कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०६

विकिस्रोतः तः
← प्रश्नः ०५ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०६
भरद्वाजः
प्रश्नः ०७ →

अथ षष्ठः प्रश्नः
अग्न्युपस्थानं व्याख्यास्यामः १ आधानवेलायां पत्नी च यजमानश्च व्रत-चारिणौ भवत आ होमात् २ उन्नीयमाने यजमानोऽनुचङ्क्रम्यत आ होमात् ३ उन्नीयमाने स्थेयमित्येकेषाम् ४ विद्युदसि विद्य मे पाप्मानमृतात् सत्यमुपैमि श्रद्धा मयि इति होष्यन्नप उपस्पृशेत् ५ वृष्टिरसि वृश्च मे पाप्मानमृतात सत्यमुपागामप्सु श्रद्धा इति हुत्वा ६ एवमेव सर्वेषु यज्ञक्रतुषु यक्ष्यमाणश्चेष्ट्वा चाप उपस्पृशति ७ उत्तरामाहुतिमनूत्थाय कवातिर्यङ्ङिवाहवनीयमुपतिष्ठते उपप्रयन्तो अध्वरम् इत्येताभिः षड्भिः ८ ममाग्ने वर्चो विहवेष्वस्तु इति चैताभिश्चतसृभिरपरपक्षे ९ अथ पूर्वपक्षे उमा वामिन्द्रा ग्नी आहुवध्यै इत्येता-मपोह्येतराभिरुपस्थाय आन्यं दिवो मातरिश्वा जभार इत्येतयान्तत उपतिष्ठते १० संवत्सरे संवत्सर आग्निपावमानीभिर्गार्हपत्यमुपतिष्ठते ११ अग्न आयूँ षि पवसे इत्येताभिः षड्भिराहवनीयमुपतिष्ठते १२ ६.१

आयुर्दा अग्नेऽस्यायुर्मे देहि इति प्रतिपद्य चित्रावसो स्वस्ति ते पारमशीय इति सायमुपतिष्ठते । अर्वाग्वसो स्वस्ति ते पारमशीय इति प्रातः प्रातरवनेकेन १ त्रिश्चित्रावसुनोपतिष्ठते त्रिरर्वाग्वसुना २ आहवनीये समिध आदधाति अग्नेः समिदस्यभिशस्त्या मा पाहि इति प्रथमम् । सोमस्य समिदसि परस्पा म एधि इति द्वितीयाम् । यमस्य समिदसि मृत्योर्मा पाहि इति तृतीयाम् । इन्धानास्त्वा शतँ हिमाः इति चतुर्थीमाधायोपतिष्ठते सं त्वमग्ने सूर्यस्य वर्चसागथाः इत्यनुवाकशेषेण ३ मुखं विमृष्टे
वयँ सोम व्रते तव मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि ॥
इति ४ गोष्ठमुपतिष्ठते सं पश्यामि प्रजा अहम् इति प्रतिपद्य बह्वीर्मे भूयास्त इत्यन्तेन ५ अन्तराग्नी तिष्ठन् जपतीत्येकेषाम् ६ सँ हितासि विश्वरूपीः इति वत्समभिमृश्य गार्हपत्यमुपतिष्ठते उप त्वाग्ने दिवेदिवे इत्येताभिः षड्भिः ७ ६.२

