सामग्री पर जाएँ

कामसूत्रम्/अधिकरणम् ५/अध्यायः १

विकिस्रोतः तः
← अधिकरणम् ४, अध्यायः २ कामसूत्रम्
अध्यायः १
वात्स्यायन:
अध्यायः २ →

व्याख्यातकारणाः परपरिग्रहोपगमाः((१३०)). ॥ ५.१.१ ॥

तेषु साध्यत्वं अनःअत्ययं गम्यत्वं आयतिं वृत्तिं चादित एव परीक्षेत. ॥ ५.१.२ ॥

यदा तु स्थानात्स्थानान्तरं कामं प्रतिपद्यमानं पश्येत्तदात्मशरीरोपघातत्राणार्थं परपरिग्रहानभ्युपगच्छेत्. ॥ ५.१.३ ॥

दश तु कामस्य स्थानानि. ॥ ५.१.४ ॥

[१]चक्षुःप्रीतिर्[२]मनःसङ्गः [३]संकल्पोत्पत्तिर्[४]निद्राच्छेदस्[५]तनुता [६]विषयेभ्यो व्यावृत्तिर्[७]लज्जाप्रनाश [८]उन्मादो [९]मूर्च्छा [१०]मरणं इति तेषां लिङ्गानि. ॥ ५.१.५ ॥

तत्राकृतितो लक्षणतश्च युवत्याः शीलं सत्यं शौचं साध्यतां चण्डवेगतां च लक्षयेदित्याचार्याः. ॥ ५.१.६ ॥

व्यभिचारादाकृतिलक्षणयोगानां इङ्गिताकाराभ्यां एव प्रवृत्तिर्बोद्धव्या योषित इति वात्स्यायनः. ॥ ५.१.७ ॥

यं किं चिदुज्ज्वलं पुरुषं दृष्त्वा स्त्री कामयते. तथा पुरुषोऽपि योषिताम्. अपेक्षया तु न प्रवर्तते इति गोणिकापुत्रः. ॥ ५.१.८ ॥

तत्र स्त्रियं प्रति विशेषः. ॥ ५.१.९ ॥

न स्त्री धर्मं अःधर्मं चापेक्षते कामयत एव. कार्यापेक्षया तु नाभियुङ्क्ते. ॥ ५.१.१० ॥

स्वभावाच्च पुरुषेणाभियुज्यमाना चिकीर्षन्त्यपि व्यावर्तते. ॥ ५.१.११ ॥

पुनः पुनरभियुक्ता सिद्ध्यति. ॥ ५.१.१२ ॥

पुरुषस्तु धर्मस्थितिं आर्यसमयं चापेक्ष्य कामयमानोऽपि व्यावर्तते. ॥ ५.१.१३ ॥

तथाबुद्धिश्चाभियुज्यमानोऽपि न सिद्ध्यति. ॥ ५.१.१४ ॥

निषःकारणं अभियुङ्क्ते. अभियुज्यापि पुनर्नाभियुङ्क्ते. सिद्धायां च माध्यस्थ्यं गच्छति. ॥ ५.१.१५ ॥

