कामसूत्रम्/अधिकरणम् ६/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ कामसूत्रम्
अध्यायः ४
वात्स्यायन:
अध्यायः ५ →

वर्तमानं निष्पीडितार्थं उत्सृजन्ती पूर्वसंसृष्टेन सह सन्दध्यात्. ॥ ६.४.१ ॥

स चेदवसितार्थो वित्तवान्सानुरागश्च ततः सन्धेयः. ॥ ६.४.२ ॥

अन्यत्र गतस्तर्कयितव्यः. स कार्ययुक्त्या षड्विधः. ॥ ६.४.३ ॥

इतः स्वयं अपसृतस्ततोऽपि स्वयं एवापसृतः [१].. ॥ ६.४.४ ॥

इतस्ततश्च निष्कासितापसृतः [२.] ॥ ६.४.५ ॥

इतः स्वयं अपसृतस्ततो निष्कासितापसृतः [३]. ॥ ६.४.६ ॥

इतः स्वयं अपसृतस्तत्र स्थितः [४]. ॥ ६.४.७ ॥

इतो निष्कासितापसृतस्ततः स्वयं अपसृतः [५]. ॥ ६.४.८ ॥

इतो निष्कासितापसृतस्तत्र स्थितः [६]. ॥ ६.४.९ ॥

इतस्ततश्च स्वयं एवापसृत्योपजपति चेदुभयोर्गुणानपेक्षी चलबुद्धिरःसन्धेयः [१]. ॥ ६.४.१० ॥

इतस्ततश्च निष्कासितापसृतः स्थिरबुद्धिः. स चेदन्यतो बहु लभमानया निष्कासितः स्यात्सःसारोऽपि तया रोषितो ममाःमर्षाद्बहु दास्यतीति संधेयः [२अ]. ॥ ६.४.११ ॥

निःसारतया कदर्यतया वा त्यक्तो न श्रेयान्[२ब्]. ॥ ६.४.१२ ॥

इतः स्वयं अपसृतस्ततो निष्कासितापसृतो यद्यतिरिक्तं आदौ च दद्यात्ततः प्रतिग्राह्यः [३]. ॥ ६.४.१३ ॥

इतः स्वयं अपसृत्य तत्र स्थित उपजपंस्तर्कयितव्यः. ॥ ६.४.१४ ॥

विशेषार्थी चागतस्ततो विशेषं अःपस्यन्नागन्तुकामो मयि मां जिज्ञासितुकामः सा आगत्य सानुरागत्वाद्दास्यति. तस्यां वा दोषान्दृष्ट्वा मयि भूयिष्ठान्गुणानधुना पश्यति स गुणदर्शी भूयिष्ठं दस्याति [४अ]. ॥ ६.४.१५ ॥

बालो वा नैकत्रदृष्टिरतिसंधानप्रधानो वा हरिद्रारागो वा यत्किंचनकारी वेत्यवेत्य संदध्यान्न वा [४ब्]. ॥ ६.४.१६ ॥

इतो निष्कासितापसृतस्ततः स्वयं उपसृत उपजपंस्तर्कयितव्यः. ॥ ६.४.१७ ॥

अनुरागादागन्तुकामः स बहु दास्यति. मम गुणैर्भावितो योऽन्यस्यां न रमते [५अ]. ॥ ६.४.१८ ॥

पूर्वं अःयोगेन वा मया निष्कासितः स मां शीलयित्वा वैरं निर्यातयितुकामो धनं अभियोगाद्वा मयास्यापहृतं तद्विश्वास्य प्रतीपं आदातुकामो निर्वेष्टुकामो वा मां वर्तमानाद्भेदयित्वा त्यक्तुकाम इत्यःकल्याणबुद्धिरःसन्धेयः [५ब्]. ॥ ६.४.१९ ॥

