कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्
अध्यायः २६
कात्यायनः
प्रवर्ग्यनिरूपणम्

दीक्षासु महावीरान्त्सम्भरति १ अन्तःपात्यदेशे सम्भारान्निदधाति २ मृदं वल्मीकवपां वराहविहतं पूतीकानजापयो गवेधुकाः कृष्णाजिनमभ्रिं चोत्तरतः ३ देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वाऽरत्निमात्रीं सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति ४ मृदमादत्ते पिण्डवद्देवी द्यावापृथिवी इति ५ कृष्णाजिने निदधात्युत्तरतः ६ देव्यो वम्र्य इति वल्मीकवपाम् ७ इयत्यग्र इति वराहविहतम् ८ इन्द्रस्यौजस्येति पूतीकान् ९ मखायेति पयः १० तूष्णीं गवेधुकाः ११ सम्भृतानभिमृशति मखायेति १२ कृष्णाजिनं परिगृह्योत्तरतः परिवृतं गच्छन्ति प्रैतु ब्रह्मणस्पतिरिति १३ परिवृते निदधाति सम्भारानुद्घतावोक्षिते सिकतोपकीर्णे प्राग्द्वारे मखायेति १४ सम्भारैः संसृजाति मखायेति १५ मृदमादाय मखायेति महावीरं करोति प्रादेशमात्रमूर्द्ध्वमासेचनवन्तं मेखलावन्तं मध्यसंगृहीतमूर्द्ध्वं मेखलायास्त्र्! यङ्गुलम् १६ निष्ठितमभिमृशति मखस्य शिर इति १७ आदानमेके १८ एवमितरौ प्रतिमन्त्रम् १९ स्रुक्पुष्कराकृती पिन्वने रौहिणकपाले परिमण्डले मृदमुपशयान्निदधाति २० गवेधुकाभिः श्ल-क्ष्णयति मखायेति प्रतिमन्त्रम् २१ अश्वशकृता धूपयत्यश्वस्य त्वेति प्रतिमन्त्रम् २२ उखावदग्निः प्रदहनं च मखायेति प्रतिमन्त्रम् २३ पक्वानुद्घरत्यृजवे त्वेति प्रतिमन्त्रम् २४ अजापयसावसिंचति मखायेति प्रतिमन्त्रम् २५ तूष्णीं पिन्वनादीनां करणाभिमर्शनश्लक्ष्णनधूपनप्रदहनो-द्घरणावसेचनानि २६ १ 26.1


उपयमनी.

उपसदा चरिष्यंश्चरिष्यन्प्रवर्ग्येण चरति सप्रवर्ग्ये १ अपिहितद्वारे प्र-वर्ग्यचरणम् २ पत्न्यदर्शनम् ३ अननूक्तिभिश्च ४ यावदुक्तम् ५ परिघर्म्य-मौदुम्बरम् ६ मौञ्जं त्रिवृद्र ज्जव्यम् ७ बाल्वजं विवानमासन्द्यौदुम्बर्यास्कन्धमात्र्याः ८ पूर्वेण गार्हपत्यं प्राचः कुशानास्तीर्य्य पात्रासादनं द्वन्द्वम् ९ उपयमनीं महावीरं परीशासौ पिन्वने रौहिणकपालौ रौहि-णहवन्यौ च स्रुचावनुत्कीर्णे स्थूणामयूखं घृष्टी शतमाने मुंजप्रलवान्वि-कङ्कतशकलान्विंशतिं प्रादेशमात्रान् स्रुवं मुंजवेदं धवित्राणि परिधींश्च रज्जुसन्दानमासन्दीं कृष्णाजिनमभ्रिं सिकताः खरार्था अर्थवच्च १० प्रोक्षणीः संस्कृत्योद्यम्योत्थायाह ब्रह्मन्प्रचारिष्यामो होतरभिष्टुहि प्रस्तोतः सामानि गायेति ११ ब्रह्मानुज्ञातो यमाय त्वेति महावीरं प्रोक्षति १२ प्रतिमन्त्रं वा वाक्यभेदात् १३ परिधर्म्यं च तूष्णीम् १४ पूर्वया द्वारा स्थूणामयूखं निर्हृत्य दक्षिणतो निखनति होतुः सन्दर्शने १५ गार्हपत्याहवनीया उत्तरेण खरौ निवपति । दक्षिणतोऽनुभित्त्युच्छिष्टखरम् १६ पूर्वेणाहवनीयं सम्राडासन्दीं पर्याहृत्य दक्षिणतः प्राचीमासादयति राजासन्द्या उत्तरतः । कृष्णाजिनमस्यामास्तृणाति । तस्मिन्नभ्युपशये निदधाति । महावीरौ चावच्छादयेद्वा १७ अन्यो वा परिघर्म्ययोजनमध्वर्योः कालसम्पत्तेः १८ अंजन्तीत्युच्यमाने देवस्त्वेत्यनक्ति महावीरमाज्यं संस्कृत्य १९ रजतशतमानं खर उपगूहति पृथिव्याः संस्पृश इति २० २ 26.2

