काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/पञ्चमाधिकरणम्/द्वितीयोऽध्यायः

विकिस्रोतः तः

 सांप्रतं शब्दशुद्धिरुच्यते--

रुद्रावित्येकशेषोऽन्वेष्यः ॥१॥

 रुद्रावित्यत्र प्रयोगे एकशेषः अन्वेष्यः अन्वेषणीयः । रुद्रश्च रुद्राणी चेति 'पुमान् स्त्रिया' इत्येकशेषः; स च न प्राप्नोति । तत्र हि 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते इति तत्रैवकारकरणात् स्त्रीपुंसकृत एव यदि विशेषो भवतीति व्यवस्थितम् । अत्र तु 'पुंयोगादाख्यायाम्'

छिन्त्ते मोहं चित्प्रकर्षं प्रयुङ्के सूते सूक्तिं सूयते या पुमर्थान् ।

प्रीतिं कीर्तिं प्राप्तुकामेन सैषा शाब्दी शुद्धिः शारदेवास्तु सेव्या ॥

 अथेदानीमध्यायान्तरं व्याचिख्यासुस्तत्प्रयोजनं प्रस्तौति---सांप्रतमिति । तत्र तावदेकशेषविषयं किंचिच्छोधयितुं सूत्रमनुभाषते- रुद्राविति । 'पुमान् स्त्रिया' इत्येकशेषो विधीयते । तत्र 'वृद्धो यूना-' इति सूत्रात् 'तल्लक्षणश्चेदेव विशेषः' इत्यनुवर्तते । तदिति स्त्रीपुंसयोर्निर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यर्थे । एवकारोऽवधारणे । विशेषो वैरूप्यम् । स्त्रिया सह वचने पुमान् शिष्यते । स्त्रीपुंसलक्षण एव चेद्विशेषो भवति, स्त्रीपुंसकृतमेव यदि वैरूप्यं भवतीत्यर्थः । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविति । तद्वदेव रुद्रश्च रुद्राणी च रुद्रावित्यत्राप्येकशेषः प्राप्नोतीति यः कश्चिदभिमन्यते, तत्प्रतिषेधाय प्रयोगादर्शनं प्रत्याययति-अन्वेषणीय इति । न्यायतः प्राप्तौ प्रयोगोऽप्युन्नीयतामिति, तत्राह-स च न प्राप्नोतीति । अप्राप्तिमेव दर्शयितुमाह-तत्र हीति । अस्त्वेवं व्यवस्था, प्रकृते को विरोध इति तत्राह-अत्र त्विति । रुद्राणीत्यत्र 'पुंयोगादाख्यायाम्' इत्यनुवर्तमाने 'इन्द्रवरुण-' इत्यादिना ङीष् विधीयते---पुंस आख्याभूतं यत्प्रातिपदिकं पुंयोगात् स्त्रियां वर्तते तस्मात् ङीष्प्रत्ययो भवतीति । अतस्तल्लक्षणविशेषव्यतिरेकेण विशेषान्तरस्यापि विद्यमानत्वान्नात्रैकशेषप्राप्तिरिति ।  इति विशेषान्तरमप्यस्तीति । एतेनेन्द्रौ भवौ शर्वावित्यादयः प्रयोगाः प्रत्युक्ताः।

मिलिक्लबिक्षपिप्रभृतीनां धातुत्वं धातुगणस्यापरिसमाप्तेः ॥ २॥

 मिलति विक्लबति क्षपयतीत्यादयः प्रयोगा दृश्यन्ते । तत्र मिलिक्लबिक्षपिप्रभृतीनां कथं धातुत्वम् , गणपठितानामेव धातुसंज्ञाविधा- नात् ? तत्राह- धातुगणस्यापरिसमाप्तेः । 'वर्धते धातुगणः' इति हि शब्दविद आचक्षते । तेनैषां गणपाठेऽनुमतिः, शिष्टप्रयोगादिति ।

वलेरात्मनेपदमनित्यं ज्ञापकात् ॥ ३ ॥

 वलेरनुदात्तेत्त्वादात्मनेपदं, यत् , तदनित्यं दृश्यते-'लज्जालोलं वलन्ती' इत्यादिप्रयोगेषु । तत् कथमित्याह-ज्ञापकात् । किं पुनस्तज्ज्ञापकम् ? चक्षिङो द्व्यनुबन्धकरणम् । चक्षिङ इकारेणैवानुदात्तेन सिद्ध-


एतत्समानयोगक्षेमाणि प्रयोगान्तराणि प्रत्याख्येयानीत्याह--एतेनेति

 मिलिक्लबीति । 'भूवादयो धातवः' इति गणपठितानामेव धातुसंज्ञाविधानाद्धातुगणे मिलिप्रभृतीनामपाठात् कथं धातुत्वमित्याशङ्कापूर्वकं धातुत्वं समर्थयते-- मिलति विक्लबति क्षपयतीति । धातुगणस्यापरिसमाप्तौ प्राचीनाचार्यवचनं प्रमाणयति--- वर्धते धातुगण इति । प्रभृतिग्रहणाद्वीज्यान्दोलादयः ।

 वलेरात्मनेपदमिति । ' अनुदात्तङित आत्मनेपदम्' इति वलेर्धातोरनुदात्तेत्त्वान्नित्यमात्मनेपदप्राप्तौ शिष्टप्रयोगेषु परस्मैपददर्शनात् तत्सिद्धये क्वचिदनु दात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यत्वं ज्ञापकेन समर्थयितुमाह-वलेरनुदात्तेत्वादिति । अनुदात्तेत्वनिबन्धनस्यात्मनेपदस्यानित्यत्वे चक्षिङो ङित्करणं ज्ञापकमित्याह-चक्षिङो द्व्यनुबन्धकरणमिति । इकारेणैवेति । नन्वेवं गोः पादान्ते' इत्यतोऽन्तग्रहणानुवृत्तेरन्तेदित्त्वे सति 'इदितो नुं धातोः' इति नुम् स्यात्, मात्मनेपदम्; किमर्थं ङित्करणम् ? तत्क्रियते अनुदात्तनिमित्तस्यात्मनेपदस्यानित्यत्वज्ञापनार्थम् ।

 एतेन वेदिभर्त्सितर्जिप्रभृतयो व्याख्याताः। आवेदयति, भर्त्सयति, तर्जयतीत्यादीनां प्रयोगाणां दर्शनात् । अन्यत्राप्यनुदात्तनिबन्धन- स्यात्मनेपदस्यानित्यत्वं ज्ञापकेन द्रष्टव्यमिति ।

क्षीयत इति कर्मकर्तरि ॥ ४ ॥

 क्षीयत इति प्रयोगो दृश्यते ; स कर्मकर्तरि द्रष्टव्यः । क्षीयतेरनात्मनेपदित्वात् ।

खिद्यत इति च ॥ ५॥

 खिद्यत इति च प्रयोगो दृश्यते, सोऽपि कर्मकर्तर्येव द्रष्टव्यः, न कर्तरि, अदैवादिकत्वात् खिदेः।


तर्हि 'चक्ष व्यक्तायां वाचि' इत्यकरान्तः पठ्येतेति भावः । उक्तमात्मनेपदस्यानित्यत्वं वेदिभर्त्सिप्रभृतिष्वपि द्रष्टव्यमित्याह-- एतेनेति । 'आ गर्वादात्मनेपदिनः' इत्यात्मनेपदित्वेनानुदात्तेत्त्वं लक्ष्यत इति भावः । अन्यथानुदात्तेत्त्वनिबन्धनस्यात्मनेपदस्यानित्यताज्ञापने किमायातम् । न चैवमतिप्रसङ्गः, शिष्टप्रयोगमात्रविषयत्वाज्ज्ञापकस्य ।

{{gap}}क्षीयत इति । क्षिणोतेः सौवादिकस्य श्नुप्रत्ययान्तत्वेन प्रसिद्धावपि क्षीयत इति कर्तरि शिष्टप्रयोगो दृश्यते; तस्योपपत्तिमाह–स कर्मकर्तरि द्रष्टव्य इति । क्षिणोतेः कर्मस्थभावकत्वात् कर्मवद्भावः ॥

 खिद्यत इति चेति । चकारेण कर्मकर्तरीति समुच्चिनोति-सोಽपीति । खिदोऽकर्मकत्वादन्तर्भावितण्यर्थत्वे प्रयोज्यकर्मस्थभावकत्वात् कर्मवद्भावः । खिदेरनुदात्तेतः श्यनि कृते खिद्यत इति रूपं सिध्यतीति शङ्कां परिहरति-- अदैवादिकत्वादिति ।


 1. वस्तुतस्तु पद्यतेरनन्तर खिद्यतिरात्मनेपदी दिवादावुपलभ्यत एव । खिद्यत इति पाठान्तरम् । व्याख्याता तु खिदिमेव मन्यते । क्षीयत इति च दिवादेरवृत्कृतत्वात्सिध्यतीति दीक्षितप्रभृतयः।

मार्गेरात्मनेपदमलक्ष्म ॥ ६ ॥

 चुरादौ ‘मार्ग अन्वेषणे' इति पठ्यते 'आ धृषाद्वा' इति विकल्पितणिच्कः । तस्माद्यदात्मनेपदं दृश्यते-मार्गन्तां देहभारमिति; तत् अलक्ष्म अलक्षणम् , परस्मैपदित्वान्मार्गेः । तथा च शिष्टप्रयोगः- 'करकिसलयं धृत्वा धृत्वा विमार्गति वाससी।'

लोलमानादयश्चानशि ॥ ७॥

 लोलमानो वेल्लमान इत्यादयश्चानशि द्रष्टव्याः। शानचस्त्वभावः, परस्मैपदित्वाद्धातूनामिति ।

लभेर्गत्यर्थत्वापिणच्यणौ कर्तुः कर्मत्वाकर्मत्वे ॥ ८॥

 अस्त्ययं लभिः, यः प्राप्त्युपसर्जनां गतिमाह; अस्ति च यो गत्यु-

 मार्गेरिति । चौरादिकस्य मार्गेः ‘आ धृषाद्वा' इति णिचो वैकल्पिकत्वेन तदभावे सति परस्मैपदित्वान्मार्गतीति शिष्टप्रयोगदर्शनाच्च परस्मैपदे प्रयोक्तव्ये, यत्तु प्रयोगे कुत्रचिदात्मनेपदं दृश्यते~ मार्गन्तामिति ; तल्लक्षणहीनमित्याह--चुरादाविति । द्वयोरपि प्रयोगयोर्दर्शने कथमत्र व्यवस्थेति तत्राह- तथा च शिष्टप्रयोग इति । {{gap}}लोलमानादय इति । 'लोलमाननवमौक्तिकहारं वेल्लमानचिकुरश्लथमाल्यम् । स्विन्नवक्त्रमविकस्वरनेत्रं कौशलं विजयते कलकण्ठ्याः ॥' इत्यादिषु लोलमानादयः प्रयोगा दृश्यन्ते । परस्मैपदित्वादेतेषां शानजन्तत्वं विरुद्धम् ; आत्मनेपदित्वाच्छानच इत्याशङ्कायां प्रकारान्तरेण साधुत्वं समर्थयते---- लोलमानो वेल्लमान इति । 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति ताच्छील्यादिष्वर्थेषु धात्वधिकारे चानशो विधानादेते प्रयोगाश्चानशि द्रष्टव्याः; न तु शानचि । अतो न विरोधः ।

 लभेरिति । यद्यपि 'डुलभष् प्राप्तौ' इति प्राप्तिरेव लभेरर्थः, तथापि प्राप्तेर्गतिपूर्वकत्वात् प्राप्तिगत्योः कार्यकरणयोरभेदोपचारेण प्राप्त्युपसर्जनगत्यर्थत्वमपि लभेरङ्गीकृत्य प्रथमं तावत्पक्षद्वयं प्रस्तौति--अस्त्ययमिति । यः प्राप्त्युपसर्जनां प्राप्तिमाहेति । अत्र पूर्वस्मिन् पक्षे गत्यर्थत्वाल्लभेर्णिचि अणौ यः कर्ता, तस्य गत्यादिसूत्रेण कर्मसंज्ञा ।

 यथा- 'दीर्घिकासु कुमुदानि विकासं लम्भयन्ति शिशिराः शशिभासः।'

