काठकसंहिता (विस्वरः)/स्थानकम् ४०

विकिस्रोतः तः
Jump to navigation Jump to search
← स्थानकं ३९ काठकसंहिता (विस्वरः)
स्थानकम् ४०
[[लेखकः :|]]
वचनम् १  →
हिरण्यगर्भः

अथ चत्वारिंशं स्थानकम् ।

हिरण्यगर्भः।
हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् !
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतश्च राजा पतिर्विश्वस्य जगतो बभूव ।
ईशे यो अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।।
य ओजोदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
येन द्यौरुग्रा पृथिवी च दृढा येन स्वस्स्तभितं येन नाकम् ।
यो अन्तरिक्षं विममे वरीयः कस्मै देवाय हविषा विधेम ॥
य इमे द्यावापृथिवी तस्तभाने अधारयद् रोदसी रेजमाने ।
यस्मिन्नधि विततस्सूर एति कस्मै देवाय हविषा विधेम ॥
यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीः कस्मै देवाय हविषा विधेम ॥
आपो ह यन्महतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम् ।
ततो देवानां निरवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
आ नः प्रजां जनयतु प्रजापतिर्धाता दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिश्चाक्लृपानो मयि पुष्टिं पुष्टिपतिर्दधातु ॥१॥

प्राणापानाभ्यां त्वा सयुजा युजा युनज्म्याघाराभ्यां त्वा सयुजा युजा युनज्मीन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मि च्छन्दोभिस्त्वा स्तोमेभिस्त्वोक्थेभिस्त्वा तेजसे त्वा वर्चसे त्वा रय्यै त्वा पोषाय त्वा सजातानां मध्यमेष्ठेयाय मया त्वा सयुजा युजा युनज्मि ॥
त्वामग्ने वृषभश्चेकितानं पुनर्युवानं जनयन्नुपागाम् ।
अस्थूरि णौ गार्हपत्यानि सन्तु तिग्मेन नौ ब्रह्मणा सँशिशाधि ।।
संवत्सरस्य प्रतिमां ये त्वा रात्र्युपासते ।
तेषामायुष्मतीं प्रजां रायस्पोषेण सँसृज ।। २ ।।

यो अप्स्वन्तरग्निर्यो वृत्रे यः पुरुषे यो अश्मनि ।
य आविवेश भुवनानि विश्वा तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ।
वैश्वानरस्सहसा पृष्टो अग्निस्स नो दिवा स रिषः पातु नक्तम् ॥
यस्सोमे अन्तर्यो गोष्वन्तर्वयाँसि य आविवेश यो मृगेषु ।
य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीमन्तरिक्षं यच्छान्तरिक्षं दृँहान्तरिक्षं मा हिँसीर्विश्वस्मै प्राणाय व्यानायापानायोदानाय प्रतिष्ठायै चरित्राय वायुष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीदान्तरिक्षमधिद्यौर्ब्रह्मणा विष्टं रुद्रा रक्षितारो वायुरधिवियत्तो अस्यां तां त्वा प्रपद्ये सा मे शर्म च वर्म च भव तया देवतयाङ्गिरस्वद् ध्रुवा सीद तेजोऽसि तेजो मे यच्छान्तरिक्षं दृँहान्तरिक्षं मा पाहि तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
हुतादमग्निं यमु काममाहुर्यं दातारं प्रतिग्रहीतारमाहुः।
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
येनेन्द्रस्य रथँ संबभूवुर्वैश्वानर उत विश्वदाव्यः।
धीरो यश्शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥
वेदिरसि सुधां मे धेहि वरुणस्य कुक्षी स्थो मा मा संताप्तं तार्क्ष्यारिष्टनेमेऽभि मा सच स्वस्त्या छर्दिषा शंतमेन नमोऽग्नेर्वैश्वानरस्य हरसे नमश्शरवे त्रायमाण त्रायस्व नो हन्तरधि नो ब्रूहि ॥
वर्च आधायि मे तनूस्सह ओजो महद्बलम् । त्रयस्त्रिँशद्वीर्याणि तान्यग्निः प्रददातु मे ॥
आ मा वर्चोऽग्निना दत्तमेतु महि राधस्सह ओजो महद्बलम् ।
दीर्घायुत्वाय शतशारदाय प्रतिगृह्णामि महत इन्द्रियाय ॥
अग्ने दुध्राग्ने कह्याग्ने किँशिलाग्ने वन्याग्ने कक्ष्य या त इषुर्युवा नाम तस्यै ते विधेम तया नः पाहि तस्यै ते स्वाहा ॥३॥