गोष्ठमुपतिष्ठते ऊर्जा वः पश्याम्यूर्जा मा पश्यत इति प्रतिपद्य मयि वो रायः श्रयन्ताम् इत्यन्तेन १ वत्समभिमृशतीत्येकेषाम् २ आहवनीयमुपतिष्ठते तत् सवितुर्वरेण्यम् इति प्रतिपद्य भेत्तारं भङ्गुरावतः इत्यन्तेन ३ गार्हपत्यमुपतिष्ठते अग्ने गृहपते इति प्रतिपद्य शतँ हिमाः इत्यन्तेन ४ पुत्रस्य नाम गृह्णाति ५ व्याख्यातो जातपुत्रकल्पश्चाजातपुत्रकल्पश्च ६ तत आह अच्छिन्नो दैव्यस्तन्तुर्मा मनुष्यश्छेदि । दिव्याद्धाम्नो मा छित्सि मा मानुषात् इति ७ अग्नीनुपसमिध्य ज्योतिषे तन्तवे त्वा इत्यन्तराग्नीं उपविशति ८ एवमेव सायमग्न्युपस्थानेनोपतिष्ठते ९ प्रातरवनेकेन प्रातः १० अधिश्रित उन्नीयमाने वा हस्ताववनेनिजीत या अवनेजनप्रवादा ऋचः ११ अवशिष्टाभिराहवनीयमुपतिष्ठते १२ पुरस्ताद-ग्नीषोमीयाया विहव्यस्य चतस्र उत्तरा ऋचो जपेदाग्नेयस्य च द्वे याज्यानुवाक्ये १३ व्याहृतीभिरग्न्युपस्थानमेके समामनन्ति १४ ६.३

भर्तुं वः शकेयम् इत्येके १ भर्तुं वः शकेयम् । श्रद्धा मे मा व्यगात् इत्येके २ वात्सप्रेणेत्येके ३ माहित्रेण तृचेनेत्येके
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥
न हि तेषाममा चन नाध्वसु वारणेष्वा । ईशे रिपुरघशँ सः ॥
ते हि पुत्रासो अदितेश्छर्दिर्यच्छन्त्यजस्रम् । प्र दाशुषे वार्याणि ॥
इति ४ एवंविहितमेवास्य प्रवसतोऽग्न्युपस्थानं भवति ५ एतावन्नाना यानि सँ स्पर्श्य कर्माण्यध्वर्युस्तानि कुर्यात् ६ यजमानः काले तां दिशमभिमुखो मन्त्रान् जपेत् ७ अग्नीन् समाधेहि इत्याह प्रवसथमेष्यन् ८ भास्वतो विरा-जक्रमैरुपतिष्ठते यथाग्न्याधेये ९ आहवनीये समिधमादधाति मम नाम प्रथमं जातवेदः इत्येतया १० अन्तराग्नी तिष्ठन् जपति
इमान् मे मित्रावरुणा गृहान् गोपायतं युवम् ।
अविनष्टानविह्रुतान् पूषैनानभिरक्षत्वास्माकं पुनरागमात् ॥ इति ११ ६.४
वाग्यतोऽभिप्रव्रजति
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः ॥
उदस्माँ उत्तरान्नयाग्ने घृतेनाहुत ।
रायस्पोषेण सँ सृज प्रजया च बहून् कृधि ॥
इति १ सकाशेऽग्नीनां वाचं यच्छत्यसकाशे विसृजते २ व्रतचारी प्रवसति ३ ऋतुं प्रत्युपतिष्ठते ४ यद्यनुपस्थिताग्निः प्रवसेत् तत्रैव सन्नुपतिष्ठेत
इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा सन्तमायुर्मा प्रहासीत् ।
ज्योतिषा वो वैश्वानरेणोपतिष्ठे ॥
इति ५ समिधः कृत्वाग्नीनभ्यैति
विश्वदानीमाभरन्तोऽनातुरेण मनसा ।
अग्ने मा ते प्रतिवेशा रिषाम ॥
नमस्ते अस्तु मीढुषे नमस्त उपसद्वने ।
अग्ने शुम्भस्व तन्वः सं मा रय्या सृज ॥
इति ६ असकाशेऽग्नीनां वाचं यच्छति सकाशे विसृजते ७ अग्नीन् समाधेहि इत्याह प्रवसथादेत्य ८ भास्वतो विराजक्रमैरुपतिष्ठते यथाग्न्याधेये ९ अजूगुपः इति मन्त्रँ संनमति १० ६.५

