कल्पः/श्रौतसूत्राणि/मानव-श्रौतसूत्रम्/कल्पः ०६

विकिस्रोतः तः
← कल्पः ५ मानव-श्रौतसूत्रम्
कल्पः ६
[[लेखकः :|]]
कल्पः ७ →

अग्निं चेष्यमाण उखाँ संभरेत्पौर्णमास्याममावास्यायामेकाष्टकायाँ वा १ प्राकृतीषु सँ स्थासु षोडशिवर्जमग्निमुत्तरवेद्यां चिन्वीत २ सावित्रनाचिकेतो वानग्निर्वोत्तरवेदिं चिन्वीत सत्त्राहीनेषु ३ तूष्णीं जुहूँ संमृज्य स्रुवँ संमार्ष्टि ४ जुहूमष्टगृहीतेन पूरयित्वा युञ्जानः प्रथमं मन इत्यष्टौ निगद्याहुतिं जुहोति ५ यदि कामयेत यज्ञँ यज्ञयशसेनार्पयेयमिति देव सवितः प्रसुव यज्ञमि-त्येतामूर्ध्व ँ! यजुषः कुर्यात् ६ ऋचा स्तोमँ समर्धयेति चतुर्गृहीतं जुहोति ७ उत्तरतो गार्हपत्यस्य देवस्य त्वा सवितुः प्रसव इत्यभ्रिमादत्ते वैणवीं कल्माषीँ सुषिरामुभयतस्तीक्ष्णामन्यतरतो वा ८ अग्रेणाहवनीयं प्रतूर्त ँ! वाजिन्ना-द्र वेत्यश्वमभिमन्त्रयते युञ्जाथाँ रासभमिति गर्दभम् ९ योगेयोगे तवस्तरमि-त्यभिप्रव्रजन्त्यश्वमग्रतो नयन्ति १० अग्निं पुरीष्यमङ्गिरस्वदाभरेति जपति ११ अग्निं पुरीष्यमङ्गिरस्वदछेम इति समेत्य पुरुषमभिमन्त्रयते यस्य वार्जँ विवृञ्जिषेत् १२ यतः सूर्यस्योदयनं ततो वल्मीकवपामपघ्नन्नग्निं पुरीष्य-मङ्गिरस्वद्भरिष्याम इति ब्रूयात् १३ अन्वग्निरुषसामग्रमक्शदिति वल्मीका-दभिप्रव्रजन्ति १४ आगत्य वाज्यध्वानमित्याखानं प्राप्य जपति १५ आक्रम्य वाजिन्द्यौस्ते पृष्ठमिति द्वाभ्यामश्वमाक्रमयति १६ आक्रम्यमाणे यजमानो यं दिष्यात्तं ब्रूयादमुमभितिष्ठेति १७ उत्क्रामेत्युत्क्रमयति १८ उदक्रमीदि-त्यश्वमभिमन्त्रयते १९ आ त्वा जिघर्म्या विश्वतः प्रत्यञ्चमिति द्वाभ्यामश्वपदे जुहोति २० परि वाजपतिस्त्वमग्ने द्युभिः परि त्वाग्ने पुरँ वयमित्येकैकया परिलिखति २१ सावित्रैरभ्रिमादत्ते चतुर्भिश्छन्दोऽन्तैः २२ देवस्य त्वा सवितुः प्रसव इत्यनुवाकशेषेण खनति २३ अपाँ पृष्ठमसीति पुष्करपर्ण ँ! विवेष्टयति २४ शर्म च स्थः सँ वसेथामित्युत्तरत आखानस्य कृष्णाजिनं पुष्करपर्णं च सँ स्तृणात्यधस्ताषत्ष्णाजिनं प्राग्ग्रीवमुत्तरलोममुपरिष्टान्नाभि प्राग्द्वारं पुष्करपर्णम् २५ तस्मिन्पुरीष्योऽसि विश्वभरा इति यजुषा पुरीषमा-वपत्यृग्भिस्तिसृभिश्च त्वामग्ने पुष्करादधि तमु त्वा दध्यङ्ङृषिस्तमु त्वा पाथ्यो वृषेति गायत्रीभिर्ब्राह्मणस्योत्तराभिस्त्रिष्टुब्भी राजन्यस्योत्तमाभिर्जगतीभिर्वै-श्यस्य २६ यं कामयेतर्ध्नुयादिति तस्य गायत्रीभिश्च त्रिष्टुब्भिश्च संभरेद्गा-यत्र्! याभ्यादाय त्रिष्टुभा निवपति २७ अयं ते योनिरृत्विय इति न्युप्तमभिमृशति २८ अपो देवीः सं ते वायुरित्यद्भिराखानमुपसृजति २९ सुजातो ज्योतिषेति पुरीषमभिमन्त्रयते ३० वासो अग्ने विश्वरूपमित्युपनह्यति मौञ्जेन दाम्नार्कमयेण वा ३१ उदु तिष्ठ स्वध्वरोर्ध्व ऊ षु ण इत्यादायोत्तिष्ठति ३२ स जातो गर्भो असि रोदस्योरिति जपति ३३ स्थिरो भव वीड्वङ्ग इति गर्दभ आदधाति ३४ शिवो भव प्रजाभ्य इति पुरीषमभिमन्त्रयते ३५ अश्वप्रथमाः प्रत्यायन्ति ३६ प्रैतु वाजीत्यश्वमभिमन्त्रयते नानदद्रा सभः पत्वेति गर्दभमग्न आयाहि वीतय इति पुरीषम् ३७ ऋतँ सत्यमृतँ सत्यमिति पुरुषँ येन संगछेत तमभिमन्त्रयेत ३८ दक्षिणत आहवनीयस्य खरं कृत्वा परिश्रयति ३९ तस्मिन्दर्भाना-स्तीर्यौषधयः प्रतिगृभ्णीतेति द्वाभ्यां खरे सादयति ४० अश्वगर्दभावध्वर्यवे ददाति ४१ 6.1.१

वि पाजसेति द्वाभ्याँ विष्यति १ पर्णवल्कलकृफाआ!भिरद्भिरापो हि ष्ठेति तिसृभिरुपसृजति २ मित्रः सँ सृज्येति द्वाभ्यां पञ्चभिः संभारैः सँ सृजत्यजलोमभिः कृष्णाजिनस्य त्रिभिश्चूर्णीकृतैः शर्कराभिर्वेण्वङ्गारैरर्म-कपालैः सिकताभिश्च ३ सँ सृष्टाँ वसुभिरिति तिसृभिरभिमन्त्र्! य पत्न्यै प्रयछति ४ मखस्य शिरोऽसीति पिण्डमभिमृशति ५ पत्न्युखां करोति त्र्! युद्धिं चतुरश्राम् ६ आस्नातं प्रमाणं प्रथयित्वा ताँ समुन्नीयोद्धीर्मध्य आदधाति ७ क्रियमाणाँ यजमानोऽनुमन्त्रयते वसवस्त्वा कृण्वन्त्विति प्रथमामुद्धिँ रुद्रा स्त्वेति द्वितीयामादित्यास्त्वेति तृतीयाँ विश्वे त्वा देवा वैश्वानराः कृण्वन्त्विति सँ लिप्यमानां ध्रुवाप्रभृतिभिः ८ पत्नी द्व्यङ्गुलेऽधस्ताद्द्वारस्यादित्या रास्ना-सीति रास्नां करोति ९ अदितिष्टे बिलमिति द्वारँ रास्नायाः १० दिक्षु द्वौ चतुण्टऽरोष्टौ वा स्तनान्करोति ११ इक्षुशलाकया निलिप्य कृत्वाय सा महीमुखामिति विषजति १२ शेषस्य त्र्! यालिखितामषाढामिष्टकां करोति १३ वसवस्त्वा धूपयन्त्वितिप्रभृतिभिर्गार्हपत्यादश्वशकेन खरदेशे धूपयति १४ अग्रेण गार्हपत्यमदितिष्ट्वा देवीत्यापाकं खनति १५ देवानां त्वा पत्नीरित्युखा-माधायाषाढामादधाति १६ कुपिनैः परिश्रित्य पचनमभ्युद्य धिषणा त्वा देवीतिप्रभृतिभिर्गार्हपत्यात्पचति १७ मित्रस्य चर्षणीधृत इत्यभीद्धामुपचरति १८ देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति १९ उत्तिष्ठ बृहती भवेत्यादायोत्तिष्ठति २० अग्रेणाहवनीयं पर्याहृत्य खरे निधाय मित्रैतां त उखां परिददामीति मित्राय परिददाति २१ तप्तामजक्षीरेण वसवस्त्वाछृन्दन्त्विति-प्रभृतिभिश्चतुर्भिराछृणत्ति २२ शिरश्छित्त्वाहरति वैश्यस्य राजन्यबन्धोर्वा-शनिहतस्येषुहतस्य वा २३ अयँ यो अस्य यस्य त इदँ शिर एतेन त्वँ शीर्षण्यामेधि । इति छेदेऽपिनिदधाति सप्तधा विदीर्णा ँ! वल्मीकवपाँ सप्त च माषान् २४ इदमस्माकं भुजे भोगाय भूयासम् ॥ इति शिरः पाणौ कुरुते २५ योऽस्य कौष्ठ्यजगतः पार्थिवस्यैव इद्वशी । यमं भङ्गश्रवो गाय यो राजानपरोध्यः ॥ यमं गाय भङ्गश्रवो यो राजानपरोध्यः । येनापो नद्यो धन्वानि येन द्यौः पृथिवी दृढा ॥ हिरण्यकेशान्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्वतो दानँ यमो राजाधितिष्ठति ॥ अहरहर्नयमानो गा अश्वान्पुरुषान्पशून् । वैवस्वतो न तृप्यति सुरया इव दुर्मदः ॥ इति यमगाथा गायञ्शिर आहृत्य मृदा प्रलिम्पति २६ 6.1.२

पञ्च साण्डानालभते प्राजापत्यमजमग्निभ्यः कामेभ्यो ऽश्वमृषभँ वृष्णिं बस्तम् १ सिद्धमा सामिधेनीभ्यः २ अनभ्यावर्तयँ श्चतुर्वि ँ! शतिँ सामिधेनीरन्वाह ३ प्र वो वाजा अभिद्यव इत्येकादश ४ समास्त्वाग्न ऋतवो वर्धयन्त्विति दश ज्योतिष्मतीं परिहाय ५ आप्रीरुत्तमा ६ उपेमसृक्षीत्यप्सुमतीस्तिस्रः ७ ज्योतिष्मत्या परिदधाति ८ सिद्धमाघारात् ९ हिरण्यगर्भ इति स्रौचमाघारमाघारयति १० सिद्धमा पर्यग्निकरणात् ११ उत्तरं प्राजापत्यं निधाय शिरोऽभि पर्यग्निं करोति १२ पर्यग्निकृतानुत्सृज्य प्राजापत्येन सँ स्थापयन्त्युपाँ शुदेवतेन १३ तस्याग्नये वैश्वानराय द्वादशकपालः पशु-पुरोडाशः १४ उत्सृष्टानाँ शिराँ सि छित्वा निदध्यात् १५ ह्रदे कायान्प्रवि-ध्येज्जिह्वाश्च यस्मादिष्टकाश्चिकीर्षेत् १६ अथैतान्पञ्चालभेताजँ वा श्वेतँ साण्डं तूपरँ वायवे नियुत्वते १७ तदाप्रीः सामिधेनीः १८ स आधारः १९ तस्य प्राजापत्यो द्वादशकपालः पशुपुरोडाशः २० जिह्वामवदानेषु कृत्वा शिरः पशोर्निदध्यात् २१ सिद्धः पशुबन्धः २२ दीक्षणीयां निर्वपत्याग्नावैष्णव-मेकादशकपालमादित्येभ्यो घृते चरुमग्नये वैश्वानराय द्वादशकपालम् २३ सिद्धमाधीतयजुर्भ्यः २४ आकूत्यै प्रयुज इति पञ्च हुत्वा कूतमग्निं प्रयुजँ स्वाहेति षड्जुहोति विश्वो देवस्य नेतुरिति पूर्णाहुतिम् २५ सिद्धमा मुष्टिकरणात् २६ उखां प्रवृणक्त्याहवनीये प्रभूतेष्वङ्गारेषु ॥ मा सु भित्था मा सु रिष इति द्वाभ्यामुपदधाति २७ तप्तायां मुञ्जानवदधात्यन्यद्वा क्षिप्राग्निम् २८ सन्तापेनाग्निं जनयति २९ अवसृजेदाहवनीयम् ३० न कामेषु प्रवृणक्ति ३१ आहृत्यावदध्यान्मथित्वा गतश्रीर्भ्रष्ट्रादन्नाद्यकामस्य वैद्युताद्ब्रह्मवर्चस-कामस्योपरि वृक्षे दीप्यमानं प्रदावादाहरेद्यं कामयेत प्रसेनेनास्य राष्ट्रं जायुकँ स्यादिति ३२ उख्यँ समिध्य समिध आदधाति द्र् वन्नः सर्पिरासुतिरिति क्रुमुकं घृताक्तं परस्या अधि सँ वत इत्यौदुम्बरीं परमस्याः परावत इति वैकङ्कतीँ यदग्ने यानि कानि चेति शमीमयीमपरशुवृक्णाँ यदत्त्युपजिह्विकेति पञ्चभिरौदुम्बरी-मपरशुवृक्णां तैल्वकीँ वाभिचरतो दँ ष्ट्राभ्यां मलिम्लूनग्न इत्याश्वत्थीम् ३३ यो अस्मभ्यमरातीयादिति शमीमयीमपरशुवृक्णां तैल्वकीँ वाभिचरन्नादधद्य-जमानो यं द्विष्यात्तं मनसा ध्यायेत् ३४ उदेषां बाहूनतिरमिति द्वाभ्यामौ-दुम्बरीमादधद्यजमानँ वाचयति ३५ ब्रह्म क्षत्रँ सयुजेति समिधमादधाति ३६ 6.1.३

सौवर्ण ँ! रुक्ममेकविँ शतिनिर्बाधं दृशानो रुक्म इति प्रतिमुञ्चति १ उपरि-
ष्टान्निर्बाधं बिभर्ति २ आसन्दीं निदधाति ३ तस्याः प्रादेशमात्राः पादाः ४ समानमन्यत् ५ मौञ्जँ शिक्यँ षडुद्यावं द्वादशोद्यावँ वासन्द्यां निदधाति ६ नक्तोषासेत्युख्यमुद्यस्य शिक्येऽवदधाति ७ विश्वा रूपाणीति शिक्यपाशं प्रतिमुञ्चति नक्तोषासेति कृष्णाजिनम् ८ सुपर्णोऽसि गरुत्माँ स्त्रिवृत्ते शिर जपति ९ सुपर्णोऽसि गरुत्मान्दिवं गछ स्वः पतेत्युख्यमुद्यम्याध्यधि नाभिमुखां धारयमाणो विष्णोः क्रमोऽसीतिप्रभृतिभिः प्राङ्चतुः प्रक्रामति १० अक्रन्ददग्निरिति क्रन्दवतीं जपति ११ अग्नेऽभ्यावर्तिन्निति चतसृभिः पुनर्व-तीभिः प्रदक्षिणमावर्तते १२ आ त्वाहार्षमित्यावृत्य जपति १३ उदुत्तमँ वरुण पाशमिति शिक्यपाशमुन्मुञ्चति १४ अग्ने बृहन्नित्युख्यमभिमन्त्रयते १५ हँ सः शुचिषदिति हँ सवत्यासन्द्यां निदधाति १६ सीद त्वं मातुरस्या उपस्थ इति तिसृभिः सन्नवतीभिरुख्यमुपतिष्ठते १७ दिवस्परीतिप्रभृतिभिर्द्वादशभिर्वा-त्सप्रेणोपतिष्ठते १८ मुष्टिकरणप्रभृति दैक्षं कर्म सिद्धम् १९ व्रतयिष्यन्येन देवा ज्योतिषेत्युख्यँ समिध्य समिधमादधाति घृताक्तां प्रथमाँ समिधाग्निं दुवस्यतेति गायत्र्! या ब्राह्मणस्य प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य द्वाभ्यां गायत्रीभ्याँ वैश्यस्य २० अन्नपते अन्नस्य नो देहीति घृताक्ताम् २१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये त्वा वैश्वानरा-याहरुपदध इति समिधमादधाति रात्रीमुपदध इति प्रातः २२ अत