काव्यालङ्कारसूत्रवृत्तिः (कामधेनुव्याख्यासहिता)/चतुर्थाधिकरणम्/तृतीयोऽध्यायः

विकिस्रोतः तः


 संप्रत्युपमाप्रपञ्चो विचार्यते । कः पुनरसावित्याह---

प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः॥ १ ॥

 प्रतिवस्तु प्रभृतिर्यस्य स प्रतिवस्तुप्रभृतिः । उपमायाः प्रपञ्चः उपमाप्रपञ्च इति।


  सुधारसाभे सुषमाप्रवाहे मुक्तायमानैर्मणिभिर्विचित्रैः ।
  ज्योत्स्नेव ताराभिरलंकृता मे सा शारदा चेतसि संनिधत्ताम् ॥

  मूलं वस्तु निगुम्भनोदितकनद्वाक्यानि शाखाः परं
   दीव्यद्वाचकसंहतिर्दलगणो राजद्गुणाः पल्लवाः ।
  अर्थाः पुष्पकदम्बकं सुरुचिरा भूषाः फलं रीतयो
   जीवो यस्य विभाति सोऽयमतुलो वाग्दिव्यशाखी चिरम् ॥

 सर्वालंकारप्रकृतिभूतामुपमामुपपाद्य तत्प्रपञ्चं प्रपञ्चयितुम् आरभते - संप्रतीति । अनुयोगपूर्वकमनन्तरसूत्रमवतारयति-कः पुनरिति । व्याचष्टे- प्रतिवस्त्विति । प्रभृतिशब्द आद्यर्थः । प्रतिवस्तुप्रमुखाणाम् अलंकाराणामुपमागर्भत्वादुपमाप्रपञ्च इति व्यपदेशः कृतः । " प्रतिवस्तुप्रभृतय उद्दिश्यन्ते यथाक्रमम् । प्रतिवस्तु समासोक्तिरथाप्रस्तुतशंसनम् ।। अपहृती रूपकं च श्लेषो वक्रोक्त्यलंकृतिः । उत्प्रेक्षातिशयोक्तिश्च संदेहः सविरोधकः ॥ विभावनानन्वयः स्यादुपमेयोपमा ततः । परिवृत्तिः क्रमः पश्चाद्दीपकं च निदर्शना ॥ अर्थान्तरस्य न्यसनं त्यतिरेकस्ततः परम् । विशेषोक्तिरथ व्याजस्तुतिर्व्याजोक्त्यलंकृतिः ।। स्यात्तुल्ययोगिताक्षेपः सहोक्तिश्च समासतः । अथ संसृष्टिभेदौ द्वावुपमारूपकं तथा ॥ उत्प्रेक्षावयवश्चेति विज्ञेयोऽलंकृतिक्रमः ॥"

 ननु प्रतिवस्तुनो वाक्यार्थरूपत्वेन वाक्यार्थोपमानिरूपणेनैव गतार्थत्वमिति न लक्षणान्तरापेक्षेति शङ्कां शकलयन् लक्षणभेदं दर्शयितुमाह- वाक्या वाक्यर्थोपमायाः प्रतिवस्तुनो भेदं दर्शयितुमाह--

उपमेयस्योक्तौ समानवस्तुन्यासः प्रतिवस्तु ॥ २ ॥

 समानं वस्तु वाक्यार्थः, तस्य न्यासः समानवस्तुन्यासः ; उपमेयस्य अर्थाद्वाक्यार्थस्योक्तौ सत्यामिति । अत्र द्वौ वाक्यार्थौ ; एको वाक्यार्थोपमायामिति भेदः ॥

 तद्यथा-

  ‘देवीभावं गमिता परिवारपदं कथं भजत्येषा ।
  न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥

 प्रतिवस्तुनः समासोक्तेर्भेदं दर्शयितुमाह---

अनुक्तौ समासोक्तिः ॥ ३ ॥

 उपमेयस्य अनुक्तौ समानवस्तुन्यासः समासोक्तिः । संक्षेपवचनात् समासोक्तिरित्याख्या ॥

 यथा--

  ‘श्लाघ्या ध्वस्ताध्वगग्लानेः करीरस्य मरौ स्थितिः ।
  धिङ्मेरौ कल्पवृक्षाणामव्युत्पन्नार्थिनां श्रियः ॥


र्थेति । सूत्रार्थं विवृणोति-- समानं वस्त्विति । किमिदं समानं वस्तु पदार्थरूपम् , उत वाक्यार्थरूपमिति विशयो मा भूदित्याह- वाक्यार्थ इति । समानवस्तुन उपमानस्य वाक्यार्थत्वाभ्युपगमबलादुपमेयस्यापि वाक्यार्थत्वसिद्धिरित्याह---- उपमेयस्येति ।'Bold text' उपमेयस्य वाक्येन प्रतिपादने उपमानस्यापि वाक्यान्तरेण प्रतिपादनं प्रतिवस्त्विति लक्षणार्थः; अत एव वाक्यार्थोपमायाः प्रतिवस्तुनो भेद इत्याह-- अत्रेति । देवीभावमिति । अत्र पूर्वोत्तरवाक्याभ्यां वस्तुप्रतिवस्तुनोः प्रतिपादनात् प्रतिवस्त्वलंकारः ॥

 समासोक्तिं वक्तुमाह- प्रतिवस्तुन इति । लक्षणवाक्यार्थं विवृणोति-- उपमेयस्येति । समानवस्तुन उपमानस्य न्यासः वाक्येनोपपादनमित्यर्थः । समासोक्तिरिति संज्ञान्वर्थेत्याह--- संक्षेपेति । उदाहरति-- श्लाघ्येति । करीरो  समासोक्तेरप्रस्तुतप्रशंसाया भेदं दर्शयितुमाह---

किंचिदुक्तावप्रस्तुतप्रशंसा ॥ ४ ॥

 उपमेयस्य किंचित् लिङ्गमात्रेण उक्तौ समानवस्तुन्यासः अप्रस्तुतप्रशंसा ।

 यथा-

  'लावण्यसिन्धुरपरैव हि केयमत्र
   यत्रोत्पलानि शशिना सह संप्लवन्ते ।
  उन्मज्जति द्विरदकुम्भतटी च यत्र
   यत्रापरे कदलिकाण्डमृणालदण्डाः ॥

 'यत्रोत्पलानि शशिना सह' इति, 'द्विरदकुम्भतटी च यत्र' इति, 'यत्रापरे' इति च अप्रस्तुतस्यार्थस्य प्रशंसनमप्रस्तुतप्रशंसा ।

 अपह्नुतिरपि ततो भिन्नेति दर्शयितुमाह---

समेन वस्तुनान्यापलापोऽपह्नुतिः ॥ ५ ॥

 समेन तुल्येन वस्तुना वाक्यार्थेन अन्यस्य वाक्यार्थस्य अपलापो निह्नवो यः तत्वाध्यारोपणाय, असावपह्नुतिः ॥


वंशो बर्बूरो वा 'करीरोऽस्त्री दन्तिदन्तमूले चक्रकरे घटे। सल्लक्यामपि बर्बूरे काचे वंशे तदङ्कुरे ॥' इत्यमरशेषः । अव्युत्पन्नार्थिनाम् अर्थिपदार्थव्युत्पत्तिरहितानाम् । अत्र करीरस्य मरुस्थितिश्लाघनेन कल्पवृक्षाणां मेरुस्थितिनिन्दनेन च तदुपमेययोः परोपकारप्रवणतद्विमुखयोः श्लाघानिन्दे समस्योक्ते इति समासोक्तिः ।