इमान् मे मित्रावरुणा गृहानजूगुपतं युवम् ।
अविनष्टानविह्रुतान् पूषैनानभ्यराक्षीदास्माकं पुनरागमात् ॥
इति १ आहवनीये समिध आदधाति अग्नेः समिदसि इति तिस्रः २ आधायोपतिष्ठते मम नाम तव च जातवेदः इत्येताभिश्चतसृभिः ३ प्रोषुष आहुतिं जुहोति मनो ज्योतिर्जुषताम् इत्येतया ४ नार्वाग् दशम्यै जुहुयात् ५ अथ यत्र नवावरार्ध्या रात्रीरुषित्वा सगृहः प्रयायात् तत् सर्व ँ! समवधाय सर्वाण्यन्यानि शकटानि युक्तानि भवन्ति ६ अथाग्निष्ठस्य दक्षिणो युक्तो भवति सव्योऽयुक्तः ७ अथ वास्तोष्पतीयं जुहोति ८ वास्तोष्पते प्रति जानीह्यस्मान् इत्येतामनुद्रुत्योत्तरया जुहोति ९ न हुत आदधाति १० अवक्षाणानि संप्रक्षाप्य पृथगरणीष्वग्नीन् समारोपयते यावन्तो नित्या धार्यन्ते अयं ते योनिरृत्वियः इत्येकैकम् ११ अपि वा या ते अग्ने यज्ञिया तनूस्तये-ह्यारोह इत्यात्मन् समारोपयते १२ मथिष्यन् जपति उपावरोह जातवेदः इत्येताम् १३ यद्यनोवाहः स्यात् पूर्वं तं प्रवहेयुरप वोद्धरेयुः १४ यद्धीयेत तन्न त्वेवानुहरेयुइति विज्ञायते न त्वेवानुहरेयुरिति विज्ञायते १५ ६.६

अग्निहोत्रं व्याख्यास्यामः १ उद्धराहवनीयम् इत्येव सायं यजमानः संप्रेष्यति । उद्धराहवनीयम् इति प्रातः २ धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाया-ध्वर्युर्ब्रह्मचारी क्षीरहोता वा गार्हपत्यमभिमन्त्रयते सुगार्हपत्यः इत्येतया ३ अथैनमुद्बोधयति
उद्बुध्यस्वाग्ने प्रति जागृह्येनमिष्टापूर्ते सँ सृजेथामयं च ।
अस्मिन् सधस्थे अध्युत्तरस्मिन् विश्वे देवा यजमानश्च सीदत ॥
इति ४ पुरा छायासंभेदाद् गार्हपत्याज्ज्वलन्तमाहवनीयमुद्धरति वाचा त्वा होत्रा प्राणेनोद्गात्रा चक्षुषाध्वर्युणा मनसा ब्रह्मणा श्रोतेणाग्नीधैतैस्त्वा पञ्चभिर्दैव्यैरृत्विग्भिरुद्धरामि इति ५ उद्ध्रियमाणे यजमानो जपति
भूर्भुवः सुवरोमुद्ध्रियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वाँ श्चकार ।
अह्ला यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मात् ॥
इति सायम् ।
रात्रिया यदेनः कृतमस्ति पापँ सर्वस्मान्मोद्धृतो मुञ्च तस्मात् ।
इति प्रातः ६ आहवनीयायतनेऽग्निं प्रतिष्ठापयति
अमृताहुतिममृतायां जुहोम्यग्निं पृथिव्याममृतस्य जित्यै ।
तयानन्तं काममहं जयानि प्रजापतिर्यं प्रथमो जिगाय ॥ अग्निमग्नौ स्वाहा ॥
इति सायम् । सूर्यमग्नौ स्वाहा इति प्रातः ७ ६.७

