काव्यादर्शः/द्वितीयपरिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← प्रथमपरिच्छेदः काव्यादर्शः
द्वितोयपरिच्छेदः
दण्डिनः
तृतोयः परिच्छदः →

काव्यशोभाकारान्धर्मानलंकारान्प्रचक्षते
 ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति ।। २.१ ।।

 किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितम्
 तदेव परिसंस्कर्तुं अयं अस्मत्परिश्रमः ।। २.२ ।।

 काश्चिन्मार्गविभागार्थं उक्ताः प्रागप्यलंक्रियाः
 साधारणं अलंकारजातं अन्यत्प्रदर्श्यते ।। २.३ ।।

 स्वभावाख्यानं उपमा रूपकं दीपकावृत्ती
 आक्षेपोऽर्थान्तन्यासो व्यतिरेको विभावना ।। २.४ ।।

 समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः
 प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितम् ।। २.५ ।।

 उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता
 विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने ।। २.६ ।।

 सहोक्तिः परिवृत्त्याशीः संकीर्णं अथ भाविकम्
 इति वाचां अलंकारा दर्शिताः पूर्वसूरिभिः ।। २.७ ।।

 नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती
 स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ।। २.८ ।।

 तुण्डैराताम्रकुटिलैः पक्षैर्हरितकोमलैः
 त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः ।। २.९ ।।

 कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः
 पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियाम् ।। २.१० ।।

 बध्नन्नङ्गेषु रोमाञ्चं कुर्वन्मनसि निर्वृतिम्
 नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते ।। २.११ ।।

 कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः
 जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः ।। २.१२ ।।

 जातिक्रियागुणद्रव्यस्वभावाख्यानं ईदृशम्
 शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितम् ।। २.१३ ।।

 यथाकथंचित्सादृश्यम् यत्रोद्भूतं प्रतीयते
 उपमा नाम तस्याः प्रपञ्चोदयं प्रदर्श्यते ।। २.१४ ।।

 अम्भोरुहं इवाताम्रं मुग्धे करतलं तव
 इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनात् ।। २.१५ ।।

 राजीवं इव ते वक्त्रं नेत्रे नीलोत्पले इव
 इयं प्रतीयमानैकधर्मा वस्तूपमैव सा ।। २.१६ ।।

 त्वदाननं इवोन्निद्रं अरविन्दं अभूदिति
 सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ।। २.१७ ।।

 तवाननं इवाम्भोजं अम्भोजं इव ते मुखम्
 इत्यन्योन्योपमा सेयं अन्योन्योत्कर्षशंसिनी ।। २.१८ ।।

 त्वन्मुखं कमलेनैव तुल्यं नान्येन केन चित्
 इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा ।। २.१९ ।।

 पद्मं तावत्तवान्वेति मुखं अन्यच्च तादृशम्
 अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा ।। २.२० ।।

 समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव
 ह्लादनाख्येन चान्वेति कर्मणेन्दुं इतीदृशी ।। २.२१ ।।

 त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः
 इयत्येव भिदा नान्येत्यसावतिशयोपमा ।। २.२२ ।।

 मय्येवास्या मुकह्श्रीरित्यलं इन्दोर्विकत्थनैः
 पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा ।। २.२३ ।।

 यदि किं चिद्भवेत्पद्मं सुभ्रु विभ्रान्तलोचनम्
 तत्ते मुखश्रियं धत्तां इत्यसावद्भुतोपमा ।। २.२४ ।।

 शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया
 इन्दुं अप्यनुधावामीत्येषा मोहोपमा स्मृता ।। २.२५ ।।

 किं पद्मं अन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम्
 मम दोलायते चित्तं इतीयं संशयोपमा ।। २.२६ ।।

 न पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः
 अतस्त्वन्मुखं एवेदं इत्यसौ निर्णयोपमा ।। २.२७ ।।

 शिशिरांशुप्रत्स्पर्धि श्रीमत्सुरभिगन्धि च
 अम्भोजं इव ते वक्त्रं इति श्लेषोपमा स्मृता ।। २.२८ ।।

 सरूपशब्दवाच्यत्वात्सा समानोपमा यथा
 बालेवोद्यानमालेयं सालकाननशोभिनी ।। २.२९ ।।

 पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम्
 समानं अपि सोत्सेकं इति निन्दोपमा स्मृता ।। २.३० ।।

 ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शंभुशिरोधृतः
 तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते ।। २.३१ ।।

 चन्द्रेण त्वन्मुखं तुल्यं इत्याचिख्यासु मे मनः
 स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः ।। २.३२ ।।

 शतपत्रं शरच्चन्द्रस्त्वदाननं इति त्रयम्
 परस्परविरोधीति सा विरोधोपमा मता ।। २.३३ ।।

 न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुम्
 कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ।। २.३४ ।।

 मृगेक्षणाङ्कं ते वक्त्रं मृगेणैवाङ्कितः शशी
 तथापि सम एवासौ नोत्कर्षीति चटूपमा ।। २.३५ ।।

 न पद्मं मुखं एवेदं न भृङ्गौ चक्षुषी इमे
 इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ।। २.३६ ।।

 चन्द्रारविन्दयोः कान्तिं अतिक्रम्य मुखं तव
 आत्मनैवाभवत्तुल्यं इत्यसाधारणोपमा ।। २.३७ ।।

 सर्वपद्मप्रभासारः समाहृत इव क्वचित्
 त्वदाननं विभातीति तां अभूतोपमां विदुः ।। २.३८ ।।

 चन्द्रबिम्बादिव विषं चन्दनादिव पावकः
 परुषा वागितो वक्त्रादित्यसंभावितोपमा ।। २.३९ ।।

 चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः
 स्पर्शस्तवेत्यतिशयं बोधयन्ति बहूपमा ।। २.४० ।।

 चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतम्
 तव तन्वङ्गि वदनं इत्यसौ विक्रियोपमा ।। २.४१ ।।

 पूष्ण्यातप इवाह्णीव पूषा व्योम्नीव वासरः
 विक्रमस्त्वय्यधाल्लक्ष्मीं इति मालोपमा मता ।। २.४२ ।।

 वाक्यर्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते
 एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा ।। २.४३ ।।

 त्वदाननं अधीराक्षं आविर्दशनदीधितिः
 भ्रमद्भृङ्गं इवालक्ष्यकेसरं भाति पङ्कजम् ।। २.४४ ।।

 नलिन्या इव तन्वङ्ग्यास्तस्याः पद्मं इवाननम्
 मया मधुव्रतेनेव पायं पायं अरम्यत ।। २.४५ ।।

 वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः
 साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ।। २.४६ ।।

 नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु
 ननु द्वितीयो नास्त्येव पारिजातस्य पादपः ।। २.४७ ।।

 अधिकेन समीकृत्य हीनं एकक्रियाविधौ
 यद्ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा ।। २.४८ ।।