रोहितेषु त्वा जीमूतेषु सादयाम्यरुणेषु त्वा जीमूतेषु सादयामि कृष्णेषु त्वा नीलेषु त्वासितेषु त्वा जीमूतेषु सादयाम्यम्बा नामासि दुला नामासि नितत्नी नामासि चुपुणीका नामास्यभ्रयन्ती नामासि मेघयन्ती नामासि वर्षयन्ती नामासि ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि
ज्योतिर्विदं त्वा सादयामि ज्वलन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि रोचमानां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि भास्वतीं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयाम्यजस्रां त्वा सादयामि प्रसवाय त्वोपयामाय त्वा काटाक्षाय त्वार्णवाय त्वा सिन्धवे त्वा समुद्राय त्वा सरसे त्वा विश्वव्यचसे त्वा धर्णसाय त्वा द्रविणाय त्वा सुभूताय त्वान्तरिक्षाय त्वा ॥४॥

द्यौरपराजितामृतेन नष्टादित्या रक्षितारस्सूर्योऽधिवियत्तो अस्यां तां त्वा प्रपद्ये सा मे शर्म च वर्म च भव तया देवतयाङ्गिरस्वद् ध्रुवा सीद स्वरसि स्वर्मे यच्छ दिवं दृँह दिवो मा पाहि तया देवतयाङ्गिरस्वद् ध्रुवा सीद परमेष्ठी त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं व्यचस्वतीं प्रथस्वतीं भास्वतीं रश्मिवतीमा या द्यां भास्या पृथिवीमुर्वन्तरिक्षं दिवं यच्छ दिवं दृँह दिवं मा हिँसीर्विश्वस्मै प्राणाय व्यानायापानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे। वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥
 प्राणोऽसि व्यानोऽस्यपानोऽसि श्रोत्रमसि चक्षुर्नाम तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
यत् तेऽचितं यदु चितं ते अग्ने यदूनं यद्वात्रातिरिक्तम् ।
विश्वे देवा अङ्गिरसश्चिनवन्नादित्यास्ते चितिमापूरयन्तु ।
यास्ते अग्ने समिधो यानि धाम या जिह्वा जातवेदो यो अर्चिः।
ये ते अग्ने मेडवो य इन्दवस्तेभिरात्मानं चिनुहि प्रजानन् ।।
चित्तिमचित्तिं चिनवो विविद्वान् पृष्ठेव वीता वृजिना च मर्तान् ।
राये च नस्स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥
वयमग्ने धनवन्तस्स्यामालं यज्ञायोत दक्षिणायै ।
ग्रावा वदेदभि सोमस्याँशुमैन्द्रँ शिक्षेमेन्दुना सुतेन ॥
रायस्पोषं नो धेहि जातवेद ऊर्जो भागं मधुमत् सूनृतावत् ।
दधाम यज्ञँ सुनवाम सोमं यज्ञेन त्वामुपशिक्षेम शक्र ॥
ईशानं त्वा शुश्रुमा वयं धनानां धनपते ।
गोमदग्ने अश्ववद्भूरि पुष्टँ हिरण्यवदन्नवद्धेहि मह्यम् ॥
दुहां ते द्यौः पृथिवी पयो जगरस्त्वा सोदको विसर्पतु । प्रजापतिनात्मानमाप्रीणेऽरिक्तो म आत्मा ॥
यो रुद्रो अग्नौ यो अप्सु य औषधीषु यो वनस्पतिषु ।
यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु देवाः ॥५॥

