कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०८

विकिस्रोतः तः
← कल्पः ७ मानव-श्रौतसूत्रम्
कल्पः ८
[[लेखकः :|]]
कल्पः ९ →

अथानुग्रहान्व्याख्यास्यामः १ सायँ होमँ वोपोदयं जुहुयात्प्रातर्होमँ वोपास्त-मयम् २ कालेन कालं नातिक्रमेदग्निहोत्रस्य दर्शपूर्णमासयोश्चातुर्मास्यपर्वणां पशुबन्धस्याग्रायणस्य च ३ वर्षास्वभ्रसंघाते यद्यनस्तमिते जुहुयात्पुनरस्तमिते । यद्यव्युष्टायां पुनर्व्युष्टायाम् ४ न स्कन्देन्न व्यथत इति ह विज्ञायते ५ ऋषयो ह प्र आसन्प्रयोगिका आसँ स्तेऽर्धमासायार्धमासायाग्निहोत्रमजुहवुः ६ तस्माद्यायावर आमयाव्यार्तो वा सोऽर्धमासायार्धमासायाग्निहोत्रं जुहोति ७ चतुर्दश चतुर्गृहीतानि सकृदुन्नयत्येका समित्सकृद्धोमः । सोऽर्धमासाय कल्पते ८ होमान्स्रुच्युन्नयेत्स्रुवपूर्णा ँ! श्चतुर्दश गार्हपत्यदक्षिणाग्न्योस्तथा-परान् ९ यथाश्रुतं तथा मन्त्राहोमौ सभ्यावसथ्ययोः १० एतेनैव चतुर्होमेण प्रातर्होमो व्याख्यातः ११ षण्मासाहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्या-मनिष्ट्वाग्रायणेन पशुना वाग्नये तन्तुमतेऽग्नये पथिकृतेऽष्टाकपालौ निरुप्या-ग्रायणं कुर्वीत १२ सँ वत्सराहुतेऽग्निहोत्रे दर्शपूर्णमासाभ्यामनिष्ट्वाग्रायणेन पशुनाग्नये तन्तुमतेऽग्नये पथिकृतेऽष्टाकपालावग्नये वैश्वानराय द्वादशकपालं निरुप्यान्तरितान्होमाञ्जुहुयादपि वा पूर्णाहुतिँ हुत्वा नाद्रि येत होमान् १३ अग्निहोत्रं दर्शपूर्णमासौ पश्वाग्रायणमिति सर्वमवाप्नोति १४ आग्रायणं कृत्वाहवनीये वरं दद्याद्गौर्वासो वाश्वस्थाने विज्ञायते १५ इन्द्रि येण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबेदिति १६ तस्माद्भक्षाणां भोज्यानां मूलानां फलानामपि वा पूर्णपात्रं दद्यान्न त्वेव न यजेत १७ 8.1.१

आज्यं निर्वपति १ तदलाभे तैलं प्रतिनिधिस्तदलाभे दधि पयो वा ३ तदलाभे यवपिष्टानि तण्डुलपिष्टानि वा २ अद्भिः सँ सृज्याज्यार्थान्कुर्वीत ३ दर्भाः परिस्तरणे ४ तेषामलाभे पर्ववतीभिः काण्डवतीभिरौषधीभिः स्तरणा-र्थान्कुर्वीत कटसीरशूषशुण्ठनलपरिवाहमूतपवल्वजवर्जम् ५ द्विःप्रादेशा-नीध्मकाष्ठानि ६ अरणिश्चतुरङ्गुलोत्सेधा षडङ्गुलविस्तारा चतुर्वि ँ! शत्य-ङ्गुलदीर्घा । मूलादष्टाङ्गुलमुत्सृज्य भूयश्चान्यत्त्र्! यङ्गुलं देवयोनिरिति ख्याता तत्र मन्थेद्धुताशनम् ७ अरत्निमात्राः परिधयः शाखा पवित्रं च प्रादेश-मात्रावलँ विपाणितलचतुर्भागस्तु कपालप्रमाणम् ८ तान्यष्टौ मृदा सँ सृज्य गार्हपत्ये प्रथयति ९ एतेनैवा त्रयस्त्रिँ शादा त्रयस्त्रिँ शाद्ध्रसीयोह्रसीयः कपालप्रमाणँ वर्षीयोवर्षीयः प्रत्युपकर्षः स्यात् १० सर्वाणि कपालानि प्रथयत्यश्वशफमात्रमिति ११ यदुक्तं तदव्यक्तमुच्चावचा ह्यश्वा भवन्ति १२ त्रिहायणस्यैवाश्वस्य चतुर्मुष्टिः पुरोडाशो भवति द्यावापृथिवीयोऽपि १३ एवमेवावशिष्टं पिष्टलेपं कुर्वन्ति १४ तृतीयाधेये नाज्यभागा इज्येते इति गौतमस्तौ न पशौ न सोम इति वात्स्यः १५ क्रियते । चक्षुषी वा एते यज्ञस्य यदाज्यभागौ १६ यदाज्यभागावन्तरियाच्चक्षुषी यज्ञस्यान्तरियादिति ह विज्ञायते १७ 8.1.२