 दिवो जगर्ति रक्षायै पुलोमारिर्भुवो भवान्
 असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः ।। २.४९ ।।

 कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवम्
 राजन्ननुकरोषीति सैषा हेतूपमा मता ।। २.५० ।।

 न लिङ्गवचने भिन्ने न हीनाधिकतापि वा
 उपमादूषणायालं यत्रोद्वेगो न धीमताम् ।। २.५१ ।।

 स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव
 प्राणा इव प्रियोऽयं मे विद्या धनं इवार्जिता ।। २.५२ ।।

 भवानिव महीपाल देवराजो विराजते
 अलं अंशुमतः कक्षां आरोढुं तेजसा नृपह् ।। २.५३ ।।

 इत्येवमादौ सौभाग्यं न जहात्येव जातु चित्
 अस्त्येव क्व चिदुद्वेगः प्रयोगे वाग्विदां यथा ।। २.५४ ।।

 हंसीव धवलश्चन्द्रः सरांसीवामलं नभः
 भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ।। २.५५ ।।

 ईदृशं वर्ज्यते सद्भिः कारणम् तत्र चिन्त्यताम्
 गुणदोषविचाराय स्वयं एव मनीषिभिः ।। २.५६ ।।

 इववद्वायथाशब्दाः समाननिभसंनिभाः
 तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः ।। २.५७ ।।

 प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः
 सदृक्सदृशसंवादिसजातीयानुवादिनः ।। २.५८ ।।

 प्रतिबिम्बप्रतिच्छन्दसरूपसमसंमिताः
 सलक्षणसदृक्षाभसपक्षोपमितोपमाः ।। २.५९ ।।

 कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि
 सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः ।। २.६० ।।

 समासश्च बहुव्रीहिः शशाङ्कवदनादिषु
 स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति ।। २.६१ ।।

 आक्रोशत्यवजानाति कदर्थयति निन्दति
 विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति ।। २.६२ ।।

 तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति
 तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ।। २.६३ ।।

 तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते
 तं अन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति ।। २.६४ ।।

 तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः
 उपमायां इमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः ।।इत्युपमाचक्रम् ।। ।। २.६५ ।।

 उपमैव तिरोभूतभेदा रूपकं उच्यते
 यथा बाहुलता पाणिपद्मं चरणपल्लवः ।। २.६६ ।।

 अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः
 बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ।। २.६७ ।।

 इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकम्
 स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकम् ।। २.६८ ।।

 ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरम्
 ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ।। २.६९ ।।

 अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मताम्
 तद्योग्यस्थानविन्यासादेतत्सकलरूपकम् ।। २.७० ।।

 अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम्
 मुखं मुक्तारुचो धत्ते धर्माम्भःकणमञ्जरीः ।। २.७१ ।।

 मञ्जरीकृत्यधर्माम्भः पल्लवीकृत्य चाधरम्
 नान्यथा कृतं अत्रास्यम् अतोऽवयवरूपकम् ।। २.७२ ।।

 वल्गितभ्रु गलद्धर्मजलं आलोहितेक्षणम्
 विवृणोति मदावस्थां इदं वदनपङ्कजम् ।। २.७३ ।।

 अविकृत्य मुखाङ्गानि मुखं एवारविन्दताम्
 आसीद्गमितं अत्रेदं अतोऽवयविरूपकम् ।। २.७४ ।।

 मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते
 मुखेन मुग्धः सोऽप्येष जनो रागमयः क्र्तः ।। २.७५ ।।

 एकाङ्गरूपकं चैतदेवं द्विप्रभृतीन्यपि
 अङ्गानि रूपयन्त्यत्र योगायोगौ भिदाकरौ ।। २.७६ ।।

 स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गं इदं मुखम्
 इति पुष्पद्विरेफाणां संगत्या युक्तरूपकम् ।। २.७७ ।।

 इदं आर्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखम्
 इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकम् ।। २.७८ ।।

 रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयात्
 रूपकं विषमं नाम ललितं जायते यथा ।। २.७९ ।।

 मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना
 नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयम् ।। २.८० ।।

 हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः
 जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः ।। २.८१ ।।

 विशेषणसमग्रस्य रूपं केतोर्यदीदृशम्
 पादे तदर्पणादेतत्सविशेषणरूपकम् ।। २.८२ ।।

 न मीलयति पद्मानि न नभोऽप्यवगाहते
 त्वन्मुखेन्दुर्ममासूनां हरणायैव कल्पते ।। २.८३ ।।

 अक्रिया चन्द्रकार्याणां अन्यकार्यस्य च क्रिया
 अत्र संदर्श्यते यस्माद्विरुद्धं नाम रूपकम् ।। २.८४ ।।

 गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः
 कामदत्वाच्च लोकानां असि त्वं कल्पपादपः ।। २.८५ ।।

 गाम्भीर्यप्रमुखैरत्र हेतुभिः सागरो गिरिः
 कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकम् ।। २.८६ ।।

 राजहंसोपभोगार्हं भ्रमरप्रार्थ्यसौरभम्
 सखि वक्त्राम्बुजं इदं तवेति श्लिष्टरूपकम् ।। २.८७ ।।

 इष्टं साधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः
 उपमाव्यतिरेकाख्यं रूपकाद्वितयं यथा ।। २.८८ ।।

 अयं आलोहितच्छायो मदेन मुखचन्द्रमाः
 संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति ।। २.८९ ।।

 चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः
 असमग्रोऽप्यसौ शश्वदापूर्णमण्डलः ।। २.९० ।।

 मुखचन्द्रस्य चन्द्रत्वं इत्थं अन्योपतापिनः
 न ते सुन्दरि संवादीत्येतदाक्षेपरूपकम् ।। २.९१ ।।

 मुखेन्दुरपि ते चण्डि मां निर्दहति निर्दयम्
 भाग्यदोषान्ममैवेति तत्समाधानरूपकम् ।। २.९२ ।।

 मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव
 लीलानृत्यं करोतीति रम्यं रूपकरूपकम् ।। २.९३ ।।

 नैतन्मुखं इदं पद्मं त नेत्रे भ्रमराविमौ
 एतानि केसराण्येव नैता दन्तार्चिषस्तव ।। २.९४ ।।

 मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणात्
 उद्भावितगुणोत्कर्षं तत्त्वापह्नवरूपकम् ।। २.९५ ।।

 न पर्यन्तो विकल्पानां रूपकोपमयोरतः
 दिङ्मात्रं दर्शितं धीरैरनुक्तं अनुमीयताम् ।।इति रूपकचक्रम् ।। ।। २.९६ ।।

जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना
सर्ववाक्योपकारश्चेत्तं आहुर्दीपकं यथा ।। २.९७ ।।

पवनो दक्षिणः पार्णं जीर्णं हरति वीरुधाम्
स एवावनताङ्गीनां मानभङ्गाय कल्पते ।। २.९८ ।।

चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ।। २.९९ ।।

श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः ।। २.१०० ।।

विष्णुना विक्रमस्थेन दानवानां विभूतयः
क्वापि नीताः कुतोऽप्यासन्नानीता देवेतर्द्धयः ।। २.१०१ ।।

इत्यादिदीपकान्युक्तान्येवं मध्यान्तयोरपि
वाक्ययोर्दर्शयिष्यामः कानि चित्तानि तद्यथा ।। २.१०२ ।।

नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः ।। २.१०३ ।।

मन्दो गन्धवहः क्षारो वह्निरिन्दुश्च जायते
चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनाम् ।। २.१०४ ।।

जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनाम्
चलं च तडितां दाम बलं कुसुमधन्वनः ।। २.१०५ ।।

त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने
मयापि मरणे चेतस्त्रयं एतत्समं कृतम् ।। २.१०६ ।।

शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः
स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः ।। २.१०७ ।।

इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यपेक्षिणी
वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतम् ।। २.१०८ ।।

अवलेपं अनङ्गस्य वर्धयन्ति बलाहकाः
कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः ।। २.१०९ ।।

अवलेपपदेनात्र बलाहकपदेन च
क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थदीपकम् ।। २.११० ।।

हरत्याभोगं आशानां गृह्णाति ज्योतिषां गणम्
आदत्ते चाद्य मे प्राणानसौ जलधरावली ।। २.१११ ।।

अनेकशाब्दोपादानात्क्रियैकवात्र दीप्यते
यतो जलधरावल्या तस्मादेकार्थदीपकम् ।। २.११२ ।।

हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः ।। २.११३ ।।

अत्र धर्मैरभिन्नानां अभ्राणां दन्तिनां तथा
भ्रमणेनैव संबन्ध इति श्लिष्टार्थदीपकम् ।। २.११४ ।।

अनेनैव प्रकारेण शेषाणां अपि दीपके
विकल्पानां अवगतिर्विधातव्या विचक्षणैः ।।इति दीपकचक्रम् ।। ।। २.११५ ।।

अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च
दीपकस्थान एवेष्टं अलंकारत्रयं यथा ।। २.११६ ।।

विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च ।। २.११७ ।।

उत्कण्ठयति मेघानां माला वृन्दं कलापिनाम्
यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः ।। २.११८ ।।

जित्वा विश्वं भवानत्र विहरत्यवरोधनैः
विहरत्वप्सरोभिस्ते रिपुवर्गो दिवं गतः ।।इत्यावृत्तिचक्रम् ।। ।। २.११९ ।।

प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा
अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता ।। २.१२० ।।

अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः
इत्यसंभाव्यं अथवा विचित्रा वस्तुशक्तयः ।। २.१२१ ।।

इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह
प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः ।। २.१२२ ।।

कुतः कुवलयं कर्णे करोषि कलभाषिणि
किं अपाङ्गं अपर्याप्तं अस्मिन्कर्मणि मन्यसे ।। २.१२३ ।।

स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलम्
कर्णे का चित्प्रियेणैवं चाटुकारेण रुध्यते ।। २.१२४ ।।

सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे
अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षुष ।। २.१२५ ।।

सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी
कदाचिदपराधोऽस्य भावीत्येवं अरुन्द्ध यत् ।। २.१२६ ।।

तव तन्वङ्गि मिथ्यैव रूढं अङ्गेषु मार्दवम्
यदि सत्यं मृदून्येव किं अकाण्डे रुजन्ति माम् ।। २.१२७ ।।

धर्माक्षेपोऽयं आक्षिप्तं अङ्गनागात्रमार्दवम्
कामुकेन यदत्रैवं कर्मणा तद्विरोधिना ।। २.१२८ ।।

सुन्दरी सा न वेत्येष विवेकः केन जायते
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः ।। २.१२९ ।।

धर्म्याक्षेपोऽयं आक्षिप्तो धर्मी धर्मं प्रभाह्वयम्
अनुज्ञायैव यद्रूपं अत्याश्चर्यं विवक्षता ।। २.१३० ।।

चक्षुषी तव रज्येते स्फुरत्यधरपल्लवः
भ्रुवौ च भुग्ने न तथाप्यदुष्टस्यास्ति मे भयम् ।। २.१३१ ।।

स एष कारणाक्षेपः प्रधानं कारणं भियः
स्वापराधो निषिद्धोऽत्र यत्प्रियेण पटीयसा ।। २.१३२ ।।

दूरे प्रियतमः सोऽयं आगतो जलदागमः
दृष्टश्च फुल्ला निचुला न मृता चास्मि किं न्विदम् ।। २.१३३ ।।

कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनात्
तत्कारणं उपन्यस्य दारुणं जलदागमम् ।। २.१३४ ।।

न चिरं मम तापाय तव यात्रा भविष्यति
यदि यास्यसि यातव्यं अलं आशङ्कयात्र ते ।। २.१३५ ।।

इत्यनुज्ञामुखेनैव कन्तस्याक्षिप्यते गतिः
मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते ।। २.१३६ ।।

धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि
न च मे प्राणसंदेहस्तथापि प्रिय मा स्म गाः ।। २.१३७ ।।

इत्याचक्षाणया हेतून्प्रिययात्रानुबन्धिनः
प्रभुत्वेनैव रुद्धस्तत्प्रभुत्वाक्षेप उच्यते ।। २.१३८ ।।

जीविताशा बलवती धनाशा दुर्बला मम
गच्छ तिष्ठ वा कान्त स्वावस्था तु निवेदिता ।। २.१३९ ।।

असावनादराक्षेपो यदनादरवद्वचः
प्रियप्रयाणं रुन्धत्या प्रयुक्तं इह रक्तया ।। २.१४० ।।

गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।। २.१४१ ।।

इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते ।। २.१४२ ।।

यदि सत्यैव यात्रा ते काप्यन्या मृग्यतां त्वया
अहं अद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना ।। २.१४३ ।।

इत्येष परुषाक्षेपः परुषाक्षरपूर्वकम्
कान्तस्याक्षिप्यते यस्मात्प्रस्थानं प्रेमनिघ्नया ।। २.१४४ ।।

गन्ता चेद्गच्छ तूर्णं ते कर्णौ यान्ति पुरा रवाः
आर्तबन्धुमुखोद्गीर्णाः प्रयाणपरिपन्थिनः ।। २.१४५ ।।

साचिव्य्वाक्षेप एवैष यदत्र प्रतिषिध्यते
प्रियप्रयाणं साचिव्यं कुर्वत्येवातिरक्तया ।। २.१४६ ।।

गच्छेति वक्तुं इच्छामि मत्प्रिय त्वत्प्रियैषिणी
निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ।। २.१४७ ।।

यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि
विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ।। २.१४८ ।।

क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः
प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टं इष्यते ।। २.१४९ ।।