ऊर्ध्वमुदित आदित्ये क्रमा अहनि २३ प्रतिमोचनप्रभृति सिद्धमोपस्थानात्सन्नवतीभिः २४ नक्तँ वात्सप्रेणोपतिष्ठते २५ दीक्षितो भृतिँ वन्वीत २६ प्रयास्यन्नुदु त्वा विश्वे देवा इत्युख्यमादत्ते २७ हँ सः शुचिषदिति हँ सवत्या सन्नवतीभि-श्चानस्यादधाति । पात्र्! योः समोप्य परावादधाति २८ प्रेदग्ने ज्योतिष्मा-न्याहीति प्रयाति २९ यदि खर्जेत्क्रन्दवत्यानुमन्त्रयेत ३० यद्युखा पूर्येतेष्ट-कासँ यमनाय भस्म निदध्यात्पशुकामस्य पुरीषम् ३१ सहविहारो यायावरः प्रयाति ३२ आपो देवीः प्रतिगृभ्णीतेति तिसृभिरप्सु भस्म प्रवपति ३३ प्रसद्य भस्मनेति द्वाभ्यां भस्ममुष्टी प्रत्यावपति ३४ पुनर्वतीभ्यां प्रत्येत्य यथास्थानँ सादयित्वा बोघद्वतीभ्यामुपतिष्ठते ३५ न प्राजापत्येनानिष्ट्वेष्टकाः कुर्वीत ३६ तिस्रो रात्रीर्भृत्वेतिप्रभृत्याम्नातं दीक्षापरिमाणम् ३७ दीक्षिते न पुनर्वती-भिरुख्यमुपतिष्ठते ३८ मृन्मयीरिष्टकाश्चतुरश्रा ऋजुलेखास्त्र्! यालिखिता दक्षि-णावृतोऽन्याः सव्यावृतश्च खण्डकृष्णलक्ष्मवर्जं नैरृतीस्तिस्रः कृष्णास्तुषपक्वा निर्मन्थेन पचेद्दक्षिणाग्नेर्वा ३९ दीक्षाभ्य ऊर्ध्वं क्रमवात्सप्रँ समस्य 6.1.४

अपेत वीतेति शालामुखीयदेशं जोषयते । तस्मिन्व्यामँ विधाय मण्डलम् चतुरश्रँ वोद्धत्यावोक्ष्य चित स्थ परिचित स्थेत्येकविँ शत्या प्रदक्षिणँ शर्कराभिः परिश्रयति १ अग्नेर्भस्मास्यग्नेः पुरीषमसीति सिकता निवपति सं-ज्ञानमसीत्यूषान् २ मयि गृह्णामि यो नो अग्निः पितर इति चेष्यञ्जपति यज-मानो वा ३ व्यूह्योषसिकतमयँ सो अग्निरिति चतसृभिर्मध्येऽग्नेश्चतस्रः प्राचीः समीचीरिष्टका उपदधातीडामग्न इति द्वे समीची पुरस्ताच्चिदसि परिचिदसीति द्वे समीची पश्चात् ४ सर्वत्रेष्टकोपधानमन्त्रेष्वन्ततस्तया देवतयेत्यनुषजति ५ लोकं पृण छिद्रं पृणेत्येतया त्रयोदशभिश्चितिँ संपूरयति ॥ ता अस्य सूददोहस इत्यनुषङ्गः ६ चित्यांचित्याँ हिरण्यशकलमुपास्यति ७ पृष्टो दिवीति चात्वालदेशात्पुरीषेण चितिँ संछादयति ८ एवं प्रथमे गार्हपत्यस्य पञ्च चितीरुपदधाति तिस्रो द्वितीय एकां तृतीये ९ संचिते समितँ संकल्पेथामिति चतुर्भिरुख्यं निवपति १० मातेव पुत्रमित्युखाँ विमुञ्चति ११ न रिक्तामवेक्षेत १२ सिकताभिः पूरयित्वा निदध्याद्दध्ना घृतेन मधुना वा १३ यदस्य पारे रजस इति शिक्यमादत्ते १४ दक्षिणापरमवान्तरदेशँ यन्ति १५ स्वकृत इरिणे नैरृतीरुपदधात्यसुन्वन्तमयजमानमिछेति तिसृभिः पराङ्पराङ् १६ न तयादेवतं करोति १७ यं ते देवी निरृतिराबबन्धेति जालमिष्टकास्वध्यस्यति १८ रुक्मसूत्रमनुप्रहृत्यासन्द्याभिविक्रमयति १९ यदस्य पारे रजस इत्युद-कुम्भेनेष्टकाः प्रसव्यं त्रिः परिषिञ्चन्पर्येति । निधाय त्रिरपरिषिञ्चन्प्रतिपर्येति २० भूत्यै नम इत्युक्त्वावर्तते २१ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शँ योरभिस्रवन्तु नः ॥ शं न आपो धन्वन्याः शं नः सन्त्वनूप्याः । शं नः समुद्र या! आपः शमु नः सन्तु कूप्याः ॥ शं नो मित्रः शँ वरुणः शं नो भवत्वर्यमा । शं न इन्द्र श्चाग्निश्च शं नो विष्णुरुरुक्रमः ॥ इति तिसृभिः परोगोष्ठं मार्जयन्ते २२ अनपेक्षमाणाः प्रत्यायन्ति २३ निवेशनः संगमनो वसूनामित्यैद्र ना! गार्हपत्यमुपतिष्ठते २४ प्रायणीयाप्रभृति सिद्धमोपसद्भ्यः २५ षडुपसदः प्रवर्ग्यवत्यः २६ अनूपसदमग्निं चिन्वीत २७ प्रथमायामुपसदि पूर्वाह्णिकीं कृत्वा यूपमछैति २८ अग्रेण प्राग्वँ शं त्रिषु प्रक्रमेष्वपरिमिते वावकाशे पृष्ठ्याशङ्कुं निहत्य वेदादानप्रभृति वेदिँ विदधाति यथा सोमे २९ ऊर्ध्वबाहुना यजमानेन वेणुं प्रमायोत्तरवेदिदेशे सप्तपुरुषमग्निँ विदधाति ३० तस्य चतुःपुरुष आत्मा पुरुषमात्राणि पक्षपुछानि ३१ अरत्निं पक्षयोरत्युपदधाति प्रादेशं पुछे ३२ तुर्यपुरुषँ शिरो विधाय विहितस्य मध्यदेशे दर्भस्तम्बे हिरण्यं निधाय सजूरब्दो आयवोभिरित्यभिजुहोति ३३ प्रजापतिष्ट्वा सादयतु पृथिव्याः पृष्ठे तया देवतयाङ्गिरस्वद्ध्रुवा सीदेति विहितस्य मध्यदेशे पृथिवीमभिमृशति ३४ दक्षिणतः पक्षस्योद्योजनमन्तर्याममिति सीरे युगवरत्राणि संबध्नाति ३५ पूषा युनक्तु सविता युनक्त्विति तिसृभिर्युज्यमानमनुमन्त्रयते ३६ षड्युक्तेन कृषति द्वादशयुक्तेन वा ३७ उदस्थाद्गोजिदश्वजिदित्युच्छ्रितमनुमन्त्रयत उष्टारयोः पील्वयोरित्यनडुहः ३८ लाङ्गलं पवीरवमिति पञ्चे मामिन्द्र हस्तच्युतिमिति षष्ठी । तासामेकैकया द्वेद्वे सीते कृषति ३९ दक्षिणार्धात्पक्षस्योपक्रम्य मध्येन सीतां करोत्युत्तरस्मात्पक्षान्तात्प्रदक्षिणावृता दक्षिणां पूर्वामुदीची-मपराम् ४० एवं तिस्रस्तिस्रः सीताः कृषति दक्षिणस्याः श्रोणेरध्यो-त्तरस्मादँ सात्पुछादध्या शिरस उत्तरस्याः श्रोणेरध्या दक्षिणस्मादँ सात् ४१ विमुच्यध्वमघ्न्या देवयाना इति दक्षिणाप्राचो विमुञ्चति ४२ तानध्वर्यवे ददाति सीरं च ४३ 6.1.५

ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य या ओषधयः प्रथमजा इति चतुर्दशभिः सर्वमग्निँ वपति १ या न विन्देत्ताभ्यो यवान्मधूद्युतान्वपेत् २ शेषेणोप्त-मग्निमुपतिष्ठेत ३ दिग्भ्यो लोष्टान्बहिर्वेदेर्मा नो हिँ सीज्जनितेति चतसृभि-र्मध्येऽग्नेः समस्यति ४ यां जनतां कामयेत क्षोधुका स्यादितीषमूर्जमहमित आदीति तस्या दिशो लोष्टानाहरेत् ५ कामं कामदुघे धुक्ष्वेति सीताँ सीता-मभिमृशति ६ गोयुगेन चात्वालँ विदधाति ७ दशपदामुत्तरवेदिं मध्येऽग्नेर्व्याघारणान्तां कुर्वीत ८ चित स्थ परिचित स्थेत्यग्निं प्रदक्षिणँ शर्कराभिः परिश्रयति ९ अग्ने तव श्रवो वय इति षड्भिः सिकता निवपति १० आप्यायस्व सं ते पयाँ सीति सौमीभ्याँ व्यूहति शिरसि पक्षपुछानां चाप्यया लोकाः । मघ्ये स्वयमातृण्णालो ११ उत्तरं पुछाप्यमं प्रत्यग्नेराक्रमणम् १२ अग्रेण शालामुखीयँ रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतश्चितीनां प्रथमेष्टकाः समादधाति १३ अनुवाचयति चित्यग्निभ्य इत्युपाँ शु प्रणीय-मानेभ्योऽनुब्रूहीत्युच्चैः १४ सकृदुक्तायां चर्मणाहरन्त्यश्वमग्रतो नयन्ति १५ श्रोणेः पश्चाच्चर्म निदधाति १६ समयोत्तरवेदिमभ्यस्थाँ विश्वाः पृतना इति दक्षिणेन पादेन स्वयमातृण्णालोकेश्वमाक्रमयत्यपर्यावर्तयन्परिक्रमयति १७ प्रत्यवनीयाश्वं कुम्भेष्टका द्वादशोदकेन पूरयित्वा समन्या यन्तीतिप्रभृतिभि-र्द्वादशभिर्मध्यमासु सीतासूपदधाति कुम्भं कुम्भीं च द्वेद्वे लोकेषु चतस्रो मध्ये १८ आपो हि ष्ठेति तिस्रः कुम्भेष्टकाः समन्वीक्षमाणो जपति १९ नैवारं चरुं पयसि शृतं दिवि श्रयस्वेति दक्षिणतः पुरस्तात्स्वयमातृण्णालोकस्योपदधाति २० 6.1.६

पदे पुष्करपर्णं प्रत्यग्द्वारमधस्तान्नाभि तपो योनिरसीत्युपदधाति १ पुष्करपर्णे रुक्मं प्रत्यक्पाशमुपरिष्टान्निर्बाधं ब्रह्म जज्ञानमित्युपदधाति २ रुक्मे सौवर्णं पुरुषं प्राक्शिरसमुत्तानँ हिरण्यगर्भ इति द्वाभ्यामुपदधाति ॥ द्र प्सश्च-स्कन्देत्यभिमृशति ३ नमोऽस्तु सर्पेभ्य इति तिसृभिः सर्पनामभिरुपतिष्ठते ४ कृणुष्व पाज इति पञ्चभिर्व्याघारयति यथा नाभिम् ५ कार्ष्मर्यमयीँ स्रुचं घृतस्य पूर्णामयमग्निः सहस्रिणोऽग्नेष्ट्वा तेजसा सादयामीति दक्षिणत उपदधात्यौ दुम्बरीं दध्नः पूर्णां भुवो यज्ञस्येन्द्र स्य त्वौजसा सादयामीत्युत्तरत उपदधाति ६ स्वयमातृण्णाँ शर्करामश्वेनोपघ्राप्य भूरित्यभिमन्त्रयते ७ ध्रुवासि धरुणेति सयजुषं करोति ८ प्रजापतिष्ट्वा सादयत्विति पर्यायेगो-पदधाति पुरुषे स्वयमातृण्णां ब्राह्मणेन सहाविदुषा ९ शिरः प्रत्यातृण्णँ स्यात् १० अभिप्राण्य चितिं जुहोमोत्यदाभ्यातृण्णेऽभिजुहोति ११ पृथिवी-माक्रमिषमिति यजमानो जपति १२ अविदुषे वरं ददाति १३ तेजोऽसि तेजो मे यछेति पूर्वा ँ! हिरण्येष्टकामुदपुरा नामासीत्यपरां मण्डजाँ यास्ते अग्न आद्रा र्! योनय इति दक्षिणां कुलायिनीमुत्तरँ लोष्टं दूर्वामिश्रं काण्डात्काण्डा-त्प्ररोहन्तीति द्वाभ्यामुपदधाति यथाप्नुयुर्दूर्वाः स्वयमातृण्णाम् १४ पूर्वा ँ! हिरण्यमूर्ध्नी ँ! वामभृतं । काचावँ सयोः स्याताँ ॥ यास्ते अग्ने सूर्ये रुच इति द्वाभ्यामुपदधाति १५ विराड्ज्योतिरधारयद्भूरसि भुवनस्य रेत इति रेतःसिचम् १६ स्वराड्ज्योतिरधारयत्सूरसि सुवनस्य रेत इति द्वितीयां । प्रथमायां चितावपुत्रस्य पुत्रिणो द्वितीयामुत्तमायाम् १७ सम्राड्ज्यो-तिरधारयदिति ज्योतिषो धृतिं पूर्वा ँ! रेतः सिग्भ्याम् १८ बृहस्पतिष्ट्वा सादयत्विति विश्वज्योतिषम् १९ तस्याः पूर्वां घर्मेष्टकामरण्येऽधीतेनानुवाकेन २० अषाढासि सहमानेत्यषाढाम् २१ दध्ना मधुमिश्रेण पृषतं कूर्मं मधु वाता ऋतायत इति तिसृभिरभ्यनक्त्यपां त्वा गह्मन्त्सादयामीति पुरस्तात्प्रत्य-ञ्चमुपदधाति २२ प्रादेशमात्रमुलूखलमुसलमौदुम्बरम् यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमँ वद जयतामिव दुन्दुभिः ॥ इत्यभिमन्त्र्! य तस्मिन्व्रीहीनवहन्ति २३ इदँ विष्णुर्विचक्रम इति द्वाभ्यामुपदधाति दक्षिणतः पुरस्तात्स्वयमातृण्णायाः प्र तद्विष्णुरित्युदञ्चं मुसलम् २४ नक्तोषासा स्यूता देवेभिरित्यनुवाकशेषेणोखामुत्तरतः पुरस्तात्स्वयमातृण्णाया यावत्युलूखलम् २५ अग्ने युक्ष्वा हि ये तवेति द्वाभ्यामग्निँ योजयित्वा दध्ना मधुमिश्रेण समित्स्रवन्तीति शिरसां छिद्रा णि पूरयित्वा हिरण्यशकलानप्यस्यत्यृचे त्वेति कर्णे रुचे त्वेति सव्ये भासे त्वेत्यक्षिणि ज्योतिषे त्वेति सव्येऽभूदिदमिति नासिकायामग्निस्तेजसेति सव्यायाँ रुक्मो वर्चसेत्यास्ये सहस्रदा असि सहस्राय त्वेति विकर्तने २६ आदित्यं गर्भमित्युखायां पुरुषशीर्षमुपदधाति प्रत्यङ्मुखमवाक्छेदम् २७ अभित इतराणि परिहारँ स्पृष्ट्वेत्युखायाँ श्रवण-खैर्हनुभिः प्रतिष्ठितानि वातस्य जूतिमित्यश्वशिरः पुरस्तादजस्रमिन्दुमि-त्यृषभस्य पश्चात्त्वष्टुर्वरुत्रीमिति वृष्णर्दक्षिणतो यो अग्निरग्नेरिति बस्तस्योत्तरतः २८ इमं मा हिँ सीर्द्विपादमित्युत्सर्गैर्यथोपहितमेकैकेनोपतिष्ठेत २९ पुरुष-शिरसोऽक्षिणि चित्रं देवानामित्यर्धर्चेनाभिजुहोत्याप्रा द्यावापृथिवीति सव्ये ३० एकं चेदजशिरः स्यादुखायामुपधायोपधानैरुत्सर्गैर्लोकानुपतिष्ठेत परिहारँ वा लोकेषु तैर्मन्त्रैरुखायामुपधायोपधानैरुत्सर्गैरुपतिष्ठते ३१ पशुशिराँ सि स्वयमातृण्णां चान्तरेण न व्यवेयाद्यदि व्यवेयात्त्वँ यविष्ठेति जपेत् ३२ 6.1.७
 
