कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०८

विकिस्रोतः तः
← प्रश्नः ०७ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०८
भरद्वाजः
प्रश्नः ०९ →

अथ अष्टमः प्रश्नः
चातुर्मास्यैर्यक्ष्यमाणः पञ्चहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति १ वैश्वानरं द्वादशकपालं निर्वपति पार्जन्यं चरुम् २ हिरण्यं वैशानरे ददाति । धेनुं पार्जन्ये ३ सिद्धमिष्टिः संतिष्ठते ४ सैषान्वारम्भणीयायाः स्थानं प्रत्येति ५ फाल्गुन्यां चैत्र्! यां वा प्राचीनप्रवणे वैश्वदेवेन यजते ६ दर्शपूर्णमासीक आहवनीयः स्यादित्येकम् । सौमिक इत्यपरम् ७ यदन्यदुत्तरवेद्या उपवपनात् सर्वं तत् क्रियते ८ आमावास्यं तन्त्रं भवति ९ समानमा वत्सानामपाकरणात् १० आप्यायध्वमघ्निया विश्वेभ्यो देवेभ्यो भागम् इति गाः प्रस्थापयति ११ समानमा बर्हिष आगरणात् १२ प्रसूमयं बर्हिर्भवति १३ तत् त्रेधा संनह्यैकधा पुनः संनह्यति १४ एवं त्रयोविँ शतिदारुमिध्मं करोति १५ समानमा पात्राणां प्रयोजनात् १६ पृषदाज्यधानीं द्वितीयामुपभृतं प्रयुनक्ति द्वे आज्यस्थाल्यौ तिस्रश्चरुस्थालीः पालाशं वाजिनपात्रम् १७ समानमा निर्वपणात् १८ आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुँ सावित्रं द्वादशकपालँ सारस्वतं चरुं पौष्णं चरुं मारुतँ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमिति १९ समानमा फलीकरणात् २० फलीकृतानां तण्डुलानां विभागमन्त्रेण चरव्यानपोद्धरति २१ सहेतरान् पिनष्टि २२ संयुतानां पिष्टानां पौष्णमपोद्धरति २३ ८.१

समानमा प्रातर्दोहात् १ तप्ते प्रातर्दोहे सायंदोहमानीय यदा कृतामिक्षा भवत्यथैनां विस्राव्य विवाजिनां कृत्वा द्वयोः पात्रयोव्युद्धृत्य वाजिनस्यैकदेशेनोपसिछ प्रज्ञातं वाजिनशेषं निदधाति २ अधिश्रित्य हवी ँ! ष्याप्येभ्यो निनीय तत उत्तरं परिग्राहं परिगृह्णाति ३ समानमा संप्रैषात् ४ आज्येन दध्ना चोदेहि इति संप्रैषान्तं नमति ५ समानमाज्यानां ग्रहणात् ६ पाशुकान्याज्यानि गृह्णाति ७ एतावन्नाना ८ पृषदाज्यधान्यामौपभृतानां मन्त्राणां द्वाभ्यामाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णाति ९ औपभृतानामेकेनान्तत आज्यम् १० इति वै खलु यदि चैत्र्! यां यजेत ११ अथ यदि फाल्गुन्याँ संसृष्टमेव गृह्णीयाद्यथा पशुबन्धे १२ समानमा हविषामुद्वासनात् १३ एककपालमुद्वास्याज्येनाभिपूरयति १४ आविःपृष्ठं करोति १५ भूर्भुवः सुवः इति हवी ँ! ष्यासादयति १६ उत्करे वाजिनम् १७ संवत्सरे पर्यागत एताभिरेवासादयेत् १८ आसाद्य हवी ँ! षि निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति १९ सप्तदश सामिधेन्यो भवन्ति २० समानमा प्रयाजेभ्यः २१ नव प्रयाजान् यजति २२ चतुर्थेचतुर्थ औपृभृतँ समानयते सर्वमन्ततः २३ उपभृतः स्थाने पृषदाज्यमभिघारयति २४ समानमा हविषां प्रदानात् २५ उपाँ शु सावित्रैककपालाभ्यां प्रचरति २६ ८.२

पौष्णँ हुतमनुमन्त्रयते पूष्णोऽहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति १ एवमेव सर्वान् पौष्णाननुमन्त्रयते २ आमिक्षया प्रचर्यैककपालं बर्हिषदं कृत्वा जुह्वामुपस्तीर्य सर्वमेककपालमवद्यति ३ अत्रैवाशयमनुपर्यासिच्याभिघार्य स्रुचा प्रतिष्ठितं जुहोति ४ यदि हुतः पर्यावर्तेत प्रत्यादायाभिघार्य पुनर्जुहुयात् ५ वरं दत्त्वा स्रुचा कल्पयति न पाणिनेत्येकेषाम् ६ अथैनं चतुर्भिर्मास-नामभिरभिजुहोति मधवे स्वाहा ॥ माधवाय स्वाहा ॥ शुक्राय स्वाहा ॥ शुचये स्वाहा इति ७ संवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ८ प्रथमजो वत्सो दक्षिणा ९ पृषदाज्येन नवानूयाजान् यजति १० संवत्सरीणां स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते ११ प्रहृत्य परिधीन् संप्रेष्यति वाजिभ्योऽनुब्रूहि इति १२ जुह्वामुपस्तीर्य चमसे वा बर्हिषि विषिञ्चन् वाजिनमानयति १३ अनभिघार्यात्याक्रम्याश्राव्याह वाजिनो यज इति १४ वषट्कृते विषिच्य-मानया जुहोति १५ अनुवषट्कृते द्वितीयम् १६ ८.३