यदि वत्सेष्वपाकृतेषु गा राजा चौरा अवाहरेरन्नाविद्येरन्प्रमीयेरन्वा कथँ सांनाय्यस्य प्रतीयादित्याहुराचार्याः १ प्रागर्धरात्रात्सायँ दोहमाकाङ्क्षेत्प्राङ्मध्यं-दिनादिति प्रातः २ तासाँ यद्यागछेत्तां त्रिर्विग्राहं दोहयेद्द्वितीयां द्विर्विग्राहं तृतीयां त्रिर्विग्राहम् ३ यदि सर्वा यथाम्नातम् ४ यदि नैवागछेत्कँ हन इति राजगृहीतामु जपेद्याः सेना इति चौरगृहीतासु वागग्रेगा इति नष्टासु यमगाथाः प्रमीतासु ५ एवं कृते चेदागछेत्तूष्णीं दुग्ध्वा ब्राह्मणेभ्यः पयो दद्यात् ६ यत्पयोऽधिगछेत्त्रिर्विग्राहं दोहयेत् ७ अनधिगते चेत्पयस्यैन्द्रं पञ्चशरावमोदनं पिष्टयवागूर्वा द्र व्यँ स्यात् ८ विज्ञायते ह पशूनाँ वा एतत्पयो यद्व्रीहि-यवाविति । तस्मादेतज्जुह्वति ९ 8.1.३

पुत्रे जातेऽश्वत्थस्य शमीगर्भस्यारणी आहरति दशाङ्गुले द्वादशाङ्गुले वा १ ताभ्यामग्निं मथित्वा तस्य कुमारस्य जातकर्म करोति २ तस्मिन्नाम कुर्या-त्तस्मिँ श्चूडां कारयेत्तस्मिन्नेवोपनयेत्तस्मिन्व्रतचर्यां कुर्वीत तस्मिन्भार्यामुद्वहेत् ३ स शालाग्निः स औपासनीयः पितुरग्नौ वा सँ स्कारः ४ आत्मा वै पुत्रनामासीति दर्शनात् ५ तं ब्राह्मौदनिकं कृत्वात्रैतमरण्योः समारोपयन्ति ६ समारोपितं पुनर्मन्थन्ति ७ मथित्वा तत्रापरिमितैः क्रतुभिर्यजेत ८ 8.1.४

पञ्चाग्निकँ व्याख्यास्यामः १ सायंप्रातराधानवदग्निप्रणयनँ शुन्धनसमिन्धन-परिस्तरणपर्युक्षणँ व्याख्यातँ होमश्च २ अग्ने सभ्य परिषद्य जुषस्व स्वाहेति सभ्ये जुहोत्यग्न आवसथ्य परिषद्य जुषस्व स्वाहेत्यावसथ्ये होमशेषम् ३ व्याहृतिभिर्यथाम्नातँ हुत्वोत नोऽहिर्बुÞय इति सर्वकाल आग्रायणे च सभ्या-वसथ्ययोर्जुहोति ४ प्रणीते सभ्यावसथ्यौ प्रणयति । न काम्यासु ५ वि-ज्ञायते ह पञ्च वा एते प्राणापानसमानव्यानोदानास्तेषाँ वा एते धृत्यै गुप्त्यै पञ्चाग्नयः प्रणीयन्ते ६ पाङ्क्तो यज्ञो । यावानेव यज्ञस्तमालब्धः ७ 8.1.५

अथ प्रमायुकोऽग्नीनादधीत १ नर्तुं न नक्षत्रं न जोषयितुं न संभारानाद्रि येत २ न सार्पराज्ञीरन्वाह न घर्मशिरः प्राह ३ ब्रह्मौदनं न पचेत् ४ को ह तद्वेद यच्छ्वो भविष्यतीति संभाराथे वल्मीकवपां दर्भा ँ! श्च न्युप्य मन्त्रानावर्तयेत् ५ विज्ञायते ह पृथिवी शमिस्तस्या एष गर्भो यदश्वत्थः ६ तस्मादरणी आहृत्य ताभ्यामग्निं मथित्वा भूरिति गार्हपत्यमादध्याद्भुव इति दक्षिणाग्नि ँ! स्वरित्याहवनीयं भूर्भुवः स्वरिति सभ्यावसथ्यौ ७ यदि प्राक्पूर्णाहुतेः प्रमीयेत हुत्वा पूर्णाहुतिमाहिताग्निविधिना दाहयेयुर्यद्यूर्ध्वमाग्नेयी ँ! सँ स्थाप्य यद्यू-र्ध्वमाग्नेय्या इष्टिसँ स्थं कुर्यादम्रियमाणे चात ऊर्ध्वमपरिमितैः क्रतुभिर्यजेत ८ 8.1.६

प्रवसन्तमेव समीज्योपादानमेतान्सोमार्थानग्नीनुत्पाद्य यजेत १ इष्ट्वा वाग्नीना-मुत्सर्गो न वा श्रुतिप्रामाण्यात् २ वीरहा वा एष देवानाँ योऽग्निमुत्सादयत इति । तस्मान्नोत्सृजेत् ३ पूर्वेष्वग्निषूत्तरान्सहारणिकान्भवतं नः समनसा-वित्यनुप्रहृत्याग्नयेऽग्निमतेऽष्टाकपालं निर्वपेत् ४ 8.1.७

अग्निहोत्राण्यग्निहोत्रेणैव यजेत न सोमैर्न हविर्यज्ञैः १ तस्याग्रायणं । गार्हपत्य ओदनँ श्रपयित्वाग्रायणदेवताभ्यो हुत्वा प्राश्नीयादपि वा नवेषु गामुत्सृज्य तस्याः पयसाग्निहोत्रं जुहुयात् २ सा दक्षिणा वत्सो वा प्रथमजः ३ 8.1.८

