काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/चतुर्थाधिकरणम्/द्वितीयोऽध्यायः
संप्रत्यर्थालंकाराणां प्रस्तावः ; तन्मूलं चोपमेति सैव विचार्यते ।
उपमानेनोपमेयस्य गुणलेशतः साम्यमुपमा ॥ १ ॥
उपमीयते सादृश्यमानीयते येनोत्कृष्टगुणेनान्यत् , तत् उपमानम् । यदुपमीयते न्यूनगुणम् , तत् उपमेयम् । उपमानेनोपमेयस्य गुणलेशतः साम्यं यत् , असावुपमेति ।
ननु च उपमानमित्युपमेयमिति च संबन्धिशब्दावेतौ, तयोरेकतरोपादानेनैवान्यतरसिद्धिः । यथा 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इत्यत्रोपमितग्रहणमेव कृतम् , नोपमानग्रहणमिति । तद्वदत्रोभयग्रहणं न कर्तव्यम् ; सत्यम् । तत् कृतं लोकप्रसिद्धिपरिग्रहार्थम् । यदेवोपमेयमुप-
उत्खण्डिततमःस्तोममुपेयमुपरि श्रुतेः ।
उदर्चिरुपमामिन्दोरुक्तिज्योतिरुपास्महे ॥
शब्दालंकारेषु चर्चितेषु, खलेकपोतन्यायादखिलानामर्थालंकाराणामशेषेण प्राप्तौ, प्रकृतित्वात्तेषां प्रथममुपमां प्रस्तौति-- संप्रतीति । व्याख्यातुं सूत्रमुपादत्ते--उपमानेनेति। उपमानोपमेयपदव्युत्पत्तिं प्रदर्शयति-उपमीयत इति । उत्कृष्टगुणेन येन चन्द्रादिना सादृश्यमानीयतेऽन्यन्मुखादिकम् , तदुपमानम् । यत्तु न्यूनगुणमुत्कृष्टगुणेनान्येनोपमीयते तदुपमेयम् , उपमानेन सादृश्यं प्रापयितुमर्हमित्यर्थः । गुणलेशत इति । गुणा उपमानोपमेययोरुत्कृष्टधर्माः, तेषां लेशत एकदेशतः, क्वचिदपि सर्वाकारसादृश्यासंभवादिति भावः । ननु संबन्धिशब्दयोरेकतरग्रहणेऽन्यतरस्यानुक्तसिद्धत्वमिति शङकते-- ननु चेति । अमुमर्थमभियुक्तोक्तिसंवादेन समर्थयते--यथेति। ‘उपमितं व्याघ्रादिभिः' इति पाणिनीयसूत्रे यथोपमितपदग्रहणेनैव व्याघ्रादीनामुपमानत्वमवगम्यते, तद्वदत्राप्युपमानग्रहणं न कर्तव्यमिति शङ्कितुरभिप्रायः । परिहरति--- तत्कृतमिति । मानं च लोकप्रसिद्धम् , तदेव परिगृह्यते नेतरत् । न हि यथा मुखं कमलमिव इति, तथा कुमुदमिव इत्यपि भवति ॥
गुणबाहुल्यतश्च कल्पिता ॥२॥
गुणानां बाहुल्यं गुणबाहुल्यम् , तत उपमानोपमेययोः साम्यात् कल्पितोपमा कविभिः कल्पितत्वात् कल्पिता । पूर्वा तु लौकिकी । ननु कल्पिताया लोकप्रसिद्ध्यभावात् कथमुपमानोपमेयनियमः? गुणबाहुल्यस्योत्कर्षापकर्षकल्पनाभ्याम् ।
तद्यथा-
'उद्गर्भहूणतरुणीरमणोपमर्द-
भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरै-
र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥'
तत् उभयग्रहणं कृतम् । किमर्थम् ? लोकपसिद्धस्योपमानस्य परिग्रहार्थम् । न ह्यत्र व्युत्पत्तिबलादागतमुपमानं विवक्षितम् , किंतु लोकप्रसिद्धमेवेत्यवगमयितुमुभयग्रहणं कृतमित्यर्थः । तत्प्रसिद्ध्यप्रसिद्धी दर्शयति- यथेति । यथा मुखं पद्ममिवेत्यत्र पद्मं मुखोपमानत्वेन प्रसिद्धम् , न तथा कुमुदमिवेत्यपि भवति प्रसिद्धमिति भावः ।