उत्तरस्मिन्नँ से पुरुषचितिमुपदधाति १ मा छन्द इतिप्रभृतयः पर्यायास्तेषा-मेकैकेन पर्यायेण युगपत्तिस्रस्तिस्र उपदधाति ॥ ध्रुवाः सीदतेत्यन्तेन २ उत्तरार्धात्सर्पशिरः सर्पनामभिः पराचीनमुपदधात्यनुदिशेद्वा नोपदध्यात् ३ अपाँ त्वेमन्त्सादयामीतिप्रभृतिभिरपस्या दिक्षु पूर्वार्धादुपक्रम्य प्रदक्षिणं पञ्च-पञ्चोपदधाति ॥ गायत्रेण त्वा छन्दसा सादयामीतिप्रभृतिभिश्छन्दस्या उत्तरत उपदधाति ४ अयं पुरो भूरितिप्रभृतयः पर्यायास्तेषामेकैकेन पर्यायेणैकैकां दशदश प्राणभृत उपदधाति दक्षिणस्मिन्नँ से सव्यायाँ श्रोणौ दक्षिणायाँ श्रोणौ सव्ये ऽँ! से मध्ये पञ्चमम् ५ प्राची दिग्वसन्त ऋतुरिति पर्यायाः सँ यत उपदधाति यथा प्राणभृतः ६ अवकास्वृतव्या ॥ मधुश्च माधवश्चेतिप्रभृतयः पर्यायास्तेषामेकैकेन पर्यायेण युगपद्द्वेद्वे चित्यांचित्यामिष्टके उपदधाति चतस्रो मध्यमायाम् ७ अग्नेरन्तःश्लेषोऽसीति यथर्तु सर्वत्रानुषजति ध्रुवे सीदतमित्यन्तेन ८ अग्नेर्यान्यसीति दश सँ यान्यस्तासां द्वेद्वे चित्यांचित्या-मिष्टके उपदधाति ९ त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् । अस्थूरि नौ गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सँ शिशाधि ॥ इत्यृषभेण चित्यांचित्यामिष्टका उपदधात्यृजुलेखाः पुछे समं पश्चात्प्राचीं पुरस्ता-त्प्रतीचीमुपदधाति दक्षिणावृतो दक्षिणत आत्मन्युदग्द्वाराः प्रत्यग्द्वाराः पक्षे सव्यावृत उत्तरत आत्मनि दक्षिणाद्वाराः प्राग्द्वाराः पक्षे १० लोकंपृणया चितिँ संपूरयति ११ अग्ने धामानीति स्वयमातृण्णालोके चितिंचितिमभिमृशति १२ अग्ने कह्येति स्वयमातृण्णालोके चितिंचितिमभिजुहोति १३ या त इषुर्युवा नामेति सर्वत्रानुषजति १४ यो अप्स्वन्तरग्निरित्येकैकया चितिहोमाननुमन्त्रयते द्वाभ्यामुत्तमम् १५ अश्वँ श्यावमालभ्य पृष्टो दिवीति चात्वालात्पुरीषेण चितिँ संछादयति संछादयति १६ 6.1.८
इति चयने प्रथमोऽध्यायः

आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति १ ऊर्ध्वं पूर्वाह्णिकीभ्या-माश्विनीभिर्द्वितीयां चितिमारभन्ते ध्रुवक्षितिर्ध्रुवयोनिरितिप्रभृतिभिः पञ्च लोकेषु २ आश्विनीरृतव्या अनूपधीयन्ते सजूरृतुभिरितिप्रभृतिभिः पञ्च ॥ स-जूर्देवैर्वयुनाधैरिति सर्वत्रानुषजति ३ ऋतव्या वायव्या अनूपधीयन्ते प्राणं मे पाहीतिप्रभृतिभिः पञ्च ४ वायव्या अपस्या अनूपधीयन्तेऽपः पिन्वेति-प्रभृतिभिः पञ्च ५ अपस्या वयस्या अनूपधीयन्ते क्षत्रँ वयो मयन्तं छन्द इति चतस्रः पूर्वार्धेऽप्ययेषु पञ्चपञ्च ६ व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च ७ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति ८ ऊर्ध्वं पूर्वाह्णिकीभ्यां तृतीयां चितिमारभन्ते ९ स्वयमातृण्णाँ शर्करामश्वेनोपघ्राप्य भुव इत्यभि-मन्त्रयते १० इन्द्रा ग्नी अव्यथमानामिति सयजुषं करोति ११ विश्वकर्मा त्वा सादयत्विति पर्यायेणोपदधाति १२ नात्राविद्वान्न वरदानम् १३ अभिप्राण्या-पान्य चितिं जुहोमीत्यदाभ्यातृण्णेऽभिजुहोति १४ अन्तरिक्षमाक्रमिषमिति यजमानो जपति १५ ज्योतिरसि ज्योतिर्मे यछेति पूर्वा ँ! हिरण्येष्टकामपराजिता नामासीत्यपरां मण्डलाम् १६ विश्वकर्मा त्वा सादयत्विति विश्वज्योतिषम् १७ राज्ञ्यसि प्राची दिगितिप्रभृतिभिः पञ्च दिश्या लोकेषु १८ आयुर्मे पाहीतिप्रभृतिभिरप्ययेषु दश पूर्वार्धे द्वादशद्वादशेतरेषु १९ मूर्धासि राडिति-प्रभृतिभिरादित्यधाम्नीः सप्त पुरस्ताद्यन्त्री राडितिप्रभृतिभिरङ्गिरोधाम्नीः सप्त पश्चात् २० व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च २१ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति २२ ऊर्ध्वं पूर्वाह्णिकीभ्यामक्ष्णयास्तोमीया-भिश्चतुर्थीं चितिमारभन्त आशुस्त्रिवृदिति पुरस्ताद्व्योमा सप्तदश इति दक्षिणतो भान्तः पञ्चदश इत्युत्तरतो धरुण एकविँ श इति पश्चाद्गर्भाः पञ्चविँ श इति मध्ये । पञ्चदश शिष्टास्तिस्रस्तिस्रो लोकेषूपदधाति २३ स्मृत उपदधात्यग्नेर्भा-गोऽसीति पुरस्तादिन्द्र स्य भागोऽसीति दक्षिणतो नृचक्षसां भागोऽसीत्युत्तरतो मित्रस्य भागोऽसीति पश्चाददित्या भागो ऽसीति मध्ये । शिष्टाः पञ्चानूपदधाति २४ एकयास्तुवत प्रजा अधीयन्तेति सप्तदश सृष्टीर्मध्य उपदधाति २५ ऋतूनां पत्नीति पञ्चदश व्युष्टीस्तिस्रस्तिस्रो लोकेषूपदधाति २६ व्याख्याताः सार्वचितिक्यो लोकंपृणा पुरीषं च २७ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति २८ ऊर्ध्वं पूर्वाह्णिकीभ्याम् 6.2.१