वसन्ते वेणुयवानाँ सौम्यं चरुं निर्वपेत् १ ग्राम्या वा अन्या ओषधय आरण्या अन्याः २ यद्योषधयो न पच्येरन्नपि वा नवेषु गामुत्सृज्य तस्याः पयसाग्निहोत्रं जुहुयात् ३ सा दक्षिणा वत्सो वा प्रथमजः ४ 8.1.९

पयसा जुहोति यवाग्वा वाज्येन वा दध्ना वा तिलैर्वा तण्डुलैर्वा पुष्पैर्वाद्भिर्वा माँ सेन वा सोमेन वा १ दध्याज्यतिलतण्डुलपुष्पफलसोमानामधिश्रयणं न स्यादभिघारणं च २ नासोमयाजिनः सोमं जुहुयात्फलैररण्यवासिनां बदर-कुवलकर्कन्धुवर्जम् ३ यदि सर्वं न विन्देच्छुन्धनादि यथालाभं कृत्वाहवनीये सत्ये सत्यं जुहोमि स्वाहेत्येवं ब्रूयान्न त्वेव न यजेत ४ 8.1.१०

पञ्चदशदाक्षायणयज्ञेन स्वर्गकामो यजेत १ तत्रोभाविज्याकालौ द्वे पौर्णमास्यौ द्वे चामावास्ये २ तत्र या पूर्वा पौर्णमासी सानुमतिर्योत्तरा सा राका या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः ३ तास्वाग्नेयःपुरोडाशो । ऽग्नीषोमीयो द्वितीयः पूर्वास्यां पौर्णमास्यामैन्द्रा ग्नीऽमावास्यायामैन्द्रं दध्युत्तर-स्यां पौर्णमास्यां मैत्रावरुण्यामिक्षोत्तरस्याममावास्यायाम् ४ इन्द्र ँ! वो विश्व-तस्पर्या ते शुष्म इति दध्न आ नो मित्रावरुणा प्र बाहवेत्यामिक्षाँ वैश्वदेवं च वाजिनम् ५ हिरण्यं दक्षिणा ६ 8.1.११

अथ यूपावटस्य विधिँ व्याख्यास्यामः १ स्थूलः कुब्जो बहुलो विपुलो व्यावृत्तः कुटिस्कन्धः सृककुब्जो गलुलः शुष्काग्रो वल्यावेष्टितः सुषिरो लो-हितो लयजग्धो घुणजग्धोऽल्पसारोऽम्बुसार इत्यनिष्टाः । धनुःप्रकारो-ऽनुपूर्व्या समो बहुशाखो बहुपर्ण इति प्रशस्ताः २ एतेषामेवानुपूर्व्यात्प्रचारान् व्याख्यास्यामः ३ मरणहृद्रो गाबाधो वर्षात्यय । आगारं दाहेनास्य नश्यति ४ प्रजा युवमरणिका भवन्ति । कुष्ठो गण्डमाला आमयाव्यः ५ श्राद्ध-कल्पानिति पूर्वेषूत्तरेषु प्रतिष्ठाकामँ योगक्षेमं ब्रह्मवर्चसँ स्वर्गगमनमित्युत्तरेषु सर्वेषु वापि स्वर्गगमनम् ६ 8.1.१२

अथ यूपस्य छेदने वक्ष्यामः १ प्राञ्चं पातयेत् २ यद्यूर्ध्वमुत्पतेत्पत्न्यन्यस्मिन्मनः करिष्यतीति विद्याद्यदि मूले सुषिर उदराबाधो यदि तले शिरसो यद्यनुवेष्टितः पार्श्वावबाधो । यद्यग्निष्ठा विछिद्येत प्रमायुको यजमानः स्याद्यदि पृष्ठ्या पत्नी यदि दक्षिणा ज्येष्ठः पुत्रो यद्युत्तरानुज्येष्ठो यदि दक्षिणपूर्वा ब्रह्मा यदि दक्षिणा-परोद्गाता यद्युत्तरापरा होता यद्युत्तरपूर्वाध्वर्युः ३ यजवमानमनाम्नातँ वा जुहु-यात्त्रातारमिति काजवं त्वं नो अग्ने स त्वं नो अग्न इत्यनाम्नातम् ४ यदि यूपावटे खायमानेऽस्थिभस्मतुषकपालकेशा वा विद्येरन्निदमहँ यज्ञस्य दुरिष्टं निष्कृन्तामीत्युत्करे निवपेदन्यत्र वा ५ नातिस्थूलः कार्यः क्षुधं प्रजानीयुर्नो-ऽत्यणुरुभयमेवान्तरा यज्ञेन वै देवा अनुक्रमिष्यामः ६ यजमानस्याङ्गुलि-परिग्रहो रशनाबन्धने । शुल्बेन तिर्यङ्निमाय न शुल्बमङ्गुलिपर्वभिर्मिमीते ७ अन्ताभ्यामङ्गुलिपर्वणि दशभागमधस्ताद्र शनारत्न्यन्तरे लक्षणस्यापचय । एवमेवोपरिष्टाद्र शनारत्न्यन्तरे लक्षणस्यापचयः ८ कुष्ठसंमितं खरं करोति ९ चात्वालकर्म व्याख्यातम् १० यद्यवधाय पुनरुद्ध्रियेत प्रमायुको यजमानः स्यात् ११ पुनरन्यथावधास्यनिदं जपेन्मा यज्ञँ हि ँ! सिष्टमिति १२ पञ्चभागोपरा यूपा भवन्त्युत्तरा षड्वा विभज्यन्त आ द्वादशरत्नेस्त्रिरत्निरित्युत्तरेषाम् १३ 8.1.१३