 द्वितीये तु पक्षे गत्यर्थत्वाभावाल्लभेर्णिच्यणौ कर्तुर्न कर्मसंज्ञा ।

 यथा-

  'सितं सितिना सुतरां मुनेर्वपु-
   र्विसारिभिः सौधमिवाथ लम्भयन् ।
  द्विजावलिव्याजनिशाकरांशुभिः
   शुचिस्मितां वाचमवोचदच्युतः ॥'

तेमेशब्दौ निपातेषु ॥९॥

 त्वया मयेत्यस्मिन्नर्थे ते-मे-शब्दौ निपातेषु द्रष्टव्यौ ।

 यथा--'श्रुतं ते वचनं तस्य' 'वेदानधीत इति नाधिगतं पुरा मे।'

 तिरस्कृत इति परिभूतेऽन्तर्युपचारात् ॥ १०॥


सर्जनां गतिमाह, सोऽयं लभिरस्ति; यश्च गत्युपसर्जनां प्राप्तिमाह अयमपि लभिरस्तीति योजना । विवक्षावशात् लभिरयं कदाचित् प्राधान्येन गतिमाह, कदाचित्तु प्राप्तिमित्यर्थः । तत्र प्रथमे पक्षे निर्विवादमणिकर्तुर्णिचि कर्मत्वमित्याह- अत्र पूर्वस्मिन्निति । द्वितीये तु गत्यर्थत्वाभावान्नास्त्यणिकर्तुः कर्मसंज्ञेत्याह-- द्वितीये त्विति। ततश्च सितिम्नेत्यत्र ‘कर्तृकरणायोस्तृतीया' इति प्रयोज्ये कर्तरि तृतीया ।

 तेमे इत्यादि । अत्र 'तेमयावेकवचनस्य' इति युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोस्तेमयावादिष्टौ इति विभक्त्यन्तरस्थयोस्तयोरादेशाप्राप्तौ निपातेषु पाठात् तत्रापि प्रयोगसिद्धिरित्याह- तेमेशब्दाविति

{{gap}}तिरस्कृत इति । तिरस्कृतशब्दस्य परिभूतार्थे प्रयोगं दर्शयन् , तस्यानु तिरस्कृतशब्दः परिभूते दृश्यते-- 'राज्ञा तिरस्कृतः' इति ; स च न प्राप्नोति । तिरःशब्दस्य हि 'तिरोऽन्तर्धौ' इत्यन्तर्धौ गतिसंज्ञा । तस्यां च सत्याम् 'तिरसोऽन्यतरस्याम्' इति सकारः । तत्कथं तिरस्कृत इति परिभूते? आह- अन्तर्ध्युपचारादिति । परिभूतो ह्यन्तर्हितवद्भवति । मुख्यस्तु प्रयोगो यथा-- 'लावण्यप्रसरतिरस्कृताङ्गलेखाम् ।'

नैकशब्दः सुप्सुपेति समासात् ॥ ११ ॥

 'अरण्यानीस्थानं फलनमितनैकद्रुममिदम्' इत्यादिषु नैकशब्दो दृश्यते; स च न सिध्यति । नञ्समासे हि 'नलोपो नञः' इति नलोपे 'तस्मानुडचि' इति नुडागमे सति अनेकमिति रूपं स्यात् । निरनुबन्धकस्य नशब्दस्थ समासे लक्षणं नास्ति । तत् कथं नैकशब्द इत्यत्राह-- सुप्सुपेति समासात् ।

मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पाठात् ॥ १२ ॥

पपत्तिमुद्धाटयति- तिरस्कृतशब्द इत्यादिना । समाधत्ते-~~ अन्तर्ध्युपचारादिति । मुख्यपूर्वकत्वाद्गौणस्य मुख्यं दर्शयति-- मुख्यस्त्विति

 नञ्समासे हीति । 'नलोपो नञः' इति नकारलोपे सति, तस्मान्नु डचि' इति नुडागमे च कृते, अनेकमिति रूपं स्यात् , न तु नैकमिति । ननु न सिध्यति चेन्मास्तु नसमासः; प्रकारान्तरेण किं न स्यादित्यत आह-निरनुबन्धकस्येति । सुप्सुपेति । 'सुबामन्त्रिते पराङ्गवत्स्वरे' इत्यतः सुबित्यनुवृतौ, 'सह सुपा' इति योगविभागात् सुबन्तं पदं सुबन्तेन सह समस्यत इति समासे नैकशब्दः सिद्धो भवतीत्यर्थः ।

 मधुपिपासुप्रभृतीनामिति । श्रितादिष्वग्रहणान्नात्र द्वितीयासमासः संभबति । नापि कृदन्तेन सह षष्ठीसमासः, 'न लोक--' इत्यादिसूत्रे उप्रत्यया-

21  ‘मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधाम्' इत्यादिषु मधुपिपासुप्रभृतीनां समासो गमिगाम्यादिषु पिपासुप्रभृतीनां पाठात् । 'श्रितादिषु गमिगाम्यादीनामुपसंख्यानम् ' इति द्वितीयासमासलक्षणं दर्शयति ।

त्रिवलीशब्दः सिद्धः संज्ञा चेत् ॥ १३ ॥

 त्रिवलीशब्दः सिद्धो यदि संज्ञा, 'दिक्संख्ये संज्ञायाम्' इति संज्ञायामेव समासविधानात् ।

बिम्बाधर इति वृत्तौ मध्यमपदलोपिन्याम् ॥१४॥

न्तेन योगे षष्ठीनिषेधात् । तत् कथमत्र समास इति चिन्तायां समासस्य गतिमाह- गमिगाम्यादिष्विति

 त्रिवलीशब्द इति । 'कोणस्त्रिवल्येव कुचावलाबूस्तस्यास्तु दण्डस्तनुरोमराजिः । हारोऽपि तन्त्रीरिति मन्मथस्य संगीतविद्यासरलस्य वीणा ॥' किमयं संज्ञा, असंज्ञा वा ? । असंज्ञापक्षे त्रिवलीशब्दस्य तद्धितार्थोत्तरपदसमाहारे च' इति समासो वक्तव्यः ; तत्तु न संघटते । तथाहि-न तावत् पञ्चकपाल इत्यादिवत् तद्धितार्थों विषयोऽस्ति । नापि पञ्चगवधन इत्यादिवदुत्तरपदं परम् । न चापि पञ्चपात्रमित्यादिवत् समाहारः ; समाहारे हि तस्यैकत्वादेकवद्भावे सति 'स नपुंसकम्' इति नपुंसकत्वं स्यात् । तदत्रासंज्ञापक्षो नेष्ट इत्यभिसंधाय संज्ञापक्षमाश्रित्य समासमाह-- त्रिवलीशब्दः सिद्धो यदि संज्ञेति । यदि त्रिवलीशब्दः संज्ञा भवति, तदा त्र्यवयवा वली त्रिवलीति विग्रहे 'दिक्संख्ये संज्ञायाम्' इति समासः सिध्यति ।

 बिम्बाधर इति । अत्र समासवृत्तिं संवेदयितुमभियुक्तप्रयोगं तावद्दर्श-


 1. अत्र वदन्ति- यदि त्रिवलीशब्दे सज्ञात्वात् 'दिक्सख्ये---' इत्यनेन समासः, तर्हि सप्तर्षय इतिवत् बहुवचनेन भाव्यम् । यदि च त्र्यवयवा वली इति व्याख्यातृप्रदर्शितो विग्रहः, तर्हि शाकपार्थिवादित्वात्समास इति 'दिक्संख्ये' इति समास इति व्याह्रतम् । समासान्तरान्तर्भावाभिप्रायेण तु कथचिन्मूले नेयमिति ।  'बिम्बाधरः पीयते' इति प्रयोगो दृश्यते; स च न युक्तः । अधरबिम्ब इति भवितव्यम् , 'उपमितं व्याघ्रादिभिः--' इति समासे सति । तत् कथं बिम्बाधर इति ? आह- वृत्तौ मध्यमपदलोपिन्याम् । शाकपार्थिवादित्वात् समासे मध्यमपदलोपिनि सति बिम्बाकारोऽधरो बिम्बाधर इति । तेन बिम्बोष्ठशब्दोऽपि व्याख्यातः । अत्रापि पूर्ववृत्तिः । शिष्टप्रयोगेषु चैष विधिः । तेन नातिप्रसङ्गः ।

आमूललोलादिषु वृत्तिर्विस्पष्टपटुवत् ॥ १६ ॥

 'आमूललोलम् ' 'आमूलसरसम्' इत्यादिषु वृत्तिर्विस्पष्टपटुवत् मयूरव्यंसकादित्वात् ।

न धान्यषष्ठादिषु षष्ठीसमासप्रतिषेधः पूरणेन तद्धितान्तत्वात् ॥ १७॥


यति -- बिम्बाधरः पीयत इति । प्रामाणिकप्रयोगदर्शनादयमसाधुरिति वक्तुमयुक्तमित्याशङ्क्याह-- स च न युक्त इति । लक्षणानुगुणं प्रयोगं दर्शयन्नस्या अयुक्तत्वं दर्शयति-~~ अधरबिम्ब इति । समाधत्ते-- वृत्तौ मध्यमपदलोपिन्यामिति । उक्तामुपपत्तिमन्यत्राप्यनुगमयति-- तेनेति । ननु तर्हि व्याघ्राकारः पुरुषो व्याघ्रपुरुष इत्यपि स्यादित्यतिप्रसङ्गं परिहरति--- शिष्टप्रयोगेषु चैष विधिरिति ।

 आमूललोलादिष्विति । आमूलं लोलमिति विग्रहः । अत्र तत्पुरुषाधिकारे लक्षणदर्शनात् समासान्तरस्य चाप्रसक्तेः कथमामूललोलादिप्रयोगः सिध्यतीति चिन्तायाम् ‘अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः' इति वचनात् विस्पष्टपटुशब्दवत् समाससिद्धिरित्याह- आमूललोलमामूलसरसमिति ।

 न धान्यषष्ठादिष्विति । धान्यानां षष्ठमुञ्छानां षष्ठमित्यत्न पूरणगुणसुहितार्थ-' इति सूत्रेण पूरणप्रत्ययान्तेन समासनिषेधः क्रियते ; स च न भवतीत्याह-धान्यषष्ठमिति । तत्र हेतुमाह---तद्धितेति । षष्ठशब्दस्य तद्धि 'धान्यषष्ठम्' 'तान्युञ्छषष्ठाङ्कितसैकतानि' इत्यादिषु न षष्ठीसमासप्रतिषेधः पूरणेन पूरणप्रत्ययान्तेन तद्धितान्तत्वात् षष्ठो भागः षष्ठ इति ; 'पूरणाद्भागे तीयादन्' 'षष्ठाटमाभ्यां ञ च' इत्यन्विधानात् ।

पत्रपीतिमादिषु गुणवचनेन ॥ १८ ॥

 'पत्रपीतिमा,' 'पक्ष्मालीपिङ्गलिम्नः' इत्यादिषु षष्ठीसमासप्रतिषेधो गुणवचनेन प्राप्तः, बालिश्यात्तु न कृतः।

अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः ॥ १९ ॥

 अवर्ज्यो न वर्जनीयो व्यधिकरणो बहुव्रीहिः । जन्मादि उत्तरपदं यस्य स जन्माधुत्तरपदः।

 यथा--'सच्छास्त्रजन्मा हि विवेकलाभः' 'कान्तवृत्तयः प्राणा:' इति ।

तान्तत्वादित्यर्थः । कः पुनरत्र पूरणप्रत्ययव्यतिरेकेण तद्धित इत्याकाङ्क्षायां तद्धितं दर्शयति---षष्ठो भाग इति । 'पूरणाद्भागे तीयादन्' इत्यनुवृत्तौ 'षष्ठाष्टमाभ्यां ञ च' इत्यन्विधानादन्यतद्धितान्तत्वमित्यर्थः ।