लौकिकी कल्पिता चेत्युपमा द्विविधा ; तत्र कल्पितोपमा प्रकटयितुमाह गुणबाहुल्यत इति । उपमायाः कल्पितत्वव्यपदेशे कारणमाह--- कविभिरिति । या पुनरुपमा गुणलेशतः साम्यलक्षणा सा लौकिकी प्रागुक्तैवेत्याह पूर्वा तु लौकिकीति । प्रसिद्ध्यभावात् कल्पितायामिदमुपमानमिदमुपमेयमिति व्यवस्था न घटत इति शङ्कते--- नन्विति । इह खलूपमानोपमेययोर्मुखचन्द्रयोर्गुणोत्कर्षापकर्षौ व्यवस्थापकौ । तत्तत्कल्पनया कल्पितायामुपमानोपमेयनियमो घटते । अतो न लोकविरोध इति परिहरति--- गुणबाहुल्यस्येति । उदाहरति--- तद्यथेति । उद्गर्भा व्यक्तगर्भा या हूणाख्यजनपदतरुणी तस्या रमणेन भर्त्रा उपमर्दो गाढालिङ्गनं तेन भुग्नः स चासावुन्नतः स्तनश्च भुग्नोन्नतस्तनः तस्य 'सद्योमुण्डितमत्तहूणचिबुकास्पर्धि नारङ्गकम् ।'
'अभिनवकुशसूचिस्पर्धि कर्णे शिरीषम् ।'
'इदानीं प्लक्षाणां जरठदलविश्लेषचतुर-
स्तिभीनामाबद्धस्फुरितशुकचञ्चूपुटनिभम् ।
ततः स्त्रीणां हन्त क्षममधरकान्तिं तुलयितुं ।
समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥'
तद्द्वैविध्यं पदवाक्यार्थवृत्तिभेदात् ॥ ३ ॥
तस्या उपमाया द्वैविध्यम् , पदवाक्यार्थवृत्तिभेदात् । एका पदार्थवृत्तिः, अन्या वाक्यार्थवृत्तिरिति ।
पदार्थवृत्तिर्यथा-
'हरिततनुषु बभ्रुत्वग्विमुक्तासु यासां
कनककणसधर्मा मान्मथो रोमभेदः।'
निवेशः संनिवेशो मण्डलाकार इति यावत् तन्निभम् । हिमांशोर्बिम्बम् । कठोरबिसकाण्डा इव कडारगौराः कपिशावदातास्तैः । अप्रकरैः, प्रथममग्रे, विष्णोः पदमाकाशं व्यनक्ति । विषयव्याप्त्यर्थमुदाहरणान्तराण्याह---- सद्य इति । मुण्डितेन वापितेन मत्तस्य हूणजनपदपुरुषस्य चिबुकेन प्रस्पर्धितुं शीलमस्यास्तीति तत्संनिभं भवति नारङ्गकमिति । इदानीमिति । जरठदलानां जीर्णपर्णानां विश्लेषेण चतुरा मनोज्ञाः स्तिभयोऽङ्कुरा येषाम् । 'स्तिभिश्च स्तिभितः शुङ्गोऽप्यङ्कूरोऽङ्कुर एव च' इति हलायुधः। तेषां प्लक्षाणां किसलयम् । आबद्धो घटितः स्फुरित ईषद्विवृतः शुकस्य यश्चञ्चूपुटस्तत्संनिभं भवति । ततोऽनन्तरम् । स्फुटसुभगरागं व्यक्तमनोज्ञारुण्यम् , स्त्रीणामधरकान्तिं तुलयितुं क्षमं योग्यं सत् , निर्याति ।
उपमाविभागमुदीरयितुमाह-तद्द्वैविध्यमिति । व्याचष्टे-तस्या इति। पदार्थवृत्तिमुपमां प्रतिपादयति-पदार्थेति । हरिततनुष्विति । कनककणस-
15 वाक्यार्थवृत्तिर्यथा-
'पाण्ड्योऽयमंसार्पितलम्बहारः
क्लृप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः ।
सनिर्झरोद्गार इवाद्रिराजः॥'
सा पूर्णा लुप्ता च ॥ ४ ॥
सा उपमा पूर्णा लुप्ता च भवति ।
गुणद्योतकोपमानोपमेयशब्दानां सामग्र्ये पूर्णा ॥ ५॥
गुणादिशब्दानां सामग्र्ये साकल्ये पूर्णा ।
यथा- 'कमलमिव मुखं मनोज्ञमेतत्' इति ।
लोपे लुप्ता ॥ ६॥
गुणादिशब्दानां लोपे वैकल्ये लुप्ता ।
धर्मेत्यत्र पदार्थवृत्तिरुपमा । वाक्यार्थवृत्तिमुपमामुदाहरति-- पाण्ड्योऽयमिति ।
पुनर्भेदं प्रादुर्भावयितुमाह -- सा पूर्णा लुप्ता चेति ।
