सामग्री पर जाएँ

कामसूत्रम्/अधिकरणम् ६/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ कामसूत्रम्
अध्यायः २
वात्स्यायन:
अध्यायः ३ →

संयुक्ता नायकेन तद्रण्जनार्थं एकचारिणीवृत्तं अनुतिष्ठेत्((१६६)). ॥ ६.२.१ ॥

रञ्जयेन्न तु सज्जेत सक्तवच्च विचेष्टेतेति संक्षेपोक्तिः. ॥ ६.२.२ ॥

मातरि च क्रूरशीलायां अर्थपरायां चायत्ता स्यात्. ॥ ६.२.३ ॥

तदःभावे मातृकायाम्. ॥ ६.२.४ ॥

सा तु गम्येन नातिप्रीयेत. ॥ ६.२.५ ॥

प्रसह्य च दुहितरं आनयेत्. ॥ ६.२.६ ॥

तत्र तु नायिकायाः संततं अःरतिर्निर्वेदो व्रीडां भयं च. ॥ ६.२.७ ॥

न त्वेव शासनातिवृत्तिः. ॥ ६.२.८ ॥

व्याधिं चैकं अःनिमित्तं अःजुगुप्सितं अःचक्षुर्ग्राह्यं अःनित्यं च ख्यापयेत्. ॥ ६.२.९ ॥

सति कारणे तदपदेशं च नायकानःअभिगमनम्. ॥ ६.२.१० ॥

निरःमाल्यस्य तु नायिका चेटिकां प्रेषयेत्ताम्बूलस्य च. ॥ ६.२.११ ॥

व्यवाये तदुपचारेषु विस्मयः. ॥ ६.२.१२ ॥

चतुःषष्ट्यां शिष्यत्वम्. ॥ ६.२.१३ ॥

तदुपदिष्टानां च योगानां आभीक्ष्ण्येनानुयोगः. ॥ ६.२.१४ ॥

तत्सात्म्याद्रहसि वृत्तिः. ॥ ६.२.१५ ॥

मनोरथानां आख्यानम्. ॥ ६.२.१६ ॥

गुह्यानां वैकृतप्रच्छादनम्. ॥ ६.२.१७ ॥

शयने परावृत्तस्यानुपेक्षणम्. ॥ ६.२.१८ ॥

आनुलोम्यं गुह्यस्पर्शने. ॥ ६.२.१९ ॥

सुप्तस्य चुम्बनं आलिङ्गनं च. ॥ ६.२.२० ॥

प्रेक्षणं अन्यमनस्कस्य. राजमार्गे च प्रासादस्थायास्तत्र विदिताया व्रीडा शाठ्यनाशः. ॥ ६.२.२१ ॥

तद्द्वेष्ये द्वेष्यता. तत्प्रिये प्रियता. तद्रम्य रतिः. तं अनु हर्षशोकौ. स्त्रीषु जिज्ञासा. कोपश्चाःदीर्गः. ॥ ६.२.२२ ॥

स्वकृतेष्वपि नखदशनचिह्नेष्वन्याशङ्का. ॥ ६.२.२३ ॥

अनुरगस्याःवचनम्. ॥ ६.२.२४ ॥

आकारतस्तु दर्शयेत्. ॥ ६.२.२५ ॥

मदस्वप्नव्याधिषु तु निर्वचनम्. ॥ ६.२.२६ ॥

श्लाघ्यानां नायककर्मणां च. ॥ ६.२.२७ ॥

तस्मिन्ब्रुवाणे वाक्यार्थग्रहणम्. तदवधार्य प्रशंसाविषये भाषणम्. तद्वाक्यस्य चोत्तरेण योजनम्. भक्तिमांश्चेत्. ॥ ६.२.२८ ॥

कथास्वनुवृत्तिरन्यत्र सःपत्न्याः. ॥ ६.२.२९ ॥

निःश्वासे जृम्भते स्खलिते पतिते वा तस्य चार्तिं आशंसीत. ॥ ६.२.३० ॥

क्षुतव्याहृतविस्मितेषु जीवेत्युदाहरणम्. ॥ ६.२.३१ ॥

दौर्मनस्ये व्याधिदौर्हृदापदेशः. ॥ ६.२.३२ ॥

गुणतः परस्याःकीर्तनम्. ॥ ६.२.३३ ॥

न निन्दा समानदोषस्य. ॥ ६.२.३४ ॥

दत्तस्य धारणम्. ॥ ६.२.३५ ॥

वृथापराधे तद्व्यसने वालङ्कारस्याःग्रहणं अःभोजनं च. ॥ ६.२.३६ ॥

तद्युक्ताश्च विलापाः. ॥ ६.२.३७ ॥

तेन सह देशमोक्षं रोचयेत्राजनि निष्क्रयं च. ॥ ६.२.३८ ॥

सामर्थ्यं आयुष्यस्तदवाप्तौ. ॥ ६.२.३९ ॥

तस्यार्थाधिगमेऽभिप्रेतसिद्धौ शरीरोपचये वा पूर्वसंभाषित इष्टदेवतोपहारः. ॥ ६.२.४० ॥

