  'समरमूर्धनि येन तरस्विना न न जितो विजयी त्रिदशेश्वरः ।

  स खलु तापसवाणपरंपराकबलितक्षतजः क्षितिमाश्रितः ॥'

विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ ॥ १० ॥

 विशेष्यस्य प्रतिपत्तौ जातायां विशेषणमात्रस्यैव प्रयोगः ।


 न कर्मधारय इति। वृत्तिः स्पष्टार्था । तादृशमुदाहरणं दर्शयति- अध्यासित इति । निष्ठापूर्वपदत्वेन बहुव्रीहिप्रतिपत्तेरेव पुरःस्फूर्तिकत्वादिति भावः ।

 तेनेति । समासान्तरप्रतिपत्तिकृतः समासस्य प्रयोगो न कार्य इति न्यायो यः फलितः पूर्वसूत्रे, तेनेत्यर्थः । विपर्ययशब्दार्थं विवृणोति - बहुव्रीहिरपीति । वीराः पुरुषा यस्येति । राजा चासौ पुरुष इति, राजा पुरुषो यस्येति वा राजपुरुष इति कर्मधारयो बहुव्रीहिर्वा ईदृशो न कर्तव्य इति तात्पर्यम् ।  संभाव्यस्येति । संप्रतिपत्तियोग्यस्य, प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः । समरेति । न जित इति न, किंतु जित एवेत्यर्थः ।  यथा-'निधानगर्भामिव सागराम्बराम् ।'

 अत्र हि पृथिव्या विशेषणमात्रमेव प्रयुक्तम् । '

 एतेन-

 'क्रुद्धस्य तस्याथ पुरामरातेर्ललाटपट्टादुदगादुदर्चिः ।'

 'गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुदतिष्ठदच्युतः ।'

 इत्यादयः प्रयोगा व्याख्याताः।

सर्वनाम्नानुसंधिर्वृत्तिच्छन्नस्य ॥ ११ ॥

 सर्वनाम्ना अनुसंधिः अनुसंधानं प्रत्यवमर्शः कार्यः, वृत्तिच्छन्नस्य वृत्तौ समासे च्छन्नस्य गुणीभूतस्य ।

 यथा- 'तवापि नीलोत्पलपत्रचक्षुषो मुखस्य तद्रेणुसमानगन्धिनः ।' इति ।

संबन्धसंबन्धेऽपि षष्ठी क्वचित् ॥ १२ ॥

 संबन्धेन संबन्धः संबन्धसंबन्धः तस्मिन् षष्ठी प्रयोज्या क्वचित्, न सर्वत्रेति ।


 विशेषणेति । यत्रानन्यसाधारणविशेषणमहिम्ना विशेष्यस्य प्रयोगमन्तरेण प्रतिपत्तिर्भवति. तत्र विशेषणमात्रप्रयोगः क्रियते । तदुदाहृत्य दर्शयति---निधानेति । अत्र सागराम्बरत्वं भुव एव, ऊर्ध्वार्चिर्योगश्चाग्नेरेव, तडित्संबन्धश्च मेघस्यैवेत्येषामनन्यसाधारणत्वम् । यत्र तु विशेषणमहिम्ना प्रतिपन्नं विशेष्यं साधारणविशेषणविशिष्टमभिधित्सितम् , तत्र विशेष्यस्यापि गतार्थस्य प्रयोगे न दोष इत्यपि द्रष्टव्यम् ।

 सर्वनाम्नेति । अत्र भाष्यकारवचनं प्रमाणम्- 'अथ शब्दानुशासनम् । केषाम् ? शब्दानाम् ।' इति । तद्रेण्विति । अत्र तच्छब्दः समासे उपसर्जनीभूतं नीलोत्पलं परामृशति ।  यथा--- 'कमलस्य कंदः' इति । कमलेन संबद्धा कमलिनी तस्याः कंद इति संबन्धसंबन्धः । तेन कदलीकाण्डादयो व्याख्याताः।

अतिप्रयुक्तं देशभाषापदम् ॥ १३ ॥

 अतीव कविभिः प्रयुक्तं देशभाषापदं प्रयोज्यम् ।

 यथा--'योषिदित्यभिललाष न हालाम्।' इत्यत्र हालेति देशभाषापदम् ।

 अनतिप्रयुक्तं तु न प्रयोज्यम् ।

 यथा- 'कङ्केलीकाननालीरविरलविलसत्पल्लवा नर्तयन्तः।' इत्यत्र कङ्केलीपदम् ।

लिङ्गाध्याहारौ ॥ १४ ॥

 लिङ्गं च अध्याहारश्च लिङ्गाध्याहारौ अतिप्रयुक्तौ प्रयोज्याविति ।

 लिङ्गं यथा- 'वत्से मा बहु निःश्वसीः कुरु सुरागण्डूषमेकं शनैः।' इत्यादिषु गण्डूषशब्दः पुंसि भूयसा प्रयुक्तः न स्त्रियाम् , आम्नातोऽपि स्त्रीत्वे।