पूर्णां वर्णयितुमाह-- गुणद्योतकेति । व्याचष्टे-~~ गुणादीति । उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानामन्यूनत्वेन प्रयोगे पूर्णा । कमलमिवेति । अत्र कमलमुपमानम् , मुखमुपमेयम् , इवशब्दः सादृश्यद्योतकः, मनोज्ञशब्दः समानधर्मवचनः । एतेषामन्यूनतया प्रयोगादियमुपमा पूर्णा ।
लुप्तां लक्षयति--- लोप इति । गुणादिशब्दानामिति । उपमानोपमेयगुणसादृश्यप्रतिपादकानां मध्ये एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । शशीव राजेत्यत्र साधारणधर्मस्याप्रयोगादेकस्य लोपः । दूर्वाश्यामेत्यत्रोदाहरणे सादृश्यद्योतकस्याप्रयोगादेकस्य लोपः । श्यामाशब्देनैव धर्मधर्मिणोरुक्तत्वात् । 'दूर्वा गुणशब्दलोपे यथा--- 'शशीव राजा' इति ।
द्योतकशब्दलोपे यथा-- 'दूर्वाश्यामेयम्' इति । उभयलोपे यथा- 'शशिमुखी' इति । उपमानोपमेयलोपस्तूपमाप्रपञ्चे द्रष्टव्यः ।
स्तुतिनिन्दातत्त्वाख्यानेषु ॥ ७ ॥
स्तुतौ निन्दायां तत्त्वाख्याने चास्याः प्रयोगः ।
स्तुतिनिन्दयोर्यथा---
'स्निग्धं भवत्यमृतकल्पमहो कलत्रं
हालाहलं विषमिवापगुणं तदेव ।'
तत्त्वाख्याने यथा-
'तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
यस्तन्वि तारकान्यासः शकटाकारमाश्रितः ॥'
हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यासंभवास्तद्दोषाः ॥ ८॥
तस्या उपमाया दोषा भवन्ति- हीनत्वम् , अधिकत्वम् , लिङ्गभेदः, वचनभेदः, असादृश्यम् , असंभव इति ।
मरकतश्यामं दुष्टराक्षसहारि यत् । अचलं लोचनाग्रान्मे मा चलत्वनिशं महः ॥' इत्युदाहरणान्तरमपि द्रष्टव्यम् । शशिमुखीत्यत्र सादृश्यधर्मवचनयोर्द्वयोर्लोपः । उपमानस्योपमेयस्य वा लोपः समासोक्त्यादावुदाहरिष्यत इत्याह-- उपमानेति । समासोक्त्यादावुपमेयस्य, आक्षेपादावुपमानस्य लोप इति द्रष्टव्यम् ।
उपमामात्रस्य विषयं दर्शयितुमाह---- स्तुतीति । स्निग्धमित्यादौ स्तुतिः । हालाहलमित्यादौ निन्दा | तां रोहिणीमित्यत्र तत्त्वाख्यानम् ॥
उपमादोषानुद्घाटयितुमाह- हीनत्वेति । समासार्थं विविच्य दर्शयति-~~ तस्या इति । तान् क्रमेण व्याख्यातुमाह ---
जातिप्रमाणधर्मन्यूनतोपमानस्य हीनत्वम् ॥ ९॥
जात्या प्रमाणेन धर्मेण चोपमानस्य न्यूनता या, तत् हीनत्वमिति ।
जातिन्यूनत्वरूपं हीनत्वं यथा-'चाण्डालैरिव युष्माभिः साहसं परमं कृतम्'
प्रमाणन्यूनत्वरूपं हीनत्वं यथा- 'वह्निस्फुलिङ्ग इव भानुरयं चकास्ति'
उपमेयादुपमानस्य धर्मतो न्यूनत्वं यत्, तत् धर्मन्यूनत्वम् ।
तद्रूपं हीनत्वं यथा-
‘स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥'
अत्र मौञ्जीप्रतिवस्तु तटिन्नास्त्युपमान इति हीनत्वम् । न च कृष्णाजिनपटमात्रस्योपमेयत्वं युक्तम् , मौञ्ज्या व्यर्थत्वप्रसङ्गात् । ननु