 पत्रपीतिमादिष्विति । अत्र ‘पूरणगुण' इत्यादिसूत्रेण गुणवाचिना षष्ठीसमासप्रतिषेधः प्राप्तः । स तु मौढ्यान्न कृतः । अतः पत्रपीतिमादयो न युक्ता इत्याह- पत्रपीतिमा': पक्ष्मालीपिङ्गीलम्नः इति । वर्तमानसामीप्ये' इति ज्ञापकात् पत्रपीतिमादय सिध्यन्तीति केचित् । येषां तु मतम् - गुणः संबन्धित्वाद्गुणिनमाक्षिपति । तेन गुणेन गुणिनः षष्ठीसमासनिषेधः । न च वर्तमानः सामीप्ये गुणी। भूतभविष्यतोरेव तद्गुणित्वादिति । तेषां मते 'उत्तरपदार्थप्राधान्ये' इति ज्ञापकादनित्यः षष्ठीसमासप्रतिषेध इति केचिदाचक्षते ।

 अवर्ज्य इति। 'बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम्' इति वचनात् व्यधिकरणस्य बहुव्रीहेरसिद्धौ क्वचिद्विषये तत्प्रसिद्धिमाह-- अवर्ज्य इति । सच्छास्त्राज्जन्म यस्य स सच्छास्त्रजन्मा, कान्ते प्रिये वृत्तिर्येषां ते कान्तवृत्तय इति व्यधिकरणत्वम् । यत्र गमकत्वम् , तत्रेदं वेदितव्यम् ।

हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् ॥ २० ॥

 हस्ताग्रम् , अग्रहस्तः, पुष्पाग्रम् , अग्रपुष्पम् , इत्यादयः प्रयोगाः कथम् । आहिताग्न्यादिष्वपाठात् , पाठे वा तदनियमः स्यात् ? आह- गुणगुणिनोर्भेदाभेदात् । तत्र भेदात् हस्ताग्रादयः । अभेदात् अग्रहस्तादयः।

पूर्वनिपातेऽपभ्रंशो रक्ष्यः ॥ २१ ॥

 काष्ठतृणं तृणकाष्ठमिति यदृच्छया पूर्वनिपातं कुर्वन्ति । तत्रापभ्रंशो रक्ष्यः परिहरणीयः । अनित्यत्वज्ञापनं तु न सर्वविषयमिति ।

निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ॥ २२ ॥

 हस्ताग्रेति । अत्र गुणशब्देन परार्थत्वसादृश्यादवयवो लक्ष्यते । तथा च गुणगुणिनाविहावयवावयविनौ । तयोर्भेदविवक्षायां हस्ताग्रादयः । तदा षष्ठीसमासः । अभेदविवक्षायां त्वग्रहस्तादयः । तदा अभेदोपचारेऽपि प्रवृत्तिनिमित्तभेदाद्विशेषणसमासः ॥

 पूर्वनिपात इति । 'लध्वक्षरं पूर्व निपतति' इति वार्तिककारवचनेन द्वन्द्वे पूर्वनिपातविधानात्तृणकाष्ठमिति वक्तव्ये काष्ठतृणमिति क्वचित् केनचित् प्रयुक्तम् । तत्र पूर्वनिपाते अपभ्रंशः शास्त्रमर्यादातिक्रमः । स रक्ष्यः परिहरणीयः, तथा न प्रयोक्तव्यमिति तात्पर्यम् । ' कुमारशीर्षयोः' इति ज्ञापकात् पूर्वनिपातव्यत्यासो' भविष्यतीति तत्राह- अनित्यत्वज्ञापनं त्विति । न सर्वेति । 'प्राप्तस्य चाबाधा' इति वचनाच्छिष्टप्रयुक्तद्वन्द्वविषयमेवेति भावः ।

 निपातेनापीति । ब्राह्मणं देवदत्त इति मन्यते' इत्यादौ 'अनभिहिते' इत्यधिकारात् तिङ्कृत्तद्धित्तसमासैरनभिहिते कारके कर्मणि द्वितीयया भवितव्यमित्याशङ्कायामाह-निपातेनापीति । तत्र हेतुमाह- परिगणनस्येति । भगवता बार्तिककारेण प्रायिकाभिप्रायेण 'तिङ्कृत्तद्धितसमासैः' इति परिगणनं कृत 'अनभिहिते' इत्यत्र सूत्रे 'तिकृत्तद्धितसमासैः' इति परिगणनं कृतम् । तस्य प्रायिकत्वान्निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिर्भ- वति ।

 यथा- 'विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्' 'पण्डितं मूर्ख इति मन्यते' इति ।

शक्यमिति रूपं कर्माभिधायां लिङ्गवचनस्यापि सामान्योपक्रमात् ॥ २३ ॥

 शकेः 'शकिसहोश्च' इति कर्मणि यति सति शक्यमिति रूपं भवति कर्माभिधायां कर्मवचने । लिङ्गवचनस्यापि सामान्योपक्रमात् विशेषानपेक्षायामिति ।

म् । ततश्चैवंविधाः प्रयोगाः सिद्धा इति दर्शयति-विषवृक्ष इति । अत्र संवधनच्छेदनक्रिययोः सकर्मकत्वेन कर्माकाङ्क्षायां न कर्मविभक्तिर्भवति, विधेयायुक्तस्वाभिधायिना असांप्रतमिति निपातेनाभिहितत्वात् । नन्वसांप्रतपदस्य तद्धितान्तत्वात् तेनैवाभिहिते न भवत्येव कर्मविभक्तिः । अतो नेदमुदाहरणमिति न चोदनीयम् ; 'युक्ते काले च सांप्रतम्' इत्यभिधानादतद्धितान्त एवायं निपातः । तद्धितान्तत्वे वा तस्यानन्यार्थत्वान्न तेनाभिधानमिति भावः । शब्दशक्तिस्वाभाव्यादस्याभिधायकत्वमिति द्रष्टव्यम् । मूर्ख इति । अत्र समुदायस्य कर्मत्वेऽपि 'अर्थवत्समुदायानां समासग्रहणं नियमार्थम्' इति वाक्यान्न विभक्त्युत्पत्तिः ।

 शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः' इत्यादयः प्रयोगा दृश्यन्ते। शकेः कृत्यप्रत्यये शक्यमिति रूपम् । 'तयोरेव कृत्यक्तखलर्थाः' इति कर्मार्थे विहितस्य तस्य कर्माभिधायां विशेष्यवल्लिङ्गवचनाभ्यां भवितव्यमिति प्राप्ते प्राह-शक्यमिति रूपमिति । कर्माभिधायामपि शक्यमिति रूपं सिद्धम् । तत्र हेतुमाह-~-लिङ्गवचनस्यापीति । लिङ्गं च वचनं च लिङ्गवचनम् । तस्य सामान्योपक्रमाल्लिङ्गसामान्यं नपुंसकम् , वचनसामान्यम् एकत्वम् , तयोरुपक्रमात् विशेषनैरपेक्ष्येण लिङ्गवचनसामान्यस्य विवक्षणादित्यर्थः । उदाहृत्य दर्शयति- यथा-

 'शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।

 अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसंपुटैः कराः ॥'


 न चैकान्तिकः सामान्योपक्रमः । तेन 'शक्या भङ्क्तुं झटिति बिसिनीकंदवच्चन्द्रपादाः' इत्यपि भवति ।

हानिवदाधिक्यमप्यङ्गानां विकारः॥ २४ ॥

 'येनाङ्गविकारः' इत्यत्र सूत्रे यथा अङ्गानां हानिः, तथा आधिक्यमपि विकारः।

 यथा 'अक्ष्णा काणः' इति भवति, तथा 'मुखेन त्रिलोचनः' इत्यपि भवति ।

न कृमिकीटानामित्येकवद्भावप्रसङ्गात् ॥ २५॥

 'आयुषः कृमिकीटानामलंकरणमल्पता' इत्यत्र कृमिकीटानामिति प्रयोगो न युक्तः, क्षुद्रजन्तवः' इत्येकवद्भावप्रसङ्गात् । न च मध्यमप- दलोपी समासो युक्तः, तस्य असर्वविषयत्वात् ।

न खरोष्ट्रावुष्ट्रखरमिति पाठात् ॥ २६ ॥

यथेति । ऐकान्तिको नियतः ।

 हानिवदिति । मुखेन त्रिलोचन इत्यत्र तृतीयाप्राप्तावनुशासनस्यादर्शनात् कथमत्र तृतीयेति चिन्तायामाह-- येनाङ्गविकार इति । हानिः न्यूनता । यथा अङ्गानां न्यूनता विकारः तथा आधिक्यमपि विकार एव, अतो 'येनाविकारः' इति तृतीया ।

 न कृमीति । क्षुद्रजन्तुवाचिनां द्वन्द्वसमासे एकवद्भावविधानात् बहुवचनान्तप्रयोगो न साधुरित्याह- आयुष इति । ननु मुखसहिता नासिका मुखनासिकेतिवत् मध्यमपदलोपी समासः स्यादित्यपि न वक्तुं युक्तम् । तस्य असार्वत्रिकत्वादिति समर्थयते-- न चेति

 न खरोष्ट्राविति । गवाश्वादिगणे उष्ट्रखरमिति निपातितत्वात् खरोष्ट्रा 'खरोष्ट्रौ वाहनं येषाम्' इत्यत्र खरोष्ट्राविति प्रयोगो न युक्तः, गवाश्वप्रभृतिषु 'उष्ट्रखरम्' इति पाठात् ॥

आसेत्यसतेः ॥ २७॥

 'लावण्यमुत्पाद्य इवास यत्नः' इत्यत्र आस इत्यसतेर्धातोः 'अस गतिदीप्त्यादानेषु' इत्यस्य प्रयोगः; न अस्तेः, भूभावविधानात् ।

युध्येदिति युधः क्यचि ॥ २८ ॥

 'यो भर्तृपिण्डस्य कृते न युध्येत्' इति प्रयोगः; स चायुक्तः, युधेरात्मनेपदित्वात् । तत् कथं युध्येदित्यत्राह- युधः क्यचि । युध- मात्मन इच्छेत् युध्येदिति ।

विरलायमानादिषु क्यङ् निरूप्यः॥ २९ ॥

 'बिरलायमाने मलयमारुते' इत्यादिषु क्यङ् निरूप्यः, भृशादिष्वपाठात् । नापि क्यष् , लोहितादिष्वपाठात् ।

अहेतौ हन्तेर्णिच् चुरादिपाठात् ॥ ३०॥

विति व्यत्यासेन प्रयोगोऽनुपपन्न इत्याह-- खरोष्ट्रौ वाहनमिति ।

 आसेति । 'अस्तेर्भूः' इत्यार्धघातुके भूभावविधानात् कथमासेति प्रयोग इति प्राप्ते, असतेर्धातोर्लिटि रूपमासेति, न पुनरस्तेरित्याह-- लावण्य इति

 युध्येदिति । युधेरात्मनेपदिनः परस्मैपदं दृश्यते । तस्य शिष्टप्रयोगस्य साधुत्वं दर्शयितुमाह-- य इति । युधशब्दात् 'सुप आत्मनः क्यच्' इति क्यच्प्रत्यये कृते सति लिङि युध्येदिति सिध्यतीत्याह- युधमिति

 विरलायमानादिष्विति । क्यक्यषोरप्राप्तत्वात् प्रत्याचष्टे--विरलायमान इति ।

 अहेताविति । घातयित्वेत्यत्र अहेतुकर्तृभावेऽपि प्रयोगो दृश्यते । स  'घातयित्वा दशास्यम्' इत्यत्राहेतौ णिच् दृश्यते ; स कथमित्यत आह- चुरादिपाठात्, चुरादिषु 'चट स्फुट भेदे' 'घट संघाते' 'हन्त्यर्थाश्च' इति पाठात् ।

अनुचरीति चरेष्टित्त्वात् ॥ ३१॥

 'अनुचरी प्रियतमा मदालसा' इत्यत्र अनुचरीति न युक्तः, ईकाराभावात् । तत् कथम् ? आह-चरेष्टित्त्वात् । पचादिषु चरडिति पठ्यते।

केसरालमित्यलतेरणि ॥ ३२ ॥

 'केसरालं शिलीध्रम्' इत्यत्र केसरालमिति कथम् ? आह- अलतेरणि । अल भूषणपर्याप्तिवारणेषु इत्यस्माद्धातोः केसरशब्दे कर्मण्युपपदे 'कर्मण्यण्' 'इत्यभेन, अणि सति केसरालमिति सिध्यति ।

पत्रलमिति लातेः के ॥ ३३ ॥

 'पत्रलं वनमिदं विराजते' इत्यत्र पत्रलमिति कथम् ? आह-- लातेः के । 'ला आदाने' इत्येतस्माद्धातोरादानार्थात् पत्रशब्दे कर्म-