असपत्नयोत्तमां चितिमारभन्त अग्ने जातान्प्रणुदा नः सपत्नानिति पुरस्तात्सहसा जातान्प्रणुदा नः सपत्नानिति पश्चाच्चतुश्चत्वारिँ शी स्तोमो वर्चो द्र विणमिति दक्षिणतः सादयति षोडशी स्तोम ओजो द्र विणमित्युत्तरतोऽग्नेः पुरीषमसीति पुरीषवतीं पश्चात्स्वयमातृण्णायाः १ एकश्छन्द इति चत्वारिँ शतँ विराजोऽप्ययेषु दशदश २ रश्मिना क्षयाय क्षयं जिन्वेति त्रयस्त्रिँ शतँ स्तोमभागा दिक्षु । पूर्वार्धादुपक्रम्य प्रदक्षिणँ सप्तसप्त पञ्च मघ्ये ३ राज्ञ्यसि प्राची दिगितिप्रभृतिभिः पञ्च नाकसदो लोकेषु ४ अयं पुरो हरिकेश इति नाकसदामुपरिष्टात्पञ्चचूडाः पश्चात्प्राचीमुत्तमाम् ५ प्राच्या त्वा दिशा सादयामीति कॢप्तीरुपदधाति शिरसि पक्षपुछेषु मध्ये पञ्चमीम् ६ विहरन्नत्रैव रेतःसिचमुपदधाति ७ परमेष्ठी त्वा सादयत्विति विश्वज्योतिषम् ८ ऋतव्ये उपधाय पुरोवातेतिप्रभृतिभिः पञ्च वृष्टिसनीर्लोकेषु ९ सँ यान्ये उपधाय वाच उपदधात्यम्बा च बुला चेति सप्त पूर्वार्धे १० सलिलाय त्वेतिप्रभृतिभिरादित्येष्टका अप्ययेषु द्वेद्वे मध्ये च ११ अधिद्यौर्नामासीत्यपरां मण्डलाम् १२ उत्तरतः पुरस्तात्स्वयमातृण्णाया अयँ सो अग्निरित्यष्टौ नानायजुष उपदधाति यथा गार्हपत्ये १३ पूर्वां पुनश्चितिँ येन ऋषयस्तपसा सत्रमासतेति नव तासामष्टाभिः १४ समास्त्वाग्न ऋतवो वर्धयन्त्विति दश द्वेद्वे लोकेषु १५ ऊर्ध्वा अस्य समिधो भवन्तीति द्वादशाप्रीरप्ययेषु तिस्रस्तिस्रः १६ प्राणादपानँ संतन्विति नव संततीः पुरस्तात्प्रतीचीरुपदधाति १७ ऋचा त्वा छन्दसा सादयामीतिप्रभृतिभिरप्ययेषु द्वेद्वे १८ दूतँ वो विश्ववेदसमिति पञ्च लोकेषु १९ इन्द्रो दधीचो अस्थभिरिति दश पूर्वार्धे २० छन्दश्चिती-रुपदधात्यप्ययेषु तिस्रस्तिस्रोऽन्तराअन्तरा अयमग्निः सहस्रिण इति तिसृभि-र्गायत्रीभिरबोध्यग्निरिति त्रिष्टुब्भिर्जनस्य गोपा इति जगतीभिः सँ समि-दित्यनुष्टुब्भिरा ते अग्न इधीमहीति पङ्क्तिभिरेना वो अग्निमिति बृहतीभिरग्ने वाजस्य गोमत इत्युष्णिग्भिर्द्वे तिस्रः करोति भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ भद्रा उत प्रशस्तयो भद्रं मनः कृणुष्व वृत्रतूर्ये । येना समत्सु सासहि ॥ येना समत्सु सासह्यव स्थिरा तनुहि भूरि शर्धताम् । वनेमा ते अभिष्टिभिः ॥ इति ककुद्भिः प्रेद्धो अग्न इमो अग्ने अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् ॥ इति विराड्भिरग्ने तमद्येति पदपङ्क्तिभिरग्निँ होतारं मन्य इति छन्दोभिरग्ने त्वं नो अन्तमस्तं त्वा शोचिष्ठ दीदिवोऽधा ह्यग्न इति द्विपदाभिरुत्तरार्धे २१ 6.2.२

महाव्रतमुपदधात्यायाहि सुषुमा हि त इति तिसृभिः गायत्रीभिः शिरसि । रथंतरं पक्षेऽभि त्वा शूर नोनुम इति द्वे तिस्रस्कारं दक्षिणार्धे मध्येऽप्यये च । बृहदुत्तरस्मिँ स्त्वामिद्धि हवामह इति द्वे तिस्रस्कारमुत्तरार्धे मध्येऽप्यये चात्मनि वामदेव्यं कया नश्चित्र आभुवदिति तिस्रो मध्ये । यज्ञायज्ञियं पुछे यज्ञा यज्ञा वो अग्नय इति द्वे तिस्रस्कारं पश्चार्धे मध्येऽप्यये च १ यवा अयवा इति सप्त पूर्वार्धे २ पृथिव्यसि जन्मनेतिप्रभृतिभिरप्ययेषु द्वेद्वे ३ या देव्य-सीष्टके कुमार्युपशीवरीतिप्रभृतिभिरप्ययेषु तिस्रस्तिस्रो या देव्यसीष्टक आयुर्दा इति नवस्वनुषजत्युपशीवरीत्युपरिष्टाद्या देवीः स्थेष्टकाः सुशेवा इति मध्ये युगपत्तिस्रः ४ सवयसे त्वेतिप्रभृतिभिरप्ययेषु तिस्रस्तिस्रः ५ भूयस्कृ-दसीतिप्रभृतिभिरप्ययेषु पञ्चापञ्चीनाः प्रदक्षिणं पञ्चपञ्चोपदधाति ६ ज्योतिष्मतीं त्वा सादयामीप्रभृतिभिरप्ययेषु तिस्रस्तिस्रो द्वे मध्ये ७ कृत्तिका नक्षत्र-मग्निर्देवतेतिप्रभृतिभिर्नक्षत्रेष्टकाः पुरस्तात्प्रतीचीरुपदधात्यग्ने रुचः स्थेति सर्व-त्रानुषजति । पुरस्ताद्विशाखयोः पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय । यस्यां देवा अभि सँ विशन्त उत्तमे नाक इह मादयध्वम् ॥ इति पौर्णमासीमु परिष्टाद्भरणीनाम् यत्ते देवा अदधुर्भागधेयममावास्ये सँ विशन्तो महित्वा । सा नः प्रजां कृणुहि सर्ववीरे रयिं नो धेहि सुभगे सुवीरे ॥ इत्य-मावास्याम् ८ हिरण्यगर्भ इतिप्रभृतिभिरप्ययेषु द्वेद्वे ९ स्वरसि स्वर्मे यछेति पूर्वा ँ! हिरण्येष्टकामृषभमुपधाय लोकंपृणया चितिँ संपूरयति १० स्व-यमातृण्णाँ शर्करामश्वेनोपघ्राप्य स्वरित्यभिमन्त्रयते ११ आयोष्ट्वा सदने सादयामीति सयजुषं करोति १२ परमेष्ठी त्वा सादयत्विति पर्यायेणोपदधाति १३ नात्राविद्वान्न वरदानम् १४ अभिप्राण्यापान्य चितिं जुहोमीत्यदाभ्या-तृण्णेऽभिजुहोति १५ दिवमाक्रमिषमिति यजमानो जपति १६ वायव्यामुत्तराँ विकर्णी ँ! शर्करां प्रतिप्रस्थाता प्रोथदश्वो न यवस इति मघ्ये युगपत्स्व-यमातृण्णालोकस्योपदधाति १७ व्याख्यातँ सार्वचितिकम् १८ पुरीषेण चितिँ सँ स्थापयत्यन्यत्स्वयमातृण्णायाः १९ जानुदघ्नं प्रथमं चिन्वानश्चि-न्वीतेति व्याख्यातम् २० 6.2.३