तत्र प्रथमोद्दिष्टं हीनत्वं प्रथयितुमाह- जातीति । व्याचष्टे--जात्येति । जातिर्बाह्मणत्वादिः । प्रमाणं परिमाणम् । धर्मः समानगुणः । एतेषामन्यतमेन न्यूनत्वमुपमानस्य हीनत्वम् । तत्राद्यमुदाहरति-- जातिन्यूनत्वरूपमिति । चाण्डालैरित्यत्र साहसकारित्वं साधर्म्यम् । जातिन्यूनत्वं स्फुटम् । वह्रिस्फुलिङ्ग इत्यत्र परिमाणन्यूनत्वमतिरोहितमेव । स मुनिरिति । नीलजीमूतेन कृष्णमेघेन भागे एकत्र प्रदेशे आश्लिष्टः । धर्मतो न्यूनत्वमुपमानस्य दर्शयति- अत्रेति । मौञ्ज्याः समानं वस्तु प्रतिवस्तु तटित् , सात्र नास्ति, उपमानविशेषणतया अनुपादानादित्यर्थः । ननु उपमाने यावद्दृष्टम् , तावदेव साधर्म्यमुपमेये विवक्षितम् । मौञ्जीलाञ्छनं तु स्वरूपकथनार्थमिति शङ्कां शकलयति-- न चेति । नीलजीमूतस्य तटित्साहचर्यात् तद्ग्रहणेनैव तटित्संवित्तिरप्युपलभ्यते; ततो न काचिन्न्यूनतेति शङ्कते--- नन्विति । नीलजीमूतग्रहणेनैव तडित्प्रतिपाद्यते ; तन्न ; व्यभिचारात् ।
अव्यभिचारे तु भवन्ती प्रतिपत्तिः केन वार्यते ; तदाह--
धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ॥ १० ॥
धर्मयोरेकस्यापि धर्मस्य निर्देशेऽन्यस्य धर्मस्य संवित् प्रतिपत्तिर्भवति । कुतः ? साहचर्यात् । सहचरितत्वेन प्रसिद्धयोरवश्यमेकस्य निर्देशेऽन्यस्य प्रतिपत्तिर्भवति ।
तद्यथा-
निर्वृष्टेऽपि बहिर्घने न विरमन्त्यन्तर्जरद्वेश्मनो
लूतातन्तुततिच्छिदो मधुपृषत्पिङ्गाः पयोविन्दवः ।
चूडाबर्बरके निपत्य कणिकाभावेन जाताः शिशो-
रङ्गास्फालनभग्ननिद्रगृहिणीचित्तव्यथादायिनः ।।
अत्र मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते; तत्र पिङ्गशब्देन पिङ्गत्वे प्रतिपन्ने वृत्तत्वप्रतीतिर्भवति । एतेन 'कनकफलकचतुरश्रं श्रोणि-
तटितमन्तरेणापि नीलजीमूतस्य सद्भावान्नैवमिति परिहरति-- तन्न व्यभिचारादिति।
व्यभिचाराभावे तु सहचरितधर्मप्रतीतिरस्त्येवेति प्रदर्शयितुमनन्तरसूत्रमवतारयति-- अव्यभिचारे त्विति । व्याचष्टे-- धर्मयोरिति । कार्यत्वानित्यत्ववदविनाभूतयोर्धर्मयोरेकस्य ग्रहणेन अशाब्दस्याप्यन्यस्य प्रतिपत्तिर्भवति, तयोरव्यभिचारादिति वाक्यार्थः । उदाहरति-- तद्यथेति । निर्वृष्ट इति । बहिर्घने निर्वृष्टे निर्गतं वृष्टं वर्षणं यस्मात् तादृशि सत्यपि । जरद्वेश्मनः शिथिलगृहस्य । लूतास्तन्तुजालकराः कृमयः । 'लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः' इत्यमरः । तत्तन्तूनां ततीश्छिन्दन्तीति तथोक्ताः । मधुपृषत्पिङ्गाः मधुबिन्दुपिङ्गलाः । पयोबिन्दवो न विरमन्ति । विरतेऽपि वर्षे वेश्मबिन्दवो न विरमन्तीत्यर्थः । अत्रेति । मधुपृषतां वृत्तत्वपिङ्गत्वे सहचरिते अविनाभूते । तत्र पिङ्गशब्देनैव पिङ्गत्वप्रतिपत्तौ, अशाब्द्यपि वृत्तत्वप्रतीतिभवति । उदाहरणान्तबिम्बम्' इति व्याख्यातम् । अत्र कनकफलकस्य गौरत्वचतुरश्रत्वयोः साहचर्याच्चतुरश्रत्वश्रुत्यैव गौरत्वपतिपत्तिरिति ।
ननु च यदि धर्मन्यूनत्वमुपमानस्य दोषः । कथमयं प्रयोगः-
'सूर्यांशुसंमीलितलोचनेषु
दीनेषु पद्मानिलनिर्मदेषु ।
साध्व्यः स्वगेहेष्विव भर्तृहीनाः
केका विनेशुः शिखिनां मुखेषु ॥' इति ?
