काव्यादर्शः/प्रथमपरिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
काव्यादर्शः
प्रथमपरिच्छेदः
दण्डिनः
द्वितोयपरिच्छेदः →

दण्डिन् काव्यादर्श

चतुर्मुखमुखाम्भोजवनहंसवधूर्मम
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ।। १.१ ।।

पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च
यथासामर्थ्यंमस्माभिः क्रियते काव्यलक्षणम् ।। १.२ ।।

इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा
वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ।। १.३ ।।

इदमन्धन्तमः कृत्स्नं जायेत भुवनत्रयम्
यदि शब्दाहवयं ज्योतिरासंसारन्न दीप्यते ।। १.४ ।।

आदिराजयशोबिम्बं आदर्शं प्राप्य वाङ्मयम्
तेषां असंनिधानेऽपि न स्वयं पश्य नश्यति ।। १.५ ।।

गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः
दुष्प्रयुक्ता पुनार्गोत्वं प्रयोक्तुः सैव शंसति ।। १.६ ।।

तदल्पं अपि नोपेक्ष्यं काव्ये दुष्टं कथं चन
स्याद्वपुः सुन्दरं अपि श्वित्रेणैकेन दुर्भगम् ।। १.७ ।।

गुणदोषानशास्त्रज्ञः कथं विभजते जनः
किं अन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु ।। १.८ ।।

अतः प्रजानां (व्ल्. पदानां) व्युत्पत्तिं अभिसंधाय सूरयः
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ।। १.९ ।।

तैः शरीरं च काव्यानां अलंकाराश्च दर्शिताः
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ।। १.१० ।।

पद्यं गद्यं च मिश्रं च तत्त्रिधैव व्यवस्थितम्
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ।। १.११ ।।

छन्दोविचित्यां सकलस्तप्रपञ्चो निदर्शितः
सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरम् ।। १.१२ ।।

मुक्तकं कुलकं कोषः संघात इति तादृशः
सर्गबन्धांशरूपत्वादनुक्तः पद्यविस्तरः ।। १.१३ ।।

सर्गबन्धो महाकव्यं उच्यते तस्य लक्षणम्
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम् ।। १.१४ ।।

इतिहासकथोद्भूतं इतरद्वा सदाश्रयम्
चतुर्वर्गफलायत्तं चतुरुदात्तनायकम् ।। १.१५ ।।

नगरार्णवशैलार्तुचन्द्रार्कोदयवर्णनैः
उद्यानसलिलकृईडामधुपानरतोत्सवैः ।। १.१६ ।।

विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि ।। १.१७ ।।

अलंकृतं असंक्षिप्तं रसभावनिरन्तरम्
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसंधिभिः ।। १.१८ ।।

सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनम्
काव्यं कल्पान्तरस्थायि जायते सदलंकृति ।। १.१९ ।।

न्यूनं अप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति
यद्युपात्तेषु संपत्तिराराधयति तद्विधः ।। १.२० ।।

गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम्
निराकरणं इत्येष मार्गः प्रकृतिसुन्दरः ।। १.२१ ।।

वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः ।। १.२२ ।।

अपादः पदसंतानो गद्यं आख्यायिका कथा
इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल ।। १.२३ ।।

नायकेनैव वाच्यान्या नायकेनेतरेण वा
स्वगुणाविष्क्रियादोषो नात्रा भूर्तार्थशंसिनः ।। १.२४ ।।

अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्
अन्यो वक्ता स्वयं वेति कीदृग्वा भेदकारणं (व्ल्. लक्षणम्) ।। १.२५ ।।

वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वम् च भेदकम्
चिह्नं आख्यायिकायाश्चेत्प्रसङ्गेन कथास्वपि ।। १.२६ ।।

आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः
भेदश्च दृष्टो लम्भादिरुच्छ्वासो वस्तु किं ततः ।। १.२७ ।।

तत्कथाख्यायिकेत्युक्ता जातिः संज्ञाद्वयाङ्किता
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ।। १.२८ ।।

कन्याहरणसंग्रामविप्रलम्भोदयादयः
सर्गबन्धसमा एव नैते वैशेषिका गुणाः ।। १.२९ ।।

कविभावकृतं चिह्नं अन्यत्रापि न दुष्यति
मुखं इष्टास्र्थसंसिद्धौ किं हि न स्यात्कृतात्मनाम् ।। १.३० ।।

मिश्राणि नाटकादीनि तेषां अन्यत्र विस्तरः
गद्यपद्यमयी का चिच्चम्पूरित्यभिधीयते ।। १.३१ ।।

तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा
अपभ्रंशाश्च मिश्रं चेत्याहुरार्याश्चतुर्विधम् ।। १.३२ ।।

संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः
तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः ।। १.३३ ।।

महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ।। १.३४ ।।

शौरसेनी च गौडी च लाटी चान्या च तादृशी
याति प्राकृतं इत्येवम् व्यवहारेषु संनिधिम् ।। १.३५ ।।

आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः
शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितम् ।। १.३६ ।।

संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत्
ओसरादिरपभ्रंशो नाटकादि तु मिश्रकम् ।। १.३७ ।।

कथा हि सर्वभाषाभिः संस्कृतेन च बध्यते
भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम् ।। १.३८ ।।

लास्यच्छलितशम्पादि प्रेक्षार्थं इतरत्पुनः
श्रव्यं एवेति सैषापि द्वयी गतिरुदाहृता ।। १.३९ ।।

अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम्
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ।। १.४० ।।

श्लेषः प्रसादः समता माधुर्यं सुकुमारता
अर्थव्यक्तिरुदारत्वं ओजःकान्तिसमाधयः ।। १.४१ ।।

इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः
एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि ।। १.४२ ।।

श्लिष्टं अस्पृष्टशैथिल्यं अल्पप्राणाक्षरोत्तरम्
शिथिलं मालतीमाला लोलालिकलिला यथा ।। १.४३ ।।

अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवात्
वैदर्भमालतीदाम लङ्घितं भ्रमरैरिति ।। १.४४ ।।

प्रसादवत्प्रसिद्धार्थं इन्दोरिन्दीवरद्युति
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः ।। १.४५ ।।

व्युत्पन्नं इति गौडीयैर्नातिरूढं अपीष्यते
यथानत्यर्जुनाब्जन्मसदृक्षाङ्को वलक्षगुः ।। १.४६ ।।

समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः ।। १.४७ ।।

कोकिलालापवाचालो ममैति मलयानिलः
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः ।। १.४८ ।।

चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः ।। १.४९ ।।

इत्यनालोच्य वैषम्यं अर्थालंकारडमबरौ
अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः ।। १.५० ।।

मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः ।। १.५१ ।।

यया कया चिच्छ्रुत्या यत्समानं अनुभूयते
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा ।। १.५२ ।।

एष राजा यदा लक्ष्मीं प्राप्तवान्ब्राह्मणप्रियः
तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवत् ।। १.५३ ।।

इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः
अनुप्रासादपि प्रायो वैदर्भैरिदं ईप्सितम् ।। १.५४ ।।

वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च
पूर्वानुभवसंस्कारबोधिनी यद्यदूरता ।। १.५५ ।।

चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे
इन्द्रनीलनिभं लक्ष्म संदधात्यलिनः श्रियम् ।। १.५६ ।।

चारु चान्द्रमसं भीरु बिम्बं पश्यैतदम्बरे
मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुं उद्यतम् ।। १.५७ ।।

इत्यनुप्रासं इच्छन्ति नातिदूरान्तरश्रुतिम्
न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति ।। १.५८ ।।

स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः
च्युतो मानोधिको रागो मोहो जातोसवो गताः ।। १.५९ ।।

इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति
अतो नैवं अनुप्रासं दाक्षिणात्याः प्रयुञ्जते ।। १.६० ।।

आवृत्तिं वर्णसंघातगोचरां यमकं विदुः
तत्तु नैकान्तमधुरमतः पश्चाद्विधास्यते ।। १.६१ ।।

कामं सर्वोऽप्यलंकारो रसं अर्थे निषिञ्चति
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा ।। १.६२ ।।

कन्ये कामयमानं मां न त्वं कामयसे कथम्
इति ग्राम्योऽयं अर्थात्मा वैरस्याय प्रकल्पते ।। १.६३ ।।

कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः
त्वयि निर्मत्सरो दिष्ट्येत्यग्रामोऽर्थो रसावहः ।। १.६४ ।।

शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनात्
यथा यकारादिपदम् रत्युत्सवनिरूपणे ।। १.६५ ।।

पदसंधानवृत्त्या वा वाक्यार्थत्वेन वा पुनः
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया ।। १.६६ ।।

खरं प्रहत्य विश्रान्तः पुरुषो वीर्यवानिति
एवमादि न शंसन्ति मार्गयोरुभयोरपि ।। १.६७ ।।

भगिनीभगवत्यादि सर्वत्रैवानुमन्यते
विभक्तं इति माधुर्यं उच्यते सुकुमारता ।। १.६८ ।।

अनिष्ठुराक्षरप्रायं सुकुमारं इहेष्यते
बन्धशैथिल्यदोषोऽपि दर्शितः सर्वकोमले ।। १.६९ ।।

मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ।। १.७० ।।

इत्यनूर्जित एवार्थो नालंकारोऽपि तादृशः
सुकुमारतयैवैतदारोहति सतां मनः ।। १.७१ ।।

दीप्तं इत्यपरैर्भूम्ना कृच्छ्रोद्यं अपि बध्यते
न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति ।। १.७२ ।।