स्वयं यजमान एधानाहृत्याग्निषु महत इध्मानभ्यादधाति यदग्ने यानि कानि च इत्येताभिः पञ्चभिः प्रतिमन्त्रम् १ आहवनीये वर्षिष्ठम् २ नित्यो गार्हपत्यो धार्यते ३ सायं प्रातराहवनीयमुद्धरेयुः ४ अपि वा सायमुद्धृत एव स्यादा प्रातरग्निहोत्रात् ५ नित्यो गतश्रिय आहवनीयो धार्यते ६ आयुष्कामस्य वा ७ अहरहरन्वाहार्यपचनमाहरेयुर्मन्थेयुर्वा ८ नित्यो वा धार्यते ९ नित्यौ सभ्यावसथ्यौ १० अग्नीन् परिसमूहति । अग्ने सम्राट् शुन्धस्व इत्याहवनीयम् । अग्ने वह्ने शुन्धस्व इत्यन्वाहार्यपचनम् । अग्ने गृहपते शुन्धस्व इति गार्हपत्यम् ११ एवमेव हुत्वा परिसमूहति १२ अग्नीन् परिस्तृणाति । गार्हपत्यमग्रेऽथान्वाहार्यपचनमथाहवनीयम् १३ अग्निहोत्रपात्राणि प्रक्षाल्य द्वन्द्वं प्रयुनक्त्युत्तरेण गार्हपत्यम् । खादिरँ स्रुवं वैकङ्कतीमग्निहोत्रहवणी-मुपवेषमार्यकृतामग्निहोत्रस्थालीमूर्ध्वकपालामचक्रवर्ताम् १४ अस्तमित आदित्येऽभिधाय दक्षिणतोऽग्निहोत्र्! या वत्समुपसृजति १५ अथैनां प्राचीं वोदीचीं वावर्त्य स्थाल्या दोहनेन च दुहन्ति १६ न शूद्रो दुह्यादित्येकम् । काममेव न शूद्रो दुह्यादित्यपरम् १७ अग्निहोत्रं त्वेव न शूद्रो दुह्यात् । तद्धि पवित्रं नात्येतीति विज्ञायते १८ ६.८

पूर्वौ दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य यो वा पुरोधाकामो यो वा गतश्रीः स्यात् । अपरौ दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्य यो व बुभूषेद् यो वानुजावरः स्यात् १ पूर्वौ पूर्वं दुह्याज्ज्येष्ठस्य ज्यैष्ठिनेयस्य । अपरौ पूर्वं दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्येत्येकेषाम् २ यथाकामी नित्ये दोहनकल्पे ३ न संमृशति ४ दुग्ध्वाहरति ५ अप्रेणाहवनीयं दक्षिणातिक्रम्योपविशति यजमानो यजमा-नायतने । पत्नी पत्नीलोके ६ तदानीमस्तमित आदित्ये नक्षत्रं दृष्ट्वा प्रदोषे वा सायमग्निहोत्रं जुहोति ७ व्युष्टायामुषसि वा प्रातरग्निहोत्रम् । उपोदयमुदिते समयाविषिते वा । यर्हि वाक् प्रवदेत् तर्हि होतव्यमित्येकेषाम् ८ यदुदिते जुहोत्यग्निष्टोमं तेनावरुन्द्धे । यन्मध्यंदिन उक्थ्यं तेन । यदपराह्णे षोडशिनं तेन । यत् पूर्वरात्रे जुहोति पूर्वं तेन रात्रिपर्यायमाप्नोति । यन्मध्यरात्रे मध्यमं तेन । यदपररात्रे जघन्यं तेन रात्रिपर्यायमाप्नोतीति विज्ञायते ९ स न मन्येत सर्वेष्वेतेषु कालेषु होतव्यमिति । आपदि हुतमितेय्व प्रतीयात् १० अग्नीन् परिषिञ्चति । गार्हपत्यमग्रेऽथान्वाहार्यपचनमथाहवनीयम् ११ ६.९