अत्र बहुत्वमुपमेयधर्माणामुपमानात् । न; विशिष्टानामेव मुखानामुपमेयत्वात् , तादृशेष्वेव केकाविनाशस्य संभवात् ।
तेनाधिकत्वं व्याख्यातम् ॥ ११ ॥
तेन हीनत्वेन अधिकत्वं व्याख्यातम् --- जातिप्रमाणधर्माधिक्यमधिकत्वमिति ।
रमाह-- कनकफलकेति । उक्तं सूत्रार्थमुदाहरणे योजयति- अत्रेति । कनकफलकस्य चतुरश्रत्वश्रुत्या तत्सहचरितं गौरत्वमपि प्रतीयते, अव्यभिचारादित्यर्थः ॥
धर्मन्यूनत्वस्योपमादोषत्वे प्रयोगविरोधमाशङ्कते-- ननु चेति । प्रयोगं प्रदर्शयति--सूर्येति । मुखेष्वित्युपमेयस्य लोचनसंमीलनदैन्यनिर्मदत्वानां धर्माणां बाहुल्यं प्रतीयत इति विरोधः । परिहरति---नेति । भर्तृहीनजनाश्रयत्वेन गृहेष्वपि दैन्यमवगम्यते । तादृशेषु गृहेषु साध्वीनामिव दैन्यविशिष्टेषु शिखिमुखेषु केकानां विलयो वक्तव्यः, अन्यथा तदसंभवात् । दैन्यं च नेत्रनिमीलननिर्मदत्वाभ्यां तदनुभावाभ्यामुपपादितमिति नास्ति धर्मन्यूनतेत्याह- विशिष्टानामिति । · धर्मागमे दुर्मदतिग्मरश्मिसंतापसंमीलितलोचनेषु । साध्व्यः स्वगेहेष्विव भर्तृहीना. केका विलीनाः शिखिनां मुखेषु ॥' इति विधान्तरं विधातुं न प्रबन्धकर्ता न प्रगल्भते; किंतु भर्तृहीनत्वस्य निर्मदत्वादेश्चोपपादकस्य भेदे ऽप्युभयत्र दैन्यमेव साधर्म्यमिति विवक्षितमिति न कश्चिद्विरोधः ।
अधिकत्वं व्याख्यातुं सूत्रं व्याहरति- तेनेति । हीनत्वमिवाधिकत्व जात्याधिक्यरूपमधिकत्वं यथा- विशन्तु विष्टयः शीघ्रं रुद्रा इव महौजसः।
प्रमाणाधिक्यरूपं यथा-
पातालमिव नाभिस्ते स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥'
धर्माधिक्यरूपं यथा-
सरश्मि चञ्चलं चक्रं दधद्देवो व्यराजत।
सबाडबाग्निः सावर्तः स्रोतसामिव नायकः ॥'
सबाडवाग्निरित्यस्य प्रतिवस्तुन उपमेयेऽभावाद्धर्माधिक्यमिति ।
अनयोर्दोषयोर्विपर्ययाख्यस्य दोषस्यान्तर्भावान्न पृथगुपादानम् । अत एवास्माकं मते षट् दोषा इति ।
उपमानोपमेययोर्लिङ्गव्यत्यासो लिङ्गभेदः ॥ १२ ॥
उपमानस्योपमेयस्य च लिङ्गयोर्व्यत्यासो विपर्ययो लिङ्गभेदः।
मपि जात्यादिभिस्त्रिविधम् । तस्य क्रमेणोदाहरणानि दर्शयति-- जात्येति । विष्टयः कारवो भृत्या वा। 'विष्टिः कारौ कर्मकरे' इति वैजयन्ती । पातालमित्यादि स्पष्टम् । सबाडबाग्निः सावर्त इत्यत्राधिक्यमुपमाने दर्शयति-- सवाडवेति । अत्र सरश्मीति चक्रविशेषणवदावर्तविशेषणानुपादानान्न्यूनत्वमपि द्रष्टव्यम् । जातिप्रमाणहीनत्वाधिकत्वे पदार्थोपमायां दोषः, धर्मन्यूनत्वाधिकत्वे तु वाक्यार्थोपमायाम् । पदार्थोपमायां न धर्मन्यूनाधिकभावः संभवति, समानधर्मस्यैकत्वेन वाक्यार्थोपमायामिवानेकविशेषवैशिष्ट्यासंभवादिति द्रष्टव्यम् । विपर्ययाख्यस्येति । उपमेयधर्मस्य हीनत्वमधिकत्वं च विपर्ययः ; तदात्मकस्य दोषस्य हीनत्वाधिकत्वानतिरेकात् तत्रैवान्तर्भाव इति तन्निरूपणेनैव निरूपितप्रायत्वान्न पृथगभिधानं कृतमित्यर्थः । अस्माकमिति । मत इति शेषः ।