शुक्रं गायेति प्रेष्यति १ पत्नी शिरः प्रोर्णुते २ संसीदस्वेत्युच्यमाने मुंज-प्रलवान् द्विगुणानादीप्य प्रतिदिशं खरे करोति ३ तेषु महावीरमाज्य-वन्तमर्चिरसीति ४ अनाधृष्टेति वाचयति प्रादेशमध्यधिधारयन्तम् ५ प्रतिदिशमेके ६ विश्वाभ्यो मेति दक्षिणत उत्तानं पाणिं निदधाति ७ मनोरश्वेति प्रादेशमुत्तरतः ८ धृष्टिभ्यां भस्मना परिकीर्याङ्गारैश्च विकङ्कत-शकलैः परिश्रयति त्रयोदशभिः प्रागुदग्भिः स्वाहा मरुद्भिरिति ९ अधिकं दक्षिणतो द्वौ मन्त्रेण सुवर्णशतमाने वापिदधाति दिवः संस्पृश इति १० ३ 26.3

धवित्र होमम्

चन्द्रङ्गायेति च प्रेष्यति १ कृष्णाजिनावकृत्तैर्द्धवित्रैरुपवाजयति त्रिभिर्दण्डवद्भिर्मधुमध्विति २ एकं प्रयच्छति प्रतिप्रस्थात्रेऽपरमग्नीधे धून्व-न्तस्त्रिस्त्रिः परिक्रामन्ति पितृवद्देववच्च ३ रुचिते वोत्तरम् ४ अर्चिषि प्राप्ते सुवर्णशतमानं निधायाज्येन महावीरं परिषिंचति स्रुवेण प्रतिप्रणवम् ५ रौहिणावधिश्रयति तूष्णीं ग्रामपिष्टानाम् ६ आज्यधर्माः स्थानापत्तः ७ औषधधर्मा वा संस्कारशब्दात् ८ ईडे द्यावापृथिवी इत्युच्यमाने परिधीन्परिधाय रौहिणौ उद्वास्य स्रुचोरासादयत्याहवनीयाद्दक्षिणोत्तरौ ९ अप्नस्वतीमित्युच्यमाने रुचितो घर्म इत्याहोपोत्तिष्ठन्घर्मस्य तन्वौ गायेति प्रेष्यति १० परिक्रम्योपोत्तिष्ठन्तेऽकृन्तं चेद्गर्भो देवानामिति ११ अपोर्णौति पत्नी शिरः १२ त्वष्टृमन्त इत्येनां वाचयति महावीरमीक्षमाणाम् १३ अहः केतुनेति दक्षिणं रौहिणं जुहोति मन्त्रक्रमेणोत्तरम् रात्रिरिति सायम् १४ ४ 26.4

देवस्य त्वेति रज्जुसन्दानमादायेड एहीति गामाह्वयति नाम्ना च त्रिरुच्चैरपरेण गार्हपत्यं गच्छन् १ धेनुं गायेति प्रेष्यति २ अदित्यै रास्नेति गां पाशेन प्रतिमुच्य स्थूणायां बध्वा पूषासीति वत्समुत्सृजति ३ सन्दाय घर्माय दीष्वेति वत्समुन्नयति ४ अश्विभ्यां पिन्वस्वेति पिन्वने दोग्धि ५ स्वाहेन्द्रवदिति विप्रुषोऽभिमन्त्रयते ६ यस्ते स्तन इति स्तनमालभते ७ एवं प्रतिप्रस्थाताऽजां मयूखे तूष्णीम् ८ पयो गायेति प्रेष्यति ९ उत्तिष्ठ ब्रह्मणस्पत इत्युच्यमाने उपोत्तिष्ठति १० उपद्रव पयसेत्युच्यमाने गच्छत्युर्वन्तरिक्षमिति ११ परीशासावदत्ते गायत्रम् छन्दोऽसीति प्रतिमन्त्रम् १२ वशिष्ठशफौ गायेति प्रेष्यति १३ ताभ्यां महावीरं प्रतिगृह्णाति द्यावापृथिवीभ्यां त्वा परिगृह्णामीति १४ उद्यम्य मुंजवेदेनोपमृज्योपय-मन्योपगृह्णात्यन्तरिक्षेणोपयच्छामीति १५ अजापयसावसिच्य शान्ते गोः पयोऽवनयतीन्द्राश्विनेति १६ प्रैतु ब्रह्मणस्पतिरिप्युच्यमाने समुद्राय त्वेति वातनामानि जपति गच्छन्नाहवनीयम् १७ ५ 26.5