 अप्रस्तुतप्रशंसां प्रस्तोतुमाह- किंचिदिति । लिङ्गमात्रेणोक्तौ एकदेशेनोपादाने । लावण्येति । अत्र लावण्यपदार्थेनैकदेशेनोपमेयानां नयनादीनामुक्तावुत्पलादीनामप्रस्तुतानां प्रशंसनादप्रस्तुतप्रशंसा नामालंकारः ॥

अपह्नुतिमवगमयितुमाह--- अपह्नुतिरिति । ततः प्रतिवस्तुनामालङ्कारात्, भिन्नेत्यर्थः । समेनेति । वाक्यार्थभूतेनोपमानेनान्यस्य वाक्यार्थभूतस्योप यथा-

  'न केतकीनां विलसन्ति सूचयः
   प्रवासिनो हन्त हसत्ययं विधिः ।
  तटिल्लतेयं न चकास्ति चञ्चला
   पुरः स्मरज्योतिरिदं विवर्तने ॥

 वाक्यार्थयोस्तात्पर्यात् ताद्रूप्यमिति न रूपकम् ।

 तत्तु कीदृशमित्याह--

उपमानेनोपमेयस्य गुणसाम्यात्तत्त्वारोपो

रूपकम् ॥ ६ ॥

 उपमानेन उपमेयस्य गुणसाम्यात् तत्त्वस्य अभेदस्य आरोपणमारोपो रूपकम् । उपमानोपमेययोरुभयोरपि ग्रहणं लौकिक्याः कल्पितायाश्चोपमायाः प्रकृतित्वमत्र यथा विज्ञायतेति ।

 यथा--

  'इयं गेहे लक्ष्मीरियममृतवर्तिनयनयो-
   रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः ।


मेयस्यापलापः अतस्मिंस्तत्त्वाध्यारोपेण अपह्नुतिरिति लक्षणार्थः । न केतकीनामिति । सूचयः कुड्मलाः । केतकीमुकुले सूचिः सेविन्यां पिशुने तु ना।' इति हलायुधः । केतकीसूचिविलासतटिल्लताविलासयोरुपमेययोरुपमानभूतविधिहासस्मरज्योतिर्विवर्तनाध्यारोपेण तयोरपलापादपह्नुतिः । आरोपरूपत्वाविशेषात् कथमपह्नुते रूपकाद्भेद इत्याशङ्क्य भेदं दर्शयति-- वाक्यार्थयोरिति । अपह्नुतौ वाक्यार्थयोरार्थिकं ताद्रूप्यम् , रूपके तु पदार्थयोः शाब्दं ताद्रूप्यमिति भेदः ।

 रूपकं निरूपयितुमाह-तत्तु कीदृशमिति व्याचष्टे-उपमानेनेति । लौकिककल्पितोपमाप्रकृतिकत्वं रूपकस्य निरूपयितुमुपमानोपमेययोर्ग्रहणं कृतमित्याह- उपमानेति । उदाहरति--- इयं गेहे लक्ष्मीरिति । अत्र इयमिति सर्वनाम्ना सीतां निर्दिश्य तत्र लक्ष्मीत्वममृतवर्तित्वम् , अस्याः स्पर्शे चन्दनरस

  अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः
   किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥'

 मुखचन्द्रादीनां तूपमासमासात् न रूपकत्वं युक्तमिति ।

 रूपकाच्छ्लेषस्य भेदं दर्शयितुमाह-

स धर्मेषु तन्त्रप्रयोगे श्लेषः ॥ ७ ॥

 उपमानेनोपमेयस्य धर्मेषु गुणक्रियाशब्दरूपेषु स तत्वाध्यारोपः तन्त्रप्रयोगे तन्त्रेणोच्चारणे सति श्लेषः॥

 यथा-

  'आकृष्टामलमण्डलाग्ररुचयः संनद्धवक्षःस्थला:
   सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।


त्वम् , बाहौ मौक्तिकसरत्वं चाध्यारोप्यत इति रूपकम् । इत्थमुपमानोपमेययोर्व्यासेन प्रयोगे रूपकमुदाहृत्य समासेन प्रयोगे तूपमैव न रूपकमित्याह---- मुखेति । मुखचन्द्रादीनां पुरुषव्याघ्रादिसादृश्यादुपमात्वमेव, न रूपकत्वं संभवति, तत्त्वाध्यारोपासंभवादिति भावः । इदमत्रानुसंधेयम्- येषां व्याघ्रादिषु पाठोऽस्ति तेषामुपमैव । ये त्विन्दुप्रभृतयस्तत्र न पठ्यन्ते, ते च व्याघ्रादेराकृतिगणत्वात् तत्र द्रष्टव्याः । तथापि मतान्तरानुरोधेन मुखचन्द्रादिषु क्वचिदुपमा, क्वचिद्रूपकमिति द्वैरूप्यं संभवति । तथाच यत्र 'ज्योत्स्नेव भाति द्युतिराननेन्दोः' इत्यादावुपमायां साधकं प्रामाणमस्ति, तत्र व्याघ्रादिसमासः । यत्र ‘मोहमहाचलदलने भक्तिः कुलिशाग्रकोटिरेव नृणाम्' इत्यादौ रूपके साधकं प्रमाणमस्ति, तत्र मयूरव्यंसकादिसमासः; 'अविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः' इति वचनात् ।

 श्लेषं लक्षयितुमाह-- स धर्मेष्विति । सूत्रार्थं विवृणोति-- उपमानेनेति । धर्माणां धर्मिसापेक्षत्वाद्धर्मिणमनुषज्ज्य दर्शयति-उपमानेनोपमेयस्येति । गुणसाम्यत इति शेषः । धर्मस्वरूपमाह-गुणेति । तच्छब्दपरामृश्यं दर्शयति-तत्त्वाध्यारोप इति। अनेकोपकारकारि सकृदुच्चारणं तन्त्रम् । उपमानोपमेययोर्गुणसाम्ये तद्धर्मेषु गुणादिषु तन्त्रेण प्रयोगे सति यत्ताद्रूप्यारोपणम् , स श्लेष

17

  उद्वृत्ता गुरवश्च यस्य वशिनः श्यामायमानानना
   योधा मारवधूस्तनाश्च न ददुः क्षोभं स वोऽव्याज्जिनः ॥'

 यथा च गौणस्यार्थस्यालंकारत्वम् , तथा लाक्षणिकस्यापीति दर्शयितुमाह--

सादृश्याल्लक्षणा वक्रोक्तिः ॥ ८॥

 बहूनि हि निबन्धनानि लक्षणायाम्; तत्र सादृश्याल्लक्षणा वक्रोक्तिरिति ।

 यथा-'उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तात् ।'