च चुरादिपाठात् स्वार्थण्यन्तः साधुरित्याह-- घातयित्वेति

 अनुचरीति। आक्षेपपूर्वकमनुचरीति पदस्य साधुत्वं समर्थयते---- अनुचरी प्रियतमेतिईकाराभावादिति । पचाद्यजन्तत्वेन ङीप्प्राप्तेरभावादित्यर्थः ।

 केसरशब्दस्य प्राण्यङ्गवाचित्वाकारान्तत्वयोरभावात् 'प्राणिस्थादातो लजन्यतरस्याम्' इति लजमावात् कथं केसरालमिति प्राप्ते, तदुपपत्तिं वक्तुमाह--केसरालमिति । वृत्तिः स्पष्टार्था ।

 पत्नशब्दः सिध्मादिषु न पठ्यते इति “सिध्मादिभ्यश्च' इति नास्ति लच्प्रत्यय इति कथं पत्रलमिति चिन्तायां साधुत्वं समर्थयते-पत्रलमिति । पत्राणि लाति आदत्त इति विग्रहे 'आतोऽनुपसर्गे कः' इति कप्रत्यये सति उप-

22  ण्युपपदे, 'आतोऽनुपसर्गे कः' इति कप्रत्यये सतीति ।

महीध्रादयो मूलविभुजादिदर्शनात् ॥ ३४ ॥

 महीध्रधरणीध्रादयः शब्दाः, मूलविभुजादिदर्शनात् कप्रत्यये सती ति । महीं धरतीति महीध्र इति । एवमादयोऽन्येऽपि द्रष्टव्याः।

ब्रह्मादिषु हन्तेर्नियमादरिहाद्यसिद्धिः ॥ ३५ ॥

 ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ ‘ब्रह्मभ्रूणवृत्रेषु--' इत्यत्र नियमात् ब्रह्मादिष्वेव, हन्तेरेव, क्विवेव, भूतकाल एवेति चतुर्विधश्चात्र नियम इति नियमात् अरिहा रिपुडा इत्येवमादीनामसिद्धिः ।

ब्रह्मविदादयः कृदन्तवृत्त्या ॥ ३६ ॥

 ब्रह्मवित्, वृत्रभिदित्यादयः प्रयोगा न युक्ताः। 'ब्रह्मभ्रूण-' इत्यत्र ब्रह्मादिषु हन्तेरेव इति नियमात् । आह- कृदन्तकृत्या । वेत्तीति वित् । भिनत्तीति भित् । 'क्विप् च' इति क्विप् । ततः कृदन्तैर्वि-

पदसमासे कृते पत्रलमिति सिद्धमित्याह-पत्रलं वनमिति ।

 महीध्रादय इति । महीं धरतीति विग्रहे मूलविभुजादेराकृतिगणत्वात् कप्रत्यये कृते कित्त्वेन गुणाभावाद्यणादेशे सति" महीध्रादयः सिद्धा इत्याह-- महीध्रधरणीध्रादय इति ।

 ब्रह्मादिष्विति । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' इत्यत्र ब्रह्मादिष्वेवोपपदेषु भूत एव काले हन्तेरेव धातोः क्विबेव प्रत्ययो भवतीत्युपपदकालधातुप्रत्ययविषयम्य चतुर्धानियमस्यानुशिष्टत्वात् अरिहेत्यादीनामसिद्धिरित्याह-- ब्रह्मादिषूपपदेष्विति।

 ननु तर्हि चतुर्धानियमाश्रयणे ब्रह्मविदादीनां का गतिरिति प्राप्ते, प्राह----ब्रह्मवित् वृत्रभिदिति । उपपदकालनैरपेक्ष्येण क्विपि सति समासान्तराश्रयणेन ब्रह्मविदादयः सिध्यन्तीति व्याचष्टे- वेत्तीति । वेत्तीति वित् , भिनत्तीति भिदिति दादिभिः सह ब्रह्मादीनां षष्ठीसमास इति ।

तैर्महीधरादयो व्याख्याताः ॥ ३७॥

 तैः ब्रह्मविदादिभिर्महीधरादयो व्याख्याताः । धरतीति धरः, मह्या धरो महीधरः । एवं गङ्गाधरादयः ।

भिदुरादयः कर्मकर्तरि कर्तरि च ॥ ३८ ॥

 भिदुरं काष्ठम् "भिदुरं तमः' 'तिमिरभिदुरं व्योम्नः शृङ्गम्' इति, 'छिदुरातपो दिवसः' 'मत्सरच्छिदुरं प्रेम' 'भङ्गुरा प्रीतिः' 'मातङ्गं मानभङ्गुरम्' इत्यादयोऽपि प्रयोगा दृश्यन्ते; ते कथमित्यत्राह- कर्मकर्तरि कर्तरि च । 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकारः ‘कर्तरि च' इत्यस्य समुच्चयार्थः।

गुणविस्तरादयश्चिन्त्याः ॥ ३९ ॥

 गुणविस्तरः, व्याक्षेपविस्तर इत्यादयः प्रयोगाश्चिन्त्याः, 'प्रथने वावशब्दे' इति घञ्प्रसङ्गात् ।

व्युपत्तिसिद्धेन कृदन्तेन सह षष्ठीसमासे सति ब्रह्मविदादीनां साधुत्वमित्यर्थः ।

 उक्तामेतां युक्तिमन्यत्रापि योजयति---- तैरिति । अत्र 'कर्मण्यण्' इति सूत्रेण कर्मण्युपपदे धातोरण्विधानान्महीधरादीनामसाधुत्वशङ्कायामिहाप्युपपदनैरपेक्ष्यषष्ठीसमासाश्रयणाभ्यां साधुत्वमस्तीति व्याचष्टे--- धरतीति धर इति

 भिदुरादय इति । 'कर्मकर्तरि चायमिष्यते' इत्यत्र चकारं प्रयुक्तवता तत्रभवता भाष्यकृता कर्तर्यपि प्रयोगोऽभ्यनुज्ञात इति भिदुरादयः शब्दाः कर्मकतरि, कर्तरि च प्रयोक्तव्या इत्याह--- भिदुरं काष्ठमिति ।

 गुणविस्तरादयः इति । 'प्रथने वावशब्दे' इति विपूर्वात्स्तृणातेरशब्दविषये प्रथने धञ्विधानाद्गुणविस्तार इत्येव प्रयोक्तव्यम् , न तु गुणविस्तर इतीत्याह-- प्रथन इति ।

अवतरापचायशब्दयोर्दीर्घव्यत्यासो बालानाम् ॥ ४०॥

 अवतरशब्दस्य, अपचायशब्दस्य च दीर्घत्वह्रस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते-मारुतावतार इति; स ह्ययुक्तः, भावे तरतेरबिधानात् । अपचायमपचय इति प्रयुञ्जते-पुष्पापचय इति । अत्र 'हस्तादाने चेरस्तेये' इति घञ् प्राप्त इति ।

शोभेति निपातनात् ॥ ४१ ॥

 शोभेत्ययं शब्दः साधुः, निपातनात् 'शुभ शुम्भ शोभार्थौ' इति । शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे किं शोभा, आहोस्विच्छोभ इति विशेषावगतिराचार्यपरम्परोपदेशादिति ।

अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ ४२ ॥

 अविधौ ‘गुरोश्च हलः' इति अविधाने स्त्रियां बहुलं विवक्षा क्वचि-

 दीर्घव्यत्यास इति । दीर्घस्य स्थानात् प्रच्याव्य अस्थाने करण व्यत्यासः । बालानां विमर्शविधुराणां भवतीति शेषः । तमेव व्यत्यासं दर्शयति-ते हीतिअब्विधानादिति । 'अवे तृस्रोर्घञ्' इति करणाधिकरणयोरेव घञ्विधानात् तरतेः 'ऋदोरप्' इति भावे अप्प्रत्यय एव भवतीत्यर्थः । अपचायामिति । 'हस्तादाने चेरस्तेये' इति हस्तेन आदानेऽभिधेये चिनोतेर्घञ्विधानादप्प्रत्ययो न प्राप्नोतीत्यर्थः ।

 शोभेति । 'षिद्भिदादिभ्योऽङ्' इति शुभेर्धातोभिदादिषु पाठादङ्प्रत्यये सति ङित्करणेन गुणप्रतिषेधे प्रसक्ते निपातनाद्गुणासिद्धिरित्याह--शोभेत्ययं शब्द इति ।

 अविधाविति । बहुलग्रहणस्य विवक्षितमर्थमाह--- क्वचिद्विवक्षा क्वचिद्विवक्षा, क्वचिदविवक्षा, क्वचिदुभयमिति ।

 विवक्षा यथा- ईहा लज्जेति । अविवक्षा यथा--- आतङ्क इति । विवक्षाविचक्षे यथा-- बाधा बाधः, ऊहा ऊहः, ब्रीडा वीड इति ।

 व्यवसितादिषु क्तः कर्तरि चकारात् ॥ ४३ ॥

 व्यवसितः प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेत्, आवृत्तिः कर्तव्या।

आहेति भूतेऽन्यणलन्तभ्रमाद्ब्रुवो लटि ॥ ४४ ॥

 'ब्रुवः पञ्चानाम्' इत्यादिना आहेति लट् व्युत्पादितः; स भूते प्रयुक्तः 'इत्याह भगवान् प्रभुः" इति । अन्यस्य भूतकालाभिधायिनो

दविवक्षा, क्वचिदुभयमिति । आतङ्क इत्यादिषु स्त्रीत्वस्य अविवक्षितत्वात् घञेव भवति ।

 व्यवसितादिष्विति । व्यवसितः, प्रतिपन्न इत्यादिषु कर्तरि क्तप्रत्ययो न प्राप्नोति, सकर्मकेभ्यो धातुभ्यः कर्माणि क्तप्रत्ययविधानात् , गत्यर्थादिसूत्रेण चाप्राप्तेरिति प्राप्ते गत्यर्थादिसूत्रे चकारेणानुक्तसमुच्चयार्थेन व्यवस्यतिप्रभृतयः समुच्चीयन्त इत्याह-व्यवसित इति । ननु भावकर्मणोरनुकर्षणार्थश्चकारः कथमन्यदप्यनुक्तं समुच्चिनुयादिति शङ्कते--भावकर्मेति । समाधत्ते-आवृत्तिरिति । चकारस्यावृत्तौ भावकर्मणोरनुकर्षणार्थ एकश्चकारः, अन्यः पुनरनुक्तसमुच्चयार्थ इति येन केनाप्युपायेन शिष्टप्रयोगस्य गतिः कल्पनीयेत्यर्थः ।

 आहेति । 'किमिच्छसीति स्फुटमाह वासवः' इत्यादिषु आहेति भूते प्रयुज्यते । स च प्रयोगोऽनुपपन्नः ‘ब्रुवः पञ्चानामादित अहो ब्रुवः' इति ब्रुवो लटि णलाद्यादेशपञ्चकविधानात् । अन्यणलन्तेति । लिटि विहितो यो णल् तदन्तत्वभ्रान्तिमूलोऽयं प्रयोग इत्यर्थः । आहेत्यव्ययमिति केचित्समालिटि णलन्तस्य भ्रमात् । निपुणाश्चैवं प्रयुञ्जते- 'आह स्म स्मितमधुराक्षरां गिरम्' इति । 'अनुकरोति भगवतो नारायणस्य' इत्यत्रापि, मन्ये, स्मशब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति ।

शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ ४५ ॥

 'उपस्रोतःस्वस्थस्थितमहिषशृङ्गाग्रशबलाः स्रवन्तीनां जाताः प्रमु दितविहङ्गास्तटभुवः' 'भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः' इत्या- दिषु स्त्रियां टापोऽप्राप्तिः 'अन्यतो ङीष्' इति ङीष्विधानात् । तेन शवली कल्माषीति भवति ।

प्राणिनि नीलेति चिन्त्यम् ॥ ४६ ॥

 'कुवलयदलनीला कोकिला बालचूते' इत्यादिषु नीलेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् नीलशब्दात् जानपद- इत्यादिसूत्रेण 'प्राणिनि च' इति ङीष्विधानात् ।