नित्यं अलङ्कारयोगः. परिमितोऽभ्यवहारः.. ॥ ६.२.४१ ॥

गीते च नामगोत्रयोर्ग्रहणम्. ग्लान्यां उरसि ललाटे च करं कुर्वीत. तत्सुखं उपलभ्य निद्रालाभः. ॥ ६.२.४२ ॥

औत्सङ्गे चास्योपवेशनं स्वपनं च. गमनं वियोगे. ॥ ६.२.४३ ॥

तस्मात्पुत्रार्थिनी स्यात्. आयुषो नाधिक्यं इच्छेत्. ॥ ६.२.४४ ॥

एतस्याःविज्ञातं अर्थं रहसि न ब्रूयात्. ॥ ६.२.४५ ॥

व्रतं उपवासं चास्य निर्वर्तयेत्मयि दोष इति. अःशक्ये स्वयं अपि तद्रूपा स्यात्. ॥ ६.२.४६ ॥

विवादे तेनाप्यःशक्यं इत्यर्थनिर्देशः. ॥ ६.२.४७ ॥

तदीयं आत्मीयं वा स्वयं अःविशेषेण पश्येत्. ॥ ६.२.४८ ॥

तेन विना गोष्ठ्यादीनां अःगमनं इति. ॥ ६.२.४९ ॥

निरःमाल्यधारणे श्लाघा उच्छिष्टभोजने च. ॥ ६.२.५० ॥

कुलशीलशिल्पजातिविद्यावर्णवित्तदेशमित्रगुणवयोमाधुर्यपूजा. ॥ ६.२.५१ ॥

गीतादिषु चोदनं अभिज्ञस्य. ॥ ६.२.५२ ॥

भयशीतोष्णवर्षाण्यनःअपेक्ष्य तदभिगमनम्. ॥ ६.२.५३ ॥

स एव च मे स्यादित्यौर्ध्वदेहिकेषु वचनम्. ॥ ६.२.५४ ॥

तदिष्टरसभावशीलानुवर्तनम्. ॥ ६.२.५५ ॥

मूलकर्माभिशङ्का. ॥ ६.२.५६ ॥

तदभिगमने च जनन्या सह नित्यो विवादः. ॥ ६.२.५७ ॥

बलात्कारेण च यद्यन्यत्र तया नीयेत तदा विषं अनःअशनं शस्त्रं रज्जुं इति कामयेत. ॥ ६.२.५८ ॥

प्रत्यायनं च प्रणिधिभिर्नायकस्य. स्वयं वात्मनो वृत्तिग्रहणम्. ॥ ६.२.५९ ॥

न त्वेवार्थेषु विवादः. ॥ ६.२.६० ॥

मात्रा विना किं चिन्न चेष्टेत. ॥ ६.२.६१ ॥

प्रवासे शीघ्रागमनाय शापदानम्. ॥ ६.२.६२ ॥

प्रोषिते मृजानियमश्चालङ्कारस्य प्रतिषेधः. मङ्गलं त्वपेक्ष्यम्. एकं शङ्खवलयं वा धारयेत्. ॥ ६.२.६३ ॥

स्मरणं अतीतानाम्. गमनं ईक्षणिकोपश्रुतीनाम्. नक्षत्रचन्द्रसूर्यताराभ्यः स्पृहणम्. ॥ ६.२.६४ ॥

इष्टस्वप्नप्रदर्शने तत्सङ्गमो ममास्त्विति वचनम्. ॥ ६.२.६५ ॥

उद्वेगोऽनःइष्टे सान्तिकर्म च. ॥ ६.२.६६ ॥

प्रत्यागते कामपूजा. ॥ ६.२.६७ ॥

देवतोपहाराणां करणम्. ॥ ६.२.६८ ॥

सखीभिः पूर्णपात्रस्याहरणम्. ॥ ६.२.६९ ॥

वायसपूजा च. ॥ ६.२.७० ॥

प्रथमसमागमानःअन्तरं चैतदेव वायसपूजावर्जम्. ॥ ६.२.७१ ॥

सक्तस्य चानुमरणं ब्रूयात्. ॥ ६.२.७२ ॥

निसृष्टभावः समानवृत्तिः प्रयोजनकारी निरःआशङ्को निरःअपेक्षोऽर्थेष्विति सक्तलक्षणानि. ॥ ६.२.७३ ॥

तदेतन्निदर्शनार्थं दत्तकशासनादुक्तम्. अनःउक्तं च लोकतः शीलयेत्पुरुषप्रकृतितश्च. ॥ ६.२.७४ ॥

भवतश्चात्र श्लोकौ ॥ ६.२.७५ ॥

व्सूक्ष्मत्वादतिःलोभाच्च प्रकृत्याज्ञानतस्तथा. कामलक्ष्म तु दुरःजानं स्त्रीणां तद्भावितैरपि.. ॥ ६.२.७५ ॥

व्कामयन्ते विरज्यन्ते रञ्जयन्ति त्यजन्ति च. कर्षयन्त्योऽपि सर्वार्थाञ् ज्ञायन्ते नैव योषितः((१६७)).. ॥ ६.२.७६ ॥

 चिति श्री वात्स्यायनीये कामसूत्रे वैशिके षष्ठेऽधिकरणे कान्तानुवृत्तं द्वितीयोऽध्यायः. ॥ ६.२ ॥