इति लक्षणार्थः । आकृष्टेति । आकृष्टे कोशादुद्धृते मण्डलाग्रे खड्गे रुचिः प्रीतिर्येषाम् । आकृष्टा आहृता स्वीकृतेति यावत् , मण्डलस्य बिम्बस्य अग्रे उपरिभागे रुचिः कान्तिर्यैः । संनद्धं कवचितं परिणद्धं च वक्षःस्थलं येषाम् । ऊष्मणा दर्पेण उष्णगुणेन च सह वर्तन्त इति सोष्माणः । व्रणाः शस्त्रक्षतानि नखक्षतानि च एषां सन्तीति व्रणिनः । विपक्षाणां शत्रूणां सपत्नीनां च हृदयं वक्षश्चेतश्च प्रकर्षेण उन्मथ्नन्तीति तथोक्ताः । कर्कशाः क्रूराः कठिनाश्च । उद्वृत्ताः उद्धता उन्नताश्च । गुरवो महान्तः स्थूलाश्च । श्यामायमानानि अङ्कुरितश्मश्रुतया कचासङ्गेन वा, स्वभावेन च श्यामलायमानानि आननानि मुखानि चूचुकानि च येषां ते तथोक्ताः । वशिनो यस्येति संबन्धः । अत्र यथासंभवं गुणक्रिया द्रष्टव्याः । यद्यपि समुच्चयोऽत्र स्फुरति, तथापि साधारणविशेषणमहिम्ना आरोपः प्रतिपाद्यत इति श्लेषः ।

 वक्रोक्तिं वक्तुं संगतिमुल्लिङ्गयति--- यथा चेति । यथा मुखचन्द्रादौ गुणयोगादागतस्य गौणार्थस्य रूपकाद्यलंकारता, तथा लक्षणातः प्रतिपन्नस्य लाक्षणिकार्थस्य वक्रोक्त्यलंकारता भवतीति लक्षणार्थः । बहूनीति । 'अभिधेयेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता' इति लक्षणाया निमित्तानि द्रष्टव्यानि । द्विरेफशब्दस्याभिधेयो भ्रमरशब्द इति तेन स्वाभिधेयसंबन्धात् भृङ्गरूपार्थो लक्ष्यते । सिंहो माणवकः, गङ्गायां घोषः, बृहस्पतिरयं मूर्खः, महति समरे शत्रुघ्नस्त्वम् , इति यथाक्रम मुदाहरणानि द्रष्टव्यानि । उन्मिमीलेति । कमलं विचकास कैरवं संचु अत्र नेत्रधर्मावुन्मीलननिमीलने सादृश्याद्विकाससंकोचौ लक्षयतः।

 इह च निरन्तरनवमुकुलपुलकिता हरति माधवी हृदयम् ।

 मदयति च केसराणां परिणतमधुगन्धि निःश्वसितम् ॥'

 अत्र च निःश्वसितमिति परिमलनिर्गमं लक्षयति ।

 'संस्थानेन स्फुरतु सुभगः स्वार्चिषा चुम्बतु द्याम् ।'

 'आलस्यमालिङ्गति गात्रमस्याः ॥'

 'परिम्लानच्छायामनुवदति दृष्टिः कमलिनीम् ।'

 'प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।'

 'ऊरुद्वन्दं तरुणकदलीकाण्डसब्रह्मचारि ।'

 इत्येवमादिषु लक्षणार्थो निरूप्यत इति लक्षणाया झटित्यर्थप्रतिपत्तिक्षमत्वं रहस्यमाचक्षत इति ।

 असादृश्यनिबन्धना तु लक्षणा न वक्रोक्तिः ।

 यथा- 'जरठकमलकन्दच्छेदगौरैर्मयूखैः ।'


कोचेति ऋजुवृत्त्या वक्तव्ये तत्सादृश्यादुन्मिमील निमिमीलेति नेत्रक्रियाध्यवसायवक्रिम्णोक्तिरिति वक्रोक्तिः । लक्ष्यलक्षणयोर्मैत्रीमासूत्रयति- अत्र नेत्रेति । अतस्मिंस्तत्त्वाध्यारोपो रूपकम् । विषयनिगरणेन साध्यवसानलक्षणायां वक्रोक्तिरिति विवेकः । उदाहरणान्तराण्युपदर्शयति-इह चेति । वक्रोक्तिं दर्शयति अत्र चेति । मुकुलपुलकितेत्यत्र पुलकितत्वं माधव्या मुकुलैरावृतत्वं लक्षयतीत्यपि द्रष्टव्यम् । चुम्बतु द्यामिति चुम्बनं द्योसम्बन्धम् , गात्रमालिङ्गतीति आलिङ्गनम् आलस्यवैशिष्ट्यं गात्रस्य, अनुवदतीत्यत्रानुवादः कमलिनीसादृश्यम् , मैत्री च आमोदसंक्रान्तिम् , सब्रह्मचारीति कदलीकाण्डसमानतां च लक्षयतीत्येवमादिषु प्रयोगेषु लक्षणार्थो निरूप्यते । लक्षणाया इति । यत्र सादृश्यलक्षणा सहृदयहृदयेष्वविलम्बेन लक्ष्यार्थप्रतिपत्तिमुद्भावयितुं प्रगल्भते, तत्र वक्रोक्तिरलंकार इति रहस्यमिति लक्षणाविद आचक्षत इत्यर्थः । सादृश्यपदव्यावर्त्यं कीर्तयति----असादृश्येति । संबन्धान्तरनिबन्धना तु लक्षणा वक्रोक्तिर्न भवतीत्यर्थः । तदेव दर्शयति-यथा जरठेति । सामीप्यमत्र धर्मधर्मिभावसंबन्धः ।  अत्र च्छेदः सामीप्याद्द्रव्यं लक्षयति, तस्यैव गौरत्वोपपत्तेः ।

 रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया भेदं दर्शयितुमाह--

अतद्रूपस्यान्यथाध्यवसानमतिशयार्थमुत्प्रेक्षा ॥ ९ ॥

 अतद्रूपस्य अतत्स्वभावस्य, अन्यथा तत्स्वभावतया, अध्यवसानम् अध्यवसायः; न पुनरध्यारोपो लक्षणा वा। अतिशयार्थमिति भ्रान्तिज्ञाननिवृत्त्यर्थम् । सादृश्यादियमुत्प्रेक्षेति । एनां चेवादिशब्दा द्योतयन्ति ।

 यथा---

  'स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः

   स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।


 स्वरूपान्यथाभावकल्पनास्वभावत्वाविशेषेण रूपकवक्रोक्तिभ्यामुत्प्रेक्षाया अभेदशङ्कायां लक्षणतो भेदं दर्शयितुमनन्तरसूत्रमवतारयति--रूपकेति । सूत्रार्थमाविष्करोति-- अतद्रूपस्येति । अतद्रूपं प्राकरणिकं वस्तु तदात्मना अप्राकरणिकवस्तुरूपत्वेन अतिशयमाधातुमध्यवसीयते प्रतिभामात्रेण कविना संभाव्यते, न पुनरिन्द्रियदोषेण, तथाविधं संभावनापरपर्यायमध्यवसानमुत्प्रेक्षेति लक्षणार्थः । न पुनरिति । अतत्स्वभावस्य वस्तुनस्तद्गुणयोगात्तद्भावकल्पनमध्यारोपः; यत्र रूपकादिस्वरूपलाभः । यत्तु सादृश्ये सत्येकेन वस्तुना वस्त्वन्तरस्य प्रतिपादनमध्यवसायरूपं सा सादृश्यमूला लक्षणा; यत्र वक्रोक्तिव्यपदेशः । यत्पुनरतद्रूपे वस्तुन्यतिशयमाधातुं तद्रूपतयाध्यवसानम् , सोऽयमध्यवसायः संभावनालक्षण उत्प्रेक्षेति विवेकः । अतो न रूपकम् , नापि वक्रोक्तिरिति ततो भेदो दर्शितः । अतिशयार्थमिति । भ्रान्ति विपर्ययज्ञानम् । अन्यथाध्यवसायत्वाविशेषेऽपि बुद्धिपूर्वकत्वादुत्प्रेक्षायास्तद्विलक्षणाया भ्रान्तेर्व्यावृत्तिरित्यतिशयः । उत्प्रेक्षोदाहरणेषु केषुचिदिवशब्दश्रवणात् कस्यचिदुपमाशङ्का जायते; तामाशङ्क्य परिहरति--- सादृश्यादियमुत्प्रेक्षेति । प्रयुक्तोऽपि क्वचिदिवशब्दः सादृश्यनिबन्धनत्वसूचनद्वारेणोत्प्रेक्षामपि द्योतयतीत्यर्थः । तदुक्तं दण्डिना, 'मन्ये

