काठकसंहिता (विस्वरः)/स्थानकम् ३९

विकिस्रोतः तः
Jump to navigation Jump to search
← स्थानकं ३८ काठकसंहिता (विस्वरः)
स्थानकम् ३९
[[लेखकः :|]]
स्थानकं ४० →
यदक्रन्दः

अथैकोनचत्वारिंशं स्थानकम् ।

यदक्रन्दः ।
यदक्रन्दः प्रथमं जायमान उद्यन समुद्रादुत वा पुरीषात् ।
श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ।।
अभ्यस्थाद्विश्वाः पृतना अरातीस्तदग्निराह तदु सोम आह ।
बृहस्पतिस्सवितेन्द्रस्तदाह पूषा माधात् सुकृतस्य लोके ॥
आस्थादुदस्थादजनिष्ट विप्रो व्यास्थन् मृधो अशिशीत बाहू ।
समपृक्षि ज्योतिषा सूर्यस्य परा बाधस्व निर्ऋतिं पराचैः॥
प्रजापतिस्त्वा सादयतु ॥
दिवो मूर्धासि पृथिव्या नाभिरूर्गपामोषधीनाम् ।
विश्वायुश्शर्म सप्रथा नमस्पथे वयस्स्वस्सदः॥
प्राचीनमूर्ध्वमधरागपागुदग्देवाः पान्तु यजमानममृतमृतात् ।
तेन ब्रह्मणा तेन च्छन्दसा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ।
रायश्च स्थ स्वपत्यस्य पत्नीस्सरस्वती तद्गृणते वयो धात् ॥
अर्थेतस्स्थान्वगतोऽग्नेर्वस्तेजसा देवताभिर्गृह्णामि शर्म च स्थ वर्म च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि ज्योतिषे वाँ शुक्रास्स्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णाम्यमृतं च स्थ सत्यं च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि चक्षुषे वां मन्दास्स्थाभिभुवो विश्वेषां वो देवानां देवताभ्यो गृह्णामि रक्षोघ्नीश्च स्थारातिघ्नीश्च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि रेतसे वामधिपतिरस्यूर्जस्वानादित्यानां वो देवानां देवताभिर्गृह्णामि सपत्नघ्नीश्च स्थाभिमातिघ्नीश्च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि प्रजाभ्यो वां व्रजक्षितस्स्थोर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामि वसु च स्थ वामं च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि तेजसे वां क्षत्रभृतस्स्थौजस्विनीर्मित्रावरुणयोर्वो देवयोर्देवताभिर्गृह्णामि भूतं च स्थ भव्यं च स्थ देवस्य वस्सवितुः प्रसवे मधुमतीस्सादयामि वर्चसे वां दिवि श्रयस्वान्तरिक्षमापृण पृथिव्यां कल्पस्व ॥१॥