पिता मातरिश्वाच्छिद्रा पदा धादच्छिद्रोशिजः कवयः पदानुतक्षिषुस्सोमो विश्वविन्नेता नेषद्बृहस्पतिरुक्थामदानि शँसिषत् ॥
यदक्रन्दः॥
यमेन दत्तं त्रित एनमायुनगिन्द्र एनं प्रथमो अध्यतिष्ठत् ।
गन्धर्वो अस्य रशनामगृभ्णात् सूरादश्वं वसवो निरतष्ट ॥
असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन ।
असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥
त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तस्समुद्रे ।
उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥
इमा ते वाजिन्नवमार्जनानीमा शफानाँ सवितुर्निधाना ।
अत्रा ते भद्रा वृषभा अगृभ्णामृतस्य या अभिरक्षन्ति गोपाः ॥
संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽस्यनुवत्सरोऽस्युद्वत्सरोऽमि देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामिन्द्रवन्तं त्वा सादयामि धामच्छदसि स्वे योनौ सीद स्वे पृथिव्या योनौ सीदर्तवस्ते कल्पन्तां मासास्ते कल्पन्तामर्धमासास्ते कल्पन्तामहोरात्राणि ते कल्पन्तामङ्गानि ते कल्पन्तां परूँषि ते कल्पन्ताँ शरीराणि ते कल्पन्तामेत्या प्रेत्या सं चा च प्र च सारयाग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रस्सूर्यो ज्योतिर्ज्योतिस्सूर्यः ॥
इमँ स्तनमूर्जस्वन्तं धयापां प्रपीनमग्ने सरिरस्य मध्ये ।
उत्सं जुषस्व मधुमन्तमूर्मिँ समुद्रियँ सदनमाविशस्व ॥६॥

समुद्रादूर्मिर्मधुमाँ उदारदुपाँशुना सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥
वयं नाम प्रब्रवाम घृतस्यास्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच्छस्यमानं चतुश्शृङ्गोऽवमीद्गौर एतत् ।।
चत्वारि शङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
इन्द्र एकँ सूर एकं जजान वेनादेकँ स्वधया निष्टतक्षुः ॥
एता अर्षन्ति हृद्यात् समुद्राच्छतव्रजा रिपुणा नावचक्षे ।
घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्य आसाम् ।।
सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः ।
एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥
सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥
अभि प्रवन्त समनेव योषाः कल्याण्यस्स्मयमानासो अग्निम् ।
घृतस्य धारास्समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभिचाकशीमि ।
यत्र सोमस्सूयते यत्र यज्ञो घृतस्य धारा अभि तत् पवन्ते ॥
अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत् पवन्ते ॥
धामन्ते विश्वं भुवनमधिश्रितमन्तस्समुद्रे हृद्यन्तरायुषि ।
अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥७॥

पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥
स्वादो पितो मधो पितो वयं त्वा ववृमहे । अस्माकमविता भव ॥
उप नः पितवाचर शिवश्शिवाभिरूतिभिः । मयोभूरद्विषेण्यस्सखा सुशैवो अद्वयाः ॥
तव त्ये पितो रसा रजाँस्यनु विष्ठिताः । दिवि वाता इव श्रिताः॥
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो । प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥
त्वे पितो महानां देवानां मनो हितम् । अकारि चारु केतुना तवाहिमवसावधीत् ॥
यददः पितो अजगन् विवस्व पर्वतानाम् । अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः॥
यदपामोषधीनां परिँशमारिशामहे । वातापे पीव इद्भव ॥
यत् ते सोम गवाशिरो यवाशिरो भजामहे । वातापे पीव इद्भव ॥
करम्भ ओषधे भव पीवो वृक्क उदारथिः । वातापे पीव इद्भव ॥
तं त्वा वयं पितो वचोभिर्गावो ने हव्यां सुषूदिम ।
देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ।।८।।