सोऽयं परवशाक्षेपो यत्प्रेमपरतन्त्रया
तया निषिध्यते यात्रान्यस्यार्थसोपसूचनत् ।। २.१५० ।।

सहिष्ये विरहं नाथ देह्यदृश्याञ्जनं मम
यदक्तनेत्रां कन्दर्पः प्रहर्ता मां न पश्यति ।। २.१५१ ।।

दुष्करं जीवनोपायं उपन्यस्योपरुध्यते
पत्युः प्रस्थानं इत्याहुरुपायाक्षेपं ईदृशम् ।। २.१५२ ।।

प्रवृत्तैव प्रयामीति वाणी वल्लभ ते मुखात्
अयतापि त्वयेदानीं मन्दप्रेम्णा ममास्ति किम् ।। २.१५३ ।।

रोषाक्षेपोऽयं उद्रिक्तस्नेहनिर्यन्त्रितात्मना
संरब्धया प्रियारब्धं प्रयाणं यन्निषिध्यते ।। २.१५४ ।।

मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता
बुद्ध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् ।। २.१५५ ।।

इति तत्कालसंभूतमूर्छयाक्षिप्यते गतिः
कान्तस्य कातराक्ष्या यन्मूर्छाक्षेप स ईदृशः ।। २.१५६ ।।

नाघ्रातम् न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितम्
त्वद्द्विषां दीर्घिकास्येव विशीर्णं नीलं उत्पलम् ।। २.१५७ ।।

असावनुक्रोशाक्षेपः सानुक्रोशं इवोत्पले
व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनात् ।। २.१५८ ।।

अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके
मुखेन्दौ तव सत्यस्मिन्नपरेण किं इन्दुना ।। २.१५९ ।।

इति मुख्येन्दुराक्षिप्तो गुणान्गौणेन्दुवर्तिनः
तत्समान्दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः ।। २.१६० ।।

अर्थो न संभृतः कश्चिन्न विद्या का चिदर्चिता
न तपः संचिन्तं किं चिद्गतं च सकलं वयः ।। २.१६१ ।।

असावनुशयाक्षेपो यस्मादनुशयोत्तरम्
अर्थार्जनादेर्व्यावृत्तिर्दर्शितेह गतायुषा ।। २.१६२ ।।

किं अयं शरदम्भोदः किं वा हंसकदम्बकम्
रुतं नूपुरसंवादि श्रूयते तन्न तोयदः ।। २.१६३ ।।

इत्ययं संशयाक्षेपः संशयो यन्निवर्त्यते
धर्मेण हंससुलभेनास्पृष्टघनजानिता ।। २.१६४ ।।

चित्रं आक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति
कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः ।। २.१६५ ।।

अयं अर्थान्तराक्षेपः प्रक्रान्तो यन्निवार्यते
विस्मयोऽर्थन्तरस्येह दर्शनात्तत्सधर्मणः ।। २.१६६ ।।

न स्तूयसे नरेन्द्र त्वं ददासीति कदा चन
स्वं एव मत्वा गृह्णन्ति यतस्त्वद्धनं अर्थिनः ।। २.१६७ ।।

इत्येवमादिराक्षेपो हेत्वाक्षेप इति स्मृतः
अनेनैव दिशान्येऽपि विकल्पाः शक्यं ऊहितुं ।। इत्याक्षेपचक्रम् ।। ।। २.१६८ ।।

ज्ञेयह्सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किं चन
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः ।। २.१६९ ।।

विश्वव्यापी विशेषस्थः श्लेषाविद्धो विरोधवान्
अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः ।। २.१७० ।।

इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः
उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते ।। २.१७१ ।।

भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते ।। २.१७२ ।।

पयोमुचः परीतापं हरन्त्येव शरीरिणाम्
नवात्मलाभो महतां परदुःखोपशान्तये ।। २.१७३ ।।

उत्पादयति लोकस्य प्रीतिं मलयमारुतः
ननु दाक्षिण्यसंपन्नः सर्वस्य भवति प्रियः ।। २.१७४ ।।

जगदानन्दयत्येष मलिनोऽपि निशाकरः
अनुगृह्णाति हि परान्सदोषोऽपि द्विजेश्वरः ।। २.१७५ ।।

मधुपानकलात्कण्ठान्निर्गतोऽप्यलिनां ध्वनिः
कटुर्भवति कर्णस्य कामिनां पापं ईदृशम् ।। २.१७६ ।।

अयं मम दहत्यङ्गं अम्भोजदलसंस्तरः
हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते ।। २.१७७ ।।

क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति माम्
मलिनाचरितं कर्म सुरभेर्नन्वसांप्रतम् ।। २.१७८ ।।

कुमुदान्यपि दाहाय किं अयं कमलाकरः
न हीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मधुर्भवेत् ।।इत्यर्थान्तरन्यासचक्रम् ।। ।। २.१७९ ।।

शब्दोपात्ते प्रातीते वा सादृश्ये वस्तुनोर्द्वयोः
तत्र यद्भेदकथनं व्यतिरेकः स कथ्यते ।। २.१८० ।।

धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वं उदन्वतः
गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते ।। २.१८१ ।।

इत्येकव्यतिरेकोऽयं धर्मेणैकत्रवर्तिना
प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः ।। २.१८२ ।।

अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि
असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः ।। २.१८३ ।।

उभयव्यतिरेकोऽयं उभयोर्भेदकौ गुणौ
कार्ष्ण्यं पिशङ्गता चोभौ यत्पृथग्दर्शिताविह ।। २.१८४ ।।

त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ
अयं तु युवयोर्भेदः स जडात्मा पटुर्भवान् ।। २.१८५ ।।

स एष श्लेषरूपत्वात्सश्लेष इति गृह्यताम्
साक्षेपश्च सहेतुश्च दर्श्यते तदपि द्वयम् ।। २.१८६ ।।

स्थितिमानपि धीरोऽपि रत्नानां आकरोऽपि सन्
तव कक्षां न यात्येव मलिनो मकरालयः ।। २.१८७ ।।

वहन्नपि महीं कृत्स्नां सशैलद्वीपसागराम्
भर्तृभावाद्भुजङ्गानाम् शेषस्त्वत्तो निकृष्यते ।। २.१८८ ।।

शब्दोपादानसादृश्यव्यतिरेकोऽयं ईदृशः
प्रतीयमानसादृश्योऽप्यस्ति सोऽप्यभिधीयते ।। २.१८९ ।।

त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयम् ।। २.१९० ।।

अभ्रूविलासं अस्पृष्तमदरागं मृगेक्षणम्
इदं तु नयनद्वन्द्वं तव तगुणभूषितम् ।। २.१९१ ।।

पूर्वस्मिन्भेदमात्रोक्तिरस्मिन्नाधिक्यदर्शनम्
सदृशव्यतिरेकश्च पुनरन्यः प्रदर्श्यते ।। २.१९२ ।।