ऊर्ध्वज्ञुरासीनो होता यजत्यनवानम् १ वाजिनो हुत्वावशिनष्टि २ वाजि-नोद्रे केण दिशः प्रतियजति यथा पशुबन्धे ३ भक्षं तँ समुपहूय भक्षयन्ति होताग्रेऽथाध्वर्युरथ ब्रह्माथाग्नीध्रोऽथ यजमानः ४ समशो वा विभज्य ५ सर्व एव मिथः कर्मनामभिः समुपह्वयेरन् ६ असावुपह्वयस्व इत्यामन्त्रणः । उपहूतः इति प्रतिवचनः ७
यन्मे रेतः प्रसिच्यते यन्म आजायते पुनः ।
यद्वा मे प्रतितिष्ठति तेन माममृतं कुरु तेन सुप्रजसं कुरु ॥
तस्य ते वाजिपीतस्योपहूतस्योपहूतो भक्षयामि इति ८ समानमा समिष्टयजुषः ९ पाशुकानि समिष्टयजूँ षि जुहोति १० सिद्धमिष्टिः संतिष्ठते ११ त्रेण्या शलल्या विनीय लौहेन क्षुरेणौदुम्बरेण श्मश्रूणि वापयित्वोपपक्षौ नि केशान् वर्तयते ऋतमेव परमेष्ठ्यृतं नात्येति किं चन इति १२ एवमेवोत्तरेणोत्तरेण मन्त्रेणोत्तरेषु पर्वसु निवर्तयते १३ चतुरो मासान्न माँ समश्नाति न स्त्रियमु-पैति नोपर्यास्ते जुगुप्सतेऽनृतात् प्राङ् शेते मध्वश्नाति १४ मध्वशनः स्या-दित्येकम् । व्यञ्जनार्थमित्यपरम् १५ ऋत्विये तु जायामुपेयादित्येकेषाम् १६ एवमेव सर्वेषु चातुर्मास्यान्तरालेषु व्रतं चरति १७ ८.४

ततश्चतुर्षु मासेषु वरुणप्रघासैर्यजते १ तेषां वैश्वदेवेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ समानमा वत्सानामपाकरणात् ४ मारुत्या आ-मिक्षायै प्रतिप्रस्थाता वत्सानपाकरोति ५ वारुण्या अध्वर्युः ६ अग्रेणाहवनीयं द्वे वेदी कुरुतः । उत्तरामध्वर्युर्दक्षिणां प्रतिप्रस्थाता ७ समे प्राची भवतः । पृथमात्रेण प्रादेशमात्रेण वासंभिन्ने ८ यदेवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति ९ अग्रेणापरेण वोत्तरां वेदिं प्रतिप्रस्थाता स्तम्बयजुर्हरति १० एतेनैवात ऊर्ध्व ँ! संचरते ११ समान उत्करो भवति समान आग्नीध्रः समानो होता समानो ब्रह्मा १२ तत्रैषोऽत्यन्तप्रदेशो यान्युत्तरस्यां कर्माण्यध्वर्युस्तानि कुर्या-द्दक्षिणस्यां प्रतिप्रस्थाता १३ अथैने अनुसंभिनत्ति १४ दक्षिणायै वेदेरुत्तरस्याः श्रोणेरुपक्रम्य स्फेनोल्लिखत्योत्तरस्या दक्षिणादँ सात् १५ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वोत्तरस्यां वेद्यामुत्तरवेदिमुपवपति न दक्षिणस्याम् १६ उभयत्र संभारनिवपनं भवति १७ ८.५

पूर्वेद्युरग्नी प्रणयत इत्येकम् । अधिश्रित्य हवी ँ! षीत्यपरम् १ समानमा बर्हिष आहरणात् २ द्वे बर्हिषी आहरतो द्वाविध्मौ ३ समानमा पात्राणां प्रयोजनात् ४ उभौ पात्राणि प्रयुङ्क्तः ५ शमीमय्यः स्रुचो भवन्ति हिरण्मय्यो वा दक्षिणस्य विहारस्य ६ समानमा निर्वपणात् ७ आग्नेयमष्टाकपालमिति नित्यानि पञ्च संचराणि निरुप्यैन्द्रा ग्नमेकादशकपालं निर्वपति ८ तूष्णीं करम्भपात्रेभ्यो यवान् निरुप्य मन्त्रेण मेषप्रतिकृतिभ्यां यवान् निर्वपतः ९ मरुद्भ्यः प्रतिप्रस्थाता वरुणायाध्वर्युः १० कायमेककपालं निर्वपति ११ समानमा फलीकरणात् १२ सर्वा ँ! स्तुषानवभृथाय निदधाति १३ मन्त्रेण मेषप्रतिकृतिभ्यां यवेभ्यो भर्जनार्थे कपाले उपधत्तः १४ तयोरीषदुपतप्ता धानाः कुरुतः १५ आव-पन्तावधिश्रयणमन्त्रं जपतः १६ उद्वपन्तावुद्वासनमन्त्रम् १७ भृष्टा धाना अभिघार्योद्वासयतः १८ काल एवालंकुरुतः १९ यत्र क्व च हविष्यान् भर्जयेदेवमेव कुर्यात् २० पिष्टानामावृता धानाः पि ँ! ष्टः २१ आमिक्षाया आवृतामिक्षे कुरुतः २२ वारुणनिष्कासं प्रज्ञातं निदधाति २३ ८.६