यददसंप्रयतीरहा अनदता हते । तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥
यत् प्रेषिता वरुणेनाच्छीभँ समवल्गत । तदिन्द्र आप्नोद्यतीर्वस्तस्मादापो अनुष्ठन ॥
अपकामँ स्यन्दमाना अवीवरत वो हिकम् ।
इन्द्रो वश्शक्तिभिर्देवीस्तस्माद्वार्नाम वः प्रियम् ॥
एको देवो अप्यतिष्ठत् स्यन्दमाना उपेत्य । उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥
आपो देवीर्घृतमिदाप आसन्नग्नीषोमौ बिभ्रत्याप इत्ताः ।
तीव्रा रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसागन् ।।
तपो योनिरसि प्राजापत्यं विश्वाभिस्त्वा धीभिरुपदधामि ॥
ये यज्ञँ समगृभ्णन् देवा देवेभ्यस्परि ।
तान् गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना ॥
ये ज्योतीँषि संदधति स्वरारोहन्तो अमृतस्य लोकम् ।
ते यन्तु प्रजानन्तो यज्ञं दधानास्सुकृतस्य लोकम् ।।
यः पन्था विततो देवयानश्छन्दोभिर्विगृहीत एति ।
तेनातिष्ठ दिवमन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकम् ॥
ये पशवो मेध्यासो यज्ञस्य योनिमभिसंबभूवुः ।
तान् ददन्ते कवयो विपश्चितो यज्ञं दुहानास्सुकृतस्य लोके ॥
यो यज्ञस्सहस्रधारो द्यावापृथिव्योरधि निर्मितः ।
तेनैतु यजमानस्स्वस्त्या दिवोऽधि पृष्ठमस्थात् ॥
आयवे स्वाहायुष्कृते स्वाहायोः पत्मने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहा ॥
अद्भ्यस्संभृतः पृथिव्या रसो विश्वकर्मणस्समवर्तताधि ।
तस्य त्वष्टा विदधद्रूपमेति तन्मर्त्यस्य देवमाजानमग्रे ।।
त्रिवृत् ते अग्ने शिरस्तन्मे अग्ने शिरः पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मैकविँशौ ते अग्न ऊरू तौ मे अग्न ऊरू त्रिणवौ ते अग्ने अष्ठीवन्तौ तौ मे अग्ने अष्ठीवन्तौ त्रयस्त्रिँशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठानं त्रिवृत् ते अग्ने शिरस्तेन माभिपाहि पञ्चदशौ ते अग्ने बाहू ताभ्यां माभिपाहि सप्तदशस्ते अग्न आत्मा तेन माभिपाह्येकविँशौ ते अग्न ऊरू ताभ्यां माभिपाहि त्रिणवौ ते अग्ने अष्ठीवन्तौ ताभ्यां माभिपाहि त्रयस्त्रिंशं ते अग्ने प्रतिष्ठानं तेन माभिपाहि ॥२॥

प्रजापतिस्त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मती व्यचस्वतीं प्रथस्वतीं प्रथोऽसि पृथिव्यसि भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्ती पृथिवीं यच्छ पृथिवीं दृँह पृथिवीं मा हिंसीर्विश्वस्मै प्राणाय व्यानायापानायोदानाय प्रतिष्ठायै चरित्रायाग्निष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
चितिं जुहोमि मनसा यथा देवा इहागमन् । वीतिहोत्रा ऋतावृधः॥
समुद्रस्य वयुनस्य पत्मञ्जुहोमि विश्वकर्मणे । विश्वाहादाभ्यँ हविः ।।
स्वाहोदपुरा नामास्यन्नेन विष्टा वसवो रक्षितारोऽग्निरधि वियत्तो अस्यां तां त्वा प्रपद्ये सा मे शर्म च वर्म च भव तया देवतयाङ्गिरस्वद् ध्रुवा सीद ज्योतिरसि ज्योतिर्मे यच्छ पृथिवीं दृँह पृथिव्या मा पाहि तया देवतयाङ्गिरस्वद् ध्रुवा सीद भूरसि भुवनस्य रेत इष्टका स्वर्गो लोको मनसा त्वान्वारोहामि सूरसि स्वरसीष्टका स्वर्गे लोके वाचा त्वान्वारोहामि यास्ते अग्न आर्द्रा योनयो याः कुलायिनीर्ये ते अग्न इन्दवो या उ नाभयो यास्ते अग्ने तन्व ऊर्जो नाम ताभिस्त्वमुभयीभिस्संविदानास्स्वयंचिन्वानास्तन्वो निषीद ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः ॥
मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः । मधु द्यौरस्तु नः पिता ॥
मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः ॥
सँसर्पन् त्रीन् समुद्रान् स्वर्गानपां पतिर्वृषभ इष्टकानाम् ।
तत्र गच्छ यत्र पूर्वे परेताः पुरीषं वसानस्सुकृतस्य लोकम् ॥
अपां गम्भीरं गच्छ मा त्वा सूर्यः परिताप्सीन्माग्निर्वैश्वानरः ।
अनु त्वा दिव्या वृष्टिस्सचतामखिद्राः प्रजा अभिविपश्य ॥
मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
स्यूता देवेभिरमृतेनागादुखा स्वसारमधि वेदिमस्थात् ।
सत्यं पूर्वेभिर्ऋषिभिश्चाक्लृपानोऽग्निः प्रविद्वाँ इह तद्दधातु ॥
पृथिवि पृथिव्याँ सीद माता मातरि माता स्योना स्योनायाम् ॥
क्रतुं देवानाममृतत्वमीमहेऽग्निँ सधस्थे सदनेष्वच्युतम् ।
वैश्वानरं ब्रह्मणा विश्वव्यचसँ स्तोमस्य धामन्निदधे पुरीष्यम् ॥
न्यधुर्मात्रया कवयो वयोधसमग्निँ सधस्थे सदनेषु सुक्रतुम् ।
वैश्वानरं ब्रह्मणा विश्वव्यचसँ स्तोमस्य धामन् न्यधां पुरीष्यम् ॥
समिध्यमानँ समिधा समिन्धतेऽग्निँ सधस्थे सदनेष्वद्भुतम् ।
वैश्वानरं ब्रह्मणा विश्वव्यचसँ स्तोमस्य धामन् पवमानमाभृतम् ॥
समास्त्वाग्ने ॥३॥