मह्यमापो मधुमदैरयन्त मह्यं ज्योतिरभरत् सूर्यस्तत् ।
मां देवा अनु विश्वे तपोजा मह्यं देवस्सविता व्यचो धात् ॥
अहमस्तभ्नां पृथिवीमुत द्यामहमृतूँरजनँ सप्त साकम् ।
अहं वाचं परि सर्वां बभूव य इन्द्राग्नी असनँ सखायौ ॥
अहं द्यावापृथिवी आबभूवाहं विश्वा ओषधीस्सप्त सिन्धून् ।
मह्यं विशस्समनमन्त दैवीरहमुग्रश्शतहव्यो बभूव ॥
राये जातस्सहसे वृद्धः क्षत्राणां क्षत्रभृत्तमो वयोधाः ।
महान् महित्वा सँस्तम्भे क्षत्रे राष्ट्रे च जागृहि ।।
नव कृत्व इन्द्रो राजा सविता त्वाभिषिञ्चतु ।
मित्रो वायुर्बृहस्पतिर्धाता क्षत्रं दधातु ते ॥
अदितिस्त्वा सुष्वतु राजन् महते क्षत्राय महते ज्यैष्ठ्याय महते राज्याय महते जानराज्याय महते विश्वस्य भुवनस्याधिपत्याय समास्त्वाग्ने देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याँ सरस्वत्या वाचा यन्तुर्यन्त्रेणेमममुमामुष्यायणममुष्याः पुत्रमग्नेस्साम्राज्येनाभिषिञ्चामीन्द्रस्य साम्राज्येनाभिषिञ्चामि ॥९॥

ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवते कामे अस्मिन् ॥
मयि देवा द्रविणमायजन्तां ममाशीरस्तु मम देवहूतिः ।
दैव्या होतारो वनिषन्न एतदरिष्टास्स्याम तन्वा सुवीराः॥
मह्यं यजन्तां मम यानीष्टाकूतिस्सत्या मनसो मे अस्तु ।
एनो मा निगां कतमच्चनाहं विश्वे देवा अनुतिष्ठन्तु मेह ॥
अग्निर्मन्युं प्रतिनुदन् पुरस्ताददब्धो गोपः परिपातु विश्वतः ।
अपाञ्चो यन्तु निर्ऋथं पुनस्तेऽमैषां चित्तं प्रबुधा विनश्यतु ।।
धाता धातॄणां भुवनस्य यस्पतिर्देवँ सवितारमभिमातिषाहम् ।
इमं यज्ञं बृहस्पतेऽश्विनोभेन्द्रावत काव्यैर्दँसनाभिः ॥
त्रयीष्षडुर्वीरुरु णस्कृणोत विश्वे देवा इह वीरयध्वम् ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ।।
उरुव्यचा नो महिषश्शर्म यँसदस्मिन् हवे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरधो मा परा दाः ॥
तिस्रो देवीर्महि नश्शर्म यच्छत प्रजायै नस्तन्वे यच्च पुष्टम् ।
मा नो वधीदभिभा मो अशस्तिर्मा नो वृधद्वृजना द्वेष्या या ।
ये नस्सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामवबाधामहे तान् ।
आदित्या रुद्रा उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ।।
अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।
इमं नो यज्ञं विहवे जुषस्वेह कृण्मो हरिवो मेदिनं त्वा ॥१०॥

तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः।
इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ।।
बृहस्पते अति यदर्यो अहाद् द्युमद्विभाति क्रतुमज्जनेषु ।
यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
बृहस्पतिस्समजयद्वसूनि महो व्रजान् गोमतो देव एषः ।
अपस्सिषासन् स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥
यमो दाधार पृथिवीं यमो द्यामुत सूर्यम् ।
यमाय सर्वमित् तस्थे यत् प्राणद्वायुरक्षितम् ॥
यथा पञ्च यथा षड् यथा पञ्चदशर्षयः । यमं यो विद्यात् स ब्रूयाद्यथैकर्षिर्विजानते ॥
त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् ।
गायत्री त्रिष्टुप् छन्दांसि सर्वा ता यम आहिता ॥
मृडा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
सुम्नायन्निद्विशो अस्माकमाचरारिष्टवीरा जुहवाम ते हविः॥
त्वेषं वयं रुद्रं यज्ञसाधमङ्कुं कविमवसे निह्वयामहे ।
आरे अस्मद्दैव्यं हैडो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ।।
अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
क्षयन्नस्मभ्यमसुर प्रचेतो राजन्नेनाँसि शिश्रथः कृतानि ॥
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमँ श्रथाय ।
अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
इमं मे वरुण श्रुधी हवमद्या च मृडय ! त्वामवस्युराचके ।।
तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमानो वरुणेह बोध्युरुशँस मा न आयुः प्रमोषीः ॥११॥

हव्यं प्रीणीहि हव्यँ श्रीणीहि हव्यँ श्रपय ॥
हव्यं पच हव्यमसि हव्याय त्वा हव्यवाडसि हव्ये सीद ॥
स्वयं कृण्वाणस्सुगमप्रयावं तिग्मशृङ्गो वृषभश्शोशुचानः ।
प्रत्नँ सधस्थमनुपश्यमान आ तन्तुमग्निर्दिव्यं ततान ॥
त्वं नस्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः ।
त्वयाग्ने पृष्ठं वयमारुहेमाथा देवैस्सधमादं मदेम ॥
अतिसर्गं ददतो मानवाय स्वर्गं पन्थामनुपश्यमानाः ।
अजुषन्त मरुतो यज्ञमेतं वृष्टिद्यावानममृतँ स्वर्विदम् ॥
आवर्तमानो भुवनस्य मध्ये प्रजा विकृण्वञ्जनयन् विरूपम् ।
संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः परस्मात् ॥
प्रजां पिपर्तु परिवत्सरो नो धाता दधातु सुमनस्यमानः।
बह्वीस्साकं बहुधा विश्वरूपा एकव्रता मामभिसंविशन्तु ॥१२॥

यदाकूतात् समसुस्रोद्धृदो वा मनसस्संभृतं चक्षुषो वा ।
तमनुप्रेहि सुकृतस्य लोकं यत्रर्षयो जग्मुः प्रथमाः पुराणाः ॥
एतँ सधस्थाः परि वो ददामि यमावहाच्छेवधिं जातवेदाः।
अन्वागन्ता यजमानस्स्वस्ति तँ स्म जानीत परमे व्योमन् ॥
एतं जानीत परमे व्योमन्नग्ने सधस्था विद लोकमस्य ।
यदागच्छात् पथिभिर्देवयानैरिष्टापूर्तं कृणुतादाविरस्मै ॥
इमँ स्तनमिष्टो यज्ञः ॥
येन सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥
येनाग्ने सुकृतः पथा मधोर्धारा व्यानशुः । तेनेमं यज्ञं नो नय स्वर्देवेषु गन्तवे ॥
येनाग्ने दक्षिणावन्तं यज्ञं वहन्त्यृत्विजः । तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥
प्रस्तरेण परिधिना स्रुचा वेद्या च बर्हिषा । ऋचेमं यज्ञं नो नय स्वर्देवेषु गन्तवे ॥
यत्र धारा मधुमतीस्सदा स्यन्दन्ते अक्षिताः । तदग्निर्वैश्वकर्मणस्स्वर्देवेषु नो दधत् ॥
अपूपकूला नद्यस्सदा स्यन्दन्ते अक्षिताः। तदग्निर्वैश्वकर्मणस्स्वर्देवेषु नो दधत् ॥
उपक्षरन्ति मधुनो घृतस्य कुल्याः पूर्णास्सदमक्षीयमाणाः ।
तदग्निर्वैश्वकर्मणस्स्वर्देवेषु नो दधत् ॥
यास्ते अग्ने या वो देवाः ॥
रोचय मा ब्राह्मणेष्वथो राजसु रोचय ।
रोचय मा विश्येषु शूद्रेषु मयि धेहि रुचा रुचम् ॥
स्वर्णघर्मस्स्वाहा स्वर्णशुक्रस्स्वाहा स्वर्णसूर्यस्स्वाहा स्वर्णार्कस्स्वाहा स्वर्णाग्निस्स्वाहा ॥१३॥