ऋतं त्वा सत्येन परिषिञ्चामि इति सायम् । सत्यं त्वर्तेन परिषिञ्चामि इति प्रातः १ अथैकेषाम् । ऋतसत्याभ्यां त्वा परिषिञ्चामि इति सायम् । सत्यर्ताभ्यां त्वा परिषिञ्चामि इति प्रातः २ एवमेव हुत्वा परिषिञ्चति ३ गार्ह-पत्यात् प्रक्रम्य संततां प्राचीमुदधाराँ स्रावयत्याहवनीयात् यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै नयामि संतत्यै त्वा यज्ञस्य इति ४ धृष्टिरसि ब्रह्म यच्छ इत्युपवेषमादाय गार्हपत्यादुदीचोऽङ्गारान् निरूहति भूतकृतः स्थापोढं जन्यं भयम् इति ५ व्यन्तान् कृत्वा तेष्वग्निहोत्रमधिश्रयति
इडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व ।
ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु ॥
इति ६ अथैनं तृणेनाभिज्वलयन्नवेक्षते उद्भवः स्थोदहं प्रजया पशुभिरिन्द्रि येण भूयासम् इति ७ यदा समुदन्तं भवत्यम्नरधिश्रितं वाथ स्रुवेणाद्भिः प्रजनयति हरस्ते मा विनैषम् इति ८ अप्रतिषेक्यँ स्यात् तेजस्कामस्य ब्रह्मवर्चसकाम-स्याथाभिचरतस्तितीर्षमाणस्याथो यः कामयेत वीरो म आजायेतेति ९ तथैव तृणेनाभिज्वाल्य त्रिः पर्यग्नि करोति अन्तरितँ रक्षोऽन्तरिता अरातयः इति १० श्रपयित्वा कर्षन्निवोदगुद्वासयति घर्मोऽसि रायस्पोषवनिरिहोर्जं दृँ ह इति ११ सुभूतकृतः स्थ प्रत्यूढं जन्यं भयम् इति गार्हपत्येऽङ्गारानपिसृज्य सावित्रेण स्रुवमग्निहोत्रहवणीं चादाय गार्हपत्ये निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १२ निष्टप्य संमृशति अरिष्टो यजमानः पत्नी च इति १३ ६.१०

यजमानमामन्त्रयते ओमुन्नेष्यामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति सायम् । ओमुन्नयामि हव्यं देवेभ्यः पाप्मनो यजमानम् इति प्रातः १ हविर्देवानामसि मृत्योर्मेऽभयँ स्वस्ति मेऽस्त्वभयं मेऽस्तु इत्युपाँ शूक्त्वा यजमानः ओमुन्नय हव्यं देवेभ्यः पाप्मनो माम् इत्युच्चैः प्रतिगृणाति २ यदि यजमानो नानुष्यात् स्वय-मेवाध्वर्युः प्रतिगृणीयात् ३ चतुरः स्रुवान् पूर्णानुन्नयत्यनूचो वा । अग्नये च त्वा पृथिव्यै चोन्नयामि इति प्रथमँ स्रुवमुन्नयति । अद्भ्यश्च त्वौषधी-भ्यश्चोन्नयामि इति द्वितीयम् । वाताय च त्वान्तरिक्षाय चोन्नयामि इति तृतीयम् । सूर्याय च त्वा दिवे चोन्नयामि इति चतुर्थम् ४ आ होतोर्न चाभिमीलयेत् ५ हुत्वा महदभिवीक्षेत ६ उन्नीतमग्निहोत्रं दशहोत्राभिमृश्य स्रुवं च स्थालीं च संमृशति सजूर्देवैः सायंयावभिः सायंयावानो मा देवाः स्वस्ति संपारयन्तु इति सायम् । सजूर्देवैः प्रातर्यावभिः प्रातर्यावाणो मा देवाः स्वस्ति संपारयन्तु इति प्रातः ७ यत्रोन्नयेत् तत् सादयेत् प्रतरां वा पशून् मे यच्छ इति ८ प्रादेश-मात्रीं पालाशीँ समिधमादाय समयार्चिर्गार्हपत्यस्याहरति ९ उद्द्रवन् दशहोतारं व्याचष्टे १० ६.११

उपरीव हरति उर्वन्तरिक्षं वीहि इति १ स्वाहाग्नये वैश्वानराय इति मध्यदेशे नियच्छति २ वाताय त्वा इत्युद्गृह्यापरेणाहवनीयं बर्हिष्युपसादयति आयुर्मे यच्छ इति ३ मध्येऽग्नेः समिधमादधाति एषा ते अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताँ स्वाहा इति ४ आदीप्तायाँ समिधि जुहोति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायम् । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा इति प्रातः ५ अपि वा अग्निर्ज्योतिर्ज्योतिः सूर्यः स्वाहा इति सायम् । सूर्यो ज्योतिर्ज्योतिरग्निः स्वाहा इति प्रातः ६ इषे त्वा इत्यवाचीनँ सायं लेपमवमार्ष्टि । ऊर्जे त्वा इत्यूर्ध्वं प्रातः ७ वर्चो मे यच्छ इत्युपसाद्य बर्हिषि लेपं निमार्ष्टि ओषधीभ्यस्त्वौषधीर्जिन्व इति ८ गार्हपत्यं प्रतीक्षते अग्ने गृहपते मा मा संताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिः इति ९ अतिहाय पूर्वामाहुतिं तूष्णीमुत्तराँ समिधि जुहोति । प्रजापतये स्वाहा इति वा १० बहु हुत्वा भूयो निमार्ष्टि ११ ६.१२