स्वाहा घर्मायेत्युपयमन्यासिंचति घर्मे १ स्वाहा घर्मः पित्र इति जपित्वातिक्रम्याश्राव्याह घर्मस्य यजेति २ वषट्कृते जुहोति विश्वा आशा इति ३ दिवि धां इति त्रिरुत्कम्पयति ४ स्वाहाग्नय इत्यनुवषट्कृते ५ अश्विना घर्ममिति ब्रह्मानुमन्त्रयते ६ अपातामिति यजमानः ७ इषे पिन्वस्वेति पिन्वमानममुमन्त्रयते ८ घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम् ९ अमेन्यस्मे इति खरे करोति १० विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम् ११ हुत्वा हुत्वा प्रथमपरिधा उपश्रयति १२ चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति १३ सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति १४ तं स उत्तरतः शालाया उदंचं निरस्यति १५ स्वाहा सं ज्योतिषेत्युपयमन्यामासिंचति घर्म्यम् १६ रौहिणं जुहोति १७ उपश्रितानि च प्रहरति १८ अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति १९ उच्छिष्टखरे प्रक्षाल्योपयमनीं निदधाति अत्र वोपश्रितप्रहरणं संसाद्यमानायानुवाचयति २० संसाद्य-मानेभ्य इत्येके २१ सूयवसाद्भगवतीत्युच्यमाने यवसोदके धेनवे प्रय-च्छन्त्येके २२ सर्वमासन्द्यां करोति २३ अभीममिति महावीरम् २४ सकृदासादनप्रोक्षणे खरस्थूणामयूखकृष्णाजिनाभ्र्युपशयासन्दीनाम् २५ आवृत्तिर्वा प्रधानकालत्वात् २६ ६ 26.6

उपसदन्ते प्रवर्ग्योत्सादनम् १ अन्तःपात्ये परिघर्म्य निधाय दक्षिणेन निर्हृत्योच्छिष्टखरम् २ आहवनीये त्रींच्छालाकान् प्रदीप्य प्रदीप्याग्नीध्रो धारयति शतरुद्रि यवत्प्रतिलोमं प्रमाणेषु । चतुर्गृहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम् ३ प्रास्य तृतीयमुपविश्य ४ क्षत्रस्य त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय ५ साम प्रेष्यत्यवमृथवद्देशाः ६ निधनं च ७ उत्सादनदेशं गच्छन्त्यनग्ना उत्तरवेदिम् ८ त्रिः परिषिच्या-चिक्रददिति ९ मन्त्रक्रमेण वा १० नाभिस्पृशं प्रवृंजनीयं निदधाति चतुः-सूक्तिरिति ११ प्रांचावितरौ १२ उपशयां च तूष्णीम् १३ परीशासावभितः १४ रौहिणहवन्यौ चावकृष्टे बाह्ये १५ अभ्रिमुत्तरत आसन्दीं दक्षिणतः कृष्णाजिनमुत्तरतः सर्वतो धवित्राणि परिधींश्च रज्जुसन्दानं वेदमुपयम-न्यामाधाय पश्चात् १६ पश्चात्पिन्वने चाभितो दण्डम् १७ स्थूणामयूखंपश्चात् १८ रौहिणकपाले च १९-२० मध्येऽन्यत् २१ खरा उत्तरतः । दक्षिणतो मार्जालीयदेशं बहिर्वेद्युच्छिष्टखरम् २२ आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति २३ शेषं व्रतमिश्रं दीक्षिताय प्रयच्छति २४ प्रत्तं चेत्केवलम् २५ अत्र वा परिषेचनम् २६ वार्षाहरेष्टाहोत्रीये सामनी गायेति प्रेष्यति २७ चात्वाले मार्जयन्ते सपत्नीका सुमित्रिया न इति । उद्वयमित्युक्राम-त्युत्तरपूर्वार्धमनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति स-मिदसीति पत्नी च गार्हपत्ये तूष्णीम् प्रवृञ्जनीयौ शतमानौ ब्रह्मणे ददाति २८ घर्मदुघामध्वर्यवे । यजमानव्रतदुघां होत्रे । पत्न्या उद्गात्रेऽग्नीधेऽजाम् २१ घर्मभेदे यथोक्तम् ३० उखावच्चान्यं कुर्यात् ३१ अभिन्नेन चरेत् ३२ स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति ३३ प्रजापतिः संभ्रियमाण इति च यथाकालम् ३४ सविता प्रथमेऽहन्निति च प्रत्यहम् ३५ अवकाश्यस्य प्रवृञ्जयात् ३६ न प्रथमयज्ञे ३७ यावती द्यावापृथिवी इति दधिघर्मग्रहणं मयि त्यदिति भक्षणम् ३८ त्विषः संवृगिति महाव्रतीये ३९ चात्वाले मार्जनम् ४० शान्तिकरणमाद्यन्तयोः । स्वाध्यायदर्शनात् ४१-४२ 26.7

इति कात्यायनश्रौतसूत्रम्