त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी
भ्रमद्भ्रमरं अम्भोजं लोलनेत्रं मुखं तु ते ।। २.१९३ ।।

चन्द्रोऽयं अम्बरोत्तंसो हंसोऽयं तोयभूषणम्
नभो नक्षत्रमालीदं उत्फुल्लकुमुदं पयः ।। २.१९४ ।।

प्रतीय्मानशौक्ल्यादिसाम्ययोर्वियदम्भसोः
कृतः प्रतीतशुद्ध्योश्च भेदोऽस्मिंश्चन्द्रहंसयोः ।। २.१९५ ।।

पूर्वत्र शाब्दवत्साम्यं उभयत्रापि भेदकम्
भृङ्गनेत्रादि तुल्यं तत्सदृशव्यतिरेकता ।। २.१९६ ।।

अरत्नालोकसंहार्यं अहार्यं सूर्यरश्मिभिः
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ।। २.१९७ ।।

सजातीव्यतिरेकोऽयं तमोजातेरिदं तमः
दृष्टिरोधितया तुल्यं भिन्नं अन्यैरदर्शि तत् ।।इति व्यतिरेकचक्रम् ।। ।। २.१९८ ।।

प्रसिद्धहेतुव्यावृत्त्या यत्किंचिट्कारणान्तरम्
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।। २.१९९ ।।

अपीतक्षीबकादम्बं असंमृष्टाभलाम्बरम्
अप्रसादितशुद्धाम्बु जगदासीन्मनोहरम् ।। २.२०० ।।

अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता
अरञ्जितोऽरुणश्चायं अधरस्तव सुन्दरि ।। २.२०१ ।।

यदपीतादिजन्यं स्यात्क्षीबत्वाद्यन्यहेतुजम्
अहेतुकं च तस्येह विवक्षेत्यविरुद्धता ।। २.२०२ ।।

वक्त्रं निसर्गसुरभि वपुरव्याजसुन्दरम्
अकारणरिपुश्चन्द्रो निर्निमित्तासुहृत्स्मरः ।। २.२०३ ।।

निसर्गादिपदैरत्र हेतुः साक्षान्निवर्तितः
उक्तं च सुरभित्वादि फलं तत्सा विभावना ।।इति विभावनाचक्रम् ।। ।। २.२०४ ।।

वस्तु किंचिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः
उक्तिः संक्षेपरूपत्वात्सा समासोक्तिरिष्यते ।। २.२०५ ।।

पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे
अप्यसंनद्धसौरभ्यं पश्य चुम्बति कुड्मलम् ।। २.२०६ ।।

इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः
कस्यां चिदिह बालायां इच्छावृत्तिर्विभाव्यते ।। २.२०७ ।।

विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा ।। २.२०८ ।।

रूढमूलः फलभरैः पुष्णन्ननिशं अर्थिनः
सान्द्रच्छायो महावृक्षः सोऽयं आसादितो मया ।। २.२०९ ।।

अनल्पविटपाभोगः फलपुष्पसमृद्धिमान्
सोच्छ्रयः स्थैर्यवान्दैवादेष लब्धो मया द्रुमः ।। २.२१० ।।

उभयत्र पुमान्कश्चिद्वृक्षत्वेनोवर्णितः
सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयम् ।। २.२११ ।।

निवृत्तव्यालसंसर्गो निसर्गमधुराशयः
अयं अम्भोनिधिः कष्टं कालेन परिशुष्यति ।। २.२१२ ।।

इत्यापूर्वसमासोक्तिः पूर्वधर्मनिवर्तनात्
समुद्रेण समानस्य पुंसो व्यापत्तिसूचनात् ।।इति समासोक्तिचक्रम् ।। ।। २.२१३ ।।

विवक्षा या विशेषस्य लोकसीमातिवर्तिनी
असावतिशयोक्तिः स्यादलंकारोत्तमा यथा ।। २.२१४ ।।

मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः चोमः सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम्
क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायां अभिसारिकाः ।। २.२१५ ।।

चन्द्रातपस्य बाहुल्यं उक्तं उत्कर्षवत्तया
संशयातिशयादीनां व्यक्त्यै किं चिन्निदर्श्यते ।। २.२१६ ।।

स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव
अस्ति नास्तीति संदेहो न मेऽद्यापि निवर्तते ।। २.२१७ ।।

निर्णेतुं शक्यं अस्तीति मध्यं तव नितम्बिनि
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ।। २.२१८ ।।

अहो विशालं भूपाल भुवनत्रितयोदरम्
माति मातुं अशक्योऽपि यशोराशिर्यदत्र ते ।। २.२१९ ।।

अलंकारान्तराणां अप्येकं आहुः परायणम्
वागीशमहितां उक्तिं इमां अतिशयाह्वयं ।।इत्यतिशयोक्तिचक्रम् ।। ।। २.२२० ।।

अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा
अन्यथोत्प्रेक्ष्यते यत्र तां उत्प्रेक्षां विदुर्यथा ।। २.२२१ ।।

माध्यंदिनार्कसंतप्तः सरसीं गाहते गजः
मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुं उद्यतः ।। २.२२२ ।।

स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनम्
तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ।। २.२२३ ।।

कर्णस्य भूषणं इदं ममायातिविरोधिनः
इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ।। २.२२४ ।।

अपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलम्
स्पृश्यते वा न वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते ।। २.२२५ ।।

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः
इतीदं अपि भूयिष्ठं उत्प्रेक्षालक्षणानन्वितम् ।। २.२२६ ।।

केषां चिदुपमाभ्रान्तिरिवश्रुत्येह जायते
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितम् ।। २.२२७ ।।

उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया
लिम्पतेस्तमसश्चासौ धर्मः कोऽत्र समीक्ष्यते ।। २.२२८ ।।

यदि लेपनं एवेष्टं लिम्पतिर्नाम कोऽपरः
स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते ।। २.२२९ ।।

कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे
स्वक्रियासाधनव्यग्रो नालं अन्यदपेक्षितुम् ।। २.२३० ।।

यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः
अङ्गानीति न संबद्धं सोऽपि मृग्यः समो गुणः ।। २.२३१ ।।

यथेन्दुरिव ते वक्त्रं इति कान्तिः प्रतीयते
न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते ।। २.२३२ ।।

तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः
अङ्गकर्मा च पुंसैवं उत्प्रेक्ष्यत इतीष्यताम् ।। २.२३३ ।।

मन्ये शङ्के ध्रुवं प्रायो नूनं इत्येवमादिभिः
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः ।। इत्युत्प्रेक्षाचक्रम् ।। ।। २.२३४ ।।

हेतुश्च सूक्ष्मलेशौ च वाचां उत्तमभूषणम्
कारकज्ञापकौ हेतू तौ चानेकविधौ यथा ।। २.२३५ ।।