भूयो भक्षायावशिनष्टि १ रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु मा मा हिँ सीः इति त्रिः स्रुचाग्निमतिमार्जयति २ उदगुद्दिशति ३ तथैव लेपमवमृज्य प्रजां मे यच्छ इत्युपसाद्य प्राचीनावीती दक्षिणतः स्थण्डिले लेपं निमार्ष्टि पितृभ्यस्त्वा पितॄन् जिन्व इति ४ अप उपस्पृश्य द्विरङ्गुल्या प्राश्नात्यशब्दं कुर्वन् पूषासि इति प्रथमम् ५ अप आचम्य गर्भेभ्यस्त्वा गर्भान् जिन्व इति द्वितीयम् ६ द दतो गमयति ७ बर्हिषोपयम्योदङ् पर्यावृत्य प्राचीनदण्डयो-दीचीनदण्डया वा स्रुचाचामति आग्नेयँ रेतः प्रजननं मे अस्तु इति सायम् । सौर्य ँ! रेतः प्रजननं मे अस्तु इति प्रातः ८ उपनिष्क्रम्याग्निहोत्रहवणीं मार्जयित्वा बर्हिषि लेपं निमार्ष्टि ९ अद्भिः स्रुचं पूरयित्वा प्राङ् निनयति सर्पेभ्यस्त्वा सर्पान् जिन्व इति प्रथमम् । सर्पान् पिपीलिकान् जिन्व इति द्वितीयम् । सर्पेतरजनान् जिन्व इति तृतीयम् १० प्रदक्षिणमावर्तते ११ न बर्हिर-नुप्रहरत्याहवनीये १२ अग्निहोत्रहवणीं निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति १३ तस्याँ हस्तमवदधाति १४ हस्तं वा प्रताप्याग्निहोत्रहवण्योदगुद्दिशति सप्तर्षिभ्यस्त्वा सप्तर्षीन् जिन्व इति १५ ६.१३

अद्भिः स्रुचं पूरयित्वापरेणाहवनीयं निनयति पृथिव्यां त्वाग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहा इति १ एवमेवापरेण गार्हपत्यं निनयति २ पत्न्या अप्य-ञ्जलावानयति गृहेभ्यस्त्वा गृहान् जिन्व इति विग्राहं कनीयोऽग्रेऽथ भूयः ३ यदि पत्नी नानुष्यात् पृथिव्यामेव द्विर्निनयेत् ४ एतस्मादेवाग्निहोत्रशेषाद् द्विश्चतुर्वा स्रुवेण गार्हपत्ये जुहोति अग्ने गृहपते परिपद्य जुषस्व स्वाहा इति ५ अन्नपतेऽन्नस्य नो देहि इत्यन्वाहार्यपचने ६ नापरयोर्होमो विद्यत इत्यपरम् ७ हुत्वोपसमिन्द्धे दीदिहि दीदिदासि दीदाय इत्येकैकम् ८ व्याख्यातं परिसमूहनं परिषेचनमिति ९ द्वयोः पयसा पशुकामस्याग्निहोत्रं जुहुयात् १० पूर्वमधिश्रित्योत्तरमानयेत् ११ आज्येन जुहुयात् तेजस्कामस्य पयसा पशु-कामस्य १२ पयो नित्यवदेके समामनन्ति १३ दध्नेन्द्रि यकामस्य यवाग्वा ग्रामकामस्य तण्डुलैरोजस्कामस्य माँ सेन यशस्कामस्य सोमेन ब्रह्म-वर्चसकामस्य १४ घृतेन ब्रह्मवर्चसकामो द्वादशरात्रं जुहुयात् १५ आज्येन जुह्वत एष एव कल्पः । एतावन्नाना । अपां प्रत्यसनकाले दर्भतरुणाभ्यां प्रत्यस्येत् १६ अथ यदि दध्ना तण्डुलैः सोमेन वा जुहुयाद् यदन्यदधिश्रयणात् प्रतिषेचनादिति सर्वं तत् क्रियते १७ एवंविहितमग्निहोत्रं यावज्जीवं जुहुयाद् यावज्जीवं जुहुयात् १८ ६.१४

