कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← पटलः २६ द्राह्यायणश्रौतसूत्रम्
पटलः २७
द्राह्यायणः
पटलः २८ →

27.1 सप्तविंशः पटलः । प्रथमः खण्डः
राजाप्रतिघोऽश्वमेधेन यजेत १ तस्योपायो यथा महाव्रते गौतमीयम् २ उपसदस्त्वस्याहीनिक्यः ३ दीक्षित्वाश्वमुत्सृजेच्छ्वेतम् ४ कृष्णमण्डलमक्ष्णो रूपम् ५ यो जवेन संपन्नः ६ तमनावर्तयन्तो दिग्भ्यः संवत्सरं रक्षित्वा राजक्रये बध्नीयुः ७ ग्रीष्म उपक्रमेति धानंजय्यः वसन्त इति शाण्डिल्यः ८ चैत्रवैशाखयोरन्यतरस्य सप्तम्यामष्टम्यां वा मध्यतःकारिण ऋत्विजो ब्रह्मौदनं भोजयित्वा तेभ्यः पृथक्सहस्राणि दद्यादिति ९ पौष्ण्यामिष्टौ विततायां संस्थितायां वाश्वमुत्सृजेत् १० तत्र तिस्र इष्टयः सावित्र्यो भवन्ति १२ तासु संस्थितासु दक्षिणत आहवनीयस्य हिरण्मये कूर्च्चे प्राङ्मुख आसीनो यजमानस्तथा होता १३ संवत्सरमहरहर्होतुः पारिप्लवमाचक्षाणस्य शृणुयात् १४ पुरस्तादध्वर्युः प्रत्यङ्मुखो हैरण्ये फलके १५ हिरण्यकशिपुन्यासीनो ब्रह्मोद्गाता चोदङ्मुखौ १६ शतं होत्रे दद्याद्दशाध्वर्यवे सहस्रं वा होत्रे शतमध्वर्यवे १७ किंचिच्चेतराभ्याम् १८ तस्य देवव्रतानि यथा राजसूये १९ संवत्सरादूर्ध्वमश्वं बध्वा दीक्षेत २० तदहरेतान्यृत्विज आसनानि यथास्वं हरेरन् २१ तस्य द्वादश दीक्षास्तथोपसदः २२ सर्वेषामह्नां बहिर्बहिष्पवमानः स्तुवीरन् २३
इति द्राह्यायणश्रौतसूत्रे सप्तविंशे पटले प्रथमः खण्डः १

27.2 द्वितीयः खण्डः
मध्यमेऽहन्यश्वस्य बालधिमालभ्य बहिष्पवमानं सर्पेयुः १ सर्पत्सु यजमान उद्गातारं ब्रूयादुद्गातरुप त्वा वृणे शतेन निष्केण चाश्वो ममोद्गास्यतीति २ अश्वमास्तावमाक्रमय्य बड़वां दर्शयेयुः ३ तां यदाभिकन्देदथ यजमान उद्गातारं ब्रूयादुद्गातरुप त्वा वृणे शतेन चैव निष्केण च त्वमेव ममोद्गास्यसीति ४ उदञ्चमश्वमुत्क्रमय्यास्ताव उपविश्योद्गाताश्वव्रतेन स्तुयादभिवाजी विश्वरूप इति तृचेन ५ हिरण्यकशिपुन्यासीनो बहिष्पवमानेन स्तुत्वा स एव तद्धरेत् ६ या पत्नीनां प्रियतमा यजमानस्य सा वावता ७ राजपुत्र्यनपचिता परिवृक्ती ८ संज्ञप्तेषु पशुषु होत्राभिमेथिते ब्रह्मा वावतामभिमेथेत् ६ ऊर्ध्वामेनामुच्छ्रापय गिरौ भारं हरन्निवाथास्यै मध्यमेधतां शीते वाते पुनर्निवेति निर्दिशेत् १० शतमस्या राजन्यानां दुहितरोऽनुचर्यः स्युः । तास्तं प्रत्यभिमेथेयुरूर्ध्वमेनमुच्छ्रयतात् गिरौ भारं हरन्निवाथास्य मध्यमे जतु शीते वाते निर्दिशेयुः ११ उद्गाता