अलेखो होतुश्चमस उत्सृष्टो ब्रह्मणः स्मृतोऽवमृष्ट उद्गातॄणां पार्श्वावमृष्टोयजमा-नस्यैकलेखो मैत्रावरुणस्य द्विलेखो ब्राह्मणाछँ सिनस्त्रिलेखः पोतुर्मयूखो नेष्टुर-जपादोऽछावाकस्याभ्रिराग्नीध्रस्य १ 8.1.१४

अथ सावनस्य पशोरुद्धृतवपावदानस्य विभागँ व्याख्यास्यामः १ हनू सजिह्वे प्रस्तोतुः कण्ठः काकुदाग्नीध्रस्य श्येनँ वक्ष उद्गातुर्दक्षिणं पार्श्वमध्वर्योः सव्यं प्रतिप्रस्थातुर्दक्षिण ऊरुर्ब्रह्मणः सव्यः सदस्यानामुभौ मतस्नौ नेष्टुरछावाकस्य चौष्ठ एनयोः साधारणः पादौ गृहपतेरवाक्स्कन्धाश्च मणिकास्तिस्रश्च कीकसा अर्ध ँ! वैकर्तं च होतुस्तिस्रश्च कीकसा अर्ध ँ! वैकर्तं चोन्नेतुस्तिस्रश्च कीकसा
अर्ध ँ! वैकर्तं च शमितुः २ तच्छमिता ब्राह्मणाय दद्याद्योऽब्राह्मणः स्यात् ३ जाघनी पत्न्यास्ताँ सा ब्राह्मणाय दद्यात् ४ शिरः सुब्रह्मण्यस्य । यच्छ्वःसुत्यां प्राहास्याजिनम् ५ ता एवैताः षट्त्रिँ शतमेकपदा यज्ञँ वहन्ति षट्त्रि ँ! शदक्षरा बृहती बार्हताः पशवो बार्हतः पुरुषो य एवँ विद्वान्विभजेत् ६ यथैव पिशाचाः सौनिका वा --- तादृक् ७ --- द्यवदाय वायव्यायामानुषः पुरोवाच । तत इदं मनुष्या विदुः ८ 8.1.१५

षड्ढोताग्रहपाशुक्यारम्भणीयादक्षिणादानमिति पराङ्गभूतासु निवर्तेरन् १ पृष्ठ्याबर्हिः संनह्यातिथ्यबर्हिः शुल्बप्रभृतिमन्त्रवत्संनह्यतीध्मं च तत्परिधिम् २ पयस्या चेदनूबन्ध्या सवने स्वरुहोमः ३ अवभृथादुदेत्य यूपानुदेशः ४ तिस्रः पयस्या इत्येके ५ यः कामयेत सर्वो मे यज्ञः स्यात्सरसा इति स एतास्तिस्रो वशा आलभेत यज्ञस्य सर्वत्वायाथो सरसत्वाय मैत्रावरुण्यै च ६ उत्तरतो गार्हपत्यस्य पात्रेभ्यः सँ स्तीर्य पात्राणि प्रयुनक्ति ७ स्रुक्स्रुवमाज्य-स्थालीं दोहपात्राणि चमसान्सँ साद्य प्रोक्ष्य पात्राणि दोहं दोहयित्वाज्यं निरुप्य पर्यग्निं कृत्वा स्रुक्स्रुवं प्रमृज्योत्पूय पयस्यामभिघार्योद्वास्यालंकृत्य पश्चा-दुत्तरवेद्याः सादयति ८ आज्यभागाभ्यां प्रचर्य पयस्ययानूबन्ध्यादेवता यज-त्याज्येन देविकाः ९ इडान्तं कर्म १० 8.1.१६

अथोभायाजिकल्पं कामलायिनः समामनन्ति १ वसन्ते वैश्वदेवेनेष्ट्वा ग्रीष्मे पुनर्वैश्वदेवेन यजेत २ वर्षासु वरुणप्रघासैरिष्ट्वा शरदि पुनर्वरुणप्रघासैर्यजेत ३ हेमन्ते साकमेधैरिष्ट्वा शिशिरे पुनः साकमेधैर्यजेत ४ तत्रोभाविज्याकालौ ५ श्वोभूते शुनासीर्यँ सद्यो वा ६ अथ परिप्लवैर्यजेत । तस्य हवि-षामेकैकेनाहरहो यजेत ७ प्रसाद्यस्कैर्यजेत ८ प्रकारान्तरे प्रातराहुतिँ हुत्वा पूर्वाह्णे वैश्वदेवेन यजेत मध्याह्ने वरुणप्रघासैरपराह्णे साकमेधैः । श्वोभूते शुनासीर्य ँ! सद्यो वा ९ अथ समस्तैर्यजेत १० श्वोभूते वैश्वदेवँ श्वोभूते वरुणप्रघासा द्व्यहँ साकमेधाः श्वोभूते शुनासीर्य ँ! सद्यो वा ११ अञ्जसा वा एष पथा स्वर्गलोकमेति यः समस्तैश्चातुर्मास्यैर्यजेत १२ स एतैरिष्ट्यन्तैः पश्वन्तैः सोमान्तैर्वा यजेत १३ अपि वा वरुणप्रघासान्ते वैश्वानरपार्जन्यादीनां च विँ शतिहविषामिष्टिं निर्वपति त्र्! यम्बकपुनरुक्तवर्जम् १४ समानोऽवभृथः पितृयज्ञश्च साकमेधिकस्तन्त्रावयवः १५ सद्यः समाप्नुयात् १६ 8.1.१७