अयं आन्दोलितप्रौढचन्दनद्रुमपल्लवः
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः ।। २.२३६ ।।

प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणम्
अलंकारतयोद्दिष्टं निवृत्तावपि तत्समम् ।। २.२३७ ।।

चन्दनारण्यं आधूय स्पृष्ट्वा मलयनिर्झरान्
पथिकानां अभावाय पवनोऽयं उपस्थितः ।। २.२३८ ।।

अभावसाधनायालं एवंभूतो हि मारुतः
विरहज्वरसंभूतमनोज्ञारोचके जने ।। २.२३९ ।।

निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया
प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता ।। २.२४० ।।

हेतुर्निर्वर्तनीयस्य दर्शितः शेषयोर्द्वयोः
दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते ।। २.२४१ ।।

उत्प्रवालाण्यरण्यानि वाप्यः संफुल्लपङ्कजाः
चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् ।। २.२४२ ।।

मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम्
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा ।। २.२४३ ।।

गतोऽस्तं अर्को भातीन्दुर्यान्ति वासाय पक्षिणः
इतीदं अपि साध्वेव कालावस्थानिवेदने ।। २.२४४ ।।

अवध्यैरिन्दुपादानां असाध्यैश्चन्दनाम्भसाम्
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः ।। २.२४५ ।।

इति लक्ष्याः प्रयोगेषु रम्या ज्ञापकहेतवः
अभावहेतवः के चिद्व्याह्रियन्ते मनोहराः ।। २.२४६ ।।

अनभ्यासेन विद्यानां असंसर्गेण धीमताम्
अनिग्रहेण चाक्षाणांजायते व्यसनं नृणाम् ।। २.२४७ ।।

गतः कामकथोन्मादो गलितो यौवनज्वरः
क्षतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः ।। २.२४८ ।।

वनान्यमूनि न गृहाण्येता नद्यो न योषितः
मृगा इमे न दायादास्तन्मे नन्दति मानसम् ।। २.२४९ ।।

अत्यन्तं असदार्याणां अनलोचितचेष्टितम्
अतस्तेषां विवर्धन्ते सततं सर्वसंपदः ।। २.२५० ।।

उद्यानसहकाराणां अनुद्भिन्ना न मञ्जरी
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ।। २.२५१ ।।

प्रागभावादिरूपस्य हेतुत्वं इह वस्तुनः
भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति ।। २.२५२ ।।

दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा
अयुक्तयुक्तकार्यौ चेत्यसंख्याश्चित्रहेतवः ।। २.२५३ ।।

तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः
अत्यन्तसुन्दरा दृष्टास् तदुदाहृतयो यथा ।। २.२५४ ।।

त्वदपाङ्गाह्वयं जैत्रं अनङ्गास्त्रं यदङ्गने
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः ।। २.२५५ ।।

आविर्भवति नारीणां वयः पर्यस्तशैशवम्
सहैव विविधैः पुंसां अङ्गजोन्मादविभ्रमैः ।। २.२५६ ।।

पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम्
प्रागेव हरिणाक्षीणां उदीर्णो रागसागरः ।। २.२५७ ।।

राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः
देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् ।। २.२५८ ।।

पाणिपद्मानि भूपानां संकोचयितुं ईशते
त्वत्पादनखचन्द्राणां अर्चिषः कुन्दनिर्मलाः ।। २.२५९ ।।

इति हेतुविकल्पानां दर्शिता गतिरीदृशी ।। इति हेतुचक्रम् ।।
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।। २.२६० ।।

कदा नौ संगमो भावीत्याकीर्णे वक्तुं अक्षमम्
अवेत्य कान्तं अबला लीलापद्मं न्यमीलयत् ।। २.२६१ ।।

पद्मसंमीलनादत्र सूचितो निशि संगमः
आश्वासयितुं इच्छन्त्या प्रियं अङ्गजपीडितम् ।। २.२६२ ।।

मदर्पितदृशस्तस्या गीतगोष्ठ्यां अवर्धत
उद्दामरागतरला छाया कापि मुखाम्बुजे ।। २.२६३ ।।

इत्यनुद्भिन्नरूपत्वाद्रत्युत्सवमनोरथह्
अनुल्लङ्ह्ग्यैव सूक्ष्मत्वं अभूदत्र व्यवस्थितः ।।इति सूक्ष्मचक्रम् ।। ।। २.२६४ ।।

लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनम्
उदाहरण एवास्य रूपं आविर्भविष्यति ।। २.२६५ ।।

राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकः
अवगच्छेयुरा ज्ञातं अहो शीतानिलं वनम् ।। २.२६६ ।।

आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम्
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितम् ।। २.२६७ ।।

इत्येवं आदिस्थानेऽयं अलंकारोऽतिशोभते
लेशं एके विदुर्निन्दां स्तुतिं वा लेशतः कृताम् ।। २.२६८ ।।

युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि ।। २.२६९ ।।

वीर्योत्कर्षस्तुतिर्निन्दैवास्मिन्भावनिवृत्तये
कन्यायाः कल्पते भोगान्निर्विविक्षोर्निरन्तरम् ।। २.२७० ।।

चपलो निर्दयश्चासौ जनः किं तेन मे सखि
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ।। २.२७१ ।।

दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता
मानं सखिजनोद्दिष्टं कर्तुं रागादशक्तया ।। इति लेशचक्रम् ।। ।। २.२७२ ।।

उद्दिष्टानां पदार्थानां अनूद्देशो यथाक्रमम्
यथासंख्यं इति प्रोक्तं संख्यानं क्रम इत्यपि ।। २.२७३ ।।

ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः
स्नातुं अम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः ।। इति क्रमः ।। ।। २.२७४ ।।

प्रेयः प्रियतराख्यानं रसवद्रसपेशलम्
ऊर्जस्वि रूढाहंकारं युक्तोत्कर्षं च तत्त्रयम् ।। २.२७५ ।।

अद्य या मम गोविन्द जाता त्वयि गृहागते
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः ।। २.२७६ ।।

इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः
भक्तिमात्रसमाराध्यः सुप्रीतश्च ततो हरिः ।। २.२७७ ।।

सोमः सूर्यो मरुद्भूमिर्व्योम होतानलो जलम्
इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयम् ।। २.२७८ ।।

इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः
प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम् ।। २.२७९ ।।

मृतेऽति प्रेत्य संगन्तुं यया मे मरणं मतम्
सैवावन्ती मया लब्धा कथं अत्रैव जन्मनि ।। २.२८० ।।

प्राक्प्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता
रूपबाहुल्ययोगेन तदिदं रसवद्वचः ।। २.२८१ ।।

निगृह्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम
सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम् ।। २.२८२ ।।

इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः
भीमस्य पश्यतः शत्रुं इत्येतद्रसवद्वचः ।। २.२८३ ।।