मनुष्यजातेर्विवक्षाविवक्षे ॥ १७ ॥

 'इतो मनुष्यजातेः' 'ऊङतः' इत्यत्र च मनुष्यजातेर्विवक्षा, अविवक्षा च लक्ष्यानुसारतः।

दधते । शिष्टप्रयोगशैलीं दर्शयति-- निपुणाश्चेति । 'लट् स्मे' इति लटो विधानात् । प्रसङ्गादन्यत्रापि भूतार्थे लट्प्रयोगस्योपपत्तिमाह--अनुकरोतीति ।

 शबलादिभ्य इति 'अन्यतो ङीप्' इति डीप्विधानाच्छबलकल्माषादिभ्यः स्त्रियां टाप्प्रत्ययस्याप्राप्तिरिति तथा प्रयोग प्रदर्श्य प्रतिषेधति--- उपस्रोत इति ।

 प्राणिनीति । जानपदादिसूत्रे वृत्तिकारेण 'नीलादोषधौ' 'प्राणिनि च' इति विषयव्यवस्थापनात् प्राणिनि विषये नीलशब्दात् ङीष्प्रत्ययः प्राप्तः न तु टाप् । अत प्राणिनि नीलेति न प्रयोक्तव्यमित्याह--- कुवलयति

 मनुष्यजातेरिति। निम्ननाभिसुतनुप्रभृतिषु यदि मनुष्यजातित्वमभ्युपेयते, तदा 'इतो मनुष्यजातेः' 'ऊङुतः' इति ङीषूप्रत्यययोः प्राप्तौ निम्रनाभेः, सुतनो

  'मन्द्रस्य मदिराक्षि पार्श्वतो
   निम्ननाभि न भवन्ति निम्नगाः ।
  वासु वासुकिविकर्षणोद्भवा
   भामिनीह पदवी विभाव्यते ॥

 अत्र मनुष्यजातेर्विवक्षायाम् ‘इतो मनुष्यजातेः' इति ङीषि सति 'अम्बार्थनद्योर्ह्रस्वः' इति संबुद्धौ हृस्वत्वं सिध्यति । नाभिशब्दात्पुनः 'इतश्च पाण्यङ्गात्' इतीकारे कृते निम्ननाभीके इति स्यात् ।

 हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् ।

 च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्यामामिदं स्तनांशुकम् ॥


 अत्र निमग्ननाभेरिति मनुष्यजातेरविवक्षेति ङीष् न कृतः ।

 'सुतनु जहिहि मानं प्रश्य प्रादानतं माम्' इत्यत्र मनुष्यजातेर्विवक्षेति सुतनुशब्दात् 'ऊङुतः' इत्यूङि सति ह्रस्वत्वे सुतन्विति सिध्यति।


रित्यादयः प्रयोगा न सिध्येयुः । यदि नाभ्युपेयते, तर्हि संबुद्धौ निम्ननाभि, सुतनु इत्यादयः प्रयोगा न सिद्धाः स्युः । ततः कथं प्रयोगव्यवस्थेति विचारणायामुभयत्र साधुत्वं व्यवस्थापयति --- इतो मधुष्यजातेरिति । वक्तुर्विवक्षितपूर्विका हि शब्दप्रवृत्तिः' इति न्यायेन मनुष्यजातेर्विद्यमानाया अपि क्वचिद्विवक्षा, क्वचिदविवक्षा चेति लक्ष्यानुसारेणोत्प्रेक्षणीयेति प्रयोगदर्शनपूर्वकं विवक्षाविवक्षे व्युत्पादयति- मन्दरस्येति । अत्र मनुष्यजातिविवक्षायां रूपसिद्धिं दर्शयति---- इतो मनुष्यजातेरिति । ननु 'इतश्च प्राप्यङ्गवाचिनो वा वक्तव्यः' इति नाभिशब्दादीकारे कृते 'अम्बार्थनघोर्ह्रस्वः' इति ह्रस्वत्वे च कृते निम्ननाभीति संबुद्धिः सिध्यति; किमनेन यत्नेनेति चेत् तत्राह - नाभिशब्दादिति । निम्ननाभीत्यत्र बहुव्रीहिसमासे 'नघृतश्च' इति कपा समासान्तेन 'न कपि' इति ह्रस्वत्वप्रतिषेधेन च भवितव्यम् । ततश्च निम्ननाभीके इति स्यात् , न तु निम्ननाभि इति । इतो मनुष्यजातेः क्वचिदविवक्षां दर्शयति -- हृतोष्ठरागैरिति । उक्तन्यायेन सुतनुशब्दादौ विवक्षाविवक्षे दर्शयति- सुतनु जहिहीति ।  वरतनुरथ वास्मिन्नैव दृष्टा त्वया मे ।' अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः।

ऊकारान्तादप्यूङ् प्रवृत्तेः ॥ ४८॥

 उत ऊङ् विहित ऊकारान्तादपि क्वचित् भवति । आचार्यप्रवृत्तेः । क्वासौ प्रवृत्तिः ? 'अप्राणिजातेश्चारज्जवादीनाम्' इति । अलाबूः, कर्कन्धूरित्युदाहणम् । तेन 'सुभु किं संभ्रमेण'। अत्र सुभ्रुशब्दः ऊङि सिद्धो भवति । ऊङि त्वसति सुभ्रूरिति स्यात् ।

कार्तिकीय इति ठञ् दुर्धरः ॥ ४९ ॥

 'कार्तिकीयो नभस्वान्' इत्यत्र 'कालाट्ठञ्' इति ठञ् दुर्धरः। ठञ् भवन् दुःखेन ध्रियत इति ।

शार्वरमिति च ॥ ५० ॥

 शार्वरं तम इत्यत्र च 'कालाट्ठञ्' इति ठञ् दुर्धरः ।

 ऊकान्तादपीति । यद्यपि ‘ऊङुत' इत्यत्र तपरकरणमुकारान्तादूङ्विधानार्थं कृतम् , तथाप्याचार्यवचनसामर्थ्यादूकारान्तादप्यूङ् प्रवर्तत इत्याह-उत ऊङ् विहित इति । प्रश्नपूर्वकं प्रवृत्तिं दर्शयति ---क्वासौ प्रवृत्तिरिति । प्रवृत्तिरारम्भः । अलाबू, कर्कन्धूरित्युदाहरणसिध्यर्थम् 'अप्राणिजातेश्चारज्ज्वादीनाम्' इत्यूकारान्तादप्यूङ्प्रत्ययारम्भात्तपरकरणमविवक्षितमिति ज्ञायते । ननु यदेतदूकारान्तादूङ्विधानं तत् पिष्टपेषणप्रायमिति शङ्कां परिहरति-- तेनेति । सुभ्रूशब्दादपि मनुष्यजातिविवक्षायामूङ्प्रत्यये नदीसंज्ञायां संबुद्धौ ह्रस्वो भवतीति दर्शयति- अत्र सुभ्रशब्द इति ॥

 कार्तिकीय इति । अत्र कार्तिके भव इति भवार्थत्वं वक्तुं युक्तम् । तथात्वे 'कालाट्ठम्' इति शैषिकेष्वर्थेषु विधीयमानष्ठञ् दुर्निवारतया प्राप्नोति । अतः कार्तिकीय इति न सिध्यतीत्याह-- अत्रेति । दुर्धर इति पदार्थमाह-दुःखेति । दुर्निरोध इत्यर्थः ।

 शार्वरमिति । अत्रापि ठञो दुर्धरत्वेन शावरमिति न सिध्यतीत्याह-शार्वरं तम इति।

शाश्वतमिति प्रयुक्तेः ॥ ५१ ॥

 शाश्वतं ज्योतिरित्यत्र शाश्वतमिति न सिध्यति, 'कालाट्ठञ्' इति ठञ्प्रसङ्गात् । 'येषां च विरोधः शाश्वतिकः' इति सूत्रकारस्यापि प्रयोगः । आह- प्रयुक्तेः । 'शाश्वते प्रतिषेधः' इति प्रयोगात् शाश्वतमिति भवति ।

राजवंश्यादयः साध्वर्थे यति भवन्ति ॥ ५२ ॥

 राजवंश्याः, सूर्यवंश्या इत्यादयः शब्दाः 'तत्र साधुः' इत्यनेन साध्वर्थे यति प्रत्यये सति साधवो भवन्ति । भवार्थे पुनर्दिगादिपाठेऽपि वंशशब्दस्य वंशशब्दान्तान्न यत्प्रत्ययः, तदन्तविधेः प्रतिषेधात् ।

दारवशब्दो दुष्प्रयुक्तः ॥ ५३ ॥

 दारवं पात्रमिति दारवशब्दो दुष्पयुक्तः। 'नित्यं वृद्धशरादिभ्यः' इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयट् विधीयते ;


 'शाश्वते प्रतिषेधः' इति बार्तिककारवचनादत्र अण्प्रत्यये सति शाश्वतमिति शब्दः साधुरित्याक्षेपपूर्वकं समर्थयते-- शाश्वतं ज्योतिरिति ।

 राजवंश्यादय इति । वंशशब्दस्य दिगादिषु पाठात् 'दिगादिभ्यो यत्' इति भवार्थे यत्प्रत्ययो विधीयते । स च वंशशब्दान्तान्न प्राप्नोति, 'ग्रहणवता प्रातिपदिकेन----इति तदन्तविधिप्रतिषेधात् । साध्वर्थविवक्षायां तु तत्र साधुः' इति यत्प्रत्यये सति राजवंश्यादयः सिद्धा इत्याह---राजवंश्या इति ।

 दारवशब्द इति । दारुणो विकार इत्यस्मिन्नर्थे ' नित्यं वृद्धशरादिभ्यः' इति मयटो विधानात् दारुमयमिति प्रयोक्तव्यम् , न तु दारवमितीत्याह-दारवं पात्रमिति । नन्वत्र विकारार्थो न विवक्षितः, किं तु संबन्धसामान्यम् । ततः ' तस्येदम्' इति दारुशब्दादण्प्रत्यये कृते दारवमित्येवं भवतु; को विरोध इति शङ्कते---नन्विति । संबन्धसामान्यविवक्षायामप्यण्प्रत्ययो न सिध्यति, 'वृद्धा-

23 अत्र तु दारुण इदमिति विवक्षायां दारवमिति भविष्यति ? नैतदेवम् । 'वृद्धाच्छः' इति च्छविधानात् ।

मुग्धिमादिष्विमनिज्मृग्यः ॥ ५४ ॥

 मुग्धिमा, प्रौढिमा इत्यादिषु इमनिच् मृग्यः अन्वेषणीय इति ।

औपम्यादयश्चातुर्वर्ण्यवत् ॥ ५५ ॥

 औपम्यं सांनिध्यमित्यादयः चातुर्वर्ण्यवत् ‘गुणवचन--' इत्यत्र 'चातुर्वर्णादीनामुपसंख्यानम्' इति वार्तिकात् स्वार्थिकष्यञन्ताः ।

ष्यञः षित्करणादीकारो बहुलम् ॥ ५६ ॥

 'गुणवचनब्राह्मणादिभ्यः-' इति यः ष्यञ्, तस्य पित्करणादीकारो भवति बहुलम् । ब्राह्मण्यमित्यादिषु न भवति । सामग्न्यमि- त्यादिषु विकल्पितः--सामग्न्यं सामग्री, वैदग्ध्यं वैदग्धीति ।

च्छः' इति च्छप्रत्ययप्रसङ्गादिति परिहरति-- नैतदेवमिति

 मुग्धिमादिष्विति । ' पृथ्वादिभ्य इमनिज्वा' इतीमनिच्प्रत्ययो विधीयते । स च मुग्धप्रौढादिशब्देभ्यो न प्राप्नोति, तेषां पृथ्वादिपाठाभावादित्यभिप्रायेण व्याचष्टे--मुग्धिमा पौढिमेति ।

 औपम्यादय इति । 'चातुर्वर्ण्यादयः स्वार्थे ' इति स्वार्थिके प्यञि चातुर्वर्ण्यमिति यथा सिध्यति, तथा चातुर्वर्ण्यादिपाठादुपमैवौपम्यं संनिधिरेव सांनिध्यमित्यादयः स्वार्थिकष्यञन्ताः साधिता इत्याह- औपम्यं सांनिध्यमिति ।