विश्वकर्मा दिशां पतिः प्रजापतिस्स नः पशून् पातु स मां पातु तया देवतयाङ्गिरस्वद् ध्रुवा सीद प्रजापतिर्दिशां पतिः प्रजापतिस्स नः पशून् पातु स मां पातु तया देवतयाङ्गिरस्वद् ध्रुवा सीद रुद्रो दिशां पतिर्वरुणो दिशां पतिरग्निर्दिशां पतिः प्रजापतिस्स नः पशून् पातु स मां पातु तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥ मा छन्दस्तत् पृथिव्यग्निर्देवता प्रमा छन्दस्तदन्तरिक्षं वातो देवता प्रतिमा छन्दस्तद् द्यौस्सूर्यो देवतास्रीवयश्छन्दस्तद्दिशस्सोमो देवता विराट् छन्दस्तद्वाग्वरुणो देवता गायत्री छन्दस्तदजा बृहस्पतिर्देवता त्रिष्टुप् छन्दस्तद्धिरण्यमिन्द्रो देवता जगती छन्दस्तद्गौः प्रजापतिर्देवतानुष्टुप् छन्दस्तदायुर्मित्रो देवतोष्णिहा छन्दस्तच्चक्षुः पूषा देवता बृहती छन्दस्तद्वृष्टिः पर्जन्यो देवता पङ्क्तिश्छन्दस्तदश्वः परमेष्ठी देवता तेन ब्रह्मणा तेन च्छन्दसा तया देवतयाङ्गिरस्वद् ध्रुवास्सीदत ॥४॥

ऋतसदसि सत्यसदसि तेजस्सदसि वर्चस्सदसि यशस्सदसि गृणानासि धामासि धाम्ने त्वा धामभ्यस्त्वा धामसु सीद सनिरसि सन्ये त्वा सनेयं वित्तिरसि वित्त्यै त्वा विदेयं कर्मासि कर्मणे त्वा क्रियासँ शक्तिरसि शक्त्यै त्वा शकेयं भूतिरसि भूत्यै त्वा भूयासं गूर्दोऽसि गूर्दाय त्वा गूर्देभ्यस्त्वा गूर्दे सीद क्षत्रं पाहि क्षत्रं पिन्व क्षत्रं जिन्व क्षत्रं यच्छ क्षत्रमसि क्षत्राय त्वा क्षत्रेभ्यस्त्वा क्षत्रे सीद विश्वेषु त्वा पार्थिवेषु सादयामि विश्वेषु त्वान्तरिक्षेषु सादयामि विश्वेषु त्वा दिव्येषु सादयामि विश्वासु त्वाप्सु सादयामि विश्वासु त्वौषधिषु सादयामि विश्वेषु त्वा वनस्पतिषु सादयामि विश्वासु त्वा दिक्षु सादयामि विश्वासु त्वा प्रदिक्षु सादयामि ॥ दिवि सीद स्वर्जिदसि पृतनाजिदसि भूरिजिदस्यभिजिदसि विश्वजिदसि सर्वजिदसि सत्राजिदसि धनजिदसि भ्राडसि विभ्राडसि प्रभ्राडसि सपत्नहनं त्वा वज्रँ सादयामि रक्षोहनं त्वा वज्रँ सादयामि पिशाचहनं त्वा वज्रँ सादयामि यातुधानहनं त्वा वज्रँ सादयाम्यरातिहनं त्वा वज्रँ सादयाम्यभिमातिहनं त्वा वज्रँ सादयामि शत्रुहणमसि शत्रुहणं भ्रातृव्यहणमसुरहणं त्वैन्द्रं वज्रँ सादयामि ॥५॥