सौवर्णानाँ शकलानाँ सहस्रेण सहस्रस्य मासीतिप्रभृतिभिः सर्वमग्निं प्रोक्ष्य घृतेन प्रोक्षति वसवस्त्वा रुद्रै ः! पश्चात्पान्त्विति पश्चात्प्राङ्मुखो नितानस्त्वा मारुतो मरुद्भिरुत्तरतः पात्वित्युत्तरतो दक्षिणामुख आदित्यास्त्वा विश्वैर्देवैः पुरस्तात्पान्त्विति पुरस्तात्प्रत्यङ्मुखः पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्त्विति दक्षिणत उदङ्मुखो देवास्त्वेन्द्र ज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्त्विति मध्ये प्राङ्मुखः १ प्रतिपरिक्रम्ये मा मे अग्ना इष्टका धेनवः सन्त्विति दुहेनोत्तरं पुछाप्ययं प्रत्यारम्य जपति यजमानः २ उत्तरस्याँ श्रोणावन्त्याया-मिष्टकायाँ शतरुद्रि यं जुहोत्यर्कपर्णेनाजक्षीरं गवीधुकासक्तून्वा नमस्ते रुद्र मन्यव इतिप्रभृतिभिर्जानुदघ्ने धारयमाणो दक्षिणामुखो नमो बृहद्भ्योऽर्भकेभ्य इति नाभिदघ्न उदङ्मुखो नमो वास्तव्यायेत्यास्यदघ्ने प्राङ्मुखः ३ प्रत्यवरोहाञ्जुहोति नमो अस्तु रुद्रे भ्यो ये दिवीत्यास्यादघ्न उत्तरेण पर्यायेण नाभिदघ्न उत्तमेन जानुदघ्ने ४ अर्कपर्णमसंचरे न्यस्येद्यं य्केद्विआ!त्तस्य पशूनाँ संचरे न्यस्येत् ५ यो रुद्रो ऽप्सु यो ऽग्नौ य ओषधीषु । यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्रा य नमोऽस्तु देवाय ॥ स्वाहेति तस्यामिष्टकायां गावीधुकं चरुमुपवपति ६ आयुधं तिसृधन्वमयाचितो ब्राह्मणाय दद्यात् ७ अश्मन्नूर्जं पर्वते शिश्रिया-णामित्युदकुम्भेनाग्निं प्रसव्यं त्रिः परिषिञ्चन्पर्येति । निधाय त्रिरपरिषि-ञ्चन्प्रतिपर्येति ८ आग्नेयपावमान्याँ शिरसि गायत्रं गायोद्गाता रथन्तरं दक्षिणे पक्षे बृहदुत्तरस्मिन्नात्मनि वामदेव्यँ यज्ञायज्ञियं पुछे प्रजापतेर्हृदयमनृचं दक्षिणस्मिन्निकक्षे स्तुतँ होतानुशँ सति ९ परिगीतं नाक्रामेदा स्वयमातृण्णाया व्याघारणात् १० मण्डूकेनावकया वेतसशाखया च समुद्र स्य त्वावकया हिमस्य त्वा जरायुणेतिप्रभृतिभिः सप्तभिः सर्वमग्निँ विकर्षति ११ विनीय प्राणान्मण्डूकस्य विकर्षणमुत्करे प्रविध्यति । यं द्विष्यात्तमेतेनोपहन्यात् १२ इष्टो यज्ञो भृगुभिरिति छन्दसां दोहँ यजमानँ वाचयति १३ औदुम्बरीर्घृते वासयति १४ आपराह्णिक्यौ प्रवर्ग्योपसदावुपेत्य वसन्ति १५ ऊर्ध्वं पूर्वाह्णिकीभ्यां कृष्णाजिनस्योपानहं प्रतिमुच्यापामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामग्निमाक्रामति १६ पञ्चगृहीत आज्ये हिरण्यशकल-मेकैकमवधाय द्रुषदे वडितिप्रभृतिभिः स्वयमातृण्णाँ व्याघारयति यथा नाभिम् १७ स्वर्विदे वडित्यूर्ध्वा ँ! स्रुचमुद्गृह्णाति १८ दधिनि मधुमिश्रे दर्भमुष्टिं पर्यासमन्नपते अन्नस्य नो देहीति तिसृभिः सर्वमग्नि ँ! व्यवोक्षति १९ प्राणदा अपानदा इति प्रत्यवरोहति २० आपराह्णिकी ँ! सद्यः सँ स्थाप्योत्साद्य घर्मपात्राण्यग्नीषोमीयायौपसदं बर्हिस्तद्व्याख्यातम् २१ 6.2.४

अग्निस्तिग्मेन शोचिषेति चतुर्गृहीतं जुहोति १ तूष्णी ँ! षोडशगृहीतं गृहीत्वा य इमा विश्वा भुवनानीत्यष्टौ निगद्यार्धं जुहोत्युत्तरमनुवाकं निगद्य शेषम् २ औदुम्बरीर्घृतोष्यतिआ!स्तिस्रः समिध उदेनमुत्तरं नयेति तिसृभिः स्वाहाका-रान्ताभिरादधाति ३ व्याख्यातमग्निप्रणयनम् ४ उदु त्वा विश्वे देवा इत्यग्निमादत्ते ५ पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरित्युत्तरतः पृष्ठ्यादेशस्य षड्भिराग्नीध्राद्यन्ति ६ प्रणीयमानस्योत्तरतो यजमानो व्रजति दक्षिणतो ब्रह्माशुः शिशान इत्यप्रतिरथं दशर्चमन्वाह ७ विमान एष दिवो मध्य आस्त इति द्वाभ्यामुपदधात्याग्नीध्रीयेऽश्मानमुपधानवेलायाम् ८ सुम्नहूर्यज्ञ आ च वर्क्षादति चतुर्भिराहवनीयाद्यन्ति ९ क्रमध्वमग्निनेति पञ्चभिरग्निमाक्रामति १० कृष्णायाः श्वेतवत्सायाः पयसः पूर्णामौदुम्बरीं नक्तोषासाग्ने सहस्राक्षेति निगद्य स्वयमातृण्णामभिजुहोति ११ तस्याँ संभारान्हिरण्यशकलं च न्युप्य सुपर्णोऽसि गरुत्मान्पृष्ठे पृथिव्याः सीद आजुह्वानः सुप्रतीक इति द्वाभ्यामग्नि ँ! सादयित्वा समिध्य समिध आदधाति ताँ सवितुर्वरेण्यस्येति शमीमयी ँ! विधेम ते परमे जषन्मग्न इत्याश्वत्थीं प्रेद्धो अग्न इति वैकङ्कतीम् १२ अग्ने तमद्येति पङ्क्त्या जुहोति सप्त ते अग्ने समिध इति पूर्णाहुतिं चितिं जुहोमीत्यनुवाकशेषेण द्वितीयाम् १३ अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् १४ स्रुवं जुहूं च संमृज्याभ्युदाहरति वैश्वानरीयम् १५ सकृत्सर्वमवद्यति १६ आशयस्यान्वासिच्य द्विरभिघार्योपाँ श्वग्नये वैश्वानरायानुब्रूहीत्यनुवाचयति १७ आश्राव्याग्निँ वैश्नानरँ यजेति प्रेष्यति १८ वषट्कृते मध्ये पाणिना जुहोति १९ ऋजुं प्रतिष्ठितमाशयेनाभिजुहोति २० यदि पर्यावर्तेत ब्राह्मणव्याख्यातम् २१ पुरोडाशान्सप्त सप्तकपालान्तूष्णीमुपचरितान्सँ स्करोति २२ उपस्तरणा-भिघारणैः संपातं मारुतैर्गणैर्जुहोति श्रुक्रज्योतिश्च चित्रज्योन्नतिए!