लिङ्गभेदमुल्लिङ्गयितुमाह- उपमानोपमेययोरिति । सूत्रार्थविवरणोदाहरणे सुगमे एव । गङ्गाप्रवाह इव तस्य निरर्गला वाक्' इत्यादिषु स्त्रीपुंसयोरपि द्रष्टव्यः । यथा- 'सैन्यानि नद्य इव जग्मुरनर्गलानि ।'
इष्टः पुंनपुंसकयोः प्रायेण ॥ १३ ॥
पुंनपुंसकयोरुपमानोपमेययोर्लिङ्गभेदः प्रायेण बाहुल्येन इष्टः ।
यथा--- 'चन्द्रमिव मुखं पश्यति' इति । 'इन्दुरिव मुखं भाति' इत्येवंप्रायं तु नेच्छन्ति ।
लौकिक्यां समासाभिहितायामुपमाप्रपञ्चे च ॥ १४ ॥
लौकिक्यामुपमायां समासाभिहितायामुपमायामुपमाप्रपञ्चे चेष्टो लिङ्गभेदः प्रायेणेति ।
लौकिक्यां यथा--- 'छायेव स तस्याः ' 'पुरुष इव स्त्री' इति ।
समासाभिहितायां यथा--'भुजलता नीलोत्पलसदृशी' इति ।
उपमाप्रपञ्चे यथा-
'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥
एवमन्यदपि प्रयोगजातं द्रष्टव्यम् ।
उक्तयुक्त्या पुंनपुंसकयोर्दोषत्वप्रसङ्गे लिङ्गभेदस्य क्वचिदपवादं दर्शयितुमाह----इष्ट इति । एवंप्रायमिति । एवंप्रायं तु नेच्छन्तीत्यात्मनस्तत्रौदासीन्यमवगमयति । यत्र हि लिङ्गभेदेऽपि विशेषणमुभयान्वयक्षमम् , तत्र न दोषः । यत्र तु विशेषणमेकत्रान्वितं सदितरत्र नान्वयक्षमम् , तत्र दोष इति तात्पर्यम् ।
लिङ्गान्तरेऽप्यपवादं दर्शयितुमाह-- लौकिक्यामिति । लोकतः प्रसिद्धा उपमा लौकिकी । समासेनाभिहिता लुप्ता । उपमाप्रपञ्चः प्रतिवस्तुप्रभृतिः । तत्र लिङ्गभेदः प्रायेणेष्टः । उदाहरणानि दर्शयति- लौकिक्यामिति । उदाहरणानि स्पष्टार्थानि । शुद्धान्तदुर्लभमित्यत्र प्रतिवस्तूपमा । एवमिति । 'नेदं नभोमण्डलमम्बुराशिः' इत्याद्यपह्नुत्यादौ द्रष्टव्यम् ।तेन वचनभेदो व्याख्यातः॥ १५ ॥
तेन लिङ्गभेदेन वचनभेदो व्याख्यातः ।
यथा-- 'पास्यामि लोचने तस्याः पुष्पं मधुलिहो यथा ।'
अप्रतीतगुणसादृश्यमसादृश्यम् ॥ १६ ॥
अप्रतीतैरेव गुणैर्यत् सादृश्यम् , तत् अप्रतीतगुणसादृश्यम् असादृश्यम् ।
यथा-- 'ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ।'
काव्यस्य शशिना सह यत् सादृश्यम् , तदप्रतीतैरेव गुणैरिति ।
ननु च अर्थानां रश्मितुल्यत्वे सति काव्यस्य शशितुल्यत्वं भविष्यति; मैवम् ; काव्यस्य शशितुल्यत्वे सिद्धेऽर्थानां रश्मितुल्यत्वं सिध्यति ; नाप्यर्थानां रश्मीनां च कश्चित्सादृश्यहेतुः प्रतीतो गुणोऽस्ति । तदेवमितरेतराश्रयदोषो दुरुत्तर इति ।
वचनभेदं विवेचयितुमाह- तेनेति । पास्यामीति । पास्याम इति वक्तव्ये पास्यामीति प्रयुक्तत्वाद्वचनभेदः ।