ऐन्द्रा ग्नपर्यन्तानि हवी ँ! ष्यधिश्रित्यामपेषाणां यवानामीषदुपतप्तानां वा प्रतिपूरुषं पत्नी करम्भपात्राणि करोति यावन्तो यजमानस्य पुत्रपौत्रा भवन्त्येकमतिरिक्तम् १ स्त्रीभ्योऽपि प्रतिकरोति २ मेषप्रतिकृती कुरुतः ३ मेषमध्वर्युर्मेषीं प्रतिप्रस्थाता ४ स्त्रियाः स्त्रीव्यञ्जनानि कुरुते पुँ सः पुंव्यञ्जनानि ५ अथैना-वनेडकीभिर्लोमशौ कुरुतः ६ यद्यनेडकीर्न विन्देयातां कुशोर्णा एव निश्ले-षयतः ७ कुम्भीपाक्यौ वा भवतः ८ कायमेककपालमधिश्रित्य हवी ँ! ष्या-प्येभ्यो निनीयाहवनीय इध्मावादीप्य संप्रेष्यति अग्निभ्यां प्रणीयमानाभ्याम-नुब्रूहि इति ९ ये के च साधारणाः संप्रैषा अध्वर्युरेव तान् ब्रूयात् १० सहाग्नी प्रणयतः सह प्रणीता हरतः ११ उत्तरस्मिन्नेवाग्नौ प्रणीता आसादयतः १२ उत्तरस्मिन् व्रतं विसृजते १३ तत उत्तरौ परिग्राहौ परिगृह्णीतः १४ समानमा संप्रैषात् १५ यथाधिकरणँ संप्रैषं नमति १६ समानमाज्यानां ग्रहणात् १७ ८.७

उभौ पाशुकान्याज्यानि गृह्णीतः १ एतावन्नाना । पृषदाज्यधान्योरौपभृतानां मन्त्राणामेकेनाज्यं गृहीत्वा महीनां पयोऽसि इति द्विर्दधि गृह्णीतः २ औपभृतानां द्वाभ्यामन्तत आज्यम् ३ इति वै खलु यदि श्रावण्यां यजेत ४ अथ यद्याषाढ्याँ संसृष्टमेव गृह्णीयातां यथा पशुबन्धे ५ समानमा हविषामुद्वासनात् ६ ऐन्द्रा ग्नपर्यन्तानि हवी ँ! ष्युद्वास्यामिक्षयोर्मेषप्रतिकृती अवधत्तः ७ मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ८ ताभ्यां परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपतः ९ करम्भपात्रेष्वावपति १० एककपालस्यावृतैककपालमुद्वास्योत्तरस्यां वेद्याँ हवी ँ! ष्यासादयति ११ दक्षिणस्यां मारुतीं करम्भपात्राणि च १२ आमिक्षयोर्मेषप्रतिकृती विपरिहरतः १३ मारुत्यां मेषीमवदधाति वारुण्यां मेषम् १४ उभौ निर्मन्थ्याभ्यां चरत इत्येकम् । अध्वर्युरित्यपरम् १५ ८.८

ततः संप्रेष्यति अग्निभ्याँ समिध्यमानाभ्यामनुब्रूहि इति १ एवमेव संमार्जने द्विवत् प्रैषँ संनमति २ संमृष्ट उत्तरोऽग्निर्भवत्यसंमृष्टो दक्षिणः ३ अथ प्रतिप्रस्थाता पत्नीं पृच्छति कति ते जाराः इति ४ यज्जारँ सन्तं न प्रब्रूयात् प्रियं ज्ञातिँ रुन्ध्यात् । असौ मे जारः इति निर्दिशेत् । निर्दिश्यैवैनं वरुणपाशेन ग्राहयतीति विज्ञायते ५ यावत आचष्टे तान् वरुणो गृह्णातु इत्युक्त्वा पत्नीमुदानयति प्रघास्यान् हवामहे इति ६ ऐषीके शूर्प उपस्तीर्य करम्भ-पात्राण्योप्याभिघार्य शीर्षन्नधिनिधाय पुरस्तात्प्रत्यङ् तिष्ठन् दक्षिणेऽग्नौ यजमानः सह पत्न्या करम्भपात्राणि जुहोति ७ यजमानः पुरोनुवाक्यामन्वाह मो षू ण इन्द्र इति ८ उभौ पत्नी च याज्यां यद् ग्रामे यदरण्ये इति ९ अपि वाध्वर्युरेव जुहुयात् १० अन्वारभेयातामितरौ ११ अक्रन् कर्म कर्मकृतः इति विपरायन्तौ जपतः १२ ततो दक्षिणमग्निँ संमार्ष्टि १३ अध्वर्युरेव प्रवरं प्रवृणीते १४ उभौ नवनव प्रयाजान् यजतः १५ आज्यभागाभ्यां प्रचर्य १६ ८.९