व्याख्यातोऽश्वमेधः पुरुषमेधश्च । सर्वमेधँ व्याख्यास्यामः १ तस्याहर्गण-स्त्रीण्याश्वमेधिकानि पञ्च पौरुषमेधिकानि वाजपेयोऽप्तोर्यामः २ यदहरप्तो-र्यामस्तदहः सर्वाणि ३ सर्वाणाँ वनस्पतीनां पुरस्तात्स्विष्टकृतो रसं जुहोत्येष एव निरर्गलः ४ दक्षिणाकाले सर्वस्वं दद्यात् ५ सकुल्यानामन्त्र्! या-त्मन्यग्नीन्समारोपयेत् ६ विज्ञायते हैतद्वा अग्निधानँ हस्तस्य यत्पाणिस्त-स्सात्पाणौ समारोपयेत् ७ विज्ञायते ह यस्य वा अमुष्य दिशि यद्यग्नय-स्तामभिमुखो जपेत् ८ विज्ञायते यत्र वा एतत्क्व च यजमानँ सन्तँ यज्ञ-स्याशीर्गछेदिति श्रुतिः ९ तत्र यानि साँ स्पर्शिकानि न तानि क्रियेरन्धर्मपात्राणि १० देवता द्र व्यमिति सामान्यसंनिपातेऽक्षरसामान्याद्विशेषः ११ 8.1.१८

अथाहिताग्नेः प्रमीतस्य विधिँ व्याख्यास्यामः १ अभिवान्यान्यस्या गोर्वत्सेन या गौर्दुह्यते साभिवान्या गौः २ दुग्धमधस्तात्स्रुग्दण्डे समिधं धारयमाणो हृत्वा जुहोति ३ यदि नक्तं प्रमीयेत प्रातराहुतिं प्रपाद्यापरपक्षे प्रमीयेताग्निहोत्र-दर्शाभ्यां पूर्वपक्षँ संपादयेत् ४ यदि दक्षिणायने प्रमीयेताग्निहोत्रेण दर्श-पूर्णमासाभ्यामिष्ट्वा शरीरदाहादहतेन वाससा पादतोदशेन प्रछाद्य प्रेहि प्रेहीति दक्षिणपूर्वस्यां दिशि नाययेत् ५ चक्रीवता वाहयेच्छिरमग्रतो नयति ६ तस्य वर्त्मानुनयन्त्यग्रतो विहारान्नाययेद्यज्ञपात्राणि पश्चाद् ज्ञातयोऽन्वेयुः पश्चात् ७ चत्वार ऋत्विज उष्णीषिणोऽहतानि वासाँ स्यपसव्यमावृत्य दक्षिणपूर्वस्यां दिश्यग्निं प्रणीयेष्टिं कुर्वन्ति ८ सोमाय पितृमते षट्कपालः पुरोडाश । उत्तानानि कपालानि । तूष्णीं तमनवेक्षमाणाः प्रचरेयुर्यथा पित्र्! यायाम् ९ लुप्येत याजमानँ सपत्नीकमाविर्भूयासमुत्तरमिति चेडान्ता संतिष्ठते १० अग्रेण गार्हपत्यमपरेणाहवनीयँ यजमानमात्रीं कर्षूं खात्वा तस्यां चितिं चिन्वीत ११ कृष्णाजिनमास्तीर्य तिलैरवकीर्यातीर्थेन शरीरं प्रपाद्य चित्यामारोप्य तिलै-रवकीर्या सौस्वर्गाय लोकाय स्वाहेति मनसा पूर्णाहुतिं जुहुयात् १२ छिद्रे षु हिरण्यशकलानप्यस्यत्यृचे त्वेति दक्षिणस्मिन्कर्णछिद्रे रुचे त्वेति सव्ये भासे त्वेति दक्षिणस्मिन्नक्षिछिद्रे ज्योतिषे त्वेति सव्येऽभूदिदमिति दक्षिणस्मिन्ना-सिकाछिद्रे ऽग्नेर्वैश्वानरस्येति सव्येऽग्निस्तेजसेत्यास्ये १३ हिरण्यगर्भ इत्यास्ये जुहुयाद्व्याहृतिभिश्च १४ आसेचनवन्ति पात्राणि पयसः पूरयित्वा दक्षिण-स्मिन्नँ से जुहूँ सहप्रस्तराँ सादयति सव्य उपभृतमुरसि ध्रुवां मुखेऽग्निहोत्रहवनीं नासिकयोः स्रुवौ ललाटे प्राशित्रहरणँ शिरसि कपालान्याज्यधानी ँ! वेदं चास्ये सहिरण्यशकलं पुरोडाशं कुक्ष्योः सांनाय्यधान्यावुपस्थेऽरणी वक्षसि शम्यां पार्श्वयोः स्फ्योपवेषावुदर इडापात्रीमूर्वोरुलूखलं मुसलं पादयोः शकटमन्तरोरू इतराणि यज्ञाङ्गानि १५ अग्निचितिश्चेदेकविँ शतिमिष्टकाः कृष्णाः समन्ता-दुपदध्यादथ वा लोहिताः १६ अजां गाँ वैकवर्णां दक्षिणापरस्यां दिशि शव-निर्हरणस्य प्रथिना घातयेत् १७ तस्या वपामुत्खिद्य मुखं प्रछाद्य तिलै-रवकीर्याङ्गेष्वङ्गान्यभिविदधाति दक्षिणेषु दक्षिणानि सव्येषु सव्यानि शिरसि शिरश्चर्मणा प्रछाद्य १८ यदि तां न घातयेद्गार्हपत्ये पयः श्रपयित्वा तस्य सन्ता-नमुद्धृत्य मुखं प्रछाद्य तिलैरवकीर्योलपराजीभिस्तिसृभिरादीपयेत् १९ यदि गार्हपत्यात्प्रथमः शरीरं प्राप्नुयाद्देवलोकं गमिष्यतीति विद्याद्यदि दक्षिणाग्नेः पितृलोकँ यद्याहवनीयाद्ब्रह्मलोकँ यदि युगपत्सर्वाँ ल्लोकान्गमिष्यतीति विद्यात् २० सँ सृष्टेष्वग्निषु छन्दोगस्त्रिः प्रथमँ साम गायति नाके सुपर्णमिति त्वेषस्ते धूम ऋण्वतीति धूम उदितेऽग्ने मृड महं असीति प्रज्वलिते २१ हिरण्येत शकलेन परिलिखेत्ताँ हिरण्यलेखां मनसाध्वर्युस्त्रिः परिषिञ्चेद्यथा पित्र्! यायाम् २२ तूष्णीं प्रतिपरीत्य पादतोऽवस्थाय नमो महिम्न इति पञ्च-भिरुपतिष्ठते २३ 8.1.१९