 अध्याहारो यथा--

 'मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा ।

 वाहिनीजलभरः कुलिशं वा स्वस्ति तेऽस्तु लतया सह वृक्ष ॥'

 अत्र हि धाक्षीदित्यादीनामध्याहारोऽन्वयप्रयुक्त इति ।


 संबन्धेति । संबन्धपारम्पर्येऽपि षष्ठी भवतीत्यर्थः । कदली हि समुदायस्तस्या गर्भस्तत्र काण्डमिति संबन्धसंबन्ध इति ।

 अतिप्रयुक्तमिति | अतीव प्रयुक्तं प्रायशः प्रयुक्तम् । देशव्यवस्थिता भाषा देशभाषा, तत्र सिद्धं पदं देशभाषापदं देश्यं पदमित्यर्थः । अतिना व्यावर्त्यं कीर्तयति--- अनतीति । कङ्केलिरशोकः ।

 लिङ्गाध्याहाराविति । अतिप्रयुक्तमित्यनुवर्तते । न स्त्रियामिति । 'शुण्डाग्रभागे गण्डूषा द्वयोस्तु मुखपूरणे' इति स्त्रीत्वेऽप्याम्नातः स्त्रियां न प्रयुज्यते । मा भवन्तमिति । धाक्षीदित्यत्र आदिपदेन भाङ्क्षीत् , छैत्सीत् , भैत्सीत्

20

लक्षणाशब्दाश्च ॥ १५ ॥

 लक्षणाशब्दाश्च अतिप्रयुक्ताः प्रयोज्याः ।

 यथा-द्विरेफरोदरशब्दौ भ्रमरचक्रवाकार्थौ लक्षणापरौ ।

 अनतिप्रयुक्ताश्च न प्रयोज्याः । यथा--द्विकः काक इति ।

न तद्बाहुल्यमेकत्र ॥ १६ ॥

 तेषां लक्षणाशब्दानां बाहुल्यमेकस्मिन् वाक्ये न प्रयोज्यम् । शक्यते ह्येकस्यावाचकस्य वाचकवद्भावः कर्तुम् , न बहूनामिति ।

 स्तनादीनां द्वित्वाविष्टा जातिः प्रायेण ॥ १७ ॥

 स्तनादीनां द्वित्वाविष्टा द्वित्वाध्यासिता जातिः प्रायेण बाहुल्येनेति ।

 यथा---'स्तनयोस्तरुणीजनस्य' इति । प्रायेणेति वचनात् क्वचिन्न भवति, यथा- 'स्त्रीणां चक्षुः' इति ।


इत्येषामध्याहारो न दुष्यति, अतिप्रयुक्तत्वेन बुद्ध्यारूढत्वादिति भावः ।

 लक्षणाशब्दाश्चेति । द्वौ रेफौ यस्येति द्विरेफः । र उदरे यस्येति रोदरः। द्विरेफरोदरशब्दौ मुख्यया वृत्त्या भृङ्गरथाङ्गनामवाचकयोर्भ्रमरचक्रवाकशब्दयोर्वतेते, तेन तदर्थयो रेफसंबन्धाभावात् । अतो वाच्यवाचकयोरभेदोपचारेण तदर्थयोर्वतेते इति लक्षणाशब्दौ । 'चक्रवाको रोदरश्च कोकश्चक्राभिधाह्वयः' इति वैजयन्ती । यथा द्विरेफशब्दो अमरे रोदरशब्दश्चक्रवाके ; न तथा द्विक इति काके, अनतिप्रयुक्तत्वादिति । यदाहुः-- 'निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः' इति ।

 न बहूनामिति । लक्षणापदबाहुल्ये क्लिष्टतादोषप्रसङ्गादिति भावः ।

 तरुणीजनस्येति । जनशब्दः समूहवचनः । ननु न जातेर्द्वित्वाविष्ट अथ कथं द्वित्वाविष्टत्वं जातेः ? तद्धि द्रव्ये, न जातौ; अतद्रूपत्वात्तस्याः । न'दोषः; तद्रूपत्वाज्जातेः । कथं तद्रूपत्वं जातेः ? तद्धि जैना जानन्ति । वयं तु लक्ष्यसिद्धौ सिद्धपरमतानुवादिनः । न चैवमतिप्रसङ्गः, लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्यापि व्यवस्थोह्या ।

  इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके
  पञ्चमेऽधिकरणे प्रथमोऽध्यायः॥

त्वमुपपद्यते । संख्याया द्रव्यधर्मत्वेन जातिधर्मत्वाभावादिति शङ्कते- अथ कथमिति । जातेर्द्रव्याभिन्नत्वान्नायं दोष इति परिहरति-- न दोष इति । जातिव्यक्त्योरभेद एव कुत इति शङ्कते--- कथं तद्रूपत्वमिति । जात्यपलापवादिनो जैनाः प्रष्टव्या इत्याह--" जैना इति। अपसिद्धान्तशङ्कामवधीरयति वयं त्विति । न वयं जातिमपलप्यान्यापोहवादं समर्थयामहे, किंतु सिद्धं परमतमनूद्य प्रयोगं प्रतिष्ठापयामः । एवं तर्हि यस्य कस्यचिन्मतमवलम्ब्य यत्किचिदपि समर्थयितुं शक्यत इत्यतिपसङ्गमाशङ्क्य परिहरत-- न चैवमिति । यथा पाणिनीये क्वचिज्जातिः क्वचिद्व्यक्तिरिति पक्षद्वयमवलम्ब्य लक्ष्यनिर्वाहः क्रियते तद्वदत्रापि परमतमनुसृत्य प्रयोगनिर्वाहः कृतः । प्रसिद्धे लक्ष्ये सति तदनुसारी न्यायोऽन्विष्यते; न तु न्यायोऽस्तीति लक्ष्यमन्वेषणीयम् , लक्ष्यानुसारित्वान्न्यायस्येति । एवमन्या व्यवस्था प्रयोगमर्यादा स्वयं बुद्धिमद्भिरूहनीया ।

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालकारकामधेनौ प्रायोगिके

पञ्चमेऽधिकरणे प्रथमोऽध्यायः॥

 सांप्रतं शब्दशुद्धिरुच्यते--

रुद्रावित्येकशेषोऽन्वेष्यः ॥१॥

 रुद्रावित्यत्र प्रयोगे एकशेषः अन्वेष्यः अन्वेषणीयः । रुद्रश्च रुद्राणी चेति 'पुमान् स्त्रिया' इत्येकशेषः; स च न प्राप्नोति । तत्र हि 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव यदि विशेषो भवतीति व्यवस्थितम् । अत्र तु 'पुंयोगादाख्यायाम्'

छिन्त्ते मोहं चित्प्रकर्षं प्रयुङ्के सूते सूक्तिं सूयते या पुमर्थान् ।

प्रीतिं कीर्तिं प्राप्तुकामेन सैषा शाब्दी शुद्धिः शारदेवास्तु सेव्या ॥

 अथेदानीमध्यायान्तरं व्याचिख्यासुस्तत्प्रयोजनं प्रस्तौति---सांप्रतमिति । तत्र तावदेकशेषविषयं किंचिच्छोधयितुं सूत्रमनुभाषते- रुद्राविति । 'पुमान् स्त्रिया' इत्येकशेषो विधीयते । तत्र 'वृद्धो यूना-' इति सूत्रात् 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते । तदिति स्त्रीपुंसयोर्निर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यर्थे । एवकारोऽवधारणे । विशेषो वैरूप्यम् । स्त्रिया सह वचने पुमान् शिष्यते । स्त्रीपुंसलक्षण एव चेद्विशेषो भवति, स्त्रीपुंसकृतमेव यदि वैरूप्यं भवतीत्यर्थः । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविति । तद्वदेव रुद्रश्च रुद्राणी च रुद्रावित्यत्राप्येकशेषः प्राप्नोतीति यः कश्चिदभिमन्यते, तत्प्रतिषेधाय प्रयोगादर्शनं प्रत्याययति-अन्वेषणीय इति । न्यायतः प्राप्तौ प्रयोगोऽप्युन्नीयतामिति, तत्राह-स च न प्राप्नोतीति । अप्राप्तिमेव दर्शयितुमाह-तत्र हीति । अस्त्वेवं व्यवस्था, प्रकृते को विरोध इति तत्राह-अत्र त्विति । रुद्राणीत्यत्र 'पुंयोगादाख्यायाम्' इत्यनुवर्तमाने 'इन्द्रवरुण-' इत्यादिना ङीष् विधीयते---पुंस आख्याभूतं यत्प्रातिपदिकं पुंयोगात् स्त्रियां वर्तते तस्मात् ङीष्प्रत्ययो भवतीति । अतस्तल्लक्षणविशेषव्यतिरेकेण विशेषान्तरस्यापि विद्यमानत्वान्नात्रैकशेषप्राप्तिरिति ।