 ष्यञ इति । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् विधीयते। ततश्च ष्यजन्तेभ्यः स्त्रियां 'षिद्गौरादिभ्यश्च' इति यो ङीष्प्रत्ययो विधीयते ; स ईकारो बहुलं भवति क्वचिन्न प्रवर्तते, क्वचिद्विकल्पेन प्रवर्तत इत्याह-ब्राह्मण्यमित्यादिष्विति ।

धन्वीति ब्रीह्यादिपाठात् ॥ ५७ ॥

बीह्यादिषु धन्वन्शब्दस्य पाठाद्धन्वीति इनौ सति सिद्धो भवति ।

चतुरश्रशोभीति णिनौ ॥ ५८ ॥

 'बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन' इत्यत्र चतुरश्रशोभीति न युक्तम् ; व्रीह्यादिषु शोभाशब्दस्य पाठेऽपि इनिरत्र न सिध्यति 'ग्रहणवता प्रातिपदिकेन' इति तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिर्लघुत्वात् क्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथं मत्वर्थीयस्याप्राप्तौ चतुरश्रशोभीति प्रयोगः? आह-णिनौ चतुरश्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः।

 धन्वीति । धन्वन्शब्दस्य अदन्तत्वाभावात् । अत इनिठनौ' इतीनिप्रत्ययस्याप्राप्तौ ब्रीह्यादेराकृतिगणत्वेनेनिप्रत्यये सति धन्वीति सिध्यतीत्याह-व्रीह्यादिष्विति

 चतुरश्रशोभीति । अत्र साधुत्वं समर्थयिष्यमाणः प्रामाणिकप्रयोग तावत्प्रदर्शयति-- बभूवेति । अत्र मत्वर्थीयप्रत्ययस्यानुपपत्तिमाह--- अत्र चतुरश्रशोभीति । चतुरश्रा चासौ शोभा च चतुरश्रशोभा, सा अस्यास्तीति चतुरश्रशोभीति मत्वर्थीयेन न सिध्यति, ब्रीह्यादिपाठाभावादिति शङ्कितुरभिप्रायः । अभ्युपगम्यमाने वा ब्रीह्यादिपाठे 'ग्रहणवता प्रातिपदिकेन न तदन्तविधिः' इति बार्तिककारवचनाच्छोभाशब्दान्तादिनिप्रत्ययो न प्राप्नोतीत्याह-व्रीह्यादिष्विति । यथा कथंचिदभ्युपगमेऽपि वा तदन्तविधेः स दोषस्तदवस्थः, 'न कर्मधारयान्मत्वर्थीयः' इति निषेधादित्याह- भवत्विति । कर्मधारयबहुव्रीहिक्रमपरीक्षायां बहुव्रीहिपरिपाटी श्रेयसी, लाघवात् । अतश्चित्रगुशब्दादिवत् बहुव्रीहेर्न मत्वर्थीयस्य प्राप्तिरित्याह--- लघुत्वादिति । प्रयोगानुपपत्तिप्रतिपादनं निगमयति-- तत् कथमिति । चतुरश्रं शोभितुं शीलमस्येति विग्रहे 'सुप्यजातौ णिनिस्ताच्छील्ये' इति ताच्छीलिके णिनिप्रत्यये सति चतुरश्रशोभीति सिध्यतीति सिद्धान्तयति---- चतुरश्रं शोभत इतीति ।  अथ 'अनुमेयशोभि' इति कथम् ? न ह्यत्र पूर्ववद्वृत्तिः शक्या कर्तुमिति ; शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चात् बहुव्रीहिः कर्तव्यः-- अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः, यथा-निराकुलं तिष्ठति, सधीरमुवाचेति ।

कञ्चुकीया इति क्यचि ॥ ५९ ॥

 'जीवन्ति राजमहिषीमनु कञ्चुकीयाः' इति कथम्? मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । अत आह- क्यचि । क्याचि अच्प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः ।

बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ ६ ॥

 ननु चतुरश्रशोभीत्यत्र समर्थितेऽपि साधुने अनुमेयशोभीति न सिध्यति, उक्तन्यायाप्रवृत्तेरिति शङ्कते--अथेति । तदप्रवृत्तिमेव दर्शयति--- न ह्यत्रेति । चतुरश्रशोभीतिवदनुमेयं शोभितुं शीलमस्येति विग्रहे विवक्षितार्थासिद्धिः, कर्मविवक्षाया असंभवात् । अविवक्षिते कर्मण्युपपदे कृत्प्रत्ययः कर्तुं न शक्यत इति शङ्कार्थः । ताच्छीलिकणिनेरसंभवेऽपि, 'साधुकारिणि च' इति वक्तव्यबलात् , ' आवश्यकाधमर्ण्ययोर्णिनिः' इति सूत्राद्वा साधुकारिण्यावश्यके वार्थे विवक्षिते णिनिः सिध्यति । ततः शोभिनो भाव इति भावार्थे त्वप्रत्यये सति पश्चादनुमेयं शोभित्वं यस्येति बहुव्रीहौ सत्यनन्तरम् 'उक्तार्थानामप्रयोगः' इति त्वत्प्रत्ययस्य निवृत्तौ च सत्याम् अनुमेयशोभीति सिध्यतीति परिहरति-- शुभेरिति ।

 कञ्चुकीया इति । कञ्चुका एषां सन्तीति कञ्चुकीया इति न शक्यते वक्तुम् , छप्रत्ययस्य मत्वर्थीयस्याभावात् । कथं कञ्चुकीया इति चोदयति- जीवन्तीत्यादिना । कञ्चुकमात्मन इच्छन्तीत्येतस्मिन्नर्थे, 'सुप आत्मनः क्यच्' इति क्यचि कृते 'क्यचि च' इतीकारे च सति ततः पचाद्यचि कृते कञ्चुकीया इति सिध्यतीति परिहरति-- क्यचि अप्रत्यये सतीति।

 बौद्धप्रतियोग्यपेक्षायामिति । इदं धनम् , इदं च धनम् , इदमनयोर वौद्धस्य प्रतियोगिनोऽपेक्षायामपि आतिशायनिकास्तरवादयो भवन्ति- घनतरं तमः, बहुलतरं प्रेमेति ।

कौशिलादय इलचि वर्णलोपात् ॥ ६१ ॥

 कौशिलः, वासिल इत्यादयः कथम् ? आह--इलचि वर्णलोपात् कौशिकवासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा 'घनिलचौ च' इतीलचि कृते 'ठाजादावूध्र्वं द्वितीयादचः' इति वर्णलोपात् सिध्यति ।

मौक्तिकमिति विनयादिपाठात् ॥ ६२ ॥

 मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम् । 'स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसकत्वम् ।


तिशयेन घनमिति विग्रहे शब्दोपत्तिप्रतियोग्यपेक्षया अतिशायनार्थे तरबादिविधानादसति शब्दोपात्ते प्रतियोगिनि घनतरं तम इति प्रयोगः कथमिति चिन्तायां बुद्धिसंनिधापितेऽपि प्रतियोगिन्यातिशायनिकाः प्रत्यया भवन्तीति दर्शयति-- 'बौद्धस्येति ।

 कौशिलादय इति । अनुकम्पितः कौशिकः, अनुकम्पितो वासिष्ठ इत्यस्मिन्नर्थे कौशिलो वासिलः इत्यादयः प्रयोगाः कथमिति विचारणायां साधुत्वं समर्थयते-- कौशिलो वासिल इति । अत्र 'धनिलचौ च' इति सूत्रेण अनुकम्पायां नीतौ वा बह्वचो मनुष्यनाम्नो घनिलचौ प्रत्ययौ विधीयेते । अतः कौशिकवासिष्ठशब्दाभ्यामुक्तलक्षणाभ्यामिलचि कृते 'ठाजादावूर्ध्वं द्वितीयादचः' इत्यजादौ प्रत्यये परतः प्रकृतेर्द्वितीयादचः परस्य शब्दरूपस्य लोपे सति यस्येति च' इतीकारलोपे च कौशिलो वासिल इत्यादयः प्रयोगाः सिध्यन्तीति समर्थयते-- कौशिकेति।

 मौक्तिकामिति । विनयादिषु पाठेऽभ्युपगते ‘विनयादिभ्यष्ठक्' इति खार्थिके ठकि कृते मौक्तिकमिति सिध्यतीत्याह-मुक्तैव मौक्तिकमिति । अत्र प्रकृतिलिङ्गस्यातिक्रमणे भाष्यकारवचनं प्रमाणयति-स्वार्थिका इति ।

प्रातिभादयः प्रज्ञादिषु ॥ ६३ ॥

 प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः। प्रतिभाविकृतिद्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते प्रातिभम्, वैकृतम्, द्वैतमित्यादयः प्रयोगाः सिध्यन्तीति ।

न सरजसमित्यनव्ययीभाधे ॥ ६४ ॥

 'मधु सरजसं मध्येपद्मं पिबन्ति शिलीमुखाः' इत्यादिषु सरजसमिति न युक्तः प्रयोगोऽनव्ययीभावे, अव्ययीभाव एवं सरजसशब्दस्येष्टत्वात् ।

न धृतधनुषीत्यसंज्ञायाम् ॥ ६५ ॥

 'धृतधनुषि शौर्यशालिनि' इत्यत्र धृतधनुषीति असंज्ञायां न युक्तः प्रयोगः, 'धनुषश्च' इत्यनङ्विधानात् संज्ञायां ह्यनङ् विकल्पितः 'वा संज्ञायाम्' इति ।

दुर्गन्धिपद इद्दुर्लभः ॥ ६६ ॥

 प्रातिभादय इति । 'प्रज्ञादिभ्यश्च' इति स्वार्थिकोऽण् विधीयते । प्रतिभादीनामप्यत्र पाठाभ्युपगमेन स्वार्थिकेऽण्प्रत्यये कृते प्रातिभं वैकृतं द्वैतं चारित्रमित्यादयः सिध्यन्तीति व्याचष्टे- प्रातिभादयः शब्दा इति ।

 न सरजसमिति । बहुव्रीहिप्रयोगो न साधुरिति दर्शयितुमाह-- मधु रजसमित्यादिना । अनव्ययीभावे प्रयोगो न युक्तः । रजसा सह वर्तत इति सरजसमिति बहुव्रीहिसमासो न सिध्यति । तस्मिन् हि सति सरजस्कमिति स्यात् । अव्ययीभावे तु सिध्यति । 'अव्ययं विभक्ति-' इत्यादिना साकल्यार्थे अव्ययीभावे कृते अचतुरादिसूत्रेणाकारान्तत्वनिपातनात् सरजसमिति भवति । तथा चाह वृत्तिकारः 'तत एकोऽव्ययीभावः साकल्ये । सरजसमभ्यवहरतीति । बहुव्रीहौ न भवति । रजसा सह वर्तते इति सरजस्कं पङ्कजमिति' इति ।

 न धृतधनुषीति । निगदव्याख्यानमेतत् ।

 दुर्गन्धिपद इति । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इति उदादिभ्यश्च 'दुर्गन्धिः कायः' इत्यादिषु दुर्गन्धिपदे इत् समासान्तो दुर्लभः, उत्पूत्यादिषु दुशब्दस्यापाठात् ।

सुदत्यादयः प्रतिविधेयाः ॥ ६७ ॥

 ‘सा दक्षरोषात्सुदती ससर्ज' इति, 'शिखरदति पतति रशना' इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः, दत्रादेशलक्षणाभावात् । तत्रप्रतिविधानम् - अग्रान्तादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्यादिषु दत्रादेश इत्येके । अन्ये तु वर्णयन्ति - सुदत्यादयः स्वयभिधायिनो योगरूढशब्दाः; तेषु 'स्त्रियां संज्ञायाम्' इति दत्रादेशो विकल्पेन सिद्ध एवेति ।

क्षतदृढोरस इति न कप्तदन्तविधिप्रतिषेधात् ॥ ६८॥

 'प्लवंगनखकोटिभिः क्षतदृढोरसो राक्षसाः' इत्यत्र दृढोरःशब्दात्, 'उरःप्रभृतिभ्यः कप्' इति कप् न कृतः, 'ग्रहणवता प्रातिपदिकेन'


तुर्भ्यः परस्य गन्धशब्दस्य समासान्तविधानात् उदादिषु दुरो ग्रहणाभावात् दुर्गन्धिरिति प्रयोगो न साधुरिति दर्शयति--- दुर्गन्धिः काय इति ।