शङ्के ध्रुवं प्रायो नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः' इति । स वः पायादिति। अत्र नवबिसलताकोटिकुटिल इति विशेषणसामर्थ्या

  स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
  कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥'

 उत्प्रेक्षैवातिशयोक्तिरिति केचित् ; तन्निरासार्थमाह---

संभाव्यधर्मतदुत्कर्षकल्पनातिशयोक्तिः॥ १० ॥

 संभाव्यस्य धर्मस्य तदुत्कर्षस्य च कल्पना अतिशयोक्तिः ।

 यथा-

  'उभौ यदि व्योम्नि पृथक्पतेतामाकाशगङ्गापयसः प्रवाहौ।
  तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥

 यथा वा-

  'मलयजरसविलिप्ततनवो नवहारलताविभूषिताः
   सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः ।
  शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
   प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः॥'


दिन्दुपदेनेन्दुकलावगम्यते । इन्दुर्मन्दाकिनीसलिलसेकेन कपालादुद्भिन्नोऽङ्कुर इवेत्युत्प्रेक्ष्यत इत्युत्प्रेक्षालंकारः ।

 संभावनारूपत्वाविशेषादुत्प्रेक्षातिशयोक्त्योरभेदं केचिन्मन्यन्ते; तन्मतं निरसितुं लक्षणभेदं दर्शयतीत्याह-- उत्प्रेक्षैवेति । संभाव्यस्येति । संभाव्यस्य उत्प्रेक्ष्यस्य धर्मस्य यद्यर्थानुबन्धेन कल्पना, तदुत्कर्षस्य तस्य संभाव्यधर्मस्य य उत्कर्षस्तस्य कल्पना चातिशयोक्तिः। उदाहरति--- उभाविति । यदि तथाविधं व्योम संभाव्येत, तदेव आमुक्तमुक्ताफलस्य वक्षस उपमानं भवेत् न पुनरन्यत् किंचिदित्यतिशयस्योक्तेरतिशयोक्तिः । एवं संभाव्यधर्मकल्पनामुदाहृत्य तदुत्कर्षकल्पनामुदाहरति-- मलयजेति । मलयजरसनवहारलतादीनां तावान् धावल्यस्योत्कर्षोऽतिशयः कल्प्यते, यावता चन्द्रिकायां तद्विवेचनाक्षमत्वं चक्षुषोरिति ।  यथा भ्रान्तिज्ञानस्वरूपा उत्प्रेक्षा, तथा संशयज्ञानस्वरूपः संदेहोऽपीति दर्शयितुमाह---

उपमानोपमेयसंशयः संदेहः ॥ ११ ॥

 उपमानोपमेययोरतिशयार्थं यः क्रियते संशयः, स संदेहः ।

 यथा---

  'इदं कर्णोत्पलं चक्षुरिदं वेति विलासिनि ।
  न निश्चिनोति हृदयं किंतु दोलयते मनः ॥'

 संदेहवद्विरोधोऽपि प्राप्तावसर इत्याह---

विरुद्धाभासत्वं विरोधः ॥ १२ ॥

 अर्थस्य विरुद्धस्येवाभासत्वं विरुद्धाभासत्वं विरोधः ।

 यथा-

  'पीतं पानमिदं त्वयाद्य दयिते मत्तं ममेदं मनः
   पत्राली तव कुङ्कुमेन रचिता रक्ता वयं मानिनि ।

 यथा लौकिकभ्रमसजातीयामुत्प्रेक्षामतिशयार्थकल्पनात्ववैधर्म्येण लौकिकभ्रान्तितः पृथक्कृत्य प्रदर्शितवान् , तथा संशयमपि लौकिकसजातीयं तथाविधेन वैधर्म्येण ततः पृथक्कृत्य दर्शयितुमाह- यथेति । संदेहस्य कोटिद्वयावलम्बित्वादिहापि तदाह-- उपमानोपमेययोरिति । अतिशयार्थमिति । उपमेये अतिशयमाधातुं संदेहः संपाद्यते, न तु विशेषादर्शनादित्यर्थः । व्यक्तमुदाहरणम् ।

 कल्पनारूपत्वाविशेषादतिशयोक्तेरनन्तरं यथा संदेहालङ्कारः प्राप्तावसरः, तथा विरुद्धकोटिद्वयावलम्बिनः संदेहस्यानन्तरं विरोधालंकारः प्राप्तावसर इति तल्लक्षणं दर्शयतीत्याह --- संदेहवदिति । व्याचष्टे- अर्थस्येति । विरुद्धवदवभासत इति विरुद्धाभासस्तस्य भावस्तत्त्वम् । प्रकारान्तरेण परिहारे सत्येव विरुद्धस्यार्थस्यावभासनं विरोधालंकारः । उदाहरति- यथेति । पानशब्दोऽत्र

  त्वं तुङ्गस्तनभारमन्थरगतिर्गात्रेषु मे वेपथु-
   स्त्वन्मध्ये तनुता ममादृतिरहो प्रेम्णो विचित्रा गतिः ॥'

 यथा वा-

  'सा बाला वयमप्रगल्भवचसः सा स्त्री वयं कातराः
   सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
  साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
   दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥'

 विरोधाद्विभावनाया भेदं दर्शयितुमाह-

क्रियाप्रतिषेधे प्रसिद्धतत्फलव्यक्ति-

र्विभावना ॥ १३ ॥

 क्रियायाः प्रतिषेधे तत्या. एव क्रियायाः फलस्य प्रसिद्धस्य व्यक्तिर्विभावना।

 यथा-

  'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम् ।
  अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ॥'

 विरोधप्रसङ्गेनानन्वयं दर्शयितुमाह---

एकस्योपमेयत्वोपमानत्वेऽनन्वयः ॥ १४ ॥


कर्मसाधनः पेयद्रव्यमाह । पानादीनां च वैयधिकरण्याद्विरोधः । मदादीनामर्थान्तरत्वस्वीकारेण विरोधपरिहारः । सा बालेत्यादावपि विरुद्धाभासत्वं द्रष्टव्यम् ।

 विभावनां विवरीतुमवतारिकामारचयति-विरोधादिति । लक्षणवाक्यार्थं विवृणोति--- क्रियाया इति । क्रियायाः कारणरूपायाः प्रतिषेधे प्रसिद्धस्य तस्याः क्रियायाः फलस्य कार्यभूतस्य व्यक्तिः प्रकाशनं यत् , सा विभावनेति वाक्यार्थः । विरोधविशेषो विभावनेति भेदः । अप्यसज्जनेति । विकृतमेव वैकृतम् । प्रज्ञादित्वात् स्वार्थेऽण् । अक्षालितविशुद्धेष्वित्यत्र कारणरूपक्षालनक्रियाप्रतिषेधेऽपि तत्फलभूताया विशुद्धेः प्रकाशनात् विभावना ।  एकस्यैवार्थस्योपमेयत्वमुपमानत्वं चानन्वयः ।

 यथा-

  'गगनं गगनाकारं सागरः सागरोपमः ।
  रामरावणयोर्युद्धं रामरावणयोरिव ॥'

 अन्यासादृश्यमेतेन प्रतिपादितम् ।

क्रमेणोपमेयोपमा ॥ १५॥

 एकस्यैवार्थस्योपमेयत्वमुपमानत्वं च क्रमेण उपमेयोपमा ।

 यथा-

 "खमिव जलं जलमिव खं हंस इव शशी शशीव हंसोऽयम् ।

 कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।'

 इयमेव परिवृत्तिरित्येके ; तन्निरासार्थमाह--

 समविसदृशाभ्यां परिवर्तनं परिवृत्तिः ॥ १६ ॥

 समेन विसदृशेन वार्थेन अर्थस्य परिवर्तनं परिवृत्तिः ।


 अनन्वयं वक्तुमाह-विरोधेति । एकस्यैवार्थस्यैकस्मिन्नेव वाक्ये उपमानान्तरव्युदासेनातिशयमाधातुमुपमानत्वं चोपमेयत्वं चोपकल्प्यते । तत्र व्यधिकरणयोर्धर्मयोरुपमानत्वोपमेयत्वयोरेकत्रान्वयासंभवादनन्वयालंकारः । रामरावणयोरिति । स्पष्टम् । एकस्यैवोपमानोपमेयत्वकल्पनायां फलितमाह-~अन्येति

 उपमानान्तरेण असादृश्यं सादृश्याभावः । उपमेयोपमानमुपपादयितुमुपरितनं सूत्रमुपादत्ते- क्रमेणेति । एकस्यैवेत्यनुवर्तते । यत्न क्रमेण वाक्यद्वये एकस्यैव वस्तुन उपमानत्वमुपमेयत्वं च निबध्यते तत्रोपमेयोपमा । खमिवेति । उदाहरणं स्पष्टम् ॥

 साम्यशङ्कायामुपमेयोपमात: परिवृत्तिं व्यावर्तयितुं लक्षणं दर्शयतीत्याह- इयमेवेति । व्याचष्टे-समेनेति । समेन समानेन विसदृशेन असदृशेन वा  यथा-

 'आदाय कर्णकिसलयमियमस्मै चरणमरुणमर्पयति ।

 उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥'


 यथा-

 'विहाय सा हारमहार्यनिश्चया विलोलदृष्टिः प्रविलुप्तचन्दना ।

 बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥'


 उपमेयोपमायाः क्रमो भिन्न इति दर्शयितुमाह--

 उपमेयोपमानानां क्रमसंबन्धः क्रमः॥ १७ ॥

 उपमेयानामुपमानानां चोद्देशिनामनूद्देशिनां च क्रमसंबन्धः क्रमः।

 यथा-

 'तस्याः प्रबन्धलीलाभिरालापस्मितदृष्टिभिः।

 जीयन्ते बल्लकीकुन्दकुमुमेन्दीवरस्रजः ॥'


 क्रमसंबन्धप्रसङ्गेनैव दीपकं दर्शयितुमाह---

उपमानोपमेयवाक्येष्वेका क्रिया दीपकम् ॥ १८ ॥

 उपमानवाक्येषूपमेयवाक्येषु चैका क्रिया अनुषङ्गतः संबध्यमाना


अर्थेन अर्थस्य यत्परिवर्तनं विनिमयः, सा. परिवृत्तिः । उदाहरति — यथेति । अत्र प्रसारिताख्यं करणं सूचितमिति केचिदाचक्षते । 'नायकस्यांस एको द्वितीयः प्रसारित इति प्रसारितकम्' इति वात्स्यायनसूत्रम् । तद्विवृतं रतिरहस्ये, प्रियस्य वक्षोंऽसतलं शिरोऽथवा नयेत सव्यं चरणं नितम्बिनी। प्रसारयेद्वा परमायतं पुनर्विपर्ययः स्यादिति हि प्रसारितम्' इति । अत्र चरणकिसलययोः सादृश्यात् समपरिवृत्तिः । विहायेत्यादौ हारवल्कलयोर्वैसादृश्याद्विसदृशपरिवृत्तिः ।

 क्रमालंकारं कथयितुमाह- उपमेयेति । वृत्तिः स्पष्टार्था। प्रबन्धेनाविच्छेदेन लीला यासां ताभिः प्रबन्धलीलाभिः।

 क्रमदीपकयोः सौहार्दमुन्मुद्रयन् सूत्रमवतारयति--- क्रमेति । व्याचष्टे----उपमानेति। एकस्यैव प्रधानसंबन्धितया सकृदुपात्तस्य पदस्य वाक्यान्त-

18 दीपकम् ।

तत्त्रैविध्यमादिमध्यान्तवाक्यवृत्तिभेदात् ॥ १९ ॥

 तत् त्रिविधं भवति, आदिमध्यान्तेषु वाक्येषु वृत्तेर्भेदात् ।

 यथा--

  'भूष्यन्ते प्रमदवनानि बालपुष्पैः
   कामिन्यो मधुमदमांसलैर्विलासैः ।
  ब्रह्माणः श्रुतिगदितैः क्रियाकलापै
   राजानो विरलितवैरिभिः प्रतापैः॥'

 {{gap}'बाष्पः पथिककान्तानां जलं जलमुचा मुहुः ।

  विगलत्यधुना दण्डयात्रोद्योगो महीभुजाम् ॥'


  'गुरुशुश्रूषया विद्या मधुगोष्ठया मनोभवः ।

  उदयेन शशाङ्कस्य पयोधिरभिवर्धते ॥'


  दीपकवन्निदर्शनमपि संक्षिप्तमित्याह--

क्रिययैव स्वतदर्थान्वयख्यापनं निदर्शनम् ॥ २० ॥

 क्रिययैव शुद्धया स्वस्यात्मनस्तदर्थस्य चान्वयस्य संबन्धस्य ख्यापनं संलुलितहेतुदृष्टान्तविभागदर्शनात् निदर्शनम् ।


रेषु प्रसङ्गात् संबन्धोऽनुषङ्गः ।

 तद्भेदमाह-तत्त्रैविध्यमिति । भूष्यन्त इत्यत्र आदिदीपकम् । ब्रह्माणः ब्राह्मणाः । बाष्प इत्यत्र मध्यदीपकम् । गलनं बाष्पजलयोः स्यन्द, दण्डयात्रोद्योगे नाशः । गुरुशुश्रूषयेत्यत्र अन्तदीपकम् । एवमेव कारकदीपकमप्यूहनीयम् ।

 निदर्शनं दर्शयितुमाह-- दीपकवदिति । शुद्धया अनन्यसहायया क्रिययैवावृत्तिरहितयेत्यर्थः । स्वस्य तदर्थस्य सा क्रिया अर्थः प्रयोजनं यस्य तत्तदर्थं स्वप्रयोजनकमर्थान्तरमित्यर्थः । तयोः स्वतदर्थयोरन्वयस्य संबन्धस्य ख्यापनं निदर्शनम् । निदर्शनपदार्थं निर्वक्ति-- सलुलितेति । संलुलितः  यथा--

 'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् ।

 आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थेः॥'


 पततीति क्रिया । तस्याः स्वं पतनम् । तदर्थः अत्युच्चपदाध्यासः। तयोरन्वयः अत्युच्चपदाध्यासः पतनायेति । तस्य ख्यापनम् अर्थशालिनां शंसदिति।

 इदं च नार्थान्तरन्यासः; स तु यथाभूतस्तमाह--

उक्तसिद्ध्यै वस्तुनोऽर्थान्तरस्यैव न्यसनमर्थान्तरन्यासः ॥ २१ ॥

 उक्तसिद्ध्यै उक्तस्यार्थस्य सिद्ध्यर्थं वस्तुनो वाक्यार्थान्तरस्यैव न्यसनमर्थान्तरन्यासः । वस्तुग्रहणात्पदार्थस्य हेतोर्न्यसनं नार्थान्तरन्यासः। यथा-इह नातिदूरगोचरमस्ति सरः कमलसौगन्ध्यात् ' इति । अर्थान्तरस्यैवेति वचनम् , यत्र हेतुर्व्याप्तिगूढत्वात् कथंचित्प्रतीयते तत्र यथा स्यात् । यद्यत् कृतकं तत्तदनित्यमित्येवंप्रायेषु मा भूदिति ।


अविवेचितः हेतुदृष्टान्तयोर्विभागस्तस्य दर्शनाद्विवेचनात् , निगूढहेतुदृष्टान्तदर्शनरूपत्वान्निदर्शनमित्यर्थः । उदाहरति-- अत्युच्चेति । अर्थशालिनाम् अर्थोल्लेखशालिनां धनशालिनां वा । लक्ष्यलक्षणयोरानुकूल्यमुन्मीलयति-पततीति क्रियेति

 अर्थान्तरन्यासं समर्थयितुं सूत्रसंगतिं सूचयति-- इदं चेति । उक्तस्य वाक्यार्थस्य सिद्ध्यै । वाक्यार्थान्तरस्य अन्यस्य वाक्यार्थस्यैव । वस्तुग्रहणप्रयोजनं प्रस्तौति-- वस्त्विति । प्रत्युदाहरणं प्रदर्शयति-- यथेति । अत्र कमलसौगन्ध्यादिति हेतोः पदार्थरूपत्वात् तस्य न्यसनं नार्थान्तरन्यासः। अवधारणप्रयोजनमभिधत्ते--- अर्थान्तरस्यैवेति वचनमिति । यत्र वस्तुतो हेतुरूपमेवार्थान्तरं तद्व्याप्तिस्तु यत्नगौरवेण प्रतीयते, तत्रालंकारता यथा स्यात् , प्रसिद्ध व्याप्तिस्थले तु मा भूदित्येवमर्थमेवकारकरणमित्यर्थः । उदाहर्तुमाह -- उदाहर  उदाहरणम्-

  प्रियेण संग्रथ्य विपक्षसंनिधा-
   वुपाहितां वक्षसि पीवरस्तने ।
  स्रजं न काचिद्विजहौ जलाविलां
   वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥'

 अर्थान्तरन्यासस्य हेतुरूपत्वात् , हेतोश्चान्वयव्यतिरेकात्मकत्वात् न ततः पृथग्व्यतिरेक इति केचित् ; तन्निरासार्थमाह----

उपमेयस्य गुणातिरेकित्वं व्यतिरेकः ॥ २२ ॥

 उपमेयस्य गुणातिरेकित्वं गुणाधिक्यं यत् अर्थादुपमानाद्, स व्यतिरेकः।

 यथा--

  'सत्यं हरिणशाबाक्ष्याः प्रसन्नसुभगं मुखम् ।
  समानं शशिनः किंतु स कलङ्कविडम्बितः ॥'

कश्चित्तु गम्यमानगुणो व्यतिरेकः ।

 यथा-

  'कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं
   हसितममृतं भग्नं स्वादोः पदं रससंपदः ।

णमिति । प्रियेणेति । अत्र विशेषरूपमुपमेयं सामान्येनोपमानेन समर्थ्यते ।

 अर्थान्तरन्यासव्यतिरेकयोर्भेदं दर्शयितुमभेदशङ्कामुन्मीलयति- अर्थान्तरेति । व्याचष्टे-- उपमेयस्येति । गुणशब्दोऽत्र धर्ममात्रवचनः । स च वाच्यो गम्यश्चेति द्विविध । उभयोऽप्युपमानगतस्तदपकर्षहेतुः उपमेयगतस्तदुत्कर्षहेतुश्चेति द्विविधो भवति । यदा उपमानगतस्तेन तदपकर्षहेतुना गुणेनोपमेयस्य गुणातिरेकित्वमर्थाद्भवति । तदा गुणातिरेकित्वमार्थम् । यदा पुनरुपमेयगतस्तदा तेन तदुत्कर्षहेतुना अर्थादुपमानादुपमेयस्य गुणातिरेकित्वं भवति । तदा शाब्दमतिरेकित्वम् । तत्रोपमानगतवाच्यगुणप्रयुक्तं व्यतिरेकमुदाहरति--सत्यमिति । अत्र कलङ्कविडम्बितपदवाच्येनोपमानस्यापकर्षहेतुना

  विषमुपहितं चिन्ताच्याजान्मनस्यापि कामिनां
   चतुरललितैर्लीलातन्त्रैस्तवार्धविलोकितैः ॥'

  व्यतिरेकाद्विशेषोक्तेर्भेदं दर्शयितुमाह-

एकगुणहानिकल्पनायां साम्यदार्ढ्यं विशेषोक्तिः ॥ २३ ॥

 एकस्य गुणस्य हानेः कल्पनायां शेषैर्गुणैः साम्यं यत् , तस्य दार्ढ्यं विशेषोक्तिः । रूपकं चेदं प्रायेणेति ।

 यथा-

 ‘भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ।'

 'द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम् ।'

 'इयं ह्यकमला लक्ष्मीः ।'

 'हस्ती हि जङ्गमं दुर्गम्' इति ।

 जङ्गमशब्दस्य स्थावरत्वनिवृत्तिप्रतिपादनपरत्वादेकगुणहानिकल्पनैव । एतेन 'वेश्या हि नाम मूर्तिमत्येव निकृतिः' 'व्यसनं हि नाम

कलङ्कित्वगुणेनोपमेयस्यार्थादकलङ्कित्वलक्षणं गुणातिरेकित्वमिति व्यतिरेकः । उपमानगतगम्यमानगुणप्रयुक्तं व्यतिरेकमुदाहरति--कुवलयवनमिति । कुवलयवनमध्यादिषु प्रत्याख्याननिन्दनादिभिरवगम्यमानेन निकर्षहेतुना चतुरललितलीलातन्त्रत्वराहित्यलक्षणेन गुणेनार्धविलोकितेषु चतुरललितलीलातन्त्रत्वरूपं गुणातिरेकित्वं शाब्दमपि प्रकृष्टतया प्रतिष्ठापितं भवतीति गम्यमानगुणप्रयुक्तो व्यतिरेकः । अर्थान्तरन्यासे व्यतिरेको विपक्षव्यावृत्तिः । अत्र तु गुणाधिक्यमिति भेदः ।