उद्वदस्युदितिरस्युद्यत्यस्याक्रममाणास्याक्रामन्त्यस्याक्रान्तिरसि संक्रममाणासि संक्रामन्त्यसि संक्रान्तिरसि स्वर्गासि स्वरसीषि सीदोर्जि सीद भगे सीद द्रविणे सीद सुभूते सीद पृथिव्या यज्ञिये सीद विष्णोः पदे सीदेडायाः पदे सीद घृतवति सीद पिन्वमाने सीद संवत्सरे सीद परिवत्सरे सीदेदावत्सरे सीदानुवत्सरे सीदोद्वत्सरे सीदैकस्याँ सीद दशसु सीद शते सीद सहस्रे सीदायुते सीद प्रयुते सीद नियुते सीदार्बुदे सीद न्यर्बुदे सीद बद्वे सीद समुद्रे सीद मध्ये सीदान्ते सीद परार्धे सीद ॥ पिन्वमानासि पिन्वमानाय त्वा पिन्वमानेभ्यस्त्वा पिन्वमाने सीदर्तमस्यृताय त्वर्तेभ्यस्त्वर्ते सीद सत्यमसि सत्याय त्वा सत्येभ्यस्त्वा सत्ये सीद संधिरसि संधये त्वा संधिभ्यस्त्वा संधिषु सीद सँश्लिडसि सँश्लिषे त्वा सँश्लिड्भ्यस्त्वा सँश्लिट्सु सीद संपदसि संपदे त्वा संपद्भ्यस्त्वा संपत्सु सीद ॥६॥

प्राची दिग्गायत्री छन्दो रथन्तरँ सामाग्निर्देवता वसन्त ऋतुस्त्रिवृत्स्तोमः पञ्चदशवर्तनिस्त्रियविर्वयः कृतमयानां पुरोवातो वातस्सानग ऋषिर्दक्षिणा दिक् त्रिष्टुप् छन्दो बृहत्सामेन्द्रो देवता ग्रीष्म ऋतुः पञ्चदशस्स्तोमस्सप्तदशवर्तनिर्दित्यवाड्वयस्त्रेतायानां दक्षिणाद्वातो वातः प्रत्न ऋषिः प्रतीची दिग्जगती छन्दो वैरूपँ साम मरुतो देवता वर्षा ऋतुस्सप्तदशसस्स्तोम एकविँशवर्तनिस्त्रिवत्सो वयो द्वापरोऽयानां पश्चाद्वातो वातस्सनातन ऋषिरुदीची दिगनुष्टुप् छन्दो वैराजँ साम विश्वे देवा देवता शरदृतुरेकविँशस्स्तोमस्त्रिणववर्तनिस्तुर्यवाड्वय आस्कन्दोऽयानामुत्तराद्वातो वातः पुराण ऋषिरूर्ध्वा दिक् पङ्क्तिश्छन्दश्शाकरं रैवतँ साम मित्रावरुणौ देवता हेमन्तशिशिरा ऋतू त्रिणवस्स्तोमस्त्रयस्त्रिँशवर्तनिः पष्ठवाड्वयोऽभिभूरयानां विष्वग्वातो वातस्सुपर्ण ऋषिः पितरः पितामहाः परेऽवरेभ्यस्ते नः पान्तु ते नोऽवन्त्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्यां देवहूत्यां तेन ब्रह्मणा तेन च्छन्दसा तया देवतयाङ्गिरस्वद् ध्रुवास्सीदत ॥७॥

आयुषः प्राणँ संतनु प्राणाद्व्यानँ संतनु व्यानादपानँ संतन्वपानाच्चक्षुस्संतनु चक्षुषश्श्रोत्रँ संतनु श्रोत्राद्वाचँ संतनु वाच आत्मानँ संतन्वात्मनः पृथिवीँ संतनु पृथिव्या अन्तरिक्षँ संतन्वन्तरिक्षाद्दिवँ संतनु दिवस्स्वस्संतनु पृथिवी वशामावस्या गर्भो वनस्पतयो जराय्वग्निर्वत्सोऽग्निहोत्रं पीयूषोऽन्तरिक्षं वशा धाता गर्भो रुद्रा जरायु वायुर्वत्सो घर्मः पीयूषो द्यौर्वशा स्तनयित्नुर्गर्भो नक्षत्राणि जरायु सूर्यो वत्सो वृष्टिः पीयूष ऋग्वशा बृहद्रथन्तरे गर्भः प्रैषनिविदो जरायु यज्ञो वत्सो दक्षिणा पीयूषो विड्वशा राजन्यो गर्भः पशवो जरायु राजा वत्सो बलिः पीयूषः ।।८॥

भूमस्कृदसि वरिवस्कृदसि प्राच्यस्यूर्ध्वास्यन्तरिक्षमसि तेजोदां त्वा तेजसि सादयामि वर्चोदां त्वा वर्चसि सादयामि पयोदां त्वा पयसि सादयामि यशोदां त्वा यशसि सादयामि द्रविणोदां त्वा द्रविणे सादयामि पृथिव्यास्त्वा द्रविणे सादयाम्यन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस्त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयाम्यप्सुषदसि वयस्सदसि श्येनसदसि गृध्रसदसि सुपर्णसदसि ॥
या देव्यसीष्टक आयुर्दा उपशीवरी । सा मामुपशेष्व जायेव पतिमित् सदा ॥
या देव्यसीष्टके प्राणदा व्यानदा अपानदाश्चक्षुर्दाश्श्रोत्रदा वाग्दा आत्मदाः पृथिविदा अन्तरिक्षदा द्यौर्दास्स्वर्दाः कुमारीदाः प्रफर्वीदाः प्रथमौपशदा युवतिदा उपशीवरी ॥ सा मामुपशेष्व जायेव पतिमित् सदा ॥९॥

इयमेव सा या प्रथमा व्यौच्छत् सावास्वन्तश्चरति प्रविष्टा ।
वधूर्मिमाय नवगज्जनित्री त्रय एनां महिमानस्सचन्ते ॥
छन्दस्वती उषसौ पेपिशाने समानं योनिमनुसंचरेते ।
सूर्यपत्नी विचरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥
ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मासो अनु रेतसागुः ।
प्रजामेका रक्षत्यूर्जमेका क्षत्रमेका रक्षति देवयूनाम् ॥
चतुष्टोममदधाद्या तुरीया यज्ञस्य पक्षा ऋषयो भवन्ती ।
गायत्री त्रिष्टुब्जगती विराडर्कं युञ्जानास्स्वराभरन्निदम् ॥
पञ्चभिर्धाता विदधा इदं यत् तासाँ स्वसॄरजनन् पञ्च पञ्च ।
तासामु यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन क्लृप्तास्समानमूर्ध्नीरभि लोकमेकम् ॥
ज्योतिष्मती प्रतिमुञ्चते नभ उषा देवी सूर्यस्य व्रतेन ।
विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे ॥
त्रिँशत् स्वसार उपयन्ति निष्कृतँ समानं केतुं प्रतिमुञ्चमानाः ।
ऋतूँस्तन्वते कवयः प्रजानतीर्मध्येछन्दसः परियन्ति भास्वतीः ॥
शुक्रर्षभा नभसा ज्योतिषागाद्विश्वरूपा शवल्यग्निकेतुः।
समानमर्थँ स्वपस्यमाना बिभ्रती जरामजर उष आगाः ॥
ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् ।
एका सती बहुधोषो व्युच्छाजीर्णा त्वं जरय सर्वमन्यत् ॥
ऋतस्य धाम प्रथमा व्यूषुष्यपामेका महिमानं बिभर्ति ।
सूर्यस्यैका चरति निष्कृतानि घर्मस्यैका सवितैकां नियच्छते ॥
एकाष्टका तपसा तप्यमाना जजान गर्भ महिमानमिन्द्रम् ।
तेन दस्यून् व्यसहन्त देवा हन्तासुराणामभवच्छचीभिः ।।
अनानुजामनुजां मामकर्त सत्यं वदन्त्यनुयच्छ एतत् ।
भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्रयुक्त ॥
अभून्नु नस्सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदन्नु गाधम् ।
भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्रयुक्त ।।
 प्रथमा ह व्युवास सा धेनुरभवद्यमे । सा नः पयस्वती दुहामुत्तरामुत्तराँ समाम् ॥१०॥
 
अग्निनर्ताषाट् क्रत्वा शचीपतिस्सौहार्द्येन स्वर्गो यज्ञेन मघवान्मन्युना वृत्रहा वृषभेन त्वष्टा वषट्कारेणार्धभाक् पृथिव्या स्तृणीकोऽन्नेन गयस्साम्ना तनूमानृग्भिरन्नादस्तपसानाधृष्टस्सूर्येण विराडृतुभिः प्राभवत् संवत्सरेण पर्यभवदभीषाट् चाभीषाह्यश्चाभिवयाश्चोर्ध्ववयाश्च सवयाश्च बृहद्वयाश्च सासह्वाँश्च सहीयाँश्च सहमानश्च सहस्वाँश्चाभि त्वा शूर नोनुमस्त्वामिद्धि हवामहे ॥११॥

कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शंचिष्ठया वृता ।
कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥
अभी षु णस्सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नव ॥
इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् । अविन्दच्छर्यणावति ॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ।।
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे । स वृषा वृषभो भुवत् ॥
इन्द्रस्स दामने कृत ओजिष्ठस्स बले वृधी । द्युम्नी शुक्ली स सोम्यः ॥
गिरा वज्रो न संभृतस्सबलो अनपच्युतः । ववक्ष उग्रो अस्तृतः ॥
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः । इन्द्रं वाणीरनूषत ॥
इन्द्र इद्धर्योस्सचा संमिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः ॥
इन्द्र वाजेषु नो वह सहस्रप्रधनेषु च । उग्र उग्राभिरूतिभिः ।।
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतस्स्वर्दृशमीशानमिन्द्र तस्थुषः । ईशानमिन्द्र तस्थुषः ॥
न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गन्यन्तस्त्वा हवामहे ॥
त्वामिद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः । त्वां काष्ठास्वर्वतः ॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया महस्स्तवानो अद्रिवः ।
महस्स्तवानो अद्रिवो गामश्वं रथ्यमिन्द्र संकिर सत्रा वाजं न जिग्युषे ।।
यज्ञा यज्ञा वो अग्नये गिरा गिरा च चक्षसे ।
प्र प्र वयममृतं जातवेदसं प्रियं मित्रं न शँसिषम् ।
प्रिय मित्रं न शँसिषम् ॥
ऊर्जो नपातँ स हिनायमस्मयुर्दाशेम हव्यदातये दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥१२॥

अग्ने देवाँ इहावह जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः ॥
अगन्म महो नमसा यविष्ठं यो दीदाय समिद्धस्स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ।।
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
त्वामर्भस्य हविषस्समानमित्त्वां महो वृणते नान्यं त्वत् ॥
मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि ।
अग्ने मनुष्वदङ्गिरो देवान् देवयते यज ॥
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः।
अग्नी राये स्वाभुवं सं प्रीतो याति वार्यमिषँ स्तोतृभ्य आभर ॥
अग्निर्देवता कृत्तिका नक्षत्रं प्रजापतिर्देवता रोहिणी नक्षत्रं मरुतो देवतेन्वका नक्षत्रं रुद्रो देवता बाहुर्नक्षत्रमदितिर्देवता पुनर्वसुर्नक्षत्रं बृहस्पतिर्देवता तिष्यो नक्षत्रँ सर्पा देवताश्लेषा नक्षत्रं पितरो देवता मघा नक्षत्रं भगो देवता फल्गुनीर्नक्षत्रमर्यमा देवतोत्तराः फल्गुनीर्नक्षत्रँ सविता देवता हस्तौ नक्षत्रं त्वष्टा देवता चित्रा नक्षत्रं वायुर्देवता निष्ट्या नक्षत्रमिन्द्राग्नी देवता विशाखं नक्षत्रं मित्रो देवतानूराधा नक्षत्रमिन्द्रो देवता ज्येष्ठा नक्षत्रं निर्ऋतिर्देवता मूलं नक्षत्रमापो देवताषाढा नक्षत्रं विश्वे देवा देवतोत्तरा अषाढा नक्षत्रं विष्णुर्देवताश्वत्थो नक्षत्रं वसवो देवता श्रविष्ठा नक्षत्रं वरुणो देवता शतभिषङ् नक्षत्रमज एकपाद्देवता प्रोष्ठपदा नक्षत्रमहिर्बुध्न्यो देवतोत्तरे प्रोष्ठपदा नक्षत्रं पूषा देवता रेवती नक्षत्रमश्विनौ देवताश्वयुजौ नक्षत्रं यमो देवतापभरणीर्नक्षत्रमग्ने रुचस्स्थ प्रजापतेस्सोमस्य धातुर्भूयासं प्रजनिषीय तेन ब्रह्मणा तेन च्छन्दसा तया देवतयाङ्गिरस्वद् ध्रुवास्सीदत ॥१३॥

अग्निर्मूर्धायमग्निस्त्वामग्ने पुष्करादधि ।।
हुवे वस्सुद्योत्मानँ सुवृक्तिं विशामग्निमतिथिँ सुप्रयसम् ।
मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ।।
पुरो वो मन्द्रं दिव्यँ सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् ।
पुर उक्थेभिस्स हि नो विभावा स्वध्वरा करति जातवेदाः॥
का त आकूतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा ।
को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥
जनस्य गोपा अजनिष्ट जागृविरग्निस्सुदक्षस्सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद्विभाति भरतेभ्यश्शुचिः ॥
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वने वने ।
स जायसे मथ्यमानस्सहो महत्त्वामाहुस्सहसस्पुत्रमङ्गिरः ॥
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।
इन्द्रेण देवैस्सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥
त्वामग्ने हविष्मन्तो देवं मर्तास ईडते । मन्ये त्वा जातवेदसँ स हव्या वक्ष्यानुषक् ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो । महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥
आ ते अग्न इधीमहि ॥
आ ते अग्न ऋचा हविश्शुक्रस्य शोचिषस्पते ।
सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यँ हूयत इषँ स्तोतृभ्य आभर ॥
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषँ स्तोतृभ्य आभर ॥१४॥
  
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् ॥
तमग्निमस्ते वसवो न्यृण्वन् सुप्रतिचक्षमवसे कुतश्चित् ।
दक्षाय्यो यो दम आस नित्यः॥
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
त्वाँ शश्वन्त उपयन्ति वाजाः॥
एना वो अग्निं नमसोर्जो नपातमाहुवे ।
प्रियं चेतिष्ठमरतिँ स्वध्वरं विश्वस्य दूतममृतम् ॥
अग्न आयाह्यग्निभिर्होतारं त्वा वृणीमहे ।
आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
उदस्य शोचिरस्थादाजुह्वानस्य मीढुषः।
उद्धूमासो अरुषासो दिविस्पृशस्समग्निमिन्धते नरः ॥
अग्ने वाजस्य गोमत ईशानस्सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः॥
स इधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः । स तिग्मजम्भ रक्षसो दह प्रति ।।
भद्रो नो अग्निराहुतो भद्रा रातिस्सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः॥
यस्समिधा य आहुत्या यो वेदेन ददाश मर्तो अग्नये । यो नमसा स्वध्वरः ॥
तदग्ने द्युम्नमाभर यत् सासाहत् सदने कंचिदत्रिणम् । मन्यं जनस्य दूढ्यः॥
अग्निँ होतारं मन्ये दास्वन्तं वसुँ सूनुँ सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनुवष्टि शोचिषाजुह्वानस्य सर्पिषः ॥
यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिश्शुक्र मन्मभिः ।
परिज्मानमिव द्याँ होतारं चर्षणीनाम् ।
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥
एवेन सद्यः पर्येषि पार्थिवं मुहुर्गीरितो वृषभः कनिक्रदद् दधद्रेतः कनिक्रदत् ।
शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
 अचेत्यग्निश्चिकितिर्हव्यवाट् स सुमद्रथः ।
अग्निश्शुक्रेण शोचिषा बृहत् सूर्यो अरोचत ।।
घ्नन् मध्राण्यप द्विषो दहन् रक्षाँसि विश्वहा ।
अग्निर्विश्वस्य राजति । अग्निर्विश्वं विराजति । अग्निस्सर्वं विराजति ॥१५॥ [२६६४]


॥ इति श्रीयजुषि काठके चरकशाखायामोरिमिकायां यदक्रन्दो नामैकोनचत्वारिंशं स्थानकं संपूर्णम् ॥३९॥