असादृश्यं प्रकाशयितुमाह- अप्रतीतेति। अप्रतीतैः सहृदयसंवादिप्रतिपत्त्यविषयैरित्यर्थः । ग्रथ्नामीति । काव्यशशिनोः सादृश्यमप्रतीतगुणमित्यसादृश्यम् । नन्वर्थानां रश्मिसादृश्यप्रतीत्या काव्यशशिनोरपि सादृश्यं संभवतीति शङ्कते--- नन्विति । परस्पराश्रयपराहतमिदं चोद्यमिति परिहरति-नैवमिति । अर्थानां रश्मिसादृश्ये सिद्धे शशिसादृश्यं काव्यस्य सिध्यति; सिद्धे च काव्यस्य शशिसादृश्येऽर्थानां रश्मिसादृश्यमिति परस्पराश्रय इत्यर्थः । ननु काव्यशशिसादृश्यनिरपेक्षमेव अर्थरश्मिसादृश्यं संभवति ; कुतः परस्पराश्रयप्रसङ्ग इत्यत आह--- नाप्यर्थानामिति । दुरुत्तरः दुष्परिहरः।
असादृश्यहता ह्युपमा तन्निष्ठाश्च कवयः ॥ १७ ॥
असादृश्येन हता असादृश्यहता उपमा । तन्निष्ठा उपमानिष्ठाश्च कवय इति ।
उपमानाधिक्यात्तदपोह इत्येके ॥ १८ ॥
उपमानानामाधिक्यात् तस्य असादृश्यस्य अपोह इत्येके मन्यन्ते । यथा- 'कर्पूरहारहरहाससितं यशस्ते ।' इति । अत्र कर्पूरादिभिरुपमा- नैर्बहुभिः सादृश्यं यशसः सुस्थापितं भवति, तेषां शुक्लगुणातिरेकात् ।
नापुष्टार्थत्वात् ॥ १९ ॥
उपमानाधिक्यादपोह इति यदुक्तम् । तन्न अपुष्टार्थत्वात् एकस्मि-
सादृश्यैकसारायामुपमायां परां काष्ठामातिष्ठभानैः कविभिरसादृश्यमवश्यमपोहनीयमिति शिक्षयितुं सूत्रमुपक्षिपति---- असादृश्येति । उपमानिष्ठाः उपमापरायणा इत्यर्थः ।
परपक्षं प्रतिक्षेप्तुं पूर्वपक्षसूत्रमुपक्षिपति-उपमानेति । तदपोहः तस्य असादृश्यस्य अपोहः परिहारः । उदाहरति- कर्पूरेति । श्वेतिमातिशयविशि- ष्टतया वर्णनीये यशसि सितिमगुणाप्रतीतौ वैसादृश्यशङ्कायां सितिमगुणातिशयविशिष्टैर्बहुभिरुपमानैः सादृश्यदृढीकरणे उपमेये शौक्त्यगुणातिरेकावगमात् वैसादृश्यमपोह्यत इत्यभिसंधाय व्याचष्टे- अत्रेति । अत्र हेतुमाह--- तेषामिति ।
बाहुल्येऽप्युपमानानामर्थप्रकर्षाधायकत्वाभावान्नायं पक्षो युज्यत इति दूषयितुं सूत्रमनुभाषते-- नापुष्टार्थत्वादिति । परपक्षमनूद्य प्रतिक्षिपति-- उपमानेति । अत्र हेतुमुपन्यस्यति--- अपुष्टार्थत्वादिति । हेतुं विवृणोति--- एकस्मिन्निति । एकेनैवोपमानेन सितिमगुणावगमे सिद्धे पुनः सहस्रमप्युपमानानि यशसि सितिम्नः परं प्रकर्षमाधातुं न पारयन्तीत्यर्थः । ननु कर्पूरादयः शब्दा यशसि सितिमानं प्रतिपादयन्तः, सहृदयचर्वणीयत्वं परिष्कारत्वं व्यापकत्वं च गुणान्तरमवगमयन्ति ; अतोऽस्त्येवार्थपरिपोष इति चेत् , मैवम् ; कर्पून्नुपमाने प्रयुक्ते उपामानान्तरप्रयोगो न कंचिदर्थविशेषं पुष्णाति । एतेन 'बलसिन्धुः सिन्धुरिव क्षुभितः' इति प्रत्युक्तम् । ननु सिन्धुशब्दस्य द्विः- प्रयोगात्पौनरुक्त्यम् । न ; अर्थविशेषात् : बलं सिन्धुरिव वैपुल्यात् बलसिन्धुः सिन्धुरिव क्षुभित इति क्षोभसारूप्यात् । तस्मादर्थभेदान्न पौनरु- क्त्यम् । अर्थपुष्टिस्तु नास्ति । सिन्धुरिव क्षुभित इत्यनेनैव वैपुल्यं पतिपत्स्यते । उक्तं हि-'धर्मयोरेकनिर्देशेऽन्यस्य संवित्साहचर्यात् ' इति ।
अनुपपत्तिरसंभवः ॥ २० ॥