उपरमति प्रतिप्रस्थाता १ अध्वर्युर्हवी ँ! षि प्रयच्छति २ ऐन्द्रा ग्नेन प्रचर्यो-परमत्यध्वर्युः ३ मारुत्या प्रतिप्रस्थाता प्रचरति ४ पूर्वेणावदानेन मेषीँ सहा-वद्यत्युत्तरेण सह शमीपर्णकरीराणि ५ मारुत्या प्रचर्योपरमति प्रतिप्रस्थाता ६ वारुण्याध्वर्युः प्रचरति ७ पूर्वेणावदानेन मेषँ सहावद्यत्युत्तरेण सह शमी-पर्णकरीराणि ८ एककपालस्यावृतैककपालँ हुत्वोत्तरैश्चतुर्भिर्मासनामभिरभि-जुहोति नभसे स्वाहा ॥ नभस्याय स्वाहा ॥ इषाय स्वाहा ॥ ऊर्जाय स्वाहा इति ९ पृथक् स्विष्टकृते जुहुतः । सहेषामवद्यतः १० परिवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ११ प्रवया इवर्षभो दक्षिणा १२ पृषदाज्येन नवानूयाजान् यजतः १३ परिवत्सरीणाँ स्वस्ति-माशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते १४ उभौ वाजिनेन प्रचरतः १५ आ त्वा विशन्त्विन्दवः ॥ आ वल्गा धमनीनाँ रसेन मे रसं पृण । तस्य ते वाजिभिर्भक्षं कृतस्योपहूतस्योपहूतो भक्षयामि इति १६ ८.१०
दक्षिणं वाजिनं भक्षयन्ति १ वाजिनां भक्षोऽवतु वाजोऽस्मान् रेतः सिक्तममृतं बलाय । स न इन्द्रि यं द्र विणं दधातु मा रिषाम वाजिनं भक्षयन्तः ॥ तस्य त उपहूतस्योपहूतो भक्षयामि इत्युत्तरम् २ उभौ कस्तम्भ्याँ स्रुचौ सादयतः ३ अध्वर्युरेव पत्नीः संयाजयति ४ उभौ पाशुकानि समिष्टयजूँ षि जुहुतः ५ सिद्धमिष्टिः संतिष्ठते ६ तुषैश्च वारुण्या निष्कासेन चावभृथमवयन्ति ७ तत्र कृत्स्नोऽवभृथः क्रियते यदन्यत् साम्नोऽध्वमन्त्रादृजीषभक्षादिति ८ तुषा ऋजीषस्य स्थानं प्रतियन्ति ९ निष्कास एककपालस्य १० अपि वा वारुणमेककपालं निर्वपेत् ११ तस्य निष्कासेन समवदाय प्रचरेत् १२ अपि वा न सौमिकोऽवभृथः १३ तूष्णीमेव तुषनिष्कासमप्सूपवपेत् १४ अथान्ये वाससी परिधायोदेतः १५ काममेते वाससी यस्मै कामयेयातां तस्मै दद्याताम् १६ प्रत्येत्य निवर्तयते १७ व्याख्यातं निवर्तनं तथा व्रतचर्या १८ ८.११

ततश्चतुर्षु मासेषु द्व्यहँ साकमेधैर्यजते १ अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकँ सूर्येणोद्यता २ साकँ रश्मिभिः प्रचरन्तीत्येकेषाम् ३ सिद्ध-मिष्टिः संतिष्ठते ४ मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुम् ५ सिद्धमिष्टिः संतिष्ठते ६ गृहमेधीयस्य तन्त्रं प्रक्रमयति ७ समानमा वत्सानामपाकरणात् ८ अयजुष्केण गृहमेधीयाय सर्वान् वत्सानपाकरोति ९ वेदं कृत्वा वेदिं करोति १० नात्रेध्माबर्हिर्भवति । न प्रणीताः प्रणयति ११ अग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजीः स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ इति १२ वाग्यतः पात्राणि संमृशति १३ मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् १४ पवित्रे सर्वा गा दोहयित्वानुत्पूते पयस्यनुत्पूय तण्डुलानावपति १५ गार्हपत्ये वान्वाहार्यपचने वा प्रतिवेशमोदनं पचति १६ तत उत्तरं परिग्राहं परिगृह्णाति १७ समानमा संप्रैषात् १८ नात्रेध्माबर्हिः प्रचोदयति १९ समानमाज्यानां ग्रहणात् २० ध्रुवायामेव गृह्णाति २१ प्रोक्षणीरभिमन्त्र्! य ब्रह्माणमामन्त्र्! य वेदिं प्रोक्ष्य प्रोक्षण्यवशेषं निनीयाग्निमभिमन्त्र्! यान्तर्वेदि ध्रुवाँ सादयित्वा स्रुवँ सादयति । एषासदत् इति मन्त्रँ संनमति २२ विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् इत्याज्यम-भिमन्त्रयते २३ तस्यै न प्रस्तरं प्रहरति । एवँ स्तीर्ण एव सांतपनस्य बर्हिषि गृहमेधीयेन चरन्तीत्येकेषाम् २४ ८.१२