अनाहिताग्नेः प्रमीतस्य विधिँ व्याख्यास्यामः १ शालाग्निना दहनं निर्मन्थेन वा २ बालश्चेत्प्रमीयेत पृथिवी शरीरमसीति मनसा भूम्याँ शरीरं निखनेदरणी च । प्राक्चूडाकरणात्स्नात्वा सद्यः शौचँ यज्ञाध्ययनानि च ३ व्रतोपेत-श्चेत्प्रमीयेत व्रतँ विसृज्य काष्ठानां चितिँ संपूर्यापसव्यमादाहं कृत्वानपेक्षमाणाः प्रत्यायन्ति ४ स्थिरोदकेनोपस्पृश्य यत्रौषधयो बहुला अभिजायन्ते तत्रोपविश्य यमगाथां गायन्ति ५ दूर्वाकाण्डप्रवालानाँ शमीवटापामार्गप्रवालानां मूर्धनि कृत्वा गवां पृष्ठतो ग्रामं प्रविशेयुः ६ गोष्ठद्वार्यक्षतमश्मानमग्निमुपस्पृश्य प्रविशेयुः ७ बहिर्द्वारि कर्षूं खात्वाश्मानं प्रतिष्ठाप्य पयोऽद्भिः सँ सृज्य प्रेतस्य नामगोत्रे गृहीत्वात्र पिब स्नायस्वेति च ब्रूयाद्यथाकालं च पिण्डनिधानं । द्वादशेऽहनि श्राद्धं कुर्वीत ८ बहूनन्नविकारानुपकल्पयेदेकस्यैकान् ९ उद्दिष्टं कुर्यान्नाग्नौ कुर्यात् १० अभिरम्यतामिति विसर्गो । मासिमासि नियतं ब्राह्मणं भोजयेदा सपिण्डीकरणात् ११ 8.1.२०

देशान्तरस्थे प्रेते संग्रामहते वा शरीरमाहृत्य विधिना दाहयेत् १ यदि तन्न विन्देदस्थीन्याहृत्य तैः पुरुषाकृतिं कृत्वा मधुसर्पिषाभ्यज्य चित्यामारोप्य विधिना दाहयेत् २ यदि सर्वं न विन्देदिष्टं कृत्वा कक्षमादीपयेद्यज्ञपात्राणि च ३ सर्वे ज्ञातय उदकं कुर्वन्ति दौहित्रानप्येके ४ सव्यकनिष्ठिकया दर्भान्तर्हितयामुष्मै प्रयछामीत्युदकान्तेऽञ्जलिं निनयेदेकमेकस्यां चतुश्चतुर्थ्या ँ! सप्त सप्तम्यां दश दशम्याम् ५ दशरात्रमाशौचवतां गुप्ताशनँ संचयनं च चतुर्थ्याम् ६ अयुग्मान्ब्राह्मणान्भोजयेत् ७ दशादमवकाँ शमी ँ! वस्त्रावकृत्य च हरिद्रं क्षीरोदकेनास्थीन्यभिषिच्य सव्यकनिष्ठिकया पलाशवृन्तेन चास्थीनि पत्त्रपुट प्रास्यति ८ दक्षिणपूर्वस्यां दिशि कर्षूं खात्वा वागिति निवपेत् ९ दक्षिणां ददाति दश धेनूर्दशानडुहो दश वासाँ सि दश काँ स्यानि १० प्राणापानाभ्याँ वा एते वृध्यन्ते ये मृताय कुर्वन्ति ११ तस्मात्सँ वत्सरं तपश्च योगशीलः स्यात्षण्मासमित्येके १२ पितरं भ्रातरमुपाध्यायँ वा याजयि-त्वानुलिप्यते १३ एवं कृते चेदागछेदग्नीनुत्पाद्यायुष्यैरिष्ट्वात ऊर्ध्वमपरिमितैः क्रतुभिर्यजेत १४ 8.1.२१