अनुपपत्तिः अनुपपन्नत्वम् उपमानस्य असंभवः ।
यथा-
'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः।
उन्निद्रस्यारविन्दस्य मध्ये मुग्धेव चन्द्रिका ॥'
रादयः शब्दाः सितपदसमभिव्याहारेण सितिमनि शृङ्खलितशक्तयो न किमपि गुणान्तरमुदीरयितुमुत्सहन्ते। यदि कनकफलचतुरश्रत्वं तद्गौरत्वमिव कर्पूरादिपदैः सितिमगुणोऽवगम्यमानः स्वसहचरितमपि चर्वणीयत्वं परिष्कारत्वं व्यापनशीलत्वं च गुणान्तरमवगमयेत् , तदा भवतु पुष्टार्थत्वम् । उक्तं दूषणमन्यत्राप्यतिदिशति-तेनेति । नन्वसत्यर्थभेदे सिन्धुशब्दस्य द्विरुक्तौ पौनरुक्त्यमिति वक्तव्यमिति शङ्कामनुभाषते--- नन्विति । दूषयति--- नेति । हेतुमाह-- अर्थेति । अर्थभेदादित्यर्थः । अर्थभेदमेव समर्थयते-- बलं सिन्धुरिवेति । बलसिन्धुरित्यत्र वैपुल्यं प्रतिपाद्यम् । अन्यत्र तु क्षोभसारूप्यमिति भेदः । निगमयति--तस्मादिति । अपुष्टार्थत्वं स्पष्टयति--- अर्थपुष्टिस्त्विति। सिन्धुक्षोभोऽत्र गम्यमानः स्वसहचरितं वैपुल्यमप्यवगमयतीत्यत्र सूत्रं संवादयति - उक्तं हीति । 'इह राजति राजेन्दुरिन्दुः क्षीरनिधाविव' इत्यत्र द्वयोरिन्दुशब्दयोः श्रेष्ठचन्द्रवाचकत्वेनैकार्थ्याभावान्न अपुष्टार्थत्वमित्यवगन्तव्यम् ।
असंभवं व्याख्यातुमाह--अनुपपत्तिरिति । अनुपपन्नत्वमिति । उपपत्तिशून्यत्वमनुपपत्तिरित्यर्थः । उदाहरति-चकास्तीति । विकासिनो वदनस्या चन्द्रिकायामुन्निद्रत्वमरविन्दस्येत्यनुपपत्तिः । नन्वर्थविरोधोऽयमस्तु; किमुपमादोषकल्पनया? न; उपमायाम् अतिशयस्पष्टत्वात् ।
कथं तर्हि दोष इत्यत आह-
न विरुद्धोऽतिशयः ॥ २१ ॥
विरुद्धस्य अतिशयस्य संग्रहो न कर्तव्य इति अस्य सूत्रस्य तात्पर्यार्थः।
तानेतान् षडुपमादोषान् ज्ञात्वा कविः परित्यजेत् ।
इति काव्यालंकारसूत्रवृत्तौ आलंकारिके
चतुर्थेऽधिकरणे द्वितीयोऽध्यायः ॥
न्तर्मध्ये स्मितच्छाया उन्निद्रस्यारविन्दस्य मध्ये मुग्धा मनोज्ञा चन्द्रिकेव चकास्ति । अत्रासंभवमवगमयति-चन्द्रिकायामिति । असंभवस्यार्थदोषत्वमपाकर्तुमनुभाषते-नन्विति । उन्निद्रारविन्दतन्मध्यवर्तिचन्द्रिकायोर्विरोधित्वादयमसंभवोऽर्थदोषोऽस्तु ; नोपमादोषत्वं कल्पनीयमित्यर्थः । परिहरति-नेति । विकासिनो मुखस्य स्मितविकासे वर्णनीये तदुपमानभूतया उन्निद्रारविन्दसंबन्धिन्या चन्द्रिकया सादृश्ये सति कस्यचिदतिशयस्याभिमतत्वादित्यर्थः ।
{{gap}}कथं तर्हीति । इष्टश्चेदयमतिशयः, तर्हि गुण एवायम् ; न तु दोष इत्यर्थः । परिहरति-नेति । अतिशयो विरुद्ध इति यतः, अतो दोष एवेत्यर्थः । निर्वृत्तमर्थं सूत्रस्य निगमयति-विरुद्धस्येति । प्रदर्शितानामेषामुपमादोषाणां परित्याग एव फलमित्याह- तानेतानिति ।
इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति
व्याख्यायां काव्यालंकारकामधेनौ आलकारिके
चतुर्थेऽधिकरणे द्वितीयोऽध्यायः॥