अथैतं चरुमुद्वास्य तस्य शरं प्रज्ञातं निधाय त्रीनोदनानुद्धरति १ अनिष्कासितां कुम्भीं निदधाति । अप्रमृष्टं च दर्व्युदायुवनम् २ उद्धृतानोदनान् पच्छो गायत्र्! योत्पूयालंकृत्यासादयति ३ निशायां गृहमेधीयेन चरन्ति ४ नात्र सामिधेन्यो भवन्ति नाघारौ न प्रयाजाः ५ वेदेनाहवनीयमुपक्षिप्य संप्रेष्यति अग्नीदग्निं त्रिः संमृड्ढि इति ६ अग्निमेवाग्नीध्रस्त्रिः संमार्ष्टि ७ प्रवरं प्रवृत्याज्यभागाभ्यां प्रचर्य संप्रेष्यति मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि इति ८ जुह्वामुपस्तीर्य सर्वेषामोदनानां द्विर्द्विश्चतुरवदानस्यावद्यति त्रिस्त्रिः पञ्चा-वदानस्य ९ अभिघार्यात्याक्रम्याश्राव्याह मरुतो गृहमेधिनो यज इति १० वषट्कृते जुहोति ११ सर्वेषामोदनानाँ स्विष्टकृते सकृत्सकृदवद्यति १२ सर्वेषामिडामुपहूय तामिडां प्राश्नन्त्यृत्विजः १३ उमात्येभ्य ओदनानुपहरन्ति यावन्तो हविरुच्छिष्टाशा भवन्ति १४ अतोऽन्येऽपि प्राश्नीयुर्यदि प्रभूत ओदनः स्यात् १५ प्रतिवेशात् पत्न्यश्नाति गृहमेधीयाद्वा १६ इडान्तो गृहमेधीयः संतिष्ठते १७ आञ्जतेऽभ्यञ्जते १८ अनु वत्सान् वासयन्ति १९ सुहिता एताँ रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः २० प्रतिवेशा अपि पचन्ते २१ गा अभिघ्नते २२ ८.१३

क्रैडिनस्य तन्त्रं प्रक्रमयति १ पराचीनरात्रेऽग्निहोत्र्! याश्चाभिवान्यायाश्च वत्सौ बध्नन्ति २ पुरा प्रातरग्निहोत्रात् पूर्णदर्व्येण चरन्ति ३ दर्व्यामुपस्तीर्य शरनिष्कासस्य दर्वीं पूरयित्वाप्रमृष्टं च दर्व्युदायुवनमन्ववदधाति ४ अभिघार्य गार्हपत्ये जुहोति ५ पूर्णा दर्वि परा पत इत्येतामनुद्रुत्योत्तरया जुहोति ६ ऋषभमाहूयर्षभस्य रवते जुहोति ७ यद्यृषभो न रूयाद् ब्रह्मा ब्रूयात् जुहुधि इति ८ यस्य रवते जुहोति तं ब्रह्मणे ददाति ९ मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्तकपालं निर्वपति साकँ सूर्येणोद्यता १० साकँ रश्मिभिः प्रचरन्तीत्येकेषाम् ११ सिद्धमिष्टिः संतिष्ठते १२ उदित आदित्येऽभिवान्यां दोहयित्वा मरुद्भ्यः स्वतवद्भ्यः पुरोडाशँ सप्तकपालं निर्वपति १३ सिद्धमिष्टिः संतिष्ठते १४ महाह-विषां तन्त्रं प्रक्रमयति १५ तेषां वरुणप्रघासैः कल्पो व्याख्यातोऽन्यत्रावभृथात् १६ ८.१४

आमिक्षयोर्दक्षिणाद्विहारादिति १ समानमा निर्वपणात् २ आग्नेयमष्टा-कपालमिति नित्यानि पञ्च संचराणि निरुप्यैन्द्रा ग्नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालमिति ३ समानमा स्रुच्यादाघारात् ४ अग्ने वेर्होत्रं वेर्दूत्यम् ॥ ऊर्ध्वो अध्वरायास्थात् ॥ अवतां त्वा द्यावापृथिवी यज्ञे अस्मिन् ॥ अव त्वं द्यावापृथिवी यज्ञे अस्मिन् ॥ स्विष्टकृदिन्द्रा य देवेभ्यो भव ॥ जुषाणो अस्य हविषो घृतस्य वीहि स्वाहा इति स्रुच्यमाघारमाघारयति ५ एककपालस्यावृतैककपालँ हुत्वोत्तरैश्चतुर्भिर्मासनामभिरभिजुहोति सहसे स्वाहा ॥ सहस्याय स्वाहा ॥ तपसे स्वाहा ॥ तपस्याय स्वाहा इति ६ इदावत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ७ प्रथमजो वत्सो दक्षिणा ८ इदावत्सरीणाँ स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते ९ सिद्धमिष्टिः संतिष्ठते १० ८.१५

पितृयज्ञस्य तन्त्रं प्रक्रमयति १ दक्षिणपूर्वेणान्वाहार्यपचनं यजमानमात्रीं चतुःस्रक्तिं वेदिं करोति २ तस्या दिक्षु स्रक्तयो भवन्त्यवान्तरदेशेषु मध्यानि ३ अथैनाँ सर्वतः परिश्रित्योत्तराँ स्रक्तिं प्रति द्वारं करोति ४ उद्धननान्तां कृत्वान्वाहार्यपचनादग्निमाहृत्य मध्यतः समादधाति ५ एष एतस्मिँस्तन्त्र आहवनीयो भवति ६ तत्र ये देवप्रवादा मन्त्रा उभयवत् ते संनम्येरन् देवानां पितॄणां परिषूतमसि ॥ कर्मणे वां देवेभ्यः पितृभ्यः शकेयम् इति ७ यथाप्रकृत्येव वर्तेरन्नित्यपरम् ८ समानमा बर्हिष आहरणात् ९ समूलं बर्हिर्दात्युपमूलं वा १० द्राघीयानिध्म इध्माद्भवति द्राघीयो बर्हिषो बर्हिः ११ समानमा निर्वपणात् १२ दक्षिणतः शकटात् प्राचीनावीती निर्वपत्युत्तरतो वा यज्ञोपवीती १३ सोमाय पितृमते पुरोडाशँ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्योऽभिवान्यायै दुग्धे मन्थम् १४ यवमयान्येतानि हवी ँ! षि भवन्ति १५ प्रोक्षण्युद्रेकेण यवानार्द्रान् कृत्वावहन्ति १६ समानमा फलीकरणात् १७ ८.१६

फलीकृताँस्तण्डुलाँस्त्रैधं विभज्यान्वाहार्यपचने भर्जनार्थं कपालमुपधाय तस्मिँस्तृतीयं तण्डुलानां धाना भर्जन्ति १ व्याख्यातः सँ स्कारः २ पिष्टानामावृता धानाः पि ँ! षन्ति ३ समानमा कपालोपधानात् ४ दक्षिणार्धे गार्हपत्यस्य षट् कपालान्युपधायान्वाहार्यपचने धानार्थं कपालमुपदधाति ५ नानापात्रेषु हवी ँ! षि संवपति ६ उत्पुनाति ७ पिष्टेष्वप आनीयाभिवान्यायै दुग्धे मन्थमानयति ८ अर्धपात्रं करोति ९ पिष्टानि संयुत्येक्षुशलाकया मन्थं प्रसव्यं दक्षिणाभिमुखोऽनन्वारभमाण उपमन्थति १० शलाकास्थं करोति ११ पुरोडाशमधिश्रित्यान्वाहार्यपचने धाना भर्जन्ति १२ ता अत्रैव विदह्यमानाः परिशेरत आ हविषामुद्वासनात् १३ तत उत्तरं परिग्राहं परिगृह्णाति १४ समानमाज्यानां ग्रहणात् १५ दक्षिणार्धे गार्हपत्यस्याज्यानि गृह्णाति १६ सर्वाणि चतुर्गृहीतानि १७ तान्यत्रैव परिशेरत आ हविषामासादनात् १८ समानमा बर्हिषः स्तरणात् १९ अग्रे बर्हिर्गृहीत्वा प्रसव्यमग्निं त्रिः स्तृणन् पर्येति २० त्रिरस्तृणन् प्रतिपर्येति अया विष्ठा जनयन् कर्वराणि इत्यूर्ध्वं धारयमाणः २१ स प्रस्तरो भवति २२ ८.१७

द्वौ परिधी परिदधाति मध्यमं चैव दक्षिणार्ध्यं च १ नात्र विधृती भवतः २ तूष्णीमेव प्रस्तरं न्यस्यति ३ एकैकश आज्यानि हवी ँ! षीत्यासादयन्ति ४ अग्निमग्रे हरन्त्यथोदकुम्भमाज्यान्यथ हवी ँ! षि ५ एकैकमलंकरोति वा । एषामेष परिवेष इत्येकेषाम् ६ दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमित्येकैकश आसाद्य विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते ७ ततः संप्रेष्यति अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहि इति ८ उशन्तस्त्वा हवामहे इत्येताँ सामिधेनीं त्रिरन्वाह ९ सकृदेवेध्ममादधाति त्रैधं वा विभज्य १० स्रुवाघारमाघार्य संप्रेष्यति अग्नीत् परिधी चाग्निं च त्रिस्त्रिः संमृड्ढि इति ११ समानमा प्रवरात् १२ आश्राव्याह सीद होतः इति १३ एतावान् प्रवरः १४ नार्षेयं वृणीते न होतारम् १५ अपबर्हिषश्चतुरः प्रयाजान् यजति १६ आज्यभागाभ्यां प्रचर्य विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते १७ अत्रैके परिश्रयणँ समामनन्ति १८ विपरिहरन्त्याज्यानि विपरिहरन्ति हवी ँ! षि विपरिक्रामन्त्यृत्विजः १९ दक्षिणेन जुहूमुपभृतँ सादयति दक्षिणेनोपभृतं ध्रु-वाम् । दक्षिणेन पुरोडाशं धानाः सादयति दक्षिणेन धाना मन्थम् २० समानत्र जुहूर्भवति समानत्र पुरोडाशः समानत्र ब्रह्मा च यजमानश्च २१ ८.१८