अजित्वा सार्णवां उर्वीं अनिष्ट्वा विविधैर्मखैः
अदत्वा चार्थं अर्थिभ्यो भवेयः पार्थिवः कथम् ।। २.२८४ ।।

इत्युत्साहः प्रकृष्टात्मा तिष्ठन्वीररसात्मना
रसवत्त्वं गिरां आसां समर्थयितुं ईश्वरः ।। २.२८५ ।।

यस्याः कुसुमशय्यापि कोमलाङ्ग्या रुजाकरी
साधिशेते कथं तन्वी हुताशनवतीं चिताम् ।। २.२८६ ।।

इति कारुण्यं उद्रिक्तं अलंकारतया स्मृतम्
तथापरेऽपि बीभत्सहास्याद्भुतभयानकाः ।। २.२८७ ।।

पायं पायं तवारीणां शोणितं पाणिसंपुटैः
कौणपाः सह नृत्यन्ति कबन्धैरन्त्रभूषणाः ।। २.२८८ ।।

इदं अम्लानमानाया लग्नं स्तनतटे तव
छाद्यतां उत्तरीयेण नवं नखपदं सखि ।। २.२८९ ।।

अंशुकानि प्रवालानि पुष्पं हारादिभूषणम्
शाखाश्च मन्दिराण्येषाम् चित्रं नन्दनशाखिनाम् ।। २.२९० ।।

इदं मघोनः कुलिशं धारासंनिहितानलम्
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ।। २.२९१ ।।

वाक्यस्याग्राम्यतायोनिर्माधुर्ये दर्शितो रसः
इह त्वष्टरसायत्ता रसवत्ता स्मृता गिरां ।।इति रसवच्चक्रम् ।। ।। २.२९२ ।।

अपकर्ताहं अस्मीति हृदि ते मा स्म भूद्भयम्
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ।। २.२९३ ।।

इति मुक्तः परो युद्धे निरुद्धो दर्पशलिना
पुंसा केनापि तज्ज्ञेयं ऊर्जस्वीत्येवमादिकं ।।इत्यूर्जस्वि ।। ।। २.२९४ ।।

अर्थं इष्टं अनाख्याय साक्षात्तस्यैव सिद्धये
यत्प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते ।। २.२९५ ।।

दशत्यसौ परभृतह्सहकारस्य मञ्जरीम्
तं अहं वारयिष्यामि युवाभ्यां स्वैरं आस्यताम् ।। २.२९६ ।।

संगमय्य सखीं यूना संकेते तद्रतोत्सवम्
निर्वर्तयितुं इच्छन्त्या कयाप्यपसृतं ततः ।।इति पर्यायोक्तम् ।। ।। २.२९७ ।।

किंचिदारभमाणस्य कार्यं दैववशात्पुनः
तत्साधनसमापत्तिर्या तदाहुः समाहितम् ।। २.२९८ ।।

मानं अस्या निराकर्तुं पादयोर्मे पतिष्यतः
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितं ।। इति समाहितम् ।। ।। २.२९९ ।।

आशयस्य विभूतेर्वा यन्महत्वं अनुत्तमम्
उदात्तं नाम तं प्राहुरलंकारं मनीषिभिः ।। २.३०० ।।

गुरोः शसनं अत्येतुं न शशाक स राघवः
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ।। २.३०१ ।।

रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ।। २.३०२ ।।

पूर्वत्राशयमाहात्म्यं अत्राभ्युदयगौरवम्
सुव्यञ्जितं इति प्रोक्तं उदात्तद्वयं अप्यदः ।। इत्युदात्तम् ।। ।। २.३०३ ।।

अपह्नुतिरपह्नुत्य किंचिदन्यार्थदर्शनम्
न पञ्चेषु स्मरस्तस्य सहस्रं पत्रिणां इति ।। २.३०४ ।।

चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः
सेयं अग्निमयी सृष्टिर्मयि शीता परान्प्रति ।। २.३०५ ।।

शैशिर्यं अभ्युपेत्यैव परेष्वात्मनि कामिना
औष्ण्यप्रकाशनात्तस्य सेयं विषयनिःनुतिः ।। २.३०६ ।।

अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः
अन्य एवायं अर्थात्मा विषनिष्यन्दिदीधितिः ।। २.३०७ ।।

इति चन्द्रत्वं एवेन्दौ निवर्त्यार्थान्तरात्मता
उक्ता स्मरार्तेनेत्येषा स्वरूपापह्नुतिर्मता ।। २.३०८ ।।

उपमापह्नुतिः पूर्वं उपमास्वेव दर्शिता
इत्यपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः ।।इत्यपहनुतिः ।। ।। २.३०९ ।।

श्लिष्टं इष्टं अनेकार्थं एकरूपान्वितं वचः
तदभिन्नपदं भिन्नपदप्रायं इति द्विधा ।। २.३१० ।।

असावुदयं आरूढः कान्तिमान्रक्तमण्डलः
राजा हरति लोकस्य हृदयं मृदुभिः करैः ।। २.३११ ।।

दोषाकरेण संबध्नन्नक्षत्रपथवर्तिना
राज्ञा प्रदोषो मां इत्थं अप्रियं किं न बाधते ।। २.३१२ ।।

उपमारूपकाक्षेपव्यतिरेकादिगोचराः
प्रागेव दर्शिताः श्लेषा दर्श्यन्ते के चनापरे ।। २.३१३ ।।

अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः
विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि ।। २.३१४ ।।

नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि
तेषां निदर्शनेष्वेव रूपं आविर्भविष्यति ।। २.३१५ ।।

वक्राः स्वभावमधुराः शंसन्त्यो रागं उल्बणम्
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् ।। २.३१६ ।।

मधुरा रागवर्धिन्यः कोमलाः कोकिलागिरः
आकर्ण्यन्ते मदकलाह्श्लिष्यन्ते चासितेक्षनाः ।। २.३१७ ।।

रागं आदर्शयन्नेष वारुणीयोगवर्धितम्
तिरोभवति धर्मांशुरङ्गजस्तु विजृंभते ।। २.३१८ ।।

निस्त्रिंशत्वं असावेव धनुष्येवास्य वक्रता
शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते ।। २.३१९ ।।

पद्मानां एव दण्डेषु कण्टकस्त्वयि रक्षति
अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ।। २.३२० ।।

महीभृद्भूरिकटकस्तेजस्वी नियतोदयः
दक्षः प्रजापतिश्चासीत्स्वामी शक्तिधरश्च सः ।। २.३२१ ।।

अच्युतोऽप्यवृषच्छेदी राजाप्यविदितक्षयः
देवोऽप्य् अविबुधो जज्ञे शंकरोऽप्यभुजङ्गवान् ।।इति श्लेषचक्रम् ।। ।। २.३२२ ।।

गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनम्
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते ।। २.३२३ ।।

न कठोरं न वा तीक्ष्णं आयुधं पुष्पधन्वनः
तथापि जितं एवासीदमुना भुवनत्रयम् ।। २.३२४ ।।