सुःलभां अवमन्यते. दुरःलभां आकङ्क्षत इति प्रायोवादः((१३१)). ॥ ५.१.१६ ॥



सेच्तिओन्(प्रकरण)४०



तत्र व्यावर्तनकारणानि((१३२)). ॥ ५.१.१७ ॥

पत्यावनुरागः. ॥ ५.१.१८ ॥

अपत्यापेक्षा. ॥ ५.१.१९ ॥

अतिक्रान्तवयस्त्वम्. ॥ ५.१.२० ॥

दुःखाभिभवः. ॥ ५.१.२१ ॥

विरहानःउपलम्भः. ॥ ५.१.२२ ॥

अवज्ञयोपमन्त्रयत इति क्रोधः. ॥ ५.१.२३ ॥

अःप्रतर्क्य इति संकल्पवर्जनम्. ॥ ५.१.२४ ॥

गमिष्यतीत्यनःआयतिरन्यत्र प्रसक्तमतिरिति च. ॥ ५.१.२५ ॥

असंवृताकार इत्युद्वेगः. ॥ ५.१.२६ ॥

मित्रेषु निसृष्तभाव इति तेष्वपेक्षा. ॥ ५.१.२७ ॥

शुष्काभियोगीत्याशङ्का. ॥ ५.१.२८ ॥

तेजस्वीति साध्वसम्. ॥ ५.१.२९ ॥

चण्डवेगः समर्थो वेति भयं मृग्याः. ॥ ५.१.३० ॥

नागरकः कलासु विचक्षण इति व्रीडा. ॥ ५.१.३१ ॥

सखित्वेनोपचरित इति च. ॥ ५.१.३२ ॥

अःदेशकालज्ञ इत्यसूया. ॥ ५.१.३३ ॥

परिभवस्थानं इत्यःबहुमानः. ॥ ५.१.३४ ॥

आकारितोऽपि नावबुध्यत इत्यवज्ञा. ॥ ५.१.३५ ॥

शसो मन्दवेग इति च हस्तिन्याः. ॥ ५.१.३६ ॥

मत्तोऽस्य मा भूदनःइष्टं इत्यनुकम्पा. ॥ ५.१.३७ ॥

आत्मनि दोषदर्शनान्निर्वेदः. ॥ ५.१.३८ ॥

विदिता सती स्वजनबहिषःकृता भविष्यामीति भयम्. ॥ ५.१.३९ ॥

पलित इत्यनःआदरः. ॥ ५.१.४० ॥

पत्या प्रयुक्तः परीक्षत इति विमर्शः. ॥ ५.१.४१ ॥

धर्मापेक्षा चेति. ॥ ५.१.४२ ॥

तेषु यदात्मनि लक्षयेत्तदादित एव परिच्छिन्द्यात्. ॥ ५.१.४३ ॥

आर्यत्वयुक्तानि रागवर्धनात्. ॥ ५.१.४४ ॥

अःशक्तिजान्युपायप्रदर्शनात्. ॥ ५.१.४५ ॥

बहुमानकृतान्यतिःपरिचयात्. ॥ ५.१.४६ ॥

परिभवकृतान्यतिःशौण्डीर्याद्((१३३)) वैचक्षण्याच्च. ॥ ५.१.४७ ॥

तत्परिभवजानि प्रणत्या.. ॥ ५.१.४८ ॥

भययुक्तान्याश्वसनादिति((१३४)). ॥ ५.१.४९ ॥



सेच्तिओन्(प्रकरण)४१



पुरुषास्त्वमी प्रायेण सिद्धाः ण् कामसूत्रज्ञः कथाख्यानकुशलो बाल्यात्प्रभृति संसृष्टः प्रवृद्धयौवनः क्रीडनकर्मादिनागतविश्वासः प्रेषणस्य कर्तोचितसंभाषणः प्रियस्य कर्तान्यस्य भूतपूर्वो दूतो मर्मज्ञ उत्तमया प्रार्थितः सख्या प्रच्छन्नं संसृष्टः सुभगाभिख्यातः सहसंवृद्धः प्रातिवेश्यः कामशीलस्तथाभूतश्च परिचारको धात्रेयिकापरिग्रहो नववरकः प्रेक्षोद्यानत्याग शीलो वृष इति सिद्धप्रतापः साहसिकः शूरो विद्यारूपगुणोपभोगैः पत्युरतिशयिता महार्हवेषोपचारश्चेति((१३५)). ॥ ५.१.५० ॥



सेच्तिओन्(प्रकरण)४२



यथात्मनः सिद्धतां पश्येदेवं योषितोऽपि. ॥ ५.१.५१ ॥

अःयत्नसाध्या योषितस्त्विमाः ण् अभियोगमात्रसाध्याः. द्वारदेशावस्थायिनी. प्रासादाद्राजमार्गावलोकिनी. तरुणप्रातिवेश्यगृहे गोष्ठीयोजिनी. सततप्रेक्षिणी. प्रेक्षिता पार्श्वविलोकिनी. निषःकारणं सःपत्न्याधिविन्ना. भर्तृद्वेषिणी विद्विष्टा च. परिहारहीना. निरःअपत्या. ॥ ५.१.५२ ॥

ज्ञातिकुलनित्या. विपन्नापत्या. गोष्ठीयोजिनी. प्रीतियोजिनी. कुशीलवभार्या. मृतपतिका बाला. दरिद्रा बहूपभोगा. ज्येष्ठभार्या बहुदेवरका. बहुमानिनी न्यूनभर्तृका. कौशलाभिमानिनी भर्तुर्मौर्ख्येणोद्विग्ना. अःविशेषतया लोभेन. ॥ ५.१.५३ ॥

कन्याकाले यत्नेन वारिता कथं चिदःलब्धाभियुक्ता च सा तदानीम्. समानबुद्धिशील मेधाप्रतिपत्तिसात्म्या. प्रकृत्या पक्षपातिनी. अनःअपराधे विमानिता.तुल्यरुपाभिश्चाधः कृता. प्रोषितपतिकेति. ईर्ष्यालुपूतिचोक्षक्लीबदीर्घसूत्रकापुरुषकुब्जवामन विरूपमणिकारग्राम्यदुरःगन्धिरोगिवृद्धभार्याश्चेति. ॥ ५.१.५४ ॥

श्लोकावत्र भवतः. ॥ ५.१.५५ ॥

विच्छा स्वभावतो जाता क्रियया परिबृंहिता. बुद्ध्या संशोधितोद्वेगा स्थिरा स्यादनःअपायिनी.. ॥ ५.१.५५ ॥

व्सिद्धतां आत्मनो ज्ञात्वा लिङ्गान्युन्नीय योषिताम्. व्यावृत्तिकारणोच्छेदी नरो योषित्सु सिध्यति((१३६)).. ॥ ५.१.५६ ॥

चिति श्रीवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे स्त्रीपुरुषशीलावस्थापनं व्यावर्तनकारणानि स्त्रीषु सिद्धाः पुरुषा अःयत्नसाध्या योषितः प्रथमोऽध्यायः. ॥ ५.१ ॥