ततः संप्रेष्यति सोमाय पितृमतेऽनु स्वधा इति १ जुह्वामुपस्तीर्य सर्वेषाँ हविषाँ सह स्विष्टकृता द्वेद्वे पुरोनुवाक्ये अन्वाहोभे सप्रणवे २ षडवत्तं पञ्चावत्तिनामवद्यति पञ्चावत्तं चतुरवत्तिनाम् ३ षडवत्ते मुख्यान्मुख्याद्धविषो द्विरवद्यति ४ पुरोडाशस्यावदाय धानानामवद्यति ५ एवं मन्थस्य ६ अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति ७ सोमं पितृमन्तँ स्वधा इति संप्रेष्यति ८ ये स्वधामहे इत्यागूर्भवति ९ स्वधा नमः इति वषट्करोति १० ततः संप्रेष्यति पितृभ्यो बर्हिषद्भ्योऽनु स्वधा इति ११ जुह्वामुपस्तीर्य धानानामवदाय मन्थस्यावद्यति १२ एवं पुरोडाशस्य १३ अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति १४ पितॄन् बर्हिषदः स्वधा इति संप्रेष्यति १५ ये स्वधामहे इत्यागूर्भवति १६ स्वधा नमः इति वषट्करोति १७ ततः संप्रेष्यति पितृभ्योऽग्निष्वात्तेभ्योऽनु स्वधा इति १८ जुह्वामुपस्तीर्य मन्थादवदाय पुरोडाशस्यावद्यति १९ एवं धानानाम् २० अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति २१ पितॄनग्निष्वात्तान् स्वधा इति संप्रेष्यति २२ ये स्वधामहे इत्यागूर्भवति २३ स्वधा नमः इति वृषट्करोति २४ ८.१९

असमवदाय प्रचरणमेके समामनन्ति १ ततः संप्रेष्यति अग्नये कव्यवाहनाय स्विष्टकृतेऽनु स्वधा इति २ जुह्वामुपस्तीर्य सर्वेषाँ हविषां दक्षिणार्धात् सकृत्सकृच्चतुरवदानस्यावद्यति द्विर्द्विः पञ्चावदानस्य ३ अभिघार्योदङ्ङत्या-क्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति ४ अग्निं कव्यवाहनँ स्विष्टकृतँ स्वधा इति संप्रेष्यति ५ ये स्वधामहे इत्यागूर्भवति ६ स्वधा नमः इति वषट्करोति ७ मन्थस्याग्र इडामवदायेतरयोरवद्यति । मन्थमिडामवद्यतीत्येकेषाम् ८ उपहूतामिडामवघ्रेण भक्षयन्ति होताग्रेऽथा-ध्वर्युरथ ब्रह्माथाग्नीध्रोऽथ यजमानः ९ उदकुम्भमादाय प्रसव्यमग्निं त्रिः परिषिञ्चन् पर्येति शुन्धन्तां पितरः इति । त्रिरपरिषिञ्चन् प्रतिपर्येति अया विष्ठा जनयन् कर्वराणि इति १० हविःशेषान् संप्रयुत्य त्रीन् पिण्डान् कृत्वा तिसृषु स्रक्तिषु निदधाति पश्चार्ध्यायां दक्षिणार्ध्यायां पूर्वार्ध्यायाम् ११ एतद्वा विपरीतम् १२ एतत् ते तत ये च त्वामनु इत्येतैर्मन्त्रैर्यथा पिण्डपितृयज्ञे १३ ८.२०

उत्तरस्याँ स्रक्त्यां लेपं निमृज्य अत्र पितरो यथाभागं मन्दध्वम् इत्युक्त्वोदञ्च उपनिष्क्रम्या तमितोराहवनीयमुपतिष्ठन्ते १ समन्य जपन्ति सुसंदृशं त्वा वयं मघवन् मन्दिषीमहि इति २ अक्षन्नमीमदन्त इति गार्हपत्यमुपतिष्ठन्ते ३ अमीमदन्त पितरः सोम्याः इति परायन्ति ४ परेत पितरः सोम्याः इति पुनरभिप्रपद्यन्ते ५ तूष्णीं दशां वोर्णास्तुकां वा प्रच्छिद्योपन्यस्यायन्ति एतानि वः पितरो वासाँ स्यतो नोऽन्यत् पितरो मा यूढ्वम् इति ६ आञ्जनप्रभृति गार्हपत्योपस्थानान्तं कर्म क्रियते यथा पिण्डपितृयज्ञे ७ अत्रैके परिषेचनँ समामनन्ति ८ विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते ९ विपरि-हरन्ति स्रुचो विपरिक्रामन्त्यृत्विजः १० व्यपच्छाद्य परिश्रयणँ संप्रेष्यति ब्रह्मन् प्र स्थास्यामः इति ११ अपबर्हिषौ द्वावनूयाजौ यजति १२ देवौ यज इति पूर्वमनूयाजँ संप्रेष्यति । यज इत्युत्तरम् १३ सूक्तवाकं प्रति होता निव्ययते १४ नात्र पत्न्यन्वास्ते न संयाजयन्ति न समिष्टयजुर्जुहोति १५ सिद्धमिष्टिः संतिष्ठते १६ शंयुवन्तेत्येकेषाम् १७ ८.२१