 सुदत्यादय इति । वयस्यविवक्षिते दत्रादेशप्राप्तेरभावेऽपि शिष्टप्रयुक्तत्वात् सुदत्यादयः, प्रतिविधेयाः समाधेयाः । अत्र केचित्--- अग्रान्तादिसूत्रे चकारस्थानुक्तसमुच्चयार्थत्वात् अहिदन्नित्यादिष्विव दत्रादेशे कृते 'उगितश्च' इति ङीपि सति सुदत्यादयः सिध्यन्तीति प्रतिविदधते । अपरे तु-- स्त्रीमात्राभिधायिनी योगरूढाः सुदत्यादय इति, 'स्त्रियां संज्ञायाम्' इति दत्रादेशे सिध्यन्तीति वदन्तीत्यभिप्रायेण व्याचष्टे-- सा दक्षरोषादित्यादिना।

 क्षतदृढोरस इत्यस्य साधुत्वं समर्थयितुं प्रथमं तावत् प्रामाणिकप्रयोगं प्रदर्शयति- प्लवंगेति । ननु बहुव्रीहौ समासे उरःप्रभृतिभ्यो नित्यं कब्विधानात् क्षतदृढोरस्क इति कपा भवितव्यमिति प्राप्ते, कबभावे कारणं कथयितुमाह--- उरप्रभृतिभ्य इति । ' ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नेष्यते' इति वचइति तदन्तविधेः प्रतिषेधात् । समासवाक्यं त्वेवं कर्तव्यम्--- क्षतं दृढोरो येषामिति ।

अवैहीति वृद्धिरवद्या ॥ ६९ ॥

 अवैहीत्यत्र वृद्धिरवद्या; गुण एव युक्त इति ।

अपाङ्गनेत्रेति लुगलभ्यः ॥ ७० ॥

 अपाङ्गे नेत्रं यस्याः सेयमपाङ्गनेनेत्यत्र लुक् अलभ्यः, 'अमूर्धमस्तकात्स्वाङ्गादकामे' इति सप्तम्या अलुग्विधानात् ।

नेष्टाः श्लिष्टप्रियादयः पुंवद्भावप्रतिषेधात् ॥ ७१ ॥


नादुरःशब्दान्तात् कप्प्रत्ययो न भवति । तथा च विग्रहवाक्यमेवं कर्तव्यम्-दृढं च तदुरश्च दृढोरः, क्षतं दृढोरो येषामिति ; अतः क्षतदृढोरस इति सिध्यतीत्यर्थः ।

 अवैहीति । अवैहीत्यत्र इणो लोण्मध्यमपुरुषे, 'सेर्ह्यपिच्च' इति ह्यादेशे सति ङिद्वद्भावात् गुणाभावे, इहीति रूपम् । ततश्चावशब्दस्य प्राक्प्रयोगे 'आद्गुणः' इति गुणे सति, अवेहीति भवति । एत्येधत्यूठसु' इत्यत्र, एतेरेचि इत्यनुवर्तनात् वृद्धिर्न भवति । नन्ववाङोरुभयोरुपसर्गयोः प्राक्प्रयोगे वृद्धिः सिध्यतीति न चोदनीयम्, 'ओमाङोश्च' इति पररूपप्रसङ्गात् । तस्मादवैहीत्यत्र वृद्धिरसाधीयसीत्यर्थः ।

 अपाङ्गनेत्रेति । नेत्रशब्देन समुदायवाचिना तदेकदेशः कनीनिका लक्ष्यते। ततश्चापाङ्गे नेत्रं कनीनिका यस्याः सा अपाङ्गेनेत्रेति प्रयोक्तव्यम; न त्वपाङ्गनेत्रेति, 'अमूर्धमस्तकात्स्वाङ्गादकामे' इति नित्यं सप्तम्या अलुग्विधानादित्यभिप्रायवानाह-- अपाङ्गे नेत्रमिति ।

 नेष्टा इति । श्लिष्टा प्रिया येन, विश्लिष्टा कान्ता यस्मात् स विश्लिष्टप्रियः, विश्लिष्टकान्त इत्यादयः प्रयोगा इष्टा न भवन्ति, स्त्रियाः पुंवत्' इत्यादि श्लिष्टप्रियः, विश्लिष्टकान्त इत्यादयो नेष्टाः, 'स्त्रियाः पुंवत्--' इति पुंवद्भावस्य प्रियादिषु निषेधात् ।

दृढभक्तिरिति सर्वत्र ॥ ७२ ॥

 'दृढभक्तिरसौ ज्येष्ठे' अत्र पूर्वपदस्य अस्त्रियां विवक्षितत्वात् ।

जम्बुलतादयो ह्रस्वविधेः ॥ ७३ ॥

 जम्बुलतादयः प्रयोगाः कथम् ? आह-- ह्रस्वविधेः । 'इको ह्रस्वोऽङयो गालवस्य' इति ह्रस्वविधानात् ।

तिलकादयोऽजिरादिषु ॥ ७४ ॥


सूत्रे प्रियादिषु पुंवद्धावप्रतिषेधादिति दर्शयति-- श्लिष्टप्रिय इत्यादिना ।

 दृढभक्तिरिति । अत्र भक्तिशब्दस्य प्रियादिपाठात् पूर्वपदस्य पुंवद्भावो दुर्घट इति प्राप्ते पूर्वपदस्य दृढशब्दस्य विग्रहवाक्ये स्त्रीत्वस्याविवक्षितत्वात् दृढभक्तिरिति सिध्यतीत्याह- अत्रेति । तथाचाह वृत्तिकारः, 'दृढभक्तिरित्येवमादिषु पूर्वपदस्य स्त्रीत्वस्याविवक्षितत्वात् सिद्धमिति समाधेयम्' इति । गणव्याख्यानकारोऽपि 'दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिः' इति । न्यासकारोऽपि, 'अदार्ढ्यनिवृत्तिपरे दृढशब्दे लिङ्गविशेषस्यानुपकारकत्वात्स्त्रीत्वमविवक्षितमेव । तस्मादस्त्रीलिङ्गस्यैव दृढशब्दस्यायं प्रयोग इत्यभिप्रायः' इति । भोजराजस्त्वन्यथा समाधत्ते भक्तौ च कर्मसाधनायामित्यत्र सूत्रे-- 'कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिषु पाठात् भवानीभक्तिरित्यादौ पुंवद्भावप्रतिषेधः । दृढभक्तिरित्यादौ भावसाधनत्वात् पुंवद्भावे सिद्धे स्त्रीपूर्वपदत्वमेव' इति ।

 जन्बुलतादय इति । 'इको ह्रस्वोऽङयो गालवस्य' इति ङ्यन्तव्यतिरिक्तस्येगन्तस्योत्तरपदे परतो विकल्पेन ह्रस्वविधानाज्जम्बुलतादयः सिद्धा इत्याह--- जम्बुलतादय इति ।

 तिलकादय इति । 'मतौ बह्वचोऽनजिरादीनाम्' इति मतुप्प्रत्यये परतोऽजिरादिवर्जितस्य बह्वचो दीर्घविधानात्तिलकादीनामजिरादिपाठाभ्युपगमेन

24  तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः अन्यथा तिलकवती कनकवतीत्यादिषु मतुपि 'मतौ बहवोऽनजिरादीनास्" इति दीर्घत्वं स्यात् । अन्ये तु वर्णयन्ति-- 'नद्यां मतुप्' इति यो मतुप् तत्रायं विधिः; तेषां मतं न, अमरावतीत्यादीनामसिद्धेः ।

निशम्यनिशमय्यशब्दौ प्रकृतिभेदात् ॥ ७५ ॥

 निशम्य निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः ल्यपि 'ल्यपि लघुपूर्वात्' इत्ययादेशे सति निशमय्येति भवितव्यम्; न निश म्येति । आह--प्रकृतिभेदात् । शमेर्दैवादिकस्य निशम्येति रूपम् । 'शमो दर्शने' इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम् ।

संयम्यनियम्यशब्दावणिजन्तत्वात् ॥ ७६ ॥

 कथं संयम्यनियम्यशब्दौ? ल्यपि 'ल्यपि लघुपूर्वात्' इति णेरया-


दीर्घनिषेधात्तिलकवतीत्यादयः सिध्यन्तीत्याह-- तिलकादयः शब्दा इति । अजिरादिषु पाठानभ्युपगमे प्रयोगविरोधं प्रदर्शयति-- अन्यथेति । परे तु प्रकारान्तरेण प्रयोगं प्रतिष्ठापयन्ति । तेषां मतं दूषयितुमनुभाषते--- अन्ये त्विति । यत्र 'नद्यां मतुप्' इति नदीविषये मतुप्प्रत्ययो विधीयते तत्रायं दीर्घविधिः । तिलकादिषु तदस्यास्त्यस्मिन्' इति मतुब्विधानात्तिलकवतीत्यादिषु दीर्घाभाव इति वदन्ति । तदेतद्दूषयन्ति-- तेषां मतमिति ।

 निशम्येति । दिवादिपाठादण्यन्तशमिरेका प्रकृतिः । चुरादिषु पाठात् 'शमो दर्शने' इति श्रवणार्थे मित्संज्ञको णिजन्तः शमिरपरा प्रकृतिः। अतः प्रकृतिभेदाद्रूपद्वयसिद्धिरित्याह-निशम्येत्यादि।

 संयम्येति । प्रयोजकव्यापारप्रतीतेरत्र णिका भवितव्यम् । तस्मिंस्तु सति 'ल्यपि लघुपूर्वात्' इति णेरयादशे संयमय्य नियमय्य इति प्रयोक्तव्यम् कथं संयम्यनियम्यशब्दाविति अनुयोक्तुरभिप्रायः । शङ्कामिमां शकलयितुं हेतुदेशेन भवितव्यम् । आह-- अणिजन्तत्वात् । धातोर्णिच् तु न, गतार्थत्वात् ; यथा - वाचं नियच्छति इति । णिजानवगतौ णिच् प्रयुज्यते एव; मथा--- संयमयितुमारब्ध इति ।

प्रपीयेति पीङः ॥ ७७ ॥

 प्रपीयेत्ययं शब्दः 'पीङ् पाने' इत्येतस्य । पिबतेर्हि 'न ल्यपि' इतीत्वप्रतिषेधात् प्रपायेति भवति ।

दूरयतीति बहुलग्रहणात् ॥ ७८ ॥

 'दूरयत्यवनते विवस्वति' इत्यत्र दूरयतीति कथम् ? ‘णाविष्ठवद्भावे 'स्थूलदूर-' इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह-बहुलग्रहणात् । 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च' इत्यत्र बहुलग्रहणात् स्थूलदूरादिसूत्रेण यद्विहितं तन्न भविष्यतीति ।

गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ ७९ ॥

माह--- अणिजन्तत्वादिति । णिजभावाण्णेरयादेशो न प्रसज्ज्यत इत्यर्थः । ननु प्रयोजकव्यापारप्रतीतौ णिच्प्रत्ययः किं न स्यादित्यत आह-- णिच् तु नेति। गतार्थत्वात् प्रयोजकव्यापारशून्यस्य सकर्मकस्य प्रकृत्यर्थस्य धातुनैवाभिहितत्वादित्यर्थः । तत्र दृष्टान्तमाह-- यथा वाचमिति । यत्र णिजर्थः स्वभावतो नावगम्यते तत्र णिच् प्रयुज्यत एवेति दर्शयति--णिजर्थानवगताविति ।

 प्रेपीयेति । पीङ् पाने' इति धातोर्व्यबन्तमिदम्, न तु पिबतेः । तस्य 'न ल्यपि' इतीत्वप्रतिषेधादित्याह-- पिबतेरिति ।

 दूरयतीति प्रयोगस्य साधुत्वं समर्थयितुं शङ्कामिमामङ्कुरयति- दूरयतीति । शेषं सुगमम् ।

 गच्छतीप्रभृतिष्विति । 'शप्श्यनोर्नित्यम्' इति नित्यं नुमागमस्य विधानात् गच्छतीत्यादयो न साधव इत्यर्थः ।  'हरति हि वनराजिर्गच्छती श्यामभावम्' इत्यादिषु गच्छतीप्रभृतिषु शब्देषु 'शप्श्यनोर्नित्यम्' इति नुम् अनिमेध्यो निषेद्धुमशक्यः ।