आग्रयणं व्याख्यास्यामः १ व्रीहीणामग्रपाकस्य यजते २ सप्तदश सामिधेन्यो भवन्ति ३ आमावास्यं तन्त्रं भवति ४ तत्रैषोऽत्यन्तप्रदेशः । सर्वेष्विष्टि-पशुबन्धेषु दार्शपौर्णमासिका धर्मा अनुयन्ति ५ त्रयेणापि निवर्तन्ते सिद्ध्या प्रतिषेधेन प्रत्याम्नायेनेति ६ तद् यत्र प्राकृतस्य यज्ञाङ्गस्य स्थाने वैकृतमामनेत् तत् तस्य धर्मान् लभेत । यथा शरमयं बर्हिर्बर्हिषः श्यामाका व्रीहीणाँ स्थाली कपालस्य चरुः पुरोडाशस्येति ७ तत्र यथार्थमूहो भवति ८ सामान्याद् विकारः यथैकदेवता आग्नेयस्य । द्विदेवतो बहुदेवत इत्यग्नीषोमीयस्यैन्द्रा -ग्नस्य वा ९ अन्यत्र प्रकृतिदेवताभ्यः । यथैन्द्र ः! पुरोडाशः सौम्यश्चरुरिति १० स्वयमेव स्थानं प्राकृत्यः प्रतीयुः ११ अथ यत्र प्राकृत्यै देवताया अन्यद्धवि-रामनेद् यथा वैष्णवं पुरोडाशँ हविरेव स्वधर्म ँ! स्यात् १२ यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां वैव पौर्णमास्यां वा यजेत १३ तत्र सिद्धं द्वे पर्वे १४ पूर्वस्यां पर्व निधायोत्तरस्यामिष्ट्या यजेत १५ अथैकपर्वे सँ स्थाप्य पर्व सद्यस्कालमिष्टिं निर्वपति १६ समानतन्त्रे वा १७ ६.१५

विकृतिश्च दर्शपूर्णमासौ च १ दर्शपूर्णमासयोर्विकृतेश्च संनिपाते दर्शपूर्णमासौ बलीयाँ सौ २ यानि त्विष्टिपशुबन्धानां प्रत्यक्षश्रुताम्नातानि तत्र बलीयाँ सि ३ त्रयोविँ शतिदारुमिध्मं करोति ४ तत्रैषोऽत्यन्तप्रदेशः । सामिधेनीविवृद्धौ काष्ठानि विवर्धेरन् प्रतिह्वसमानासु यथाप्रकृति ५ समानमा पात्राणां प्रयो-जनात् ६ त्रीणि शूर्पाणि प्रयुनक्ति ७ त्रीण्युलूखलान्यधिवर्तयति द्वे दृषदौ ८ समानमा शूर्पस्यादानात् ९ वेषाय वः इति शूर्पाण्यादत्ते १० समानमा निर्वपणात् ११ आग्नेयमष्टाकपालं पुराणानां निरुप्यैन्द्रा ग्नमेकादशकपालं नवानां निर्वपति १२ द्वादशकपालमाग्नेन्द्रं वा १३ वैश्वदेवं चरुं । पयसि शृतो भवति १४ सौम्यँ श्यामाकं चरुं द्यावापृथिव्यमेककपालम् १५ अपि वा नवान्येन निर्वपेत् । नाग्नेयम् १६ तन्त्रं प्रत्यभिमर्शनमन्त्रो भवति १७ आग्रयणं निरुप्यैता आहुतीर्जुहोति शतायुधाय शतवीर्याय इति पञ्च १८ समानमा कृष्णाजिनास्तरणात् १९ एकस्मिन् कृष्णाजिने त्रीण्युलूखलान्य-धिवर्तयति द्वे दृषदौ २० समानमावपनात् २१ सर्वाणि हवी ँ! ष्योओप्य हविष्कृतमाह्वयति २२ सर्वाण्यवहत्य दृषदुपले समाहन्ति २३ अनुपूर्व ँ! सर्वाणि हवी ँ! ष्युद्वपति निष्पुनाति विविनक्ति २४ अपि वैकस्मिन्नेवोलूखले पूर्वापरमवहन्यात् २५ तत्रावपनप्रभृतयो विवेचनान्ता मन्त्रा बीजंबीजमभ्या-वर्तेरन् २६ ६.१६