न देवकन्यका नापि गन्धर्वकुलसंभवा
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ।। २.३२५ ।।

न बद्धा भ्रूकुटिर्नापि स्फुरितो दशनच्छदः
न च रक्ताभवद्दृष्टिर्जितं च द्विषतां कुलम् ।। २.३२६ ।।

न रथा न च मातङ्गा न हया न च पत्तयः
स्त्रीणां अपाङ्गदृष्ट्यैव जीयते जगतां त्रयम् ।। २.३२७ ।।

एकचक्रो रथो यन्ता विकलो विषमा हयाः
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ।। २.३२८ ।।

सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणात्
अयं एव क्रमोऽन्येषां भेदानां अपि कल्पने ।।इति विशेषोक्तिचक्रम् ।। ।। २.३२९ ।।

विवक्षितगुणोत्कृष्तैर्यत्समीकृत्य कस्य चित्
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता ।। २.३३० ।।

यमः कुबेरो वरुणः सहस्राक्षो भवानपि
बिभ्रन्त्यनन्यविषयां लोकपाल इति श्रुतिम् ।। २.३३१ ।।

संगतानि मृगाक्षीणां तडिद्विलसितानि च
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयं ।।इति तुल्ययोगिता ।। ।। २.३३२ ।।

विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम्
विशेषदर्शनायैव स विरोधः स्मृतो यथा ।। २.३३३ ।।

कूजितं राजहंसानां वर्धते मदमञ्जुलम्
क्षीयते च मयूराणां रुतं उत्क्रान्तसौष्ठवम् ।। २.३३४ ।।

प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते
रागेण पुनराक्रान्तं जायते जगतां मनः ।। २.३३५ ।।

तनुमध्यं पृथुश्रोणि रक्तौष्ठं असितेक्षणम्
नतनाभि वपुः स्त्रीणां कं न हरत्युन्नतस्तनम् ।। २.३३६ ।।

मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम्
अपि ते रूपं अस्माकं तन्वि तापाय कल्पते ।। २.३३७ ।।

उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः
उदश्रयन्ति पान्थानां अस्पृशन्तोऽपि लोचने ।। २.३३८ ।।

कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी
याति विश्वसनीयत्वं कस्य ते कलभाषिनि ।। २.३३९ ।।

इत्यनेकप्रकारोऽयं अलंकारः प्रतीयते ।।इति विरोधचक्रम् ।।
अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः ।। २.३४० ।।

सुखं जीवन्ति हरिणा वनेष्वपरसेविनः
अन्नैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः ।। २.३४१ ।।

सेयं अप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना ।।इत्यप्रस्तुतप्रशंसा ।। ।। २.३४२ ।।

यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्म्र्ता
दोषाभासा गुणा एव लभन्ते ह्यत्र संनिधिम् ।। २.३४३ ।।

तापसेनापि रामेण जितेयं भूतधारिणी
त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव ।। २.३४४ ।।

पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते
राजन्निक्षाकुवंशस्य किं इदं तव युज्यते ।। २.३४५ ।।

भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी
अहङ्कारः परां कोटिं आरोहति कुतस्तव ।। २.३४६ ।।

इति श्लेषानुविद्धानां अन्येषां चोपलक्ष्यताम्
व्याजस्तुतिप्रकाराणां अपर्यन्तस्तु विस्तरः ।।इति व्याजस्तुतिः ।। ।। २.३४७ ।।

अर्थान्तरप्रवृत्तेन किं चित्तत्सदृशं फलम्
सदसद्वा निदर्श्येत यदि तत्स्यान्निदर्शनम् ।। २.३४८ ।।

उदयन्नेष सविता पद्मेष्वर्पयति श्रियम्
विभावयितुं ऋद्धीनां फलं सुहृदनुग्रहम् ।। २.३४९ ।।

याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवम्
सद्यो राजविरुद्धानां सूचयन्ती दुरन्ततां ।।इति निदर्शनम् ।। ।। २.३५० ।।

सहोक्तिः सहभावेन कथनं गुणकर्मणाम्
अर्थानां यो विनिमयः परिवृत्तिस्तु सा स्मृता ।। २.३५१ ।।

सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः
पाण्डुराश्च ममैवाङ्गेः सह ताश्चन्द्रभूषणाह् ।। २.३५२ ।।

वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी
पतन्ति च समं तेषां असुभिर्मलयानिलाः ।। २.३५३ ।।

कोकिलालापसुभगा सुगन्धिवनवायवः
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ।। २.३५४ ।।

इत्युदाहृतयो दत्ताः सहोक्तेरत्र काश्चन ।।इति सहोक्तिः ।।
क्रियते परिवृत्तेश्च किं चिद्रूपनिदर्शनम् ।। २.३५५ ।।

शस्त्रप्रहारं ददता भुजेन तव भूभुजाम्
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरं ।।इति परिवृत्तिः ।। ।। २.३५६ ।।

आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा
पातु वः परमं ज्योतिरवाङ्मनसगोचरं ।।इत्याशीः ।। ।। २.३५७ ।।

अनन्वयससंदेहाव् उपमास्वेव दर्शितौ
उपमारूपकं चापि रूपकेष्वेव दर्शितम् ।। २.३५८ ।।

उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि च
नानालंकारसंसृष्टिः संसृष्टिस्तु निगद्यते ।। २.३५९ ।।

अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता
इत्यलंकारसंसृष्टेर्लक्षणीया द्वयी गतिः ।। २.३६० ।।

आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम्
कोशदण्डसमग्राणां किं एषां अस्ति दुष्करम् ।। २.३६१ ।।

लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।। २.३६२ ।।

श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम्
भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयं ।।इति संसृष्तिः ।। ।। २.३६३ ।।

तद्भाविकं इति प्राहुः प्रबन्धविषयं गुणम्
भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः ।। २.३६४ ।।

परस्परोपकारित्वं सर्वेषां वस्तुपर्वणाम्
विशेषाणां व्यर्थानां अक्रिया स्थानवर्णना ।। २.३६५ ।।

व्यक्तिरुक्तिक्रमबलाद्गम्भीरस्यापि वस्तुनः
भावायत्तां इदं सर्वं इति तद्भाविकं विदुः ।।इति भाविकम् ।। ।। २.३६६ ।।

यच्च संध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे
व्यावर्णितं इदं चेष्टं अलङ्कारतयाइव नः ।। २.३६७ ।।

पन्थाः स एष विवृतः परिमाणवृत्त्या संहृत्य विस्तरं अनन्तं अलङ्क्रियाणाम्
वाचां अतीत्य विषयं परिवर्तमानान् अभ्यास एव विवरीतुं अलं विशेषान् ।। २.३६८ ।।


इत्याचार्यदण्डिनः कृतौ काव्यादर्शेऽर्थालङ्कारविभागो नाम द्वितीयो परिच्छेदः ।।