मित्रेण गोप्त्रेति पुंवद्भावात् ॥ ८०॥

 मित्रेण गोप्त्रेति ? गोप्तृणा इति भवितव्यम्, 'इकोऽचि विभक्तौ' इति नुम्बिधानात् । आह - पुंवद्भावात् । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' इति पुंवद्भावेन गोप्त्रेति भवति ।

वेत्स्यसीति पदभङ्गात् ॥ ८१ ॥

 'पतितं वेत्स्यति क्षितौ' इत्यत्र वेत्स्यसीति न सिध्यति, इट्प्रसङ्गात् । आह-पदभङ्गात् । वेत्स्यसीति पदं भज्यते--वेत्सि, असि । असीत्ययं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालंकारे प्रयुज्यते । यथा -'पार्थिवस्त्वमसि सत्यमभ्यधाः' इति ।

कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ ८२ ॥

 कामयानशब्दः सिद्धः 'आगमानुशासनमनित्यम्' इति मुक्यकृतेः यद्यनादिः स्यात् ।

सौहृददौर्हृदशब्दावणि हृद्भावात् ॥ ८३ ॥


 मित्रेण गोप्त्रेति। स्पष्टमवशिष्ठम् ।

 वेत्स्यसीति। विदेर्ज्ञानार्थस्यानुदात्तोपदेशत्वाभावादिडागमेन भवितव्यम् । तथा च वेत्स्यसीति न सिध्यतीति चिन्तायां पदं विभज्य प्रयोगसाधुत्वं समर्थयते--पतितमित्यादिना।

 कामयान इति । 'आगमानुशासनमनित्यम्' इति वचनात् 'आने मुक्' इत्यकृते मुगागमे कामयान इति । स च प्रामाणिकैः प्रयुक्तश्चेत् साधुरित्यभिप्रायः ।

 सौहृददौर्हृदशब्दाविति । शोभनं हृदयं यस्य, दुष्टं हृदयं यस्येति विग्र सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते हृदयस्य हृद्भावे आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः । सुहृद्दुर्हच्छब्दाभ्यां युवादिपाठादेवाणि कृते 'हृद्भगसिन्ध्वन्ते-' इति हृदन्तस्य तद्धितेऽणि सत्युभयपदवृद्धौ सत्यां सौहार्दं दौर्हार्दमिति भवति ।

विरम इति निपातनात् ॥ ८४ ॥

 रमेरनुदात्तोपदेशत्वात् 'नोदात्तोपदेशस्य-' इत्यादिना वृद्धिप्रतिषेधस्याभावात् कथं विरम इति ? आह--निपातनात् 'यम उपरमे' इत्यत्र उपरमे इति । एतत्तु उपलक्षणम्, अतन्त्रं च उपोपसर्ग इति ।

उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ ८५ ॥


हसिद्धाभ्यां सुहृदयदुर्हृदयशब्दाभ्यां भावार्थे 'हायनान्तयुवादिभ्योऽण्' इत्यणि कृते सति' हृदयस्य त्दृल्लेखयदण्लासेषु' इति हृदादेशे ‘तद्धितेष्वचामादेः' इत्यादिवृद्धौ च सत्यां सौहृददौर्हृदशब्दौ सिद्धौ । अत्र हृच्छब्दस्य लाक्षणिकत्वात् 'हृद्भगसिन्ध्वन्ते--' इत्यत्र प्रतिपदोक्तस्य ग्रहणादुभयपदवृद्ध्यभावः । शोभनं हृद् यस्य, दुष्टं हृद् यस्येति विग्रहे, सिद्धाभ्यां सुहृदुर्हृच्छब्दाभ्यां युवादिपाठादणि कृते 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' इत्युभयपदवृद्धौ सौहार्दं दौर्हादमिति च सिद्धमिति व्याचष्टे --- सुहृदय इत्यादिना ।

 विरम इति। विरमेर्मान्तत्वेऽपि अनुदात्तोपदेशत्वात्, 'नोदात्तोपदेशस्य---' इत्यादिना वृद्धिप्रतिषेधाभावात् वृद्धौ सत्यां विराम इति युक्तं प्रयोक्तुम्, कथं विरम इति प्राप्ते, 'यम उपरमे' इत्यत्र निपातनात् सिध्यतीति दर्शयति-- रमेरिति। उपरम इति निपातेन विरम इत्यस्य किमायातमिति तत्राह -- एतत्त्विति । एतत्तु निपातनं सोपसर्गस्य रमेरुपलक्षणमित्यवगन्तव्यम् ।

 उपर्यादिष्विति । 'उपर्यध्यधसः सामीप्ये' इत्युपर्यादीनां सामीप्यार्थे द्विवचनविधानात् द्विरुक्तैस्तैर्योगे सति द्वितीयाविभक्तिर्भवति । वीप्सायां तु  उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु 'उपर्यध्यधसः सामीप्य' इत्यनेन 'उपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु' इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति-- 'उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ।'

मन्दं मन्दमित्यप्रकारार्थत्वे ॥ ८६ ॥

 'मन्दं मन्दं नुदति पवनः' इत्यत्र मन्दं मन्दमिति अप्रकारार्थत्वे भवति । प्रकारार्थत्वे तु 'प्रकारे गुणवचनस्य इति द्विवचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः । मन्दं, मन्दमित्यत्र तु 'नित्यवीप्सयोः' इति द्विर्वचनम् । अनेकभावात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुमिष्टा भवन्ति तदा वीप्सेति ।

न निद्राद्रुगिति भष्भावप्राप्तेः ॥ ८७ ॥

 'निद्राद्रुक्काद्रवेयच्छविरुपरिलसद्धर्धरो वारिवाहः' इत्यत्र निद्राद्रुगिति न युक्तः, 'एकाचो वशो भष्-' इति भष्भावप्राप्तेः । अनुप्रासप्रियैस्त्वपभ्रंशः कृतः।

निष्पन्द इति षत्वं चिन्त्यम् ॥ ८८ ॥

षष्ठीविभक्तिर्भवतीति व्यवस्थामाह- उपर्यादिष्विति । क्रियागुणाभ्यां युगपत् प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा।

 मन्दं मन्दमिति । वीप्साप्रकारार्थयोः प्रयोगद्वयव्यवस्थां प्रतिपादयितुमाह-- मन्दं मन्दं नुदतीति । कर्मधारयवद्भावे चेति । 'कर्मधारयवदुत्तरेषु' इत्यनेन कर्मधारयवद्भावे सुलोपादिर्भवति । अनेकभावविषया व्याप्तुमिच्छा येति वीप्सा; तां दर्शयति- अनेकभावेति ।

 न निद्रेति । निद्राघ्रुगिति वक्तव्ये निद्राद्रुगित्यपभ्रंश इत्याह----निद्राद्रुक्काद्रवेय इति ।

 निष्पन्द इति । अत्र षत्वप्राप्तावनुशासनादर्शनात् सुषामादिष्वपि पाठा न ह्यत्र षत्वलक्षणमस्ति । सुषामादिपाठोऽप्यस्य न निश्चितः ।

नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ ८९ ॥

 म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः' इत्यत्राङ्गुलिसङ्ग इति न युक्तः 'समासेऽङ्गुलेः सङ्गः' इति मूर्धन्यविधानात् ।

तेनावन्तिसेनादयः प्रत्युक्ताः ॥ ९० ॥

 तेन अङ्गुलिसङ्ग इत्यनेन अवन्तिसेनः, इन्दुसेन एवमादयः शब्दाः प्रत्युक्ताः प्रत्याख्याताः, 'सुषामादिषु च' 'एति संज्ञायामगात्' इति मूर्धन्यविधानात् ।

नेन्द्रवाहने णत्वमाहितत्वस्याविवक्षितत्वात् ॥ ९१ ॥

 'कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यत्रेन्द्रवाहनशब्दे 'वाहनमाहितात्' इति णत्वं न भवति, आहितत्वस्य अविवक्षितत्वात् । स्वस्वामि-


निश्चयाच्च षत्वं चिन्त्यं निश्चेतुमशक्यमित्याह- न हीति ।

नाङ्गुलिसङ्ग इति । स्पष्टोऽर्थः ।

 तेनेति । 'सुषामादिषु च' इति सूत्रे, 'एति संज्ञायामगात्' इति गणसूत्रबलात् एकारपरस्यागकारात् परस्य संज्ञायां विषये मूर्धन्यादेशविधानादवन्तिसेनादयः प्रत्याख्याता इत्याह- तेनाङ्गुलिसङ्ग इत्यनेनेति ।

 नेन्द्रवाहने णत्वमिति । 'चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम्' इत्यादिप्रयोगो दृश्यते । अत्र वाहनमाहितात्' इति सूत्रे आहितवाचि यत् पूर्वपदं तस्मान्निमित्तादुत्तरस्य वाहननकारस्य णकारादेशो विधीयते । वाहने यदारोपितं तदाहितमित्युच्यते । तस्मादिक्षुवाहणमितिवदिन्द्रवाहणमिति प्रयोकव्यम्, न पुनरिन्द्रवाहनमिति प्राप्ते तन्निषेद्धुमाह-इन्द्रवाहन-

25

भावमात्रं ह्यत्र विविक्षितम् । तेन सिद्धमिन्द्रवाहनामिति ।

सदसन्तो मया शब्दा विविच्यैवं निदर्शिताः ।

अनयैव दिशा कार्य शेषाणामप्यवेक्षणम् ॥

इति काव्यालंकारसूत्रवृत्तौ प्रायोगिके पञ्चमेऽधिकरणे द्वितीयोऽध्यायः॥

समाप्तं चेदं प्रायोगिकं पञ्चममधिकरणम् ॥

शब्द इति । अयमर्थः- पूर्वपदार्थस्येक्षुशरादेरिव नेन्द्रस्याहितत्वं विवक्ष्यते, किं तु इन्द्रस्वामिकं वाहनमिन्द्रवाहनमिति स्वस्वामिसंबन्धो विवक्ष्यते । ततश्च दाक्षिवाहनमितिवदिन्द्रवाहनमिति सिद्धमिति ।

 सदसन्त इति । एवम् उक्तप्रकारेण । साधवश्चासाधवश्च शब्दा विविच्य पृथक्कृत्य निदर्शिता उदाहृताः । अनयैव दिशा अस्मदुक्तेनैव सदसद्विवेकमार्गेण । शेषाणामनुक्तानां सतामसतां च शब्दानाम् । अवेक्षणं पर्यालोचनं कार्यं कर्तव्यमिति भद्रम् ॥

  इत्थं समिद्धगुणसंपदि वामनस्य
   प्रस्थानसीमनि चिरादलसोज्झितायाम् ।
  व्याख्यानपद्धतिरियं व्यवहारहेतो-
   निष्कण्टका निपुणमारचिता कवीनाम् ॥

  न्यायोक्तिवीचिनिचयेन कुतर्कजाल-
   कूलंकषेण गहने गुणरत्नगर्भे ।
  सारस्वतामृतसरस्वति नावमेना-
   मालम्ब्य रन्तुमनसो विचरन्तु धीराः॥

  पदे केचिद्वाक्ये कतिचन परे मान इतरे
   कवित्वेऽलंकारे कतिचन परे नाट्यनिगमे ।
  भजन्ति प्रागल्भ्यं न खलु वयमेतेषु गणिता
   बहूकुर्वन्त्येते बुधसदसि नः किं तु सुधियः॥

  शब्दार्थों चरणौ प्रतीकविसरो वाक्यानि गुम्भो लस-
   न्मूर्तिर्वस्तु शिरः परिष्कृतिरलंकारोऽसवो रीतयः ।
  यस्याः स्वीयगुणा गुणाः सुरुचिराः शृङ्गारचेष्टादयो
   रम्याष्टादश वर्णनाः कृतिवधूः सेयं जगन्मोहिनी ॥

  इति कृतरचनायामिन्दुवंशोद्वहेन
   त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
  ललितवचसि काव्यालंक्रियाकामधेना-
   वधिकरणमयासीत्पञ्चमं पूर्तिमेतत् ॥


इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालंकारसूत्रवृत्तिव्याख्यायां काव्यालकारकामधेनौ प्रायोगिक नाम

पञ्चममधिकरणम् ॥

इति काव्यालंकारसूत्रवृत्तिः कामधेनुसहिता संपूर्णा ॥