 विशेषोक्तिं विवेक्तुमाह-व्यतिरेकादिति । एकस्येति । अर्थादुपमेयगतस्य । हानिः लोपः । अवर्जनीयतया रूपकमपि संभवतीत्याह-रूपकमिति । अतैलपूरा इति, असिंहासनमिति, अकमलेत्यत्रैकगुणहानिकल्पना सिध्यति । ननु जङ्गममित्येकगुणहानिकल्पनाया अप्रतीतेः कथं विशेषोक्तिरिति तत्राह--जङ्गमशब्दस्येति । समर्थितामेकगुणहानिकल्पनामन्यत्रातिदिशति- एतेनेति ।  सोच्छ्वासं मरणम्' 'द्विजो भूमिबृहस्पतिः' इत्येवमादिष्वेकगुणहानिकल्पना व्याख्याता ।

 व्यतिरेकाविशेषोक्तिभ्यां व्याजस्तुतिं भिन्नां दर्शयितुमाह----

संभाव्यविशिष्टकर्माकरणान्निन्दास्तोत्रार्था व्याजस्तुतिः ॥ २४ ॥

 अत्यन्तगुणाधिको विशिष्टः, तस्य च कर्म विशिष्टकर्म, तस्य संभाव्यस्य कर्तुं शक्यस्य अकरणानिन्दा विशिष्टसाम्यसंपादनेन स्तोत्रा- र्था व्याजस्तुतिः।

 यथा-

  'बबन्ध सेतुं गिरिचक्रवालै- .
   र्विर्भेद सप्तैकशरेण तालान् ।
  एवंविधं कर्म ततान राम-
   स्त्वया कृतं तन्न मुधैव गर्वः ॥'

 व्याजस्तुतेर्व्याजोक्तिं भिन्नां दर्शयितुमाह-

व्याजस्य सत्यसारूप्यं व्याजोक्तिः ॥ २५ ॥


'कुसृतिर्निकृतिः शाट्यम्' इत्यमरः । मूर्तिमत्येवेत्यत्रामूर्तत्वनिवृत्तिः' सोच्छ्वासमित्यत्रानुच्छ्वासतानिवृत्तिः, भूमिबृहस्पतिरित्यत्राभौमत्वनिवृत्तिश्च प्रतिपाद्यत इत्येकगुणहानिकल्पना अवगन्तव्या ।

 व्याजस्तुतिं व्याख्यातुं प्रसङ्गं परिकल्पयति-व्यतिरेकेति । व्याचष्टे--अत्यन्तेति । विशिष्टो रामादिरुपमानभूतस्तस्य कर्म सेतुबन्धनादि । तस्य कर्तुं शक्यस्य कर्मणोऽकरणाद्वर्णनीयस्य निन्दा रामादिसाम्यापादनात् स्तुतिपर्यवसायिनी व्याजस्तुतिः । बबन्धेति । त्वं राम एवासीति तात्पर्यम् । निन्दाव्याजेन स्तुतिरूपत्वात् व्यतिरेकविशेषोक्तिभ्यां भेदः ।

 व्याजोक्तिं व्याकर्तुमाह--- व्याजस्तुतेरिति । व्याचष्टे---- व्याज व्याजस्य च्छद्मनः सत्येन सारूप्यं व्याजोक्तिः; यां मायोक्तिरित्याहुः।

 यथा--

 'शरच्चन्द्रांशुगौरेण वाताविद्धेन भामिनि ।

 काशपुष्पलवेनेदं साश्रुपातं मुखं कृतम् ॥'


 व्याजस्तुतेः पृथक् तुल्ययोगितेत्याह--

विशिष्टेन साम्यार्थमेककालक्रियायोगस्तुल्ययोगिता ॥ २६ ॥

 विशिष्टेन न्यूनस्य साम्यार्थमेककालायां क्रियायां योगः तुल्ययोगिता।

 यथा--

 'जलनिधिरशनामिमां धरित्रीं वहति भुजङ्गविभुर्भवद्भुजश्च ।'

उपमानाक्षेपश्चाक्षेपः ॥ २७ ॥


स्येति । असत्यस्येत्यर्थः । सत्येन यथार्थेन । सारूप्यं सत्यत्वकल्पनया समुन्मिषितं सादृश्यम् । असत्यस्य सत्यत्ववचनं व्याजोक्तिरिति लक्षणार्थः । व्याजोक्तिमिमां मतान्तरे संज्ञान्तरेण व्यवहरन्ति, न तु स्वरूपभेद इत्याह-यामिति । उदाहरति- शरदिति । चन्द्रांशुगौरेणेत्यनेन चन्द्रिकायां काशपुष्पलवस्याविवेचनीयता सूचिता । वाताविद्धेनेत्यनेन अप्रसक्तिशङ्का निराकृता । अत्र सत्येन सात्त्विकभावेन कृतोऽश्रुपातः पुष्पलवेन कृत इत्यसत्यस्य सत्यतोक्तिः । अत एव व्याजस्तुतितो भेदः।

 तुल्ययोगितां वक्तुमाह-व्याजोक्तेः पृथगिति । विशिष्टेन गुणाधिकेनोपमानेनेति यावत् । अर्थादत्र न्यूनस्येत्यनेनोपमेयस्येत्यवगम्यते । एकः कालो यस्याः सा एककाला तस्यां क्रियायां साम्यार्थं यो योगः, सा तुल्ययोगिता । उदाहरति~जलनिधीति

 आक्षेपं लक्षयितुं सूत्रमुपक्षिपति-उपमानेति। उपमानस्य तादृशि उपमेये  उपमानस्य आक्षेपः प्रतिषेध उपमानाक्षेपः; तुल्यकार्यार्थस्य नैरर्थक्यविवक्षायाम् आक्षेपः।

 यथा-

  'तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना
   सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः ।
  किं वा कोमलकान्तिभिः किसलयैः सत्येव बिम्बाधरे
   हा धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥'

 उपमानस्य आक्षेपः आक्षेपतः प्रतिपत्तिरित्यपि सूत्रार्थः ।

 यथा--

  'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्द्रधानार्द्रनखक्षताभम् ।
  प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेस्भ्यधिकं चकार ॥'

 अत्र शरद्वेश्येव, इन्दु नायकमिव, रवेः प्रतिनायकस्येवेत्युपमानानि गम्यन्त इति ॥

 तुल्ययोगितायाः सहोक्तेर्भेदमाह---

वस्तुद्वयक्रिययोस्तुल्यकालयोरेकपदाभिधानं सहोक्तिः ॥ २८॥

 वस्तुद्वयस्य क्रिययोस्तुल्यकालयोरेकेन पदेनाभिधानं सहार्थशब्दसामर्थ्यात् सहोक्तिः।


सति नैरर्थक्यविवक्षायां प्रतिषेध आक्षेप इति वाक्यार्थः । तस्याश्चेन्मुखमित्युदाहरणम् । चकारेण समुच्चितमर्थमाह - उपमानस्याक्षेप इति । आक्षेपोऽनाकर्षणम् । ऐन्द्रं धनुरित्युदाहरणम् । अत्राक्षेपलभ्यं प्रकटयति-अत्र शरदिति ।

 सहोक्तिं वक्तुमाह- तुल्ययोगिताया इति । वस्तुद्वयसंबन्धिन्योः क्रिययोः सहार्थानां सहशब्दपर्यायाणां ग्रहणसामर्थ्यादेकेन पदेनाभिधानं सहोक्तिः ।  यथा-

 'अस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ।'

 अत्रार्थयोन्यूनत्वविशिष्टत्वे न स्त इति नेयं तुल्ययोगितेति ।

 समाहितमेकमवशिष्यते ; तल्लक्षणार्थमाह--

यत्सादृश्यं तत्संपत्तिः समाहितम् ॥ २९ ॥

 यस्य वस्तुनः सादृश्यं गृह्यते, तस्य वस्तुनः संपत्तिः समाहितम् ।

 यथा--

  'तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः
   शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा ।
  चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते
   चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥'

 अत्र पुरूरवसो लतायामुर्वश्याः सादृश्यं गृह्णतः सैव लतोर्वशी संपन्नेति ।

 एते चालंकाराः शुद्धा मिश्राश्च प्रयोक्तव्या इति विशिष्टानाम-


स्पष्टमुदाहरणम् । उभयोरलंकारयोर्भेदं दर्शयति-- अत्रेति

 समाहितं समीरयितुमाह-समाहितमिति । शुद्धेष्वलंकारभेदेषु समाहितमेकं लक्षयितुमवशिष्यत इत्यर्थः । यस्येति । तस्य संपत्तिस्तदाकारतापरिणतिः, ताद्रूप्यसंपत्तिरिति यावत् । अत्रोदाहरणं विक्रमोर्वशीये दर्शयितुमाह- तन्वीति। लतायामुर्वशीसादृश्यं पश्यतः पुरूवरस इयमुक्तिः । अत्रेति । लतामवलोक्य तत्राश्रुधौताधरत्वाभरणशून्यत्वचिन्तामौनाश्रितत्वाध्यवसायेन सा तादृश्युर्वशीवेत्युत्प्रेक्षमाणस्य पुरूरवसः सैव लतोर्वशी संपन्नेति लताया उर्वशीत्वसंपत्तेः संभवात् समाहितम् । समनन्तरक्षणभावित्वेऽपि तत्संपत्तेस्तस्य तादात्विकत्वाभिमानं सूचयितुं भूतप्रत्ययः॥

 शुद्धालंकारनिरूपणोपसंहारव्याजेन मिश्रालंकारनिरूपणाय प्रसङ्गं प्रस्फोरयति- एते चेति । शुद्धाः पूर्वं लक्षिताः । मिश्राः संसृष्टिभेदाः । शुद्धा इव मिश्रा अप्यलंकाराः प्रयोगयोग्याः, शोभातिशयहेतुत्वादिति भावः । इतिशब्दो  लंकारणां मिश्रत्वं संसृष्टिरित्याह--

अलंकारस्यालंकारयोनित्वं संसृष्टिः ॥ ३० ॥

 अलंकारस्य अलंकारयोनित्वं यत्, असौ संसृष्टिरिति । संसृष्टिः संसर्गः संबन्ध इति ।

तद्भेदावुपमारूपकोत्प्रेक्षावयवौ ॥ ३१ ॥

 तस्याः संसृष्टेर्भेदौ-उपमारूपकं चोत्प्रेक्षावयवश्चेति ।

उपमाजन्यं रूपकमुपमारूपकम् ॥ ३२ ॥

 यथा-

  'निरवधि च निराश्रयं च यस्य
   स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
  प्रथम इह भवान्स कूर्ममूर्ति-
   र्जयति चतुर्दशलोकवल्लिकंदः ॥

 एवं 'रजनिपुरंध्रिलोध्रतिलकः शशी' इत्येवमादयस्तद्भेदा द्रष्टव्याः।


हेतौ । विशिष्टानामलंकाराणाम् अलंकारविशेषाणाम् । संसृष्टेर्लक्षणमाह-अलंकारस्येति । कार्यकारणभावापन्नयोरलंकारयोः संबन्धः संसृष्टिरित्यर्थः ।

 संसृष्टिविभागं दर्शयितुं सूत्रमनुभाषते तद्भेदाविति । अलंकारयोनित्वमित्यत्र यथाक्रमं बहुव्रीहितत्पुरुषाश्रयणेन द्वौ भेदौ भवतः- उपमारूपकमुत्प्रेक्षावयवश्चेति ॥

 तत्राद्यं लक्षयितुं सूत्रमुपक्षिपति- उपमाजन्यमिति । सूत्रमिदं निगदव्याख्यानमित्यभिसंधाय उदाहरणं दर्शयति- यथेति । नन्वत्र कूर्ममूर्तेः कंदत्वारोपाल्लोकानां वल्लित्वारोपणं वक्तुं युक्तम् । तथा च रूपकजन्यमिह रूपकमिति वक्तव्यम् । यन्मतान्तरे परंपरितरूपकमित्युच्यते । तत्कथमिदमुपमाजन्यं रूपकमिति चेत् , सत्यम् ; लोको वल्लिरिव लोकवल्लिः । व्याघ्रादेराकृतिगणत्वादुपमितसमासः । लोकवल्ल्या. कंद इति कूर्ममूर्तौ कंदत्वारोपणमिह ग्रन्थकृतो विवक्षितमिति न दोषः । इत्थमेव रजनिपुरंध्रीत्यादावपि द्रष्टव्यम् ।

उत्प्रेक्षाहेतुरुत्प्रेक्षावयवः ॥ ३३ ॥

 उत्प्रेक्षाया हेतुरलंकार उत्प्रेक्षावयवः । अवयवशब्दो ह्यारम्भकं लक्षयति ।

 यथा-

 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।

 कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥'

 एभिर्निदर्शनैः स्वीयैः परकीयैश्च पुष्कलैः।

 शब्दवैचित्र्यगर्भेयमुपमैव प्रपञ्चिता ॥

 अलंकारैकदेशा ये मताः सौभाग्यभागिनः ।

 तेऽप्यलंकारदेशीया योजनीयाः कवीश्वरैः॥

इति काव्यालंकारसूत्रवृत्तौ आलंकारिके चतुर्थेऽधिकरणे तृतीयोऽध्यायः॥

समाप्तं चेदमालंकारिकं चतुर्थमधिकरणम् ॥

 उत्प्रेक्षावयवं लक्षयितुमाह-- उत्प्रेक्षाहेतुरिति । अवयवशब्द इति । अवयव आरम्भको हेतुरित्यर्थः । अङ्गुलीभिरिति । अत्रोपमारूपकानुप्राणितस्य श्लेषस्य उत्प्रेक्षोपपादकत्वादुत्प्रेक्षावयवत्वम् | अमीषामलंकाराणामुपमाप्रपञ्चरूपत्वमुपपादितमुपसंहरति-- एभिरितिनिदर्शनैः उदाहरणैः । अलंकाराणामप्येकलक्षणलक्षितानां शोभातिशयजनकत्वं कैमुतिकन्यायेन सिद्धमिति सूचयितुं तदेकदेशानामपि शोभातिशयहेतुत्वमस्तीत्याह-- अलंकारेति

  इति कृतरचनायामिन्दुवंशोद्वहेन
   त्रिपुरहरधरित्रीमण्डलाखण्डलेन ।
  ललितवचसि काव्यालंक्रियाकामधेना-
   वधिकरणमयासीत्पूर्तिमेतत्तुरीयम् ॥

इति श्रीगोपेन्द्रतिप्पभूपालविरचितायां वामनालकारसूत्रवृत्ति-

व्याख्यायां काव्यालंकारकामधेनौ आलकारिक नाम

चतुर्थमधिकरणम् ॥