आदित एव हविष्कृतमाह्वयति १ सर्वाण्यवहत्य वाचं विसृजते २ सर्वेषामन्ततस्तुषानुपवपति ३ आ तन्त्रीभावादेकैकं बीजमपवर्जयेत् ४ अपि वा समानजातीयेनानुसमीयात् ५ एष एवात ऊर्ध्वं नानाबीजानां कल्पो भवति ६ समानमा हविषामुद्वासनात् ७ एककपालमुद्वास्याज्येनाभिपूरयति ८ तस्य वैश्वदेविकेनैककपालेन कल्पो व्याख्यातः ९ एतावन्नाना । नाविः-पृष्ठं करोति न मासनामभिरभिजुहोति १० समानमा हविषां प्रदानात् ११ वैश्वदेवँ हुतमनुमन्त्रयते विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयम् इति १२ द्यावापृथिव्यँ हुतमनुमन्त्रयते द्यावापृथिव्योरहं देवयज्यया भूमानं प्रतिष्ठां गमेयम् इति १३ एवमेव सर्वान् वैश्वदेवान् द्यावापृथिव्यानित्यनु-मन्त्रयते १४ समानमा प्राशनात् १५ भद्रा न् नः श्रेयः समनैष्ट देवाः इति व्रीहीणां प्राश्नाति १६
अग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः ।
शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः ॥
इति श्यामाकानाम् १७ सर्वे मन्त्रेण प्राश्नीयुरित्येकम् । यजमान एव यजमानभागमित्यपरम् १८ ये प्रागेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं दक्षिणां ददाति १९ सिद्धमिष्टिः संतिष्ठते २० ६.१७

अथ यदि नानातन्त्रँ श्यामाकं कुर्याच्छयामाकेषु पक्वेषु सौम्यँ श्यामाकं चरुं निर्वपेत् १ तस्यैष एव कल्पः २ एतावन्नाना । वासो दक्षिणां ददाति ३ सिद्धमिष्टिः संतिष्ठते ४ यवानामग्रपाकस्य यजते ५ तेषां व्रीहिभिरेव कल्पो व्याख्यातः ६ एतावन्नाना
एतमु त्यं मधुना संयुतं यवँ सरस्वत्या अधिमनावचर्क्रुशुः ।
इन्द्र आसीत् सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥
इति यवानां प्राश्नाति ७ य ऊर्ध्वमेकाष्टकाया वत्सा जायन्ते तेषां प्रथमजं दक्षिणां ददाति ८ सिद्धमिष्टिः संतिष्ठते ९ नवैरेवामावास्यां पौर्णमासीं वा यजेत १० नवैर्वाग्निहोत्रं जुहुयात् ११ अग्निहोत्रीं वा नवानादयित्वा तस्याः पयसा सायं प्रातर्जुहुयात् १२ अपि वा गार्हपत्ये चतुःशरावमोदनं पक्त्वा-ग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यां हुत्वा ब्राह्मणान् भोजयेत् १३ हरितयव-शमीधान्यशाकानामनिष्टेऽपि याथाकामी १४ दानप्रसवानि मूलपलाशकानि १५ व्रीहिभिरिष्ट्वा व्रीहिभिरेव यजेता यवेभ्यः । यवैरिष्ट्वा यवैरेव यजेता व्रीहिभ्यः । अपि वा व्रीहिभिरेव यजेत १६ एवमेव सस्येसस्ये यावज्जीवं यजते यावज्जीवं यजते १७ ६.१८
इति षष्ठः प्रश्नः