अन्यथाबुद्धिः कालेन लम्भयितव्यः [५च्]. ॥ ६.४.२० ॥

इतो निष्कासितस्तत्र स्थित उपजपन्नेतेन व्याख्यातः [६]. ॥ ६.४.२१ ॥

तेषूपजपत्स्वन्यत्र स्थितः स्वयं उपजपेत्. ॥ ६.४.२२ ॥

व्यालीकार्थं निष्कासितो मयासावन्यत्र गतो यत्नादानेतव्यः. ॥ ६.४.२३ ॥

इतः प्रवृत्तसंभाषो वा ततो भेदं अवाप्स्यति. ॥ ६.४.२४ ॥

तदर्थाभिघातं करिष्यति. ॥ ६.४.२५ ॥

अर्थागमकाले वास्य. स्थानवृद्धिरस्य जाता. लब्धं अनेनाधिकरणम्. दारैर्वियुक्तः पारतन्त्र्याद्व्यावृत्तः. पित्रा भ्रात्रा वा विभक्तः. ॥ ६.४.२६ ॥

अनेन वा प्रतिबद्धं अनेन सन्धिं कृत्वा नायकं धनिनं अवाप्स्यामि. ॥ ६.४.२७ ॥

विमानिता वा भार्यया तं एव तस्यां विक्रमयिष्यामि. ॥ ६.४.२८ ॥

अस्य वा मित्रं मद्द्वेषिणींसःपत्नीं कामयते तदमुना भेदयिष्यामि. ॥ ६.४.२९ ॥

चलचित्ततया वा लाघवं एनं आपादयिष्यामीति. ॥ ६.४.३० ॥

तस्य पीठमर्दादयो मातुर्दौःशील्येन नायिकायाः सत्यप्यनुरागे विवशायाः पूर्वं निष्कासनं वर्णयेयुः. ॥ ६.४.३१ ॥

वर्तमानेन चाःकामायाः संसर्गं विद्वेषं च. ॥ ६.४.३२ ॥

तस्याश्च साभिज्ञानैः पूर्वानुरागैरेनं प्रत्यापयेयुः. ॥ ६.४.३३ ॥

अभिज्ञानं च तकृतोपकारसंबद्धं स्याद् ॥ ६.४.३४ ॥



  1. ५६ इति विशीर्णप्रतिसंधानम्((१७२)).

अःपूर्वपूर्वसंसृष्टयोः पूर्वसंसृष्टः श्रेयान्. स हि विदितशीलो दृष्टरागश्च सूपचारो भवतीत्याचार्याः. ॥ ६.४.३५ ॥

पूर्वसंसृष्टः सर्वतो निष्पीडितार्थत्वान्नात्यःअर्थं अर्थदो दुःखं च पुनर्विश्वासयितुम्. अःपूर्वस्तु सुखेनानुरज्यत इति वात्स्यायनः. ॥ ६.४.३६ ॥

तथापि पुरुषप्रकृतितो विशेषः. ॥ ६.४.३७ ॥

भवन्ति चात्र श्लोकाः ॥ ६.४.३८ ॥

वन्यां भेदयितुं गम्यादन्यतो गम्यं एव वा. स्थितस्य चोपघातार्थं पुनः संधानं इष्यते.. ॥ ६.४.३८ ॥

व्बिभेत्यन्यस्य संयोगाद्व्यालीकानि च नेक्षते. अतिःसक्तः पुमान्यत्र बयाद्बहु ददाति च.. ॥ ६.४.३९ ॥

वःसक्तं अभिनन्देत सक्तं परिभवेत्तथा. अन्यदूतानुपाते च यः स्यादतिःविशारदः.. ॥ ६.४.४० ॥

व्तत्रोपयायिनं पूर्वं नारी कालेन योजयेत्. भवेच्चाःच्छिन्नसंधाना न च सक्तं परित्यजेत्.. ॥ ६.४.४१ ॥

व्सक्तं तु वशिनं नारी संभाव्याप्यन्यतो व्रजेत्. ततश्चार्थं उपादाय सक्तं एवानुरञ्जयेत्.. ॥ ६.४.४२ ॥

वायतिं प्रसमीक्ष्यादौ लाभं प्रीतिं च पुष्कलाम्. सौहृदं प्रतिसंदध्याद्विशीर्णं स्त्री विचक्षणा((१७३)).. ॥ ६.४.४३ ॥

चिति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे विशीर्णप्रतिसंधानं चतुर्थोऽध्यायः..ले‡ओन्५ पञ्चमोऽध्यायः ॥ ६.४ ॥