ईडे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् । श्रुष्टीवानं धितावानम् ।।
अग्ने शकेम ते वयं यमं देवस्य वाजिनः । अति द्वेषाँसि तरेम ।।
पृथुपाजा अमर्त्यो घृतनिर्णिक् स्वाहुतः ।
अग्निर्यज्ञस्य हव्यवाट् ॥
तँ साधो यतस्रुच इत्था धियो यज्ञवन्तः ।
आचक्रुरग्निमूतये ॥
नवं नु स्तोममग्नये दिवश्श्येनाय जीजनम् ।
वस्वः कुविद्वनाति नः॥
स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा।
अग्रे यज्ञस्य चेततः॥
उप त्वा रण्वसंदृशं प्रयस्वन्तस्सहस्कृत ।
अग्ने ससृज्महे गिरः ॥
उप छायामिव घृणेरगन्म शर्म ते वयम् ।
अग्ने हिरण्यसंदृशः॥
अग्ने मृड महाँ असि य ईमा देवयुं जनम् ।
इयेथ बर्हिरासदम् ॥
स मानुषीषु दूडभो विक्षु प्रावीरमर्त्यः ।
दूतो विश्वेषां भुवत् ॥
और्वभृगुवच्छुचिमप्नवानवदाहुवे ।
अग्निं समुद्रवाससम् ।।
आ सवँ सवितुर्यथा भगस्येव भुजिँ हुवे ।
अग्निँ समुद्रवाससम् ॥
हुवे वातस्वनं कविं पर्जन्यक्रन्द्यँ सहः।
अग्निँ समुद्रवाससम् ॥
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन् ॥
 यस्य त्रिधात्ववृतं बर्हिस्तस्था असंदिनम् ।
आपश्चिन्निदधा पदम् ॥
 अग्निर्मूर्धा ॥
 उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
तव ज्योतीँष्यर्चयः॥
ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः।
स्तोता स्यां तव शर्मणि ॥
त्वामग्ने मनीषिणस्त्वाँ हिन्वन्ति चित्तिभिः ।
त्वां वर्धन्तु नो गिरः ।।
अदब्धस्य स्वधावतो दूतस्य रेभतस्सदा ।
अग्नेस्सख्यं वृणीमहे ॥
अग्निश्शुचिव्रततमश्शुचिर्विप्रश्शुचिष्कविः ।
शुची रोचत आहुतः ॥१४॥ [२७९९] ॥


इत्येकोत्तरशतशाखाध्वर्युप्रभेदभिन्ने श्रीयजुषि काठके चरकशाखायामोरिमिकायां हिरण्यगर्भं नाम चत्वारिंशं स्थानकं संपूर्णम् ॥४०॥

॥ श्रीग्रन्थत्रये मध्यपठिताश्च याज्यानुवाक्याः संपूर्णाः ॥

॥ अस्मिन् ग्रन्थत्रयाभ्यन्तरे याज्यानुवाक्या नाम चतुर्थो ग्रन्थः॥

॥ संपूर्णा चेयमोरिमिका ॥