तिप्रभृतिभि-र्दक्षिणार्धे पूर्वार्ध ऋतजिच्च सत्यजिच्चेति दक्षिणार्ध ऋतश्च सत्यश्चेति दक्षिणार्धे पश्चार्धेऽरण्येऽधीतेन गणेन पश्चार्ध ईदृङ्चैतादृङ्चेत्युत्तरार्धे पश्चार्ध ईदृक्षास एतादृक्षास इत्युत्तरार्धे सभरसो मरुतो यज्ञ इत्युत्तरार्धे पूर्वार्धे २३ वसोर्धारायै स्रुचमौदुम्बरीं महती ँ! स्योनदण्डां कारयेद्यथा वैश्वानरीये धारा प्रतिष्ठास्यति तथावस्थापयेत् २४ तूष्णीं द्वादशानि गृहीत्वान्वारब्धे यजमाने वाचयन्वाजश्च मे प्रसवश्च म इतिप्रभृतिभिः पञ्चभिरनुवाकैः संततँ वसोर्धारां जुहोति २५ एका च तिस्रश्चेत्या त्रयस्त्रिँ शतश्चतस्रश्चाष्टौ चेत्यष्टाचत्वारिँ शतस्त्र्! यविश्च त्र्! यवी चेति यथाम्नातं धेउन्श्चानड्वाँ श्चायुर्यज्ञेन कल्पते प्राणो यज्ञेन कल्पत इतिप्रभृतिभिः पतयेऽधिपतय इत्यन्तेन स्तोमश्च यजुश्चेति यथाम्नातमन्ततः स्वाहाकारं कुर्यात् २६ श्चचमनुप्रहृत्याज्यात्शेषे चतुःशरावं जीवतण्डुलमोदनं पक्त्वा मध्यतः-कारिभ्यो दद्यात्तेभ्यश्चतस्रश्चतस्रो धेनूः २७ ओषधीरारण्या ग्राम्याश्च सर्पिषा सँ सृज्य वाजप्रसव्यमौदुम्बरेण स्रुवेण जुहोत्यग्ने अछा वदेह न इत्यष्टाभिर्विश्वे नो अद्य मरुत इति षड्भिः २८ हुत्वाहुत्वा पात्र्! याँ संपातमवनयति २९ दक्षिणस्याः श्रोणेः पश्चादग्निपुछस्य वासन्द्यां कृष्णाजिनमास्तीर्य बस्ताजिनं पश्रुकामस्य तस्यामासीनं देवस्य त्वा सवितुः प्रसव इति संपातेनाभिषिञ्चति ३० शिरसोऽध्या मुखादवस्रावयति बृहस्पतिँ साम्राज्यायेति ब्राह्मणमिन्द्र ँ! साम्राज्यायेति राजन्यमग्नि ँ! साम्राज्यायेति वैश्यं । न वाभिषिञ्चेद्वैश्यम् ३१ द्वादशगृहीतेन द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेतिप्रभृतयः पर्यायास्तेषा-मेकैकेन पर्यायेणाहुती द्वेद्वे तस्मै स्वाहा वडिति पूर्वां ताभ्यः स्वाहा वडित्युत्तराँ स न इदं ब्रह्म क्षत्रं पात्विति सर्वत्रानुषजति ता ना इदं ब्रह्म क्षत्रं पान्त्विति च ॥ बृहस्पतिर्विश्वकर्मेति द्वादशो ब्राह्मणस्य प्रजापतिः परमेष्ठीति राजन्यस्या-मृडयो दूरेहेतिरति वैश्यस्य ३२ द्विर्गृहीतेन स नो भुवनस्य पत इति रथ-शिरस्यध्याहवनीये हुत्वा तमध्वर्यवे दक्षिणाकाले दद्यात् ३३ समुद्रो ऽसि नभस्वानार्द्र दानुरितिप्रभृतिभिरञ्जलिना त्रिर्वातं जुहोति कृष्णाजिनपुटेन वा ३४ 6.2.५

पदलोभनप्रभृति सिद्धमा धिष्ण्यनिवपनात् १ वैहवीभिर्धिष्ण्येषूपदधात्य-श्मनवमा आग्नीध्र एकविँ शतिँ होत्र्! य एकादश ब्राह्मणाछँ स्येऽष्टाष्टा इतरेषु षण्मार्जालीये पशुश्रपणे च २ सिद्धमाग्नीषोमीयात् ३ अग्नये गायत्राय त्रिवृते राथन्तरायेति दशहविषँ सर्वपृष्ठामग्नीषोमीयस्य पशुपुरोडाशमनुनिर्वपति ४ यथा देविकाहविर्भिस्तथा प्रचरति ५ सिद्ध उपवसथः ६ श्वो भूतेऽग्निष्टोम उक्थ्योऽतिरात्रो वा ७ सिद्धमा परिधीनां परिधानात् ८ आघारसमिधमाधा-याग्निँ युनज्मि शवसा घृतेनेत्यग्नियोगं जुहोति ९ इमौ ते पक्षाविन्दुर्दक्ष इति पक्षावभिमृशति १० स्वयं कृण्वान इति पञ्चभिरन्वारोहाञ्जुहोति ११ सिद्धमोपाकरणात् १२ एकयूप एकादशिनानुपाकरोति क्रतुपशून्वा १३ सिद्धमा दक्षिणाकालात् १४ सौवर्ण ँ! शतमानँ स्थालं मधुनः पूर्णं दक्षिणाभिः सहातिहृत्य चित्रं देवानामिति यजमानोऽवेक्ष्य ब्रह्मणे प्रयछति १५ सिद्धमाग्निष्टोमचमसेभ्यः १६ अग्निष्टोमचमसानुन्नीय दिवो मूर्धासीत्यप्सुम-तीभ्यामग्निँ संमृशति १७ सिद्धमा शँ योर्वाकात् १८ वि ते मुञ्चामि रशनाँ वि रश्मीनिति परिधिविमोकं जपति १९ शँ य्वन्ते सँ स्थिते
इमँ स्तनं मधुमन्तं धयापाँ प्रपीनमग्ने सलिलस्य मध्ये ।
उत्सं जुषस्व मधुमन्तमूर्मि ँ! समुद्रि यँ सलिलमा विशस्व ॥
इत्यग्निविमोकं जपति २० सिद्धमानूबन्ध्यायाः २१ प्राक्समिष्टयजुर्भ्यो यास्ते अग्ने सूर्ये रुचो या वो देवाः सूर्ये रुचो रुचं नो धेहीति रुचो जुहोति २२ तत्त्वा यामीति वारुण्या प्राग्वेदिपर्योषणाद्दधिघृते सँ सृज्य समीची नामासीति पर्यायैरभिजुहोति प्रतिदिशं द्वाभ्यां मध्ये २३ सँ स्थाप्योदवसानीयां दीक्षया त्वापं तपसा त्वापँ सुत्यया त्वापमवभृथेन त्वापँ वशया त्वापमिति प्रयास्यन्नाप्तिभिरैष्टकमग्निमुपतिष्ठते २४ अग्निचित्सँ वत्सरं न प्रत्यवरोहेन्न प्रत्युत्तिष्ठेद्यावज्जीवँ वर्षति न धावेत्पक्षिणः शिरसो नाश्नीयान्न रामामुपेया-
द्द्वितीयं चित्वा नान्यस्य भार्यां तृतीयं चित्वा न कांचन । यद्युपेयान्मैत्रावरुण्यामिक्षया यजेत २५
ये अग्नयः पुरीषिण आविष्टाः पृथिवीमनु ।
तेषामसि त्वमुत्तमः प्र नो जीवातवे सुव ॥
इति प्रवासादेत्यैष्टकमग्निमुपतिष्ठत उप त्वाग्ने दिवे दिव इति तृचेनान्येषाम् २६ अग्निं चित्वैष्टिक्या सौत्रामण्या यजेत २७ पुनश्चितिस्तिस्रश्चितयः २८ येन ऋषयस्तपसा सत्रमासतेत्यष्टौ नानायजुष उपाधायाष्टौ लोकंपृणाः पुरीषेण चितिँ संछादयत्येकादश द्वितीयस्यां द्वादश तृतीयस्याम् २९ सोमेन यजमान ऋद्धिकामः पुरा चिते पुनश्चितिं चिन्वीत चित्वा वा व्याघारमाणो व्याघारितायामुत्तरवेदौ ३० येष्वग्निर्न संभवेत्तेषु पुनश्चितिमयँ सो अग्निरित्यष्टौ नानायजुषस्त्रयोदश लोकंपृणास्ता एकविँ शतिः ३१ अयं ते योनिरृत्विय इत्यग्निं निदधाति निदधाति ३२ 6.2.६
इति चयने द्वितीयोऽध्यायः
इति मानवसूत्रे चयनकल्पः समाप्तः