परिवृक्तीमभिमेथेद्यदस्या अंशुभेद्याः कृधुस्थूलमुपातसन्मुष्काविदस्या एजतो गोशफेशकुलाविवेति निर्दिशेत् १२ शतमस्याः सूतग्रामणीनां दुहितरोऽनुचर्यस्तास्तं प्रत्यभिमेथेयुर्यद्देवासो ललामगुं प्रविष्टिमिनमाविषुरिति निर्दिशेयुः १३ सक्थ्ना देदिश्यते नारी सत्यस्याक्षिभुवो यथेति १४ अप उपस्पृश्य वामदेव्यं गीत्वा तस्यर्चोऽनुजपेयुः १५
इति द्राह्यायणश्रौतसूत्रे सप्तविंशे पटले द्वितीयः खण्डः २

27.3 तृतीयः खण्डः
स्वाहाकृतिभिश्चरिते पूर्वेण सद उपविश्य ब्रह्मोद्यं वदेयुः १ होत्राध्वर्युणा चोक्ते ब्रह्मा पृच्छेदुद्गातारं पृच्छामि त्वा चितये देवसख यदि त्वमत्र मनसानुवेत्थ येषु विष्णुस्त्रिषु पदेष्वस्थात्तेषु विश्वं भुवनमाविवेशाऽऽइति २ तं प्रतिब्रूयादपि तेषु त्रिषु पदेष्वस्मिन् येषु विश्वं भुवनमाविवेश सद्यः पर्येमि पृथिवीमुत द्यामेकेनाङ्गेन दिवो अस्य पृष्ठमिति ३ उद्गाता पृच्छेद्ब्रह्माणं किंस्विदन्तःपुरुष आविवेश । कान्यन्तः पुरुष अर्पितानि । एतद्ब्रह्मन्नुपवहलामसि । त्वा किंस्विन्नः प्रतिवोचाम्यत्रेति ४ तं प्रतिब्रूयात् पञ्चस्वन्तः पुरुष आविवेश । तान्यन्तः पुरुष अर्पितान्येतत्त्वात्र प्रतिमन्वानो अस्मिन्न मायया भवस्युत्तरोमदिति ५ सर्वे यजमानं पृच्छेयुः । पृच्छामस्त्वा वृष्णोऽश्वस्य रेतः । पृच्छामो वाचः परमं व्योमेति ६ तान् प्रति ब्रूयादियं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः । अयं सोमो वृष्णो अश्वस्य रेतः ब्रह्मायं वाचः परमं व्योमेति ७ तस्य दक्षिणाः सहस्रं प्रथमेऽहनि दद्यात्तथोत्तमे ८ मध्यमेऽहन्येकजनपदे यदब्राह्मणानां वित्तं तद्दद्यात् ९ विजितस्य वा मध्ये यजेत १० प्राचीं होत्रे दिशं दद्याद्दक्षिणां ब्रह्मणेऽध्वर्यवे प्रतीचीमुदीचीमुद्गात्रे ११ यदन्यत्क्षेत्राच्च पुरुषेभ्यश्चेत्युभयोर्विचारयोः १२ यावद्वा ब्रूयुर्नेतो भूय इच्छाम इति १३ अष्टाचत्वारिंशं शतं वा सहस्राणि मध्यतः कारिभ्यः दद्यादेकैकस्मै चतुर्विंशतिमर्द्धिनीभ्यो द्वादश तृतीयिनीभ्यः षट् पादिनीभ्यः १४ अवरार्ध्या॑ एताः कामं तु भूयसीर्दद्यात् १५ तस्य विकल्पाः १६ एतान्येव पञ्चदशस्तोमान्यहानि कल्पयेत् १७
इति द्राह्यायणश्रौतसूत्रे सप्तविंशे पटले तृतीयः खण्डः ३

27.4 चतुर्थः खण्डः
स पतन्तकोऽश्वमेधः १ तस्याद्यबहिष्पवमाने वैष्णवीरनुष्टुभस्तिस्रश्चतुर्धाकारमावपेत् २ पूर्वस्मिन् दृष्टान्ताद्यद् वैष्णव्यस्तिस्रश्चतस्र इति ह्याह ३ अयुक्ष्वसंभवात्तु गायत्रीः पवमानीरावपेत् ४ प्राकृतौ दृष्टान्तात्तद्धि कारणम् ५ समर्थं च यद्वैष्णव्यस्तिस्रश्चतस्र इत्यादौ करणात् ६ सर्वं वा बहिष्पवमानं गायत्रीषु ७ चतुष्टोम कारितो हि व्यूहः ८ अर्द्धमासमश्वं चारयित्वैतेन त्यजेत ६ ज्योतिष्टोमो वै तस्यातिरात्रस्तृतीयमहः स्यात्तेन मासम् १० गौर्वा तेन त्रीन् ११ आयुर्वा तेन षट् १२ प्राकृतस्य वैतेषामह्नां किंचित्तृतीयमहः स्यात् १३ विश्वजिदभिजिद्र्हताप्तोर्य्यामाणां वातिरात्राणामेव १४ तेषां स्तोमचोदनैव स्याद्यथा चतुष्टोमसर्वस्तोमयोः १५ द्विरात्रत्रिरात्रेषु च तन्त्रविलोपो न विद्यते । ब्राह्मणशब्दसामर्थ्यात् १६ तेनैव जगती कृता ताभ्यां द्विरात्रमतन्वतां तमेतैः सामभिरभिषज्यन्नित्येतद्वै त्रिरात्रमकर्यदेतानि रूपाण्यन्वहमाज्यदोहानि १७ असंचारान्निकायित्वाच्च १८ अस्तीव त्रिरात्रस्य प्रथममहरस्तीवोत्तमम च्छिद्रमिव मध्यत इति चान्वयदर्शनात् १६ प्राकृतास्त्वेव स्युः । कृतलक्षणा हि पुरस्ताच्चोद्यन्ते २० यथा व्रतवति पञ्चरात्रे षडहनवाहयोरायुष्कामस्यैन्द्रे च सप्तरात्रे २१ प्रत्यक्षविकारात् स्तोमचोदना यथा चतुष्टोमसर्वस्तोमयोः २२ वचनात्तन्त्रलोपो यथाजामि कल्पः सर्वस्वारे २३ चतुष्कप्रभृतयश्चतुरुत्तरा अष्टाचत्वारिंशान्ताः प्रथमस्याह्नः स्तोमाः स्युरिति लामकायनः २४
इति द्राह्यायणश्रौतसूत्रे सप्तविंशे पटले चतुर्थः खण्डः ४

27.5 पञ्चमः खण्डः
स गोविनतोऽश्वमेधः १ एवं सर्वच्छन्दोमं प्रथममहः सर्वपशुमध्यमं सर्वस्तोममुत्तमम् २ षडधिका विराट् ३ तां चेच्चिकीर्षेत्त्रिणवमुक्थमेकविंशं कुर्यात् ४ स्तोमप्रत्यवरोहान्नैवं शाण्डिल्यः ५ अश्वमेधेनेष्ट्वा संवत्सरमृतावृतौ षड्भिः षड्भिः पशुबन्धैर्यजेताग्नेयैरैन्द्रैर्मारुतैः पार्जन्यैर्वा मैत्रावरुणैरैन्द्राबार्हस्पत्यैरैन्द्रावैष्णवैरिति ६ त्रयोदश्यां त्वपरपक्षस्य दीक्षेत जामदग्न्याय तस्य विंशतिर्दक्षिणा द्वादशोपसदः ७ तत्रोपसत्सु पृथग्घोमानध्वर्युर्जुहुयात् पुरोडाशांस्त उक्ता ब्राह्मणेन ८ समानदेवतौ पूर्वाह्णापराह्णयोः ९ अग्नेर्वैर्होत्रमित्येतत्प्रभृतय एषां होमाः १० तस्यावभृथादुदेत्य द्वादशाहमिष्टिभिर्यजेत ११ तास्वेत एव प्रतिलोमाः पुरोडाशाः १२ वसिष्ठस्य जनित्रे भवत इति संसर्पत्सु चतुर्थेऽहनि बृहत्यनुष्टभोः पृथगनुपूर्वमनुकल्पयेत् १३ चतुर्थं हि जनित्रस्थानम् १४ राथन्तरबृहत्योर्वा सच्छन्दस्त्वात् १५ वासिष्ठं प्रजननोक्तं च रथन्तरम् १६ बार्हतयोरित्येके १७ तयोर्विकल्पः स्यादार्षेयकल्पेन १८ पञ्चशारदीये पशुबन्धैर्यजेत । त उक्ता ब्राह्मणेन १९ सप्तम्यामष्टम्यां वाश्वयुजि पक्षस्य २० वत्सतरीरालभेरन्नुक्ष्णो विसृजेयुः २१ तेषां यावन्तो भ्रेषमापद्येरंस्तावतोऽन्यानयजुष्कृतानपि सृजेत् तथारूपांस्तद्वर्षान् २२ षष्ठ्यां शरदि कार्तिके मासि यजेत । तस्य द्वादशोपसदः २३
इति द्राह्यायणश्रौतसूत्रे सप्तविंशे पटले पञ्चमः खण्डः ५

27.6 षष्ठः खण्डः
परयोः षड् रात्रयोर्द्वितीयेऽहनि पार्थं गौतमः समूहात् १ संचारप्रसङ्गाच्च पौण्डरीके २ वासिष्ठं शाण्डिल्योऽप्रयोगात षष्ठे ३ संचाराच्च समूढरूपिणि ४ तृतीये षड्रात्रे पञ्चमस्याह्नः प्रत्यवरोहीण्युक्थानि स्युरित्याचार्याः ५ अभ्यासङ्गो ह्यत्र यथा देवानां पञ्चरात्रे ६ त्रिणवानि वानुक्तत्वात् ७ रात्रिकारितः स्तोमः प्रत्यवरोह इति गौतमः ८ सवनशेषत्वादुक्थानि त्रयस्त्रिंशान्येव स्युरिति ९ सप्तरात्राणां प्रथमस्यातिरात्रे पञ्चविंशान्यहस्तोमत्वात् १० एकविंशानि तु ज्योतिष्टोमप्रदेशात् ११ स्तोमान्वयीनीति सप्तदशानि स्युरधिकारात् १२ यथा च स्तोमान्वयी षोडशीत्येकविंशः १३ एकविंशानि प्रकृतिस्तोमान्वयात् १४ पञ्चविंशानि शौचिवृक्षिस्त्रिणवं वाद्यं षोडशिना च स्तोमान्वय इति १५ पौण्डरीकचतुर्थे षोडशिषष्ठाभावाद्यथा क्षुल्लकजामदग्न्ये १६ क्रियमाणे चैकविंशे स्वाराज्योक्तानां बृहतीनामेकविंशं शतं क्रतुः १७ अषोडशिकेन तु प्रदेशो न स्यात् १८ विराडपाये चापैत्यन्यासु वा १६ अनपायात् क्षुल्लकजामदग्येन २० संपदचोदिता २१ उपपन्ना च दशरात्रे २२ क्लृप्तश्च षट्त्रिंशःषट्शतं हि बृहत्यः २३ चतुष्टोम इति ज्योतिष्टोमसंस्थानियमात् २४ प्रकृतिप्रत्ययाद्विशये २५ गुणात्तु पूर्वं चातुष्टोम्यं तस्मिन्नपूर्वं पशुकामयज्ञे २६ तत्प्रत्यये न्यायो विशये २७ अग्निष्टोमसामैकतृचे संस्थानियमात् २८ चतुर्षु नाग्निष्टोम इति वचनात् २९ यथा चाश्वत्रिरात्रे ३० सर्वेष्वत्यग्निष्टोमस्थानकल्पनादिति वचनादाचार्याः ३१ न तथाश्वत्रिरात्रः ३२ अनादेशे प्रकृतेः ३३ द्वादशस्तोत्रत्वादग्निष्टोमः इति ३४ अहीनयाजनं न कार्यम् । बह्वृचतैत्तिरीयकब्राह्मणे हि निन्दा ३५ अहिर्ह्येनमेष भूत्वा यज्ञक्रतुर्गिरति । योऽहीनेन याजयतीति ३६ विधेस्तु याजनम् ३७ ज्येष्ठं ज्यैष्ठिनेयमभिचर्यमाणं चित्ररथं कापेया इति च ब्रुवन्न दोषमाह ३८ यथा ये मृताय कुर्वन्तीति ३६ उभयोरार्ध्नुवनृत्विग्यजमाना इति ब्राह्मणम् इति ब्राह्मणम् ४०
इति द्राह्यायणश्रौतसूत्रे सप्तविंशे पटले षष्ठः खण्डः ६