अर्थव्यक्तिरनेयत्वं अर्थस्य हरिणोद्धृता
भूः खुरक्षुण्णनागासृग्लोहितादुदधेरिति ।। १.७३ ।।

मही महावराहेण लोहितादुद्धृतोदधेः
इतीयत्येव निर्दिष्टे नेयत्वं उरगासृजः ।। १.७४ ।।

नेदृशं बहु मन्यत्ने मार्गयोरुभयोरपि
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी ।। १.७५ ।।

उत्कर्षवान्गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ।। १.७६ ।।

अर्थिणां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत्
तदवस्था पुनर्देव नान्यस्य मुखं ईक्षते ।। १.७७ ।।

इति त्यागस्य वाक्येऽस्मिन्नुत्कर्षः साधु लक्ष्यते
अनेनैव पथान्यच्च समानन्यायं ऊह्यताम् ।। १.७८ ।।

श्लाघ्यैर्विशेषणैर्युक्तं उदारं कैश्चिदिष्यते
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ।। १.७९ ।।

ओजः समासभूयस्त्वं एतद्गद्यस्य जीवितम्
पद्येऽप्यदक्षिणात्यानां इदं एकं परायणम् ।। १.८० ।।

तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः
उच्चावचप्रकारं तद्दृश्यं आख्यायिकादिषु ।। १.८१ ।।

अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा
पीनस्तनस्थितातांरकम्रवस्त्रेव वारुणी ।। १.८२ ।।

इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीगिरः
अन्ये त्वनाकुलं हृद्यं इच्छन्त्योजो गिरां यथा ।। १.८३ ।।

पयोधरतटोत्सङ्गलग्नसंध्यातपांशुका
कस्य कामातुरं चेतो वारुणी न करिष्यति ।। १.८४ ।।

कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमात्
तच्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते ।। १.८५ ।।

गृहाणि नाम तान्येव तपोराशिर्भवादृशः
संभावयति यान्येव पावनैः पादपांसुभिः ।। १.८६ ।।

अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ।। १.८७ ।।

इति सम्भाव्यं एवैतद्विशेषाख्यानसंस्कृतम्
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ।। १.८८ ।।

लोकातीत इवात्यर्थं अध्यारोप्य विवक्षितः
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ।। १.८९ ।।

देवाधिष्ण्यं इवाराध्यं अद्यप्रभृति नो गृहम्
युष्मत्पादरजःपातधौतनिःशेषकिल्बिषम् ।। १.९० ।।

अल्पं निर्मितं आकाशं अनालोच्यैव वेधसा
इदं एवंविधिं भावि भवत्याः स्तनजृम्भणम् ।। १.९१ ।।

इदं अत्युक्तिरित्युक्तं एतद्गौडोपलालितम्
प्रस्थानं प्राक्प्रणीतं तु सारं अन्यस्य वर्त्मनः ।। १.९२ ।।

अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ।। १.९३ ।।

 कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च
 इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः ।। १.९४ ।।

 निष्टःयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम्
 अतिसुन्दरं अन्यत्र ग्राम्यकक्षां विगाहते ।। १.९५ ।।

 पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः
 भूयो वमन्तीव मुखैर् उद्गीर्णारुणरेणुभिः ।। १.९६ ।।

 इति हृदमहृद्यं तु निष्ठीवति वधूरिति
 युगपन्नैकधर्माणां अध्यासश्च स्मृतो यथा ।। १.९७ ।।

 गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः
 अचलाधित्यकोत्सङ्गं इमाः समधिशेरते ।। १.९८ ।।

 उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः
 इतीमे गर्भिणीधर्मा बहवोऽप्यत्र दर्शिताः ।। १.९९ ।।

 तदेतत्काव्यसर्वस्वं समाधिर्नाम यो गुणः
 कविसार्थः समग्रोऽपि तं एनं अनुगच्छति ।। १.१०० ।।

 इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणात्
 तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः ।। १.१०१ ।।

 इक्षुक्षीरगुडादीनाम् माधुर्यस्यान्तरं महत्
 तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ।। १.१०२ ।।

 नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम्
 अमन्दश्चाभियोगोऽस्याः कारणं काव्यसंपदः ।। १.१०३ ।।

 न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिभानं अद्भुतम्
 श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कं अप्यनुग्रहम् ।। १.१०४ ।।

 तदस्ततन्द्रैरनिशं सरस्वती श्रमादुपास्या खलु कीर्तिं ईप्सुभिः
 कृशे कवित्वेऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुं ईशते ।। १.१०५ ।।


 इत्याचार्यदण्डिनः कृतौ काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः