कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०९

विकिस्रोतः तः
← कल्पः ८ मानव-श्रौतसूत्रम्
कल्पः ९
[[लेखकः :|]]
कल्पः १० →

अथ राजसूयसूत्रप्रारम्भः । राजा राज्यकामो राजसूयेन यजेत १ भार्गवो होता २ आश्वयुज्याममावास्यायाँ वा यजनीयेऽहन्यग्निष्टोमाय ज्योतिष्टोमाय दीक्षते ३ स सिद्धः संतिष्ठते ४ श्वोभूतेऽनुमत्या अष्टाकपालं निर्वपति ५ सिद्धमाधिवपनात् ६ प्रागधिवपनात्शम्याशीर्षं दृषदा समं कुर्यात् ७ ये प्रत्यञ्चः शम्यामतिशीयन्ते तन्नैरृतमेककपालम् ८ तूष्णीं दक्षिणाग्नौ श्रपयत्यानुमतं गार्हपत्य । उभौ सह शृतौ कुर्वन्ति ९ सिद्धमा प्रचरणात् १० आज्यभागाभ्यां प्रचर्य वीहि स्वाहाहुतिं जुषाण इति दक्षिणाग्नौ जुषं जुहोति ११ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय विस्रँ सिकायाः काण्डाभ्यां जुहोति जुषाणा निरृतिर्वेतु स्वाहेति जुहोति १२ वासः कृष्णं भिन्नान्तं दक्षिणा १३ स्वाहा नमो य इदं चकारेति गार्हपत्ये हुत्वानुमतेन प्रचरन्ति १४ दक्षिणाकाले धेनुर्दक्षिणा १५ सिद्धमा वेदस्तरणात् १६ अथ य उदञ्चः शम्यामतिशीयन्ते तानुदक्परेत्य वल्मीकवपामुद्धृत्येदमहममुष्यामुष्यायणस्य क्षेत्रियमवयज इत्युक्त्वा जुहोती दमहममुष्यामुष्यायणस्य क्षेत्रियमपिदधा-मीति लोष्टेनापिदधाति १७ श्वोभूत आदित्येभ्यो भुवद्वद्भ्यो घृते चरुरितिप्रभृति यथाम्नातम् १८ श्वोभूत आग्रायणो । वत्सः प्रथमजो दक्षिणा १९ श्वोभूते चातुर्मास्यानि पौर्णमास्यामारभ्य सँ वत्सरेऽपवर्जयेत् २० श्वोभूत इन्द्र तुरीय-माग्नेयोऽष्टाकपालो वारुणो यवमयश्चरू रौद्रो गावीधुकश्चरुरैन्द्रं दधि । धेनुरनड्वाही दक्षिणा २१ अपां न्ययनादपामार्गानाहरन्ति । तान्सक्तून्कृत्वा श्वोभूते प्रागुदयादपामार्गेण प्रचरन्ति २२ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय पर्णमयेन स्रुवेण देवस्य त्वा सवितुः प्रसव इति जुहोति २३ हतँ रक्षोऽवधिष्म रक्ष इत्यनूपतिष्ठते । वरो दक्षिणा २४ सायं पञ्चेध्मीयानवनीय पञ्चधा व्युदूह्येध्मानादधाति २५ ये देवाः पुरःसद इति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामं न प्रतिपरिक्रम्य पञ्चमेन मध्ये २६ इदमहँ रक्षोऽभिसमूहामीति प्रभृतिभिराहवनीयँ समूह्याग्नये पुरःसदे स्वाहेति पूर्वार्धे जुहोति प्रदक्षिणमुत्तरैरनुपरिक्रामं न प्रतिपरिक्रम्य पञ्चमेन मध्ये २७ रथः पञ्चवाही दक्षिणा २८ अमावास्यायां निशि पञ्चेध्मीयेन यजेत यो रक्षोभ्यो बिभीयात्पिशाचेभ्यो वा २९ श्वोभूते देविकापष्ठौही दक्षिणा ३० श्वोभूते त्रिषँ युक्तमाग्नावैष्णव एकादशकपाल ऐन्द्रा वैष्णवश्चरुर्वैष्णवस्त्रिकपालो । वामनो दक्षिणा ३१ श्वोभूत उत्तरँ सोमापौष्ण एकादशकपाल ऐन्द्रा पौष्णश्चरुः पौष्णश्चरुः । श्यामो दक्षिणा ३२ श्वोभूते वैश्वानरँ वारुणमग्नये वैश्वानराय द्वादशकपाल इयान्वारुणो यवमयश्चरुर्हिरण्यं चाश्वश्च दक्षिणा ३३ श्वोभूते बार्हस्पत्यश्चरुर्ब्रह्मणो गृह इति प्रभृतयो रत्निनः ३४ त इष्टिपरिवेषं दद्युर्येषां गृहेष्वन्वहँ यजेत ३५ अङ्गुष्ठपर्वमात्रो नैरृतश्चरुर्नखनिर्भिन्नानां । तूष्णीं दक्षिणाग्नौ श्रपयति ३६ दक्षिणा परेत्य स्वकृत इरिण एकोल्मुकं निधाय प्रदरे वा निरृत्यै स्वाहेति जुहोति ३७ रत्निभ्य ऊर्ध्वः पुनरैन्द्र एकादशकपालो राज्ञो गृह । ऋषभो दक्षिणा ३८ श्वोभूते प्रयोगाविन्द्रा याँ होमुच एकादशकपालं निर्वपेदिन्द्रा य सुत्राम्ण एकादशकपालमृषभो दक्षिणा ३९ अन्वहँ यजेत ४० पार्वणः पर्वणि ४१ त्रैधातव्ययान्यत्सहस्रं दक्षिणा ४२ 9.1.१

मैत्राबार्हस्पत्यमभिषेचनीयस्य दीक्षणीयायाम् १ स्वयँ रुग्णाया अश्वत्थ-शाखायाः पात्रं भवति २ पुरस्ताच्छ्वेताँ श्वेतवत्सां दुहन्ति ३ तत्स्वयं मूर्छति स्वयं मथ्यते स्वयँ विलीनमाज्यं भवति ४ अथ मैत्राबार्हस्पत्यँ हविर्निर्वपति ५ अर्धं बर्हिषो लुनात्यर्व ँ! स्वयँ लूनमर्धमिध्मस्य करोत्यर्ध ँ! स्वयंकृतमर्ध ँ! वेद्याः करोत्यर्ध ँ! स्वयंकृतम् ६ ये क्षोदिष्ठास्तण्डुलास्तं बार्हस्पत्यं चरुँ शृतं कुर्वन्ति ७ तत्राज्यमाधाय स्वयँ विलीनमासिच्य स्थविष्ठानावपन्ति ८ उभौ समाहत्य सह शृतौ कुर्वन्ति ९ सिद्धमा सादनात् १० अनुद्धते मैत्र-मासादयत्युद्घते बार्हस्पत्यम् ११ सिद्धमा प्रचरणात् १२ मैत्रेण पूर्वेण प्रचरन्ति १३ अश्वो मैत्रस्य दक्षिणा शितिपृष्ठो बार्हस्पत्यस्य श्वेता वा सवत्सोभयोः १४ द्वादश दीक्षाः १५ सिद्धमा क्रयात् १६ सह सोमौ क्रीणन्त्यभिषेचनीयदेशे यथोद्देशैर्वत्सतरैः साण्डैः १७ दाशपेयिकं ब्रह्मणो गृहे निदधाति १८ सिद्ध-माग्नीषोमीयात् १९ अग्नये गृहपतय आपतन्तानामित्यष्टौ देवसुवाँ हवीँ ष्य-ग्नीषोमीयस्य पशुपुरोडाशमनुनिर्वपति २० यथा देविकाहविर्भिस्तथा प्रचरति २१ सिद्धमा स्विष्टकृतः २२ प्राक्स्विष्टकृतः सविता त्वा प्रसवानाँ सुवता-मिति ब्रह्मणो हस्तमालभ्य यजमानमाश्रवयन्ति २३ अमुमिति नाम गृह्णात्या-मुष्यायणमिति गोत्रममुष्याः पुत्रमिति मातुरमुष्याँ विशीति स्वाराज्यमाशासते विशि महते क्षत्राय महते जानराज्यायेति सर्वत्रानुषजति २४ सिद्ध उपवसथः २५ श्वोभूतेऽभिषेचनीयः सप्तदश उक्थ्यो बृहत्पृष्ठः २६ सिद्धमा मध्यंदिनी-यानां निर्वपणात् २७ मध्यंदिनीयान्निरुप्य मारुतमेकविँ शतिकपालं निर्वपति २८ सिद्धमोपधानात् २९ शुक्रज्योतिश्च चित्रज्योतिश्चेति प्रभृतिभिर्गणैरेक-विँ शतिं कपालान्युपदधाति वैश्वदेवीं च पयसीं तूष्णी ँ! सँ स्करोति ३० सिद्धमा दक्षिणाकालात् ३१ एवमसंमिता दक्षिणा ददात्ययुतँ वा ३२ मरुत्वतीयैः प्रचर्य मारुतेन प्रचरति पयस्या च ३३ देवीरापो अपां नपादित्यभिहवमपां च त्रीणि गृह्णाति ३४ देवीरापो अपां नपादिति सारस्वतीनाँ ॥ राष्ट्रदा स्थ राष्ट्रममुष्मै दत्तेति सर्वत्रानुषजति ३५ वृषोर्मिरसीति प्रतीपसारिणीनाँ वृषसे-नोऽसीत्यन्वीपसारिणीनामपां पतिरसीति नदादप्रहावरी स्थेति स्थावराणां परिवाहिणी स्थेति वाहिनीनामो जस्विनी स्थेति या उञ्शीय धावेयुर्मान्दा स्थेति मन्दँ वहन्तीनाँ व्रजक्षित स्थेति कूप्यानाँ सूर्यवर्चस स्थ सूर्यत्वचस स्थति या आतपति वर्षति याश्च परिददृश्रे मरुतामोज स्थेति ह्रादुनीनाँ वशा स्थेति प्रुष्वाणाँ शक्वरी स्थेति गोरुल्ब्यानाँ विश्वभृत स्थ जनभृत इति दध्नः श्लक्ष्णस्या नाधृष्टासीति घृतस्या पामोषधीनाँ रस इति मधुनः ३६ देवीरापो मधुमतीः सँ सृज्यध्वमिति विस्तृते पात्रे सँ सृज्योत्तरेण होत्रीयं परिक्रम्या नाधृष्टाः सीदतेति पश्चात्पोतुर्धिष्ण्यस्य सादयति ३७ 9.1.२

दर्भयोः प्रतिमुच्या निभृष्टमसीति रुक्ममादत्ते १ शुक्रा वः शुक्रेण पुनामीति रुक्मेणोत्पुनाति २ स्वाहा राजसूया इति रुक्ममन्ववसृजति ३ सधमादो द्युम्न्या ऊर्जा एका इति व्यानयति पालाशाश्वत्थौदुम्बरनैयग्रोधैः ४ रुद्र यत्ते गिरिपरं नामेति शेषमाग्नीध्रीये जुहोति ५ सोमा इन्द्रो वरुण इति यजमानँ वाचयति ६ दधि मधु शष्पाण्यौदुम्बरे यजमानमाशयति ७ क्षत्रस्य योनिरसीति तार्प्येण दीक्षितवसनमभिधत्ते ॥ क्षत्रस्योल्बमसीति पाण्डरँ सँ शुद्धम् ८ क्षत्रस्य नाभिरसीत्युष्णीषेण संनह्यति ९ नवनीतेन संधाप्य पञ्चाशता दक्षिणमक्षि चाङ्क्त एकपञ्चाशता १० अप उपस्पृश्यावित्तो अग्नि-र्गृहपतिरिति गार्हपत्यान्ते यजमानमावेदयत्येष ते जनते राजेति यजमानमाह ॥ सोमोऽस्माकं ब्राह्मणानाँ राजेति जपति ११ इन्द्र स्य वज्रोऽसि वार्त्रघ्न इत्यधिज्यं धनुः प्रयछति १२ शत्रुबाधना स्थेति त्रीन्बाणवतः प्रदाय पात प्राञ्चं पात प्रत्यञ्चमिति जपति १३ मित्रोऽसीति दक्षिणमुपावहरति वरुणोऽसीति सव्यँ सहेषुभिः १४ हिरण्यवर्णमुषसो व्युष्टा इत्येताभिरभिमन्त्रयेत १५ समिधमातिष्ठेति प्रभृतिभिर्दिशोऽनुनिक्रामति मनसा न पदाभ्याम् १६ अग्रेण सदः सोमस्य त्विषिरसीति व्याघ्रचर्म विवेष्ट्य प्राग्ग्रीवलोममास्तृणाति १७ तदारुह्य जपति यजमानः प्रत्यस्तं नमुचेः शिर इति पदा सीसं पण्डगाय प्रत्यस्यत्यवेष्टा दन्दशूका इति लोहितायसं केशवापाय १८ मृत्योः पाहीति राजतँ रुक्यमधस्तात्पादयोरुपकर्षति सौवर्ण ँ! रुक्मम् १९ अग्नये स्वाहा सोमाय स्वाहेति षट्पार्थानि जुहोति २० सोमस्य त्वा द्युम्नेनेति समया सौवर्णम-भिषिञ्चति पालाशेन दक्षिणतो ब्रह्माश्वत्थेन पश्चाद्वैश्य औदुम्बरेणोत्तरतो भ्रातृव्यः पुरस्ताद्यो जन्यो मित्रँ स नैयग्रोधेन २१ पालाशे संपातानवनीयाग्नीध्रे साद-यति २२ इन्द्रा य स्वाहेति षट्पार्थानि जुहोति २३ इन्द्र स्य योनिरसीति विषाणामनुमन्त्रयते समाववृत्रन्नधरागुदक्ता इत्यभिषेकमूर्ध्वं नाभेस्त्रिः २४ इन्द्र स्य वज्रोऽसि वाजसनिरिति चात्वालान्ते रथमुपावहरति मित्रावरु-णयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मीति युनक्ति २५ विष्णोः क्रमोऽसीति चक्रे पादमादधाति सपत्नहेत्यारोहति २६ मरुतां प्रसवे जयेति यान्तमनुमन्त्रयते २७
असाविदेवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥
इत्यैन्द्र या! त्रिष्टुभा ब्रह्मान्वेति २८ राजन्यं जिनाति । तस्मै तामिषुमस्यति २९ व्रतं गृहीत्वाप्तं मनः समिन्द्रि येणेत्युक्त्वा वर्तते ३० एष वज्रो वाजसातम-स्तेन नौ पुत्रो वाजँ सेदिति पत्न्यै धन्वानि प्रयछति ३१ तान्यञ्जलिना प्रति-गृह्णाति ३२ मारुतस्य पयस्याश्च समवदायानिरुक्तेन स्विष्टकृता प्रचर्य रुक्माननुमन्त्रयत 9.1.३

इयदसीति राजतँ सौवर्ण ँ! सूत्रँ युङ्ङसीति सौवर्ण ँ! सूत्रमूर्गसीत्यौदुम्बरँ हरितसूत्रम् १ मित्रोऽसीति दक्षिणमुपावहरति वरुणोऽसीति सव्यम् २ सहायुधं प्रत्यञ्चं कृत्वा प्रतिहिताय प्रयछति ३ सदसि समहँ विश्वैर्देवैरिति हस्तावामिक्षामभ्यवहरति ४ तत्र ते हिरण्ये ददात्यौदुम्बरँ वाबध्नीते ५ नमो मात्रे पृथिव्या इति वाराही उपानहा अभ्यवरोहति ६ पशूनां मन्युरसि तवेव मे मन्युर्भूयादिति प्रतिमुञ्चति ७ प्रति त्यन्नाम राज्यमधायीति जपति ८ स्योनासि सुषदेत्युत्तरत आहवनीयस्यासन्दीमवस्थापयति स्योनामासीद सुषदामासीदेत्यासन्दीमारोहन्तमनुमन्त्रयते निषसाद धृतव्रत इत्यारूढम् ९ अग्नये स्वाहा सोमाय स्वाहेति रथविमोचनीनं जुहोति १० हँ सः शुचिषदिति सह सारथिना रथवाहने रथमादधाति ११ अध्वर्यवे शतं दत्वावरोहति दास्यन्वा १२ क्षयमाणो हिरण्यकूर्चे हिरण्यकशिपुनि चासीनः शौनःशेपँ होता व्याचस्ते १३ अध्वर्युः प्रतिगृणात्यध्वर्यो ब्रह्म वदामेत्यामन्त्रयत आँ होतरित्यृक्षु तथा होतरिति गाथासु १४ समाप्ते शतँ होत्रे ददाति सहस्रं प्रतिगरित्रे १५ मध्यतःकारिणो यजमानं पर्युपविशन्ति प्रतिहितश्चोदञ्चो रत्निनः सेनानीप्रभृतयोऽन्ये तक्षरथकाराभ्याम् १६ ब्रह्मँ स्त्वं मे ब्रह्मासीति यजमानो मध्यतःकारिणामेकैकमामन्त्रयते १७ सवितासि सत्यसव इति ब्रह्मा प्रत्याह मित्रोऽसि सुशेव इत्युद्गातेन्द्रो ऽसि सत्यौजा इति होता वरुणोऽसि विश्वौजा इत्यध्वर्युः १८ एष वज्रस्तेन मे रध्येति स्फ्यं प्रयछति ब्रह्मा यजमानाय यजमानः प्रतिहिताय प्रतिहितः सेनान्ये सेनानीप्रभृतय आक्षणिवापात् १९ स्फ्येनाधिदेवतं कृत्वा कृतसंपूतान्सूदयन्निवपति २० तत्र पष्ठौही प्रसुवति २१ तां चत्वारो विदीव्यन्ते ब्राह्मणो राजन्यो वैश्यः शूद्र ः! २२ तेषाँ यः पराजयते स यजमानस्य गोषु पष्ठौहीमपिसृजति २३ ततश्चतुःशतमक्षान-वोह्याहोद्भिन्नँ राज्ञ इति ॥ दिशो अभ्यभूदयमिति पञ्चाक्षान्यजमानाय प्रयछति २४ क्षेत्रं ब्रह्मणे ददाति । वरँ वृणीते २५ मङ्गल्यनाम्नो ह्वयति सुश्लोकाः सुमङ्गलाः सत्यराजान इति २६ पत्नीलोके प्रतिहितस्य मातरमुपस्पृश्य प्रतिहितमन्वारभ्य प्रजापते न त्वदित्येतया गार्हपत्ये नामव्यतिषङ्गं जुहोति पालाशसंपातम् २७ असा अमुष्य पुत्रोऽमुष्यासौ पुत्र इति नामनी व्यतिषजति २८ वयँ स्याम पतयो रयीणामिति प्रतिहितँ वाचयति २९ मारुतस्य पयस्याश्च समवदायेडामुपहूय भक्षयन्ते ३० 9.1.४

माहेन्द्रे ण प्रतिपद्य सिद्धमावभृथात् १ वासाँ स्यभिषेकपात्राणि वाराही च प्रतिवेशमवभृथँ हरेयुः २ गागुलैरवभृथमभ्यवैति ३ अपां नप्त्रे स्वाहेत्य-वभृथेऽप्सु जहोत्यूर्जो नप्त्रे स्वाहेति दर्भस्तम्बे द्वितीयमग्नये गृहपतये स्वाहेति गार्हपत्ये ४ सिद्धमानूबन्ध्यायाः ५ सूतवशानूबन्ध्यासूनया चतुष्पद्या-भिविक्रमयति ६ नीवारान्पशुपुरोडाशाय निर्वपति ७ न केशश्मश्रू वापयति ८ न दीक्षते दण्डं प्रयछति ९ सावित्रेणोदवस्यति गार्हपत्ये यजमानाय दक्षिणाग्नौ पत्न्यै १० सँ सृप्सु तद्भक्षौ भक्षयतः । सा व्रताग्निहोत्रयोः संततिः ११ सावित्रोऽष्टाकपाल इति प्रभृतयो दश सँ सृपः १२ तासामाहवनीयस्थाने गार्हपत्यं निधाय प्राचीनँ सँ सर्पनन्वहँ यजेत १३ यथा वैष्णवं दशपेयाय प्राग्वँ शे कुर्यात् १४ दशपेयाय दीक्षते । द्वादशपुण्डरीकां मालाँ यजमानः प्रतिमुञ्चते साप्सु दीक्षा १५ सद्यः सर्वं कुर्वन्ति । कृष्णाजिनमेखलाविषा-णास्तनुग्रहं कुर्यादन्यद्दीक्षितं न प्रयछति १६ प्रायणीयस्य हविष्कृता वाचँ विसृज्याभ्यर्धे राजानं निवपति १७ प्रायणीयँ सँ स्थाप्य पुरस्तात्क्रीतस्य वत्सतरानपाकरोति स्वजा असीति प्रभृतिभिः १८ सिद्धमोपसद्भ्यः १९ तिस्र उपसदः २० सिद्ध उपवसथः २१ श्वोभूते दशपेयाग्निष्टोमो रथंतरपृष्ठः २२ सिद्धमा भक्षणात् २३ शतं ब्राह्मणाः सोमान्भक्षयन्ति दशदशैकैकं चमसमा दशमान्मातृतः पितृतश्चान्वाख्याय २४ न ब्राह्मणन्यङ्गो भक्षयेद्दासीपुत्रो नन्वा-चक्षीत कामं भक्षयेत् २५ सहस्रतमीमतिकाल्यां रुक्मो होतुरितिप्रभृति यथाम्नातमपाकरोति २६ अजः सुब्रह्मण्यस्य वत्सतर्युन्नेतुः साण्डस्त्रिवत्सो ग्रावस्तुतो द्वादश पष्ठौहीर्गर्भिणीर्ब्रह्मणः २७ न प्रसर्पकेभ्यो ददाति २८ अनूबन्ध्यायै सहस्रमतिकाल्या ऋत्विग्भ्यः सोमपेभ्यो ददाति २९ वशातिरात्रं करोति ३० न केशश्मश्रू वापयति ३१ दिशामवेष्टिभिरुदवस्यति ३२ आग्नेयोऽष्टाकपाल इति प्रभृतीनि पञ्च निर्वपति ३३ सायं पौर्णमास्यां पुरस्तात्प्रातरग्निहोत्रात्प्रयुग्भिर्यजत आग्नेयोऽष्टाकपालः सौम्यश्चरुरिति प्रभृतीनि षड्दक्षिणो रथवाहनवाहो दक्षिणा ३४ श्वोभूते पौर्णमास्येष्ट्वोत्तराः प्रयुज उपैति सारस्वतश्चरुः पौष्णश्चरुरिति प्रभृतीनि षट्सव्यो रथवाहनवाहो दक्षिणा ३५ श्वोभूते पशुबन्धो मारुतो पृश्निः पष्ठौही गर्भिणी ३६ श्वोभूत उत्तर आदित्याजा मलिहा गर्भिणी ३७ सायँ सोमेन प्रतिपद्य सँ वत्सरमग्निहोत्रमेव जुहोत्या देशात्पशुबन्धाद्द्व्यहेद्व्यहे वा ३८ यो धीव्यवसितः सत्यसितः सात्यदूत-हविर्भिर्यजते सवित्रे प्रसवित्र इति प्रभृतीनि त्रीणि ३९ अश्वः शोणकर्णो दक्षिणा दण्ड उपानहौ शुष्कदृतिश्च ४० तेभ्यः प्रदाय प्रतिवेशाय राज्ञे प्रहिनोत्य-भ्यषिक्षि राजाभूवमिति ४१ पौर्णमास्यां केशवपनीयाय दीक्षते ४२ अमा-वास्यायाँ यजनीयेऽहन्यतिरात्रः क्रतुरषोडशिकः सहस्रदक्षिणः ४३ वपन-काल आसन्द्यामासीनः
ये केशिनः प्रथमे सत्रमासत येभिरिदँ विश्वं भुवनमा विराजति ।
तस्मा अर्चाम कृणवाम निष्कृतिँ शं नो अस्तु द्विपदे शं चतुष्पदे ॥
इति निखिलं केशश्मश्रू यजमानो वापयते । प्रज्ञातमुदवसानम् ४४ अनन्तरमक्षैर्दीक्षतेऽहीनाय ४५ ज्योतिरग्निष्टोमः पूर्वो । ऽमावास्यायाँ यजनीयेऽहन्यतिरात्रः । प्रज्ञातमुदवसानम् ४६ अनन्तरं क्षत्रधृतये दीक्षते ४७ त्रिष्टोमोऽग्निष्टोमो रथन्तरपृष्ठः । प्रज्ञातमुदवसानम् ४८ अनन्तर-मिष्टिभिर्यजेत देविकाभिर्देवसुवाँ हविर्भिरैष्टिक्या सौत्रामण्या वैश्वा-नरवारुण्या त्रैधातव्यया त्रैधातव्यया ४९ 9.1.५
इति राजसूये प्रथमोऽध्यायः

पुण्यनाम्नि देवयजने राजाश्वमेधेन यजेत सर्वान्कामानवरुरुत्समानोऽमुं च लोकमभिजिगीषन् १ अपदातीनृत्विजः समानावहन्ति २ फाल्गुन्यां पौर्णमास्यां प्राजापत्यमृषभं तूपरँ सर्वरूपमालभेत ३ हुतायाँ वपायां चात्वाले मार्जयित्वा सर्वा दिशो रथा अभिधावन्ति ४ राजाश्वमेधेन यजेत तम-नुजानीतेति ५ स सिद्धः संतिष्ठते ६ एतमेवालभेत सर्वकामः ७ पूर्वां पौर्णमासीमुपोष्योत्तरामुपवसेत् ८ ब्रह्मौदनायास्तमयमनु वाचँ यछन्ति ९ उदिते वैतसमिध्ममुपसमाधाय द्र ष्ट्रे नम उपद्र ष्ट्रे नम इति प्रभृतिभिरादित्य-मुपतिष्ठते १० हिरण्यगर्भ इति द्वादश पूर्णाहुतीर्जुहोति ११ चतुष्केष्वप्सु दक्षिणाग्नौ ब्रह्मौदनँ श्रपयति रुक्मानभितोऽधस्ताद्रा जतमुपरिष्टात्सौवर्णम् १२ पश्चाद्गार्हपत्यस्य मध्यात्कारिणः प्राश्नन्ति १३ तेभ्यः शतमानं ददाति १४ मौञ्जीं दर्भमयीँ वा द्वादशारत्निं त्रयोदशारत्निँ वाभिधानीं ब्रह्मौदनेन न्युद्येमा-मगृभ्णन्निति रशनामादत्ते १५ ब्रह्मन्नश्वं भन्त्स्यामीति ब्रह्माणमामन्त्रयते १६ तं बधान देवेभ्य इत्यनुजानाति १७ अभिधा असीति त्रिहायणमश्वमभि-निदधाति कृष्णं पिशङ्गमरुणपिशङ्गँ वा सोमपँ सोमपयोः पुत्रम् १८ पितुरनुजायाः पुत्रमग्रतो नयन्ति । श्वानं चतुरक्षँ सैध्रकेण मुसलेन पौ ँ! श्चलेयोऽन्वैति १९ अपोऽभ्यवनीयाश्वं पुरस्तात्प्रत्यङ्मुखमवस्थापयति २० सर्वैस्तैः सार्धं चत्वारोऽध्वर्यवः २१ प्रजापतये त्वा जुष्टं प्रोक्षामीति प्रभृतिभिरेकैकात्प्रोक्षति सर्वेभ्यस्त्वा देवेभ्य इति सर्वे सर्वतः २२ सैध्रकेण मुसलेन पौ ँ! श्चलेयः श्वानँ हन्ति २३ यो अर्वन्तं जिघाँ सतीति हन्यमाने जपति यजमानः २४ दक्षिणं पदं पूर्वमुपोद्यम्य परो मर्तः परः श्वेत्यधस्ताच्छ्वानं दक्षिणापः प्लावयति २५ उत्क्रामन्तमश्वमैषीकेनोदूहेन वेतसशाखयाभ्युदूहन्ति २६ अग्नये स्वाहा सोमाय स्वाहेत्यनुवाकेन क्षरन्तमनुमन्त्रयते २७ इदँ विष्णुः प्रतद्विष्णुर्दिवो विष्ण इति त्रिषु पदेषु जुहोति प्रोदके २८ विभूर्मात्रा प्रभूः पित्रेत्यश्वमभिमन्त्रयते २९ आदित्यानां पत्वान्विहीत्युत्सृजति ३० शताय कवचिनां तल्प्येभ्यो राजपुत्रेभ्यो देवा आशापाला इत्यश्वं परिददाति ३१ चतुःशताः पालयन्त्य-निवर्तयन्तः ३२ 9.2.१

उपाँ शु सावित्रीभिः प्रचरति १ सवित्रेऽष्टाकपालं पूर्वाह्णे निर्वपेत् २ हिंकाराय स्वाहेति प्रभृतिभिरेकत्र पञ्चाशतमाहुतीर्जुहोति ३ सवित्रे प्रसवित्र एका-दशकपालं मध्यंदिने । सवित्रे प्रसवित्रे द्वादशकपालमपराह्णे ४ इह धृतिरिह स्वधृतिरिति प्रभृतिभिः प्राक्स्विष्टकृतश्चतस्र आहुतीर्जुहोति ५ सँ वत्सर-मिष्टिभिर्यजेताहुतीश्च जुहुयात् ६ वीणागाथिनावुपगायेतामित्ययजथा इत्य-पचथा इत्यददा इति तिसृभिर्दिवा ब्राह्मण इत्ययुध्यथा इति कल्याणमकुरुथा इत्यमुँ संग्राममजयथा इति तिसृभिर्नक्तँ राजन्य इति ७ संनिपाते नित्या-पूर्वानाशाचेतशंकेताश्वाखरे निर्वपेदाश्विनीभिर्धाना मृगाखरे यदि नागछेत् ८ वडवाप्ययेऽपीष्टिराम्नाता ९ सँ वत्सरादूर्ध्व ँ! षहमति यजति १० तस्मि-न्नुखामाछादनान्तां कुर्वन्ति ११ समाप्ते वीणागाथिभ्याँ शते ददात्यनसि युक्ते चाश्वरथौ १२ व्रजेऽश्वं प्ररुध्य दमयन्ति १३ सप्तम्यां पशुबन्धोऽष्टम्यां त्रैधातव्या दीक्षणीया १४ सिद्धमाधीतयजुर्भ्यः १५ काय स्वाहा कस्मै स्वाहेति प्रभृतीनि त्रीणि वैश्वदेव्यान्यन्वहँ सप्तम्यां पञ्चाध्वरकाणि हुत्वा षडाग्निकानि जुहोत्युत्तमानि च वैश्वदेव्यानि १६ पूर्णाहुतिप्रभृति सिद्धमोपसद्भ्यः १७ आ ब्रह्मन्ब्राह्मण इति ब्रह्मा जातमुख्यमुपतिष्ठते १८ सँ वत्सरं दीक्षा द्वादशोपसदः १९ त्रिस्तावा वेदिस्तथाग्निर्नोत्तरवेदी २० रथवाहने हविर्धाने २१ यूपानेकविँ शतिँ संमिनोति । नैचुदारवोऽग्निष्ठ एकविँ शत्यरत्निः पौतुदार-वावुपस्थावानौ षट्खादिराः षट्पालाशाः षड्बैल्वास्त्रयोऽन्ये त्रयोऽन्ये । मध्यमे वाहनि विँ शति ँ! संमिनोति २२ यथाकालं दिग्भ्यो वसतीवरीर्गृहीत्वा समानीय सादयत्ये वमुत्तराभ्यामुक्थ्यातिरात्राभ्याम् २३ अन्वहं पृष्ठ्यान-तिग्राह्यान्गृह्णाति २४ मध्यमे पृष्ठशिल्पं कुर्यात् २५ सिद्ध उपवसथः २६ श्वोभूते चतुष्टोमोऽग्निष्टोमो रथंतरपृष्ठः २७ सिद्धं पत्नीसँ याजान्तँ संतिष्ठते २८ उपतल्पयोरासीनावभ्यस्तमिते स्रुवाभ्यां जहुतः २९ सक्तून्धाना मसूस्यानि करम्भाँ ल्लाजान्पृथुकान्प्रियङ्गुतण्डुलान्सँ सृज्यान्नेन जुहोत्यग्नये स्वाहा सोमाय स्वाहेति प्रभृतिभिरैकशतात् ३० एकस्मै स्वाहा द्वाभ्याँ स्वाहेत्येते-नाभ्यावर्तयन्सर्वरात्रं जुहोति युग्भिरन्नमयुग्भिराज्यँ व्युष्ट्यै स्वाहेति व्युष्टायाँ स्वर्गाय स्वाहेतित्यभ्युदिते ३१ 9.2.२

एकविँ श उक्थ्यो मध्यमाहः १ सिद्धमा पात्रप्रयोजनात् २ अन्तर्यामपात्रं प्रयुज्य महिम्नोः पात्रे प्रयुनक्ति सौवर्णं दक्षिणँ राजतमुत्तरम् ३ सिद्धमा ग्रहणात् ४ अन्तर्यामं गृहीत्वा महिमानौ गृह्णीते हिरण्यगर्भो यः प्राणत इति ग्रहणसादने ५ सिद्धमा बहिष्पवमानात् ६
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभावसुः ।
दधाति रत्नँ स्वधयोरपीच्यं मदितमो मत्सर इन्द्रि यो रसः ॥
इत्यश्वस्य ग्रीवासु निष्कं प्रतिमुञ्चति ७ श्येनोऽसि गायत्रं छन्दः सुपर्णोऽसि त्रिष्टुप्छन्दः सखासि गायत्रं छन्द इत्यश्वस्य पुछमारभ्य पवमानँ सर्पन्ति ८ उत्तरतः शतेन त्वा प्रवृणज्मीत्युद्गातारमाह तस्यापवरमृत्विजोऽपवृताः ९ शतमुद्गात्रे ददति १० आस्तावान्ते वडवामपसाध्याश्वँ संक्रमयन्ति ११ उत्तरतो निष्केण त्वा शतपरेणोपह्वयाम इमां देवतामुद्गायेत्युद्गातारमाह तस्योपह्वान-मृत्विज इमां देवतामुपहूताः १२ शतं निष्कं चोद्गात्रे ददाति १३ उभयं कुर्वन्त्युद्गीथमश्वसंक्रन्दनं च १४ समाप्ते शतमानमुद्गातृभ्यः प्रयछति १५ सिद्धमोपाकरणात् १६ द्वयानैकादशिनानुपाकरोति प्लक्षशाखयेतरानश्वे पर्यङ्ग्यानवछादयन्तो याममिन्द्रा य स्वपस्याय वेहद्वैष्णवो वानन इति यूपभाजो । बभ्रुररुणबभ्रुरिति प्रभृती न्विश्वेभ्यो देवेभ्यः पृषत इत्यन्तान् १७ बहुशब्दे त्रीन्प्रतीयात्त्र्! यवयो गायत्र्! या इत्यध्यर्धहायनान्पञ्चावयस्त्रिष्टुभे पञ्चावरान्दित्य-वाहो जगत्यै द्विहायनाँ स्त्रिवत्सा अनुष्टुभे त्रिहायनाँ स्तुर्यवाह उष्णिहे चतुर्हाय-नान्पष्ठवाहो विराज इति पष्ठौहः १८ युञ्जन्ति ब्रध्नमित्यरुणपिशङ्गँ युज्य-मानमनुमन्त्रयते युञ्जन्त्यस्य काम्येत्युत्तरौ केतुं कृण्वन्नकेतव इति ध्वजं जीमुतस्येवेति संनद्धकवचं धत्ते---तीषुधि ँ! रथे तिष्ठन्नयतीति सारथिं तीव्रान्घोषान्कृण्वत इत्यश्वान्वनस्पते वीड्वङ्ग इति तिसृभी रथँ स्वादुषँ सद इति तिसृभिर्जनयतः सुपर्ण ँ! वस्त इतीषुमहिरिव भोगैरिति तलमाजङ्घन्ती-त्यश्वाजनीमु पश्वासयेति द्वाभ्यां दुन्दुभिम् १९ आमूरजेति जपति २० प्राग-भिप्रयाय प्रदक्षिणमार्वतयति २१ प्रयुक्तानामरुणपिशङ्गमपोऽभ्यवनीय यद्वातोऽपो अगनीगन्निति प्रत्यानयति यथोपाकृतमवस्थितम् २२ अभ्यञ्जन्ति वसवस्त्वाञ्जन्त्विति कासाम्बवेन महिषी मुखादध्या बाह्वो रुद्रा स्त्वाञ्जन्त्विति गौल्गुलवेन वावाता नाभेरादित्यास्त्वाञ्जन्त्विति मौस्तकृतेन परिवृक्त्या पुछात् २३ त्रिसाहस्रान्काचाँ ल्लोमस्वावयन्ति भूरिति महिषी सौवर्णान्भुव इति वावाता राजतान्स्वरिति परिवृक्ती शङ्खमयान् २४ लाजी शाचीत्यन्नहोमशेषं पत्न्योऽश्वायोपकिरन्ति २५ यत्राद्यात्तदिष्टके प्रकिरेत् २६ आज्यँ होम-शेषमभिषेकाय निदधाति २७ होता ब्रह्मा चान्वग्निष्ठमभितोऽन्योऽन्यं पृछतः कः स्विदेकाकी चरति सूर्य एकाकी चरतीति प्रश्नप्रतिवचनात् २८ 9.2.३

सिद्धमा नियोजनात् १ युञ्जति ब्रध्नमित्यरुणपिशङ्गमग्निष्ठे नियुनक्ति तूपर-गोमृगौ चाश्वमभितो दश पर्यङ्ग्यानवछादयन्तो याममिन्द्रा य स्वपस्याय वेहद्वैष्णवो वामन इति यूपभाजो बभ्रुररुणबभ्रुरिति प्रभृतीन् २ वसन्ताय कपिञ्जलानिति प्रभृतय आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः ३ तान्यूपान्तरेषु त्रयोदशत्रयोदश व्यत्यासं । नाङ्गिषु प्लुषिमशकान्करण्डेषु सर्पान्पञ्जरेषु मृगव्याघ्रसि ँ! हान्कुम्भेषु मकरमत्स्यमण्डूकाञ्जालेषु पक्षिणः कारासु हस्तिनः नौषु चौदकानि यथार्थमितरान् ४ सिद्धमा पर्यग्निकरणात् ५ पर्यग्निकृतानुत्सृजन्ति पुरुषान्ये च ग्राम्याणामुत्सर्जनधर्माणः ६ सिद्धमा प्रक्रमणात् ७ पौष्णमजमश्वस्याग्रतो नयन्ति ८ अवस्थितायाश्वाय दर्भ-मुपास्यति वासोऽधीवासो हिरण्यकशिपूनि च ९ गलाप्रवेष्टनेन प्राजा-पत्यान्संज्ञपयन्ति शामूलेनाश्वम् १० प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमाने तिस्र आहुतीर्जुहोति ११ अम्ब्यम्बिक इति महिषी-मभ्युदानयति तूष्णीमितरे शतँ सार्धं पत्न्या १२ विहत्य केशानुद्ग्रथ्य सव्या-न्दक्षिणानूरून्घ्नाना गणानां त्वा गणपतिँ हवामह इति दक्षिणपादमश्वंप्रदक्षिणं त्रिः परियन्त्युद्ग्रथ्य दक्षिणान्केशानुदक्पादँ सव्यानूरून्घ्नानाः प्रसव्यं त्रिः परियन्ति १३ वसो ममेति पादान्यघ्रति परिश्रिते १४ अवाक्शिरसमुत्तान-माहमजानि गर्भधमिति पत्न्यश्वमभिमेधति १५ दधिक्राव्णो अकारिषमि-त्युच्छ्रितायाँ सर्वे जपन्ति १६ प्रत्यक्शिरसः सूचीभिः पत्न्योऽसिपथान्कल्प-यन्ति गायत्री त्रिष्टुबिति द्वाभ्यां महिषी सौवर्णीभिरा हनुभ्यां भृदयात्क्रोडा-दुत्तराभ्याँ वावाता राजतीभिरा पुछात् १७ नाश्वस्य वपा । चन्द्र इति मेद आचक्षते ततश्चोद्धरन्ति १८ उत्तरतोऽश्वस्य चन्द्र ँ! श्रपयति १९
एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथा ऋतुः ।
या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥
स्वाहेत्याहवनीये त्रीञ्शृतपिण्डानादधाति २० उत्तरतोऽश्वस्य वैतसे कटेऽवदायातिक्रम्येतरयोरवद्यति २१ अभितो वपां महिमानौ जुहोति स्वाहा देवेभ्य इति पुरस्तात्सौवर्णेन विश्वेभ्यो देवेभ्यः स्वाहेत्युपरिष्टाद्रा जतेन २२ प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य चन्द्र वपानां मेदसोऽनुब्रूही-त्यनुवाचयति २३ आश्राव्य प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य चन्द्र वपानां मेदसः प्रेष्येति प्रचरति २४ यथावदानँ समवदायोत्तरेषां पशूनाँ विश्वेभ्यो देवेभ्यः छागानां मेषाणामुस्राणाँ वपानां मेदसोऽनुब्रूहीत्यनुवाचयति २५ आश्राव्य विश्वेभ्यो देवेभ्यः छागानां मेषाणामुस्राणाँ वपानां मेदसः प्रेष्येति प्रचरति २६ सूकरविकर्तं प्राजापत्यँ विशसन्ति २७ उत्तरतोऽश्वस्य शोणितँ श्रपयति । शोणिते तेजनीत्याचक्षते २८ अवदानान्यवदायावदानशः प्राजा-पत्याञ्श्रपयन्ति २९ शूल्यमश्वस्य कुर्यात् ३० 9.2.४

सिद्धमा दक्षिणाकालात् १ कामप्राप्ता दक्षिणा ददाति यदि काममावयेत् २ यत्प्राच्यां दिश्यब्राह्मणानाँ वित्तँ स्यात्तदध्वर्यवे दद्यात्क्षेत्रद्विपदवर्ज ँ! यद्दक्षिणस्यां तद्ब्रह्मणे यत्प्रतीच्यां तद्धोत्रे यदुदीच्यां तदुद्गात्रे ३ माहेन्द्रं गृहीत्वा स्तोत्रमुपाकरोति ४ अग्न आयूँ षि पवस इति सप्तानां प्रथमास्ताः पुरस्तादभिषेकस्य कुर्यात्प्रजापतिश्चरति गर्भे अन्तरिति सप्तानां प्रथमास्ताः पुरस्तात्प्राणभृत उपरिष्टादपानभृतः ५ सिँ हचर्मण्यभिषिच्यते ६ ऋषभ-चर्मोपरिष्टाद्ध्रियते ७ सहस्रशृङ्गो वृषभो जातवेदा इति सौवर्ण ँ! रुक्ममुपरिष्टाद्धारयन्संपातेनाभिषिञ्चति प्रजापतिं पारमेष्ठ्यायेति यथाकामम् ८ समिद्धो अञ्जन्कृदरं मतीनामित्याप्रीभिर्हस्तं गृह्णाति ९
वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
वि मन्युमिन्द्र वृत्रहन्नमित्रस्य शिरो जहि ॥
इति मुखँ विमृष्टे १० जागतान्विष्णुक्रमान्क्रामति ११ मासनामानि जुहोति १२ उत्तरतोऽश्वस्य वैतसे कटेऽवद्यति १३ गोमृगकण्ठेन तेजन्याँ स्विष्टकृतो वषट्कारे जुहोति १४ अश्वशफेन पत्नीसँ याजयत्ययस्मयेन वरुणावभृथेष्टौ १५ वैतसे कटे प्राजापत्यान्संचिनोति प्राञ्चावश्वतूपरौ प्रत्यञ्चं गोमृगम् १६ वषट्कृते राजपुत्राश्चत्वार आदधत्याहवनीये १७ प्रत्याहुत्याज्यं गृहीत्वा शादं दद्भिः स्वाहा यस्यारण्येऽधीतेनानुवाकेन १८ मा नो मित्रो वरुण इत्यश्वस्तोमीयाः षोडशाहुतीर्जुहोति १९ सिद्ध उपवसथः २० श्वोभूते सर्वस्तोमोऽतिरात्रः २१ सिद्धमोपाकरणात् २२ गव्यानैकादशिनानुपाकरोति २३ सिद्धमावभृथात् २४ दुर्मगदस्यास्यदघ्न उदकेऽवस्थितस्य जुम्बकाय स्वाहेति मूर्धनि तिस्र आहुतीर्जुहोति मृत्यवे स्वाहेत्यप्सु ब्रह्महत्यायै स्वाहेति द्वितीयाम् २५ तरति मृत्युं तरति पाप्मानं तरति ब्रह्महत्याँ योऽश्वमेधेन यजते यश्चैवँ वेद २६ यावन्तोऽश्वस्य हूयमानस्य गन्धमवजिघ्रन्ति सर्वे ते पुण्यलोका भवन्ति २७ सिद्धमानूबन्ध्यायाः २८ नव सौरीः श्वेता अनूबन्ध्यास्तासाँ वपासु हूयमानासु प्रतिवातं तिष्ठेरन्मुच्यन्ते पापकृतः २९ तासां पशुपुरो-डाशमन्वँ होमुच इति दशहविषा मृगारेष्टिं निर्वपति ३० सर्वपृष्ठया भूतिकामो यजेताभिशस्यमानो वा । बिभ्यन्मृगारेष्ट्यामयावी वा ३१ उदगुदव-सायात्रैतान्कालाभ्रूनजाननुपूर्व ँ! वै त्रिशाखे नियोजनेदाग्नेयं मध्यम ऐन्द्रं दक्षिण आश्विनमुत्तरे ३२ सिद्धः पशुबन्धः ३३ द्वादश ब्रह्मौदनान्पक्त्वा मध्यतः-कारिभ्यो दद्यात्तेभ्यो द्वादश च धेनूः ३४ अपि वा देविकाभिरिष्ट्वा मृगारेष्ट्या यजेत यजेत ३५ 9.2.५
इति राजसूये द्वितीयोऽध्यायः

आम्नातँ विधानमेकाहानाम् १ साग्नयः सर्वेऽन्यत्षोडशितीव्रसुच्चातुर्मास्येभ्यो येषामनाग्निक्यो दीक्षा उपसदः २ कामो येषु प्रजा पशवः प्रजातिर्वा प्रवर्ग्या-स्तेषु प्राकृतश्वोक्थः ३ रथंतरे रथंतरवर्णे वैन्द्र वायवाग्रं बृहति बृहद्वर्णे वा शुक्राग्रँ वामदेव्ये वामदेव्यवर्णे वाग्रायणाग्रम् ४ सहस्रदक्षिणे पृष्ठ्या-नतिग्राह्यान्गृह्णाति ५ अनूबन्ध्या मैत्रावरुणी वैश्वदेवी बार्हस्पत्या । तासां परिसंख्या यथाँ श्वदाभ्ययोर्वाजपेये ६ सहस्रदक्षिणेन यक्ष्यमाण इष्ट्वा च त्रैधातव्यया यजेत ७ नार्थानि धेनुर्हिरण्यं च दक्षिणा ८ अनादेशे त्वग्निष्टोम-सँ स्था ९ रथंतरपृष्ठा इन्द्र स्य त्रिकद्रुकाः १० ज्योतिष्टोमेन स्वर्गकामो यजेतेमं च लोकमभिजिगीषन् ११ अग्निष्टोम उक्थ्यः । सर्वपशुकामो यजेतान्तरिक्ष-लोकमभिजिगीषन् १२ आयुष्टोम उक्थ्यः । सर्वकामो यजेतामुं च लोकमभिजिगीषन् १३ इन्द्र स्याभिजिदनभिजितस्याभिजितिमभिजिगीषन्य-जेतोभयसामा रथंतरपृष्ठः १४ इन्द्र स्य विश्वजित्सर्वपृष्ठो । विश्वमभिजि-गीषन्यजेत १५ अनुदिश्य दीक्षते १६ पुरा प्रातरनुवाकाद्यजमानः सौव-
र्णी ँ! शतमानीं द्वादशपुण्डरीकां मालां प्रतिमुञ्चते १७ पृष्ठ्यानतिग्राह्यान्गृह्णाति १८ ताननुपृष्ठं जुहोति क्रियन्ते च पृष्ठ्यशिल्पानि १९ दक्षिणाकाले सर्ववेदसं मालां च ददाति २० वैराजँ होतृसाम बृहद्वर्णम् २१ अवभृथादुदेत्य सकर्णपुछाँ सर्वकलाँ रोहिणी ँ! वत्सत्वचमाछादयते २२ सँ स्थाप्योदवसानीयामुष्णी-ष्यधःशयोऽमृत्पात्रमुभयतस्तीक्ष्णामभ्रिमौदुम्बरीमादाय खनित्रजीवन औदु-म्बरे तिस्रो रात्रीर्वसति २३ शतमाशिरे दुहन्ति २४ उभयसामानो बृहत्पृष्ठाः २५ 9.3.१

षट्साद्यस्क्राः १ तेषामादित्यानां त्रिवृत्प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो यजेत २ महारात्रे क्षीरदृतीनश्वरथेष्वाधायर्त्विजः समानयन्ति । --- युजोद्गातारं पश्चाद्द्विक्रोशाद्द्वियुजा होतारं दक्षिणतः क्रोशात्स्थूरिणा ब्रह्माणम् ३ दृतिनवनीतमाज्यम् ४ उर्वरा वेदिः ५ उदिते दीक्षयन्ति ६ सद्यः सर्वं कुर्वन्ति ७ साण्डस्त्रिवत्सः सोमक्रयणः ८ उपसत्सु त्रिस्थाने संमील्य प्रचरन्ति ९ चात्वालदेशे लाङ्गलेषां खलेवालीं निहत्य यवान्कृषन्ति । तेषामुत्तरवेदिं धिष्ण्यांश्च निवपन्ति १० आवृत्य खलेवालीं प्रोक्षणप्रभृति यूपं कुर्वन्ति । यवकलापि चषालम् ११ अग्नीषोमीयकालेऽग्नीषोमीयेन पशुपुरोडाशेन प्रचर्य वसतीवरीर्गृह्णाति १२ सवनीयकाले यूपँ संमित्य पशूनुपाकरोत्यग्नीषोमीयँ सवनीयमनूबन्ध्याम् १३ दक्षिणाकालेऽश्वँ श्वेतँ रुक्यप्रतिमुक्तमाङ्गिरसायोद्गात्रे दद्यात् १४ अनूबन्ध्याकाले मैत्रावरुण एककपालः पयस्या वा १५ सँ वत्सरं नाञ्जीत नाभ्यञ्जीत नोपरिष्टात्पादौ प्रक्षालयेत १६ एतस्यैवैकविँ शमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत १७ अङ्गिरसामनुक्रीर्य आनुजावरो हीन इव स्यात्स एतेन यजेत १८ स्त्रीगौः सोमक्रयणी १९ अश्वँ श्वेतं ब्रह्मणे ददाति पिशङ्गी ँ! वडवामुद्गात्रे २० विश्वेषां देवानाँ विश्वजिछिल्पः सर्वपृष्ठः । सर्वकामो यजेत । यथा विश्वजित् २१ इन्द्र स्य श्येनो वसिष्ठस्य वाभिचरन्यजेत २२ इरिणमध्यवस्येत्कृष्टँ वानुप्तम् २३ लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः खड्गपाणयः पारुष्यन्त इव प्रचरन्ति २४ रथौ हविर्धाने निवर्तयित्वोपाञ्जन्ति शववहनमभ्येत्या-धिषवणफलके गोरनुस्तरणिक्याश्चर्माधिषवणम् २५ स्फ्याग्रो यूपोऽचषाल-स्तैल्वको बाधको वा । शरमयं बर्हिर्वैभीतक इध्मः २६ मन्थ्यग्रान्ग्रहा-न्निदधात्याग्रायणस्य पुरः २७ अग्नये रुद्र वते लोहितोऽजः सवनीयः २८ नवनव दक्षिणा ददाति २९ प्रजापतेरुद्भिदेकत्रिक । एषां लोकानामुद्भिद्भिः सँ यजेत ३० 9.3.२

देवानां प्रथमो व्रात्यस्तोमश्चतुःषोडशी १ श्रोत्रियान्व्रात्याँ श्चत्वारि पावनार्थ ँ! यजेरन् २ तेषाँ व्यञ्जनान्युष्णीषं प्रतोदो ज्याह्रोडो रथो विपथः फलकास्तीर्णः कृष्णदशँ वासो नीलबलक्षे अजिने राजतो रुक्मस्तद्गृहपतेः ३ अथेतरेषां दामतूषाणि वलूकानि लोहितप्रमाणानि द्विषंधीन्यजिनानि ४ त्रयस्त्रिँ शता-त्रयस्त्रिँ शता गृहपतिमभि समायन्ति ५ अश्वं चतुस्त्रिँ शं गृहपतेराहरति ६ अग्नीनाधाय गृहपतेरग्निषु संन्युप्य यजेरन् ७ सिद्धमा दक्षिणाकालात् ८ यं द्विष्यात्तस्मै व्रात्यलिङ्गानि दद्याद्व्रात्यधनं च । दक्षिणैवम् ९ नृशँ सा निन्दिता उक्थ्येन षट्षोडशिना चतुःषोडशिना । कनिष्ठाः कानिष्ठ्येन द्विषोडशिना । ज्येष्ठा ज्यैष्ठ्येन । ज्यैष्ठ्यकामो यजेत १० उभयसामा रथंतरपृष्ठः ११ सर्वस्तोमेनोभयसाम्ना बृहत्पृष्ठेनाग्नेरग्निष्टुता १२ प्रवर्ग्यास्तेषां प्रथमेऽग्न्यृतमभि शस्त्राणि १३ त्रिवृदग्निष्टुदग्निष्टोमः १४ तस्य वायव्या-स्वेकविँ शमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत १५ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो यजेत १६ ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत यस्माद्वा स्तोमाद्विभ्रँ शेत १७ स्तोमेन सप्तदशेना-मयाव्यन्नाद्यकामः प्रतिष्ठाकामो वा यजेत १८ प्रजापतेरपूर्वस्त्रिवृता प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो वा यजेत १९ जमदग्नेरिषुरभिचरन्यजेत समानकल्पश्येनम् २० बृहस्पतिसवः । पुरोधाकामः स्थापत्यकामो ब्रह्म-वर्चसकामो वा यजेत २१ अरुणो मिर्मिरःपरिस्रग्वी त्रिशुक्रियः २२ प्रातःसवने सन्नेषु नाराशँ सेष्वेकादश दक्षिणा व्यादिशति २३ अश्वद्वादशा माध्यंदिने व्यादिश्योभयी दक्षिणाकालेऽतिकालयति २४ माहेन्द्र कालेऽनुद्धत आज्यस्य वाजप्रसव्यँ हुत्वोत्तरवेदेरासन्द्यामासीनं बृहस्पतिं पुरोधयेति यथाकाममभिषिञ्चति २५ तृतीयसवने सन्नेषु नाराशँ सेष्वेकाडश दक्षिणा व्यादिशति २६ अनूबन्ध्यायै दक्षिणाकालेऽतिकालयति २७ शुन-स्कर्णस्तोमः सर्वस्वारो । य इछेत्सद्यः प्रेत्य स्वर्ग ँ! लोकमियामिति स एतेन यजेत २८ शुण्ठोऽजः सवनीयः । कृतान्नं दक्षिणा । वामदेव्यं पृष्ठम् २९ आर्भवे स्तूयमाने ब्राह्मणाः सँ स्थापयत मे यज्ञमित्युक्त्वा दक्षिणत औदुम्बर्या दक्षिणाशिराः प्रावृतो निषद्यते । तत एव संतिष्ठते ३० तस्य भक्षान्मार्जालीये निनयन्ति ३१ अवभृथवेलायामतीर्थेन निहृत्यावभृथे प्रप्लाव्यान्येन वाससा प्रछाद्य यथासव्यँ सँ वेशयन्ति ३२ पर्योषणवेलायामाहवनीयाद्दहन्ति ३३ जीवन्नवभृथं गछेत् ३४ 9.3.३

प्रजापतेरुपहव्योऽनिरुक्तः सप्तदशानां प्रथमो । भ्रातृव्यवान्स्वर्गकामः पशुकामो वा यजेत १ अश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः २ सोमस्यर्तपेयो बृहत्पृष्ठः । प्रतिष्ठाकामो वा यजेत ३ नव दीक्षास्तिस्र उपसदोऽप्रवर्ग्याः ४ घृतव्रतौ भवतो वर्षिष्ठेनाङ्गुलपर्वणा सममन्यचतुःस्थाने ह्रसिष्ठेनेतरासु ५ सिद्धमा सर्पणात् ६ ऋतमुक्त्वा प्रसर्पन्ति ७ सिद्धमा दक्षिणाकालात् ८ सोमचमसं कृतस्य राज्ञो ऽँ! शूनां पूर्णं दक्षिणाभिः सहा-तिहृत्य सगोत्राय ब्रह्मणे ददाति । तेन स यजेत ९ अग्नेर्दूणाशः । स्वर्गकामो यजेत १० आग्नेयमष्टाकपालं पूर्वाह्णे निर्वपेत्सौर्यं चरुमहन्यग्नये वैश्वानराय द्वादशकपालमपराह्णे चान्द्र मसं चरुं नक्तम् ११ नक्तमर्धमासं पुरस्तात्परियजति १२ दीक्षणीयायां द्वादशमानं प्रायणीयायामातिथ्यायां द्वे चतुर्वि ँ! शतिमाने द्विस्तावत्त्रिस्तावदुपसत्स्वग्नीषोमीये सवनीये सवनेऽनुसवनम् १३ तृतीयसवने सन्नेषु नाराशँ सेषूदयनीयायाँ स्रजमुद्गात्रे १४ वैश्यस्तोमेन वैश्यः पशुकामो यजेत १५ प्रजा त्वस्य निमीलितेव भवति १६ धेनुशतमाशिरे दुहन्ति । ता एव दक्षिणाः १७ तासामुपवसथे चतुस्त्रिँ शता दधि कारयति १८ प्रातःसवन उपाधाय कपालानि षट्षष्टिं दोहयत्यर्ध ँ! श्रपयति १९ संपूतँ राजानं ग्रहाँ श्च प्रतिदुहा परिषिञ्चति शृतेन माध्यंदिने २० कण्वरथंतरं पृष्ठम् २१ इन्द्र स्य तीव्रसुदुक्थ्यो रथंतरपृष्ठः । सोमातिपवितो राजा युध्यमानो ग्रामकामो भूतिकामः प्रतिष्ठाकामो वा यजेत २२ सिद्धमा वेदिकालात् २३ यावाद्यूपाँ वेदिमुद्धन्ति २४ प्राचीमेकादशिनी ँ! संमिनोति २५ गर्भिणी-शतमाशिरे दुहन्ति यथा वैश्यस्तोमे । वडवा च गर्भिण्यः २६ अभक्षयन्तः स्वचमसानुपोद्यछन्तोऽत्राभ्युन्नीय जुह्वतः प्रचरन्ति २७ अध्वर्युश्चमसाध्वर्यव-श्चाछावाकाय प्रतिगीर्य सर्वभक्षान्भक्षयन्त्यध्वर्युश्चमसाध्वर्यवश्चैवमुत्तरयोः सवनयोः २८ वाजपेयराजसूयौ व्याख्यातौ २९ 9.3.४
राड्विराट्सोमस्य राड्राज्यमाशँ समानो यजेत १ अग्नेर्विराडन्नाद्यकामो यजेत २ उपसदपुनस्तोमौ । गन्धर्वाप्सरस उपसदः । प्रजातिकामो यजेत ३ इन्द्र स्य पुनस्तोम उक्थ्यो । यो बहु प्रतिगृह्य गरगीरिव मन्येत यो वा मध्यत आदीर्ण इव स्यात्स एतेन यजेत ४ गौतमस्य चतुष्टोमः । पशुकामो यजेत ५ अँ शुरुक्थ्यः पूर्वे ६ तृतीयसवन उक्थ्यं गृहीत्वाग्रायणं गृह्णाति ७ सिद्धमाग्निष्टोमचमसेभ्यः ८ अग्निष्टोमचमसानुन्नीय पूर्ववत्ग्रहणसादनैर्होतृ-चमसेऽवनयति ९ षोडश्युत्तरः १० बृहस्पतेरुद्भिद्बलभिदौ । पशुकामो यजेत ११ पूर्वेणेष्ट्वोत्तरेण मासमतिहरेत् १२ प्रजापतेरपचिती । अपचितिकामो यजेत १३ उभयसामानौ बृहत्पृष्ठौ १४ अग्नेः स्तोमौ । स्वर्गकामो यजेत १५ सँ वत्सरमुख्यं बिभर्ति । सहस्रं दक्षिणा १६ ऋषभगोसवाविन्द्र स्य १७ ऋषभो । यः कामयेतर्षभ इव समानानाँ स्यामिति स एतेन यजेत १८ उभयसामा रथंतरपृष्ठः १९ पूर्वो गौराङ्गिरसः २० गोसवेन यजेत पारमेष्ठ्य-कामः श्रीराज्यकामो वा २१ उक्थ्य उभयसामा बृहत्पृष्ठो । ऽयुतं दक्षिणा २२
गावो भगो गाव इन्द्रो मे अछान्गावः सोमस्य प्रथमस्य भक्षः ।
इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्र म् ॥
इति माहेन्द्र काले वाचयित्वा पारमेष्ठ्यायेति यथाकामं प्रतिदुहा परिषिञ्चति २३ प्रजापतिविदिन्द्र वित्स्तोमकुलायौ मरुतां मरुत्स्तोमः । पुष्टिकामो यजेत २४ तेन त्रीन्याजयेत् २५ इन्द्रा ग्न्योः कुलायो । यः कामयेत कुलायमिव प्रज्ञायाः पशूनाँ स्यामिति स एतेन यजेतैतेन याजयेत् २६ इन्द्र स्येन्द्र स्तोम उक्थ्यो बृहत्पृष्ठो । राज्यमाशँ समानो यजेत २७ ऋषभाणां द्वादशशतं दक्षिणा २८ अग्नेः स्तोमो । राजपुरोहितौ सायुज्यकामौ यजेयातां पुरोधाकामो वा ब्राह्मणः २९ विघनस्तेन पशुकामः ३० संदँ शेनाभिचरन्यजेतेन्द्र स्य ३१ सिद्धमा वेदिकालात् ३२ यावद्यूपाँ वेदिमुद्धन्ति ३३ प्राचीं प्रवणदेश एकादशिनी ँ! संमिनोति ३४ ऋषभाणां द्वादशसहस्रं दक्षिणाश्वसहस्रं च ३५ श्रीष्टोमा द्वादशाग्निमदुक्थ्या वा । सर्वेऽयुतदक्षिणास्तैः श्रीकामो यजेत ३६ ऋषिष्टोमाः षोडशाप्तोर्यामाः । सर्वेऽयुतप्रयुतदक्षिणास्तैः सर्वकामो यजेत ३७ 9.3.५
त्रयोदशातिरात्राः १ तेषां प्रजापतेः प्रथमो ज्योतिरतिरात्र । ऋद्धिकामो यजेत २ इन्द्र स्य सर्वस्तोमो । भूतिकामो यजेत ३ प्रजापतेरप्तोर्यामः सर्वपृष्ठः । सर्वकामो यजेत ४ प्रजापतेर्नवसप्तदशः । प्रजातिकामो यजेत ५ एतत्प्र-भृतयो षोडशिकाश्चत्वारः ६ आदित्यानाँ स्तोमो विषुवाञ्ज्येष्ठो ज्यैष्ठिनेयो ज्यैष्ठ्यकामो यजेत ७ गोष्टोमेन पशुकामः ८ आयुष्टोमेन स्वर्गकामः ९ अभिजिता भ्रातृव्यवान् १० विश्वजिता पशुकामः ११ अग्नेस्त्रिवृत्तेजस्कामो यजेत १२ इन्द्र स्य पञ्चदशो । वीर्यकामो यजेत १३ प्रजापतेः सप्तदशो । ऽन्नाद्यकामो यजेत १४ आदित्यस्यैकविँ शो बृहत्पृष्ठः । प्रतिष्ठाकामो यजेत १५ सर्वत्र पञ्चदशी रात्रिस्त्रिवृत्संधिः १६ 9.3.६

पशुमद्भिश्चातुर्मास्यैर्यजेत १ एतेषाँ व्रतं कालं दक्षिणाँ यथा हविर्यज्ञियानामि-ध्माबर्हिः पौर्णमासीनिवर्तनं च २ तस्यतस्य पर्वणः पुरस्तत्पाशुक्यारम्भणीया ३ वैश्वदेवेन यजेत ४ चात्वालप्रभृति व्याघारणान्तं लुप्यते ५ श्वोभूते वैश्वदेवः पशुः ६ सिद्धमा नियोजनात् ७ मध्यमे परिधौ पशुं नियुनक्ति परिधिशकलेन स्वरुकर्मोत्करे वा चात्वालकर्म सर्वम् ८ वाजिनेन चरित्वा वापनकाले निवर्तयति ९ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् १० वरुणप्रघासेषु पूर्वां पौर्णमासीमुपोष्य मारुतीं मेषीमालभेत ११ उत्तरवेदिम् १२ मिनोति यूपँ यूपे नियुनक्ति १३ असंसृष्टेऽन्तःपरिध्यङ्गारान्दक्षिणापोह्य करम्भपात्राणि जुहोति १४ हुतायाँ वपायां चात्वाले मार्जयित्वा वारुण्यै वत्सानपाकरोति १५ न स्वरुं जुहोति । न यूपमनुदिशति १६ औत्तरवे-दिकेऽग्निहोत्रं जुहोति १७ श्वोभूते वारुणो मेषः पशु १८ अवभृथादुदेत्य वारुणप्रघासिकेन चरित्वा यूपमनुदिशति १९ वापनकाले निवर्तयति २० चतुरो मासान्न माँ समश्नातीति व्याख्यातम् २१ साकमेधेषु पूर्वस्यां पौर्णमास्यामाग्नेयः पशुरुत्तरस्यामैन्द्रा ग्नो यजनीये वा प्राजापत्य एकादशिना वा पशु २२ अवभृथादुदेत्य पितृयज्ञेन चरन्त्यत एकोल्मुकेन त्र्! यम्बकान्यन्ति २३ प्रत्येत्यापरस्मिन्नग्नितन्त्र आदित्येन चरित्वा यूपमनुदिशति २४ वापन-काले निवर्तयति २५ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् २६ शुनासीर्ये वायव्यः पशुरुपाँ शुदेवतः । स वैश्वदेवेन व्याख्यातः २७ प्रति-पर्व हवी ँ! षि पशुपुरोडाशेष्वन्वायातयति यथा देविकाः । तैरुपाँ शु तथा प्रचरन्ति २८ वरुणप्रघासेषु सप्त पूर्वस्मिन्वारुण्येककपालावुत्तरस्मिन् २९ साकमेधेष्वनीकवत्सांतपनौ प्रथमे यथाकालं गृहमेधीयपूर्णदर्व्यौ मध्यमे क्रीडिनमुत्तमे महाहवी ँ! षि ३० शुनासीर्ये चाम्नातः पशुः सामो वा ३१ 9.3.७

सौम्यैश्चातुर्मास्यैर्यजेत १ वैश्वदेवस्य लोके त्रिवृदग्निष्टोमो । दश दीक्षास्तिस्र उपसदः २ यूपोत्तरवेदिं निवर्तयति ३ धिष्ण्येषु लक्षणान्येव करोति ४ ऊर्ध्व ँ! हारियोजनाद्वाजिनेन चरन्ति ५ अहतँ वासोऽवभृथादुदेत्य बार्हस्पत्या-नूबन्ध्या ६ वापनकाले निवर्तयति ७ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् ८ वरुणप्रघासानाँ लोके द्व्यहः । षोडश दीक्षा द्वादशोपसदः ९ ज्योतिरग्निष्टोमः पूर्वः १० धिष्ण्येषूत्तरवेदिं निवपति ११ मिनोति यूपँ । यूपे नियुनक्ति १२ प्रातःसवने धिष्ण्येषु विहृतेषु मार्जालीयेऽग्निमुपधारये-त्करम्भपात्रेभ्यः १३ श्वोभूत उक्थ्यः १४ चतुर्दश्याँ वरुणतुषनिष्कासेन वरुणँ यजति १५ प्रत्येत्य मैत्रावारुण्यनूबन्ध्या १६ वापनकाले निवर्तयति १७ चतुरो मासान्न माँ समश्नातीति व्याख्यातम् १८ साकमेधानाँ लोके त्र्! यहः । पञ्चदश दीक्षा द्वादशोपसदः १९ अग्निष्टोम उक्थ्योऽतिरात्रः २० चतुर्दश्यां तृतीयस्य तृतीय सवने धिष्ण्येषु विहृतेषु मार्जालीयेऽग्निमुपसमाधाय पितृ-यज्ञायोदयनीयादूर्ध्व ँ! पितृयज्ञेन चरन्ति २१ अत एकोल्मुकेन त्र्! यम्बकान्यन्ति २२ प्रत्येत्य सूर्यानूबन्ध्या वशा २३ पशुपुरोडाशमादित्यं चरुमन्वायातयति २४ यूपमनुदिशति २५ वापनकाले निवर्तयति २६ चतुरो मासान्न मांस-मश्नातीति व्याख्यातम् २७ शुनासीर्यस्य लोके त्रिवृदग्निष्टोमो ज्योति-रग्निष्टोमः २८ आश्विन्यनूबन्ध्या वैश्वदेवेन व्याख्याता २९ प्रतिपर्वहवी ँ! षि प्रातःसवनिकेष्वन्वायातयति यथा पशुमत्सु ३० पुरा वसतीवरीणां परिहरणाद्गृहमेधीयः । पुरा प्रातरनुवाकात्पूर्णदर्वी यथा पशुमत्सु ३१ ये पशवस्तेऽन्वहँ सवनीयाः ३२ पञ्चाशद्दक्षिणा उत्तमे द्वादशँ शतमुत्तमे द्वादशँ शतम् ३३ 9.3.८
इति राजसूये तृतीयोऽध्यायः

उपरिष्टादतिरात्रा द्व्यहप्रभृतयोऽहीना द्वादशाहपर्यन्ताः १ पौर्णमासीदीक्षाः २ मासापवर्गा उपसदः सत्यानाँ शेषेण । दीक्षा अन्यत्रवचनात् ३ तत्रैकाहिक-शब्देष्वैकाहिका धर्मा दशरात्रिका इतरेषु ४ यथा पृष्ठ्या ग्रहाग्राणि त्र्! यनीका वा ५ एकादशिनान्समधा विभजेदुत्तममुत्तमेऽपि वा ६ ऐकाहिकशब्देषु क्रतुपशव एकादशिना इतरेषु ७ आङ्गिरसो द्व्यहानां प्रथमस्ते न यजेत यः पुण्यो हीन इव मन्येत प्रजाकामः पशुकामो वा ८ ज्योतिरग्निष्टोमः पूर्व ँ! सर्वस्तोमोऽतिरात्रः षोडशिमानुत्तरम् ९ चैत्ररथेन राजा विजिगीषमाणो यजेत १० ज्योतिरुक्थ्यः पूर्वमायुरतिरात्रः षोडशिमानुत्तरम् ११ कापिवनेन यजेत य इछेदरूक्षः पशुमान्स्यामिति यो वा पशुमान्रूक्ष इव मन्येत प्रजाकामः पशुकामो वा १२ त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्व ँ! सर्वस्तोमोऽतिरात्रः षोड-शिमानुत्तरम् १३ विश्वेषां देवानां गर्गत्रिरात्रः । सर्वकामो यजेतामुं च लोकमभिजिगीषन् १४ दशरात्रस्यादितस्त्र्! यहस्तस्यान्तरे अहनी विपरीते । तस्मिन्रात्रिः सषोडशिका १५ सप्तसप्तान्वहमाशिरे दुहन्ति १६ दक्षिणाकाले त्रिरूपा पष्टौही रूपसंपन्ना सहस्रतम्युपकॢप्ता १७ त्रयस्त्रिँ शतं त्रीणि च शतानि ददाति १८ तासु त्ववस्थितासु
त्वक्सहस्रमैरय उद्बलस्याभि नस्त्वचम् ।
स नः सहस्रमा भर वसुमान्वसुभिः सह ॥
पुनर्माविशताँ रयिः ॥
इत्युन्नतस्य दक्षिणे कर्णे यजमानो जपति १९ उभा जिग्यथुरित्याग्नीध्रीये पूर्णाहुतिं जुहोति २० उत्सृष्टा अनुमन्त्रयते २१
इह साधनः पूरो न आगाद्यो गोपाः पुष्टिपतिर्व आगात् ।
अस्माकं काममुपकामिनो विश्वे देवाः ॥
उपसृज पशूनिह इहो शकेव पुष्यत ।
इहैवोत प्र जायध्वमस्मान्वर्धयता नरः ॥
नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू अस्मे धारयतँ रयिम् ॥
पुनरेना आ वर्तय मयि तिष्ठन्तु गोपतौ ।
पुनरेना आ वर्तय मयि तिष्ठतु यो रयिः ॥
जातवेदो नि वर्तय शतं ते सन्त्वावृतः सहस्रं त उपावृतः ।
अथा पोषस्य पोषेण पुनर्नो नष्टमाकृधि पुनर्नो रयिमाकृधि ॥
पुनरूर्जा सह रय्योर्जा वः पश्यामीति गोयज्ञस्तासाम् २२ य आर्षेयो विद्वाँ स्तस्मै शतं ददाति २३ मध्यमे द्वितीयं । तासु वेहत्तस्याः कर्ण ऊर्गस्यूर्जं मयि धेहि पुनर्माविशताँ रयिरिति २४ योऽनार्षेयो विद्वाँ स्तस्मै शतम् २५ सहस्रतमीं दक्षिणापथेन नीत्वोत्तरत उत्तरवेदेस्तां दर्भेण प्रछाद्य प्राङ्मुखामवस्थापयति २६
आ जिघ्र कलशं महि ।
आ त्वा विशन्त्विन्दवः समुद्र मिव सिन्धवः ॥
सा नः सहस्रं धुक्ष्वोरुधारा पयस्वती ।
प्रजया सूनृते सह पुनर्माविशताँ रयिः ॥
इति द्रो णकलशमवघ्रापयति २७ काम्यासि प्रियासि हव्यासीडे रन्ते जुष्टे सरस्वति महि विश्रुत एतानि तेऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूयादिति गोनामानि दक्षिणे कर्णे यजमानो जपति २८ तस्या दशकला ब्रह्मणे ददाति पञ्चाग्नीधे २९ एका ममेत्याहिताँ यजमानस्य गोष्ठे विसृजति ३० अन्नमेताभ्यां तार्प्यं च ददाति तस्य द्विभागं ब्रह्मणे ३१ उत्तमे तृतीयं । तासु वामनः
प्रतिष्ठासि सहस्रस्य वैष्णवो वामनस्त्वम् ।
स नः प्रतिष्ठामा भर वसुमान्वसुभिः सह ॥
पुनर्माविशताँ रयिः ॥
इति ३२ य आर्षेयोऽविद्वाँ स्तस्मै शतम् ३३ यथा गर्गत्रिरात्र एवमेकैकँ साहस्रं दत्वा सहस्रतमीकर्म करोति ३४ प्रजापतेरश्वत्रिरात्रः स व्याख्यातः ३५ इन्द्रा ग्न्योर्वैदत्रिरात्रो । राजा विजिगीषमाणो यजेत ३६ त्रयस्त्रिवृतो-ऽतिरात्राः षोडशिमन्तः ३७ आदित्यानां छान्दोमः --- ३८ -- पराकः । स्वर्गकामो यजेत ३९ गर्गत्रिरात्रेण व्याख्यात । एतद्देवानामेषयेत् ४० 9.4.१

अत्रेश्चतुर्वीरश्चतुरात्राणां प्रथमो । य इछेच्चत्वारो मे वीरा आजायेरन्निति स एतेन यजेत १ अग्निष्टोम उक्थ्यावतिरात्रः २ जमदग्नेर्द्वितीयो । ऽपरिमितां पुष्टिमिछन्यजेत ३ विँ शतिर्दीक्षा द्वादशोपसदः ४ अनूपसदं पुरोडाशान्तूष्णी-मुपचरिताञ्श्रपयति ५ अलंकृत्याज्यैः सह सादयति ६ उपसदा प्रचर्याग्ने वेर्होत्रँ वेरध्वरमा पितरँ वैश्वानरमवसे करिन्द्रा य देवेभ्यो जुहुताँ हविरित्यृजुं प्रतिष्ठितँ हुत्वोपसदं जुहोति । तथापराह्णिक्याम् ७ एतेन वै धर्मेणोत्तरासु द्विकपालं त्रिकपालं कपालाभ्युच्चयेना द्वादशकपालात् ८ देवावश्विनौ मधुकशयाद्येमँ यज्ञँ यजमानाय मिमिक्षतमिन्द्रा य देवेभ्यो जुहुताँ हविर्देव विष्ण उर्वद्यास्मिन्यज्ञे यजमानाय विक्रमस्वेन्द्रा य देवेभ्यो जुहुताँ हविर्देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुताँ हविर्देव धातः सुधाताद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुताँ हविर्देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचँ वदतेन्द्रा य देवेभ्यो जुहुताँ हविर्देव्यनु-मतेऽन्वद्येमँ यज्ञँ यजमानाय मन्यस्वेन्द्रा य देवेभ्यो जुहुताँ हविर्देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानायासुवस्वेन्द्रा य देवेभ्यो जुहुताँ हविः सदः-सदः प्रजावानृभुर्जुषाणो ज्ञ इन्द्रा य देवेभ्यो जुहुताँ हविर्देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधीन्द्रा य देवेभ्यो जुहुताँ हविरिति स्वाहाकारा-न्तैरादधाति ९ अग्निष्टोम उक्थ्यावतिरात्रः १० वसिष्ठस्य सँ सर्पः । प्रजाति-कामो यजेत ११ अग्निष्टोम उक्थ्यावतिरात्रः १२ विश्वामित्रस्य संजयो । राजा विजिगीषमाणो यजेत १३ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य एकविँ शोऽतिरात्रः १४ विश्वेषां देवानामभ्यासङ्ग्यः पञ्चाहो । भ्रातृ-व्यवान्स्वर्गकामः पशुकामो वा यजेत १५ आदितः पञ्चाहो दशरात्रिकः । पञ्चमे रात्रिर्महताम् १६ मरुत्स्तोमः पञ्चशारदीयो । भूमानं प्रेप्सन्यजेत १७ वैशाख्याममावास्यायाँ यजनीयेऽहनि पशुबन्धायोपवसति १८ सिद्धमोपाकरणात् १९ सप्तदश पृश्नीस्त्रिवत्सा अप्रवीता उपाकरोति २० सप्तदश पृश्नीनुक्ष्णोऽनडुहः पञ्चवर्षाननूपर्ध्यति २१ सर्वेषु पशुबन्ध्येषूपाकरणं प्रोक्षण-मुपपायनं पर्यग्निकरणम् २२ उक्ष्णामुत्सर्जनं चेतराभिः सँ स्थापयन्ति २३ प्रायश्चित्तानि । यदि प्रासहा हरेयुरिन्द्रा याप्रसह्यायैकादशकपालं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति २४ यदि कूटः काणः श्रोणो वा बार्हस्पत्यं चरुँ यदि काणो वैव सौर्यमेककपालँ । यदि स्वभ्रं गर्त ँ! वा भौममेककपालँ । यदि पतेत्वायव्यं चरुँ । यद्यवसीदेन्नैरृतं चरुँ । यद्यन्योऽन्येनापतायेत प्राजापत्यं द्वादशकपालं निरुप्याथान्यं तद्रू पं तद्वर्णं तद्वयसमुपाकरोति २५ मारुत्यो वत्सतर्यः सँ वत्सरे राजीवत्यो द्वितीये कल्माषाः तृतीये नवनी-तपृश्नीररुणाश्चतुर्थे पिशङ्गीः पञ्चमे २६ सोमास्वस्मिन्यजनीये दीक्षते २७ अष्टादश दीक्षा द्वादशोपसदः २८ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः पञ्चदशो-ऽतिरात्रः सप्तदशोऽतिरात्रः २९ ऐन्द्रा मारुता उक्षाणः सवनीयास्त्रय एकस्मि-न्नहनि पञ्चोत्तमे ३० 9.4.२

प्रजापतेर्व्रतवानन्नाद्यकामो यजेत १ ज्योतिरग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्यो आयुरतिरात्रः २ ऋतूनाँ षडहः । प्रतिष्ठाकामो यजेत ३ पृष्ठ्यः षडहस्त्रयस्त्रिँ शः त्रिः ४ इन्द्र स्य सँ हितो । वीर्यकामो यजेत ५ त्रिवृदग्निष्टोमःपञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः ६ देवानां पृष्ठ्यावलम्बो । राजा विजिगीषमाणो यजेत ७ अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ८ ऋषीणाँ सप्तरात्र । ऋद्धिकामो यजेत ९ पृष्ठ्यः षडहो महाव्रतमतिरात्रभूतम् १० प्रजापतेर्द्वितीयः । प्रजातिकामो यजेत ११ पृष्ठ्यः षडहः सप्तदशं महाव्रतमतिरात्रभूतम् १२ आदित्यानां तृतीयः । पशुकामो यजेत १३ पृष्ठ्यः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रभूतम् १४ जमदग्नेश्चतुर्थो । ऽपरिमितां पुष्टिमिछन्यजेत १५ अभ्यासङ्ग्यः पञ्चाहस्त्रय-स्त्रिँ शँ षष्ठमहः सप्तदशं महाव्रतमतिरात्रभूतम् १६ इन्द्र स्य पञ्चमो । वीर्यकामो यजेत १७ त्रिकद्रुकत्र्! यहोऽभिजिद्विश्वजित्सर्वजित्सर्वस्तोमोऽतिरात्रः १८ प्रजातेर्जनकसप्तरात्रः । प्रजातिकामो यजेत १९ चत्वारि त्रिवृदहान्यग्निष्टोम-मुख्यानि विश्वजिन्महाव्रतं ज्योतिरतिरात्रः २० देवानां पृष्ठ्यस्तोम । उभौ कामाववरुरुत्समानो यजेत यो यज्ञः सत्त्रे च २१ पृष्ठ्यः षडहो बृहद्र थंतरसामा विश्वजिदतिरात्रः २२ वसूनामष्टरात्रो । देवत्वकामो यजेत २३ पृष्ठ्यः षडहो महाव्रतं ज्योतिरतिरात्रः २४ देवानां नवरात्र । आयुष्कामो यजेत २५ पृष्ठ्यः षडहो ज्योतिर्गौरायुरतिरात्रः २६ आदित्यानां द्वितीयः । पशुकामो यजेत २७ त्रिकद्रुकत्र्! यहोऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः २८ इन्द्र स्य त्रिककुद्दशरात्रः । पाप्मनो मोक्षमाणो यजेत २९ त्रिवृतावग्निष्टामौ पञ्चदश उक्थ्यो मध्ये सप्तदशावग्निष्टोमावेकविँ श उक्थ्यो मध्ये --- ३० --- यजेत ३१ त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदशा उक्थ्यास्त्रयः सप्तदशा उक्थ्या एकविँ शोऽतिरात्रः ३२ आदित्यानां छन्दोमदशाहः । पशुकामो यजेत ३३ अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमा विश्वजिदतिरात्रः ३४ देवानां पूर्दशरात्रो-ऽभिचर्यमाणो यजेत ३५ त्रिवृदग्निष्टोमो ज्योतिरुक्थ्यस्त्रिवृदग्निष्टोमो गौरु-क्थ्योऽभिजिदग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिद-ग्निष्टोमः सर्वस्तोमोऽतिरात्रः ३६ क्षेमधन्वा पौण्डरीक । एकादशरात्रेण यजेत पारमेष्ठ्यकामः स्वाराज्यकामो वा ३७ अभ्यासङ्ग्यः षड--- ३८ --- अन्वहँ विहृत्य सहस्राणि ददाति चतुष्टोमेऽश्वसहस्रम् ३९ व्याख्यातो द्वादशाहो द्वादशाहः ४० 9.4.३
इति राजसूये चतुर्थोऽध्यायः

सत्त्रेष्वभिप्लवँ षडहं प्रतीयाद्दशरात्रे द्वादशाहस्य दशाहान्यन्यत्प्रायणीयो-दयनीयाभ्यां पञ्चाहे ज्योतिर्गौरायुरिति त्रिकद्रुकं पञ्चाहं नवरात्रेऽभिजितँ स्वरसाम्नो विषुवतमावृत्तान्स्वरसाम्नो विश्वजितँ सर्वपृष्ठं त्रिरात्रे ज्योति-र्गौरायुरिति त्रिरात्रं त्रयस्त्रिँ शारम्भणे प्रतिलोमं पृष्ठमुपोत्तमँ व्रतमनादेशे १ द्वाहशाहप्रभृतीनि सत्त्राण्युभयतोऽतिरात्राण्यहरभ्युच्चयेना चत्वारिँ शाद्रा त्रात् २ तेषामहःकॢप्तिः ३ द्वादशाहे पुरस्ताच्छन्दोमानाँ सर्वस्तोमोऽतिरात्र । ऋद्धि-कामास्त्रयोदशरात्रमुपेयुः ४ उपोत्तमँ व्रतमुत्तरस्य । प्रतिष्ठाकामा-स्त्रयोदशरात्रमुपेयुः ५ द्वादशाहस्य दशाहानि विषुवान्देवत्वकामास्त्रयो-दशरात्रमुपेयुः ६ चतुर्वि ँ! श उक्थ्यो नवरात्रो महाव्रतं । प्रतिष्ठाकामा-स्त्रयोदशरात्रमुपेयुः ७ गोआयुषी दशरात्रः । प्रतिष्ठाकामाश्चतुर्दशरात्रमुपेयुः ८ पृष्ठ्य आवृत्तः पृष्ठ्यो । देवत्वकामाश्चतुर्दशरात्रमुपेयुः ९ उभयत-स्त्रिरात्राभ्यां पृष्ठ्यो । याँ स्तल्प उदके वा विवाहे मीमाँ सेरँ स्त एव चतु-र्दशरात्रमेपेयुः १० पृष्ठ्यो महाव्रतं पृष्ठ्यस्त्रयस्त्रिँ शारम्भणो यथा वैकाष्टकायां महाव्रतँ स्याद्व्रताद्ब्रह्मवर्चसकामाः पञ्चदशरात्रमुपेयुः ११ त्रिवृदग्निष्टु-दग्निष्टोम उभयतस्त्रिरात्राभ्यां पृष्ठ्यो । ब्रह्मवर्चसकामाः पञ्चदशरात्रमुपेयुः १२ त्रिवृदग्निष्टुदग्निष्टोमस्त्रिरात्रो दशरात्रश्चान्य उत्तरतोऽतिरात्रः । सत्त्रे यज्ञे चर्द्धिकाममिछन्त एतंपञ्चदशरात्रमुपेयुः १३ एतास्वेव व्रतँ । विजितिकामाः षोडशरात्रमुपेयुः १४ पञ्चाहो दशरात्रः । श्रीकामाः सप्तदशरात्रमुपेयुः १५ षडहो दशरात्र । आयुःकामा अष्टादशरात्रमुपेयुः १६ एतास्वेव व्रतं --- १७ --- ब्रह्मवर्चसकामा विँ शतिरात्रमुपेयुः १८ पृष्ट्यः स्वरसामानो विषुवानावृत्ताः स्वरसामानः पृष्ठ्यस्त्रयस्त्रिँ शारम्भणो । ऽन्नाद्यकामा एकविँ शतिरात्रमुपेयुः १९ त्रयः षडहा ऊर्ध्वं प्रथमादतिरात्रो । ऽन्नाद्यकामा एकविँ शतिरात्रमुपेयुः २० त्र्! यहः षडहो दशरात्रो महाव्रतं । पशुकामा द्वा-विँ शतिरात्रमुपेयुः २१ पञ्चाहः षडहो दशरात्रः । प्रतिष्ठाकामास्त्रयोविँ शति-रात्रमुपेयुः २२ सँ सदामयनं । पृष्ठ्यस्तोमः षडहस्त्रयस्त्रिँ शमहरनिरुक्त-मुपहव्यकॢप्तं त्रयस्त्रिँ शमहर्निरुक्तं त्रिणवं द्वे एकविँ शे त्रिणवं त्रयस्त्रिँ शम-हर्निरुक्तं त्रयस्त्रिँ शमहरनिरुक्तं पृष्ठ्यस्तोमः षडहः प्रत्यङ्त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमो । ऽन्नाद्यकामाश्चतुर्वि ँ! शतिरात्रमुपेयुः २३ षडहौ दशरात्रो । ऽन्नाद्यकामाश्चतुर्वि ँ! शतिरात्रमुपेयुः २४ एतास्वेव व्रतं । ब्रह्मवर्चसकामाः पञ्चविँ शतिरात्रमुपेयुः २५ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतँ । विजितिकामाः षड्विँ शतिरात्रमुपेयुः २६ एतास्वेव त्र्! यहः पुरस्तात्षडहानां न गोआयुषी । श्रीकामाः सप्तविँ शतिरात्रमुपेयुः २७ एतास्वेव व्रतमायुःकामा अष्टाविँ शतिरात्रमुपेयुः २८ पञ्चाहः षडहौ दशरात्रो । ब्रह्मवर्चसकामा एको-नत्रिँ शद्रा त्रमुपेयुः २९ त्रयः षडहा दशरात्रः । पुरुषकामास्त्रिँ शद्रा त्रमुपेयुः ३० एतास्वेव व्रतमोजस्कामा एकत्रिँ शद्रा त्रमुपेयुः ३२ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतं । पशुकामा द्वात्रिँ शद्रा त्रमुपेयुः ३२ 9.5.१

आ त्रयस्त्रिँ शात्त्रयः पृष्ठ्याः पञ्चाहा विश्वजिदतिरात्रः पञ्चाहो दशरात्रः । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्रा त्रमुपेयुः १ त्रयः षडहा मध्यमभितोऽतिरात्रौ दशरात्रो महाव्रतं । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्रा त्रमुपेयुः २ त्रयः पृष्ठ्याः पञ्चाहा विश्व-जिदतिरात्रस्त्रयः पृष्ठ्याः पञ्चाहाः । प्रतिष्ठाकामास्त्रयस्त्रिँ शद्रा त्रमुपेयुः ३ त्र्! यहस्त्रयः षडहा दशरात्रो महाव्रतमन्नाद्यकामाश्चतुस्त्रिँ शद्रा त्रमुपेयुः ४ त्र्! यहस्त्रयः षडहा दशरात्रो गोआयुषी । ब्रह्मवर्चसकामाः पञ्चत्रिँ शद्रा त्रमुपेयुः ५ चत्वारः षडहा दशरात्रो । विजितिकामाः षट्त्रिँ शद्रा त्रमुपेयुः ६ एतास्वेव व्रतँ । श्रीकामाः सप्तत्रिँ शद्रा त्रमुपेयुः ७ एतास्वेव गोआयुषी पुरस्तात्षडहानां न व्रतमायुःकामा अष्टात्रिँ शद्रा त्रमुपेयुः ८ एतास्वेव त्र्! यहः पुरस्तात्षडहानां न गोआयुषी । ब्रह्मवर्चसकामा एकोनचत्वारिँ शद्रा त्रमुपेयुः ९ एतास्वेव व्रतं । पुरुषकामाश्चत्वारिँ शद्रा त्रमुपेयुः १० अग्निष्टोमो द्वावुक्थ्यौ त्रिवृत्स्तो-मस्त्रयाणामतिरात्रो नवोक्थ्याः षोडशी दशमः पञ्चदशस्तोमा अतिरात्रो द्वादशोकथ्याः सप्तदशस्तोमा अतिरात्रः पृष्ठ्योऽतिरात्रो द्वादशोक्थ्या एक-विँ शस्तोमा । वायोर्विधृतिर्वि पाप्मना वर्तेमहीतिकामास्त एतमेकोनपञ्चा-शद्रा त्रमुपेयुः ११ पञ्चानाँ षडहानां द्वयोर्द्वयोः पुरस्ताद्द्वौद्वावतिरात्रौ पञ्चमस्य पुरस्ताद्द्वादशरात्रो महाव्रतं । प्रतिष्ठाकामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १२ षण्णाँ षडहानां पञ्चमस्य पुरस्तात्सर्वस्तोमोऽतिरात्रः षष्ठस्योपरिष्टाद्दशरात्रः १३ आञ्जीरँ श्चाभ्यञ्जीरँ श्च तेष्वहःसु गुग्गुलफाण्टेन प्रातःसवने सौगन्धिक-फाण्टेन माध्यंदिने सवने पूतुदारुफाण्टेन तृतीयसवने प्रातरनुवाकम-नुवक्ष्यन्तः प्रातःसवने प्रसर्पन्तश्चैवमुत्तरयोः सवनयोः १४ य आत्मानं नैव जानीरँ स्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १५ चतुर्वि ँ! श उक्थ्यस्त्रयः षडहा नवरात्रः षडहो गोआयुषी दशरात्रो महाव्रतँ । सँ वत्सरसंमितँ । सँ वत्सरकार्ममछन्तस्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १६ अग्निष्टोमः पञ्चोक्थ्या अग्निष्टोमावभित उक्थ्यो मध्ये त्रिवृत्स्तोमो नवानामेतेन कल्पेन त्रयो नवरात्रा व्याख्याताः पञ्चदशसप्तदशैकविँ शस्तोमा दशरात्रो महाव्रतँ । सावित्रं ककुभं । प्रसवकामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १७ तृतीयेनोपोत्तमो व्याख्यातः सर्वस्तोमस्य स्थाने महाव्रतं । नाञ्जीरन्नाभ्यञ्जीरन्वि पाप्मना वर्तेमहीति-कामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १८ षट्षडहा दशरात्रो महाव्रतं । प्रतिष्ठाकामास्त एतमेकोनपञ्चाशद्रा त्रमुपेयुः १९ सँ वत्सरसंमिते पृष्ठ्यावधिकौ पुरस्तादभिजित उपरिष्टाद्विश्वजित । ऋद्धिकामा एकषष्टिरात्रमुपेयुः २० त्र्! यहश्चतुर्दश षडहा दशरात्रो महाव्रतमायुःकामाः शतरात्रमुपेयुः २१ अभिप्रयायमभिषुण्वन्ति समानत्राभिषुण्वन्ति २२ दीक्षोदवसानँ वा २३ आग्नेय ऐन्द्रा ग्नो वैष्णवः पौष्णो वायव्य आश्विनः षडतिरिक्ताः पशवः सत्त्रेषु २४ 9.5.२

गवामयनं प्रजातिकामा उपेयुस्तेनादित्यानामयनँ व्याख्यातमङ्गिरसां च १ त्रिवृत्पञ्चदशस्तोमः षडहानां पुरस्तात्पृष्ठ्यो मासानां प्राग्विषुवतः पञ्च-दशत्रिवृदुपरिष्टान्मध्ये पृष्ठ्यो मासानाम् २ बृहस्पतिसवोऽभिजितः स्थाने विश्वजित इन्द्र स्तोमस्तस्मादुत्तरः पृष्ठ्यः षडहश्च दशरात्रो व्यूढा अग्निष्टोमा-स्त्रिवृत उद्भिद्बलभिदौ च । सोऽष्टावि ँ! शत्यहः ३ पृष्ठ्यः षडहो मध्ये गोआयुषी अवरूढस्तोमश्छन्दोमदशाहः ४ गवामयनेन शेषो व्याख्यातः । स्वर्गकामा उपेयुः ५ अङ्गिरसामयनं । त्रिवृत्स्तोमः षडहानां पुरस्तात्पृष्ठ्यो मासानां प्राग्विषुवत ऊर्ध्वमुपरिष्टात्पृष्ठ्यो मासानाम् ६ षडहयोश्चायु-श्चगौश्चानुलोमश्छन्दोमदशाहः ७ आदित्यानामयनेन शेषो व्याख्यातः । स्वर्गकामा उपेयुः ८ दृतिवातवतोरयनं । पृष्ठ्यस्यैकैकेनाह्ना प्राग्विषुवतो मासान्यन्ति । विषुवतः स्थाने महाव्रतं । तैरेवावृत्तैरुपरिष्टात्प्रथमोत्तमे अहनी सातिरात्रे । ऋद्धिकामा उपेयुः ९ कुण्डपायिनामयनं । मासं दीक्षिता भवन्ति । ते मासि राजानं क्रीणन्ति १० द्वादशोपसद उत्तमायामुपसद्यापराह्णिकी ँ! सँ स्थाप्य सोमं महावीराँ श्च निधायाग्निहोत्रेण दर्शपौर्णमासाभ्यां चतुर्भिश्चातुर्मास्यपर्वभिरेकैकेन मासान्यन्ति ११ अर्धमासं पौर्णमासीमर्धमासममावास्याँ सँ स्थाप्य शुनासीर्यमुत्साद्य महावीरानग्नि-प्रणयनप्रभृति पयोदोहनान्तं कृत्वा वसन्ति १२ श्वोभूते प्रातरनुवाकप्रभृति पञ्चभिः पृष्ठ्याहोभिरेकैकेन मासान्यन्ति १३ अष्टादश त्रयस्त्रिँ शान्यहानि दशरात्रो महाव्रतमुदयनीयोऽतिरात्रः स मासः १४ अत्सरुकैश्चमसैः सोमान्भक्षयन्ति १५ यो होता साध्वर्युः स पोता य उद्गाता सोऽछावाकः स नेष्टा यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्ता यः प्रस्तोता स ब्राह्मणाछँ सी स ग्रावस्तुद्यः प्रतिप्रस्थाता सोऽग्नीत्स उन्नेता । स मासमधीते । गृहपतिर्गृहपतिः सुब्रह्मण्यः सुब्रह्मण्यः १६ न वरुणप्रघासेष्ववभृथँ यन्ति । भूतिकामा उपेयुः १७ क्षुल्लकतापश्चितं । चतुरो मासान्दीक्षिता भवन्ति । चतसृभि-रुपसद्भिश्चरन्ति १८ चतुर्भिः पृष्ठ्याहोभिरेकैकेन मासान्यन्ति । स्वर्गकामा उपेयुः १९ मध्यमतापश्चितं । सँ वत्सरं दीक्षिता भवन्ति । सँ वत्सरमुप-सद्भिश्चरन्ति २० गवामयनँ सुत्या । प्रजातिकामा उपेयुः २१ महातापश्चितं । त्रीणि वर्षाणि दीक्षिता भवन्ति । त्रीणि वर्षाण्युपसद्भिश्चरन्ति २२ गवामयनमादित्यानामयनमङ्गिरसां च त्रिःसँ वत्सरँ सुत्या । प्रथमोत्तमे अहनी सातिरात्रे । ऋद्धिकामा उपेयुः २३ नैमिषीयाणामयनं द्वादशसँ वत्सरं । तैरेवाहोभिरेकैकेन त्री ँ! स्त्रीन्सँ वत्सरान्यन्ति । स्वर्गकामा उपेयुः २४ शाक्त्यानामयनँ षट्त्रिँ शत्सँ वत्सरं । तैरेवाहोभिरेकैकेन नवनव सँ वत्सरा-न्यन्ति २५ तरसमयाः पुरोडाशाः सुत्यासु । मृगपक्षिणां प्रशस्तानाँ शुकानां माँ सानां पृष्ठ्यपुरोडाशान्कुर्वन्ति यथोचितमृद्धिकामा उपेयुः २६ साध्या-नामयनँ शतसँ वत्सरं । तैरेवाहोभिरेकैकेन पञ्चविँ शतिंपञ्चविँ शतिँ सँ वत्सरा-न्यन्ति । स्वर्गकामा उपेयुः २७ अतिरात्रयोर्मध्ये सहस्रमहानि शतकृत्वो दशरात्रस्य वेति सहस्रसाव्यँ । वि पाप्मना वर्तेमहीतिकामा उपेयुः २८ 9.5.३

सरस्वत्या अप्यये दीक्षते १ चक्रीवन्ति दीक्षितस्य शालाग्नीध्रसदोहविर्धानानि च २ वेदिमात्रे संमिमीयुर्न वेदिं मिमीते नोत्तरवेदिम् ३ उलूखलबद्धो यूपः प्रकृष्यः ४ अभिषुण्वन्ति नोपरवान्खनन्ति ५ अतिरात्रे सवनीयस्य वपाँ हुत्वेन्द्रा य सांनाय्याय वत्सानपाकरोति ६ अग्निष्टोमँ सँ स्थाप्येध्माबर्हिः संनह्यति ७ षोडशिनँ सँ स्थाप्य सायं दोहयति ८ अतिरात्रँ सँ स्थाप्य सांनाय्येन यजन्ते ९ सांनाय्यँ सँ स्थाप्याग्रेणाहवनीयमवस्थायाध्वर्युः प्रा-ची ँ! शम्यां प्रास्यति । सा यत्र निपतति तद्गार्हपत्यस्थानं । ततः षट्त्रिँ शत्प्र-क्रमेष्वाहवनीयः १० तत्रानुपर्याहृत्याग्नीध्रवेदिमात्रे सदोहविर्धानानि प्रतिष्ठा-प्य सांनाय्येन यजन्ते । तेन पूर्वपक्षँ यन्ति ११ गौरुक्थ्यः पौर्णमास्याँ । सँ स्थिते पौर्णमासेन यजन्ते । तेनापरपक्षँ यन्ति १२ आयुरुक्थ्योऽमावा-स्यायाम् १३ सांनाय्येन पूर्वपक्षान्यन्ति पौर्णमासेनापरपक्षान् १४ दी-क्षिष्यमाणाः शते गोष्वृषभमुत्सृजन्ति १५ ता यत्र सहस्रँ संपद्यन्ते तदुत्थानँ सर्वासूपहतासूत्थानं गृहपतौ प्रेत उत्थानं प्लाक्षं प्रस्रवणं प्राप्योत्थानम् १६ सहस्रे संपन्ने गौरुदयनीयोऽतिरात्रः सर्वासूपहतासु विश्वजिद्गृहपतौ प्रेत आयुः १७ यद्यर्वाक्प्लाक्षात्प्रस्रवणादुत्तिष्ठेरन्स्थलैर्मध्यस्योत्तरतो ह्रदेऽवभृथमभ्यवेयुः १८ प्लाक्षं प्रस्रवणँ यन्तो दृषद्वत्या अप्यये निर्वपेदपोनप्त्रीयं चरुम् १९ प्लाक्षं प्रस्रवणं प्राप्य निषदि निरुप्यमुदयनीयमतिरात्रँ सँ स्थाप्याग्नये कामायाष्टा-कपालं निर्वपेत् २० तस्यामश्वां च पुरुषीं च धेनुके दक्षिणे दत्त्वा कारपचवं प्रति यमुनामवभृथमभ्यवेयुः २१ मित्रावरुणयोरयनँ सारस्वतँ स्वर्गकामा उपेयुः २२ मित्रावरुणयोरयनेनेन्द्रा ग्न्योरयनँ व्याख्यातमर्यम्णश्च २३ त्रि-वृत्पञ्चदशाभ्याँ व्यत्यासमर्धयन्तीन्द्रा ग्न्योरयने । त्र्! यहेणत्र्! यहेणाभ्यावर्तय-मर्यम्णोऽयने । ऽभिजित्पौर्णमास्याँ विश्वजिदमावास्यायाँ यथोक्तं पूर्वस्मिन् २४ सर्वासां प्रजानाँ श्रेष्ठाः स्यामेतिकामा उपेयुः । प्र देवयानं पन्थान-मश्नवामहा इत्युत्तरे २५ अमावास्यायां केशश्मश्रू यजमानो वापयि-त्वाप्लुत्याहते क्षौमे परिधाय पश्चादाहवनीयस्यादीक्षितः कृष्णाजिनं प्रति-मुञ्चति २६ आग्नेयमष्टाकपालं पूर्वाह्णे निर्वपेदैन्द्रा ग्नमेकादशकपालं मध्यंदिने वैश्वदेवं चरुमपराह्णे २७ तद्भक्ष एतामेव त्रिहविषमिष्टिं निर्वपेत् २८ तया सँ वत्सरँ यजेत २९ नान्यत्कृष्णाजिनाद्दीक्षितव्रतानां कुर्यात् ३० समाप्ते सँ वत्सरेऽवभृथादुदेत्य निखिलं केशश्मश्रू यजमानो वापयते ३१ तुरायण-मृद्धिकामा उपेयुः ३२ सँ वत्सरं ब्राह्मणस्य गोरक्षः । सम्वत्सरँ व्यर्णे नैत-न्धवेऽग्निमिन्धः ३३ समाप्ते सँ वत्सरे परिणह्यग्नीनाधाय दृषद्वत्या अप्यये निर्वपेदाग्नेयमष्टाकपालम् ३४ दृषद्वत्या दक्षिणेन तीरेण शम्यापरासीया-त्त्रिप्लक्षं प्राप्य यमुनामवभृथमभ्यवेयात् ३५ तदेवा मनुष्येभ्यस्तिरो भवति । स्वर्गकामो दार्षद्वतमुपेयात् ३६ अतिरात्रयोर्मध्येऽग्निष्टोमाः । सर्वो दशदशी सँ वत्सरो द्वादशो विषुवान्सर्पसामानि विषुवति क्रियन्ते ३७ जर्वरो गृहपति-र्धृतराष्ट्र ऐरावतो ब्रह्मेत्येवमादीन्सर्पानायुर्विजयेऽधीयते ३८ सर्पसत्त्रमृद्धि-कामा अमृतत्वकामाः स्वर्गकामाश्चोपेयुः ३९ अतिरात्रयोर्मध्ये सहस्रं त्रिवृतः सँ वत्सरान्दशरात्रँ वा संततमेकैकँ सँ वत्सरमेत्य प्रजापतेरेवँ सहस्रसँ वत्सरं । प्रजातिकामा उपेयुः ४० चतुर्भिः पृष्ठ्याहोभिरेकैकेन पञ्च पञ्चाशतँ सँ वत्सरा-न्यन्ति ४१ विश्वसृजामयनँ सहस्रसँ वत्सरँ सर्वा नः प्रजा अनुप्रजायेरन्ब्रह्मलोकं च गछेमहीतिकामा उपेयुः ४२ तत्र श्लोकोऽप्युक्तः
विश्वसृजः प्रथमे सत्त्रमासत सहस्रसवं प्रसवेन यन्तः ।
ततो ह जज्ञे भुवनस्य गोप्ता हिरण्मयः शकुनो ब्रह्मनाम ॥
इति ४३ सरस्वत्यूनानि कल्पयतु कल्पयतु ४४ 9.5.४

चातुर्होतृकगोनामिकमप्यनाहिताग्नेर्द्वादशरात्रं त्रिरात्रमेकरात्रँ वा १ पाकयज्ञो-पचारादग्निमुपचरति २ सांग्रामिकी जयस्य दक्षिणा सप्तस्थवीर्येषु वासो देयँ हिरण्यँ वा देयम् ३ रेवत्यां चित्रायाँ वा पशुकामः कर्म कुर्वीत ४ भिन्नेन स्रवता न हस्ता अवनेनिजीत न पिबेदयस्पात्रेणेत्येके तद्देशप्रतिषेधमित्यपरे ५ यं दिष्यात्तस्य गवां मध्येऽरण्येऽधीतैर्गोनामभिराह्वयेत् ६ सँ शृङ्गीं पुरस्ता-त्प्रतीचीमवस्थाप्याधस्ताद्दर्भानास्तीर्य काम्यायै स्वाहेति मूर्धनि तिस्र आहुतीः पशुकामो जुहुयात् ७ अपरस्यामग्निवेलायां दीप्यमानं भ्रातृव्यस्य गृहादा-हृत्येन्धानो रात्रीं जागृयात् ८ उत्तरो निगदे व्याख्यातः ९ प्राचीनप्रवणे समूले पशुकाम उपोदये सूर्यस्य हस्ता अवनिज्य दर्भस्तम्ब उदशरावं निन-येत्काम कामं म आवर्तयेति १० गोभिः सहेत्य प्रशस्ताः स्थ कल्याण्य इति ब्रूयात् ११ एकाष्टकायां चतुष्पथेऽङ्गशो गां कारयेद्योय आगछेत्तस्मैतस्मै दद्यात् १२ श्वोऽन्यां कारयित्वा ब्राह्मणान्भोजयेत्पशुकामः १३ उत्तरो निगदे व्या-ख्यातः १४ वसीयस्येहि श्रेयस्येहीति सप्त देवगव्यश्चिदसि मनासि धीर-सीत्युत्तराः सप्त । तासामनुप्राणान्ताः प्रथमा एह्यन्ता उत्तराः १५ सह राय-स्पोषेण देवीर्देवीरित्यनुनिगदति १६ संग्रामं जिगीषन्सेनयोः संदृश्यमानयोः पूर्वाभिर्हुत्वोत्तरा निगदेत् १७ यत्र समूला ओषधीरुपगछेत्पशून्वा तदेता एह्यन्ताः सप्त जपेत् १८ सप्तस्थवीर्ये सप्तानां गवामाज्यँ सप्तानां पयसि स्थालीपाकः १९ यस्य सप्त स्थविराश्चरमामन्तमा स्युः पूर्वाभिर्हुत्वोत्तरा निगदेत् २० यो वैश्यः शूद्रो वा बहुपुष्टः स्यात्तस्य गवाँ साण्डँ वत्सतर-मिलान्दाः स्थ पूष्णो नक्षत्रं पोषयिष्ण्वित्यपगमयेत २१ आयुर्मे दा इति स्वासु गोष्ठास्ववसृज्य वसीयस्येहि श्रेयस्येहीति परस्यात्याह्वयेत् २२ सारस्वतं पयसि स्थालीपाकँ श्रपयित्वा सारस्वत ऋग्भ्यामाहुतीर्जुहुयादेतेन ग्रामकामो यजेत तथा पशुकामः २३ सर्वासां दुग्धे चतुःशरावमोदनं पचेद्ब्राह्मणेभ्यः पशुकामः २४ न छिन्नं देयमिति व्याख्यातम् २५ तां भद्रं भद्र मिति ब्रूयाद्भद्रं कल्याणमिति ब्रूयात्पुण्यं प्रशस्तमिति ब्रूयात् २६ अदीक्षणीयाय गां दत्त्वा न मे तदुपदम्भिषर्धृषिरिति जपेत् २७ 9.5.५

वीरवतीर्भूयास्त इति व्याख्यातमा बलिहृतः १ भूयाँ सो भूयास्त इति सभासदः २ पादौ प्रत्यवहरेदुपोपतिष्ठेत वा ३ पुण्या पुण्यमसूदिति व्याख्यातं पुण्यमसूदिति वा ४ एकाष्टकायां तूष्णी ँ! सर्वान्सँ सृज्य पुण्याः पुण्या-नसुवँ श्चित्राश्चित्रानसुवन्नैडा मे भगवन्तोऽजनिढ्वं मैत्रावरुण ऊर्जा मे भगवन्तः सहाजनिढ्वँ सँ विदं मे विन्दतेति पुँ सो जातान्पुण्याः पुण्या असुवँ श्चित्राश्चित्रा असुवन्नैड्यो मे भगवत्योऽजनिढ्वं मेत्रावरुण्यो रायस्पोषेण मे भगवत्यः सहाजनिढ्वं ज्ञात्रं मे विन्दतेति स्त्रीर्जातास्तानुभयान्सहाभिमन्त्रयेत ५ धेनुंधेनुमिति ब्रूयाद्धेनुर्भव्येति ब्रूयान्न हतेति ब्रूयात्कुरुतेति ब्रूयान्नान्तर्वत्नीति ब्रूयाद्विजन्येति ब्रूयात् ६ इक्षुकाण्डमप्सु वासयित्वा लोहितेनायसेन वा ७ भुवनमसि साहस्रमिन्द्रा य त्वा सृमोऽददाद्यावतीनामिदं करोमि भूयसीना-मुत्तराँ समां क्रियासमिति गवाँ लक्ष्म कुर्यात्षण्णां चतसृणाँ वा । पुँ सः स्त्रिय इति व्यत्यासम् ८ यस्य दक्षिणतः प्रतिभिन्नमिति व्याख्यातम् ९ इह प्रजा विश्वरूपा रमन्तामिति गाः सायमायतीरभिमन्त्रयेत १० सँ वः सृजत्वर्यमेति गाः सँ सृजेद्या अस्य पुरा स्युर्याश्चान्यतो विन्देत ११ रेवती तन्तिरिति तन्तिँ वितनुयात्प्राचीमुदीचीँ वा १२ दधि घृतेन सँ सृज्य रय्या त्वा पुष्ट्यानुमा-र्ज्मीत्यनुमार्ष्टि १३ तस्याः प्रमुक्तवत्साया व्रतानि न रिक्ता स्यात् १४ नोपर्युपरि संचरेयुर्नाभिवर्षेन्नाभितपेत् १५ ऋषभमुत्स्रक्ष्यन्पिता वत्सानामित्यृषभस्य दक्षिणे कर्णे उत्सृजमानो जपे त्रेतोधां त्वा यशोधाँ रायस्पोषायोत्सृज इत्युसृष्टे १६ यो वैश्यः शूद्रो वा बहुपुष्टः स्यात्तस्य गवां गोष्ठादेकविँ शतिँ शकान्या-हृत्यैकविँ शतिमाहुतीः पशुकामो जुहुयात् १७ गोनामभिर्देवगवीभिराकृति-होमैरग्रतो गामिनीं पश्चात्प्रतीचीमवस्थ्याप्याधस्ताद्दर्भानास्तीर्य काम्यायै स्वाहेति भसदि तिस्र आहुतीः पशुकामो जुहुयात् १८ यासामिन्द्र उदाजतेति चत्वार आकृतिहोमा । एतैः पूर्वाह्णे गोष्ठासु गोषु जुहुयादेतैर्मध्याह्ने गोष्वा-कृतास्वेतैरपराह्णे गोष्ठासु गतास्वेतैः संग्रामे १९ मित्रभृतः क्षत्रभृतः इत्यश्वान-भिमन्त्रयते २० रोहिणीर्वो वृञ्ज इति सप्ताज्यस्याहुतीः पशुकामो जुहुयात् २१ पौर्णमासीमष्टकाममावास्यां चित्रामश्वत्थं न गामपाकुर्यात् २२ गोवर्चसं गुप्तस्येति सर्पिष उभयेषां त्वा देवमनुष्याणामिति व्याख्यातं प्रियं करोमीति श्रोत्रियस्य प्रियां करोमीति कुमार्याः पतिकामायाश्चामुष्य चेत्यवभृथे १३ उत्तरो निगदे व्याख्यातः २४ अन्नाद्यकामः शबलीकर्म कुर्यात् २५ त्रयोदश्यामुदिते यत्र ग्रामस्य पशोः शब्दं नोपशृणुयात्तदरण्यं परेत्य ब्राह्मणं बहुविदमुपविश्य दर्भस्तम्बमारभ्य शबलि शबल्येहीति त्रिराह्वयेत् २६ यदन्यच्छुनो गर्दभाद्वा प्रतिशृणुयात्सा समृद्धिः २७ यदि न प्रतिशृणुयात्सँ वत्सरे पुनराह्वयेन्न तृतीयकमाह्वयेत २८ 9.5.६
इति राजसूये पञ्चमोऽध्यायः
इति मानवसूत्रे राजसूयकल्पः समाप्तः