अशीत्यर्ध ँ! शिरसि दद्याद्ग्रीवायां तु दशैव तु ।
बाह्वोस्तु शतं दद्यादङ्गुलीषु दशैव तु ।
उरसि विँ शतिं दद्यात्त्रिँ शतिं जघनोदरे ।
अष्टार्ध ँ! वृषणयोर्दद्याद्द्वादशार्धं प्रजनने ।
ऊर्वोस्तु शतं दद्यात्षष्ट्यर्धं जानुजङ्घयोः ।
पादाङ्गुलीषु दशैव एष प्रेतविधिः स्मृतः 8.1.२२

पत्यौ प्रेतेऽनग्निकायाज्या स्त्रीति शाकल्यः १ सा कथं पञ्चभागं परि-चरेत्परिचर्ययेत्याह मारुकः २ यदि विचारिता सुव्रता स्यादध्वर्युः पत्नीम-नुब्रूयादावसथ्यमिमं परिचरेत् ३ यदि वित्ता सुव्रतेति चित्रसेनो वात्स्यायन आचार्यः प्रेतपत्न्या विचारे ४ पतित्वे प्रयुक्ता तद्व्रता तद्दुःखा तदाचारा मल-दिग्धैकवेणी शुचिवासा ५ नोत्सवेषु गछेन्नाकाले स्नायान्न हृष्येदेक-कालमश्नीत परिचरेच्छ्वश्रू ँ! श्वशुरं गुरुम् ६ सुगन्धस्रग्विवर्जितावसथ्यं परिचरेत्पाकयज्ञधर्मेण ७ पौर्णमास्याममावास्यायामाग्नेयः स्थालीपाकः सायंप्रातर्होमः । पर्वकाले चेमा देवता यजेत सोमं त्वष्टारं देवानां पत्नी राकाँ सिनीवालीं कुहूमग्निं गृहपतिम् ८ आज्येनैव जुहुयात् ९ सहावदेतौ मिथुनौ संभवतः सहाग्नीनाधत्तः सह प्रजाः प्रजनयतः १० पूर्वो यजमानस्य लोकोऽपरः पत्न्याः ११ दक्षिणार्ध्या यस्मात्प्रोषितस्याशक्तिवतो पत्नी व्रतं धारयेत्तस्मा-दर्धभागिनी भवति १२ याज्याः स्त्रियोऽर्धभाक्पत्नी यज्ञे यजमानस्य १३ यदाहवनीये जुहोति तदिष्टँ यज्ञँ यजमानस्य गार्हपत्ये हुतं पत्न्याः १४ समवाये च सं पत्नी पत्या सुकृतेषु गछतामिति संबन्धदर्शनात् १५ मिथुनस्य स्त्रिया विकृतत्वान्मन्त्रब्राह्मणकल्पेष्वेवमेव दर्शयति श्रुतिः १६ तत्रैके मृतां पत्नी ँ! शालाग्निना दहन्ति निर्मन्थेनान्ये सर्वैरग्निभिरपरे । तन्न सूक्तम् १७
यो दहेदग्निहोत्रेण स्वेन भार्यां कथंचन ।
स स्त्री संपद्यते तेन भार्या चास्य पुमान्भवेत् १८
गार्हपत्यमुपसमाधाय तस्मिन्नुखामादधीत १९ तप्तायां कार्पासं गोशकृच्चूर्णं मुञ्जावलोपँ शणँ शरेषिकाः क्रमुकँ सर्पिः क्षिप्रमग्निजनन्या वाप्यौख्यम-ग्निमवतारयेत् २० या ते अग्ने योगवती प्रिया तनूः स्वर्शोखाराद्वाखात तयेद पात्रमारोहति तस्मै ते नमः स्वाहेति हुत्वौख्येन विधिना दाहयेत् २१ अथ यदि यजमानः पूर्वं प्रमीयेताधानानुपूर्वेण पञ्चधाग्नीन्विहृत्यावसथ्यः पत्न्यै प्रदेयः २२ आवसथ्यश्चेन्न स्याद्गार्हपत्यात्पञ्चभागः प्रदेयः २३ नारणी स्त्रियो ह्येवापत्याः २४ तमग्निमुपसमाधाया यं नो अग्निर्वरिवस्कृणोत्विति भूषणानि निष्टपेयुः २५ निष्टप्तेषु
विश्वं जातँ विश्वं जनित्रँ वैश्वानरँ विश्वकर्मन्हुवेम ।
सभ्यावसथ्यौ बहुधा निलीनौ योषाग्नयः संभवन्ति प्रातर्काः ॥
स्वाहेति जुहोति २६ स्वयमनुगते सर्व आयन्ति २७ ओजोऽसि सहोऽसि बलमसि भ्राजोऽसीति स्वानिस्वानि भूषणानि पुनरग्निकाले शालाग्नौ निष्टपेयुः २८ यस्ततोऽभिसंक्रामेत्तमग्निमुपसमाधाय परिचरेत् २९ मृतायाँ याम्यश्चरुः सौम्यो नैरृतो वा ३० 8.1.२३