प्रतिपूरुषमेककपालान् निर्वपति यथा करम्भपात्राणि १ उत्तरार्धे गार्हपत्यस्य कपालान्युपधाय श्रपयति २ अथैनानभिघार्यानभिघार्य वोद्वास्य मूतेऽवदधाति । मूतयोर्मूतेषु वा ३ कोशापिधानेन हरन्तीत्येकेषाम् ४ दक्षिणाग्नेरेकोल्मुकं धूपायत् पराचीनँ हरति ५ उत्तरपूर्वमवान्तरदेशं गत्वाखूत्कर एकमुपवपति यावन्तो गृह्या स्मस्तेभ्यः कमकरम् इति ६ चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य मध्यमे पलाशपर्ण उपस्तीर्यान्तमे वा सरवेषामेककपालानाँ सकृत्सकृत् समवदायाभिघार्य जुहोति एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व स्वाहा इति ७ हुतं यजमानोऽनुमन्त्रयते भेषजं गवे इति द्वाभ्याम् ८ प्रतिपूरुषमेककपालानादाय प्रदक्षिणं चतुष्पथं त्रिः परियन्ति त्र्यम्बकं यजामहे इत्येतया ९ यदि पतिकामा स्यात् सापि परीयात्
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेः ॥
इति १० तानूर्ध्वानुदस्य प्रतिलभन्ते ११ ८.२२

भग स्थ भगस्य वो लप्सीय इति १ परीत्यपरीत्य यजमानायाभिसमावपन्ति २ पतिकामाया अभिसमावपेयुः ३ यस्य कस्य च पतिकामा स्यादित्येकम् । यजमानस्येत्यपरम् ४ तान् मूते कृत्वा परोगोष्ठे वृक्ष आसज्योपतिष्ठन्ते एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीहि ॥ अवततधन्वा पिनाकहस्तः कृत्तिवासाः इति । त्रिरवताम्यन्ति ५ अनुपरिषिच्य मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति ६ समिधः कृत्वाप्रतीक्षमायन्ति ७ एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ८ एवं पत्नी गार्हपत्य आधायोपतिष्ठते ९ प्रत्येत्यादित्यै घृते चरुं निर्वपति १० तस्याग्न्याधेयेन कल्पो व्याख्यातोऽन्यत्र वरदानात् ११ अश्वँ श्वेतमेके समामनन्ति १२ सद्यस्काला एता इष्टयो भवन्त्यन्यत्रानीकवतात् क्रैडिनादिति १३ ततो निवर्तयते १४ व्याख्यातं निवर्तनं तथा व्रतचर्या १५ ८.२३

ततश्चतुर्षु मासेषु शुनासीर्येण यजते मासि वार्धमासे वा चतुरहे त्र्! यहे द्व्यहे वैकाहे वा १ तस्य वैश्वदेवेन कल्पो व्याख्यातः २ विकाराननुक्रमिष्यामः ३ समानमा निर्वपणात् ४ आग्नेयमष्टाकपालमिति नित्यानि पञ्च संचराणि निरुप्यैन्द्रा ग्नं द्वादशकपालं वैश्वदेवं चरुमिन्द्रा य शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालमिति ५ प्रातर्दोहेन पयसः कल्पो व्याख्यातः ६ एककपालस्यावृतैककपालँ हुत्वोत्तमेन मासनाम्नाभिजुहोति सँ सर्पोऽस्यँ हस्पत्याय स्वाहा इति ७ अनुवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति ८ द्वादशगवँ सीरँ षड्गवं वोष्टारौ वोष्टारं वा ९ अनुवत्सरीणाँ स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति सूक्तवाके होताशास्ते १० एकँ समिष्टयजुर्जुहोति ११ सिद्धमिष्टिः संतिष्ठते १२ तथा निवर्तयते १३ व्याख्यातं निवर्तनम् १४ संतिष्ठन्ते चातुर्मास्यानि १५ ८.२४

काम्यानि चातुर्मास्यानि व्याख्यास्यामः १ वैश्वदेवेन पशुकामो यजेत २ यस्मिन्नस्यर्तौ भूयिष्ठं पयः स्यादपि वा यदास्य वसन्ते भूयिष्ठं पयः स्यादथ वैश्वदेवेन यजेत ३ वैश्वदेवेनैव पशुकामो यजेत नेतरैः पर्वभिरा यावत् सहस्रं पशून् प्राप्नुयात् ४ सहस्रं पशून् प्राप्येतरैः पर्वभिर्यथाकालं यजेत ५ शुना-सीर्येण ग्रामकामो यजेत ६ वर्ष्यमुदकमन्ववसायैतेनैव प्रजाकामो यजेत पशुकामो यजेतान्नाद्यकामो यजेत प्रतिष्ठाकामो यजेतेति विज्ञायते ७ पञ्चसांवत्सरिकाणि व्याख्यास्यामः ८ फाल्गुन्यां प्रयुज्य त्रीनृतून् संवत्स-रानिष्ट्वा मासं विरमेत् ९ चैत्र्! यां प्रयुज्य द्वावृतू संवत्सराविष्ट्वा विरमेत् १० तन्त्रं वैश्वानरपार्जन्ये भवतस्तन्त्रं पञ्चहोता ११ चातुर्मास्यैरिष्ट्वा सोमेन यजेत १२ सोमस्य वा एतद्रू पं यच्चातुर्मास्यानीति विज्ञायते १३ सोमाशक्तौ पशुना यजेत । पशुनाशक्तौ पुनः प्रयोगश्चातुर्मास्यानाम् । स त्रिषुत्रिषु संवत्सरेषु मासमुत्सृजेदिति विज्ञायते मासमुत्सृजेदिति विज्ञायते १४ ८.२५
इति अष्टमः प्रश्नः