अथातस्त्रयोदशे दिवसे त्रिपक्षे सँ वत्सरे वृद्धौ वा श्राद्ध एकोदपात्रस्य सपिण्डीकरणकल्पँ व्याख्यास्यामः १ पश्चादग्नेः समेषु दर्भेषु चत्वार्युदपात्राणि प्रयुनक्ति २ तत्रैकं प्रेतीयं पात्रं त्रीणि पितृभ्यः ३ तत्प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समानाः समनस इति द्वाभ्याम् ४ एवमेव पिण्डपितृयज्ञेन विधिर्व्याख्यातः ५ 8.1.२४

अथातः संन्यासविधि ँ! व्याख्यास्यामः १ गृहस्थे प्रयोगो । ऽपत्यमुत्पाद्य दृष्ट्वापत्येऽपत्यानि वा तेषाँ वृत्तिं कल्पयित्वा गुणवति पुत्रे कुटुम्बमावेश्या-थास्याग्निविनियोगः २ अग्नये पथिकृतेऽष्टाकपालमग्नये वैश्वानराय द्वादश-कपालं निर्वपेत् ३ व्याख्यातः प्रयोगः सिद्धं निर्वपणम् ४ दक्षिणाकाले सर्वस्वं दद्यात् ५ सकुल्यानामन्त्र्! यात्मन्यग्नीन्समारोपयेत्सखा ह्यग्निर्वै साक्षी सुकृतस्य दुष्कृतस्येत्ययमर्थः ६ अयं ते योनिरृत्विय इत्याहवनीये गार्हपत्ये दक्षिणाग्नौ चात्मानं प्रतापयेत् ७ सर्वाणि यज्ञपात्राण्यन्तर्वेदि पुरुषाकृतिं कृत्वोलपराजीभिस्तिसृभिरादीपयेत् ८ अद्यात्र त्रय्या वाचा वदति ९ यो नो अग्निर्मयि गृह्णामीत्याहवनीयाद्गार्हपत्याद्दक्षिणाग्नेश्च भस्ममुष्टिं गृह्णाति । यथायं भस्ममुष्टिर्दिग्भ्य आहृतो दिग्भ्य एव गछत्येवम् १० अथ भवेत्यन्ते-ऽपिविध्यत्यनपेक्षमाणो व्रजति ११ यत्सायं प्राश्नाति सोऽस्य सायँ होमो यत्प्रातः सोऽस्य प्रातर्होमो यद्दर्शे तद्वा दर्श ँ! यत्पूर्णमासे तत्पौर्णमास्यम् १२ यन्नवस्याश्नाति तेनास्याग्रायणमवाप्नोति । यद्वसन्ते केशश्मश्रु वापयते सोऽस्याग्निष्टोमः १३ एष संन्यासो । ऽरण्यँ व्रजति मूलफलभक्षोऽत्यन्त-भैक्षभक्षो वा १४ अत ऊर्ध्वमग्निप्रवेशनँ वीराध्वानमनाशकँ वा वृद्धाश्रमँ वागछति १५ न पुनरागछति । यद्यागछति वीरहा भवति १६ 8.1.२५

अथातस्तीर्थसंचारान्व्याख्यास्यामः १ आहवनीयोत्करावन्तरा तीर्थं चात्वा-लोत्करावन्तरा द्वितीयं चात्वालाहवनीयावन्तरा तृतीयमाहवनीयँ स्रुच-श्चान्तरेण चतुर्थं दक्षिणस्मिन्परिधिसंधौ पञ्चमम् २ आग्नेयं प्रथमँ वारुणं द्वितीयँ वायव्यं तृतीयमाश्विनं चतुर्थ ँ! वैष्णवं पञ्चमम् ३ एतेषामानुपूर्व्या प्रचारान्व्याख्यास्यामः ४ आहवनीयोत्करावन्तरा पात्राणां पत्नीनां कन्याना-मुदकानामाज्यानाँ हविषाँ समिधाँ सँ स्कारसमाहरणदोहनतीर्थम् ५ चा-त्वालोत्करावन्तरर्त्विजां प्रवेशनँ यजमानस्य च सदसश्चोपगमनम् ६ चात्वालाहवनीयावन्तरा जाघनीपरिक्रमणं पशुपरिक्रमणँ वपाया यूपस्य चान्वाहारम् ७ आहवनीयँ स्रुचश्चान्तरेणाध्वर्युयजमानयोर्दक्षिणातिक्रमणं प्रतिक्रमणमनुव्याख्यातम् ८ दक्षिणस्मिन्परिधिसंधावाश्रावणप्रेषणस्वाहा-कारवषट्कारनमस्कारसमिदाहुतिलोकतीर्थम् ९ एतानि वै पञ्च तीर्थानि भवन्ति १० ये पञ्च सँ वत्सरास्तीर्थेषु प्रतिष्ठिताः पङ्क्तिरिति विज्ञायते ११ अतीर्थप्रपन्ना ऋत्विजः पुरायुषः प्रमायुका भवन्ति । तीर्थप्रपन्नाः सर्व-मायुर्यन्ति १२ य एवँ विद्वान्प्रचरेत्सर्वे कामा अस्य समृध्यन्ते १३ अतो यदन्यथा प्रचरेदर्धमस्य यज्ञस्य वरुणपाशैर्बध्यते । नास्य यज्ञो देवंगमो भवति नास्य यज्ञो देवंगमो भवतीति १४ 8.1.२६
इत्यनुग्राहिकोऽध्यायः समाप्तः